०४

दिङ्निर्णयम् ।

दिङ्निर्णयं प्रवक्ष्यामि क्षेत्रपालस्य संहृतम् ।
ऐन्द्रेशानयोर्मध्ये क्षेत्रपालालयं भवेत् ॥

पीठं वा तत्र कर्तव्यं यथाविधि पुरस्सरम् ।
स्वर्णन्तत्र खनित्वा तु विधि दृष्टेन कर्मणा ॥

चोत्तमं चाष्टहस्तं स्यात् चतुर्हस्तेन मध्यमम् ।
कन्यसञ्च तदर्धं स्यात् त्रिविधं तत्प्रकीर्तितम् ॥

प्। ८)

यथेष्टकं समाशृत्य बलिपीठं प्रकल्पयेत् ।
पूर्वमग्रं प्रकर्तव्यं लक्षणेन समन्वितम् ॥

पीठार्थ खननं कुर्यात् यथा विस्ताररूपकम् ।
पञ्चरत्नं क्षिपेत् तत्र त्वधो चैव विचक्षणः ॥

नवक्षरं क्षिपेत् तत्र मन्त्रज्ञो देशिकोत्तमः ।
पञ्चैकानन्यतस्तस्य नवार्णेन यथाक्रमम् ॥

एवं न्यस्त्वा तु विधिवत् बलिपीठं समारभेत् ।
विस्तारस्य समं प्रोक्तं चोत्सेधञ्च स लक्षणम् ॥

उत्सेधञ्च त्रिधा कृत्वा समभागं विचक्षणः ।
प्रथमं चतुरश्रं तु लक्षणेन समन्वितम् ॥

प्रथमं चतुरश्रञ्च कारयेत्तत्र वित्तमः ।
अश्रन्तु पञ्चधा कृत्वा तद्भागैक त्रिधा भवेत् ॥

तद्भागैक विहीनं स्यात् वृत्तश्रञ्च प्रकीर्तितम् ।
चतुरश्र समं कृत्वा वृत्तोर्ध्वे चतुरश्रकम् ॥

पद्मं तत्र प्रकर्तव्यं लक्षणेन समन्वितम् ।
तत्रि भागैक भागन्तु पद्मं कुर्यात् स लक्षणम् ॥

उत्सेधन्तावदेवोक्तमष्टपत्रं स कर्णिकम् ।
एवं कृत्वा समासेन पीठञ्चैव मनोहरम् ॥

शिव प्रीतिकरं वापि क्षेत्रपालं स लक्षणम् ।

इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्रपाललक्षणं नाम चतुर्थः
पटलः ॥ ४ ॥