स्थापनम् ।
देवतास्थापनं वक्ष्ये यथावदनुपूर्वशः ।
ग्रामे च नरके चैव पत्तने खेटकेपि वा ॥
आयुरारोग्यदश्चैव धनधान्य विवर्धनम् ।
पुत्रपौत्र प्रवृद्धिश्च सुभिक्षं तासु वर्धनम् ॥
ग्राममध्ये नवपटं ब्रह्म(ण)स्थानमुत्तमम् ।
इन्द्रायमश्विनोस्थान श्रियावास्थानमेव च ॥
इन्द्राग्नेययोर्मध्ये वधं स्थानमुत्तमम् ।
सरस्वत्याश्च चाग्नेयं कामस्थानन्तु कल्पयेत् ॥
आग्नेय यमयोर्मध्ये पितरस्थानमुत्तमम् ।
सावित्रं स्थापयेद् याम्ये यातुधानञ्च कल्पयेत् ॥
प्। १५)
याम्य नैर्-ऋतयोर्मध्ये गणपतिस्थानमुच्यते ।
नैर्-ऋत्यामासुरस्थानं नव देवान् वरानने ॥
नैर्-ऋत्यां वारुणे मध्ये नागस्थानं विधीयते ।
वारुण्यां स्थापयेद् विष्णू लक्ष्मीस्थानन्तु कल्पयेत् ॥
नभस्वद्वरुणयोर्मध्ये गरुडस्थानमुच्यते ।
वायव्ये कल्पयेद्दोमं गन्धर्व स्थान मुच्यते ॥
सोम मारुतयोर्मध्ये स्थान मुक्तं प्रजापतेः ।
वित्तेशं स्थापयेत् सौम्ये मार्ताण्डञ्च प्रकल्पयेत् ॥
सोम शङ्करयोर्मध्ये रुद्रश्चैकादशस्सुधीः ।
ईशानं शङ्करस्थानं शिवगौरी समन्वितम् ॥
ईशानचक्रयोर्मध्ये द्वादशादित्यमुच्यते ।
चतुष्टयमृगादिक्षु दुर्गास्थानं विधीयते ॥
ग्राममध्येषु कर्णिकां ब्रह्मस्थानं विधीयते ।
मातॄन्वै पूजयेत् तत्र गन्धपुष्पैस्तु पूजितम् ॥
कलशं नवकं ग्राह्यं सापिधानं सकूर्चकम् ।
सवस्त्रं नववस्त्रं वा नवार्णे नैव मन्त्रितम् ॥
सुब्राह्मी माहेश्वरी चैव कुमारि वैष्णवी तथा ।
वाराही चैव माहेन्द्री भद्रकालि तथैव च ॥
अग्निबीजैश्च ईशानैः पूर्वमारभ्य विन्यसेत् ।
देवीशीमर्चयेत् तत्र पूजयेद् विधिना सह ॥
प्। १६)
विद्याहृदयमन्त्रेण आचार्यो होमयेत् क्रमात् ।
समारभेत् ।
स्थापयित्वा विधानेन पाश्चाद्वा समारभेत् ॥
सर्जयेत् ।
ग्रामस्योत्तरदिग्भागे ज्येष्ठा स्थानं विधीयते ॥
ज्येष्ठायामुत्तरे दिक्षु कोट्टविस्थानमुच्यते ।
ग्राम बाह्ये तु कर्तव्यं कोट्टव्याश्रमुत्तमम् ॥
ज्येष्ठावसवयोर्मध्ये मातृस्थानं विधीयते ।
ग्रामे वा नगरे वापि पतनम् वापि कारयेत् ॥
वारुण्यां स्थापयेद् विष्णुमैशान्यां शङ्करे भवेत् ।
अन्यथा त्विरयेद्यस्तु व्याधिशोकभयं भवेत् ॥
दुर्भिक्षं कलहं घोरं सर्वहानिं तु निर्दिशेत् ।
मर्ममध्वे न कर्तव्यं रज्जुवेधञ्च वर्जयेत् ॥
विधिवेधं भवेन्न्यस्त्वारणन्तु विनिर्दिशेत् ।
त्रिशूले शूलदं प्रोक्तं षट्कका तु क्षयमाप्नुयात् ॥
मर्मे मृत्युमवाप्नोति रज्वो गर्भविनाशनम् ।
कृष्णे ग्रामनाशं स्यात् तस्माद्येतानि वर्जयेत् ॥
प्। १७)
सहस्रभूसुरैर्युक्तं ग्राममित्यभिधीयते ।
चातुर्वण सवास्तव्य नाना जातिसमन्वितम् ॥
नल्लमल्ल समाकीर्णं नाटका गणिकैस्तथा ।
नगरन्त द्विजानीयान्नाना जाति समायुतम् ॥
अनेक जाति सङ्कीर्णं पोतना वासमपितम् ।
वणिक्जन समाकीर्णं पत्तनं विधिना बुधः ॥
चतुरङ्ग बलैर्युक्तं द्वारकेटसमन्वितम् ।
विविधैररत्नलोश्चैव युक्तन्तत् खेटकं भवेत् ॥
ग्रामाद् द्विगुण विस्तारं नागरस्य वरानने ।
नगराद् द्विपत्तनं चैव द्विगुणं खेटकं भवेत् ॥
एवं विधिक्रमेणैव कारयेत् सह सुन्दरि ॥
इति ब्रह्मयामले शतसहस्रसंहितायां देवतास्थापनं नाम षष्ठः
पटलः ॥ ६ ॥