१५

विघ्नेशं वीरभद्रञ्च समिद्बिल्वं तथोच्यते ।
ब्रह्माणी च पलाशञ्च अर्कमाहेश्वरी तथा ॥

औदुम्बरन्तु कौमारी अश्वत्थं वैष्णवी तथा ।
वाराही वृक्षमेवं स्यात् इन्द्राणी खदिरन्तथा ॥

प्। ५९)

न्यग्रोधञ्चैव चामुण्डा समिधस्तत्र कीर्तिताः ।
ऊर्ध्वं पृधक् पृधक् वाह्ये हूयते समिधन्तथा ॥

एतेषामप्यलाभे तु पलाशं सर्वहूयते ।
एकैकनामहूयन्ते स्वनामावाहयेत् तथा ॥

पादस्याचमनीयादि स्नानमन्त्रं यथार्चयेत् ।
गन्दपुष्पन्तथा धूपन्दीपञ्चैव हविः क्रमात् ॥

गेयादि तालसंयुक्तं बहुवीरार्चनं भवेत् ।
सर्वलोकहितं पुण्यं सर्वधान्य समृद्धिदम् ॥

दुष्टग्रहविनाशार्थं विशिष्टाग्रहमेव च ।
सर्वेषामेव रक्षार्थं मातृलोके महीयते ॥

इति ब्रह्मयामले शतसहस्रसंहितायां बहुवीरार्चनविधिर्नाम पञ्चादशः
पटलः ॥ १५ ॥