०८

अतः परं प्रवक्ष्यामि न्यासकर्म विधिक्रमात् ।
न्यासानां त्रिविधं प्रोक्तं सर्वकामार्थ साधनम् ॥

सृष्टिसंहारभेदञ्च स्थितिन्यासं तथैव च ।
मूर्ध्नादि पादपर्यन्तं सृष्टिन्यासं प्रकीर्तितम् ॥

पादादि च शिरान्तन्तु न्यासञ्च संहृतिर्भवात् ।
नासादि हृदयान्तन्तु स्थितिन्यासं तदुच्यते ॥

प्रथमन्तु जलस्नानं मृदास्नानमतः परम् ।
जपस्नानविधिं पश्चात् ध्यानयोगी समाचरेत् ॥

पद्मासनन्तु कर्तव्यमञ्जली पुटमुद्रया ।
पूरकं पूरयेत् पूर्वं ब्रह्मा तत्राधिदेवता ॥

प्। ३१)

कुम्भकं हृदिमध्यस्थं देशं निष्कल भासितम् ।
निष्कलं परमाशक्ति मन्त्रासनसमन्वितम् ॥

कालीं चैव कराली च विराली मालिनी तथा ।
हृत्पुण्डरीकमध्ये तु मूर्तिं ध्यात्वा यथाक्रमम् ॥

पश्चात् कराङ्गुलीन्यास निर्मलाक्ष समन्वितम् ।
नागहस्तसमं कुर्यात् मणिमण्डसमन्वितम् ॥

दक्षिणाङ्गुष्ठकं ब्राह्मं तर्जनी तु महेश्वरी ।
मध्यमाङ्गुलकौमारी वैष्णवी च त्वनामिका ॥

कनिष्ठिका च वाराही दक्षिणाङ्गुल विन्यसेत् ।
वामहस्ते कनिष्ठादि इन्द्राणिन्तत्र विन्यसेत् ॥

अनामिकायाञ्चामुण्डा वीरभद्रा तु मध्यमा ।
तर्जनी तु महाविघ्नं कराल्यङ्गुष्ठविन्यसेत् ॥

एवं सृष्टिक्रमं कुर्यात् संहारं तदनन्तरम् ।
वामाङ्गुष्ठादि चारभ्य नवशक्तिषु विन्यसेत् ॥

शान्ती चाङ्गुष्ठविन्यासे सोणी तर्जनि विन्यसेत् ।
खड्वाङ्गी मध्यमं कुर्यात् अनामी चैव तु नासिका ॥

कनिष्ठिका न्यसेत् कान्तिमङ्गुल्यग्रे प्रतिष्ठितम् ।
मौक्तिकी कनिष्टिका न्यस्य अग्रे च तर्जनीं न्यसेत् ॥

क्रोधी चाङ्गुष्ठविन्यस्य स्थिति न्यासं प्रकीर्तितम् ।
अङ्गुल्यं प्रणवं न्यस्य फट्कारं तर्जनीं न्यसेत् ॥

प्। ३२)

फट्कारं मध्यमाङ्गुल्यं फट्कारञ्चैव नामिका ।
कनिष्ठाङ्गुलि हुङ्कारं कनिष्ठाकारमुच्यते ॥

अनेकायान्तु फट्कार फट्कारं मध्यमं न्यसेत् ।
श्वेतन्तु तर्जनीं तस्य हुङ्काराङ्गुष्ठविन्यसेत् ॥

दक्षिणे कटिमध्ये तु चण्डी रौद्री तु विन्यसेत् ।
वामे तु मणिमध्ये च चण्डी रौद्री तु विन्यसेत् ॥

वामे तु मणिमध्ये तु भैरवीं तत्र विन्यसेत् ।
दक्षिणे बहुवीरे तु एकवीरे तु वामके ॥

हस्ताभ्याक्ताल पृष्ठे तु अर्कमात्मे तु विन्यसेत् ।
करन्यासमिदं प्रोक्त महान्यासमतः परम् ॥

प्रणवं विन्यसेन् मूर्ध्नी ब्रह्मा तत्राधि दैवतम् ।
खकारे तु ललाटं स्यात् स्कन्दस्तत्राधि दैवतम् ॥

वकारं वक्त्रमध्ये तु विघ्नन्तत्राधि दैवतम् ।
मकारं हृदये मध्ये दुर्गां तत्राधि दैवतम् ॥

सद्धस्तं पुरुषं देवं भकारं तत्र विन्यसेत् ।
एवं सृष्टिमहामुद्रा सृष्टिन्यासन् तदुच्यते ॥

ओङ्कारं पादयोर्न्यस्य भूमिस्तत्राधि दैवतम् ।
ज्रेकारं जानुमध्ये तु दुर्गासूत्रासु दैवतम् ॥

द्रेकारं वह्निविन्यस्य उमास्तत्राधि दैवतम् ।
ह्रेङ्कारं स्तनमग्रे तु श्रियै तत्राधि दैवतम् ॥

प्। ३३)

ह्रोङ्कारं चैव बाहुभ्या ज्येष्ठं तत्राधि दैवतम् ।
ह्रेङ्कारं चक्षुविन्यासं सरस्वत्याधि दैवतम् ॥

स्कन्ददेशे तु फट्कारम् इति न्यासाधि दैवतम् ।
पृष्ठे चैव हुङ्कारं पालिं तस्याधि दैवतम् ॥

पदन्यासन्तु हृदये हकारं नायशक्ति स दैवता ।
एतेषां च स्थिति न्यासमुष्टिकं बिन्दुमुद्रया ॥

वीरभद्रन्तु मन्त्रेण शिरसोपरि विन्यसेत् ।
तदूर्ध्वं भक्तविन्यासं स तु ध्यानरूपिणम् ॥

विघ्नमन्त्रान् ललाटस्यात् तस्योर्ध्वं पदविन्यसेत् ।
ब्रह्माणी मूलमन्त्रेण चतुश्यान्तत्र विन्यसेत् ॥

मन्त्रोपरि तथा चतुर्वक्त्रा चतुर्भुजा ॥

एवं ध्यात्वा तु मनसा ब्रह्माणी तत्र विन्यसेत् ।
माहेश्वरीति मन्त्रेण आस्य मध्ये प्रतिष्ठितम् ॥

तस्योर्ध्वमीश्वरी चैव चतुर्बाहुस्त्रिणेत्रिणी ।
कौमारी मूलमन्त्रेण कर्णाग्रे तत्र विन्यसेत् ॥

मन्त्रस्योपरि विन्यासं कामारी तु चतुर्भुजा ।
वैष्णवी मूलमन्त्रेण बाह्याभ्यन्तर विन्यसेत् ॥

मन्त्रोपरि च विन्यासं वैष्णवी चैकहस्तिनी ।
वाराही मूल मन्त्रेण हृदयञ्चैव विन्यसेत् ॥

तस्य मन्त्रोपरि न्यासं वाराही च चतुर्भुजा ।
इन्द्राणि मूलमन्त्रेण नाभि मध्ये प्रतिष्ठितम् ॥

प्। ३४)

तस्य मध्योपरि न्यासम् इन्द्राणी वज्रहस्तिनी ।
चामुण्डी मूलमन्त्रेण सर्वाङ्गेषु प्रतिष्ठितम् ॥

तस्य मन्त्रोपरि ध्यात्वा चामुण्डा उग्रवेषिणी ।
एवं मातृमयं ध्यात्वा यागपूर्वे प्रवर्तते ॥

सकलं निष्कलञ्चैव निष्कलं सकलनिष्कलम् ।
सकन्तु शरीरस्थम्महानपि यथाशक्तियन्तारमनुवर्तते ॥

तथैवेन्द्रिय सङ्घातञ्चित्तमेवानुवर्तते ।
दृष्ट्वा तार्क्ष्यं यथा सर्पं कम्पतेथ मुहुर्मुहुः ॥

अमन्त्रमर्चकन् दृष्ट्वा कम्पते शिवमुत्सया ।
शिवशिक्षा समायोगात् शिवहृष्टमिहोच्यते ॥

पारशवकुले जातो स्नानं कृत्वा विशेषतः ।
क्षौरञ्च दन्त शुद्धिञ्च मन्त्रस्नानन्तु लेपनम् ॥

उष्णीषञ्चोपवीतञ्च शुद्ध वस्त्रोत्तरीयकम् ।
कर्णकुण्डलसंयुक्तं हेमाङ्गुल्य पवित्रकम् ॥

प्रवालमौक्तिका कान्तं रुद्राक्षमालिकायुतम् ।
त्रिपुण्ड्रन्तु विशेषेण चन्दनेनानुलेपनम् ॥

भेरिका पोषणञ्चैव पारशैवमिति स्मृतम् ।
प्रोक्षणे च प्रतिष्ठायाम् उत्स्ववे बलिकालके ॥

दीक्षया मालयारम्भे बालस्थाने तथैव च ।
यावत् कर्म समारभ्य भेरिकां ताडयेत् क्रमात् ॥

प्। ३५)

भेरिकायोष्टहीनञ्च राजराष्ट्रं विनश्यति ।
अन्यथा तामुनञ्चैव राजराष्ट्रं विनश्यति ॥

तद् दोष शमनार्थाय सप्तशुद्धि समाहरेत् ।
अन्नपाद्यसमायुक्तं घोषयेत् सर्व कर्मसु ॥

इति श्रीब्रह्मयामले शतसहस्रसंहितायां न्यासविधिं नाम अष्टमः
पटलः ॥ ८ ॥