२७

अतः परं प्रवक्ष्यामि ततः कलकवाद्यकम् ।
ततस्सङ्कलसंवाद्यं कृत्वा चैव प्रदक्षिणम् ॥

द्वितीयं जलमाश्रित्य तृतीयं नटमारभेत् ।
चतुर्थं पञ्चनाट्यञ्च पञ्चमं कर्मनाट्यकम् ॥

आलीटञ्च तृतीयन्तु प्रत्यालीटञ्चतुर्थकम् ।
पञ्चमं शयनञ्चैव पञ्चनाट्यमिति स्मृतम् ॥

अष्टबन्धं तथा कृत्वा अङ्गुष्ठाकुञ्चितं भवेत् ।
कनिष्ठाङ्गुलि तर्जन्यो कवचमुद्रा विधीयते ॥

पूर्वस्यान्तु दिशिशस्त्रं पूर्वस्यां दिशि दैवतम् ।
पूर्वस्यां तु दिशि ब्रूहि मे मातृपुत्रकम् ॥

प्। ११७)

पूर्वस्यां दैवतं कृत्वा इत्येते दैवतं भवेत् ।
ब्राह्मणस्य कुलं वृद्धि आपश्चाञ्जलिना हरेत् ॥

दक्षिणस्यां दिशिमन्त्रं दक्षिणस्यां दिशिदैवतम् ।
दक्षिणस्यां दिशिब्रूहि ब्रूहि मे मातृपुत्रकम् ॥

यदेव दक्षिणस्यास्तु यमो वै दैवतं भवेत् ।
क्षत्रियस्य कुलं वृद्धि आपश्चाञ्जलिना हरेत् ॥

पश्चिमायां दिशिमन्त्रं पश्चिमादिशिदैवतम् ।
पश्चिमायां दिशिब्रूहि ब्रूहि मे मातृपुत्रकम् ॥

पश्चिमे वरुणन्देवं दैवं तत्र प्रकीर्तितम् ।
वैश्यानान्तु कुलं वृद्धि आपश्चाञ्जलिना हरेत् ॥

उत्तरस्यां दिशिमन्त्रम् उत्तरादिशि दैवतम् ।
उत्तरस्यान्दिशि ब्रूहि ब्रूहि मे मातृपुत्रकम् ॥

उत्तरस्यान्तु तद्दैवं कुबेरो दैवतं भवेत् ।
शूद्रस्येव कुलं वृद्धि आपश्चाञ्जलिना हरेत् ॥

एकाध्यायां दिशामन्त्रम् ऊर्ध्वायां दिशिदैवतम् ।
एकार्धायान्दिशि ब्रूहि ब्रूहि मे मातृपुत्रकम् ॥

एकध्वान् दिशि देवास्तु सर्वदेव समाहितम् ।
मातॄणां कुलवृद्ध्यर्थम् आपश्चाञ्जलिना हरेत् ॥

अधस्ताच्च दिशामन्त्रम् अधस्ताद् दिशि दैवतम् ।
अथस्ताद्दिशि च ब्रूहि ब्रूहि मे मातृपुत्रकम् ॥

प्। ११८)

एकोर्ध्वा दिशिदेवास्तु सर्वदेव समाहिता ।
मातॄणां कुलवृध्यर्थम् आपश्चाञ्जलिना हरेत् ॥

अधस्ताच्च दिशामन्त्रम् अधस्ताद् दिशि दैवतम् ।
अधस्ताद्दिशि च ब्रूहि ब्रूहि मे मातृपुत्रकम् ॥

अधस्ताच्चैव यद्दैवं विष्णुश्चैव तु दैवतम् ।
पृथ्वी सर्वे गणाश्चैव आपश्चाञ्जलिनाहरेत् ॥

चतुरश्रं मण्टपं कृत्वा चतुर्द्वारोपशोभितम् ।
पूर्वे विद्याधरञ्चैव दक्षिणे गरुडन्तथा ॥

पश्चिमे मण्डलमेवोक्तम् उत्तरं पिङ्गलं भवेत् ।
एवं मुखावधा मुद्रा घण्टाशब्दं प्रयोजयेत् ॥

खड्गमुष्टिस्तथाचार्यः खड्गेन परिवेष्टितम् ।
पूर्वस्यान्तु दिशि कृत्वा नाट्यञ्चैव प्रयच्छति ॥

दिशामुद्रा दिशानाट्यं चतुराचार्य व्यवस्थितम् ।
आलीढञ्चैव स्थानञ्च पद्ममुद्रा तथैव च ॥

दक्षहस्तं शिखाद्यन्तु वामपाद घृतं भवेत् ।
दक्षपादं पादनाप्यं वामहस्तं घृतं भवेत् ॥

यक्षोगणफणञ्चैव पूर्वस्यां द्वारपालकौ ।
सुमुखो कालदण्डश्च दक्षिणद्वारपालकौ ॥

सकलः कुम्भकर्णश्च उत्तरद्वारपालकौ ।
ऐरावत कुशञ्चक्रन्धनुर्बाणन्तथैव च ॥

प्। ११९)

वज्रश्च मुद्ररञ्चैव पाशञ्चैव तथा भवेत् ।
एते मुद्रा समाख्याता ऐन्द्रे चैव दिशि क्रमात् ॥

धूपो वेदिस्तथा मुद्रा अग्निकुण्डहृदं भवेत् ।
प्रोढाशं प्रणवञ्चैव आग्नेयान् दिशि मुद्रया ॥

कूपोदण्डस्तथा पाशं शार्वलीनरकस्तथा ।
वेताली महिषञ्चैव थाम्पायान् दिशि मुद्रया ॥

वासं भलं भिण्डि पालञ्च मुद्गरन्तोमरन्तथा ।
कुन्तञ्चापि विजानीयान्नैर्-ऋत्यान् दिशि मुद्रया ॥

गतापरङ्गसङ्घोषं विमानं पद्ममेव च ।
पूर्ण कुम्भञ्च कमलं भूतलेग्नि प्रदक्षिणम् ॥

हृदयं स्पृष्टमात्रञ्च भूमिमुद्रा प्रकीर्तिता ।
तद्वच्च सोमसूर्यश्च ग्रहनक्षत्र तारकाः ॥

ब्रह्मा च सप्तर्षय ऊर्ध्वायान् दिशि मुद्रया ।
जटामकुटधारञ्च त्रिणेत्रं नागभूषणम् ॥

त्रिशूलं परशुं पालं खट्वाङ्कं चाष्टमं भवेत् ।
वीरेश चागमुद्रा च सर्वकामार्थ साधकाः ॥

अक्षसूत्रञ्च पद्मञ्च कमण्डलुं कुशमेव च ।
दण्डं कृष्णाजिनञ्चैव उपवीतन्तु हंसकम् ॥

ब्रह्माणी चाङ्गमुद्रा च सर्वकर्मार्थ साधकः ।
शूलं परशुमृगञ्च नाग-ऋषभमेव च ॥

प्। १२०)

गजचर्म जटाचैव व्याघ्रचर्मन्तथैव च ।
वामेशी चाङ्गमुद्रा तु सर्वकर्मार्थ साधकः ॥

वज्रं शक्तिञ्च घण्टा च प्रही कुक्कुटमेव च ।
उभयञ्चोपवीतञ्च इष्टिमुसलमेव च ॥

कौमारी चाङ्गमुद्रा च सर्वकामार्थ साधकः ।
पद्मञ्च नवमाला च गरुडञ्चाष्टमं भवेत् ॥

वैष्णवी चाङ्गमुद्रा तु सर्वकामार्थ साधकः ।
दंष्ट्रं दण्डहलञ्चैव वाराही महिषन्तथा ॥

खड्गञ्चक्रं गदा चैव वाराही चाङ्गमुद्रिका ।
वज्रं गदां तथा शक्ति धनुनाराचमेव च ॥

तोमरं भिण्टपालञ्च वलयञ्चाष्टमं भवेत् ।
इन्द्राणी चाङ्गमुद्रा तु सर्वकामार्थ साधकः ॥

शूलं खड्गधनुश्चैव शरं खेटकमेव च ।
कट्वाङ्गञ्च कपालञ्च घण्टाडमरुकन्तथा ॥

चामुण्डी चाङ्गमुद्रा तु सर्वकामार्थ साधकः ।
गजाननं गजकरं गजदन्तं बृहोदरम् ॥

अक्षसूत्रञ्च कबलं कूर्चशाषकमेव च ।
गणेशश्चाङ्ग मुद्रा तु सर्वकामार्थ साधकः ॥

इति ब्रह्मयामले शतसहस्रसंहितायां मुद्रालक्षणविधिर्नाम
सप्तविंशत्पटलः ॥ २७ ॥