१७

अथास्सम्प्रवक्ष्यामि एकवीर्युत्सवः परम् ।
महाशान्तिकरं पुण्यं सर्वपापविनाशनम् ॥

अकालमृत्युशमनमायुरारोग्यवर्धनम् ।
सुभिक्षं गोबलञ्चैव हस्त्यश्वनरवर्धनम् ॥

भूमिकम्पविनाशार्थं तथा प्रेतविनाशनम् ।
गृहजारविनाशार्थं भूतदृष्टिविनाशनम् ॥

प्। ६५)

राजसेना सुखार्थञ्च सदसि जयमेव च ।
महामारि प्रसङ्कीर्णे पाषाणे वर्षन्तया ॥

उल्कापाते निशान्दहे * * * * तथैव च ।
तरा प्रवातने चैव दीक्षान्तेन तथैव च ॥

दिशोपि च वने चैव महावात प्रवर्तने ।
दुर्भिक्षे रष्ट्रकलहे हस्त्यश्वव्याधिपीडिते ॥

उत्सवं कारयेन् मन्त्री शास्त्रदृष्टेन कर्मणा ।
एकविंशेद् दिने पूर्वे दुन्दुभिर्भ्रमणं कुरु ॥

दुन्दुभिर्लक्षणं वक्ष्ये तद्वर्षग्रहणन्तथा ।

सप्ताहं तथा पूर्वे दुन्दुभिः प्रहरणे बुधः ।
पूर्ववत्कारयेत्सर्वं यथाविधि पुरस्सरम् ॥

तिलचूर्णसमायुक्तं गुलखण्डसमन्वितम् ।
कदली फलसंयुक्तं पूरिका खण्डसंयुतम् ॥

एवं बलिं ततो दद्यात् नवाक्षरेण मन्त्रवित् ।
नवाक्षरेण मन्त्रेण कुठारञ्चाभि मन्त्रयेत् ॥

पुनः प्रभाते विमले शुभग्रहसमन्वितम् ।
अस्त्रेण चोदयेद्वृक्षं भक्ति युक्तो दृढव्रतः ॥

सान्ते नैव तु मन्त्रेण कर्तव्यं लक्षणान्वितम् ।
शिल्पिना तु कृता सर्वं दुन्दुभिश्च मनोहरा ॥

प्। ६६)

षट्तालाय तथोक्तानि उत्तमं तत्र प्रकीर्तिता ।
दण्डन्नाह संयुक्तं पङ्कजासन संयुतम् ॥

शुभदिनसमायुक्तं चोत्तमा दुन्दुभिः शुचिः ।
चतुस्तालं समारभ्य मध्यमा दुन्दुभिर्भवेत् ॥

तदर्धनाह संयुक्त तत्वात्मासनसंयुतम् ।
द्वितालायामसंयुक्तं तदर्धन्नाह संयुतम् ॥

अथवा दुन्दुभिर्ज्ञेया वक्त्रासन संयुतम् ।
दुन्दुभेरुक्तमानञ्च त्र्यङ्गुला बालनं भवेत् ॥

द्व्यङ्गुलं बहुलं प्रोक्तं मध्यमानञ्च कीर्तिता ।
दुन्दुभेरधमायाममेकाङ्गुलमुदाहृतम् ॥

उत्तमा मध्यमा चैव अधमा च प्रकीर्तिता ।
एवन्दुन्दुभिमुत्पाद्य बलिकार्यं समारभेत् ॥

मानयेत् शिल्पिनं पश्चात् वस्त्रैश्च चन्दनादिभिः ।
परिणाहं च कुण्डस्य पूर्वं वै योजयेद्बुधः ॥

त्र्यङ्गुलं दुन्दुभिश्चैव मध्यमञ्चोत्तमं भवेत् ।
द्व्यङ्गुलमधमञ्चैव दुन्दुभिश्च प्रकीर्तिताः ॥

कुण्डलं कन्यसं प्रोक्तं दुन्दुभिश्चैव चाङ्गुलम् ।
उत्तमादि क्रमेणैव कुण्डलं प्रोच्यते क्रमात् ॥

दुन्दुभिं छादयेत् तत्र भवावै चर्मणा बुधः ।
छादयौ वैद्ध कालैश्च दुन्दुभिश्च मनोहरा ॥

प्। ६७)

एवं दुन्दुभिमुत्पाद्य सघोष * * * * * ।
दुन्दुभिं तत्र चाभ्यर्च्य आचार्यो मन्त्रविग्रहः ॥

चतुद्वारसमोपेतं चतुस्तोरणमण्टपे ॥

दशहस्त प्रविस्तार * तुलाङ्कुरतोभितम् ।
तन्मध्ये वेदिकायान्तु तन्मध्ये मण्डलं कुरु ॥

शालिभिस्तण्डुलं कुर्यात् अष्टद्रोणैश्च तत् तथा ।
तण्डुलैश्च तदर्धैश्च तिलैः कुर्याद् यथा क्रमम् ॥

पञ्चैकोक्तसूत्राणि कारयेत् तण्डुलोपरि ।
सूत्राणि कारयेत् सम्यग् यथाविधि पुरस्सरम् ॥

एकैकान्तरितस्तस्मिन् एकश्चैव पदा हुनेत् ।
शोभितश्च तिलै * * * कोष्ठेषु विचक्षणः ॥

दुन्दुभिं विन्यसेत् पद्मे नवाक्षरेणैव बुद्धिमान् ।
कलशान् विन्यसेत् तत्र सूत्रेणैव विचेष्टितान् ॥

कलशानष्टौ तु विन्यस्य शुद्धगन्धोदकान्वितान् ।
मध्ये तु विन्यसेत् ब्रह्मन् पञ्चरत्नं विशेषतः ॥

एकवीरं न्यसेत् तस्मिन् नवाक्षरेण बुद्धिमान् ।
अष्टदिक्षु न्यसेत् कुम्भान् नवाक्षरेण बुद्धिमान् ॥

चूतपल्लवसंयुक्तान् गन्धचन्दनमन्विताम् ।
अग्निकार्यं तथा कुर्यात् यथाविधि पुरस्सरम् ॥

प्। ६८)

एकवीर्यार्चन सहित सप्तन्यसेत् बुधः ।
वीरभद्रादिसंयुक्तं गणेशानसमन्वितम् ॥

दक्षिणे चैव वेद्यां वा अग्निकार्यञ्च कारयेत् ।
(शुक्लपक्षे तु शान्ति शास्त्रदृष्टेन कर्मणा ॥)

अग्निकार्यं पुनः कृत्वा प्रोक्षयेत् * * * पुनः ।
दुन्दुभिं तत्र विन्यस्य ततः प्रभृत्तिं योजयेत् ॥

ईदृग्भूतमनोज्ञाञ्च दुन्दुभिञ्च समाहरेत् ।
शुक्लपक्षे तु शान्ती शास्त्रदृष्टेन कर्मणा ॥

सर्वालङ्कारसंयुक्ता सर्वाभरणभुषिता ।
एकवीरञ्च परमां हंसारूढां मनोहराम् ॥

नवरूपां मुक्तकेशीमेकवीरी मनुस्मरन् ।
सर्वाभरणसंयुक्तां मनोज्ञा लक्षणान्विता ॥

दुन्दुभिं प्रहरेद्वापि नवाक्षरेण बुद्धिमान् ।
कृतयुगेर्मरेद् देविमेकवीरिं विचक्षणः ॥

ब्रह्माणां परमां शुद्धां सर्वाभरणभूषिताम् ।
ईदृग्भूतां परां ध्यात्वा दुन्दुभिं ताडयेत् पुनः ॥

नवाक्षरेण सन्ताड्य देवीं ध्यात्वा तु तत्परम् ।
एवं सन्ताड्य यत्नेन उत्सवं कारयेद्बुधः ॥

एकवीर्या * * ब्रह्म दुन्दुभिं ताडयेत् क्रमात् ।
दुन्दुभेस्ताडनं वक्ष्ये यथाविधि पुरस्सरम् ॥

प्। ६९)

देव्यालयं पुरस्तात्तु मण्डपं चतुरश्रकम् ।
गोमयेन समालिप्य सितचूर्णेन शोभितम् ॥

मण्टपे चतुरश्रन्तु द्विहस्तायामसंयुते ।
शालिभिश्चाष्टभि द्रोणैर्मण्डपे स्थण्डिलं कुरु ॥

सूत्राणि कारयेत् तत्र तण्डुलेन विचक्षणः ।
पञ्चोत्तराणि सूत्राणि चोत्तराणि मुखानि च ॥

दक्षे तथैव सूत्राणि सूत्रयेत् तत्र वित्तमः ।
सदर्भैस्तण्डिलैश्शुभ्रैः विकिरेत् तु समं तथा ॥

एकैकान्तरितं कोष्ठं चतुर्दिक्षु हरेत् पुनः ।
नवपदेषु पद्मं स्यात् अष्टपत्रं सकर्णिकम् ॥

तिलाढकेन वा लिख्यमष्टपत्रदलान्वितम् ।
कर्णिका केसरोपेतं चतुर्गात्रसमायुतम् ॥

नवाक्षरेण जप्तेन वस्त्रपूतेन वारिणा ।
प्रोक्ष्य च तण्डुलं पश्चात् द्रव्याणि प्रोक्षयेद् बुधः ॥

आसनं कल्पयित्वा तु गन्धपुष्पादिभिः क्रमात् ।
देव्यास्तु दुन्दुभिन्तत्र न्यस्त्वा सम्पूज्य च क्रमात् ॥

रक्तसूदगन्धपुष्पधूपदीप समन्वितम् ।
रक्तवस्त्रे तु परिधानं रक्तचन्दन चर्चितम् ॥

सर्वाभरणसंयुक्तं मातॄणामुत्सवेपि च ।
एकवीरं तदावाह्य एकवीरञ्च देशिकः ॥

प्। ७०)

आवाहयेत् ततो देवीं कलशेशं विचक्षणः ।
कलशस्य दक्षिणे भागे दुन्दुभिञ्चापि वासयेत् ॥

तस्यैव दक्षिणे भागे होमं कुर्याद् विचक्षणः ।
तस्मिन्नधिवासयेद् देवमाचार्यं मन्त्रविग्रहम् ॥

प्रभाते विमलादेवीं कलशस्य च देशिकः ।
निवेद्यन्तु प्रदातव्यं नक्तचारीडकेन तु ॥

कलशाय निवेदित्वा यथा चोद्भवमेव च ।
एवं कृत्वा समासेन ध्वजारोहण तत्क्षणात् ॥

नगरे पत्तने वापि ग्रामं ग्रामाग्रके पुरे ।
खेटके च तथा ब्रह्मन् आशीर्वादं समुच्चरन् ॥

अन्तरिक्षे तु ये देवा भूपातालेषु ये स्थिता ।
पर्वताग्रेषु ये देवा महामेरौ च संस्थिता ॥

नवखण्डेषु ये देवा समुद्राधिवासिनस्तथा ।
पादमार्गे च ये देवा सप्तद्वीपेषु ये स्थिता ॥

योगिनी शाकिनी चैव डम्भिनी च विलासिनी ।
चारिणी मघवासि च गनीभक्त परायणी ॥

चतुष्षष्टिस्तथा देवा उपवासपरायणा ।
अम्बुभक्षाश्च ये देवा वायुभक्षाश्च ये स्थिता ॥

उत्सवे एकवीर्याश्च वागच्छन्तु मनोहरा ।
एवमुक्तं क्रमेणैव दुन्दुभेस्ताडनं कुरु ॥

प्। ७१)

शतकोटि सहस्राणि प्रेतवेतालकास्तथा ।
आयुष्मिकसहस्राणि पिशाचायास्तु जातयः ॥

आगछन्तु महादेव एकवीर्युत्सवे शुभे ।
नानाकोटि सहस्राणि ये शिष्टा सिद्धजातयः ॥

अष्टकोटि सहस्राणि अष्टकोटि पिशाचका ।
अष्टकोटि गणास्सर्वे आगछन्तु महोत्सवे ॥

एकवीर्युत्सवे शुभ्रे सप्तकोटि शतानि च ।
अयुतञ्चैव पञ्चाशीन्मातृभेदाश्च ये स्थिता ॥

आगछन्तु महादेव्य एकवीर्युत्सवे परे ।
ब्रह्माविष्णुश्च रुद्रश्च द्वादशादित्य एव च ॥

वस्वष्टाप्सरसञ्चैव मुनये देव पर्वत ।
ब्रह्मादि समगापीयत् तथा चेन्द्रसमामताः ॥

एते चान्ये च बहवो एकवीर्युत्सवे परे ।
आगछन्तु महाशीघ्रमेकवीर्युत्सवार्थकम् ॥

इन्द्राग्निश्च यमश्चैव निर्-ऋती वरुणस्तथा ।
वायुश्चैव कुबेराश्च ईशानश्चैव एव हि ॥

आगछन्तु महादेव्य एकवीर्युत्सवे शुभे ।
असुराश्च सुराश्चैव गन्धर्वाश्च पिशाचकाः ॥

यक्षाश्च गरुडाश्चैव किन्नराश्च मरुद्गणाः ।
आगछन्तु महादेव एकवीर्युत्सवे शुभे ॥

प्। ७२)

नागाश्च भूतवेताल ब्रह्मराक्षस एव च ।
अनेकशोभा संयुक्ते ग्रहध्वज समाकुले ॥

पूर्णकुम्भसमायुक्ते कदली तोरणैर्युते ।
धूपदीपसमायुक्ते दिव्यवीथि समन्विते ॥

सदासी गणसङ्कीर्णे सकीर्णे यो वीथी मातृशोभिते ।
नृत्तगीतसमायुक्ते दिव्यस्त्री परिशोभिते ॥

आहृतेनगरे चैव पत्तने खेटके तथा ।
ग्रामे ग्रामाग्रके चैव एकवीर्युत्सवं प्रति ॥

पुरोगाश्चैव हे देवा आगछन्तु यथावहम् ।
बलिग्राहन्तु वस्सर्वे यथाविधि विशेषतः ॥

कदल्योदनसंयुक्तमजनाडी शतं युतम् ।
पूरिखण्डाग्रसंयुक्तम् अजानां रुधिरं युतम् ॥

मत्स्यमांससमायुक्तम् अपूपखण्डमन्वितम् ।
तिलचूर्णसमायुक्तं लाजसक्तु समन्वितम् ॥

दुन्दुभिर्भ्रमणे काले बलिं सर्वत्र कारयेत् ।
दुन्दुभेश्च बलिं दद्यात् अजसप्त च पातये ॥

ग्रामवीथि पथे चैव दशदिक्षु बलिं हरेत् ।
आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ॥

नैकाभरणजालैश्च गोभूमिकाञ्चनादिभिः ।
पूजयेत् तु विशेषेण आचार्यस्तु विशेषतः ॥

प्। ७३)

मातृदीक्षा समायुक्तम् अभिषेक त्रयान्वितम् ।
एवं सम्पूज्य तं ब्रह्मन् भक्तियुक्तं दृढव्रतम् ॥

नवाक्षरेण मन्त्रेण सर्वक्षेत्र बलिं क्षिपेत् ।
अस्मतम्रव्येयतम्रं सर्वकार्येषु योजयेत् ॥

कलशन्तु त्रिशुलञ्च घण्टाडमरुकन्तथा ।
मातृघोषसमायुक्तं दिव्यस्त्रीभिस्समाकुलम् ॥

वितानध्वजसंयुक्तं धरजालसमन्वितम् ।
क्षुरिका खड्गसंयुक्तं सर्वालङ्कारशोभितम् ॥

ग्रामं वा नगरं वापि पत्तनञ्च पुरञ्च वा ।
ग्रामं नगरके वापि दुन्दुभेः प्रहरं कुरु ॥

अष्टदिक्षु चतुसन्धौ ब्रह्मस्थाने विशेषतः ।
पूर्वोक्ताश्चैव ये देवा तत्तत्स्थानेषु योजयेत् ॥

पूर्वोक्तञ्च बलिञ्चैव तत्तत्स्थाने तु दापयेत् ।
नवाक्षरेण मन्त्रेण स्वनामपदसंयुतम् ॥

बलिञ्च दापयेत् तत्र दशदिक्षु यथाक्रमम् ।
एकवृक्षे च प्रासादे चतुष्पत्रे शृङ्खलान्विते ॥

त्रिपथे द्विपथे चैव सर्वसन्धिषु निक्षिपेत् ।
वापी कूपतटाके च पुरद्वारे बलिं हरेत् ॥

श्मशाने बलिदानञ्च हस्तकृते बलिं क्षिपेत् ।
एवं समासतः प्रोक्तं बलिं गृह्णन्तु दुन्दुभिः ॥

प्। ७४)

पीठं तत्र प्रकर्तव्यं शास्त्रदृष्टेन कर्मणा ।
चतुश्शृङ्गं भवेद् दिक्षु एकहस्तसमन्वितम् ॥

विदिक्षु वर्तुलं कुर्यात् लक्षणेन समन्वितम् ।
हस्तान्धिकमुग्रतः प्रोक्तं मेखलात्रयसंयुतम् ॥

ब्रह्मस्थाने चतुर्हस्तं तदर्धं मध्यमं भवेत् ।
मेखलात्रयसंयुक्तं कारणेन समन्वितम् ॥

नगरद्वारदेशे तु साश्रञ्च पीठमुच्यते ।
देवालयानां पुरतः पीठं वै चतुरश्रकम् ॥

पूर्ववत् कारयेत् पीठ लक्षणेनसमन्वितम् ।
एवं पीठं प्रकर्तव्यं दशदिक्षु यथाक्रमम् ॥

एवं सङ्क्षेपतः प्रोक्तं दुन्दुभिः भर्मणं परम् ।
देवानामागमार्थञ्च भूमिदानं तथैव च ॥

बलिञ्च निक्षिपेद् ब्रह्मन् यावद् देव व्रतान्तकम् ।
पूर्वोक्तञ्च बलिं तेषु पीठेषु च विनिक्षिपेत् ॥

नवाक्षरेण मतिमान् एकवृक्षबलिं ददेत् ।
ग्रामे च नगरे चैव पत्तनं खेटकं तथा ॥

उत्सवभ्रम कालोसि यात्राहोमन्तु कारयेत् ॥

इति ब्रह्मयामले उत्सवविधाने दुन्दुभिः प्रहरणं नाम सप्तदशपटलः ॥
१७ ॥