ईश्वर उवाच ॥
उत्स्वान्ते च ग्रामान्ते पश्चात् स्नपनमाचरेत् ।
चूर्णस्नानं पुराकृत्वा दधिस्नानं तथा कुरु ॥
सर्वगन्धसमायुक्तं रजनचूर्णसंयुतम् ।
लूखलामुसलाश्चैव वस्त्रयुग्मेन वेष्टयेत् ॥
चूर्णयेन्मूलमन्त्रेण देशिकः पुत्रशालिनाम् ।
पूजयेत् तत्र आचार्यम् अङ्कुरेणैव चालङ्कृतम् ॥
चूर्णं सर्वं गृहीत्वा तु स्नपनं मूलविद्यया ।
पृथगीशीं ततः स्नात्वा पश्चान्मात्रसुपूजयेत् ॥
प्। १०९)
परिवारपिशाचाश्च योगपीठांश्च योगिनीम् ।
आचार्यं पूजयेत् पश्चात् यजमानं ततः कुरु ॥
पारम्पर्याश्च पुत्राश्च सर्वेभ्यो वा शिरस्य तु ।
नदीस्नानं ततः पश्चात् निन्दिक सुदिशि व्रजेत् ॥
तटाकञ्च प्रकर्तव्यं महादिषु समाहितम् ।
जलाश्रयं समागम्य तण्डुलं वालुकैः कुरु ॥
सर्वान्नकलशैस्थाप्य पश्चात् स्नपनमाचरेत् ।
गन्धपुष्पसमायुक्तमक्षतैश्चापि संयुतम् ॥
हृदयेन तु मन्रेण रक्षासूत्रं विसर्जयेत् ।
अलूपत्तानरास्सर्वे स्नानं कृत्वा समहितः ॥
दानं कृत्वा यथाशक्ति गोभूमी काञ्चनदिशि ।
दाने तीर्थे फले चैव स्वर्गलोकमवाप्नुयात् ॥
आलयं पुनरागम्य स्नानभोगं समारभेत् ।
पञ्चवर्णमलङ्कृत्य पद्ममष्टदले न्यसेत् ॥
कर्णिका केसरोपेतं गन्धादिभिरथार्चयेत् ।
तन्मध्ये न्यसेच्छैवीं गन्धपुष्पचरुन्ददेत् ॥
स्नपनं कारयेच्छैवीं शास्त्रदृष्टेन कर्मणा ।
चतुरश्रमण्डलं कृत्वा दशहस्तप्रमाणतः ॥
शालिभिस्तण्डुलं कृत्वा * * द्रोणेन बुद्धिमान् ।
अथवार्धमथाप्यर्थं पञ्चद्रोणेन वा पुनः ॥
प्। ११०)
तदर्धं मण्डलं ग्राह्य मध्ये पद्मं समालिखेत् ।
आयुधं वा सहस्रं वा तदर्धं वाप्यथार्धके ॥
अष्टोत्तरशतं वापि पञ्चाशीतिमथापि वा ।
मृण्मयं कलशं प्रोक्तं कालमण्डलवर्जितम् ॥
साधितान् क्षालितान् शुद्धान् गुग्गुलैश्चैव धूपितान् ।
सूत्रान्वा सूत्रसंयोक्तान् सकूर्चान्सापिधानकान् ॥
मण्टपं शोभितं कृत्वा वितानध्वजशोभिताम् ।
दर्भमाला परिक्षिप्तं पुष्पदामसुभूषितम् ॥
अषट्कससमायुक्तं फलपल्लवसंयुतम् ।
चामरैर्दर्पणैर्युक्तं घण्टाधूपसमन्वितम् ॥
पञ्चविंशाच्च कलशान् प्रधाना परिकीर्तितः ।
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं तिलोदकम् ॥
क्षीरं दधिघृतं चैव मधुनागुलमेव च ।
पुष्पोदक फलोदञ्च गन्धोदक कुशोदकम् ॥
काषायमृष्टवत्तोयं धातुवारि त्रिणोदकम् ।
शान्त्योदकरण्योदकं शान्त्योदकं तथैव च ॥
प्रियोकमिक्षुरसं लोहोदकमतः परम् ।
अष्टरत्नोदकञ्चैव पञ्चविंशदनुक्रमात् ॥
पाद्यादिकं हृदा दत्वा इन्द्राद्यैशान्यमेव च ।
तेषां सर्वा नवा प्रोक्ता प्रदक्षिणे नैव विन्यसेत् ॥
प्। १११)
कलान् पञ्चविंशच्च प्रधान कलशैर्युतम् ।
अभिषेकञ्च प्रकर्तव्यं शुद्धवारि सुपूजितम् ॥
गन्धपुष्पादिभिस्सर्वान् पूजयित्वा मुहुर्मुहुः ।
पृथक् च कलशान् न्यस्य सूत्रेणैव तु वेष्टयेत् ॥
नवाक्षरेण * * * पाद्यस्थानं विधीयते ।
नवे नाचम्य मन्त्रेण आचमनीयं ददेत् बुधः ॥
हृदिमन्त्रं जपित्वा तु अर्घ्यस्नानं समाचरेत् ।
मूलमन्त्रेण मन्त्रज्ञ पञ्चगव्यं न्यसेद् बुधः ॥
शिखामन्त्रेण मन्त्रज्ञ तिलोदकमथा न्यसेत् ।
आचार्य मन्त्रितक्षीरं समाचरेदधिक्रमात् ॥
विद्यामन्त्रं समुच्चार्य व्रतस्नानं विधीयते ॥
नवाक्षरेण मतिमान् शेषं सर्वं यथाक्रमात् ।
अस्त्रमन्त्रेण चिन्त्यात्मा कलशांश्च पृथक् पृथक् ॥
आचार्यो रक्तवासस्तु शुचिस्नानोजितेन्द्रियः ।
देवी तत्र सुगुप्तात्मा सर्वलक्षणसंयुतम् ॥
नागहीनेन बधिरन् न शठैर्नजस्तथा ।
नकूरो नागरक्ताङ्गो नोत्मोर्थे विधिपीडितौ ॥
सर्वाङ्गममृतत्वज्ञ मन्त्र शिवद्विज ।
षडध्वाज तथा धीमान् तेन लक्षणसंयुतम् ॥
प्। ११२)
स्नपयित्वा विधानेन सप्तवर्ज चरुन् ददत् ।
रक्तं पीतं तथा कृष्णं हरिद्रं श्यामादिकमेव च ॥
पायसं कृसरञ्चैव हविस्सप्तेति कीर्तितम् ।
उपहारपशून् सप्त अजं श्वेतं प्रशस्यते ॥
निवेद्य च विधानेन पञ्चस्थानं बलिं कुरु ।
सहस्रं वा शतं वापि पञ्चाशत्पञ्चविंशकैः ॥
कुमारीशिरसा धार्यगन्धपुष्पैरलङ्कृतम् ।
चित्रध्वजपताकञ्च शङ्खदुन्दुभिसंयुतैः ॥
ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् ।
देवालयं समागम्य युगपद् बलि(वि)निक्षिपेत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां स्नपनविधिर्नाम
पञ्चविंशत्पटलः ॥ २५ ॥