अतः परं प्रवक्ष्यामि मण्डलविधिमुत्तमम् ।
मण्डलं सर्वकामार्थं सर्वलोकहितावहम् ॥
मातृशान्तिञ्च योगञ्च बलिकर्मणि लिख्यया ।
नवहस्ताष्टहस्तन्तु सप्तहस्तन्तु चोत्तमम् ॥
पञ्चहस्तञ्चतुर्हस्तं मध्यमं मण्डलं तथा ।
त्रिद्वेकोन हस्तन्तु कनिष्ठं मण्डलं भवेत् ॥
उत्तमं मण्डलं विप्रो मध्यमं नृपवैश्यकम् ।
अधमं मण्डलं शूद्रो सर्वेषां मण्डलायुतम् ॥
प्। ११३)
देवाया येषु सन्धेषु आचार्यस्तत्र लङ्घयेत् ।
पूर्वे तु चोत्तराग्रन्तु पूर्वोक्तं दक्षिणेन च ॥
पश्चिमे चोत्तराग्रे तु पूर्वाग्रञ्चोत्तरेण च ।
पूर्वञ्च दक्षिणञ्चैव पश्चिमञ्चोत्तरन्तथा ॥
चतुर्द्वारन्तु कूर्वीत चतुर्दिक्षु च मध्यमे ।
रक्षोहण फलञ्चैव पूर्वद्वाराधिपालकौ ॥
आग्रेय्यां ज्वालिनी देवी नैर्-ऋत्यां विषुकर्णिनी ।
वायव्यां घातकी देवीमैशान्यामीश्वरी तथा ॥
बाह्यावरणमालिख्य सप्तमं परिवर्धते ।
इन्द्रश्चाग्नि यमश्चैव निर्-ऋतिर्वरुणस्तथा ॥
वायुश्चैव तु सोमश्च ईशानश्चाष्टदेवताः ।
इन्द्राग्निश्च द्वर्योर्मध्ये अश्विनौ कलयेत् क्रमात् ॥
आग्नेय यमयोर्मध्ये पितृस्थानं प्रकल्पयेत् ।
यमनैर्-ऋतयोर्मध्ये यक्षांश्चैव तु विन्यसेत् ॥
निर्-ऋतिर्वरुणयोर्मध्ये रक्षसां चैव विन्यसेत् ।
वरुणवायव्ययोर्मध्ये ऋषिस्थानं प्रकल्पितम् ॥
वायुसोमकयोर्मध्ये सर्पान्वष्टौ प्रकल्पयेत् ।
सोमकैशानयोर्मध्ये रुद्रैकादशविन्यसेत् ॥
इन्द्र ईशानयोर्मध्ये सोमस्तत्राधि देवता ।
अष्टमं परिवर्तन्ते देवतास्थानमुत्तमम् ॥
प्। ११४)
विमली च तथा भद्री कालकण्ठी सुकण्ठिनी ।
लम्बिनी चोत्तमी चैव विकृतिश्शुद्धमोहिनी ॥
हाटकी च महाघोरी विरूपी तुङ्गदंष्ट्रिणी ।
विलासिनीविरूपाक्षी शङ्खचक्री चतुर्भुजी ॥
पञ्चमं परिवर्तन्ते पूर्वादीनि प्रदक्षिणम् ।
चण्डाचण्डमुखी चोग्री सिंहनादमहारवी ॥
द्वाकुटी भीमरूपी च आकाशीमन्दबुद्धिनी ।
लक्ष्मी च सत्यवादी च क्रोधिनी च तथैव च ॥
मनवी माधवी रुद्री चतुर्थं परिवर्तते ।
चक्री चैव हुताशी च याम्यानी भूतवारुणी ॥
वायवी चैव कौबेरी शङ्करीशूलहस्तिनी ।
कट्वाङ्गी चन्द्रधारी च चण्डधारी चकारिणी ॥
त्रिणेत्रं वीरभोगी च वेदरूपी तथैव च ।
वर्तन्ते यद् द्वितीयन्तु इन्द्रादीनि यथाक्रमम् ॥
ब्राह्म्यादि वीरविघ्नान्तम् इन्द्रादीशानमाचरेत् ।
वर्तन्ते चैव मध्ये तु योगेश्वरीं न्यसेत् ॥
बुधः काली चैव कराली च विराली च चतुर्दश ।
एतस्य तस्य मूर्तिस्तु मण्डलाभ्यन्तरे तु वै ॥
अन्यथा मण्डलं कुर्यात् तस्य पश्चिमपार्श्वतः ।
चतुर्हस्तप्रमाणन्तु विस्तारं लक्षणान्वितम् ॥
प्। ११५)
तन्मध्ये शूलं विन्यस्य पार्श्वे सीनि स पूत्रकम् ।
तद्बाह्ये नृत्तकास्थानं चतुर्दिक्षु च केलक ॥
नृत्तगेयञ्च वाद्यञ्च मुद्रामभिनयेद् बुधः ।
दिशमुद्रादिशानाल इन्द्राद्यैशानमुद्रया ॥
पूर्वायान्तु दिशि कृत्वा घोरं गच्छेच्छिवारुगम् ।
दक्षिणायां दिशि कृत्वा रौद्रघोर भयावहम् ॥
पश्चिमायां दिशि कृत्वा रोदनाङ्गुलि योजयेत् ।
उत्तरस्यां दिशि कृत्वा अर्कास्यञ्चैव योजयेत् ॥
रौद्रकलुकिलश्शब्दं घोरं कृत्वा शिवारुदम् ।
पूर्णकुम्भन्तु कमलं दर्शनं दण्डकासु च ॥
द्वारपालान्नमस्कृत्वा अर्चयित्वा यथाक्रमम् ।
ओङ्कारादि नमोन्तञ्च स्थापनमर्चयेद् बुधः ॥
स्वनामबन्धमध्यस्थं पूजयित्वा स्वमन्त्रवित् ।
वज्रं शृङ्खन्तु पातेन अग्निप्राकार एव च ॥
शैलं शूलञ्चतुर्बन्धं * * यशूलमुद्रया ।
ततोद्वाय्य नमस्कारं शूलमूले तथार्चयेत् ॥
घण्टाक्षुरिकखड्गादि गदान्तं सम्प्रदर्शयेत् ।
क्रियायां मन्त्रमुद्रा च बलिकर्म प्रयोजयेत् ॥
बलिना पतितं कुर्यात् आयुधे पतिते यदि ।
च्युतमानन्तु कुर्वीत पुनस्संस्कारमर्हति ॥
प्। ११६)
आचार्यो बलिमारभ्य अवसानञ्च कारयेत् ।
प्रमादानवधानानि रुधिरं गृह्यसाधकः ॥
दिशां बलिं प्रदत्वा तु आगछन्तु भैरवा ।
आज्ञाञ्चैव हितं कृत्वा हिंसा कर्ता च हिंसयेत् ॥
अथवा अजहिंसा च होमञ्चैव दिशाष्टकम् ।
पश्चाच्च चरुसम्पूज्य प्रायश्चित्तन्तु कारयेत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां मण्डलविधिर्नाम षड्विंशत्पटलः
॥ २६ ॥