०३

प्रतिमालक्षणम् ।

अथातस्सम्प्रवक्ष्यामि प्रतिमा षड्विधा परा ।
शैलजा लोहजा चैव रत्नजा मणिना शुभा ॥

अथवा दारुजा चैव मृणमयं च मनोहरम् ।
द्वारोत्सेधसमायुक्तं पादोत्सेधं तथैव च ॥

गर्भस्याण्डस्य प्रतिमं कन्यसं कारयेद्बुधः ।
पञ्चभागविभक्ते तु त्रिभागं मध्यमं भवेत् ॥

त्रिधागर्भसमं कृत्वा द्विभागं चोत्तमं भवेत् ।
एवं गभानुर् पञ्चप्रतिमञ्च प्रकीर्तिता ॥

नवार्धं तालमानेन प्रतिमां कुर्यात् स लक्षणम् ।
एतेषु चैव चायामं सङ्गृह्यन्तु विचक्षणः ॥

प्। ५)

तदायामं त्रिधा चैव भागे प्रतिमं भवेत् ।
भागैकन्तु भवेत् पीठं तदर्धेन तु निर्णये ॥

एवं सुखासनं प्रोक्तं स्थितैरन्यैरनुक्रमाम् ।
सुखासनस्य भवेत् पीठ चतुरश्रायतं भवेत् ॥

चतुरश्रं तथा कृत्वा तत्तद्भागन्तु विन्यसेत् ।
उभयोः पार्श्वयोश्चैव आयताश्रं प्रकीर्तितम् ॥

एवं सुखासनं प्रोक्तं लक्षणेन समन्वितम् ।
शिरः पञ्चाङ्गुलञ्चैव मुखयामं त्रिभागता ॥

चतुरङ्गुलं भवेद् ग्रीवा हृदयं मुखमुच्यते ।
हृदयं नाभिदेशे तु मुखं तत्रैव चोच्यते ॥

पञ्चाङ्गुलमुपस्थं स्यात् ऊरुश्च द्विमुखं भवेत् ।
जङ्घे चोरुसमं प्रोक्तं भागज्ञो एकपादकम् ॥

वक्षो दण्डस्य विस्तारमङ्गुल्या पञ्चविंशकम् ।
कटिदण्डत्रिंशदीर्घं षोडशाङ्गुलमुच्यते ॥

आयामं बाहुदण्डाभ्यां चतुर्विंशाङ्गुलं भवेत् ।
आयाममुपबाहुश्च षोडशाङ्गुलमुच्यते ॥

मणिबन्धे कलायामं मुखं करतलं भवेत् ।
चतुर्दशाङ्गुलायामं पादयोरुभयोर्भवेत् ॥

यस्य केश प्रमाणन्तु द्वादशं विभजेद् बुधः ।
चतुर्भागं मध्यमन्तु शूलं षड्भागमुत्तमम् ॥

प्। ६)

भवेत् कटशल्किमन्त्विभागे विधीयते ।
तस्मान्यथार्थमित्युक्तं वक्त्रो वर्णन्तु मीयते ॥

शूलमस्ति सितारज्जु कृता मासपटं तथा ।
कृतेतु श्वेतवर्णञ्च त्रेतायां रक्तमेव च ॥

द्वापरे पीतवर्णन्तु श्यामं कलियुगे भवेत् ।
पौष्टिकं सितवर्णाभं रक्तञ्चैवाभिवृद्धिदम् ॥

पीतं वशीकरं कृत्वा श्यामं शान्त्यर्थमुच्यते ।
नारीणामुत्तमा देवी तस्मान्मानमिदं परम् ॥

जानुरज्जुगताश्रेष्ठं श्वेतपद्मोपरिस्थितम् ।
चतुर्भुजं त्रिणेत्रं च शिरो माला विभूषिता ॥

नानाभरणसंयुक्ता शिरो मालावलीढका ।
त्रिशूलं दक्षिणे हस्ते कपालं वामहस्तके ॥

वरदाभयदञ्चैव करौ दक्षिण वामकौ ।
एवं विधि महावीरं सर्वाभरणभूषितम् ॥

दिव्यवस्त्रोपवीतञ्च दिव्यचन्दन लेपनम् ।
रक्तनेत्रं विशालाक्षं रक्तकेशं मनोरमम् ॥

रक्तेषु रक्तजिह्वा च रक्तमालोपशोभितम् ।
खड्गं खट्वाङ्गशूलन्तु परशुन् दक्षिणे दधत् ॥

कपालं चैव घण्टाञ्च दलपल्लव हस्तकम् ।
वामे तु कटकं दद्यात् पादेनाक्रम्य दारुकान् ॥

प्। ७)

त्रिणेत्रं वरदं रम्यम् एकवीरं प्रकीर्तितम् ।
दृष्टिद्वयञ्च शान्तिस्स्याल्ललाट प्रभयान्वितम् ॥

दारुकस्य वधोद्भूता ललाटोत्सृष्टिकीर्तिता ।
एवं विधिप्रकर्तव्यम् एकवीरी मनोहरा ॥

रक्ताक्षी विन्यसेत् प्राच्यां करालीं दक्षिणे न्यसेत् ।
चण्डाक्षी पश्चिमे न्यस्य महोच्छिष्टोत्तरं न्यसेत् ॥

अम्बिका चण्डिका चैव घोरी घोरेश्वरी तथा ।
कोणेषु विन्यसेत् कृत्वा शास्त्रदृष्टेन कर्मणा ॥

योगिनी पीतवर्णाभा विलासी कपिला भवेत् ।
एता वै द्वारदेशे तु द्वारपालं न्यसेत् क्रमात् ॥

योगिनी दक्षिणा ज्ञेया विलासी चोत्तरा भवेत् ।

इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिमालक्षणविधिर्नाम तृतीयः
पटलः ॥ ३ ॥