एवं महोत्सवं कृत्वा वभ्रथं कारयेद् बुधः ।
पूर्णोपक्रमशो पूर्णे देव्यास्थाने विशेषतः ॥
मण्टपं गोमयेनैव चतुरश्रन्दश हस्तकम् ।
अङ्कुरं स्थापयेत् तत्र शालिनश्च न्यसेद् बुधः ॥
लूखलं विन्यसेत् तत्र समूलं तत्र विन्यसेत् ।
लूखलामुसलामध्ये त्वर्चयेत् तत्र देवयोः ॥
प्। १०६)
योगिनी विन्यसेत् तत्र गन्धपुष्पादि योजयेत् ।
देव्याया समुदाहृत्य पूर्णकर्मन्तु वादिशि ॥
द्विजान्नीवपेच्चूर्णमन्यथा दोषमाप्नुयात् ।
तच्चूर्णं स्थापयेत् तत्र मूलमन्त्रेण बुद्धिमान् ॥
परिवारः स्नापयेच्चैव तैलाभ्यङ्गमनन्तरम् ।
यजमानं पूजयेच्चैव सर्वेभ्यो वा शिरस्य च ॥
ग्रामं सम्यक् परिभर्म्य नदीस्नानं समाचरेत् ।
अनिन्दितां दिशं गत्वा तटाके वा विचक्षणः ॥
स्नानक्षेपविधानेन अष्टभिः कलशं क्रमात् ।
नदिस्नानं तदा पश्चात् रक्षासूत्रं विसृज्य च ॥
अलवृत्तागुरास्सर्वे स्नानं कुर्याद्ययेच्छया ।
स्नानाद्वामतिमान् सम्यक् दानं शक्तिविचक्षणः ॥
आलयं पुनरागम्य पुष्पयागं समाचरेत् ।
पञ्चवर्णैश्च कुसुमैः पूर्वोक्तमण्डलं लिखेत् ॥
मण्डले पूजयेत् सम्यक् मातॄन्वै मूलविद्यया ।
प्रभाते तु दिने रम्ये सर्वालङ्कारसंयुते ॥
कुतपे पात्रबलिं दद्यात् सर्ववर्णञ्चरुं बुधः ।
सुवर्णे रजते वापि ताम्रे वा कांसपात्रके ॥
नियुतैर्वायुतैर्वापि तथा पञ्चसहस्रके ।
सहस्रैरथवाप्यर्धे तथावर्धार्धरार्धके ।
प्। १०७)
तथा च स्नापयित्वा तु रक्ताम्बरविभूषितम् ।
रक्तगन्धानुलेपाञ्च तथा पाशाङ्कुशं परम् ॥
खड्वाङ्गं शङ्खचक्रञ्च हस्तं मुसलमेव च ।
वज्रं शक्तिपताकं च पद्मं स्वस्तिकमेव च ॥
एतैस्सर्वा यथाधारै कन्यका परिवेष्टितम् ।
ग्रामं वा नगरं वापि शनैः कुर्यात् प्रदक्षिणम् ॥
कृसरापूपसंयुक्तं त्वेतमन्नं तथैव च ।
रक्तान्नं पुष्पसंयुक्तं नवाक्षरेणमन्त्रितम् ॥
तत् तन्मन्त्रेणसंयुक्तं बलिं सर्वत्रदापयेत् ।
शिरसा धारयित्वा शनैः कुर्यात् प्रदक्षिणम् ॥
कृत्वा विधिना प्रविशेत् देव्याश्च तदनन्तरम् ।
स्नानं कृत्वा विशेषेण धूपदीप हविर्दिशेत् ॥
निवेदयेत् पृथुमन्त्रेण कुलपारशवस्तथा ।
भ्रंशो भारश्च चत्वारि तिलशालि प्रियङ्गुलम् ॥
सुशोभनं पूजयित्वा तत्र सर्वं निवेदयेत् ।
तत् तन्मुष्टिं गृहीत्वा तु होमं कृत्वा विचक्षणः ॥
साधकस्समिधायाञ्च * * * * * * * * ।
अष्टोत्तरशतं हूयात् मूलमन्त्रेण यत् तथा ॥
तदास्य होमविधिना तिलशालिप्रियङ्गुलम् ।
तन्मे नास्टशतं हूयात् सर्वशान्तिर्भविष्यति ॥
प्। १०८)
पुनर्वै होमशेषन्तु दशदिक्षुबलिं ददेत् ।
शेषं स्यात् क्षेत्रपालाय दापयेद् बलिमादरात् ॥
कन्यकां भोजयेत् पूर्वं यागान्ते द्विजभोजनम् ।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकैः ॥
परियष्टि परिचाराश्च तथा सर्वत्र पूजयेत् ।
एवं तालबलिं प्रोक्तं सर्वव्याधिविनाशनम् ॥
सुभिक्षं वर्धनञ्चैव पुत्रापौत्रविवर्धनम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां बलिविधिर्नाम चतुर्विंशत्पटलः ॥ २४
॥