शिवज्ञानसिद्धिः

शिवज्ञानसिद्धि स्वपक्ष दृष्टान्त सङ्ग्रहः ॥

अभीप्सितार्थसिध्यर्थं पूजितोयस्सुरैरपि ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥

वन्दे कुन्देन्दुधवलं दन्तभिन्नान्तरायकम् ।
दानधारापतत्भृङ्ग सङ्गीतं कुञ्जराननम् ॥

श्रीमदभ्र सभामध्ये नित्यमानन्द ताण्डवम् ।
कुर्वाणमुमया सार्धं सेव्यमानं शिवम्भजे ॥

कैलासद्वार पार्श्वस्थं ब्रह्मविष्ण्वादि वन्दितम् ।
श्रीनन्दिकेशरं वन्दे सुयशावल्लभं प्रभुम् ॥

सत्यज्ञानिनमाचार्यं सम्यक् बोधप्रकाशकम् ।
तच्छिष्य अरुणन्द्याख्य अकरोछाशास्त्र मानमत् ॥

परपक्षावबोधाख्यं शतत्रयमकारयत् ।
उपोत्घाते पञ्चवृत्तं प्रमाणे तु चतुर्द्दश ॥

प्। ९६९)

आद्ये सप्तति वृत्तानि द्वितीये नवतिश्च षट् ।
तृतीयेपि च चत्वारि चत्वारिंशच्चतुर्थके ॥

पञ्चमे नवकं पश्चात्तत्सङ्ख्या षष्ठसूत्रके ।
सप्तमे तु चतुष्कोनञ्चत्वारिंशत्तथाष्टमे ॥

नवमे द्वादश प्रोक्तं दशमे षट्प्रकीर्तितम् ।
एकादशे द्वादशं च द्वादशे सप्तकं स्मृतम् ॥

स्वपक्षन्तु ततः पश्चात् सप्तविंशछ्शत त्रयम् ।
एवं पक्षद्वयोपेतं सप्तविंशति षट्छ्शतः ॥

श्रीमत्तिल्लवने पुण्ये गुहामठमुपासयन् ।
निगमज्ञान नाम्ना तु प्रख्यातो भून्महीतले ॥

तन्नामधारितश्शिष्यस्सम्प्रदाय प्रवर्त्तकः ।
इत्थं व्यवहितं शास्त्रं मवलोक्य यथामति ॥

तत्प्रामाणिक सिध्यर्थं मूलशास्त्र प्रसिद्धये ।
उद्धृत्यागम शास्त्राणि चाकरोछ्शास्त्रमुत्तमम् ॥

स्वायम्भुवे -

वचनेनापि तुष्टि स्यादुत्तमस्याधिकारिणः
दृष्टान्ते नैव तुष्टि स्यान्मध्यमस्याधिकारिणः
येन केनापि तुष्टि स्यादधमस्याधिकारिणः ।

अजिते -

लोकायतोथ बौद्धं चाथार्हं मीमांसमेव च ।
मायावादं पाञ्चरात्रं षडेते समया बहिः

भीमसंहितायाम् -

प्। ९७०)

गोष्ठिवत्समयं भेद क्षीरवछ्शिवमुच्यते ।
शिवं सर्वगतं शान्तं भजेन्नित्यं शिवाश्रतः ॥

अजिते -

आदिमध्यान्त निर्मुक्त स्वभावविमलः प्रभुः ।
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमैः ॥

चिन्त्यविश्वे -

पूर्वोक्त दीक्षया युक्तं शिष्यं विज्ञान दीक्षया ।
दीक्षयेत् कृपया पूर्णो गुरुस्सन्मार्गदायकः ॥

मनोव्यापारमात्रेण या दीक्षा विद्यते क्रमात् ।
सा दीक्षा ज्ञान दीक्षा च विज्ञानाख्या स वै भवेत् ॥

श्री पादौ शिरसा धृत्वा स्वात्मज्ञान * * बोधयेत् ॥

शिवधर्म्मोत्तरे -

संस्कृतैः प्राकृतैर्वाक्यैर्यश्शिष्यमनुरूपतः ।

ये चान्यासक्त हृदया यजन्तीशं प्रसङ्गतः ॥
तेषामिष्टन्ददातीश स्थानं भावानुरूपतः ।

प्। ९७१)

तथा चोक्तमाचार्यै -

ये चात्र शुद्ध भुवनोद्भव भोगकामा
स्त्वामर्चयन्ति * * * * * * * * * * ।
भोगन्ददासि तदनन्तरमेव मोक्षम् ॥

रत्नत्रये । वायव्य संहितायां च ।

यतो वाचो निवर्तन्ते न प्राप्यमनसा सह ।
आनन्दं यस्य वैशद्यन्नबिभेति कुतश्चन ॥

स्कान्दे -

ब्रह्माच्युतादिभिर्देवैः वेदैरपि वितर्क्कितम् ।
च्छन्दो रूपं शठात्मानश्शक्तास्तोतुं कथम् प्रभुम् ॥

पौष्करे -

अधुना श्रोतुमिच्छामः प्रमाणानि कृपानिधे ।
उत्तरम् ॥ श्रुणुध्वमथमानानि श्रोतुं कौतूहलं यदि ॥

सिद्धतन्त्रे -

त्रिपदार्थ प्रमाणाय प्रमाणानि दशोच्यते ।
प्रत्यक्षं प्रथमं प्रोक्तन्द्वितीयमनुमानकम् ॥

तृतीयं शब्दमित्युक्तम भावन्तु चतुर्थकम् ।
अर्थापत्तिः पञ्चमन्तु समानं षष्ठमेव च ॥

प्। ९७२)

ऐतीहं नवमं प्रोक्तं दशमन्तु स्वभावकम् ।
दर्शनेप्यनुमाने च शास्त्रेन्तर्भूयते दश ॥

(चका) सिद्धतन्त्रे -

विकल्प भेदसन्देहं विना ज्ञेयं सुदर्शनम् ।
वस्तुतो विद्यमानार्था विनाभावाख्य हेतुना ॥

अनुमानं च शास्त्राख्यमनुमेयं च साधयेत् ।

सुप्रभेदे -

अक्षादिकरणैर्द्दृश्यं प्रत्यक्षन्तदिहोच्यते ।
लिङ्गेन लिङ्गि विज्ञानमनुमानमिति स्मृतम् ॥

आप्तोक्ति वचनैर्गम्यं शब्दमेतदुदाहृतम् ।

पौष्करे -

द्व्यालम्बा संशया बुद्धिस्समानाकार दर्शनात् ।
विपर्ययोन्यथा ज्ञानमतद्रूपं प्रतिष्ठितम् ॥

अक्षादि करणैर्दृश्यं प्रत्यक्षं द्विविधं च तत् ।
वस्तु स्वरूपमात्रस्य ग्रहणन्निर्विकल्पकम् ॥

नामजात्यादि सम्बन्धसहितं सविकल्पकम् ।

तथा सिद्धतन्त्रे -

सिद्धार्थान्वयमन्वेति सन्देहं पूर्वमुच्यते ।
सुतरार्थं स एवेति भेदो विद्यवसीयते ॥

प्। ९७३)

नाम जाति गुणङ्कर्म्म चार्थपञ्च विकल्पते ।
पदार्थाभावभूतं च निर्विकल्पं स मौनवत् ॥

सिद्धतन्त्रे -

दर्शने तु चतुर्योगं मनश्चेन्द्रिय वेदना ।
अनुमानं स्वयं वेद्यमन्य वेद्यमिति द्विधा ॥

त्रिकारण्यागमस्तन्त्र कलामन्त्रोपदेशवत् ।

पौष्करे -

प्रत्यक्षन्त्रिविधमुक्तम् ।
एतच्चेन्द्रिय सापेक्षन्निरपेक्षन्तथैव च ॥

अन्तःकरण सापेक्षमिति त्रिविधमिष्यते ।
प्रत्यक्षन्त्रिविधं प्रोक्तमक्षमानसचिद्वशात् ॥

इति क्वचित्पक्षः । सिद्धतन्त्रे -

प्रकृतिर्मध्यमा ज्ञेया किन्तु हि द्विप्रमाणतः ।
अन्यस्व जात्यतीतं च यत्तत्प्रकृतिरुच्यते ॥

पूर्वं चतुर्विधाख्यस्य दर्शनस्य स उच्यते ।
ज्ञानेन्द्रिय कलापं च रूपायं चात्म संयुतम् ॥

विकल्पादि विनाज्ञेयो यदा चेन्द्रियदर्शनम् ।
ज्ञानाक्षादि विनागम्यमक्षादि विषयादि च ॥

प्। ९७४)

मलिनं रोधितं ज्ञानं तद्धिमानस दर्शनम् ॥

पौष्करे -

अन्यच्चेन्द्रिय सापेक्षं स्यादाच्छाद निवृत्तये ।
इन्द्रिया पेक्षया शक्त्या तद्वारेणार्थ वीक्षणम् ॥

अन्तःकरणसापेक्षं बाहेन्द्रिय जपेन तु ।
अन्तःकरणसापेक्षञ्चिच्छक्तेर्ध्येय सङ्गतिः ॥

सिद्धतन्त्रे -

आत्मज्ञानेन जीवाद्यैस्सुखदुःखादि भुञ्जते ।
आध्यात्मान्मुच्यते ह्येतत् वेदना दर्शनं भवेत् ॥

समाधिभिस्समुत्सार्यम् अन्यदेश चरित्रकम् ।
एव वासस्ततोज्ञेयो योगिभिस्साम्य दर्शनः ॥

सिद्धतन्त्रे -

त्रयः पक्ष स्त्रिहेतुश्च प्रत्येकं त्रिविधं भवेत् ।
तदिदं द्विविधं वक्ष्ये प्रशस्तमनुमानकम् ॥

स्वार्थं परार्थमिति च स्वपर ज्ञानगन्ततः ।
हेतुभिः प्रतिविख्यातमन्यकस्य स्ववित्भवेत् ॥

अन्वयि व्यतिरेकीति हेतुवाक्यमिदन्द्विधा ।

तथा पौष्करे -

अन्वय व्यतिरेकी च केवल व्यतिरेकि च ।
प्। ९७५) केवलान्वयरूपेण क्रमेणपरिलक्ष्यते ॥

सिद्धतन्त्रे -

स्वपक्षस्समपक्षश्च परपक्षश्च जायते ।
स्वपक्षस्य दृशार्थं स्यात् समपक्षी पुटीदृशा ॥

स्वमतार्थन्नयत्यर्थं परपक्षस्स उच्यते ।

तथा पौष्करे -

साध्यधर्म्मयुतः पक्षः सपक्षस्तत्सधर्म्मयुक् ।
तद्विधर्म्मो विपक्षस्यात् अवस्थान्तर भेदवत् ॥

प्रथमं हेतुरित्युक्तं द्वितीयं कार्यमीरितम् ।
तृतीयं चानुलब्धाख्यमेवं प्रकरणन्त्रिधा ॥

अवस्थान्तर भेदत्वमेवं प्रकरणं विदुः ।
कार्यधूमक गन्तृत्वमग्नेर्द्दर्शनमित्यपि ॥

शीताभावं हिमाभावं तत्ज्ञेयमनुलब्धकम् ।

पौष्करे -

सा च व्याप्तिर्द्विधात्रेधा व्यतिरेक्यन्वयात्मिका ।

सिद्धतन्त्रे ।

धूमाग्न्योर्भवतः पाकगृहेसौ कथ्यतेन्वयी ।
पत्सवापीतले धूमन्नासीदितर उच्यते ॥

पौष्करे -

तच्चेह पञ्चावयवं प्रतिज्ञा हेतुरेव च ।
दृष्टान्तश्चोपनयना निगमश्चेति पञ्चमः ॥

प्। ९७६)

इष्टार्थोक्तिः प्रतिज्ञा स्याद्धेतुस्तद्व्याप्तिमद्वचः ।
दृष्टान्तस्तूचितोक्ति याद्धेतुर्यद्वत्परीक्ष्यते ॥

दृष्टान्त पक्षयोर्व्याप्ति प्रस्तारं यदुपानयः ।
पुनः प्रतिज्ञा नियमो निगमस्यात्स हेतुकः ॥

सिद्धतन्त्रे -

पुनरप्यनुमानेन त्रिविधाख्येति चेत्कथम् ।
प्राग्दर्शनानुमानन्तद्द्वरे गन्धेन पुष्पवत् ॥

अनुमानानुमानन्तु वागज्ञानमनुमानवत् ।

पुष्करे -

आप्तोक्तिरागमार्थोपि परीक्षार्थैक साधनम् ।
प्रत्येक्षेणानुमानेन याति चार्थं सुनिश्चितम् ॥

यो वेत्ति सोयमात्मा स्यात्तस्मादाप्तस्सदाशिवः ।
इदमत्र समाख्यातं प्रागुक्तन्त्रिविधागमः ॥

अनादिशुद्ध सर्वज्ञ शिवेन कथितागमः ।
पूर्वापराविरोधं यत्तद्धितन्त्रं कला भवेत् ॥

चित्तादि निश्चिलं कृत्वा तद्वत्कुर्याच्चानुकुलम् ।
आद्यन्तरहितो देवो भाव बोधोपदेशवित् ॥

पक्षाभावस्तु चत्वारो हेत्वभात्वेकविंशतिः ।
सिद्धान्ता भात्वदर्शाष्टौ द्वाविंशन्निग्रहा स्मृताः ॥

प्। ९७७)

पञ्चषष्टिरिमे प्रोक्ता आभास?

अथ प्रथम दृष्टान्तमुच्यते ।
अत्र सूत्रलक्षणं निश्वास कारिकाया मुक्तम् ।

तद्यथा ।

सूचनात्सूत्रमित्याहुस्सूत्रनाम महत्पदम् ।
तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥

तथोक्तम् पराशरपुराणे -

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं यत् सूत्रं सूत्रविदो विदुः ॥

स्वायम्भुवे -

स्त्री पुन्नपुंसकं ज्ञेयञ्जगत्सर्वं क्रमेणजम् ।
स्थितिस्संहारतो विप्र सर्वदा कर्तृ पूर्वकम् ॥

अनादि मुक्तचिद्रूपः कृत्यकर्ताहरः प्रभुः ।

तथा शिवज्ञान बोधे -

स्त्रीपुन्नपुंसकादित्वं जगतः कार्यदर्शनात् ।
अस्तिकर्त्ता सहृत्वैतत् सृजत्यस्मात्प्रभुर्हरः ॥

स्वायम्भुवे -

काषा?नित्या जगत्सृष्टि स्थितिर्ध्वंसक उच्यते ।

उत्तरम् ।

नानुमानागमावत्र चास्य कार्यस्य सम्भवे ।
दृष्टिवत् सर्वभूतेषु नाशोत्पत्ति प्रदृश्यताम् ॥

प्। ९७८)

अथ सर्वमतोपन्यासे -

प्रत्यक्षेण हि सिद्धेद्धैनानुमानं प्रवर्तते ।
अनुमानेन साध्यं चेत् परतत्वं प्रसज्यते ॥

स्वभाव इति भूतानां सृष्टिस्संहार उच्यते ।

उत्तरम् । पराख्ये -

चतुर्णामपि भूतानां स्वभावो नैव दृश्यते ।
तस्मान्न कम्पते धात्री कमुष्णं दृश्यते कवचित् ॥

वह्निन्निर्वाण मायाति वायुरुर्ध्व गतिः क्वचित् ।
भूतेषु हि स्वभाषेन किं पुनः कार्यसम्भवे ॥

सृष्टिस्थित्यन्तनाशेन कार्यत्वेनान योगतः ।
जडत्वेनाप्यतोभूते सर्वतः कर्त्तृ पूर्वकम् ॥

पराख्ये -

स्वयमेव चतुर्भूतः सर्वकृत्यं करोत्यतः ।
फलप्रदन्तिति प्रोक्तं क्वचित्कर्ता च मा कुरु ॥

उत्तरम् ॥

भूताश्चतुष्टयाः ख्याता स्थित्युत्पत्ति लयास्सदा ।
आद्यन्तरहितो देवस्सर्वतोपि करोत्यसौ ॥

शयश्च विशेषेण बूतानामुत्भवा * * * ।
भूताद्विनात्र कार्य * * * * * * * ।

प्। ९७९)

द्वयोश्च कारणं मायेत्याहुरत्र विपश्चितः ।
पटाद्या यजमानेन कार्योत्पत्तिर्न दृश्यते ॥

तथास्य स्यात् तु कार्य * * * * * ।

निश्वासोत्तरे -

स्वयमेवेति नास्ति स्यान्नास्ति कर्त्तैक वस्तु चेत् ।
तथैवा याति तस्य स्यान्नाशोत्पत्तिस्ततः कथम् ॥

अस्ति कर्ता तथा च स्यात्तया तत्कार्य दर्शनात् ।

निश्वासोत्तरे -

अह देहलयोत्पत्ति जडादृष्टं कथं भवेत् ।

उत्तरम् ।

श्रोतुमिच्छमि सर्वेषामितीदं शृणु पार्वति ।
आकाशाज्जायते वायुर्वायोरग्निरुदाहृतः ॥

अग्नेज्जलञ्जलात्पृथ्वी भूतानां क्रममेव हि ।
एतेषां सर्वभूतानां संयोगो लोक उच्यते ॥

अन्यत्र ।

एवं क्रमाल्लयः प्रोक्तस्तच्च कालान्तरेण तु ।

कारणे चिन्त्ये -

यदि स तृणनाशोपि न चेच्छुण्वस्य पार्वति ।

प्। ९८०)

वार्षादिवाङ्कुरन्दृश्यमभवत् स्वपथा जगत् ।

कारणे -

कालस्त्रिभिश्चेतनश्चेत् कर्तृत्वं काल एव हि ।

उत्तरम् ।

उपादानेन जातेन नाशेनापि जडो भवेत् ॥

अपि च ।

प्रपञ्चसृष्टिरित्युक्तम् एककाले हि सम्भवः ।
तस्मान्महेश एव स्यात् कालवत्परिपालकः ॥

कारणे -

अखिलाख्यमणूनां च कर्म्मणां सम्भवात्ततः ।

उत्तरम् ।

यद्वच्च पूर्वमेवोक्तम् कर्म्मापि जडवत्भवेत् ।
घटस्यमृदुपादानन्दृष्ट्य यद्दृश्यते तथा ॥

इदन्तदनुमानेन मायोपादान कारणम् ।
माया कारणमेवाहुरणूनां कार्यदर्शनात् ॥

कारणे -

जगतः कारणाख्याणु भूतकार्येति कथ्यते ।
कार्यावयव रूपेण दृश्येनापि घटादिवत् ॥

यद्दृश्यं तद्विनाश्यं स्यान्मायोपादान कारणम् ।
सृष्टिस्थिति?संहारम् माया कार्यं विपश्चितः ॥

कथं चेत्बीजशाखादि भूमाधारेण जातवात् ।

रत्नत्रये -

यद्यदुत्पद्यते वस्तु तन्मायेयं कथा कला ।
उत्पत्तिनाशो मायाया धर्म्मावाह महेश्वरः ॥

प्। ९८१) किरणे -

तत्कार्यकारिका शक्तिः क्रियाख्य सूक्ष्मरूपिणी ।
स्थूलकार्यं च सूक्ष्मापि स्थितान्यग्रोधबीजवत् ॥

जगत्कारण मायाख्य परिणामः कदाचन ।
माययात्र जगज्जातश्शशशृङ्गोक्ति जातवत् ॥

वृक्षाच्छदो नापूर्वेण पश्चाद् वृक्षेषु जायते ।
कूततश्च तथैवोक्ता स्थिति स्यात् कारणं पुनः ॥

कारणे -

इयं कारण कार्येण ह्यनादाख्यं जगत्सदा ।
अतिप्रपञ्चन्तत्कर्त्ता सृष्टिकार्यात्ततो भवेत् ॥

प्रश्नः ।

विश्वकारणं मायैव कथं कर्त्तेति नोच्यते ।

पराख्ये -

अतोस्ति बुद्धिमान्कश्चिदीश्वरस्समव स्थितः ।
आदि प्रपञ्चन्तत्कर्त्ता चोपादानं परं स्मृतम् ॥

प्रतिपन्न स्वकार्येण दृष्टेनात्रानुमानतः ।
अन्यथानुपपत्त्यावा तद्वदेवमनादिकम् ॥

मूर्त्तास्सा वयवायेर्था नानारूपपरिच्छदाः ।
पतिर्विश्वस्य निर्म्माता पशुपाश विलक्षणः ॥

अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ।
अचेतनत्वादज्ञत्वादनयोः पशुपाशयोः ॥

प्। ९८२)

प्रधान परमाण्वादि यावक्रिञ्चिदचेतनम् ।
न तत्कर्तु स्वयन्द्रष्टुं बुद्धिमत्कारणं विना ॥

जगत्कत्ता सापेक्षं कार्यं सावयवं युतः ।
तस्मात् कार्यस्य कर्तृत्वं पत्युर्न्न पशुपाशयोः ॥

पराख्ये -

निमित्तमीश्वराख्यं तद्दृष्टं सहकारणम् ।
उपादानं च यत्सूक्ष्मं सर्वकार्येषु संहितम् ॥

य शक्तिश्चेश्वरो माया मृद्वच्चात्र कुलालवत् ।

तथा निश्वासे -

यथा कार्ये घटाद्या तु कुम्भकारेण मृत्तिका ।
कार्याख्यं च जगत्सर्वं कारणेन करोति सः ॥

क्रिया शक्त्या जगत्सर्वं कुरुते परमेश्वरः ।
कारणानान्त्रयन्तेन सर्वकार्येनुमीयते ॥

निश्वासोत्तरे -

बिन्दुमाये तयाव्यक्तः कारणत्रयमुच्यते ।
तस्याश्चतस्रो वाग्रूपा वृत्तयो वैखरीमुखाः ॥

वैखरी मध्यमाचान्या पश्यन्ती सूक्ष्मसञ्ज्ञिता ।

पौष्करे -

कलाविद्या च रागश्च कालोनियतिरेव च ।
पञ्चैतानि च तत्वानि माये यानि द्विजोत्तमाः ॥

प्। ९८३) मृगेन्द्रे -

गुणधीगर्वचित्ताक्ष मात्राभूतान्यनुक्रमात् ।

पौष्करे -

कर्तृत्वं द्विविधं विप्राः क्रियास्सङ्कल्पकोटयः ।
अष्टावनन्त पूर्वास्ते यथा पूर्वं गुणाधिकाः ॥

परे सदाशिव समाः पतिकृत्यानुकारिणः ।
तत्त्वाध्वा भुवनाध्वा च वर्णाध्वा च पदक्रमः ॥

मन्त्राध्वा व्यापकस्तेषां कलाध्वा बिन्दुमाश्रितः ।
बिन्दुपादान जन्यत्वात्तेषां बैन्दवमुच्यते ॥

पौष्करे -

चतस्रो वृत्तयस्तस्याः वाभिर्व्याप्तास्त्रिधाणवः ।
आभ्यो न परमो बन्ध आभ्यो मुक्तिस्तु नापरा ॥

तन्निवृत्य विना भूतो दृक्क्रियावारको यतः ।

तथा निश्वासोत्तरे -

आहुरेव जगत्सर्वं प्रवृद्धं शब्दवृत्तिभिः ।
न हि शब्दादृते पुंसः प्रत्ययोस्ति कदाचन ॥

यदाशिव प्रसादेन ज्ञानं स्यान्मोक्ष अस्य तु ।

कालोत्तरे

आगोपालाङ्गना बाला म्लेच्छाः प्राकृत भाषिणः ।
प्। ९८४) अन्तर्जलं गतास्सत्वास्तेपि नित्यं व्रुवन्तितम् ॥

अस्यार्थः । तस्य वृत्तौ प्रपञ्चितः । रत्नत्रये -

परिणामस्य कर्तृत्वेनज्ञा? वै वृत्तयस्तथा ।
परिणामस्ततोनन्तः यतः कर्त्ता ततस्तथा ॥

निश्वासोत्तरे -

रूपोरूपेन जातोपि विकारोप्यविकारवत् ।
अविकारे अरूपे खे भूतानाञ्जननादिवत् ॥

विद्युद्धूम धनुस्तोयमेवा शनिजशब्दवत् ।

निश्वासे -

यथा लोके घटाद्यास्तु कुम्भकाराम्मृदा तथा ।
कार्याख्यन्तु जगत्सर्वं कर्तृत्वेन करोति सः ॥

प्रश्नः ।

अखण्ड परिपूर्णासावधि तिष्ठन्करोति सः ।
कालस्तरुष्वमूर्तोपि करोति कुंसुमोच्चयम् ॥

फलानां च तथा तेषां पतनञ्च यथा निशम् ।
तथोत्पत्ति विनाशानां कर्त्ता शम्भुरमूर्त्तिमान् ॥

तथा किरणे -

यथा कालोह्यमूर्तोपि दृश्यते फलसाधकः ।
एवं शिवोह्यमूर्तोपि कुरुते कार्यमिच्छया ॥

प्। ९८५)

निश्वासोत्तरे -

सर्वात्मनां च जननं मरणं च तथैव हि ।
कारुण्यात् क्लेशमालोक्य तेषां शम्भुः पुनस्तथा ॥

कर्म्मणां पाचनार्थाय सृष्टिन्निर्म्माय पूर्ववत् ।

मृगेन्द्रे -

स्वव्यापारान् बोधयन् बोधयोग्यान्
रोध्यानुन्धन् पाचयन्कर्म्मिकर्म्म ।
मायाशक्तिं व्यक्तियोग्यां प्रकुर्वन्
पश्यन्सर्वं यद्यथा वस्तुजातम् ॥

निश्वासोत्तरे -

शिवः कृत्यत्रयं चैव कुरुतेप्यधिकारवान् ।
शिलागारेग्नि पक्वं च पत्मभूमौ रसक्षयम् ॥

आदित्येन यथा दृश्यमीश्वरेण तथैव च ।
रुद्रो विष्णुस्तथा ब्रह्मसृष्टि स्थित्यन्त देवताः ॥

आदौ कृत्यास्तिमान्प्रोक्तश्शिव एवेति तछ्श्रुणु ।
ब्रह्मा सम्पूज्यं भक्त्या तं लिङ्गं शैवमयं शुभम् ॥

तस्य सम्पूजनादेव प्राप्तत्वं ब्रह्मत्वमुत्तमम् ।
इन्द्रनीलमयं लिङ्गं समभ्यर्च्य जनार्द्दनः ॥

विष्णुत्वं प्राप्तवांस्तेन सोत्भूतैक सनातनम् ।

प्। ९८६)

ब्रह्मादिस्तम्ब पर्यन्तञ्जगद्योनिश्चराचरम् ।
चराचरादिभूतानां प्राण भूतश्शिव स्मृतः ॥

तथा वायव्ये

परमैश्वर्य सम्पन्नाः परमेश्वर भाविताः ।
तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥

स्वायम्भुवे -

संसृज्य विश्वं भुवनं गोप्तासन् सञ्जहार यः ।
एक एव तदा रुद्रो न द्वितीयोस्ति कश्चन ॥

अतीता खल्वसङ्ख्याता ब्रह्माणो हरयो यतः ।

स्कान्दे -

संसारदुःखहरणात् प्रपञ्चहरणाच्चया ।
प्राक्तनैर्हर इत्याख्या भवतः परिकीर्तिता ॥

प्रकृतौ प्रलये प्राप्ते नष्टे स्थावर जङ्गमे ।
ब्रह्मा विष्णुस्सुरास्सर्वे लयं यान्ति शिवं विना ॥

स्वायम्भुवे -

पशुना देहसंयोगो भोगोमोक्षाय कथ्यते ।
तथापि सन्तश्चेत्याहुरनादिमलमोचकाः ॥

पशूनां हारिमित्युक्तम् विस्मयं गमयेत् पदो ।
मलबद्धेन स्रष्टाख्या तत्तत्कर्म्ममलं गतम् ॥

प्। ९८७)

स्थितिर्जननमन्तोयं कर्म्मयोगेत्वहङ्कृतिः ।
विवक्षया पशूनान्तु विद्यमानमनुग्रहः ॥

तथान्यत्राजगत्सा * * * * * * * * * ।

उत्तरम् ॥

एवमेतत्त्रयं चोक्तन्तस्य रूपमुदाहृतम् ।

तथा सुप्रभेदे -

तछ्शरीरं त्रिधाज्ञेयं निष्कलं * * ष्कलम् ।

तद्वदेव हि बोद्धव्यं ग्रहणं मोचनं विभोः ।
मायात्मक * * * * * त्तमम् ॥

मृगेन्द्रे -

मूलाद्या शाम्भवाच्छाद्यवपुर्न्नस्तादृशं विभोः ।
तस्यैव पाशमुक्तत्वात् ज्ञानं केन निवार्यते ॥

मतङ्गे -

अथ शक्ति स्वरूपश्चेत् परिणामोहि दृश्यते ।
नित्यानन्दस्य रूपं च षडध्वा मार्गवत्भवः ॥

प्। ९८८) डं?किणिपता ।

विश्वे सर्वपदार्थेपि रूपारूपन्न योगजम् ।
सशिवोपि च पथ्येषु तथाप्येको भवेत्पुनः ॥

बन्धमोक्षपदार्थो न नाद्यन्तो नापि संश्चसः ।
न लक्ष्यते तया तस्य क्वचित्भाव विनिश्चितः ॥

चिन्त्ये -

निरामयो निराधारो वर्णरूपविवर्जितः ।
सर्वज्ञस्सर्वगश्शान्तस्सर्वात्मा सर्वतो मुखः ॥

यस्साक्षी सुखदुःखानां लोकेस्मिन्सर्व वस्तुनि ।
स एव भगवान्व्यापी चाप्रमेयोप्यनौपमः ॥

पौष्करे -

स्वस्वेच्छा मात्रतस्तस्य स्वशक्ति किरणात्मिकः ।
मूर्तिमासाद्यते यस्मात् सद्योमूर्तिरिति स्मृतः ॥

वातुलोत्तरे -

रूपमादाय कृपया कथ्यते चागमार्णवान् ।
तथोपपन्ना सर्वस्य गुरुसन्तानपादुका ॥

तथा किरणे -

एवन्न कुरुते तावद्यावन्नो गुरुसन्ततिः ।
कुरुतेनुग्रहन्देवस्सर्वेषामेव देहिनाम् ॥

प्। ९८९)

किन्तूपदेश कर्तृत्वात् स गुरुस्तेन सश्शिवः ।
यद्यसौ सकले नैव नाममन्त्रगुरुक्रमः ॥

किन्तूपदेशेन विना तदा भवति निष्फलः ।
यद्येवन्न भवेत् तत्थ्यं तदा न स्यात् गुरुक्रमः ॥

पुंसामनुग्रहार्थाय परोप्यरतां गतः ।
कृत्वा मन्त्रात्मकन्देहं वल्कि? तन्त्राण्यनेकधा ॥

बोध्यबोधक सम्बन्धाद्वक्ति तन्त्राण्यनेकधा ।

वातुलोत्तरे -

यद्रूपं तत्कृपा तस्य शिव सृष्ट्यादिकन्तथा ।
साङ्गोपाङ्ग इतीशस्य भोगदं मोक्षदं प्रभोः ॥

तदुक्तं कारणे -

नेत्र नासाग्र कर्णोश्च पाणीपादतलाङ्गुलीः ।
जटामकुट सम्युक्तं साङ्गं चेति प्रकीर्तितम् ॥

वस्त्रोपवीत माल्यानि चायुधाभरणानि च ।
गङ्गाचन्द्र अपस्मारनाग्रकूर्म्मन्ततः पुनः ॥

आसनादीनि सर्वाणि चोपाङ्गमिति कीर्तितम् ।

वातुलशुद्धाख्यायाम् -

अङ्गप्रत्यङ्गसाङ्गानि चतुर्थोपाङ्गमित्यपि ।

प्। ९९०)

सुप्रभेदे -

रुद्रैकादश पूर्वस्तु द्वादशादित्य संयुताः ।
वसवश्चाश्विनीयुक्तास्त्रय स्त्रिंशति देवताः ॥

स्कान्दे -

ब्रह्मादि देवताश्चान्या नैव संसारमोचकाः ।
एषामेव हि जन्तूनां महासंसार वर्त्तिनाम् ॥

संहारमोक्षकस्तेषां सर्वज्ञस्साम्ब ईश्वरः ।

शुद्धाख्यायाम् -

नानारूपधरो देवो नानाभोग समन्वितः ।
नानाचिह्न समोपेतो नानालीलाधरोहरः ॥

महेशं सकलं विद्यात् सृष्टिस्थितिलयात्मकम् ।

तथा वायव्ये -

चरितानि विचित्राणि गुह्यानि गहनानि च ।
दुर्विज्ञेयानि देवस्य मोहयन्ति मनांसि च ॥

वीरतन्त्रे -

सोमास्कन्दस्तु पूर्वस्यात् सुखासीनस्ततः परम् ।
कल्याणसुन्दरश्चैव चन्द्रशेखर एव च ॥

गङ्गाधरश्च पञ्चैते सृष्टिरूपा उदाहृताः ।
वृषवाहोर्धनारीशः किरातो वीर एव च ॥

प्। ९९१)

भिक्षाटन पराश्चैते स्थिति मूर्त्तय ईरिताः ।
नर्तको मदनारिश्च कालदन्तिपुरद्विषः ॥

जलन्धरघ्नश्चैते षट् भेदास्संहारमूर्तयः ।

शैवे एकादश रुद्रसंहितायाम्

कदाचिद्रहसि प्रीतानिजाज्ञावशवर्त्तिनः ।
रमणञ्जानती मुग्धा पश्चादभ्येत्य सादरम् ॥

कराभ्यां कमलाभाभ्यां नेत्रमस्य जगत्पतेः ।
पिदधे लीलयाशम्भोः किं भवेदिति कौतुकात् ॥

अन्धकारो भवेत्तीव्रं चिरकालभयङ्करम् ।
निमेषार्धेन देवस्य जग्मुर्वत्सर कोटयः ॥

देवी बिलादुत्थेन तमसा भूज्जगत्क्षयः ।
तमसा पूरितं विश्वम्मपरेण समन्ततः ॥

रुद्धास्ते सूरयो भक्ताश्शम्भुमानम्य तुष्टुवुः ।
इति तेषां वचश्रुत्वा भक्तानान्नियतात्मनाम् ॥

विकासिते तु फालाक्षे जग्राह विश्वरन्तमः ।
विश्वसाक्षीति गौरीयं करुणामूर्त्तिरन्ध्रवित् ॥

विससर्ज च सा देवी पिधानं हर चक्षुषोः ।
सोमसूर्याग्नि रूपाणां प्रकाशैरभवज्जगत् ॥

प्। ९९२)

लैङ्गे -

गत्वा तदाश्रमं शम्भोस्तदारत्या तया सह ।
वसन्तेन सहायेन देवं योद्धुं मनोह्यभूत् ॥

ततस्सम्प्रेक्ष्य मदनं हसन्नेव स्त्रियम्बकः ।
नयनेन तृतीयेन सावज्ञन्तमवैक्षत ॥

ततोस्य नेत्रजो वह्निर्मदनं पार्श्वत स्थितम् ।
अद्रहत् तत्क्षणादेव लीलावान् करुणानिधिः ॥

स्थितये ह्याश्रमाणां च हितार्थं भगवान्भवः ।
तदा हैमवतीन्देवीमुपयेमे यथा विधि ॥

चिन्त्ये -

निसर्गस्थिति संहारं यस्मिन्नेव निगद्यते ।

तथा कामिके -

देवदानव गन्धर्वमुनयो मनुजादयः ।
पिपीलिका गजाद्यन्ता जङ्गमास्थावराश्चये ॥

तेनुग्राह्या स्मृताशास्त्रेनुग्राह्या बहुधा मताः ।

वातुलशुद्धाख्यायाम् -

सृष्ट्यर्थं सर्वतत्वानां लोकस्योत्पत्तिकारणम् ।
योगिनामुपकाराय गृह्णाति स्वेच्छयातनुम् ॥

शिवस्सदाशिवश्चैव महेशस्त्रिविध स्मृतः ।
शिवस्तत्त्व महासेन निष्कलन्त्वितिकीर्तितम् ॥

प्। ९९३)

सकलन्निष्कलोपेतं सादाख्यमिति चोच्यते ।
महेशस्सकलं विद्यात्त्त्रिविधास्ते भवन्ति वै ॥

सुप्रभेदे -

निष्कलं च कलाहीनं कलाभिस्सकलं भवेत् ।
सकलाकलमिश्रं यत्तस्मात्तस्मात् सकलनिष्कलः ॥

परन्निष्कलमित्युक्तमपरं सकलं स्मृतः ।
परापरन्तु यत्प्रोक्तन्तत्स्यात्सकलनिष्कलम् ॥

वातुलोत्तरे -

अध्वमूर्तिरिति ख्यातिः परमेतत् कथं प्रभो ।

उत्तरम् ॥

नित्येनापि च पूर्वेण चिदचिच्चेष्टितेन च ॥

वेदागमेषु शास्त्रेषु चाध्वामूर्तिरिहोच्यते ।

तदुक्तं ब्रह्मशम्भुपादैः -

शान्त्यतीत कलामूर्धां शान्तिर्वक्त्र सरोरुहः ।
विद्याकला तु वक्षोङ्गं प्रतिष्ठा गुह्यमण्डलम् ॥

निवृत्तिर्ज्जानु जङ्घाङ्घ्रि भुवनाध्वा तनूरुहाः ।
वर्णत्वङ्मन्त्र रुधिरं पदं मांस सिरादिकम् ॥

तत्त्वं मज्जास्थि शुक्लादि धातवः परमेष्ठिनः ।
सदाशिवष्षडध्वात्मा तस्य प्राणश्शिव स्मृतः ॥

तथा स्वायम्भुवे -

प्। ९९४)

तत्त्वं पदं च मन्त्रं च वर्णं च भुवनं कला ।
अध्वामार्गस्समाख्यातो व्यापकत्वं शिवस्य तु ॥

अयाध्वा कल्प्यते तथ्यं व्यापकत्वं तथा गतम् ।

वातुलोत्तरे -

किं कारणेन मन्त्राध्वा देवस्य तनुरुच्यते ।
उपादानमतश्शक्तिर्बिन्दुभिर्म्मोहितञ्जगत् ॥

चिन्तयारहितं यत्तत्परमं परमं परिकीर्तितम् ।
मन्त्रयोनिर्म्महामाया या परिग्रह वर्त्तिनी ॥

कालोत्तरे -

तस्मिन्प्रजायते मन्त्रस्तत्रैव प्रविलीयते ।

वातुलोत्तरे -

शिवश्शक्त्याधिष्ठितस्तु मन्त्राध्वा तेन कीर्तितः ।
भुक्तिमुक्ति प्रदामन्त्रास्त्वर्च्चिता शिवमध्वरैः ॥

अनुग्रहाय लोकस्य शिवोमन्त्र इति स्मृतः ।
यात्वनुग्राहिका शक्तिस्सामरस्यमिहागता ॥

मन्त्रेषु पञ्चमन्त्रस्थ युक्तन्तन्त्रेषु वक्ष्यते ।

उत्तरम् ।

आत्मनोनुग्रहार्थाय स्वेच्छया स च कथ्यते ॥

पञ्चमन्त्रतनु श्रीमान् सकलः परिपठ्यते ।
मतङ्गे ईशानं प्रथमं ब्रह्म ततस्तत्पुरुषात्मकम् ॥

प्। ९९५)

तृतीयमप्यघोराख्यं वामदेवात्मकन्ततः ॥

पञ्चमं सद्य इत्युक्तम् ब्रह्म सर्वार्थसाधकम् ।
प्राधान्येन स्थिता ह्येता विद्यामन्त्राश्च सुव्रत ॥

ईशानी पूरणीहार्दि वामामूर्त्तिश्च पञ्चधा ।
एताभिस्समवेतोसौ शक्तिभिस्सममधिष्ठितः ॥

तथा पौष्करे -

एवं मन्त्रास्तु पञ्चैते तैर्निबद्धा तनु * * * * * ।

वायव्ये -

ब्रह्मादयोपि लोकानां सृष्टि स्थित्यन्त हेतवः ।
ब्रह्माविष्णुस्ततो रुद्रस्सृष्टिस्थित्यन्त देवताः ॥

आदौ कृत्याप्तिमान् प्रोक्तश्शिव एवेति तत्स्मृतम् ।
स्वा * * * * * * * * * * * * * * * ॥

एकानेक विभागेन स * * * * * * शिवेच्छया ॥

क्रिया त्रिधातु विज्ञेया वामाज्येष्ठा च रौद्रिका ।

तथा निश्वासोत्तरे -

मन्त्र्याद्यनेक जन्तूनां भूपतेश्शक्तिभेदवत् ।
एक एव शिवश्शक्तिस्तथा कार्याह्य भेदतः ॥

प्। ९९६)

तस्माछ्शिवात्मिका शक्तिर्भोगमोक्षौ शिवेच्छया ।

चिन्त्ये

शक्तिरूपं च कोवेत्ति महाविज्ञानमेव हि ।
क्रियया इच्छया ज्ञानैर्विना तछ्श्रुणु पार्वति ॥

यावत्ज्ञानं क्रियायेच्छा तस्मात्ज्ञानं क्रियां विना ।

स्वायम्भुवे -

यदेकेकोक्त गुणं शक्ति धर्म्मसामर्थ्यकन्द्विधा ।
ज्ञानशक्तिः क्रियाशक्तिरिच्छा ज्ञानक्रियात्रिधा ॥

शिवेन सर्पजन्तूनां कारुण्यात्समुदाहृतम् ।
ज्ञानशक्त्या विजानाति क्रियया कुरुते जगत् ॥

पराख्ये -

चिद्रूपमात्मनो रूपन्दृक्क्रिया गुणलक्षणम् ।
ज्ञानरूप स्थितस्यापि स्वरूपन्दृक्क्रियात्मकम् ॥

उत्तरम् -

कर्तृशक्तिरणोर्न्नित्या वह्नीचेश्वर शक्तिवत् ।
तमच्छन्नतयार्थेषु नाभाति निरनुग्रहा ॥

तथा मृगेन्द्रे -

चैतन्यन्दृक्क्रियारूपन्तदस्त्यात्मनि सर्वदा ।
सर्वतश्च यतोमुक्तौ श्रूयते सर्वतो मुखम् ॥

प्। ९९७)

तदप्य भावमानत्वात् तन्निरुद्धं प्रतीयते ।

पौष्करे -

केवलं ज्ञानमेवापि शिवमेवेति सुस्थितम् ।

तत्रैव ।

उपसंहृत कार्यात्मा यदा बिन्दुर्व्यवस्थितः ॥

तदालयाह्वयन्तत्वं शिवतत्वं तदेव हि ।

चिन्त्यविश्वे -

चिदचित् ग्राहकार्थोयश्शिवो मोक्षस्तुशक्तितः ।
अस्यैव चाविभागेयम् सा ज्वालेव हविर्भुजः ॥

ज्ञानशक्त्या क्रियाशक्त्या समस्तन्तद्विजृम्भितम् ।
सदा शिवाख्यकन्तत्वं सकलन्निष्कलं भवेत् ॥

क्रिया शक्त्युत् बणत्वं च ज्ञानशक्त्य पकर्षणम् ।
तत्र तत्प्रसरन्तत्वमीश्वराख्यमिदं भवेत् ॥

क्रियाशक्त्यपकर्षेण ज्ञानशक्त्युत्वणन्तथा ।
विद्या तत्वस्य चोत्पत्तिर्ज्ञानगम्याभवत्तदा ॥

इच्छाज्ञानक्रिया चैव शिवे स्थित्वा सदैव हि ।
स्वं स्वं कार्यं प्रकुर्वन्ति सर्वानुग्रहकारणात् ॥

किरणे -

इच्छानुग्रह कर्तृत्वाल्लय भोगाधिकारवान् ।
त्रिविधं कृत्य भेदेन दर्शिनो नाम भेदत? ॥

प्। ९९८)

मृगेन्द्रे -

शक्तोद्युक्त प्रवृत्तत्वात् कर्त्ता त्रिविध इष्यते ।
शक्तेः प्रवृत्ति भेदेन भेदस्तस्योपचारतः ॥

कालोत्तरे -

शिवश्शक्तिश्च सादाख्यमीश्वरस्तदनन्तरम् ।
शुद्धविद्या च पञ्चैते शुद्धतत्त्वम् प्रकीर्तितम् ॥

मतङ्गे

शुद्धदेहमिति प्रोक्तन्नित्यं स्वातन्त्र्यविग्रहम् ।
कृत्यभेदं विना पूर्वापरन्नप्रसरक्रमः ॥

कालोत्तरेपि तथा ।

शिवैको बहुरूपस्तु नभसो बहुरूपवत् ।
सर्वेषामपि भावोपि यदर्थेन स्वभावतः ॥

शिवश्शक्तिश्चेति वाक्यं वृक्षस्य कठिनत्ववत् ।

अन्यत्र ।

स्वर्णनीलादि संस्पर्शात् स्फटिकन्तन्मयं यथा ।
शिवोपि शक्तिभिर्भेद्यस्तयो स्वाभाविकञ्च तत् ॥

शिवस्तु शक्तिभेदेन तत्स्वभावन्नमुञ्चति ।

मतङ्गे -

प्रवृत्तौ शक्तयस्सिद्धाश्शक्तीनां कारणं शिवः ।
अकारणश्शिवः प्रोक्तस्तन्त्रेस्मिन् पारमेश्वरे ॥

प्। ९९९)

स्त्रियः पुमानिति जगत् सर्वं शक्ति शिवात्मकम् ।
सर्वस्यानुग्रहार्थं च लिङ्गपीठक्रमन्तथा ॥

तथा वायव्ये -

शङ्करः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ।
सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव च भूतयः ॥

सुप्रभेदे -

लिङ्गेनलाञ्छितं पुंस्त्वं स्त्रीत्वं वै योनिलाञ्च्छितम् ।
लिङ्गमीशमयं प्रोक्तं योनिश्शक्तिमयं भवेत् ॥

तस्माद्वे शिवशक्ती तु सर्वमेतच्चराचरम् ।
लिङ्गे शम्भुस्समुत्भूतो नाम्ना सोपि सदाशिवः ॥

पीठे शक्तिस्समुत्भूता नाम्ना सापि मनोन्मनी ।

मकुटे -

लिङ्गे च पीठिकायां च शिवशक्तिसमुद्भवः ।

मतङ्गे -

रूपन्नास्त्यस्य नामादि नास्ति कृत्यं करोति च ।
तथादि योगो भोगो न चिदचिन्नास्त्यतश्शिवम् ॥

सर्वेषां स्वयमेवस्यात्तन्मयो नास्ति यद्यपि ।
इत्यादिम सूत्रं पुर्णम् ॥

प्। १०००)

सर्वज्ञाबोधे -

अन्यस्सन्व्याप्तितोनन्यः कर्त्ताकर्म्मानुसारतः ।
करोति संसॄतिं पुंसाम् आज्ञया समवेतया ॥

चिन्त्ये -

यस्य सन्निधिमात्रेण चेष्टन्ते सर्वजन्तवः ।
यस्य सत्भाव मुच्यन्ते त्रैय्यन्ते सकलागमाः ॥

यत्स?माक्षी सुखदुःखानां लोकेस्मिन् सर्ववस्तुनि ।
अणोरणुर्म्महीयांश्च महतो यत्परापरम् ॥

वेदान्तेष्वेक एवेति कथं बहुतयोच्यते ।

उत्तरम् ॥

तेषु कर्त्तैक एवेति साध्यते परमार्थतः ।

वातुलोत्तरे -

शिवस्तु सर्वजन्तूनामक्षराणामकारवत् ।

तथा शुद्धाख्ये -

कला जीव इति ख्यातो विकला देह उच्यते ।

तथा किरणे -

चराचरादि जन्तूनां शिवोसौ प्राणमुच्यते ।

प्। १००१)

तं विना प्रसत्येव नाक्षराणामकारवत् ।

तथा शुद्धाख्ये -

कलाजीव इति ख्यातो विकलादेह उच्यते ।
कला च विकला चैव देहि देहाविति स्मृतौ ॥

कलाहीनं तु यद्वर्णं जीवहीनं विनिर्द्दिशेत् ।
विभुश्च तत्त्वैरात्मा च प्रत्येकं गणयेत् स्थितिम् ॥

पराख्ये -

कर्म्मणा देहसंयोगो विभोरपि महेश्वरात् ।
अशक्तत्वात् स्मृतो नास्य सामर्थ्यं कर्म्मयोजने ॥

सिद्धान्त सङ्ग्रहे

न कल्प्यौ सुखदुःखाभ्यां धर्म्मा धर्म्मौ परैरिह ।
स्वभावेन सुखी दुःखी जनोन्योन्यं न कारणम् ॥

पराख्ये -

जलेयदुष्ण गन्धत्वं कार्म्मिकं कृत्यतावशात् ।
देहिनां पुण्यपापाख्यं स्वभावेन शुभाशुभम् ॥

तच्चैतन्यं स्वभावं हि तत्स्वभाव विपर्ययः ।
एकस्यारभ्यते दुःखं सुखानां वापि तज्जडम् ॥

इहलोके यदात्मानम् बह्वर्थोस्ति सदा सुखम् ।
नास्ति दुःखादृते पूर्वकृतेनैतत्तथा यदि ॥

प्। १००२)

कृत्यन्नकृत्यतोप्यत्र स्वयमेवार्थ सम्भवः ।
सोत्साहेनापि गृह्योर्थस्तस्करेणापि गृह्यते ॥

क्रमादिदं कृतं कृत्यं सुखदुःखादि भुञ्जते ।
तस्मात् पूर्वकृते नैव सर्वदा सर्वतः पशोः ॥

जन्मक्षयं सुखं क्लेशं सुखदुःखादि भुञ्जते ।

त्वार्थकं कर्म्ममारणे -

एतानि स्वस्वकर्म्माणि स्वाधिकारो निवर्त्तते ।
पुरुषे षोडशकले तमाहुरमृताह्वयम् ॥

इति च ।

एवमुक्तन्तु षट्कर्म गर्भसाकल्य निश्चयम् ।
एवं पूर्वकृतं कर्म्म भोगतोत्र तु गच्छति ॥

तथा सुप्रभेदे -

मरणादीनि कर्म्माणि निर्म्मितानीश्वरेण तु ।
आयुष्यं विभवं कर्म्म विद्या च निधनं सुखम् ॥

षट्कं सम्पाप्य तत्रैव ततो गर्भाशयं व्रजेत् ।

चिन्त्ये -

देहे नैव कृतं कर्म्म देहे नैव गतन्तथा ॥

तत्रैव ।

देहो हि एतच्चाणूनां क्षयेनात्म कलेवरम् ।
प्रारब्धकर्म्मणा चैव पुनः प्रारभ्यते तनुः ॥

प्। १००३)

अन्यत्र ।

नित्यन्तं च समायुक्तमन्योन्यं वटबीजवत् ।

तथा पराख्ये ।

यथात्मानादिना सिद्धस्सापेक्षा कर्म्मणि स्थितः ।
त्रवाहानादिता चेयमप्युच्छिन्ना भवे भवे ॥

अन्यत्र ॥

बीजाद्वृक्षस्समुत्पन्नो वृक्षाद्वीज समुद्भवः ।

चिन्त्ये -

अत्र सञ्चय सम्भोगः पूर्वजन्मान्तरे विधिः ।
क्वचेत्प्रयोजनं पश्चाद्धिते नैव वरानने ॥

तथैव पूर्वञ्चेतश्चेत् तत्क्रमेण पुनर्भवः ।
यथा धान्यादि सम्भुक्तिः प्रारब्धञ्जन बीजवत् ॥

तथैवात्र हि जायन्ते जन्तवः पूर्वकर्म्मणा ।

तत्रैव ।

क्रिया विना न युज्यन्ते देही तास्ताः प्रवृत्तयः ।
पुण्यपापात्मिका जाता जन्मान्तर फलाङ्कुराः ।
एतत् पूर्वकरं ज्ञेयं भवस्या गामिनः किल ॥

जायेते पुण्यपापौ तौ मनोवाक्काय कर्म्मभिः ।
एवमुक्तन्तु सर्वेषां योजकः कर्त्तुराज्ञया ॥

स्वायम्भुवे -

कर्म्मतद्द्विविधं प्रोक्तन्धर्म्मा धर्म्मात्मकं पशोः ।
आभोगस्थायि तद्विद्यात् फलद्वयविरोधि च ॥

प्। १००४)

धत्ते लोकानिमान् सर्वान् प्रीतिं च पुरुषस्तदा ।
धर्म्मस्तेनोच्यते तत्ज्ञैर * * * स्तद्विपर्ययात् ॥

वायव्य संहितायाम् -

अनादिकर्म्म वैचित्र्यमपिनात्र निवारकम् ।
करणं खलुकर्म्मापि भवेदीश्वर कारितम् ॥

चिन्त्ये -

महादुःखानि पापानि कारुण्यः परमश्शिवः ।
पशूनां युज्यते कस्मात् तदतो वदमे प्रभो ॥

उत्तरम् ।

व्यापकस्य * * * * तत्कृत्यमात्मकृपै ।

वायव्ये -

सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ।
सति गृण्हाति देवादीन् सर्वानुग्राहकः कथम् ॥

चिच्छेद बहुशो द्वेत्रो ब्रह्म * * * * * * ।

सर्वं शिवोनुगृह्णाति न निगृण्हाति कञ्चन ॥

अनिगृहीता ये दोषाश्शिवस्तेषामसम्भवात् ।
ये पुनर्न्निग्रहाः केचित् ब्रह्मादिषु च दर्शिताः ॥

प्। १००५)

देवलोकहितायैव कृताश्श्रीकण्ठ मूर्त्तिना ॥

कारणे -

तत्वतो निग्रहस्तस्य कर्त्तुः कारुण्यमेव हि ।
शिश्रन्मातापिता चेति लोकेस्मिन् शिक्षणीयवत् ॥

सर्वमतोपन्यासे -

ज्योतिष्टोमाद्यनुष्ठानाद पूर्वं कर्म्मणार्जितम् ।
स्वर्गादेः फलरूपस्य देवता न कृ देवता ॥

कर्म्ममीमांसकाः प्राहरित्थं स्वमतलक्षणम् ।

कामिके -

यज्ञादिकर्म्मणां चैव जीवानान्तु फलप्रदम् ।
औषधादि प्रयोगश्च दृष्टवत्फलसाधकः ॥

एतादृशास्तु ये तेषां कर्तृता किं प्रयोजनम् ।

सर्वमतोपन्यासे । कामिके -

तथा तत्कार्य दृष्टं चेद्यज्ञ कर्म्मफलादिकम् ।
पश्चात् प्रयोजनोक्तं च गुदयुत् मलवत्ततः ॥

कामिके -

द्रव्यादृते पदार्थानि दानकृत्फलयेत्ततः ।
जले च पात्रे चाग्नौ च कृतं कर्म्मफलं मुने ॥

इह लोकेपि विद्यन्ते परकोकेपि विद्यते ।

कामिके -

प्। १००८)

स्वयं कृतं स्वयं वेद्यं ततो भुञ्जीत चेत्स्वतः ॥

भूमौ नरकनाकेषु कुरुतेति किं गतागतम् ।
तस्मिन् क्वचिदपि प्रोक्तं महौद इतरेतरम् ॥

कामिके -

सर्वं चात्र गतो नाशं फलन्दृश्यं पुनर्भवेत् ।
योजकस्स महेशान औषधादीनि वैद्यवत् ॥

कामिके -

लोकादेहार्थ करणात् कालान्नियति कर्म्मणि ।
किञ्चित् ज्ञात्वा जडङ्कर्म्म शिवज्ञातो नियोजयेत् ॥

सुशीलश्च कृपा चैव साचारश्चोपचारकः ।
तपश्शिला धर्म्म इष्टो नमस्कारादि सम्युतः ॥

योसौ विनिर्म्मल ज्ञानं शिवस्यानुग्रहं भवेत् ।
शिवस्सम्पूज्यते योसौ मनोवाक्काय कर्मभिः ॥

इष्टकाम्य फलं लब्ध्वा पश्चान्मोक्षमवाप्नुयात् ।
यत्र चाराध्यते येन तत्र वा देवतायताः ॥

निरामयोर्धनारीशो यो वासौ सन्निधिर्भवेत् ।

सर्वस्रोतस्सारसङ्ग्रहे -

येन येन हि रूपेण साधकस्संस्मरेत् सदा ।
तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ॥

प्।१००७)

तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ।

कामिके -

प्रतिमाद्योपि पूज्यो सा वेवातोमनुजा भवेत् ।
ब्रह्मादिभिस्त्रियस्त्रिंशत्कोटि देवैर्म्महर्षिभिः ॥

सर्वेषां वास्तु देवानां फलन्दद्यान्महेश्वरः ।
तस्मान् महेश्वरो नित्यं पूजनीयः फलार्थिभिः ॥

शिवधर्म्मोत्तरे -

स्थावरं जङ्गमञ्चेति लिङ्गद्वयमुदाहृतम् ।
स्थावरं स्थापितं लिङ्गं दीक्षितं जङ्गमं विदुः ॥

जङ्गमस्यावमानेन स्थावरन्निष्फलं भवेत् ।
तस्माल्लिङ्गद्वयं प्राज्ञो वा वमन्येत सर्वदा ॥

कृतावमानतो मोहात् स पशुर्न्नात्र संशयः ।

तथा चिन्त्य विश्वसादाख्ये -

स्थावरं जङ्गमञ्चेति द्विविधं शिवपूजनम् ।
लिङ्गादि पूजनन्तत्र स्थावरन्नन्दिकेश्वर ॥

लिङ्गिनां पूजनन्तत्र जङ्गमाराधनं भवेत् ।
पूजाकालेपि सान्निध्यं स्थावरे शिवतेजसि ॥

जङ्गमे सार्वकालं च सान्निध्यं कुरुते शिवः ।
जङ्गमस्यावमानेन स्थावरो निष्फलं भवेत् ॥

प्। १००८)

दीक्षा * * * * * स्तु जातीनां दीक्षितस्य विशेषतः ।
जाति भेदविशेषोस्ति दीक्षितानान्तु सर्वदा ॥

वागीशि गर्भजातत्वात् शिवत्वाच्छिव पुत्रकः ।
तस्या पत्यत्व सिद्धित्वाच्छैव मित्यभिधीयते ॥

स्कान्दे ईश्वरः -

मन्निमित्त कृतं पापम् अपि धर्म्माय कल्प्यते ।
मामनादृत्य * * * * र्म्मापि पापस्यात् प्रत्यवायकृत् ॥

ब्रह्माण्डपुराने -

दक्षयज्ञे शिरश्च्छिन्नो मयातो यज्ञरूपिणा ।

तथा वायव्ये -

कृत्वापि सुमहापापं भक्त्या यजति यश्शिवम् ।
मुच्यते पातकैस्सर्वैन्नात्र कार्या विचारणा ॥

तन्त्रसारे -

शिववाक्य प्रमाणस्थो मोक्षस्यान्नरकेतरः ।

तथा स्कान्दे -

मदाग्रमेषु ये सक्ताश्चर्या योगक्रिया पराः ।
सा रूप्यादधिका मुक्तिस्तेषां सिध्येन्न संशयः ॥

ये वैदिकाः पुनर्यागान्निष्कामाः कुरुते द्विजाः ।
त्रियधामप्य कुर्वन्ति मूर्त्ति * * * * * * * * ॥

प्। १००९)

कामिके -

राजाज्ञया यथा लोके क्रमात्कृत्यं करोति सः ।
बहुधैश्वर्यमाप्नोति दण्डसाध्यो विपर्यये ॥

स्कान्दे

वेदागम प्रसिद्धेषु येन तिष्ठन्ति पापिनः ।
चतुर्विधै * * * * * * * * * * * * * ॥

शिवधर्म्मोत्तरे -

पारदारिक चोराणामन्याय व्यवहारिणाम् ।
नृपतिश्शासकस्तेषां प्रच्छन्नानान्तु धर्म्मराट् ॥

गुरुरात्मवतां शास्ताशास्ता राजादुरात्मनाम् ।
इह प्रच्छन्न पापानां राजा वै * * * व्याधितो द्विषट् ।
कर्तृ कृत्यन्तथा पश्येत् पक्षापक्षन्नतत्तथा ॥

वायव्ये -

एवं स्वभावमलिनान् स्वभावाद्दुःखिनः पशून् ।
स्वाज्ञौषध विधानेन दुःखान्मोचयते शिवः ॥

संसारस्येश्व * * * * * * * * * * ।

प्। १०१०)

शिवधर्म्मोत्तरे -

वैद्यान्विना निराक्रान्ताः क्लिश्यन्ते रोगिणो यथा ।
शिवं विना जगत्तद्वन्निरा क्रन्दत्सदा भवेत् ॥

व्याधीनां भेषजं यद्वत् प्रतिपक्षश्शिव स्म्र्तः ।
तस्मादना * * * * * * * * * * * * ॥

मृगेन्द्रे -

यथा क्षारादिना वैद्यस्तुदन्नपि न रोगिणः ।
कोटाविष्टार्थदायित्वाद्दुःखहेतुः प्रतीयते ॥

तथा वायव्ये -

नितराञ्ज्ञो यथा वैद्यो * * * * * ।
निदानज्ञस्य भिषजो रसान्मृगेण प्रयुञ्जतः ॥

न किञ्चिदपि नैर्घृण्यं घ्राणैर्वात्र प्रयोजकः ।

कारणे -

स्थूलेषु सूक्ष्मदेहेषु योनि भेदेषु कर्म्मतः ।
स्थित्वा सर्वत्र भु * * * * * * * * * * * * * * ॥

शिवधर्म्मोत्तरे -

अथ नारकिनां पुंसाम्मधर्म्मादेव केवलात् ।

प्। १०११)

क्षणमात्रेण भूतेभ्यश्शरीरमुपपद्यते ।
तद्बद्धर्म्मेण चैकेन देवानां चोपपादिनः ॥

सद्यः प्रजायते दिव्यं शरीरं भूतसारतः ।
कर्म्मणा यदि मिश्रेण सच्छरीरं महात्मनः ॥

तत्भूत परिनामेन विज्ञेयं हि चतुर्विधम् ।

मतङ्गे

ध्वस्ते पञ्चात्मके देहे सति पुर्यष्टके पशोः ।
शक्यते घटितं भूतैर्न्नान्यथा तु कदाचन ॥

ततस्तृण जलूकेव देहाद्देहं विशेत्क्रमात् ।
अप्याप्योत्तरमंशेन देहन्त्यजति पूर्वकम् ॥

तथा चिन्त्ये -

देहिनां पुण्यपापेभ्यो देहमारभ्यते पुरा ।
यथा जीर्णानि वस्त्राणि त्यक्त्वा वस्त्रन्नवं वसेत् ॥

तथा देहं परित्यक्त्वा देहान्तरमवाप्नुयात् ।

निश्वासे -

सुकृते कर्म्मवो कृत्वे दुष्कृते च तथैव च ।
पुर्यष्टके युतोह्यात्मा वायु भूते व्यवस्थितः ॥

विद्यमानेपि तद्देहे प्रत्यक्षन्न च दृश्यते ।

कारणे -

प्। १०१२)

पशूनां स्थूलसूक्ष्मश्च पन्नगाश्चाण्डजाश्चये ।
योनि भेदाश्च योगेन परकाय प्रवेशवत् ॥

स्वप्नादिवद्विद्यात् भिद्यतेषु च विद्यते ।
कर्म्मतद्द्विविधं प्रोक्तं धर्म्मा धर्म्मात्मकं पशोः ॥

समासात्रिमलाख्येषु इति कामिकमुच्यते ।
इति प्रोक्तमनाद्येतत् कर्त्ता राज्ञेति भुञ्जतः ॥

किरणे -

यथा नादिमलन्तस्य कर्म्माप्येव मनादिकम् ।

स्वायम्भुवे -

कर्म्मतश्च शरीराणि विषयाः करणानि च ।
कर्म्मतस्सर्वमेवेदं सुखदुःखात्मकं फलम् ॥

तथा सर्वज्ञानोत्तरे

कर्म्मणा तु शरीराणि भवेत्कर्म्मोदयो भवेत् ।
पूर्वोर्झित कर्म्माणां भावस्संयोगकारकः ॥

कारणे -

चराचराख्य जन्तूनां योनि भेदाश्च कर्म्मतः ।
एतादृशे सदाभिन्नं लाञ्छितं विद्यते न हि ॥

भूमौ धर्म्मार्जनं स्पष्टं भुङ्क्ते नैव च मानुषः ।
अतस्तथैव देवाश्च लाञ्च्छितं भिद्यते यतः ॥

प्। १०१३)

तथा भारते -

पशवोपि तथा देहा देवाश्च पशवस्तथा ।
भ्रमत्भ्रमरकीटात्मा कीटोपि भ्रमरायते ॥

तथा कारणे

दृष्टवद्भिद्यते लोकः कोष्ठात्क्रामि क्रमिर्यथा ।

रामायणे -

तस्यान्तरं विदित्वाथ सहस्राक्षश्शचीपतिः ।
मुनिवेषधरोहल्यामिदं वचनमब्रवीत् ॥

ऋतुकालं प्रतीक्षन्ते नार्थिनस्सुसमाहिते ।
सङ्गमन्त्वहमिच्छामि त्वया सह सुमध्यमे ॥

मुनिवेष * * * * सहस्राक्ष * * * * धुनन्दन ।
मतिं च कार * * * * * * * * कुतूहलात् ॥

अथा ब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना ।
कृतार्थोसि सुरश्रेष्ठ गच्छशीघ्रमितः प्रभो ॥

आत्मानं माञ्च देवेश सर्वथा रक्षमानद ।
इन्द्रस्तु प्रसहन्वाक्यमहल्यामिदमब्रवीत् ॥

सुश्रोणि परितुष्टोस्मि गमिष्यामि यथा गतम् ।
इत्येवं सान्त्वयन्शक्रो निश्चक्राम ग्रहात्तदा ॥

सम्भ्रमात्त्वरयन्यम शङ्कितो गौतमं प्रति ।

प्। १०१४)

गौतमं सन्ददर्शाथ प्रविशन्तं महामुनिम् ।
गृहीत समिधन्तत्र सकुशं मुनिपुङ्गवम् ॥

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ।
ममरूपं समास्थाय कृतवानसि दुर्म्मते ॥

अकर्तव्यमिदं यस्माद्विफलस्त्वमिदं भविष्यसि ।
गौतमे नैव मुक्तस्तु सरोषेण महात्मना ॥

इह वर्षसहस्राणि बहूनित्वन्निवत्स्यसि ।
वायु भक्षानिराहारा तप्यन्त्यश्मशरीरिणी ॥

स्कान्दे -

नारसिंहादिभिर्द्देहैः कुत्सितैस्तामसैस्तथा ।
अनेक दुःखबहुलैरभवच्छापतोहरेः ॥

इत्युक्तो भृगुणा कृष्णो वेपमानश्चराञ्चितः ।

तदुक्तं कामिके -

मत्स्य कूर्म्म वराहश्च नारसिंहश्च वामनः ।
रामो रामश्च रामश्च कृष्णश्चाश्वमुखस्तथा ॥

स्कान्दे सनत्कुमार संहितायाम् -

वेदारण्ये शिवस्याग्ने तूषो दीपं व्यबोधयत् ।
महाबलिस्समभवत् त्रैलोक्याधिपतिर्द्विजाः ॥

प्। १०१५)

कारणे

सर्वं च कर्म्मतस्तस्मादिति प्रोक्ता मया पुरा ।

शिवधर्म्मोत्तरे -

स्थावरा विविधाकारास्तृण गुल्मादि भेदतः ।
एवं योनिषु सर्वासु परिक्रम्य क्रमेण तु ॥

कालान्तरवशाद्यान्ति मानुष्यमतिदुर्ल्लभम् ।

पराख्ये -

पशुत्वरुद्ध?चिच्छक्ते स्वातन्त्र्यन्न पशोरतः ।
कर्म्मचित्रं हि तत्तस्माद्योगजन्तदपेक्षते ॥

योगजस्समहेशान स्वेच्छया बलवान्यतः ।

तथा मतङ्गे -

कर्म्मणश्चाप्य चैतन्यात् प्राधान्यान्वेषतो मुने ।
जगदेतत् समस्तं स्यात् कर्म्मकर्तृवशाद्ध्रुवम् ॥

कर्म्मणः करणं कर्ता स पुमानत्र कीर्तितः ।
कचाङ्क पाश्च सर्वेषां मकुटाद्याश्च हेमवत् ॥

मारेवस्यादुपादानं सर्वं तत्कर्त्तुराज्ञया ।

मृगेन्द्रे -

तदा धाराणि कार्याणि शक्तिरूपाणि संहृतौ ।

तथा रौरवे -

प्। १०१६)

सूक्ष्ममायैक देशेन पतीच्छानुविधायिनी ।
श * * * * * * * * * * * * * * प्रपद्यते ॥

द्वे व्यक्तिर्भवतस्तस्य युगपत्सृष्टिमिच्छया ।
व्यापृतौ व्यक्तिरूपाणि व्याप्रियन्तेर्थ सिद्धये ॥

किरणे -

तत्कार्यकारिकाशक्तिः क्रियाख्या सूक्ष्मरूपिणी ।
स्थूल कार्यस्य सूक्ष्मापि स्थिता न्यग्रो * * * * * ॥

सर्वेषां बिन्दूपादानानं शक्तिश्शिवमतः परम् ॥

आत्मा यदा श्रयेत् ब्रह्म सर्वोपाधि विवर्जितः ।

किरणे -

कर्त्तुः कृत्यं च कारुण्यमिति प्रोक्तं मया पुरा ।
मुक्त्यर्थं स पशुर्बन्धो ना * * * * * * * ॥

तत्कथन्देह संश्लेषो मनिवर्जित उच्यते ॥

उत्तरम् -

यथा वस्त्रं स दोषत्वान्मलान्तस्थं विशुध्यति ।
शुध्यर्थम् पुद्गलो बद्धो मायोदरगतोपि सन् ॥

प्। १०१७)

स्वायम्भुवे -

माया तत्वञ्जात् * * * * * * * * * * * ।

मतङ्गे -

क्षोभितेनन्न नाथेन ग्रन्थिर्म्मायात्मको यदा ।
तदा स्वेन विकारेण तनोति विपुलञ्जगत् ॥

साक्षान्नाया समुत्पन्ना कालाख्यन्नियतिः कला ।

सुप्रभेदे -

त्रिविधं कालमा * * * * * * * * * * ।

प्राणिनां चैव देवानां विनाशोत्पत्तिकारणम् ।
कलाश्च कुरुते यस्मात्तस्मादेवमुदाहृतम् ॥

पौष्करे -

कर्म्मणामार्जितानान्तु फलोपहरणे सति ।
तद्विनाशे * * * * * * * * * * * * * * * * ॥

मृगेन्द्रे -

प्रकाशयत्येकदेशं विदार्य तिमिरं घनम् ।
प्रोत्सारणं प्रेरणं सा कुर्वीत तमसः कला ॥

तत्वं विद्याख्यमसृजत् करणं परमात्मनः ।

प्। १०१८)

तेन प्रकाशरूपेण ज्ञानशक्तिः प्रबोधिता ।
स * * * * * * * * * * * * * * * ॥

तैरेति जनकं रागं तस्मादेवा सृजत्प्रभुः ।

चिन्त्यविश्वे -

पुरुषस्य प्रवृत्तेश्च निवृत्तेरपि सर्वदा ।
सामान्य हेतुरित्युक्तो रागतत्वस्यलक्षणम् ॥

मत * * * * * * * * * * * * * * * * ।
भौक्तेत्येवं पुमान्प्रोक्तो भुङ्क्ते प्रकृतिजान्गुणान् ॥

युक्तस्तन्मयतामेति यतोयं स स्थितः प्रभुः ।
तत्तत्वं तत्वसन्ताने पुमाख्यं परिकीर्तितम् ॥

तत्रैव ।

अथ पुंस्तत्वनिर्देशं स्वा * * * * * * * ।

मृगेन्द्रे -

ततः प्राधानिकन्तत्वं कलातत्वादजीजिनत् ।
सप्तग्रन्थिनिधानस्य यत्तद्गौनस्य कारणम् ॥

ततो बुद्धिरुपादानं गुणं सत्वरजस्तमः ।
तद्वृत्तयः प्रकाशाद्याः प्रवृद्धा * * * * * ॥

प्। १०१९)

एकैक श्रुतिरेतेषां प्रत्याधिक्य निबन्धना ।
न तदस्ति जगत्यस्मिन्वस्तु किञ्चिदचेतनम् ॥

यन्न व्याप्तं गुणैर्यस्मिन्नैको व्यामिश्रको गुणः ।

सुप्रभेदे -

बोध्यत्वात् बुद्धिरेषा * * * * * * * * * ।

रजस्तमोभ्यान्न्यक् भूतावृत्तिस्सत्वेन चोत्कटा ।
सा बुद्धिरुदितातन्त्रे विषयाध्यवसायिनी ॥

मृगेन्द्रे -

बुद्धितत्वन्ततो नानाभाव प्रत्ययलक्षणम् ।
परन्तदात्मनो बुद्धे * * * * * * * * ॥

चिन्त्य विश्वे -

अहं वादि च सर्वं च करोति प्रबलोस्म्यहम् ।
एवं जीवन संरम्भ गर्वरूपमिति त्रिधा ॥

स एव सात्विकं चापि विराडाख्यस्तु तामसः ।
तैजसं वै * * * * * * * * * * * * ॥

सुप्रभेदे -

मनश्च द्विविधं प्रोक्तं चलाचलमिति स्मृतम् ।

प्। १०२०)

मतङ्गे -

द्वे द्वे कोटिमनस्सिद्धे शुद्धाशुद्धा च साधने ।
सङ्कल्पेन सरागेण स्फुरद्वीर्येण वेगतः ॥

विनिष्क्रम्याक्षमार्गेण प्रोतयित्वा तदिन्द्रियम् ।
अ * * * * * * * * * * * श्च निवर्त्तते ॥

चिन्त्यविश्वे -

वैकारिकादहङ्कारादिन्द्रियाणि भवन्ति वै ।

पराख्ये -

श्रोत्रन्त्वक् दृक्च जिह्वा च नासिका च मनोगणम् ।
शब्दैक ग्राहकंश्रोत्रं कर्णशष्कुलिकासनम् ॥

खरोष्ण मृदुशीतात्मा * * * * * * * * * ।
रूपानुवेदनञ्चक्षुर्जातुर्गोलकसंश्रयम् ॥

कद्व?म्लादि रसज्ञानञ्जिह्वाग्ररसनाश्रयम् ।
गन्धं गृण्हाति तत्प्राणं येन गन्धो न तन्यते ॥

चक्षुश्श्रोत्रं च गृह्णाति गत्वान्यत्र यमागतम् ।
वाणी पाणिर्भगः पायुः पादः कर्म्माख्यपञ्चकम् ॥

संस्कृते तरभाषा च वत्तिवाग्रसनाश्रया ।
ग्रहणं मोक्षणं यस्माद्धस्तेन्द्रिय निमित्तजम् ॥

आनन्दो यो भवेदस्मिन्नोपस्थेन विना भवेत् ।

प्। १०२१)

बन्धोत्सर्गोमरुच्चेष्टा पारिवन्द्रिय निमित्तजम् ।
बाह्याभ्यन्तर सङ्कल्पो भवेन्नमन सा विना ॥

लङ्घनोत्प्लुतिवेगादि चिह्नं पादेन्द्रियानुगम् ।
देहे सर्वत्र कर्म्माक्ष व्याप्तं यत्तत्त्वगिन्द्रियम् ॥

पौष्करे -

कर्म्मात्र समवेता या क्रिया सक्ता हि पुत्गले ।
तदभिव्यञ्जकं यत्तत् कर्म्मेन्द्रियमिति स्मृतम् ॥

तथान्यत्र ।

ज्ञानक्रियात्मशक्तिर्या सा पुद्गल समाश्रिता ।
सैव संलक्ष्यते शक्तिर्बुद्धिकर्म्मेन्द्रियात्मकैः ॥

चिन्त्यविश्वे -

बुद्धिन्द्रियस्य कर्म्माख्या बाह्याख्य करणाख्यकम् ।
शब्दादि वचनादिश्च बाह्यसूक्ष्माख्यमेव हि ॥

करणार्थो समर्थत्वात्कार्यं संश्रुत्यतद्वति ।

तत्रैव ।

तत्र विद्यात्मनो भोक्त्या बुद्धि सञ्ज्ञाभवत्तदा ॥

शब्दादि विषयांश्चापि यदा गृह्णाति चेतना ।
सैषा हि करणाख्यं स्याद्विद्यातत्वन्द्विधा भवेत् ॥

क्ष्रीरस्य तक्रसंयोगाद्वधिनाम यथा भवेत् ।
क्षीरात्मत्वन्दधित्वन्तु नाम द्वित्वं यथा भवेत् ॥

प्। १०२९)

तत्त्वं विद्यैव बुद्धि स्यात् करणं च तथैव च ।

मृगेन्द्रे -

रागोपि सत्यवैराग्यम् कलायोनिः करोतिकम् ॥

पराख्ये -

करणं करणापेशया?जाविभकरास्त्रवत् ।

किरणे -

माया विरहि यत्प्रोक्तं कलाद्यव * * * * ।

मृगेन्द्रे -

शब्दस्पर्शश्च रूपञ्च रसोगन्धश्च पञ्चमः ।
गुणैर्विशिष्टास्तन्मात्रा स्तन्मात्र पदयोजिताः ॥

प्रकाशकर्म्म कृद्वर्ग वै लक्षण्यात्तमो भवः ।
प्रकाश्यत्वाच्च भूतादिरहङ्कारस्तु तामसः ॥

कालोत्तरे -

शब्दस्पर्श च रूपं च रसोगन्धश्च पञ्चकम् ।
बुद्धिर्म्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम् ॥

पौष्करे -

महाभूतानि जायन्ते क्रमात्तन्मात्र पञ्चकात् ।

प्। १०२३)

सुप्रभेदे -

आकाशस्य गुणश्शब्दो वायोस्तु स्पर्श * * * * ।
तेजसस्तु गुणं रूपं रसमापो गुणं स्मृतम् ॥

पृथिव्यास्तु गुणं गन्धं व्योम्निखादीनि विन्यसेत् ।
विषयन्त्विति विख्यातं भूतानां गुणमुच्यते ॥

कामिके -

शब्दैकगुणमाङ्काशं स्पर्शशब्दगुणं मरुत् ।
शब्दस्पर्शरूपगुणः कृशानुः परिकीर्त्तितः ॥

शब्दस्पर्शरूप रसगुणमम्भः प्रकीर्तितम् ।
शब्दस्पर्श रूपरसगन्धयुक्ता वसुन्धरा ॥

एतावद्दशध कार्यं शरीरं सर्वदेहिनाम् ।

कामिके -

अवकाश प्रदं व्योम व्यूहाख्यं मारुतक्रिया ।
पावकस्य क्रिया पाकोवापस्सङ्ग्रहण क्रिया ॥

पृथिव्या धारणं कर्म्म भूतव्यापार ईरितः ।

चिन्त्ये -

पृथ्वी स्वभावं कठिनं रूपन्तु चतुरश्रकम् ।
वर्णं स्वर्ण समाख्यातं क्ष्माकृत्यमितीरितम् ॥

वज्रलाञ्छनमित्युक्तं देवो ब्रह्मेति कथ्यते ।

प्। १०२४)

लकारं बीजमित्युक्तन्निवृत्तिश्च कलामयम् ।
संयुक्तं सद्यमन्त्रेण गदितः पृथिवी गुणः ॥

द्रवमात्रस्ततो बिन्दुर्विशेषं पूर्वमुच्यते ।
स्वरूपन्दुरितं प्रोक्तन्त्रियक्षं रूपकन्तथा ॥

रूपकं वामचन्द्रस्य श्वेतवर्णमथोच्यते ।
तस्य कृत्यं निपातं * ** * * * * * ञ्च्छितम् ॥

पुरुषोत्तम दैवं च वकारं बीजमुच्यते ।
संयुक्तं वाममन्त्रेण प्रतिष्ठारूपतागतम् ॥

आप्यलक्षणमित्युक्तं वह्निभूतमतश्श्रुणु ।
विशेषं महतः प्रोक्तं मौक्तिकत्वं स्वरूपयुक् ॥

स्वभाव * * * * * * * * रूपमुच्यते ।
वर्णं रक्तमिति ख्यातं कृत्यन्दहनमुच्यते ॥

स्वस्तिकं लाञ्छितं ज्ञेयं रकारं बीजमुच्यते ।
अघोरेणापि रुद्रश्च विद्यारूपन्निवासयेत् ॥

वह्निलक्षणमित्युक्तं वायु भूतमथशृणु ।

स्वभावं भेदमित्युक्तं षडश्रं रूपमेव च ।
वर्णं कृष्णमिति ख्यातं तत्कृत्यं सम्पूटी भवेत् ॥

लाञ्छितं बिन्दुभिष्षड्भिर्युक्तन्दैवतमीश्वरम् ।

प्। १०२५)

यं बीजेन समायुक्तमथ शान्तिकलामयम् ।

अतिसूक्ष्मं विशेषोक्तं स्वरूप स्थितिरेव च ।
स्वरूपं च निरालम्बं वृत्ताकारं च रूपकम् ॥

वर्णन्धूम्रमिति ख्यातं कृत्यं सर्वलयोच्यते ।
लाञ्छितं चामृतं बिन्दुरधिदैवस्स * * * ॥

ईशानमन्त्रेण युतमित्युक्तं व्योमलक्षणम् ॥

एकादश प्रकारेण समासाल्लक्षणोच्यते ।

चिन्त्यविश्वे -

इति षट्त्रिंशत्तत्वानामुत्पत्ति क्रमनिर्णयः ॥

शिवशक्तिश्च सादाख्यमी * * * * * ।

चिद्रूपया पराशक्त्या विग्रहन्तन्मयं भवेत् ।

तस्माच्चिद्रूप सञ्ज्ञाख्यं पञ्चानां शुद्धवाचकम् ।
मायादि सप्तरागान्तं मलव्यापकमात्मनाम् ॥

तद्वन्मलानां संव्याप्य मव्यक्तादि * * * * ।

प्। १०२६)

रागः पुरुष इत्येवं सप्तानां मिश्रतत्वकम् ।
नात्मवच्छेष षट्कानां मायाया च यिदा सह ॥

मलव्यापक सम्बन्धा शुद्धाशुद्ध समन्वितम् ।
अव्यक्तमहङ्कारं बुद्धिं चापि मनस्तथा ॥

बुद्धिन्द्रियं च कर्म्माख्यञ्चतुर्द्दशमुदीरितम् ।
गुणत्रयैस्सखाद्यैश्च त्रित्रिभिश्चान्वितस्सदा ॥

आपश्च ज्ञानसम्बन्धं प्रतिकूलन्तथैव च ।

विचित्रज्ञान संश्रयः । चिन्त्ये -

अथ तत्व समूहं च त्रिविधं शृणु पार्वति ।
चतुर्विंशदणूनां च अशुद्धं भोग्यकाण्डकम् ॥

आत्मतत्वमिति ख्यातं विद्या तत्वमथ शृणु ।
तत्र मिश्रमतत्वं च भोगकाण्डन्तु सप्तकम् ॥

शुद्धविद्येश सादाख्यं शक्तिश्शिवमिति स्मृतम् ।
प्रेरकं शुद्धतत्वाख्यं स्वतन्त्रं शिवविग्रहम् ॥

तथा ।

अशुद्धं च चतुर्विंशच्छुद्धाशुद्धं च सप्तधा ।
नित्यशुद्धं च पञ्चैते षड्त्रिंशत्तत्वरूपकम् ॥

मतङ्गे -

तत्वं वस्तु स्वरूपं स्यात् स्वधर्म्म प्रकटात्मकम् ।
तत्वं वस्तु पदं त्यक्तं स्फुटमाम्नायदर्शनात् ॥

प्। १०२७)

यद्च्च्युत स्वका वृत्तात्ततश्चात्म वशञ्जगत् ।
तत्वमन्येन वा नस्यात्तत्तत्वं तत्वसन्ततौ ॥

शुद्धाख्ये -

तत्वन्तु त्रिविधं ज्ञेयं तस्य भेदमथ शृणु ।
शिवस्सदाशिवश्चैव महेश स्त्रिविध स्मृतः ॥

चिन्त्ये -

स्थूल सूक्ष्मपरञ्चेति त्रिविधन्तत्वमेव हि ।

चिन्त्यविश्वे -

पृथिव्यायात्म तत्वान्तमात्मतत्वमुदीरितम् ।
विद्यातत्वादि शक्त्यन्तं विद्यातत्वमुदीरितम् ॥

तस्योर्ध्वं शिवतत्वन्तु तत्वत्रयमुदाहृतम् ।

चिन्त्ये -

एवं सर्वक्रमेणैव सर्वतत्वं त्रये लयेत् ।
पारिशेष्यं च द्वौचाख्या कुटिलायान्तथैव च ॥

पौष्करे -

उपसंहार एष्टव्यः कार्य कारण भावतः ।
यस्य कार्योपसंहायदादौ कारण संहतिः ॥

वातुलोत्तरे -

समयास्तद्वहिश्चैव षट्त्रिंशत्तत्वत स्थिताः ।

प्। १०२८)

यथार्थतस्सदेवो हि तत्वातीतः परश्शिवः ।

तथा सर्वमतोपन्यासे -

सर्वेषां समयस्थानां मुक्तिमादौ विवक्षुणा ।
यदविज्ञानमात्रेण गुरुणाशेषवेदिना ॥

पौष्करे

दशैव सिद्धयः प्रोक्ता दर्शनान्तर भेदतः ।
भूतमात्राक्षयोश्चैव मनोहङ्कार बुद्धिषु ॥

गुणाव्यक्तनतेष्वेवं ज्ञानसिद्धात्मकं मतम् ।

तथा त्रिलोचनशिवाचार्यैस्सिद्धान्त रहस्ये -

चार्वाकाः कौलिका ज्योतिश्शास्त्रज्ञाश्चैव भौतिकाः ।
तन्मात्रसिद्धास्मार्ताश्च चक्षुरादीन्द्रियं परे ॥

वैशेषिकास्त्वहङ्कारे गुणेषु न्याय वादिनः ।
बुद्धितत्वे स्थिता बौद्धा गुणेष्वार्हता स्थिताः ॥

प्रकृतौ पाञ्चरात्रज्ञो मन्यन्ते प्रकृतिं हरिम् ।
वेदान्तज्ञाश्च साङ्ख्याश्च यो * * * * * * ॥

मृगेन्द्रे -

इत्याद्यज्ञानमूढानां मतमाश्रित्य दुर्धियः ।
अपवर्गमभीप्सन्ति खद्योतात्पावकार्थिनः ॥

प्। १०२९)

पौष्करे -

पुरुषोपरि यत्तत्वं शिवतत्वैकगोचरम् ।
पुंसां तन्निष्ठता * * * * * * * * * * ॥

शिवदीक्षादिनोद्भूतममलं सर्वतो मुखम् ॥

शिवत्वोन्मीलनं ज्ञानं शिवशक्त्यात्मकं भवेत् ।
श्रेयः प्रकाशकं शैवे न तु बुद्धि प्रकाशके ॥

सिद्धान्तरहस्ये -

पाशुपतास्तु * * * * * * * * * * * * ।

किञ्च रौरववृत्तिविवेके -

शक्तितत्वे तदद्वैता मुक्तिमिच्छन्ति ये स्थिताः ।
विद्येश तत्वे पूर्वे तत् प्रेर्यमीश्वरमावयोः ॥

मन्त्रेभ्यश्शुद्धविद्यायां सर्वज्ञत्वमनीश्वरम् ।
मायायां * * * * * * * * * * * * * ॥

ज्ञानरत्नावल्याम् -

पञ्चार्ध कालवक्त्रा नाम मायायामधरे पुटे ।
मुक्तिरुक्ताद्वयो स्थाने लाकुले क्षेत्ररुद्रयोः ॥

प्। १०३०)

ऊर्ध्व सम्पुटके देशे मूतिरुक्ता * * * * ममुच्चये ।

मतानां भेदमाहृत्य विस्तरेण प्रभाषितम् ॥

वातुलोत्तरे -

बिन्दुनादश्शिवश्शक्तिस्सादाख्येश्वर रुद्रकाः ।
विष्णुः पिता महश्चैव एकैकोद्भवमुच्यते ॥

नवभेद स्थितो देवो न * * * * * * ।

योगिनां लक्षणार्थन्तु शास्त्राणामुत्भवाय च ॥

प्राणिनामुपकायय गृह्णते विग्रहं शिवः ।

शान्तिशक्तिरिति प्राहुर * * * * वाचकः ॥

तस्माच्चैव सहस्रं स्यान्नादमूर्ति समुत्भवः ।
तस्माच्चैव * * * * * * * * * * * * ॥

प्। १०३१)

तस्माद्दशैकभागेन सादाख्यस्य समुद्भवः ॥

मकुटे -

निष्कलन्तु कलाहीनं सकलन्तु कलान्वितम् ।
सकलाकलमिश्रं यत्तस्मात् स * * * * * ॥

ईश्वरस्य सहस्रांशाद्रुद्रस्योद्भवमुच्यते ॥

ईश्वरस्य कोट्यंशाद्विष्णुमूर्ति समुद्भवः ।
ईश्वरस्य तु कोटवंशाद्ब्रह्ममूर्ति समुद्भवः ॥

वाउलोत्तरे -

तस्मात्क्रमात्स्वशक्तिश्च * * * * * * * * ।

अमूर्तश्चेदमूर्त्तोपि समूर्तश्चेत् समूर्त्तका ॥

सावित्री श्रीरूमादेवी ईश्वरी च मनोन्मनी ।
यथा मनोन्मनी प्रोक्ता ईश्वरी तद्वदुच्यते ॥

स्वायम्भुवे -

एका * * * * * * * * * * * * * * ।

प्। १०३२)

नादात्मना स्थिता शक्तिश्शिवश्शक्त्याधितिष्ठति ।
अतोपि सर्वरूपं यत्सर्वं शक्तिशिवात्मकम् ॥

वातुलोत्तरे -

शक्त्युद्भवश्शिवेनैव ततश्शक्त्या शिवोत्भवः ।
तद्वयोश्च समैक्येन शिवलोको द * ? भवेत् ॥

तथा वातुल * * ख्ये -

सृष्ट्यर्थं सर्वतत्त्वानां लोकस्योत्पत्तिकारणम् ।
योगिनामुपकाराय स्वेच्छया गृह्णते तनुः ॥

त * * * शिवे तु पराशक्तिस्सहस्रांशेन जायते ।
तच्छक्तेस्तु सहस्रांशादादिशक्ति समुद्भवः ॥

अस्याश्शक्तेस्सहस्रांशात् इच्छाशक्ति समुद्भवः ।
अस्याश्शक्तेस्सहस्रांशात् ज्ञानशक्ति समुद्भवः ॥

अस्याश्शक्तेस्सहस्रांशात् क्रियाशक्ति समुद्भवः ।
एता वै शक्तयः पञ्च निष्कलाश्चेति कीर्तिताः ॥

शिवसृष्टिरियं प्रोक्ता शक्तीनां सृष्टिरुच्यते ।
सर्वेषां ध्यानपूजार्थं निष्कलं सकलं भवेत् ॥

पराशक्तिदशांशेन शिवसादाख्य सम्भवः ।
आदिशक्तिदशांशेन मूर्तिसादाख्य सम्भवः ॥

प्। १०३३)

इच्छाशक्तिदशांशेन मूर्तिसादाख्य सम्भवः ।
ज्ञानशक्तिदशांशेन कर्तृसादाख्य सम्भवः ॥

क्रियाशक्तिदशांशेन कर्म्मसादाख्य सम्भवः ।
लिङ्गपीठप्रकारेण कर्म्मसादाख्यमुच्यते ॥

वातुलोत्तरे -

भगवान्ब्रह्मचर्याख्यः कन्यकाशक्तिरुच्यते ।
विदुषां विद्यते भाव एवमाख्यमियं क्रमात् ॥

सर्वज्ञानोत्तरे -

तन्वादि तत्परोबन्धो मुक्तिरात्मन्यवस्थितिः ।
सर्वेषां दीक्षयोत्सार्धं सम्यक् दृष्ट्वा हि तत्ववित् ॥

शिवधर्म्मे -

यदीश्वरादि तत्त्वानां परिज्ञानं विवेकतः ।
भवेत् साधर्म्म्य वैधर्म्म्यादेतत् साधर्म्म्य लक्षणम् ॥

चिन्त्यविश्वे -

वसनारागसम्प्राप्तिरस्तिचेन्न स तत्त्ववित् ।
देशिकस्तत्व विज्ञानं ज्ञात्वा चैव प्रकाशयेत् ॥

स एव तत्वज्ञानी स्यान्मुक्तितो मुक्त एव सः ।

सर्वज्ञानोत्तरे -

शुद्धाख्याणोस्तु सर्वेषां किं विशेषेण युज्यते ।

प्। १०३४)

उत्तरम् ।

अनाद्याख्यमलं कर्म्म मार्ज्जनाय ततो भवेत् ।

चिन्त्य विश्वे -

आणवस्त्वेक रूपो हि तथा विविधशक्तिमान् ।
ताम्रकाषेकवत्सोपि स भुज्येद्यन्तरादितः ॥

तथा मृगेन्द्रे -

तदेकं सर्वभूतानां मनादि निबिडं महत् ।
प्रत्यात्मस्थ स्वकालान्तापायि शक्तिसमूहवत् ॥

मतङ्गे -

ताम्रकालिकवद्योगात् सहजः परिकीर्तितः ।
मोहो मदश्च रागश्च विषादश्शोक एव च ॥

वैचित्र्यं चैव हर्षाख्यस्सप्तैते सहजा मलाः ।

मतङ्गे -

चैतन्यरोधो मायैव रश्मिरोधस्तु मेघवत् ।
मायाकार्यं विना तस्मान्मलाख्यन्न कदाचन ॥

उत्तरम् । किरणे -

एकस्मिन् व्यज्यते ज्ञानमन्यस्मिंस्तत्तिरोहितम् ।
मेघच्छन्ना यथा रश्मिर्देहच्छन्ना हि चेतना ॥

पशूनान्देह संश्लेषाच्चैतन्योत्भवदर्शनात् ।
यदा देहेन संश्लेषस्तावदूर्ध्वैव दृश्यते ॥

प्। १०३५)

चैतन्यद्योतिका माया चैतत् प्रोत्सारिते मले ।
अनन्योक्त मलोमात्मात्वथ देहादि सम्भवे ॥

बोधकार्यं रोधयितुमाणवाख्यं मलोह्यलम् ।
आत्मना सङ्गनिष्ठेन गुणञ्च ख्यातिमेतत् ॥

कालाद्याख्या परे तत्वे शुक्यादौ रजतो यथा ।
तस्मादियं मलोमाया सदा दीपान्धकारवत् ॥

द्वयो स्वभाव भेदश्च त्वया ख्यातमिदं मुने ।
पुरुषस्य गुणो विद्यावद्यतस्तच्च सो भवेत् ॥

उत्तरम् ।

तत्कथं त्वदिति प्रश्नन्दृष्टिदोष गुणन्नहि ।
तस्मिंस्तस्मिंस्तु तिष्ठेन तत्पुरुष स्वभाव च ॥

एवं सौरसंहितायां शङ्कापुरस्सरं विस्तरेण प्रतिपादितन्तत्रावधार्यताम् ॥ स्वायम्भुवे -

अथानादिमलः पुंसां पशुत्वं परिकीर्तितम् ।
तुषकम्बुकवत् ज्ञेयो माया बीजाङ्कुरस्यतत् ॥

तथा मतङ्गे -

मलस्त्वनादिरेवञ्चज्जडं संसारकारणम् ।
ताद्रस्यकालिमावच्च तण्डुलस्य तुषादिवत् ॥

पराख्ये -

मायाकार्यन्तु मामाया कर्म्मतत्भोगबन्धनम् ।

प्। १०३६)

असत्यन्दृप्तिकरोमाल्यं किञ्चित्तद्विमलं शृणु ।

पराख्ये -

मायाकार्यन्तु मायेयं स चाख्या मायापुरा विदुः ।

चिन्त्य विश्वे -

तिरोधानमलं चापि तिरोधायि समुद्भवः ।
आत्मनस्तु शिवव्यापि दृशः प्रच्छादकावपि ॥

मृगेन्द्रे -

तासां माहेश्वरीशक्तिः सर्वानुग्राहिका शिवा ।
धर्म्मानुवर्त्तनादेव पाश इत्युपचर्यते ॥

चिन्त्य विश्वे -

मलं मुहुर्मुहुर्माया मायोत्थमखिलञ्जगत् ।
तिरोधानकरी शक्तिः पाशवे नार्थ पञ्चकम् ॥

पराख्ये -

उल्कावर्तास्तथा केतु स्थित्वा स्थित्वा शिवाज्ञया ।
लोकामृतं च निमिषात् सदा कुर्यात् गतागतम् ॥

पराख्ये -

योन्यैव सकलात्मानो जायन्ते पूर्वकर्म्मतः ।

सुप्रभेदे -

अण्डजं स्वेदजं चैव उत्बिजं च जरायुजम् ।

प्। १०३७)

अशीतिश्च चतुश्चैव शतसाहस्र भेदतः ॥

शिवधर्म्मोत्तरे -

स्थावरा विविधाकारास्तृण गुल्मादिभेदतः ।
तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु ॥

निष्क्रान्ताः कीटयोनिभ्यः क्रमाज्जायन्ति पक्षिणः ।
विसृष्टा पक्षिभावेन भवन्ति मृगजातिषु ॥

मृगदुःखमतिक्रम्य जायन्ते पशुयोनिषु ।
क्रमाद्गो योनि मासाद्य पुनर्जायन्तमानुषे ॥

एवं योनिषु सर्वासु परिक्रमक्रमेण तु ।
देवासुराणां सर्वेषां मानुष्यमतिदुर्ल्लभम् ॥

व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्य गौरवात् ।

सुप्रभेदे -

ततो भारतवर्षं च नवभागे प्रकल्पितः ।
कुमारी द्वीपादन्यास्तु क्लेच्छद्विपाः प्रकीर्त्तिआः ॥

चातुर्वर्णसमायुक्तञ्चतुराश्रम सम्युतम् ।

शिवधर्म्मोत्तरे -

देशेस्मिन् भारते पुण्ये प्राप्यमानुष्यमध्रुवम् ।
सर्वेषामेव देशानामयन्देशः पर स्मृतः ॥

इति स्वर्गं च मोक्षं च यतस्सम्प्राप्यते जनैः ।

प्। १०३८)

चिन्त्य विश्वे -

शैवं परपदं ज्ञेयं सर्वतत्वैक नायकम् ।
सर्वमन्त्रमयं ज्ञेयं सर्वदेवमयं भवेत् ॥

जन्मान्तर तपोभिश्च सन्मार्ग ज्ञान सम्भवः ।

शिवधर्म्मोत्तरे -

सर्वस्य मूलं मानुष्यं तद्यत्नादनुपालयेत् ।
धर्म्मस्य मूलं मानुष्यं लब्ध्वा सर्वार्थसाधनम् ॥

यदि लाभैकयत्नास्ते मूलं रक्षन्तु यत्नतः ।
देवासुराणां सर्वेषां मानुष्यमति दुर्ल्लभम् ॥

व्युत्क्रमेणापि मानुष्यं लभते पुण्यगौरवात् ।
तत्सम्प्राप्य तहा कुर्यान्नगच्छेन्नरकं यथा ॥

मृगेन्द्रे हेतुमाह ।

सर्वासां फलभूमीनां कर्म्मभूः कारणं यतः ।
कर्म्मभूमिरियं ब्रह्मन् फलभूमिरतः परा ॥

इह यत्क्रियते कर्म्म तत्परत्रोपभुज्यते ।

तथा शिवधर्म्मोत्तरे -

भोगभूमि स्मृतस्वर्गः कर्म्मभूमिरियं स्मृता ।
इह यत्क्रियते कर्म्म स्वर्गे तदुप भुज्यते ॥

वायव्य संहितायाम् -

प्। १०३९)

जातेनात्मद्रुहायेन नार्च्चितो भगवाञ्च्छिवः ।
सुचिरं सञ्चरत्यस्मिन् संसार दुःखसागरे ॥

शिवधर्म्मोत्तरे -

जनाश्शतायुषः किं च भवन्ति न भवन्ति वा ।
अशीतिकापि विद्यन्ते केचित् सप्ततिका अपि ॥

परमायुस्तु पञ्चाशत्तदप्यस्य न निश्चितम् ।
यस्य यावद्भवेदायुर्द्देहिनः पूर्वकर्म्मतः ॥

यावत् स्वस्थशरीरस्थस्तावद्धर्मं समाचरेत् ।

तथा मोहशूरोत्तरे -

पद्मपत्रे यथा तोयं * * * सुचञ्चलम् ।
तद्वत्सुसञ्चलं शक्र प्राणिनामिहजीवनम् ॥

पौष्करे -

क्रमेणार्थस्य संवित्तिः पुर्यात्मालोचनात्मिका ।
यथा ह्यनेक संवित्तौ युगपत्सा न विद्यते ॥

मुखरिता * * * परापरिजन् * * * * ।
जीवनेन मृताः पञ्च पुराव्यासेन कीर्तिताः ॥

दरिद्रो व्याधितो लुब्धः प्रवासी नित्यसेवकः ।

प्। १०४०)

चिन्त्ये -

लिङ्गस्य दर्शनं वाथ लिङ्गाराधनमेव वा ।
विद्यते यदिजन्तूनां भवन्ति त्रिदशाधिपाः ॥

इति द्वितीयसूत्रं सम्पूर्णम् ॥

तृतीयसूत्रम् ॥

पराख्ये -

देहान्यो नश्वरोव्याधी विभिन्नस्समलोजडः ।
स्वकर्म्म कलभुक्कर्त्ता किञ्चिज्ञस्सेश्वरः पशुः ॥

मृगेन्द्रे -

चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा ।

शिवज्ञानबोधे -

अवस्था पञ्चकन्तस्य मलरुद्धस्व दृक्क्रिया ।

तथा पराख्ये -

पञ्चावस्थः पुमान्ज्ञेयस्सुप्तौ च मलगौरवात् ।
तादृशात्मानृतं पश्येत् तुर्यातीतमुदाहृतम् ॥

अत्र देहान्य आत्मेति दृढत्वं कथ्यते कथ्यते कथम् ।
देहादृतेन दृश्यन्ते तस्मादात्मा न देहवित् ॥

प्। १०४१)

उत्तरम् -

तथा चेत्तत्रशीतोष्णं भुज्यते नैव देहवित् ।

मुकुरादिसमायुक्तमेकारुणमिवोद्धृतम् ।
भूताश्चतुष्टयं युक्तं विदवायु न विद्यगम् ॥

उत्तरम् -

सुप्तत्वमुक्तं शववत् वायुस्थिति न वैद्यकिम् ।
सुप्तस्यावयव स्पर्शात् स्मृतिर्नैव च विद्यते ॥

तथा मृगेन्द्रे -

सोप्येव सति साद्वान न सत्यपिशवे चितिः ।

पराख्ये -

इन्द्रियैस्सहवित्सोपि यदि चेन्न च राजवत् ॥

यत्र योगाङ्गता सेनातद्वाप्तं कुरुते गतम् ।
अतो देवा विनायुक्तं वियते हि न विद्यते ॥

तृतीयसूत्रं सम्पूर्णम् ॥

चतुर्थं सूत्रम् ॥

शिवज्ञानबोधे -

आत्मान्तः करणादन्योप्यन्वितो मन्त्रिभूपवत् ।

प्। १०४२)

कामिके -

शरीरात् बाह्य तस्य प्रवृत्तिरूपलम्भनात् ।
अत एव मनो नात्मा न बुद्धिर्नाप्यहङ्कृतिः ॥

पराख्ये -

अन्तःकरणमुक्तं चेदन्योन्यन्तेन विद्यते ।
खश्यामादिरसज्ञादि वैषम्यं स्यात्सहेन्द्रियैः ॥

सर्वेषां दृष्टिभिन्नत्वादहमित्यहमास्थितिः ।

चिन्त्ये -

चित्ते कार्यं सुसंस्मृत्वा बुद्धिस्पष्टं विचार्य च ।
अहं कारेण निश्चित्य वैकल्प्यं कुरुते मनः ॥

एवं ज्ञात्वा यतोत्साहो स्वात्मज्ञानं समभ्यसेत् ।
अकारश्चाप्युकारश्च मकारो बिन्दुनादकौ ॥

योगेन प्रणवं ज्ञेयं पञ्चदेवात्मकं परम् ।

कालोत्तरे -

अकारश्चोप्युकारश्चाहङ्कारं बुद्धिरेव च ।
मकारस्तु मनश्चित्तं बिन्दुनादात्मविग्रहम् ॥

एवं पञ्च प्रकारेण चोङ्कारोद्धृतिरुच्यते ।

अन्यत्र ।

स्वर्गे देशात्म बोधश्च समुद्रे च तरङ्गवत् ॥

प्। १०४३)

अकाअरं ब्रह्मदैवत्यम् उकारं विष्णुदैवतम् ।
मकारं रुद्रदैवत्यं बिन्दुरीश्वर एव च ॥

नादस्सदाशिवः प्रोक्त इत्येता अधिदेवताः ।

मकुटे -

इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः ।
सुषुम्ना मध्यगा तत्र तन्मध्ये सुषिरन्तथा ॥

जीवः प्राण समायुक्तस्तन्मध्ये सह सञ्चरन् ।
संयुक्तो योगमाख्यातं योगी योगं समाश्रयेत् ॥

सिद्धतन्त्रे -

अनेकार्थ पदार्थाख्यास्समूहो वात्मचेछृणु ।
पश्येत् भोक्तन्तथा ज्ञेयन्तथा पश्येद्यथार्थतः ॥

तद्दृष्टौ कोस्मिलोकेयज्ञात्र ज्ञेयस्य भिन्नवत् ।

तच्चैतन्यगतं ज्ञानमात्म उष्णमिवानले ।
अनेके नैक भावश्च गुणश्च गुणदृष्टयेत् ॥

मनादि तत्वजालानि करणं किकणन्तथा ।
मनादि तत्गुणायुक्तम् वेद्यामातत्स्वयं गते ।

प्। १०४४)

उत्तरम् ।

यदा ज्ञानक्रिया चैव आत्मनश्च न सम्युतम् ।
देहेथवा विवाद स्यात् सान्निध्येस्ति तथा न चेत् ॥

तदुक्तं सन्निधीभावो शवसुप्तौ क्व गच्छति ।
करणं रहितं चेत्तु सन्निधित्वं च गर्हितम् ॥

सान्निध्यमयस्कान्दमिवा ख्यातन्तत्कथं भवेत् ।
आकर्षणन्तत्स्वभावं हि आत्मनस्तदुदाहृतम् ॥

देह व्यापारमित्युक्तमात्मनैवेह विद्यते ।
रूपं च दृष्टवद्देहे अनित्यं भौतिकं भवेत् ॥

आत्मरूपं सुसूक्ष्मञ्चेदष्टं स्थूलकारणम् ।
अचेतनन्ततस्सूक्ष्मं सूक्ष्मरूपमनित्यता ॥

रूपारूपञ्चेदात्मा तदा च व्युत्क्रमोद्भवः
विभागवनैक एवं स्यात् काष्ठादग्निवदेव चेत् ॥

सर्वमात्मनि दृशं रूपं तस्य सत्वं लयञ्ञ्चगम् ।

प्। १०४५)

चन्द्ररूपमिवाख्यं चेत् प्रत्यक्षं शिवरूपवत् ।
एतद्देहे सरूपिस्याज्जडाख्यं भौतिकं भवेत् ॥

आकाशमिवा रूपस्त्व विकारी चेतनस्तथा ।
देहबन्धश्चलनत्वात् गच्छगच्छान्त तत्भवेत् ॥

अचिदात्मान चिच्चापि चिदचिच्च कदाचन ।
समवाय विधा स्थित्यामचिन्त्यो न चिदचिद्य हि ॥

विद्यते क्रमचित् चित्या मतो तस्य सदन्नहि ।

आत्माणुराख्यद्देहेन बन्धोश्चमगुरुद्धृतम् ।
हरापि वहनोगश्चो * * विन? ततो लभेत् ॥

आत्मादेहैक देशस्थो लयेदेकेन चेत्तथा ।
दीपप्रकाशवत्ज्ञेयं चेदेकस्थमुदाहृतम् ॥

दीपं स्पर्शाद्दहेद्देहमात्र स्पर्शोत्सतत्तथा ।
यदि सर्वं च युगपद्यद्यदेव हि ॥

च्छेद्यश्चेद्देह पूर्णस्थो तदानीं दृक्कथं भवेत् ।

प्। १०४६)

इन्द्रियैस्सह विज्ञानं युगपत्स्यात्तदा मुने ।
देहमात्रे हि बोधोपि देहान्ते लीयते सकृत् ।

सर्वत्रावस्थिति व्याप्तिर्यद्यवस्था गता गता ।
कीर्तिता कथितं ज्ञेयं प्रत्येकञ्च तदिन्द्रियैः ॥
देहप्रपञ्च संहारे किं स्थितात्मा तदा वदेत् ।

स्वायम्भुवे -

यद्यशुद्धिर्न्नपुंसोस्ति सक्तिर्भोगेषु किङ्कृता ।
शुद्धे सिनतत् भोगो जाघरीति विपश्चितः ॥

मृगेन्द्रे -

चैतन्यन्दृक्क्रिया रूपन्तदस्स्त्यात्मनि सर्वदा ।
सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥

तदप्य भासमानत्वात्तन्निरुद्धं प्रतीयते ।
वैश्योनावृत वीर्यस्य सो त एवाविमोक्षणात् ॥

पाशाभावे पारतन्त्र्यं वक्तव्यं किन्निबन्धनम् ।
स्वाभाविकञ्चेन्मुक्तेषु मुक्तशब्दो निवर्त्तते ॥

पराख्ये -

अचेतनममूर्तं यत् तत्कथन्नयते परः ।

प्। १०४७)

तत्फलं भिन्नदेशस्थं विभुत्वन्त्वनुशोभितम् ।

अन्यत्र -

व्यञ्जना यत्र यत्र स्युश्शरीरन्तत्र तत्र तु ।
भोगार्थं स्यात् गुणव्यक्ति व्यापित्वन्तेन गम्यते ॥

मतङ्गे -

निरुद्धशक्तयस्सर्वे शिवार्क्क करचोदिताः ।
विकसत्यणु पत्मास्तु मायासरसि विस्तृते ॥

पौष्करे -

पशुः पशुत्वसंरुद्ध दृक्क्रिया प्रसरस्तदा ।

सिद्धतन्त्रे -

आत्मामायोदरान्तत्थो कलादीनां स्वभावतः ।
चैतन्यं चय एतत्ज्ञे एकादशेयुते कृतिः ॥

गुणत्रयादि सम्बन्धात् भोगेष्वपि च भुज्यते ।

सिद्धतन्त्रे -

सूक्ष्मदेहे पशुस्थित्वा तत स्थूलं स्वरूपयुक् ।
जाग्रदादि पञ्चावस्था कर्म्मणा भोगभुक्तिस्थतः ॥

कालोत्तरे -

पुर्यष्टक समायोगादूर्ध्वाधस्सम्प्रयच्छति ।

प्। १०४८)

चिन्त्ये

अन्नप्राणमनोज्ञानमानन्दमय पञ्चकम् ।
अन्नमादिमयन्देवि अन्योन्यं सूक्ष्मरूपकम् ॥

आत्मयुक्तेन्न रूपस्य मायोपादान कारणम् ।
अन्तर्बहिस्थितस्तेषु अरूपः पञ्चकोशवत् ॥

तदुक्तं सर्वसिद्धान्तसङ्ग्रहे -

आत्मत्वेन भ्रमन्त्यत्र वादिनः कोशकेञ्चके ।
अन्नप्राणन्मनोज्ञान मायाकोशस्तथात्मनः ॥

आनन्दमयकोशञ्च पञ्चकोशा उदीरिताः ।
मनोविकाअरे विहित इत्यानन्दमयो विदुः ॥

गृह्णात्यन्नमयात्मानन्देहालोकयतः खलु ।
देहः परिणमितं प्राणमप्यार्हता विदुः ॥

विज्ञानमयमात्मानं बौद्धा गृह्णन्ति नापरम् ।
आनन्दमयमात्मानं वैदिकाः केचिदूचिरे ॥

अहङ्कारात्म वादी तु प्राहुः प्रायोमनोमयाः ।

कर्म्मकृद्रूपनृत्तं च रूपनृत्तं च वृक्षवत् ।
रथैवाप्य नतः कश्चिन्नाट्यस्य बहुरूपवत् ॥

प्। १०४९)

तक्ष आत्मैव इत्याहुस्तथा देहेन्द्रियाणि च ।

तथा स्कान्दपुराणे -

चर्मक्षिप्तानि रूपाणि शैलूषो निपुणो यथा ।
सूत्रग्रन्थित यन्त्राणि प्रनर्त्तयति लीलया ॥

चिन्त्ये -

देहेन्द्रिय प्रकरणं विद्यातेत्तपि विस्तृता ।

अन्यथा दृश्यते तेन तथा देहेन्द्रियाणि च ।

उत्तरम् ।

तथा तेन च देहात्मा नखकेशादिवर्जितः ।

धारयन्वस्त्राभरणं न स्वयं कश्चिद्विचारयेत् ।
ते ततो वर्ज्यते दृश्यन्देहान्यात्मा तथापि च ॥

चिन्त्ये -

भिन्न देहात्म देवेश विद्यार्च्चनदृढः कथम् ।
सा च वन्नव दीक्षायै विधिपूर्वक पूर्वकम् ॥

पूर्वकर्म्मक्षयः कर्त्ता चरणं सर्वदेहिनाम् ।

मनसाख्यं क्वचिद्बुद्धिर्बुध्या ख्यातं क्वचिन्मनः ।
चित्ताख्यं क्वचिज्जीवो जिवाख्यं चित्तकं क्वचित् ॥

प्। १०५०)

क्वचिदात्मा शिवाख्यातः आत्माख्यातः क्वचिच्छिवः ।
सर्वेषामप्रबुद्धाख्यामितरे ह्यात्म भावतः ॥

चिन्त्ये -

देहचित्तञ्च विद्यार्थमात्मेत्यात्मावृतः कथम् ।
महा प्रकाश दीपाख्यमावास स्थानमेव च ॥

अभिन्नं विद्यते चात्मा * * * * * * * न्नता ।

चिन्त्यवचनम् ।

भुक्तोत्साहन्ततस्सुप्तौ दृष्टस्तत्र जाग्रता ।
बोध्यते बोधतश्चात्मा देहान्यस्सर्वतश्चवित् ॥

सैव बोधविदज्ञोपि दीयते चेन्द्रियादिकम् ।
जायते मलरुद्धे आत्मा बोधेन्द्रियाणियुक् ॥

दृतेन समवस्थोपि ददतोमात्य राजवत् ।

ग्राम प्रदक्षिणोराजा क्रमेणान्तर्गतो यतः ।
आत्मा सहेन्द्रियव्यापी पञ्चावस्थां गतस्ततः ॥

तथा शिवज्ञानबोधे -

अवस्था पञ्चकन्तस्य मलरुद्धस्वदृक्क्रिया ।

प्। १०५१)

चिन्त्ये -

मुखे जाग्रदिति ज्ञेयं स्वप्नन्तु हृदयान्तकम् ।
हृदयादि समारभ्य नाभ्यन्तन्तु सुषुप्तिकम् ॥

तस्मादधसतात्तुर्यन्तु तुर्यातीतन्तु लिङ्गकम् ।
पञ्चत्रिंशत्पञ्चविंशत्त्रिद्व्येक इति तत्वयुक् ॥

जाग्रादि स्थानमेवं हि प्रवत्तकमिहोच्यते ।
श्रोत्रत्वङ्नेत्र जिह्वा च घ्राणञ्चैव तु पञ्चकम् ॥

शब्दस्पर्शौ रूपरसौ गन्धश्चैव तु पञ्चकम् ।
वाक्पाणि पादपायुश्चोपस्थञ्चैव तु पञ्चकम् ॥

वचनादान गमनविसर्गानन्द पञ्चकम् ।
प्राणोपानस्तथा व्यानोदानश्चैव समानकः ॥

नागकुर्म्मौ कूकरो देवदत्तो धनञ्जयः ।
मनोबुद्धिरहङ्कारचित्तज्ञानानि पञ्च च ॥

पञ्चत्रिंशतिवर्त्तन्ते जाग्रैतानि विनिर्द्दिशेत् ।
शब्दादि वचनादिश्च प्राणादि मन आदिकम् ॥

एते चरन्ति वै स्वप्ने मायारूपेणजाग्रतः ।
जाग्रे विषय भोगं स्यात् प्रतिभास्वप्न एव च ॥

अयसाग्निसमायोगात् वियोगाग्निवदायसः ।

प्। १०५२)

प्राणयुक्तो मनश्चैव क्षेत्रज्ञश्च सुषुप्तिके ।
आत्मामुखे भुवोर्म्मध्ये स्थितो जाग्रत्प्रकीर्तितः ॥

तथा चिन्त्यविश्वे -

अवस्थेयं पुमान्ज्ञेयो ललाटे करणादिभिः ।
ऊर्ध्वाधोवर्त्तते जीवो जाग्रादिकरणैस्सह ॥

लूतिकं वलये लूतो यथा भ्रमति नित्यशः ।
जाग्रत् स्वप्नसुषुप्तिस्तु तुर्यञ्च तदीतकम् ॥

अवस्था पञ्च विज्ञेया सदाचार्योपदेशतः ।
षट्त्रिंशत्तत्व सङ्ख्याभिर्ज्जाग्रत्काले विभावयेत् ॥

श्रोत्रादि स्थानके तस्मिन् शब्दादि ज्ञान संस्मरेत् ।
वागादौ वचनादींश्च भावयेन्नन्दिकेश्वर ॥

विंशतिश्च विसृज्याथ मनादींश्च विमर्शयेत् ।
मनोबुद्धिरहङ्कारान्विसृजेत्तत्रदेशके ॥

रागमाया कलाश्चापि विसृजेत्तच्चतुर्यके ।
विद्यादिशुद्धकालान्तं विसृजेत्तत्तृतीतके ॥

तुर्यातीतं परन्तत्वं मानसानां लयं भवेत् ।
मनसो लयतश्चैव पराम्मुक्तिं समश्नुते ॥

चिन्त्य विश्वे -

जाग्रादि द्विविधं ज्ञेयं भवमोक्षगतन्तु यत् ।

प्। १०५३)

स्थाणु स्थाने महामोक्षं भवमार्गमधोच्यते ।
स्थूलं सूक्ष्मं सुसूक्ष्मं च अतिसूक्ष्मन्तथाधिकम् ॥

स्थूलं जाग्रदिति ज्ञेया सूक्ष्मं स्वप्नमिहोच्यते ।
सुषुप्तिस्तु सुसूक्ष्मं स्यात् अतिसूक्ष्मन्तुरीयकम् ॥

ततोधिकं तुर्यातीतमेवं पञ्चविधं स्मृतम् ।
जाग्रत्स्थाने प्रदृश्येत योगाभ्यासवतः क्रमात् ॥

जाग्रभूर्विप्रवृत्तिश्च प्रत्याहारेण शाम्यति ।
धारणेन त्यजेत् स्वप्नन्ध्यानेनैव सुषुप्तिकम् ॥

समाधिनाजयेत्तुर्यं तुर्यातीतं शिवेन तु ।
शिवेन दृश्यते सर्वं जाग्रदित्यभिधीयते ॥

जाग्रादि पञ्चावस्थायां जाग्रत्स्थाने प्रदर्शयेत् ।
सद्गुरोरूपदेशेन प्रासादे नैव सिध्यति ॥

अभ्यास ज्ञानयोगेन भक्तिमार्गेण भावयेत् ।

एवं वातुले -

ज्ञानातीतं परं शुद्धं सर्वगं सर्वतोमुखम् ।
भावं शिवं च सम्भाव्य स्वस्मिन्नेवं विभावयेत् ॥

एवं ध्यात्वा महायोगी अखण्डित महोदयम् ।

केवलसकलशुद्धम् । स्वायम्भुवे -

अथात्मा विमलोबद्धः पुनर्म्मुक्तश्च दीक्षया ।

प्। १०५४)

विज्ञेयस्स त्रिधावस्थः केवलस्सकलोमलः ॥

तत्रैव ।

अचेतनो विभुर्न्नित्योगुणहीनो क्रियः प्रभुः ।
व्याघात भागशक्तश्च शोध्यो बोद्धः खलः पशुः ॥

तथा किरणे -

पशुर्न्नित्यो सुमूर्तज्ञो निष्क्रियो निर्गुणो प्रभुः ।

स्वायम्भुवे -

कलोद्वलित चैतन्यो विद्यादर्शित गोचरः ।
रागेण रञ्जितश्चापि बुद्ध्यादिकरणैर्युतः ॥

मायाद्यवनि पर्यन्त तत्व भूतात्मवर्त्मनि ।
भुङ्क्ते तत्र स्थितान्भोगान् भोगैकरसिकः पुमान् ॥

संसारी विषयी भोक्ताक्षेत्री क्षेत्रज्ञ एव च ।
शरीरे चेति बद्धात्मा सकलश्चोच्यते बुधैः ॥

सुप्रभेदे -

अशीतिश्च चतुश्चैव शत साहस्र भेदकैः ।
सम्प्राप्य योनिभेदस्तु जीवनाम्ना तु तत्र च ॥

प्रोक्ता च सकलावस्था जीवाख्यानान्ततश्शृणु ।

समे कर्म्मणि सञ्जाते कालान्तरवशात्ततः ।

प्। १०५५)

तीव्रशक्ति निपातेन गुरुणा दीक्षितो यदा ।
सर्वज्ञस्सशिवो यद्वत् किञ्चिज्ञत्व विवर्जितः ॥

शिवत्व व्यक्तिसम्पूर्णस्स री न पुनस्तदा ।

सुप्रभेदे -

शुद्धावस्था इयं प्रोक्ता सर्वज्ञत्वादिभिर्गुणैः ।
शुद्धावस्थानमात्मानं शिवरूपमिति स्मरेत् ॥

त्रयोवस्थाश्चयो ज्ञात्वा पुनर्ज्जन्म न विद्यते ।

इति चतुर्थसूत्रं सम्पूर्णम् ॥

पञ्चमसूत्रम् ॥

शिवज्ञानबोधे -

विदन्त्यक्षाणि पुंसार्थान्न स्वयं सोपि शम्भुना ।

चिन्त्ये -

शिवो बोध्यादि सर्वस्य ज्ञानाप्रख्याधिकं च किम् ।

उत्तरम् ।

अर्कस्य सन्निधौ पद्म वक्रवत्कर्म्मणस्तथा ॥

तथा मतङ्गे -

निरुद्धशक्तयस्सर्वे शिवार्ककरचोदिताः ।
विकसन्त्यणुपत्मास्तु मायासरसि विस्तृते ॥

प्। १०५६)

शिवधर्म्मोत्तरे -

न करोति यतस्सर्वं स्वभोगाद्यं करोति च ।
अस्वतन्त्र्यादकर्त्ता यः किञ्चित्कर्त्ताणुरन्धवत् ॥

न वेत्ति तत्वतस्सर्वं तेनाज्ञः पुरुषः पशुः ।
सिद्धाध्यवसितं किञ्चित् ज्ञानात् किञ्चिज्ञ उच्यते ॥

तथा पौष्करे -

अज्ञो जन्तुरनीशोयं मात्मा यस्माद्विजर्षभाः ।
सोपि सापेक्ष एव स्यात् स्वप्रवृत्तौ घटादिवत् ॥

तथा निश्वासे -

किञ्चिज्ञस्सर्वतोप्यात्मा ततो बोध्यावबोधकः ।

किरणे -

तस्यशुद्धस्य सम्बन्धं समायाति शिवात्कला ।
तयोर्वेल्लित चैतन्यो विद्यादर्शितगोचरः ॥

रागेण रञ्जितश्चापि प्रधानेन गुणात्मना ।
बुद्ध्वादिकरणानेक सम्बन्धात् बध्यते पशुः ॥

ततो नियति संश्लेषात् स्वार्जिते विनियम्यते ।
कालेनकाल सङ्ख्या न कार्यभोग विमोहितः ॥

एवं तत्वकलाबन्धः किञ्चिज्ञो देहसंयुतः ।
मायाभोगपरिष्षक्तस्तन्मयस्सहजावृतः ॥

प्। १०५७)

ततस्सुखादिकं कृस्नं भोगं भुङ्क्ते स्वकर्म्मतः ।

निश्वासे -

सर्वज्ञस्सर्वगस्तस्मादात्मानं बोधयेच्छिवः ।
चराचराख्य जन्तूनां प्राणरूप इति स्मृतः ॥

सिद्धतन्त्रे -

चिद्रूपे जडसम्बन्ध जनानां वस्तु वस्तुनि ।
देवेषु चात्मनामेव सन्निधौ बोधजं वदेत् ॥

सिद्धतन्त्रे -

सर्वलोकाश्च योनिश्च शिवस्याङ्गश्च विग्रहम् ।
अन्तःकरण चैतन्यं विदितं कृत्यपञ्चकम् ॥

तथा स्कान्दे -

पञ्चक्ट्य * * * * * * स्य विमायिनः ।
इदमेव परन्दिव्यं ताण्डवं परिकीर्तितम् ॥

पौष्करे -

कर्म्मणार्थस्य संवित्तिः पूर्वमालोचनात्मिका ।
सन्देह रूपिणी पश्चादभिमानात्मिका ततः ॥

व्यवसायात्मकी पश्चात्क्रमेणैव व्यवस्थिताः ।

चिन्त्यविश्वसादाख्ये -

प्। १०५८)

सर्वात्मनां च जननं मरणं च तथैव च ।
कारुण्यात् क्लेशमालोक्य तेषां शम्भुः पुनस्तथा ॥

कर्म्मणां पाचनार्थाय सृष्टिन्निर्म्माय पूर्ववत् ।
दुःखानि भोगमखिलं भोजयेन्नन्दिकेश्वर ॥

मलेन परिपाके तु पक्वानां परमेश्वरः ।
आचार्य मूर्तिमास्थाय दीक्षया नियतन्ददेत् ॥

निश्वासे -

एकैव वस्तुतश्शैवी वा शक्तिन्निर्मला परा ।
अ ना भाविना शम्भोश्शुचेष्णमिव प्रभा ॥

तथात्म शिवयोस्सन्धिश्शिवबोधपरम्परा ।

तथा वातुलोत्तरे -

न शिवेन * * * * * * * क्तिरहितश्शिवः ।
गमवत्यन्धकारं * शिवश्शक्त्यार्कषत्गुह ॥

इति पञ्चमं सूत्रं सम्पूर्णम् ॥

षष्ठमसूत्रम् ॥

शिवज्ञानबोधे

अदृश्यं चेदसत्भावो दृश्यञ्चेज्जडिमा भवेत् ।
शम्भोस्तद्व्यतिरेकेण रूपं ज्ञेयं विदुर्बुधाः ॥

प्। १०५९)

तथा वातुलोत्तरे -

ज्ञेयोज्ञेयोथवा सोमेत्यज्ञेयोचित सत्भवः ।
अज्ञे नैव चातो वा द्वयं सन्मयत स्थितः ॥

वातुलोत्तरे -

सृष्टि स्थिति विनाशोपि चतुर्विधे कार्यदर्शने ।
आत्मज्ञानेन दृश्येत् जडस्याज्जडतोगुह ॥

वातुलोत्तरे -

लोकत्रयभावोपि ब्रह्मविष्णोः परास्पदम् ।
मरीचिका स्वप्नवत् ज्ञेयमसत्यन्निष्प्रयोजनम् ॥

निमिषाल्लयते चापि क्षुद्रस्यापि स्वभाववत् ।

स्वच्छन्दे -

मायाद्यवनि पर्यन्तमिन्द्र जालन्तु बुद्धितः ।
अदृश्येत् पदार्थञ्चेन्न च तन्निष्प्रयोजनम् ।

उत्तरम् ।

पूर्वन्तद्दृश्यते ज्ञानं किन्तु लाभन्तथापि च ॥

आत्मज्ञानेन सदसदिदमुक्तेन निष्फलम् ।
वाङ्मनोतीतत्वं हि शिवभावमिति स्मृतम् ॥

प्। १०६०)

प्रयोजनं किमस्ति स्यात्तथापि परमेश्वरः ।

उत्तरम् ।

सद्भोगं वाङ्मनोतीतं स्वयमेवानुभूतिमत् ॥

तदेव शिवभोगं च तदेव परमं सुखम् ।

सर्वज्ञानोत्तरे -

सर्वभावं परित्यज्य अभावं भावयेत् सदा ।

तथा निश्वासे -

अभावे भावमालम्व्य भावं कृत्वा निराश्रयम् ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥

अभावे भावमाश्रित्य भावलीनोप्यशङ्कितः ।
विभुरिति समन्तव्यो नात्र कार्या विचारणा ॥

अभावस्य कुतो भावो निष्कलस्य महात्मनः ।
अमनो अव्यवस्थानन्निर्वाणन्तस्य तत्पदम् ॥

सर्वज्ञानोत्तरे -

अद्वैत भावनायुक्तस्सर्वदात्मनि संस्थितः ।
सर्वगं सर्वदेहस्थं प्रपश्येन्नात्र संशयः ॥

पौष्करे -

न मोक्षं याति पुरुष स्वसामर्थ्यात् कदाचन ।
मुक्त्वा प्रसादन्देवस्य शिवस्या शिवहारिणः ॥

अन्यत्र ।

प्। १०६१)

ज्ञान दृष्ट्या परोगद्यो रूपशरश्शिवः ।

सर्वज्ञानोत्तरे -

येन विज्ञायते सर्वं यत्ज्ञात्वा तु शिवो भवेत् ।

इति षष्ठसूत्रं सम्पूर्णम् ॥

सप्तमसूत्रम् ॥

शिवज्ञानबोधे -

नाचिच्चित्सन्निधौ किन्तु न चित्तस्मादुभे मितः ।
प्रपञ्च शिवयोर्वेत्ता यस्स आत्मातयोः पृथक् ॥

शिवं प्रपञ्च सदसत्ज्ञेयमात्म द्वयन्नपि ।
आत्मालाभार्थतः पश्येत्तनौजं गन्धपुष्पवत् ॥

आत्मनस्सर्वदोषं च परमात्मनि तन्नयुक् ।
यद्यपि त्रिपदार्थं च लवणां भोधिवत्स्थितम् ।

किरणे -

अनादिमलसम्बन्धात् किञ्चिज्ञोणुर्म्मयोदितः ।
अनादिमलमुक्तत्वात् सर्वज्ञो सौ ततश्शिवः ॥

वायव्ये -

यथा नादि प्रवृत्तोयं घोर संसारसागरात् ।

प्। १०६२)

शिवोपि हि तथा नादिस्संसारान्मोचक स्मृतः ।

सप्तमसूत्रम् सम्पूर्णम् ॥

अष्टमसूत्रम् ॥

शिवज्ञानबोधे ।

स्थित्वा सहेन्द्रिय व्याधैस्त्वान्न ।

वेत्सीति बोधितः ।

मुक्त्वैतान् गुरुणानन्यो
धन्यः प्राप्नोति तत्पदम् ॥

सुप्रभेदे

ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्शुद्ध कुलोद्भवाः ।
आचार्यास्तेषु विज्ञेया नान्येषान्तु कदाचन ॥

शिवधर्म्मोत्तरे -

संसारपङ्कनिर्म्मग्नं यस्समुद्धरते नरम् ।
शिवज्ञानेन हस्तेन कस्तेन सदृशः पिता ॥

चिन्त्य विश्वे -

अनुग्राह्य स्त्रियश्शास्त्रे विज्ञानप्रलयाकलौ ।
तृतीयस्सकलश्चैव आद्योपि मलमात्रकः ॥

मलकर्म्म समायुक्तः प्रलयाकल एव च ।
मलमाया कर्म्मयुतस्सकलस्सोभिधीयते ॥

साधारोथ निराधारस्साधारस्सकलस्य तु ।

प्। १०६३)

निराधाराह्वयान्येषामेव दीक्षा मयोदिता ।
आचार्य निरपेक्षेण तीव्रशक्त्या तु शम्भुना ॥

या क्रिया क्रियते सा तु निराधारेति कीर्तिता ।
गुरुमूर्तिं समास्थाय मन्दतीव्रादि भेदया ॥

शक्त्या शम्भुश्च कुरुते सा दीक्षा साधिकारिणी ।

वरुण पद्धत्याम् -

शिवस्यानुग्रहो दीक्षा जायते कृतकर्म्मणाम् ॥

साचानेकविधा प्रोक्ता तत्प्रपञ्चोयमुच्यते ।
चाक्षुषी स्पर्शदीक्षा च वाचकी मानसी तथा ॥

शास्त्री च योगदीक्षा च हौत्रीत्यादिरनेकधा ।
रजः कुण्डवती हौत्री साद्विभेदा किलोदिता ॥

आद्या ज्ञानवती प्रोक्ता क्रियावत्य परा स्मृता ।
विनेज्यानलकर्म्मादि मनोव्यापारमात्रतः ॥

दीक्षा ज्ञानवती प्रोक्ता सम्यक् तत्त्वावबोधजा ।
इज्यानलवती या तु क्रियाकौशल सम्भवा ॥

क्रियवत्यय सा वेका निर्बीजा च स बीजका ।

कालोत्तरे -

बालादीनां तु निर्बीजा समयाचारवर्जिता ।

वरुणपद्धत्याम् -

प्। १०६४)

नित्यमात्राधिकारत्वात् समयिन्यथ पुत्रके ।
दीक्षा निरधिकारैव नैमित्ते नाधिकारिणी ॥

विजयोत्तरे -

पूजायतस्ततस्तत्र समयी नाधिकारभाक् ।
अथ निर्बीजिका दीक्षा प्रोक्ता सा द्विप्रकारिका ॥

एका निर्वाणदा सद्यो द्वितीया देह पाततः ।

सिद्धान्ते -

प्रारब्ध सञ्चिता गामि? कर्म्मजालं विशोध्यते ।
ययात्यन्त विरक्तानां सद्यो निर्वाणदा भवेत् ॥

प्रारब्ध कर्म्मणां भोगं यथा सा मुक्तिमन्तरा ।
यान्ति बालादयश्चैव स्वेच्छा निर्वाणदा भवेत् ॥

किरणे -

प्रारब्धकर्म्मनाशे तु स्वयन्देहोपपद्यते ।

कालोत्तरे -

स बीजा चैव शक्तानां समयाचारसम्युता ।
तेत्र बाल्या प्रयत्नेन मोक्षसिद्धि समीहिता ॥

वरुण पद्धत्याम् -

स बीजा च भवेद्दीक्षा साधकाचार्ययोरपि ।

षट्सहस्रिकायाम् -

प्। १०६५)

नित्यं नैमित्तिकं काम्यमाचार्यस्योदितं त्रयम् ।
नित्यं काम्यं साधकस्य स्वशास्त्रोक्तं षडानन ॥

वरुणपद्धत्याम् -

सर्वत्रैवाधिकारित्वात् साधिकारैव सा तयोः ।
साध्यमन्त्राभिषेकाच्च साधके सा प्रकीर्तिता ॥

सर्वविद्याभिषेकेण भवेदाचार्य गोचरे ।

षट्सहस्रिकायाम् -

द्विधा निर्वाण दीक्षा च लौकिकी शिवधर्म्मिणी ।
अधर्म्ममात्र संशुद्धा प्रोक्ता सा लोकधर्म्मिणी ॥

धर्म्माधर्म्मात्मकं कर्म प्रागागामि विचित्रकम् ।
सञ्चितंशोध्यते येन सैवोक्ता शिवधर्म्मिणी ॥

वातुले -

गुरुपदेश क्रमतो दीक्षितानां क्रमात् भवेत् ।
समयं च विशेषं च निर्वाणं चाभिषेचनम् ॥

वरुणपद्धत्याम् -

क्रियया वाथशक्त्या वा दीक्षा सा सर्वतोमता ।
दीक्षया मुच्यते देही त्रिविधात् भवबन्धनात् ॥

कामिके -

क्रियादीक्षा प्रबुद्धानां ज्ञानदीक्षामनीषिणाम् ।

प्। १०६६)

मुच्यते ज्ञानदीक्षाया विना पाशान्नमोचनम् ॥

वरुणपद्धत्याम् -

सा च दीक्षाध्व संशुद्धा स चाध्वा षड्विध स्मृतः ।
मन्त्रः पदानि वर्णाश्च व्याप्तानीह समन्ततः ॥

वर्णास्तु भुवनैर्व्याप्तास्तत्वैर्व्याप्तानितानि च ।
कलाभिस्तानि तत्वानि व्याप्तानीह कला क्रमात् ॥

इत्यध्वनां विचिन्त्याथ षडध्वव्यापिनं परम् ।
ध्यात्वा शक्तिन्नदूर्ध्वे तु भवेयुः परमं पदम् ॥

निवृत्तौ पार्थिवन्तत्वञ्चिन्त्यमेकं क्षकारकम् ।
कालाग्नि प्रभृतीनां तु पुराण्यष्टोत्तरं शतम् ॥

अन्त्यात्पदान्महादेव पदावधिविलोमतः ।
व्योमव्यापि पदान्यष्टाविंशतिः परिसङ्ख्यया ॥

सद्यो जातश्च हृदयन्द्वौ मन्त्रौ परिकीर्तितौ ।
गुणं गन्धादिशब्दान्तं पञ्चब्रह्मा च कारणम् ॥

प्रतिष्ठायामवादीनि त्रयोविंशति सङ्ख्यया ।
प्रकृत्यन्तानि तत्वानि ज्ञातव्यानि स्वभावतः ॥

त्रयोविंशति वर्णाश्च हादिनान्ताविलोमतः ।
ज्ञातव्यान्यमरेशादि षट्पञ्चाशत्पुराणि च ॥

प्। १०६७)

महेश्वराद्यरूप्यन्न पदानामेक विंशतिः ।
शिरोवामश्च मन्त्रौद्वौ चत्वारि तु गुणा स्मृताः ॥

रसादिशब्द पर्यन्ता विष्णुरत्र च कारणम् ।

विद्यायां सप्ततत्वानि पुरुषादीन्यनुक्रमात् ।
वामादि भुवनानां च विज्ञेया सप्तविंशतिः ॥

ध्यानाहरपदा * * न व्यापिनीति पदादितः ।
पदानां विंशतिर्म्मन्त्रौ * * * * * * * * ॥

रूपः स्पर्शश्च शब्दश्च गुणारुद्रस्तु कारणम् ।
शान्तौ तु त्रीणि तत्वानि विद्येश्वर सदाशिवः ॥

ण * * काश्च त्रयोवर्णा मन्त्रौ वक्त्र तनुच्छदौ ।
वामाख्यादि पुराण्या * * * * * * * * ।

व्योमव्यापिन इत्यन्तान्युक्तानीह विलोमतः ।
गुणौ स्पर्शश्च शब्दश्चद्धावी * * कारणम् ॥

शान्त्यातीत कलायान्तु शिवतत्वं व्यवस्थितम् ।
निवृत्त्यादि पुराण्यत्र भवन्ति दश पञ्च * * ॥

प्। १०६८)

विसर्गाद्या कारान्ता वर्णाष्षोडशकीर्तिताः ।
भवत्येको गुणश्शब्दः कारणन्तु सदा शिवः ॥

चिन्त्ये -

इत्येकादशमन्त्रेस्यादेकाशीति पदं भवेत् ।
अक्षराण्येक पञ्चाशच्चतुर्विंशच्छतद्वयम् ॥

षट्त्रिंशत्तत्वमेवं हि कला पञ्चक उच्यते ।

मतङ्गे -

सितं चैवासितं कर्म्मलोके तावत्प्रकीर्तितम् ।
हिंसादिकं कर्म्मयत् स्यात्तदकर्म्म च कर्म्मिणाम् ॥

वापी कूपतटाकाद्यैस्सितमेतत् प्रकीर्तितम् ।
एतत् कोटिद्वयोपेतम्मुचितं सर्वजन्तुषु ॥

अपेक्ष्य वेदविध्युक्तमग्निष्टोमात्मिके पथि ।
कर्म्माकर्म्म विशेषोस्मिन् प्रोक्तन्तद्धिसितासितम् ॥

एतावत्त्रिविधं कर्म्म नेष्टंशास्त्रे शिवोदये ।

चिन्त्ये -

पूर्वजन्मकृतं कर्म्मभोगेन परिशुष्यति ।
इह जन्मनि यत्प्राप्तं ज्ञानेन शिथिलं कुरु ॥

तथान्यत्र -

प्। १०६९)

प्रारब्धं भोगतो न श्यात् सञ्चितं हन्ति दीक्षया ।
आगामि ध्यानपूजायामिति शास्त्रस्य निश्चयः ॥

योगजे -

स्थूलं च सूक्ष्मकं चैव द्विविधं समयं भवेत् ।

अचिन्त्ये -

लोकायतोय बौद्धश्चार्हतो मीमांस एव च ।
मायावादं पाञ्चरात्रं षडेते समया बहिः ॥

अन्यत्र ।

मनुर्बृहस्पतिर्द्दक्षो गौतमोधरमोङ्गिराः ।
योगीश्वरः प्रचेदाश्च शतातप पराशरौ ॥

संवर्त्तेशनसश्शङ्खलिखितावत्रिरेव च ।
वेदोक्तकर्म्मभरिता धर्म्मशास्त्र प्रवर्त्तकाः ॥

सुप्रभेदे -

ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ।
ब्रह्मचारी द्विधा ज्ञेयो भौतिको नैष्ठिकस्तथा ॥

कूर्म्मे -

उदासीनस्साधकश्च गृहस्थो द्विविधो भवेत् ।
कुडुम्बभरणायत्तस्साधकोसौ प्रकीर्तितः ॥

ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्या धनादिकम् ।
एकाकी विचरेद्यस्तु स उदासीन उच्यते ॥

प्। १०७०)

चिन्त्य विश्वे -

यतयस्त्रिविधा ज्ञेयास्तपस्वी विदुषस्तथा ।
विद्वानिति त्रिधा प्रोक्तास्तेषां लक्षणमुच्यते ॥

तपश्चान्द्रायणादिकमिति सन्ताने -

चतुष्षष्ठि कलाश्चैव षट्कर्म्माणि तथैव च ।
योगशास्त्राणि सर्वाणि वेदान्तं ज्योतिषन्तथा ।

मतङ्गे -

साङ्ख्य सिद्धान्तमार्गं च ज्ञात्वा वै देशिको भवेत् ।

शैवपुराणे -

ब्राहं च वैष्णवं पाद्यं शैवं भागवतन्तथा ।
भविष्यन्नारदीयं च मार्गण्डेयमतः परम् ॥

आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च ।
स्कान्दं च वामनं प्रोक्तं कौर्म्मं मात्स्यं च गारुडम् ॥

ब्रह्माण्डं चेति पुण्योयं पुराणान्मानुक्रमात् ।
ऋग्यजुस्सामाधर्वणाश्चतुर्वेदाः प्रकीर्तिताः ॥

देविकालोत्तरे -

ज्ञानोत्पत्तिनिमित्तन्तु क्रियाचर्या प्रकीर्तिता ।

सुप्रभेदे -

योगात् ज्ञानं समादाय ज्ञानतत्वं सदाभ्यसेत् ।

प्। १०७१)

शैवे -

ज्ञानादेव हि मुक्ति स्यान्नान्यथा कर्म्मकोटिभिः ।

चिन्त्ये -

अन्यथा बहवोमुक्तिश्शास्त्रे च वरानने ।
शिवतुल्यं लभेन्मुक्तिरिदानीं कथ्यते मया ॥

निश्वासे -

सिद्धान्त सङ्ग्रहे च ॥

लोकायतिक पक्षे तु तत्वं भूत चतुष्ट्यम् ।
इष्टलोकात् परोनान्य स्वर्गोस्ति नरको न च ॥

शिवलोकादयो मूढैः कल्प्यन्तेन्य प्रकारकैः ।
स्वर्गानुभूतिमृष्टाष्टिद्व्यष्ट वर्षवधूरतिः ॥

सूक्ष्मवस्त्रसुगन्धसृक् चन्दनादि निषेवणम् ।
नरकानुभवो वेदशास्त्रव्याध्याध्युपद्रवः ॥

मोक्षस्तु मरणं प्राण सञ्ज्ञवायु निवर्त्तनम् ।

सर्वमतोपन्यासे -

तदेषां श्रुति वाक्यानां शब्दमात्रं हि देवता ।
ज्योतिष्टोमाद्यनुष्ठानादपूर्वः कश्चिदार्जितः ॥

स्वर्गादेः फलरूपस्य प्रदानस्य तु देवता ।
कर्म्ममीमांसकाः प्राहुरित्थं स्वमतलक्षणम् ॥

प्। १०७२)

तथा मृगेन्द्रे -

न जातु देवता मूर्त्तिरस्मदादि शरीरवत् ।
विशिष्टैश्वर्य सम्पन्नस्ततो नैतन्निदर्शितम् ॥

अतस्त्वेवं घटो न्यायश्शब्दत्वादिन्द्र शब्दवत् ।
ज्ञानसंस्कार सञ्ज्ञानं वेदना रूपयोरपि ॥

समूह स्कन्धशब्दार्थस्तत्तत्सन्तति वाचकः ।
ज्ञान सन्ततिरेवात्र विज्ञान स्कन्धमुच्यते ॥

संस्कारस्कन्ध इत्युक्तो वासनान्तन्तु सन्ततिः ।
सुखदुःखादिका बुद्धिस्सादीपेक्षात्मिका तथा ॥

वेदनस्कन्ध इत्युक्तस्सञ्ज्ञा स्कन्धान्तनावयत् ।
रूपस्कन्धो भवत्यत्र मुक्ति भूतस्य संहतिः ॥

चिन्त्ये -

शास्त्राणि समयाश्चैव अन्योन्येन विपर्ययाः ।
एतेषा मुक्तिकोलाभादतित्वं यदि सृग्विसि ॥

एकेन नैतदित्युक्तमभिन्नन्यायतः प्रिये ।
सर्वेषां तु क्वचिद्दृष्टे स्थिते सन्ति तरुत्तमम् ॥

वेदागमेषु शास्त्रेषु ईश्वराढ्योति कीर्तितः ।

तथा निश्वासे देवी -

वेदशास्त्र पुराणज्ञ पाञ्चरात्रेतिहासयोः ।

प्। १०७३)

योगिनश्च तथाचान्ये कुपथेष्वपि ये स्थिताः ।
कुतर्के मोहयित्वा तु स्वदेहन्दर्शयन्ति ते ॥

देवि चात्र ब्रुवन्त्येव गतिरत्रकुतोन्वितः ।
पक्षपातो भवे देषो मोक्षस्सर्वत्र वा भवेत् ॥

एवं मे संशयो देव यत्सत्यं तत् ब्रूहि मे ।

शिवधर्म्मोत्तरे -

विधिवाक्यमिदं शैवन्नार्थवादश्शिवात्मकम् ।
यद्यथावस्थितं वस्तु गुणदोष स्वभावतः ॥

यावत्फलं च तत्पुण्यं सर्वज्ञश्च तथा वदेत् ।
रागज्ञानादिभिद्दोषैः ग्रस्तत्वादमृतं वदेत् ॥

ते चेश्वरे न विद्यन्ते ब्रूयात्स कथमन्यथा ।
अपास्ता शेषदोषेण सर्वज्ञेन शिवेन यत् ॥

प्रणीतममलं वाक्यन्तत्प्रमाणन्न संशयः ।
तस्मादीश्वर वाक्यानि श्रद्धेयानि विपश्चिता ॥

मकुटे -

वेदान्तार्थमयं ज्ञानं सिद्धान्तं परमं शुभम् ।
वेदसारार्थदं ज्ञेयमन्यत्वन्यार्थ साधकम् ॥

कामिके -

प्। १०७४)

सिद्धान्तो वेदसारत्वादन्यत्वे तत्बहिष्कृतः ।
सिद्धान्त विहिताचारो वैदिकाचार उच्यते ॥

अजिते -

पञ्चवक्त्रधरो भूत्वा पञ्चभिस्तैर्मुखैरपि ।
वेदादि ग्रन्थजालं यदवतारयति प्रभुः ॥

कामिके -

लौकिकं वैदिकं चैव तथाध्यात्मिकमेव च ।
अतिमार्गं च मन्त्राख्यन्तत्र भेदमनेकधा ॥

सद्यो वाममघोरं च पुरुषेशानमूर्त्तयः ।
प्रत्येकं पञ्चवक्त्रास्युस्तैरुक्तं लौकिकादिकम् ॥

स्वायम्भुवे -

वेदादि ज्ञानभेदेन शिवज्ञानमिहोदितम् ।
चिन्तामणिरिवात्रासौ स्थितस्सर्वस्य कारणम् ॥

धर्म्मसाधन संवित्तिराम्नायादेव जायते ।
तन्मूलत्वात् स्मृतेश्चापि ताभ्यामेवापरस्य च ॥

पुराणादीनि शास्त्राणि सादरन्नित्यमाश्रयेत् ।
वेदमूलतयान्यानि प्रवृत्तान्यपि सत्तम ॥

सिद्धान्त सङ्ग्रहे -

अङ्गोपाङ्ग वेदास्युर्वेदस्यैवोपकारिकाः ।

प्। १०७५)

वेदाङ्गानि षडेतानिशीक्षाव्याकरणानि च ।
निरुक्तञ्ज्योतिषं कल्पं च्छन्दोवचितिरित्यपि ॥

मिमांसा न्यायशास्त्रं च पुराणं स्मृतिरित्यपि ।
चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै ॥

कामिके -

ऋग्यजुस्सामाधर्वाणि पुरुषाद्यननोत्भवाः ।
पश्चिमाद्वामवक्त्रन्तु वामाद्दक्षिणमुत्तमम् ॥

दक्षिणात् पुरुषश्रेष्ठ उतरोत्रमेव वहि ।
पूर्वाननात्ततश्श्रेष्ठन्तस्मात् सिद्धान्तमुत्तमम् ॥

सिद्धान्तात्परमं ज्ञानं नेति शस्त्रस्य निश्चयः ।
अष्टाविंशति तन्त्राणि सिद्धान्तमिति कीर्तितम् ॥

रत्नत्रये -

सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे ।
सिद्धान्तस्सेव्यते सद्भिरशक्तिपात पवित्रितैः ॥

तथा कामिके -

आदावभूद्विधा ज्ञानमधिकारि विभेदतः ।
परापर विभागेन पतिपाशात्म दर्शकम् ॥

शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् ।
वेदाद्यपर विज्ञानं पशुपाशार्थ दर्शकम् ॥

प्। १०७६)

यथा विलक्षणञ्चक्षु क्षपायान्नृबिडालयोः ।
तथा विलक्षणं ज्ञानमेवमेतत् परापरम् ॥

शिवधर्म्मोत्तरे -

आगमत्वेपि सामान्येकः प्रद्वेषश्शिवात्मके ।
अनायासेन यत्प्रोक्ता मुक्तिरेकेन जन्मना ॥

एवमेकेन भविकां विमुक्तिं परतस्थिताम् ।
विहायानेक भविकां कः प्राज्ञः प्रतिपद्यते ॥

तदुक्तन्निश्वासे -

शास्त्रेण सिध्यते सिद्धिस्सिधान्तस्तेन संस्मृतः ।
शिवो देशिकदेहस्थः प्राण्यनुग्रहकारकः ॥

पराख्ये -

सर्वकर्त्ता महान्विद्यात् सर्ववेत्ता महेश्वरः ।
सर्वकृत्येषु तत्ज्ञानं व्या * * * * * * * * ॥

आगपि सर्वज्ञो गुणमाहात्म्य दर्शनात् ॥

उभयोर्ज्ञापकत्वेन दोषस्त्वन्योन्य * * * भवेत् ।
ज्ञापकं वर्तते शास्त्रन्तत्कर्त्ता वर्तते शिवः ॥

ज्ञातृज्ञापकयोश्चैव न दोषस्त्वितरेतरः ।

मृगेन्द्रे -

प्। १०७७)

सर्वज्ञस्सर्वकर्तृत्वात् साधनाङ्गफलैस्सह ॥

यो यज्जानाति कुरुते स तथैवेति सुस्थितम् ।

पराख्ये -

क्रियादि ज्ञानपर्यन्तं सद्यङ्मार्गञ्चतुर्विधम् ।

तदुक्तं शिवज्ञाने -

चर्यापादन्दासमार्गं पुत्रमार्गं क्रियां विदुः ।
सहमार्गं योगपादं सन्मार्गं ज्ञानमेव च ॥

अथ चर्या क्रियापादं योगपादन्तथैव च ।
ज्ञानपादं क्रमाच्चैव शिवेन परिभाषितम् ॥

एतच्चतुर्विधं मार्गं सालोक्यादि फलप्रदम् ।

चिन्त्य विश्वे -

शिवसमानतारूपं शिवविग्रहमेव हि ।
सकले निष्कले चैव सर्वत्रैव समानता ॥

सायुज्यमिति तत्प्रोक्तं सारूप्यं मूर्तितुल्यता ।
सामीप्यं मूर्ति सामीप्यं स्वेच्छा विग्रहधारणात् ॥

शिवलोकादि सम्प्राप्तिस्सालोक्यं मुक्तिनामतः ।
एतच्चतुष्टयं मुक्तिस्सायुज्यञ्चोत्तमं भवेत् ॥

कामिके -

दासमार्गं शिवोद्यान लिङ्गबिम्बालयादिकृत् ।

प्। १०७८)

शैव नर्त्तनतिस्तोत्रगान् कुद्रोहिमर्द्दकः ।

शिवज्ञानबोध सङ्ग्रहे -

क्रियामूर्त्तेर्महेशस्य आलयेषु समाहितः ।
शनैस्सम्मार्जनं कुर्यान्मार्ज्जन्यामृदुसूक्ष्मया ॥

तल्लक्षणमुक्तं सुप्रभेदे -

द्वादशाङ्गुलमानेन मार्ज्जिजालेन मार्जनम् ।
नालिकेरस्य पत्राणां सारात्बहु च संयुतात् ॥

अरत्निमात्र मायामन्तन्मूले रज्जु बन्धनम् ।
द्विविधा मार्जनी प्रोक्ताह्यथमार्जन कर्म्मणि ॥

शिवधर्म्मे -

नाहारवश जीर्णाया न बन्ध्या क्षीण वत्सला ।
रोगार्त्ता नवसूता वा त्याज्यागोमय सङ्ग्रहे ॥

ख संस्थं गोमयं ग्राह्यं स्थाने वा पतिते शुभे ।
उपर्यधश्च सन्त्यज्य प्रत्यग्रञ्चतुवर्जितम् ॥

वस्त्र पूतेन तोयेन यः कुर्यादुपलेपनम् ।
पश्यन्परिहरन् जन्तून् चान्द्रायणफलं लभेत् ॥

शिवज्ञाने -

आत्मारामोद्भवैः पुष्पैस्समादाय शिवस्य तु ।
मालां सङ्ग्रथयित्वा तु यो दद्यात् परमेष्ठिने ॥

प्। १०७९)

यः कुर्यात्तु महेशाय पुष्पारामक्रिया विधिम् ।
स्तोत्रगानादिकं सर्वं यः कुर्याद्दासमार्गकः ॥

कामिके -

पुत्रमार्गीशिवार्चादि जपहोमपरायणः ।
प्रवेशकश्शिवज्ञानी औपदेशिक एव च ॥

वातुले -

मूर्तिं सदाशिवीं विद्याम् शुद्धस्फटिक सन्निभाम् ।
पञ्चपञ्च भुजैर्युक्तां पञ्चवक्त्रं स्मिताननाम् ॥

दशायुध समोपेतां सर्वाभरणभूषिताम् ।
उन्मनी सहितं शम्भुं विन्यसेद्धृदयेन तु ॥

विजने प्रयतस्सर्वं विद्यादेहं विचिन्तयेत् ।
पराशक्ति समायुक्तं मूर्ध्निमध्ये तु विन्यसेत् ॥

तदूर्ध्वे शिवमावाह्य सधोज्ञानमवाप्नुयात् ।

ज्ञानरत्नावल्याम् -

किन्तु देहावसानेन यः पूजयति भक्तितः ।
स शिवस्सर्वकृच्छम्भुर्ज्जीवन्मुक्तस्सकथ्यते ॥

कामिके -

सहमार्ग्गि भवेत्यक्त संसारीशुचिमन्त्रयुक् ।
समदृङ्निरहङ्कारी शिवयोगकृतश्रमः ॥

प्। १०८०)

सुप्रभेदे -

गुदाच्च द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः ।
मूलाधारमिति ज्ञेयं तद्विज्ञेयमुदाहृतम् ॥

आधारं गुदमित्युक्तं स्वाधिष्ठानन्तु लिङ्गकम् ।
मणिपूरन्नाभिदेशे हृत्पद्मगमनाहतम् ॥

विशुद्धिः कण्ठदेशे तु आज्ञाकोदण्डमध्यगा ।
आधारमासनं प्रोक्तमाधेयः परमश्शिवः ॥

मकुटे -

षडाधारादि देवानां शृणुष्वेवं महेश्वर ।
विघ्नेशो भैरवश्चैव क्षेत्रपालश्च चण्डिका ॥

मूलाधारादि देवास्यु स्वाधिष्ठानमथ श्रुणु ।
प्रतिष्ठाशुद्ध भैरिण्या भवानी ऋषी पद्मिनी ॥

पद्मासना पद्मयोगी स्वाधिष्ठानादि देवताः ।
तुलाराक्षि नीलराक्षीराक्षीकैला स्फुलिङ्गिनी ॥

उपाभ्युष्णीषिका चैव वशिनी च त्रिशङ्करी ।
तपनी नवनी चैव मणिपूरक देवताः ॥

मणिपूरमिदं प्रोक्तमनाहतमतश्श्रुणु ।
काशनीशातनी चैव शोचिका वेणिवेणिका ॥

अक्षिणी चैव चामुण्डी ज्येष्ठा दुर्गा वराटिका ।

प्।१०८१)

अरणी स्वरणी चैव चाधिदेवास्त्वनाहते ।
अनाहतमिति प्रोक्तं विशुद्धेर्न्नाम तच्छ्रुणु ॥

मनाटी पुष्पटीस्तीटी शृङ्गि च च्छूर्पराटिनी ।
रात्रिश्च दामकरिणी जया पूजी च मेव च ।
अल्पाशिनी मकाराक्षी दूल्वाशी आपचारिणी ॥

कलासीकमला चैव विशुद्धस्याधि देवता ।
विशुद्धि देवता प्रोक्ता आज्ञादेवमथ श्रुणु ॥

अन्ते सुन्दरी आनन्दी आज्ञाया अधिदेवता ।
षडाधारमिदं ज्ञेयम् अतिदेव समन्वितम् ॥

वायव्ये -

समाधिना च सर्वत्र प्रज्ञालोके प्रवर्तते ।
यदर्थमात्र नि सममितो दधिवत्स्थितम् ॥

स्वरूपशून्यं यत्भाति तत्समाध्यभिधीयते ।

तथा चिन्त्यविश्वे -

मूलाधाराख्य कालाग्नेर्म्मण्डलोपरि संस्थिताम् ।
आधाराणामशेषाणां भेदिनी बोधिनीपका ॥

सृष्ट्यन्तोमृत संवाही शिवशक्तिस्वरूपिणी ।
आप्लावयन्ती सर्वत्र सिद्धिमुक्ति प्रदायिनी ॥

एवं कुण्डलिनी प्रोक्ता चातिगुह्या महोदया ।

प्। १०८२)

कामिके -

सन्मार्गीत्यक्त संसारस्समत्वशुचिमत्वयुक् ।
त्रिपदार्थ परिज्ञान शिवयोगकृत श्रमः ॥

पुत्री कृत जनश्शैवाचार्यासन्तातिकश्च सः ।
शुद्धात्मनां हितं शास्त्रन्त्रायते यद्भवार्णवात् ॥

तच्छासन परित्राणात् शास्त्रमित्यभिधीयते ।

चिन्त्यविश्वे -

शाश्वतन्तुर्य रहितमानन्दं परमं पदम् ।
त्रिपुटी ज्ञानहीनं यत् प्रोक्तन्तत्परमं पदम् ॥

तथा स्कान्दे -

धारणध्यान युक्तस्य समाधिर्भवति ध्रुवम् ।
यत्सामरस्यमनयोर्ज्जीवात्म परमात्मनोः ॥

यत्परित्यक्तसङ्कल्पं समाधिरभिधीयते ।
प्रतिपत्तेस्समाधौ तु सङ्कल्परहितात्मनः ॥

ज्ञेयं ज्ञाता तथा ज्ञानमेतद्रूपं विलीयते ।

कामिके -

उत्तरोत्तरवैशिष्ट्यपटले ।

सन्मार्गादि क्रमेणापि वैशिष्ट्यमिह सम्मतम् ।
सन्मार्गी सहमार्गी च पुत्रमार्गी तथा परः ॥

प्। १०८३)

दासमार्गी चतुर्थेषां प्रतिलोमाद्विशिष्यते ।

शिवधर्म्मोत्तरे -

अध्ययञ्चाध्यपनं व्याख्याश्रवण चिन्तने ।
इति पञ्चप्रकारोयं ज्ञानयज्ञः प्रकीर्तितः ॥

उत्तरोत्तर वैशिष्ट्यं सर्वेषां परिकीर्तितम् ।
अथ पूजाद्यग्निकार्याद्यैर्भेदैर्बहुविधै स्मृतः ॥

कर्म्मयज्ञस्समाख्यातस्त पश्चान्द्रायणादिकम् ।
स्वाध्यायश्च जपः प्रोक्तश्शिवमन्त्राख्य संस्थितः ॥

ध्यान यज्ञस्समाख्यातश्शिवचिन्तार्मुहुर्मुहुः ।
पञ्चानामपि यज्ञानां ज्ञानयज्ञो विमुक्तिदः ॥

कर्म्मयज्ञात्तपो यज्ञो विशिष्ठो दशभिर्गुणैः ।
जपयज्ञस्तपो यज्ञात् ज्ञेयश्शतगुणाधिकः ॥

ज्ञान ध्यानात्मकस्सूक्ष्मश्शिवयोगो महामखः ।
विशिष्टस्सर्वयज्ञानाम्मसङ्ख्यातैर्महागुणैः ॥

यस्मात्तस्माद्विशुद्धोयमपवर्गफलप्रदः ।

शिवधर्म्मोत्तरे -

आरम्भकाले श्रवणं क्रियाकाले तु चिन्तनम् ।
निश्चयाद्धवनन्तस्य निष्ठाकाले प्रसन्नता ॥

प्। १०८४)

चिन्त्यविश्वसादाख्ये -

यावत्कालं शिवज्ञानन्द्रयी भवति तस्य वै ।
तावत्कालं च कर्त्तव्यं श्रवणादि विशेषतः ॥

शिवधर्म्मोत्तरे -

ज्ञानं विकल्प बहुलं रागाद्यैः कलुषीकृतम् ।
तदज्ञानन्न शुध्यर्थं कलुषोदकवद्भवेत् ॥

तत्र ज्ञानाज्ञानयोर्ल्लक्षणमाह ।

यदा प्रसन्नमेकाग्रं स्तिमितोदधिवत्स्थितम् ।
तदा ज्ञानमिति प्रोक्तमज्ञान तिमिरापहम् ॥

इति प्रसन्नं यत्ज्ञानं भावानामयमुत्तमम् ।
रागाद्यैरपरामृष्टन्तद्विज्ञेयं विमुक्तिदम् ॥

अज्ञाने सति रागाद्यैर्धर्म्माधर्म्मौ च तद्वशात् ।
धर्म्माधर्म्म वशात् पुंसां शरीरमुपजायते ॥

शरीरे सति सत्क्लेशस्सर्वैस्संयुज्यते यतः ।
ततः क्लेश व्यपोहार्थ पुनर्द्देहन्न कारयेत् ॥

जगतस्तस्य सम्बोधादज्ञानं विनिवर्त्तते ।
तत्क्षयाच्च शरीरेण न पुनस्सं प्रयुज्यते ॥

मृते शिवपुरं गच्छेत् त्रिसप्त कुल संयुतः ।
कल्पकोटिशतन्दिव्यं सेव्यमानं सतिष्ठति ॥

प्। १०८५)

क्रदन्ते विष्णुभवने तावत्काल * * स्यति ।
विष्णुलोकाच्च्युतो ब्राह्मन्ततस्सम्प्राप्यमोदते ॥

सम्भोगैर्विविधैस्सूक्ष्मैस्तावत्कालमनुत्तमैः ।
प्रजापतीन्द्र गन्धर्व यक्ष * * नुक्रमात् ॥

काले महति विप्राणां प्रज्ञाशील गुणान्वितः ।
ततस्स * * * * * * गीन्द्रं समुपासते ॥

तत्सम्पर्क्काच्छिवज्ञानं प्राप्य योगन्निषेवते ।
योगाद्विरक्त संयोगादाप्नोति परमं पदम् ॥

व्रतानि दान नित यज्ञा-
स्सन्न्यास तीर्थाश्रम कर्म्मयोगाः ।
स्वर्गीयमेतच्छुभमध्रुवं च
ज्ञानाद्ध्रुवं शान्तिकरं महार्थम् ॥

स्वात्म भोगाधिपत्यं स्याच्छिवस्सर्वजगत्पतिः ।
केचित् तत्रैव मुच्यन्ते ज्ञानयोगरतानराः ॥

आवर्त्तन्ते पुनश्चान्ये संसारे भोगतत्पराः ।
तस्माद्विपश्चिल्लोकेषु भोगासक्तिं विवर्जयेत् ॥

विरक्तिशान्त शुद्धात्मा शिवज्ञानमवाप्नुयात् ।

निश्वासे -

प्। १०८६)

यस्तु फलन्दानयज्ञादि कर्म्मणा समुपार्जितम् ।
तदस्याप्युपभोगेन क्षयमायेत्यशेषतः ॥

यज्ञात् स्वर्गफलावाप्तिस्तत्क्षयात् पुनरागमः ।

सुप्रभेदे -

अन्येषु पशुधर्म्मेषु स्वर्ग एव फलं हि तत् ।
एतद्धि शिवशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥

सर्वशास्त्रं समुत्सृज्य शिवशास्त्रेषु योजयेत् ।

तत्रैव ।

शिवलोके निवासस्यादन्य लभ्यन्न देवतैः ।
भुक्त्वा तु विपुलान्भोगान्प्रलये समुपस्थिते ॥

ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ।
न तेषां पुनरावृत्तिर्घोरे संसारसागरे ॥

सर्वज्ञास्सर्वगाश्शुद्धाः परिपूर्णा महेश्वराः ।
शिवतुल्यबलास्सिद्धाः परं शिवपुरं गताः ॥

अत्यल्पमपि यद्दत्तं शिवज्ञानात्मवेदिने ।
तन्महाप्रलयं यावद्दातुर्भोगाय कल्प्यते ॥

मृगेन्द्रे -

मायाकार्योमरेशादि रुद्रस्थानेषु यत्सुखम् ।
अपरन्तत्पदं विद्यादानन्दादि पदस्थितिः ॥

प्। १०८७)

शिवधर्म्मोत्तरे -

अनेक भविकामुक्तिर्भवतः केनकार्यते ।
तस्मादत्रैक भविकामुक्तिर्ज्ञानेन निश्चिता ॥

सुप्रभेदे -

ज्ञाने नैव तु तत्तुल्यं प्राप्तस्तत्र न संशयः ।

शिवधर्म्मोत्तरे -

अज्ञानपाशबन्धत्वादमुक्तः पुरुष स्मृतः ।
ज्ञानेन मोचितं यस्मात्तस्मात् ज्ञानं विशिष्यते ॥

संसारबीजमज्ञान संसार्यज्ञः पुमां स्मृतः ।
ज्ञानात्तस्य विमुक्ति स्यात् प्रकाशात्तु तमो यथा ॥

शिवज्ञानात्परं ज्ञानं तत्समं च न विद्यते ।

सुप्रभेदे -

ज्ञानं प्रवर्त्तते वत्स भ्रान्तिर्निर्नाशनाय च ।
अध्वश्रेणि विनाशाय शिवव्यक्तिकराय च ॥

अन्धकार वदज्ञानं ज्ञानन्दीपवदुच्यते ।
ज्ञेयं भास्करवत्प्रोक्तन्तस्मात् ज्ञानं विशिष्यते ॥

सूत संहितायाम् -

आत्मनः परमामुक्तिर्ज्ञानेनैव कर्म्मणा ॥

शैव पुराणे -

प्। १०८८)

ज्ञाना देव हि मुक्तिस्यान्नान्यथा कर्म्मकोटिभिः ।
यश्चशम्भोः प्रसादेन गुरोश्चैव प्रसादतः ॥

जायते तच्छिवज्ञानन्नान्यथा सत्यमीरितः ।

वातुले -

आदित्य सन्निधौ रश्मिस्सूर्यकान्तेपि चोदितम् ।
आचार्यसन्निधौ ज्ञानमात्मन्येव तथोदितम् ॥

सुप्रभेदे -

सर्वतत्वानि भूतानि दृश्यन्ते चात्म एव हि ।

चिन्त्ये -

यस्साक्षी सुखदुःखानां लोकेस्मिन् सर्ववस्तुनि ।
अणोरणु महीयांश्च महतो यत्परात्परम् ॥

पौष्करे -

कर्म्मनाशान्मलस्यापि विपाके सहकारिणी ।
पतत्युन्मीलिनी शक्तिस्तदानुग्रह रूपिणी ॥

तस्यां पतितमात्रायां मलयोनिर्म्मलात्मिका ।
शक्तिर्न्निर्वर्तते तस्यां निवृत्तायां महात्मनः ॥

पुनाति साधिकारेण यं वापि परमेश्वरः ।
यथानुग्रह रूपिण्याश्शक्तेर्न्नति निरोधिका ॥

प्। १०८९)

मलस्य क्षीयते शक्तिस्सा दीक्षा शाम्भवी क्रिया ।

तथा किरणे -

तीव्रशक्ति निपातेन इत्यादि ।

शिवधर्म्मोत्तरे -

न श्रुणोति न चाघ्राति न रस्यति न पश्यति ।
न च स्पर्शं विजानाति न च सङ्कल्पते मनः ॥

न चाभिमन्यते किञ्चिन्न च बुध्यादि काष्ठवत् ।
एवमीश्वरके लीनस्समाधिस्थः प्रकीर्तितः ॥

सुप्रभेदे -

स्वभावज्ञानतो मुक्तस्सजीवन्मुक्त एव हि ।
समत्वं सुखदुःखाभ्यान्तत्प्रिया प्रिययोस्समम् ॥

देविकालोत्तरे -

समस्तु मित्रामित्रे च समलोष्टाश्म काञ्चनः ।
यस्यां यस्यामवस्थायां तस्यान्तस्थां स्मरेच्छिवम् ॥

कालोत्तरे -

निद्रायां बोधयेच्चित्तं विक्षिप्तं क्षमयेत्पुनः ।
पक्षद्वय परित्यागे सम्प्राप्ते नैव चालयेत् ॥

निराश्रयं यदा चित्तं सर्वालम्बनवर्ज्जितम् ।
नैव स्थान विनिर्म्मुक्तं विज्ञेयं मुक्तिलक्षणम् ॥

रत्नत्रये -

प्। १०९०)

तया हि विमलोदार गम्भीरे चिन्महोदधौ ।
स्वात्मनि प्रविलीयन्ते धन्या हि शिवयोगिनः ॥

शिवधर्म्मोत्तरे -

धर्म्मरज्वा व्रजत्यूर्ध्वं पापरज्वा व्रजत्यधः ।
द्वयं ज्ञानासि न च्छित्वा विदेहं शान्तिमृच्छति ॥

ज्ञानामृतरसोयेन सकृदा स्वादिनो भवेत् ।
स सर्वकार्याण्युत्सृज्य तत्रैव परिधावति ॥

ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
नैवास्ति किञ्चित् कर्त्तव्यमस्ति चेन्न च तत्ववित् ॥

लोकत्रयेपि कर्तव्यं किञ्चित्तस्य न विद्यते ।
देहपाते तथा चात्मा भाति सर्वत्र सर्वदा ॥

तथा मतङ्गे -

ज्ञानाभि व्यक्तये व्यक्तिं व्यक्तं तत्वमणुं प्रति ।

निश्वासे -

अप्रमेय गुणोपेतस्सर्वज्ञः खलु सर्वदा ।
सर्वकृत्सर्वलोके शश्शिवतुल्यः प्रजायते ॥

व्यक्तेसौ शिववत्भाति शिव एव तनुक्षये ।

शिवधर्म्मोत्तरे -

प्। १०९१)

सर्वज्ञः परिपूर्णश्च शुद्धस्सर्वतः प्रभुः ।
संसार सागरान्मुक्तश्शिवतुल्यः प्रजायते ॥

तत्रैव ।

प्रलयान्ते तनुन्त्यक्त्वा स्वात्मन्येवावतिष्ठते ।

सर्वज्ञानोत्तरे -

धर्म्माधर्म्म फलन्नास्ति लोकाचारं विशेषतः ।
नियमोपि न तस्यास्ति नोपवास व्रतानि च ॥

सङ्कल्पं च विकल्पं च ये चान्ये कुलधर्म्मकाः ।
यदा भेदन्न विद्यन्ते बालकोन्मत्तकादिभिः ॥

एतैर्न्नास्ति परामुक्तिश्चिद्रूपं व्यापकं विना ।

मतङ्गे -

लीलयैव स मुक्तात्मा विचरन् केन वार्यते ।

सर्वज्ञानोत्तरे -

दिग्देश जातिसम्बन्धान्वर्णाश्रम समन्वितान् ।
गच्छंस्तिष्ठन् स्वपन् जाग्रन् भुञ्जानन्मैथुनन्नपि ॥

सर्वदा सर्वकार्येषु वातशीतातपेषु च ।
भय दारिद्र्यरोगेषु मान्द्य विज्वरकादिषु ॥

भावानेतान्परित्यज्य चाभावं भावयेत् बुधः ।

निश्वासे -

प्। १०९२)

यथा वायुस्सुशीघ्रोपि मुक्त्वाकाशन्न गच्छति ।
ज्ञेय निक्षिप्त चित्तस्तु विषयस्थो न मुञ्चति ॥

सर्वज्ञानोत्तरे -

योमां सर्वगतं पश्येत् सर्वं च मयि संस्थितम् ।
तस्याहन्नित्यमात्मस्थस्स च नित्यं मयि स्थितः ॥

सद्गुरोरुपदेशेन स्वप्रकाशेन निश्चयः ।

चिन्त्यविश्वे -

जाग्रादि पञ्चावस्थायामतीते ज्ञानरूपकम् ।
सत्गुरोरुपदेशेन विज्ञानेन न संशयः ॥

एवं ज्ञात्वा विशेषेण समाधिं कारयेत् बुधः ।
चित्तं बुद्धिस्थितं कृत्वा शिवलक्षणमेव हि ॥

आनन्दं शिवभोगन्तु शिवयोगं सदाभ्यसेत् ।

सर्वज्ञानोत्तरे -

यस्य जाग्रदवस्थायान्नियमान्सकलेन्द्रियान् ।
तुर्यावस्था गुणोपेतः क्षारभावन्न गच्छति ॥

शब्दादि विषयान्भोगी तद्वत् ज्ञानी न लिप्यते ।
चित्तं शोधययत्नेन किमन्यैर्द्देहशोधनैः ॥

सुप्रभेदे -

समस्तसुखदुःखाभ्यान्तत्प्रिया प्रिययोस्समम् ।

प्। १०९३)

शरीरात्प्राग्वस्तुतोपि भुज्यते स्वयमेव तु ।
सार्धद्विशतिकायामानन्द लक्षणमुक्तम् ॥

रूपञ्च वर्णरूपञ्च आनन्दं त्रिविधं स्मृतम् ।
रूपं बहुविध ध्यानं वर्णरूपं च कल्पनम् ॥

रूपारूपन्न चा * * म् कल्पनारहितं मतम् ।
शाश्वतन्तुर्यरहितम् आनन्दं परमं पदम् ॥

एतस्यैव तु सम्प्राप्तौ मुक्तिरेव न संशयः ।
गुरुवक्त्रेण सत्सिद्धिरानन्दन्तु न संशयः ॥

एवं ज्ञात्वा विशेषेण समाधिं कारयेत् बुधः ।

सुप्रभेदे -

त्यक्त्वैतानि * * * न शुद्धस्फटिकमावहेत् ॥

रौरवे -

भिन्ने देहे शिवो भूत्वा शिवधर्म्मे समन्वितः ।
शिवधर्म्ममनुप्राप्य हविर्भागाय कल्पते ॥

यथा समुद्रमासाद्य नदी * * * * * * ।
एवं * * * देहस्तु शिवत्वं समुपागतः ॥

प्। १०९४)

सरित् समुद्रसंयोगाद्विभाग * * * * * ते ।

निश्वासे दृष्टान्तमाह ।

काष्ठमध्य स्थितो यद्वन्मथितो निर्म्मलोमलः ।
स शान्ति समयं * * * * * * * * * * ॥

सम्यक् ज्ञानं विदित्वा तु पशुत्वन्न भवेत्पुनः ॥

निश्वासे -

सर्वज्ञादि गुणादेव गीयन्ते सर्वतश्शिवे ।

सिद्धान्त रहस्ये -

स्वान्य प्रकाश चित्ज्ञप्तिस्सच्चिदानन्दलक्षणः ।
शिवस्य ये गुणास्तेषां समस्तास्सन्ति ते गुणाः ॥

परमेशार्ककिरण प्रकाशीकृत चक्षुषः ।
न जानात्यक्षिवान् शम्भुर्जानाति शिवचक्षुषा ॥

क्षीरे क्षीरमिवाभिन्नं विभिन्नं दृष्टि दृष्टवत् ।
शिवात्मनोस्सामरस्यं व्यज्यते गुणसाम्यतः ॥

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधि गच्छति ।
तदा तु सर्वदुःखानां हानिरस्योपजायते ॥

सर्वज्ञानोत्तरे -

प्। १०९५)

यावन्नोत्पद्यते ज्ञानं तावद्भ्रमति कर्म्मणा ।
अज्ञानावृतदेहस्तु दुःखशोकपरिप्लुतः ॥

अष्टमसूत्रं सम्पूर्णम् ॥

नवमसूत्रम् ॥

शिवज्ञानबोधे ।

चिदृशात्मनि दृष्ट्वैशन्त्यक्त्वा वृत्तिमरीचिकाम् ।
लब्ध्वा शिवपदच्छायान्ध्यायेत् पञ्चाक्षरीं सुधीः ॥

स्वायम्भुवे -

पाशज्ञानन्न मुक्ति स्यात् पशुज्ञानन्तथैव च ।
सर्वतश्च यतोमुक्तिः पशुज्ञानेन गम्यते ॥

जगतस्तत्व सम्बोधादज्ञानं विनिवर्त्तते ।
मोक्षं पञ्चाक्षरं विद्यादभिवृद्धि षडक्षरम् ॥

शास्त्रजालानि नादान्तं पाशज्ञानं वरानने ।
पशुज्ञानमिति प्रोक्तमुपदेश क्रमाद्यतः ॥

तथा निश्वासे -

वेदं साङ्ख्यं बौद्धमार्हमपरं परमन्तथा ।
यानि कानि च शास्त्राणि सर्वे बिन्दोर्विनिःसृताः ॥

प्। १०९६)

अन्तर्गताण्ड जातस्यात् मुक्तश्चेत् करणक्षयात् ।
यथा ततो विचारेण ज्ञानातीतो हि विद्यते ॥

मलक्षयतया प्रोक्तन्तदा सायुज्यमुच्यते ।

कारणे -

सर्वतश्चात्मना वेदं ज्ञानेनैव हि गम्यते ।

तत्रैव मन्त्रोद्धारे -

वाच्यवाचक रहितो वाङ्मनोतीतगोचरः ।
सर्वज्ञादि गुणोपेतस्सर्वतत्वलयः प्रभुः ॥

आकाशमिव तत्त्वानि सर्वव्यापी निरञ्जनः ।
आकाश भावनन्त्यक्त्वा शिवभावेन भावयेत् ॥

वायव्य संहितायाम् -

स पश्यति शरीरन्त तच्छरीरन्न पश्यति ।
तौ पश्यस्ति परः कश्चित्तावुभौ तन्न पश्यति ॥

कालोत्तरे -

शिवोपकारतां पश्येत्तदा पश्येत निर्गतम् ।

शिवधर्म्मोत्तरे -

अणिमादि गुणैश्वर्यं सर्वज्ञत्वं च योगिनः ।
तृणवद्यस्त्यजेत् सर्वानीशस्तस्य प्रसीदति ॥

प्। १०९७)

ततः प्रसन्ने देवेशे बुद्धिस्सत्वात्प्रवर्त्तते ।
अणिमादिगुणैर्युक्तस्सन्तिष्ठेच्छिववत्प्रभुः ॥

सर्वज्ञानोत्तरे -

अणिमादिगुणावाप्तिर्ज्जायतां वा न जायताम् ।
तथापि मुच्यते देही पतिं विज्ञाय निर्म्मलम् ॥

सर्वोपाधिविनिर्म्मुक्तचिद्रूपं यन्निरन्तरम् ।
तच्छिवोहमिति ज्ञात्वा सर्वावस्थां विवर्ज्जयेत् ॥

तथा वातुले -

तिलानान्तु यथा तैलं पुष्पाद्गन्धस्समाश्रितः ।
पुरुषस्य शरीरेस्मिन् स बाह्याभ्यन्तरे स्थितः ॥

सर्वज्ञानोत्तरे -

यश्शिवस्सोहमेवेति अद्वैतं भावयेत्सदा ।
सर्वपाप विनिम्मुक्तिर्गुरुध्यानादघक्षयः ॥

शिवानन्द परध्यानात् स याति परमां गतिम् ।
तत्वमस्मीति वेदान्ते तताख्यातमिति क्रमम् ॥

सिद्धान्त सम्बोधिकायाम् -

शिव भावेन संयोज्य शिवोहं स्मृति निर्णयः ।
शिवोहमिति सिद्धान्तं वेदान्ते सोहमस्मि तु ॥

प्। १०९८)

चिन्त्ये -

तिरोधं मलमित्युक्तमात्मा शक्ति शिवात्मकम् ।
पञ्चाक्षरमिदं देवि रहस्यन्न प्रकाशकम् ॥

अङ्गुष्ठादि कनिष्ठान्त तलयोश्चाङ्गषट्ककम् ।
विन्यस्य मूलमन्त्रेण व्यापकं च समाचरेत् ॥

रौरवे -

मन्त्रशुद्धौ वर्त्तते ।

अन्यूनाधिक वर्णन्तु सर्वमन्त्रान् समुच्चरेत् ।
ऊनवर्णेन मृत्युस्यादधिके शोकरोगकृत् ॥

स्वरहीने विपत्ति स्यात्तान्मन्त्रेण विशोधयेत् ।

करणे -

हृदये यजनं प्रोक्तं नाभौ होमं प्रकल्पयेत् ।
तथेशन्तु भ्रुवोर्म्मध्ये ध्यायेत्सर्वगतं प्रभुम् ॥

सुप्रभेदे -

कुण्डव्याख्या महानाडी नाभ्यधस्तात्प्रकीर्तिता ।
अष्टवर्त्तुलमेवन्तु कुण्डली सुप्तनागवत् ॥

नाभेरूर्ध्वं भवेत्पद्मं तटाकान्ताब्जवत्स्मृतम् ।
तस्य मध्ये स्थितो देवस्सूर्यकोटि समप्रभः ॥

चिन्त्ये -

अर्कस्य सन्निधौ तत्र राहुदर्शनवत् भवेत् ।

प्। १०९९)

पञ्चाक्षरं विजानीयाद्दर्शनं शिवमात्मनि ।

कामिके -

यद्वा विस्तरतः कुर्यान्मानसं यागमादरात् ।
शिवाद्यवनि पर्यन्त तत्वव्रातात्मकं स्वकम् ॥

सुप्रभेदे -

पार्थिवाण्डमयं कर्द्दमाप्यान्तन्नालमेव च ।
प्रधान तत्वपर्यन्तन्नाल कङ्कणकान्वितम् ॥

निश्वासे -

कदलीपुष्प सङ्काशं हृदयं सर्वदेहिनाम् ।
अष्टाङ्गुल प्रमाणन्तु नाभेरूर्ध्वं व्यवस्थितम् ॥

पद्मनालन्नवद्वारं समन्तात्कण्टकान्वितम् ।
तस्य मध्ये स्थितं पद्ममष्टपत्रं सकर्णिकम् ॥

वितस्ति मात्रं हृदयं कमलं चतुरङ्गुलम् ।

कालोत्तरे -

पञ्चाशत्परमं बीजञ्जगद्योनिं परापरम् ।
अङ्गुष्ठ पर्वतुल्यन्तु कर्णिकाकेसरैर्युतम् ॥

भीमसंहितायाम् -

आद्यन्तेषु दलेष्षष्टौ ॐ शिवाय नमोनमः ।
इन्द्रादीशानपर्यन्तन्न्यसेदष्टाक्षरं क्रमात् ॥

प्। ११००)

निश्वासे तत्रैव ।

कर्णिकायां स्थितो विष्णुर्ग्रन्थिर्म्माया प्रकीर्तिता ।
कर्णिकायां भवेत्सूर्यस्तस्य मध्ये तु चन्द्रमाः ॥

तस्य मध्ये भवेद्वह्निर्वह्निमध्ये महेश्वरः ।

किरणे -

मन्त्रात्मिका कला तस्य ते च मन्त्राश्शिवात्मकाः ।
तैः प्रकल्प्य शरीरन्तु शुद्धान्ध्वाध्यासितं महत् ॥

निश्वासे -

सदाशिवो महेशस्य तस्यापि परतश्शिवः ।

तत्रैव ।

सदाशिवं महात्मानन्तस्य चोर्ध्वं परात्परम् ॥

शीतांशुनिर्म्मलं दिव्यम्मग्राह्यं परमं शिवम् ।

शिवधर्म्मोत्तरे -

ज्ञानयोग प्रधानत्वादन्तरङ्गो विमुक्तिदः ।
ज्ञाने नैव तदज्ञानन्निर्वर्तेत न कर्म्मभिः ॥

सुप्रभेदे -

अन्तर्यागसमायुक्त आत्माशुद्धः प्रकीर्तितः ।

वातुले -

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रिय निग्रहः ।
क्षान्तिः पुष्पन्दया पुष्पं ज्ञानपुष्पमतः परम् ॥

प्। ११०१)

तपस्सत्यं च भावश्च पुष्पमष्टविधं स्मृतम् ।
एतान्यत्राष्ट पुष्पाणि बुद्धिधर्म्मस्वरूपतः ॥

मोहशूरोत्तरे -

अग्निः प्राणो मनःपात्रं गुरुधूपशिखाकुलः ।

इत्यादि पूजास्तवे उक्तः । तथा हि -

लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुन-
र्वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः ।
प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः
प्रत्याहारमयेन सोमहविषा सौषुम्न जापेन च ॥

तच्चित्तो बहुधारणाभिरमल ध्यानोद्भवैर्भूषणै-
स्तत्साम्याणु निवेदनेन यजते धन्यस्स एवामतः ।

सुप्रभेदे -

आसनादीनि सर्वाणि तथैवा वरणानि च ।
हृत्पद्मो कल्पयेद्विद्वान्यथोक्तन्तु यथा क्रमम् ॥

गन्धाद्यैरूपचारैस्तु मनसाकल्प्य पूजयेत् ।

षट्सहस्रिकायाम् -

मनसास्यार्चनं प्रोक्तं ब्रह्मादीनामगोचरम् ।
अकृत्रिम प्रधानन्तु तेनार्न्त्यागमाचरेत् ॥

शिवधर्म्मोत्तरे -

प्। ११०२)

मर्त्यमाणो यथा नित्यन्दर्पणो निर्म्मलो भवेत् ।
ज्ञानाभ्यासात्तथा पुंसां बुद्धिर्भवति निर्म्मला ॥

देविकालोत्तरे -

स्वयं पतित पुष्पैश्च कर्तव्यं यदि पूजनम् ।

शिवतन्त्ररहस्य सारे -

भावस्थिरतरो न स्याद्यदा बाह्ये शिवार्चनम् ।
यथा ध्यानानुरूपन्त ध्यान * * * * * * * ॥

वासना परिपक्वं च स्वयं कुर्याच्च वारुणम् ।
धर्म्माधर्म्मात्मिका बुद्धिः कर्म्मणां वासनावशात् ॥

शिवलिङ्गार्चनादेव नाशनाय न संशयः ।

सर्प्पि क्षीरे यथा व्याप्तन्तिले * * * * * * ।

तथाग्नि पुराणे -

तिलक्षीर प्रसूनेषु तैलाज्यामोदवत्प्रभुः ।
फले रसोग्निवत् * * * * * * * * * * ॥

प्। ११०५)

शिवज्ञानबोध सङ्ग्रहे -

मलन्नेदमिति ज्ञात्वा शिवस्य परमात्मनः ।
यश्शक्तिरिति जानाति ततश्शुद्ध्यभिधीयते ॥

सर्वज्ञानोत्तरे -

आत्मन्येव स्थितश्शान्त आत्मतृप्तस्तु निश्चलः ।
नागतोहं गतोवापि नागमिष्ये न गच्छता ॥

न भूतो न भविष्यामि प्रकृत्ये स्थिर धर्म्मिणि ।
प्राकृतानि तु कर्म्माणि प्रकृतेः कर्म्मसम्भवः ॥

नाहं किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
नैव प्रकृति वन्धोस्ति मुक्त इत्यभिधीयते ॥

भर्तृहरिः -

मीन स्नानपरः फणीपवन भुङ्मेषस्तु पर्णाशनो
नीराशी खलु चातकः प्रतिदिनं शेते बिले मूषिकः ।
भस्मोद्धूलन तत्परः खलुखरो ध्यानानुरक्तो बको
निन्दैषामभवत् फलं किमधुना ज्ञान प्रधानन्तपः ॥

न तत्र वेदशास्त्राणि यज्ञाश्च बहुदक्षिणाः ।
आत्मवित् ज्ञानमाश्रित्य विमलं सर्वतोमुखम् ॥

परसंवित्स्वरूपायाश्शक्तेरसति बन्धने ।
परमात्रं प्रकाशेत मुक्ताणूनामनादरम् ॥

प्। ११०४)

कालोत्तरे -

स्वकृतान्युपतिष्ठन्ति दुःखानि च सुखानि च ।
हेतु भूतो यतस्तेषां सोहङ्कारेण बाध्यते ॥

किरणे -

हेतुर्ल्लक्षणमित्युक्तं मुक्तिलक्षणमुच्यते ।
मार्ज्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे ॥

न तादृङ्ममताशून्ये कलपिङ्गेथमूषिके ।

शिवधर्म्मोत्तरे -

यथा वह्निर्म्महा दीप्तश्शुष्कमात्रन्तु निर्द्दहेत् ।
तथाशुभां शुभं कर्म्म ज्ञानाग्निर्द्दहति क्षणात् ॥

मतङ्गे -

यो भिलाषात्मको भावो ममत्वेनात्मवर्त्तिना ।
सोङ्कुरोणोरविद्याख्य संसारोत्पत्तिकारणम् ॥

शिवधर्म्मोत्तरे -

तस्मात्स पण्डितश्शक्तस्तपस्वी विजितेन्द्रियः ।
यश्शिवज्ञान सद्भावमालोचयितुमुद्यतः ॥

क्रीडन्न लिप्यते नीतस्तद्वदिन्द्रिय पन्नगैः ।
पद्मपत्रं यथा तोयैस्तत्स्थैरपि न लिप्यते ॥

तत्वादि विषयान् भोगी तत्त्वज्ञानी न लिप्यते ।

प्। ११०५)

शिवज्ञानबोध सङ्ग्रहे -

मलन्नेदमिति ज्ञात्वाअ शिवस्य परमात्मनः ।
यश्शक्तिरिति जानाति ततश्शुद्ध्यभिधीयते ॥

सर्वज्ञानोत्तरे -

आत्मन्येव स्थितश्शान्त आत्मतृप्तस्तु निश्चलः ।
नागतोहं गतोवापि नागमिष्ये न गच्छता ॥

न भूतो न भविष्यामि प्रकृत्ये स्थिरधर्म्मिणि ।
प्राकृतानि तु कर्म्माणि प्रकृतेः कर्म्मसम्भवः ॥

नाहं किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
नैव प्रकृति वन्धोस्ति मुक्त इत्यभिधीयते ॥

भर्तृहरिः -

मीनस्नानपरः फणीपवन भुङ्मेषस्तु पर्णाशनो
नीराशीखलु चातकः प्रतिदीनं शेते बिले मूषिकः ।
भस्मोद्धूलनतत्परः खलुखरो ध्यानानुरक्तो बको
निन्दैषामभवत् फलं कीमधुना ज्ञान प्रधानन्तपः ॥

न तत्र वेदशास्त्राणि यज्ञाश्च बहुदक्षिणाः ।
आत्मवित् ज्ञानमाश्रित्य विमलं सर्वतोमुखम् ॥

परसंवित् स्वरूपायाश्शक्तेरसति बन्धने ।
परमात्रं प्रकाशेत मुक्ताणूनामनादरम् ॥

प्। ११०७)

मलमायाद्यसंस्पृष्टौ भवति स्वानुभूतिमान् ।

सुप्रभेदे -

मलमुक्तस्तथात्मानं शुद्ध इत्युच्यते बुधैः ।
ईश्वर स्मृति ना काले मलेध्वंसति निर्म्मलः ॥

अतोहमीश्वरं स्मृत्वा पश्चात्तन्मयतां गतः ।

सर्वज्ञानोत्तरे -

अविज्ञातः पशुस्सोहि सृष्टिधर्म्म समाश्रितः ।
विज्ञातश्शाश्वतस्सिद्धस्सशिवो नात्र संशयः ॥

योगजे -

गुह्यात्गुह्यतमं गुह्यं स्वानुभूत्यनुगम्यते ।

तथा सूतसंहितायाम् -

एवञ्जीवात्मकं रूपं शिवं पश्यति चेद्दृढम् ।
स्वात्मन्येव रतिक्रीडां शुद्धात्मा कुरुते सदा ॥

यत्र सुप्तो जनोनित्यं प्रबुद्धस्तत्र सङ्गमी ।
प्रबुद्धा यत्र ते विद्वन् सुषुप्तस्तत्र केशवान् ॥

शिवधर्म्मोत्तरे -

ज्ञानं विकल्पबहुलं रागाद्यैः कलुषीकृतम् ।
शिवप्रकाशकं ज्ञानं योगस्तत्रैकचित्तता ॥

प्। ११०८)

सर्वज्ञानोत्तरे -

परापर विभागेन स्थूलसूक्ष्म विभागतः ।
परः परमनिर्वाणः परसृष्टिविवर्जितः ॥

स्थूलं शब्दमयः प्रोक्तस्सूक्ष्मो ध्यानैक संश्रयः ।
इत्येवमात्मनो ज्ञानं कथितन्तु समासतः ॥

अथवा बहुनोक्तेन किमेतेन षडानन ।
वाग्विकल्प विशेषेण मनस्सम्मोह कारणा ॥

सर्वधर्म्मात्मनस्सारमेव ते परिकल्पयेत् ।

योगजे -

वाच्यवाचक रहितो वाङ्मनोतीत गोचरः ।
शिवश्शुद्ध इति प्रोक्तो रूपी अव्यय ईश्वरः ॥

चिन्त्ये -

ज्ञातृज्ञेयं तथात्मान विहीनन्तत्परं पदम् ।

सुप्रभेदे -

ज्ञानं प्रवर्तते वत्स भ्रान्ति निर्णाशनाय च ।
अध्वश्रेणि विनाशाय शिव व्यक्तिकराय च ॥

अन्धकारवदज्ञानं ज्ञानन्दीपवदुच्यते ।
ज्ञेयं भास्करवत्प्रोक्तं तस्मात्ज्ञानं विशिष्यते ॥

मृगेन्द्रे -

प्। ११०९)

नाध्यक्षन्नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् ।
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥

चिन्त्ये -

कर्म्मक्षयान्न युज्यन्ते देहिनां देह सम्भवात् ।
देहं विना पृथक्कर्म युज्यते न कदाचन ॥

नित्यं द्वन्द्व समायुक्ता वेतौ चान्योन्यतः पुरा ।
तथापि कर्म्मनाशश्च गात्रेण कुरुते पुनः ॥

तत्रैव ।

देहिनां पुण्य पापाभ्यां देहमारभ्यते पुरा ।
यथा जीर्णानि वस्त्राणि त्यक्त्वा वस्त्रन्नवं वसेत् ॥

तथा देहं परित्यक्त्वा देहान्तरमवाप्नुयात् ।
एवं भवाब्धौ मज्जन्तं पुण्यपापसमाहितम् ॥

ज्ञानबोधं समारभ्य तारयन्त्याशुजन्तपः ।

चिन्त्य विश्वे -

तत्रात्मनां मलञ्चैव बन्धधर्म्मत्व कारणम् ।
मलानां वासनानां च नाशो मोक्षो न संशयः ॥

सुप्रभेदे -

स्वभावज्ञानतो मुक्तस्स जीवन्मुक्त एव हि ।
यश्शिवं मुक्त इत्युक्तो देहान्ते मुक्त उच्यते ॥

किरणे -

प्। १११०)

विषसम्बन्धिनी शक्तिर्यथा मन्त्रैर्निरुध्यते ।
तथा न तद्विषं क्षीणमेवं पुंसो मलक्षयः ॥

फलं कतक वृक्षस्य क्षिप्तं सत् कलुषे जले ।
कुरुते शक्तिसंरोधं किं क्षिपत्यन्यतो जलात् ॥

शिवज्ञानन्तथा तस्य शक्तिसंरोधकारकम् ।

किरणे -

ततो मलक्षयेनापि पुरुषस्यक्षयं भवेत् ।

उत्तरम् ।

सहजा कालिमाताम्रे तत्क्षयन्नव तत्क्षयः ॥

तथा ताम्रस्य तद्वत् स्यात् एवं पुंसो मलक्षयः ।

सुप्रभेदे -

मलैर्मुक्तस्तथात्मानं शुद्ध इत्युच्यते ध्रुवम् ।

रौरवे -

यथा सूर्योदयं प्राप्य तमः क्षिप्रं विनश्यति ॥

किरणे -

तुषकम्ब्वङ्कुरञ्चैव पुरुषस्य मलक्षयः ।
नित्यानादिराख्यातस्तत्कथं स्यान्महेश्वर ॥

उत्तरम् ।

शुद्धाक्षतम्य नैवास्ति शुद्धात्मस्य तथैव च ।
शुद्धात्मान्न स्थितो तेषान्नास्ति नाशः कदाचन ॥

तस्मिन्पुनरपि ।

प्। ११११)

चराचरादि जन्तूनां शिवैव प्राण उच्यते ।
प्रसरन्तं विना नास्ति अक्षराणामकारवत् ॥

शिवधर्म्मोत्तरे -

सर्वत्रावस्थितं शान्तन्न प्रपश्यति शङ्करम् ।
ज्ञानचक्षुर्विहीनत्वादन्धस्सूर्यमिवोदितम् ॥

मतङ्गे -

अथार्क रश्मिसम्पर्शाद्यथा ज्ञानक्रियात्मिका ।

निश्वासे -

सर्वज्ञानोत्तरे -

ताम्रस्यैव तु हेमत्वमन्तर्ल्लीनं यथा भवेत् ।
अन्तर्लीनं तथा ज्ञेयं शिवत्वं पुत्गलस्य तु ॥

रसविद्धं यथा ताम्रं हेमत्वं प्रतिपद्यते ।
तथा विज्ञान सम्बन्धाच्छिवत्वं प्रतिपद्यते ॥

रसेन्द्रेणैव लोहानां कालिमा स्पर्शवेधिना ।
हारिता चाग्नि संयोगाद्धेमत्वं प्रतिपद्यते ॥

हारितं परमेशेन पशूनां पाशकालिमा ।
स्वकारण गुणावेशा हेमत्वं प्रतिपद्यते ॥

लभन्ते योगिनस्सर्वे विज्ञानात्तुल्यतान्तथा ।

प्। १११२)

मृगेन्द्रे -

येपि तत्पदमापन्नाशैव साधनयोगतः ।
ते तत्स्थित्य महाह्लादं प्राप्य यान्ति परं पदम् ॥

न च सृष्ट्यादि कुर्वन्ति स्वार्थ निष्ठाहिते यतः ।

तथा सर्वमतोपन्यासे -

अवर्जनीय संसिद्धिं मुक्तानां कृत्यपञ्चकम् ।
कृपया तु शिवस्येव स्वार्थ निष्ठा हि ते यतः ॥

न ते विश्वस्य कर्तारः कर्तारश्शिव एव हि ।

सर्वज्ञानोत्तरे -

शिवज्ञानामृतं पीत्वा विचरन्स्वयमेव हि ।
शिववच्छाश्वतश्शुद्धस्सृष्टिधर्म विवर्जितः ॥

शिवधर्म्मोत्तरे -

प्रलयान्ते तनुन्त्यक्त्वा स्वात्मन्येवावतिष्ठते ।

द्वयोश्च चित्स्वरूपोपि ज्ञात्वा बुध्या विभिन्नया ।
तस्मादेकोपपूज्योपि न ह्येतीय कथ्यते ॥

मृगेन्द्रे -

दृक्क्रियात्मकमैश्वर्यं यस्य तद्दातृपूर्वकम् ।
ईश्वरस्तत्र मन्तव्यश्शक्तिद्वययुतः प्रभुः ॥

प्। १११३)

किरणे -

तदात्म शिवयोस्सन्धिरयस्कान्तेव युज्यते ।

वातुले -

पुरुषञ्च शिवञ्चैव लीयते सायसाग्निवत् ।
यथा ताम्रं रसं विध्येद्दोषमुक्तं पुरातनम् ॥

तथात्मानं शिवेलीनं जलेन लवणेनवत् ।
अविशेषं भवेत् तद्वदात्मानु परमात्मनि ॥

एवं शिवामृतं प्रोक्तम्मप्रकाश्यमिदं गुह ।

इत्येकादशसूत्रम् सम्पूर्णम् ॥

द्वादशसूत्रम् ॥

शिवज्ञानबोधे -

मुक्तिं प्राप्य ततस्तेषां भजेद्वेषं शिवालयम् ।

तथा मतङ्गे -

शासनस्यापि ये भक्तास्तेपि दुःखविवर्जिताः ।
अपसरोभिर्वृता नित्यं क्रीडन्त्युत्कृष्टचेतसः ॥

लिङ्गं महेश्वरं भक्त्या नमस्कारादिनाथवा ।
पूजयन्ति नराश्शूरास्तेपि सिद्धा गणेश्वराः ॥

रमन्ति विविधैर्भोगैः प्राप्य स्थानमुमापतेः ।

प्। १११४)

आलये शिवलिङ्गस्य भक्त्या निर्वर्तते शुभे ।
श्रीकण्ठपदमारुह्य सुखमत्यद्भुतं लभेत् ॥

एवं भक्तिविभागेन लिङ्गे वा पितरस्तथा ।
उपासन्ति महादेवन्तेपि सिद्धा नरोत्तमाः ॥

मतङ्गे -

शिववच्छिवभक्तास्तु द्रष्टव्याश्शिवकाङ्क्षिभिः ।
संस्कृताश्च शिवैर्मन्त्रैर्गुरुणा शिवमूर्तिना ॥

सर्वे समानधर्म्माणस्तथाप्येषोच्यते विधिः ।
गुरोरप्यग्रतस्तेषां ज्येष्ठानामेव मासनम् ॥

यथानुक्रम शुश्रूषावन्दनादीनि चक्रतुः ।
कार्याण्यन्योन्य सम्म्हृ?ष्टैर्गमाचक्षुर्विषये गुरोः ॥

चिन्त्य विश्वे -

जन्मान्तर तपोभिश्च सन्मार्गज्ञानसम्भवः ।

मतङ्गे -

पुर्यष्टक समायोगात् पुंसां कर्मानुसारः ।

कामिके -

शिवं वै शाश्वतन्नित्यं ज्ञानानन्दमयात्मकम् ।
व्यापकं सर्वतत्वानामप्रमेयमनुपमम् ॥

वाच्यवाचकरहितं वाङ्मनोतीतगोचरम् ।

प्। १११५)

व्यक्तिं कुर्याद्विशेषेण शिवकलसकलात्मनि ॥

शिवपुराणे -

ब्रह्मयत्सच्चिदानन्दं परिपूर्णं च सर्वदा ।
सर्वत्र दृश्यते नैव करणा गोचरत्वतः ॥

कालोत्तरे -

प्राकृतं भावमुत्सृज्य शिवोहमिति भावयेत् ।

निश्वासे -

शिवोदेशिकदेशस्थः प्राण्यनुग्रहकारकः ।
ददाति विविधां सिद्धिं मोक्षं च नयते पशुम् ॥

स्वदेहान्निर्विशेषेण शिवभक्तांश्च पालयेत् ।

अंशुमति -

देहं प्रासादमित्युक्तं देही लिङ्गमिति स्मृतम् ।
उभयोरन्तरन्नास्ति तस्मादित्थं प्रभावयेत् ॥

अथवान्य प्रकारेण स्थूललिङ्गे सदाशिवम् ।
अन्तर्ल्लिङ्गे शिवं ज्ञेयं भावयेद्देशिकोत्तमः ॥

व्याप्यव्यापक भावेन लिङ्गमेवं विमानकम् ।
मूलादिस्थूपि पर्यन्तं शिवरूपमिति स्मृतम् ॥

मलमायादि सर्वेषु गतेषु पर ईश्वरः ।
सर्वाङ्गेषु तेषु भगवान्नहि देहेषु पूज्यते ॥

प्। १११६)

लिङ्गेथवा न्यत्रशुभे सम्पूज्यो भगवाञ्च्छिवः ।
आवाहनमनुध्यानं मनेभुक्ति निरोधनम् ॥

शिवेन सह संयोगं चिन्तयेन्मनसाधिया ।

तथा पराख्ये -

पूज्यते परतश्शान्तस्सिद्धिमुक्ति फलार्थिभिः ।
स एव मन्त्रदेहस्थः पूज्यतेसौ परश्शिवः ॥

गवां सर्वाङ्गतः क्षीरं स्रवते न मुखाद्ययौ ।
एवं लिङ्गमयं रूपं सर्वकामेषु रोहति ॥

ज्ञानयोगम् ।

किरणे -

ये यथा संस्थितास्तार्क्ष्य तथैवेश प्रसादकृत् ।
केचिच्चात्र क्रियायोग्यास्तेषां मुक्तिस्तथैव हि ॥

ज्ञानयोग्यास्तथैवान्ये चर्यायोग्यास्तथापरे ।
एवमेषां च यद्युक्तं मोक्षन्ते नैअ योजयेत् ॥

मतङ्गे -

सदाशिवे पदे योगाच्चर्यातो वाथ दीक्षया ।
प्राप्यते चित्तभेदेन मोक्षो वाथ चतुष्टयात् ॥

तथा वायव्ये -

ज्ञानं क्रिया च चर्या च योगञ्चेति सुरेश्वरि ।
चतुष्पादास्समाख्याता धर्म्माधर्म्मास्सनातनाः ॥

प्। १११७)

पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ।
षडध्वशुद्धिविधिना गुर्वधीना क्रियोच्यते ॥

वर्णाश्रम प्रयुक्तस्य मयैव विहितस्य च ।
मदर्च्चनादि धर्म्मस्य चर्याचर्येति कथ्यते ॥

मद्युक्ते नैव मार्गेण मय्यवस्था प्रचेतसः ।
प्रत्यन्तरे तिरोधेन स योग इति गीयते ॥

स्कन्दकालोत्तरे -

ईश्वरः ॥

लभ्यते शास्वतं ज्ञानं तत्प्रसादेन षण्मुखम् ।
यमन्नियममासीनं प्राणायामन्ततः परम् ॥

प्रत्याहारो धारणा च समाधिध्यानतः परम् ।
गुरुप्रसादाल्लभते दिव्ययोगं षडानन ॥

आकाशगमनं चैव परकाय प्रवेशनम् ।
मनोजयत्वं हि जना तत्प्रसादेन लभ्यते ॥

अणिमा लघिमा चैव महिमा गरिमा तथा ।
प्राप्तिः प्राकाम्यमीशत्वं वशित्वं चाष्ट सिद्धयः ॥

गुरुप्रसादाल्लभते मुक्तो मृत्युजरादिभिः ।

विश्वसारे -

गुरु रूपं परं ब्रह्म गुरुरूपं परं शिवम् ।
गुरु रूपं परं ज्ञानं गुरु रूपं परात्परम् ॥

तस्मात्सर्वप्रयत्नेन गुरु रूपं सदा स्मरेत् ।

प्। १११८)

तथा ।

ईक्षणध्यान संस्पर्शैर्मत्स्य कूर्म्म विहङ्गमाः ।
पोषयन्ति स्वकान्पुत्रान् तद्वत्पण्डित वृत्तयः ॥

निश्वासे -

प्रकाशयस्वेदं ज्ञानं मद्भक्तानां वरानने ।
रक्षणीयं प्रयत्नेन तस्करेभ्यो धनं यथा ॥

देविकालोत्तरे -

ईदृशं ज्ञानसद्भावं न दद्याद्यस्य कस्यचित् ।
दीक्षयित्वा महादेवि दातव्यं सुपरीक्ष्य च ॥

नाशिष्याय प्रदातव्यन्ना पुत्राय कदाचन ।
गुरुदेवाग्नि भक्ताय मात्सर्यरहिताय च ॥

प्रदातव्यमिदं ज्ञानमितरेषान्न दापयेत् ।

द्वादशतमसूत्रं सम्पूर्णम् ॥

इति श्रीमद्व्याघ्रपुरवासनिगमज्ञान शिवयोगीशिष्यवेदज्ञान शिवाचार्य सङ्ग्रहसकलागमसारभूत शिवज्ञानसिद्धेर्दृष्टान्तस्समाप्तः ॥

॥ ॐ श्रीमदरुणाचलाय नमः ॥