सर्व-प्रस्तुतिः

श्रीः

श्री-उमापतिशिवाचार्यकृत-शतरत्नसङ्ग्रहः

वन्दे कुन्देन्दुधवल-दन्तभिन्नान्तरायकम् ।
दानधारापतद्भृङ्ग-सङ्गीतं कुञ्जराननम् ॥
श्रीमदभ्रसभामध्ये नित्यमानन्दताण्डवम् ।
कुर्वाणमुमया देव्या सेव्यमानं शिवं भजे ॥

कालादितत्त्व-परिणामधुरीणमाया-विक्षोभक-स्फुरदनन्तनियोगधुर्यः ।
शुद्धाध्वजन्मपटुबिन्दुविजृम्भकारि-पाशान् विमोचयतु नः परमेश्वरोऽयम् ॥

चिदम्बरे कॢप्तमठः शिवश्रीरुमापतिर्नाम शिवागमज्ञः ।
स्वयम्भुनिश्वासमतङ्गदेव्यामतं मृगेन्द्रं किरणं पराख्यम् ॥

श्रीदेवीकालोत्तरविश्वसारं ज्ञानोत्तरं वीक्ष्य दशापि चैकम् ।
साराणि सूत्राणि शतं गृहीत्वा चकार बन्धं शतरत्नरूपम् ॥

कर्णभूषणयोग्यानामागमज्ञानशालिनाम् ।
अमीषां शतरत्नानामुल्लेखः क्रियते मया ॥

एषां च सूत्राणां रत्नत्वं राजनाद्भुक्ति-मुक्ति-रागोत्पादकत्वात् इष्टविधानाच्च ।
यथा रत्नत्रये-

राजनात् सर्वतत्त्वेषु रागादेभ्योऽधिकारयोः ।
रत्नानीष्टविधानाच्च बिन्द्वाद्याः शिवशासने ॥
इति ॥

रत्नत्रये त्वेवमुक्तम्:-

राजनात् सर्वतत्त्वेषु रागादेव्योऽधिकारयोः ।
ईश्वराणां शिवानाञ्च धारणीयतया धिया ॥ ४ पुंसामप्रतिघोदारमरीचिनिचयेन च ।
रत्नानीष्टविधानाच्च बिन्द्वाद्याः शिवशासने ॥
-रत्नत्रयम् ॥ ५

इह जगति कलिकालावेशात् आगमार्थे लुप्ते पाषण्डमताभिवृद्धौ सत्यां गुरुशिष्यक्रमे च सङ्कीणें स्वशिष्यान् अनुग्रहीतुकामः परमकारुणिकोमापतिशिवाचार्यस्तावदखिलागमज्ञानकाण्डसारभूतं संसारपाशसन्दानितानां पशूनां पशुत्वनिवृत्ति-शिवत्वाभिव्यक्ति-हेतु- ज्ञान-दीक्षास्वरूप-विवेचक-सिद्धान्तनिर्णयं सूत्ररत्नशतं सञ्जग्राह ।
तस्य सङ्ग्रहस्य सद्यो-ज्योतिः पाद-रामकण्ठ- नारायणकण्ठाघोरशिवादिव्याख्यानुसारेण अस्मद्गुरुसम्प्रदायानुसारेण च व्याख्या क्रियते ।
सा च व्याख्या का ? पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोक्तिसमाधानं व्याख्यानं पञ्चलक्षणम् ॥
इति ।

तत्र प्रथमं ग्रन्थादावभीष्टदेवता-नमस्कारस्य वस्तु-निर्देशस्य च वक्तव्यतयाऽयं सङ्ग्रहकारस्तादर्थ्येन स्वायम्भुवसूत्रं प्रथमं गृह्णाति-

शिवं प्रणम्य परमं निधनेशमतः परम् ।
ज्ञान-दीक्षे प्रवक्ष्यामि ते शृणुध्वं समाहिताः ॥ १

अत्र शिवशब्देन सवार्थज्ञानकर्त्तृत्वलक्षणो विघ्ननिनाशहेतुरशिवापहः पशूनां च शिवप्रदः अप्रमेयत्वादिरूपः शान्त्यतीतः परमेश्वरः प्रतिपाद्यते ।
यथा तत्रैव -

अप्रमेयमनिर्देश्यमनौपम्यमनामयम् ।
सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् ॥
अप्रमेयमनन्तत्वादनिर्देश्यमलक्ष्यतः ।
अनौपम्यमसादृश्याद् विमलत्वादनामयम् ॥
सूक्ष्मं चानुपलभ्यत्वाद् व्यापकत्वाच्च सर्वगम् ।
नित्यं कारणशून्यत्वादचलत्वाच्च तद् ध्रुवम् ॥
ओङ्कारात्मतया भाति शान्त्यतीतः परः शिवः ।
इति ।

रत्नानि यथा लोके राजन्ते महार्घतया प्रकाशन्ते ।
समीपवर्त्तिनाञ्च रागमुत्पादयन्ति ।
पुरुषैश्चावयवैर्धार्यन्ते ।
दौप्तिमन्तीष्टविधायीनि च भवन्ति ।
तथा बिन्द्वादयः पदार्थाः सर्वेषु शक्त्यादिषु तत्त्वेषु उपादानतयाऽधिष्ठातृत्वेन च प्रकाशन्ते ईश्वराणामनन्तादीनां शिवानां च सदाशिवादिपदस्थानामात्मनामेभ्यो हेतुभूतेभ्यो यथास्वमधिकारयोरनुग्राह्यानुग्राहकत्वरूपयोः सदा रागो भवति ।
पुरुषाणां चैते धिया ध्येयतया धार्यन्ते ।
अप्रतिहत-विलक्षणतेजसो भुक्तिमुक्त्याख्याभौष्टप्रदायिनश्च भवन्ति ।
तस्मादेतेऽपि शिवशास्त्रे रत्नानि प्रोच्यन्त दूत्यध्याहारः ।
अप्रतिहतविलक्षणतेजस्त्वया चैषामतिशयं दर्शितम् ।
-रत्नत्रयोल्लेखिनी पृ० ३

मुक्तात्मनामप्येतल्लक्षण-लक्षितत्वात् तेषामपि नमस्कार्यत्वं स्यात्, तन्मा भूदिति तस्य विशेषणतया परमपदमुक्तम् ।
परमः अनादिसिद्ध इत्यर्थः ।
मुक्तात्मनां तु तत्प्रसादलब्ध-शिवत्वयोगितया ततो वैषम्यम् ।
तदुक्तमाचार्यैः -

मुक्तात्मानोऽपि शिवाः किन्त्वेते तत्प्रसादतो मुक्ताः ।
सोऽनादिमुक्त एको विज्ञेय———-इति ।
[तत्त्वप्रकाशः - ६]

तादृशं शिवं नमस्कृत्य ।
अतः परं शिवप्रसाद-विधूत- बन्धनमाविर्भूतसर्वार्थज्ञानक्रियं सर्वानुग्राहकं स्वगुरुं निधनेश-नामानं तन्त्रावतारकं रुद्रं च प्रणम्येति सम्बन्धः ।
तदुक्तं कामिके-

निधनेशात् स्वयम्भूतं त्रिकोट्यर्धेन सम्मितम् ।
निधनेशात् स्वयम्भूतं श्रुतवान् नलिनोद्भवः ॥
इति ।
(१।५९)

अत्र स्वयम्भूतशब्देन स्वायम्भूव आगम उच्यते ।
ज्ञानदीक्षे प्रवक्ष्यामीति ।
ज्ञानं च दीक्षा च ज्ञानदीक्षे इति द्वन्द्वसमासः ।
प्रवक्ष्यामि प्रकर्षेण वक्ष्यामीति प्रतिज्ञावचनमिदम् ।
अनया ज्ञानप्रतिज्ञया पत्यादिपदार्थानामपि तज्ज्ञेयानामर्थात् प्रतिज्ञासिद्धिः ।
द्वन्द्वनिर्देशश्च द्वयोरपि प्राधान्यज्ञापनार्थः ।
कस्यचिज् ज्ञानं प्रधानं, कस्यचिद् दीक्षेति दीक्षाव्याख्या ।
तयोः कर्तुराचार्यस्य ज्ञानं प्रधानम्, मुमुक्षोस्तु दीक्षेति ।
ज्ञानदीक्षयोः पतिपदार्थेऽन्तर्भावेण तन्त्रार्थसारतया प्रवक्ष्यामीति प्रतिज्ञा कृता ।
ततः स्वयं शिवशक्तिनिपाताच्छिवदीक्षया संस्कृतान् ज्ञानार्थिनोऽधिकारयोग्यान् बालखिल्यान् षष्टिसाहस्रसङ्ख्याकान् ऋषीन् समाधायावस्थापयति-ते शृणुध्वं समाहिता इति ।
ते प्रकृते ज्ञानदीक्षे समाहितमनसो भूत्वा शृणुध्वमित्यर्थः ।
अनेन प्रथमसूत्रसङ्ग्रहेण सङ्ग्रहकारेणऽप्यनेन देवगुरुनमस्क्रिया -प्रतिज्ञा- स्वशिष्यसावधानावस्थापनानि कृतानीति बोध्यम् ।
अध्यापकस्य बोध्यबोधकलक्षणः परादिकः पञ्चविधः सम्बन्धः ।
तत्र शिव-सदा- शिवयोः सम्बन्धः परः, सदाशिव-निधनेशयोर्महान्, निधनेश- स्वयम्भुवोर्दिव्यः, स्वयम्भु-बालखिल्यानां दिव्यादिव्यः, बालखिल्य- मनुष्याणामदिव्य इति पञ्चविधः सम्बन्धः परादिको बोद्धव्यः ।
तथोक्तम्-

परो महांस्तथा दिव्यो दिव्यादिव्यस्तथैव च ।
अदिव्यश्चेति पञ्चैते सम्बन्धाः परिकीर्तिताः ॥

अस्य सङ्ग्रहस्य तु ज्ञानादिर्विषयः ।
तज्ज्ञानं फलम् ।
ज्ञान-दीक्षयोरस्य च प्रतिपाद्य-प्रतिपादकभावः सम्बन्धः ।

दीक्षितास्त्वधिकारिण इति विषय-प्रयोजन-सम्बन्धाधिकारिणो ज्ञेयाः ॥ १ ॥

अथात्म प्रतिज्ञातयोर्ज्ञानदीक्षयोः प्रतिपाद्य-प्रतिपादकभाव-सम्बन्ध- प्रयोजन-निर्देशक-तया रौरवस्वायम्भुवस्यादिमं सूत्रं सङ्गृह्णाति -

अथाऽऽत्म-मलमायाख्य-कर्मबन्ध-विमुक्तये ।
व्यक्तये च शिवत्वस्य शिवाज् ज्ञानं प्रवर्तते ॥ २

अथ चिच्छक्तिसन्निरोध-कर्त्रधिकारक्षयाभिमुखभावादनन्तरम् ।
आत्ममलमायाख्यकर्मबन्धविमुक्तये-आत्मनामणूनां मलरूपो मायारूपः कर्मरूपो यस्त्रिविधो?बन्धस्तद्विमोचनाय ।
शिवत्वस्य व्यक्तये च शिवभावप्रकाशनाय च ।
शिवात् परमशिवात् ज्ञानं प्रवर्त्तते उत्पद्यत् इत्यर्थः ।
इदञ्च मूलसूत्रं, तन्त्रार्थ-निरूपकत्वादथ- शब्दाद्यलङ्कृतत्वाच्च ।
तथा मृगेन्द्रे-

यत्र बीजमिवारूढो महातन्त्रार्थपादपः ।
आभाति मूलसूत्रं तदथ शब्दाद्यलङ्कृतम् ॥
इति ?

अत्रात्मनो व्यापकस्य शिवत्वसन्निरोधको मलः ।
तेन प्रतिबद्धशिवत्वोऽसौ नोपायं बिना ज्ञेयं कृत्यं वा ज्ञातुं कर्त्तु वा शक्नोति ।
तस्य हि भोगोपायापेक्षस्य मायाख्यो बन्धः कलादिकः प्रतिपाद्यते ।
माया जगद्योनिः ।
तदाख्यो बन्धो यः स तथाख्यायते ।
भोगसाधनोपेतस्य भोगाभिप्रेतस्य भोग्यं कर्म धर्माधर्मसमाख्यातमिति ।
अयमात्मनो मलादिकस्त्रिविधो बन्धः ।
यतो हि अनेन युक्तस्य न सर्वत्र युगपत् शिवत्वं प्रकाशते ।
तस्यात्मनोस्मात् त्रिविधाद् बन्धाद् विमुक्तये शिवत्वव्यक्तये च शिवाद्नुजिधृक्षोर्ज्ञानं प्रवर्त्तते ।
पशुभ्यः पाशेभ्यश्च यज् ज्ञानं प्रवर्त्तते, तत् पशुरूपव्यञ्जकत्वात् पाशरूपत्वाच्च प्रत्युत पाशानां द्रढिमानं जनयति ।

? तत्त्वप्रकाशादिषु ग्रन्थेषु ऽअर्थपञ्चकं पाशऽ दूत्यादिना मल- कर्म-स्थूलसूक्ष्ममाया-पाशानुग्राहकशिवशक्तीनां पञ्चानामर्थानां बन्धत्वमभिहितम्, अत्र तु त्रैविध्यमिति कथं न विरोध इति नाशङ्कनीयम् ।
मलकर्ममायाख्यातां * *?नां जडानां स्वकार्यकरणासाम्मर्थ्यात् तदनुग्राहकतया स्वीकृतायाः परमेश्वरशक्तेः गौणपाशत्वात् स्थूलसूक्ष्मभेदभिन्नाया मायाया एकत्वविवक्षया च बन्धत्रैविध्योपपक्तेः ।

? मुद्रितभागे मृगेन्द्रे श्लोकोऽयं नोपलभ्यते ।

शिवस्तु पशुपाशविलक्षणः पाशप्रतिपक्षभूतः सकलसामर्थ्योपचितः, तस्माद्यज् ज्ञानं प्रवर्त्तते, तत् पाशानां निवृत्तये पर्याप्तं दृढं च ।
समानजातीयस्य प्रतिबद्धशक्तिकस्य समानजातीयमेवाप्रतिबद्धशक्तिकं शक्तिव्यञ्जकम् ।
शिवश्चात्मनः समानजातीयः तस्य प्रतिबद्धशिवत्वस्याप्रतिबद्धशिवत्वोऽसौ शिवत्वव्यक्तये सत् ज्ञानं प्रवर्त्तयतीति युक्तम् ।
अत्र च ज्ञानपदेन शिवशक्तिवाचकेन अवबोधरूपं दीक्षारूपं च द्विविधमपि सङ्गृहीतम् ।

ननु दीक्षायां कथं ज्ञानरूपत्वमिति चेत् ? उच्यते ।
यथा सवितुर्गभस्तिरर्थप्रकाशको दाहमपि कुर्वन् प्रकाशरूपतां न जहाति उभयरूपोऽपि प्रकाश इत्युच्यते ।
तत्रापि ज्ञानरूपतां न जहाति ।
तेनोभयरूपं ज्ञानमित्युक्तम् ।

मल-मायाख्य-कर्मबन्धयुक्तत्वम् अनुग्राह्यलक्षणम् ।
एतद् व्यस्तं समस्तं ? च विवक्षितम् ।
केषाञ्चिन्मलयुक्तानामनुग्रहः ।
केषाञ्चिन्मलकर्मयुतानाम् ।
केषाञ्चिन्मलमायाख्ययुतानाम् ।
केषाञ्चिन्मलमायाकर्मयुतानामनुग्रहः ।
कुत एतद् व्यस्तं समस्तं च विवक्षितमिति ।
यतः अकलानामपि शोध्यत्वं बोध्यत्वं च वक्ष्यति ।
ते च अकला द्विरूपा विज्ञानाकलाः प्रलयाकलाश्च ।
तेषामुभयेषामपि मायाख्यस्तावन्नास्ति ।
विज्ञानाकलाः क्षीणकर्माणः ।
तेषामपि ये निरधिकारेणानुग्रहेणानुगृहीतास्ते शिवतुल्या भवन्ति ।
ये साधिकारेणाऽनुगृहीतास्ते मायातीता विद्याविद्येश्वरा भवन्ति ।
मलमायाख्ययुक्तानामपि अनुग्रहः सम्भविष्यति ।
कुतश्चिदुपायात् क्षीणे कर्मणि मायाख्यो बन्धः स्वकारणे प्रलयं याति ।
तस्य च प्रलयाभिमुख्यकाल एव कदाचित् परमेश्वरशक्तेरनुग्रहः, प्रवृत्तिकालस्यानियतत्वात्; आत्मनोऽपि चिच्छक्तिसन्निरोधकर्त्रधिकारक्षयाभिमुख्यकालस्य नियतत्वात् तदनुग्रहो भवत्येव ।
अस्मदादीनां मायादिमण्डलस्थानां च विद्याविद्येश्वराणां च मलमायाख्यकर्मबन्धप्रहाणमनुग्रहः, यतस्तेषामपि मायादिमण्डलस्थानां विद्याविद्येश्वराणां कलादियुक्तानां भोगभुजां सतामनुग्रहः ।
इदं तर्हि शिवाज्ज्ञानं प्रवर्त्तत इति अनुग्रहोपायलक्षणमव्यापकं, इच्छामात्रेणापि केषाञ्चिदनुग्रह इष्यते ।
सा चेच्छा ज्ञाने अव्याप्तेति चेत् ? न ।
इच्छापि शिवशक्तिरेव ।
सा च दानक्षपणलक्षणत्वात् दीक्षान्तः पततीति बोधरूपत्वात्यागाच्च ज्ञानमित्यनेन व्याप्यत एवेति ।

? व्यस्तं समस्तमिति ।
तथाचीक्तं तत्त्वप्रकाशे -

पशवस्त्रिविधा ज्ञेया विज्ञानप्रलयाकलाः सकलाः ।
मलयुक्तस्तवाद्यो मलकर्मयुतो द्वितीयश्च ॥ १ । ८ मलमायाकर्मयुतः सकल॥




इति ।

नन्वेवं ज्ञानस्यैव निवृत्ति-तत्त्वाभिव्यक्तिहेतुतया क्रियादि- योगचर्याणामानर्थक्यं प्राप्तमिति चेद् ।
वाढम् ।
तथापि चर्या-क्रिया- योगानां विद्यातत्त्वादिक्रमेण शिव-सालोक्य-सामीप्य-सारूप्य- सम्पादनद्वारा शिवसायुज्यदायकज्ञानहेतुत्वेन वैयर्थाद्यभावात् ।
यथा देवी-कालोत्तरे-

ज्ञानोत्पत्तिनिमित्तं तु क्रियाचर्याः प्रकीर्त्तिताः ।
तथाच सुप्रभेदे-योगाभ्यासं ततः कृत्वा ज्ञानं तत्र तदाभ्यसेत् ।
तदाऽज्ञानान्धकारं च ज्ञानदीपेन नाशयेत् ॥

शिवज्ञानबोधसङ्ग्रहे-

अथचर्या-क्रिया-पादं योगपादं तथैव च ।
ज्ञानपादं क्रमाच्चैव शिवेन परिभाषितम् ॥
एतच्चतुर्विधं मार्गं सालोक्यादि-फलप्रदम् ।

सुप्रभेदे-

सालोक्यं चैव सामीप्यं सारूप्यं सायुज्यकं तथा ।

अत्र चर्यादि-चतुष्टयेऽपि दीक्षायाः अधिकारसम्पादकतया साम्येऽपि ज्ञानफलसायुज्यरूपोर्ध्वगतिसम्पादकतया ज्ञानेन समप्राधान्यमुक्तम् ।
तथा वक्ष्यति सङ्ग्रहकारः -

यस्मात् प्रवितताद् बन्धात् परसंस्थानिरोधकात् ।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ॥
इति ।

अत्र च दीक्षाभेदः क्रियाकरणमण्डने प्रदर्शितः -

निर्वी(र्वि)शेषकृता तूषाधिकरणाचार्यस्थितेनाऽमुना साधारा तु चतुर्विधा सह बिना बीजाधिकारक्रमात् ।
द्वेधाद्या शिवलोकधमभजनात् तत्रादिमा भौतिकी नैष्ठिक्यप्यपरा तु जातिचरिता त्यागात् कृता संस्क्रिया ॥

निर्बीजा द्विविधा नृणाममृतदा सद्यश्चिरेणापि या नित्याद्याश्रयवजनात् तु सदधिकाराधिकारोज्झिता ।
साधारेति चतुर्विधा पुनरियं ज्ञानक्रियाभ्यां द्विधा ज्ञानी ज्ञानवतां क्रिया त्वविदुषां या चक्षुषीपूर्विका ॥
इति ॥ २

अथ ज्ञानपदोपात्तदीक्षारूपाद् व्यतिरिक्तज्ञानस्य द्वैविध्यं देव्यामतसूत्रेण सङ्गृह्णाति -

ज्ञानं द्विविधमाख्यातं परं चैवापरं स्मृतम् ।
परं चैवावबोधाख्यमपरं शास्त्रमुत्तमम् ॥ ३ ॥

तत्र परापरभेदेन ज्ञानं द्विविधम् ।
परमवबोधरूपम् ।
अपरं कामिकादि-तन्त्ररूपमित्यर्थः ।
तथा सात्वतसंहितायाम् ।

ज्ञानं शिवं परं बोधमपरं तन्त्रसञ्ज्ञितम् ।
इति ।

अवबोधरूपं ज्ञानं च शिवस्य शक्तिरेव ।
सा च द्विविधा समवायवर्त्तिनी परिग्रहवर्त्तिनी चेति ।
तत्र समवायवर्त्तिन्यपि द्विविधा बोधरूपा क्रियारूपा चेति ।
तत्र बोधरूपा सर्वार्थपरिच्छेत्त्री ।
क्रियारूपापि द्विविधा ।
अनुग्रहपरूपा तिरोभावरूपा चेति ।
तथा चोक्तम् -

अनुग्रह-तिरोभावौ द्वौ धर्मौ हि सदाशिवे ।
इति ।

अत्र परावबोधरूपं ज्ञानमपरज्ञानरूपशब्दारूढमेवार्थेषु प्रवर्त्तते ।
नन्विदं ज्ञानं दीक्षायाः फलम्, अतः कथं ज्ञानदीक्षयोनुग्रहोपायतासाम्यमुक्तम् ? सत्यम् ।
किन्तु ज्ञानमाचार्यं साध्यं साधनं च ज्ञापयति ।
स च तस्माद् विदितसाध्यसाधनोऽनुग्राह्याणां साध्यसिद्धये साधनं प्रयोक्तुं शक्नोति ।
सर्वत्र च मुक्तिवादिनो मुक्तिसिद्धये ज्ञानमेव प्रतिजानीते ।
न चानुष्ठानं विन्नासौ भवितुमर्हति ।
यत्रापि च ज्ञानादेवेति, तत्रापि च साधनानुष्ठानमवश्यम्भावीति ।
तस्माद् ज्ञानदीक्षयोरुभयोरपि समानतयाऽनुग्रहोपायत्वं पूर्वसूत्रोक्तमुपपन्नम् ॥ ३ ॥

अथावबोधरूपस्य परज्ञानस्य दर्शनात्मताप्राप्तिक्रमं मृगेन्द्रसूत्रेणदर्शयति -

सृष्टिकाले महेशानः पुरुषार्थ-प्रसिद्धये ।
विधत्ते विमलं ज्ञानं पञ्चस्रोतोऽभिलक्षितम् ॥ ४ ॥

सृष्टिकाले सर्गारम्भे महेशानः परमेश्वरः पुरुषार्थप्रसिद्धये पुरुषार्थस्य परापरमुक्तिभुक्त्यात्मनः सम्प्राप्त्यर्थम् ।
विमलमिति ।
अवबोधात्मनो नादरूपत्वेन प्रथमं प्रसृतत्वाद्गृहीतोपाधिभेदम् ।
पञ्चस्रोतोभिलक्षितं पञ्च च तानि स्रोतांसि पञ्चस्रोतांसि ऊर्ध्व-पूर्व- दक्षिणोत्तर-पश्चिमाननानि अभितः समन्तात् लक्षितं प्रसृतत्वेन लक्षितम् ।
सदाशिवरूपेण कामिकादिभिन्नदर्शनात्मतां प्राप्तमिति यावत् ।
तादृशं ज्ञानं शास्त्ररूपं विधत्ते निर्मिमीते ।
निष्कलाच्छिवात् अवबोधरूपं ज्ञानमेव प्रथमं नादरूपत्वेन प्रसृतम् ।
पश्चात् सदाशिवरूपात् तन्त्राकारतां प्राप्तमित्यर्थः ।
तदुक्तं पौष्करे -

अदृष्टविभवाच्छान्ताच्छिवात् परमकारणात् ।
नादरूपं विनिष्क्रान्तं शास्त्रम् ॥



इति ॥

तत्रैव-

सदाशिवोऽपि भगवान् नादरूपतयागतम् ।
षट्पदार्थमयं ज्ञानमनेकच्छन्द एव तत् ॥

ननु निष्कलशिवस्य वागिन्द्रियादिरहितस्य कथं नादोत्पादकत्वमिति चेत् ? न ।
इन्द्रियादि-रहितस्यापि अयस्कान्तस्य लोहाकर्षणसामर्थ्यवच्छिवस्यापि तत्समर्थ्योपपत्तेः ।

तदुक्तं पराख्ये-

सन्निधानेन यस्याऽस्मिन् सर्वकार्यस्य सम्भवः ।
अक्षहीनेऽपि समर्थ्यं दृष्टन्तत्कर्षणात्मनि ॥
सामर्थ्यं तद्वदीशस्य सर्वकृत्ये निसर्गजम् ।
इति ।

पौष्करे च -

वागीन्द्रियानपेक्षस्य शक्तिः सर्वत्र निःसृता ।
अत्यन्तविमलत्वेन तया वक्ति किमद्भुतम् ।
इति ।

तथा किरणे -

निष्कलः किन्न कल्योऽसौ यद्वाकल्यः कथं जगत् ।
यथाऽत्र कुरुते शक्त्या तथा शास्त्रं न किं प्रभुः ॥
इति ।

अत्र शास्त्रशब्दनिर्वचनम् -

शुद्धात्मनां हितं शास्त्रं त्रायते यद् भवार्णवात् ।
तच्छासनपरित्राणाच्छास्त्रमित्यभिधीयते ॥

तत्र लौकिक-वैदिकाध्यात्मिकातिमार्गिक-मान्त्रिकभेदेन सदाशिवस्य प्रतिमुखं पञ्चविधभिन्नानि पञ्चविंशतिस्रोतांसि भवन्ति ।
तेष्वेवान्तर्गतं सकलं वाङ्मयं शास्त्रजालम् ।
तथा कामिके-

लौकिकं वैदिकं चैव तथाध्यात्मिकमेव च ।
अतिमार्गं च मन्त्राख्यं तन्त्रभेदमनेकधा ॥
सद्योवाम-महाघोर-पुरुषेशानमूर्त्तयः ।
प्रत्येकं पञ्चवक्त्राः स्युस्तैरुक्तं लौकिकादिकम् ॥
पञ्चविंशतिभेदेन स्रोतोभेदः प्रकीर्त्तितः ।
एष्वेवान्तर्गतं वस्तु वाङ्मयं वस्तुवाचकम् ॥

तथा सोमसिद्धान्ते -

पञ्चधा लौकिकं तन्त्रं तथा तन्त्रं च वैदिकम् ।

तन्त्रमाध्यात्मिकं तद्वदतिमार्गं तथैव च ॥
तथैव मन्त्रतन्त्राख्यं तेषु यद् बहुधेरितम् ।
इति ।

एतल्लौकिकादिस्वरूपं सर्वात्मशम्भुकृत-सिद्धान्तदीपिकायां प्रपञ्चितमिह ग्रन्थ-गौरव-भयान्न लिखितम् ।
तत्रैवाऽवधार्यताम् ।
तत्र मान्त्रिकं पञ्चविधमपि क्रमेण ऊर्ध्वपूर्व-कुबेर-वरुण-याम्य- सम्बन्धात् मुक्तिप्रदसिद्धान्त-सर्वविषहरणगारुड-सर्ववशीकरण-वाम- भूतग्रहनिवारकभूततन्त्र-शत्रुक्षयकरभैरव-सञ्ज्ञकम् ।
तथा कामिके-

तथैव मन्त्रतन्त्राख्यं सदाशिवमुखोद्भवम् ।
सिद्धान्तं गारुडं वामं भूततन्त्रञ्च भैरवम् ॥
ऊर्ध्व-पूर्व-कुबेरा-प्य-याम्य वक्त्राद् यथाक्रमम् ।

एतानि सिद्धान्तादीनि कामिके यथा-

सामान्यञ्च विशेषञ्च शैवं वैशिष्टिकं वचः ।

अत्र च शास्त्ररूपज्ञाने वेदादिज्ञानमपरम् ।
सिद्धान्तज्ञानं परम् ।
सिद्धान्तज्ञानेऽपि शिवज्ञानं परम् ।
रुद्रज्ञानमपरम् ।
शिवज्ञानमपि प्रवक्तृक्रमादाद्यजनकक्रमाच्च परापरत्वमादध्यात् ।
एवं रुद्रज्ञानमपि ।
तथा उपभेदानामपि परापरत्वमिति परापरभेदा बोध्याः ।
एवं शब्दरूपज्ञानवत् अवबोधरूपज्ञानस्यापि शुद्धमार्गाऽशुद्धमार्ग-शिव-सदाशिव-पशु-माया- प्रकाशकत्वादिभिः परापरभेदा मन्तव्याः ।
तथा दीक्षारूपज्ञानस्यापि नैष्ठिक-भौतिक-निर्बीज-सबीज-शिवधर्मि- लोकधर्म्यादिभिः परापरभेदा ऊहनीयाः ।
उक्तं स्वायम्भुवे-

तदेकमप्यनेकत्वं शिववक्त्राम्बुजोद्भवम् ।
परापरेण भेदेन गच्छत्यर्थप्रतिश्रयात् ॥

तथा कामिके-

आदावभूद् द्विधा ज्ञानमधिकारिविभेदतः ।
परापरेण भेदेन पतिपश्वर्थदर्शकम् ॥
शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् ।
वेदाद्यपरविज्ञानं पशुपाशार्थदर्शकम् ॥
यथा विलक्षणं चक्षुः क्षपायां श्वबिडालयोः ।
तथा विलक्षणं ज्ञानमेवमेतत् परापरम् ।
इति ।

सिद्धान्तज्ञानं कामिकादीनि प्रणवाद्यंशुपर्यन्तानि प्रणीतानि यानि तानि शिवभेदाभिधेयानि शिवाधिकरणज्ञानं शिवभेद इत्युच्यते ।
विजयादीन्यष्टादशसङ्ख्यातानि तन्त्राण्यनादिरुद्रादिरुद्राणां यान्यभिहितानि तानि रुद्रभेदाभिधेयानि रुद्राधिकरणज्ञानं रुद्रभेद इति ।

अत एव रुद्रात्मभिन्नमष्टादशसङ्ख्यकमिति शिवरुद्रात्मकं तन्त्रमष्टाविंशतिसङ्ख्यकम् ।

स्वायम्भुवे-

चिन्तामणिरिवात्राऽसौ स्थितः सर्वस्य कारणम् ।
एकमेव शिवज्ञानं विभिन्नं दशधा पुनः ॥
तथाष्टादशधाभिन्नं भेदान्तरविसर्पितम् ।

श्रोतृभेदो मुकुटतन्त्रे वर्णितः -

श्रोतारः शिवभेदानां पारम्पर्यास्त्रयस्त्रयः ।
द्वौ द्वौ तु रुद्रभेदानां षष्टिरुक्ता षडुत्तरा ॥

तद्भेदः किरणे प्रपञ्चितः -

सृष्ट्यनन्तरमेवेशः शिवान् सृष्ट्वा दशात्मजान् ।
ज्ञानमेवं विभज्यैकं तेषां तत्सङ्ख्ययाऽवदत् ॥
कामिकं प्रणवाख्यस्य सुधाख्यस्य तु योगजम् ।
दीप्ताख्यस्यापि चिन्त्यं तु कारणाख्यस्य कारणम् ॥
अजितं सुशिवाख्यस्य ईशस्यापि सुदीप्तकम् ।
सूक्ष्मं तु सूक्ष्मसञ्ज्ञस्य कालस्यापि सहस्रकम् ॥
सुप्रभेदं गणेशस्य ह्यंशुसञ्ज्ञस्य चांशुमान् ।
एवं प्राथमिकं प्रोक्तं पुनरन्यो गुरुक्रमः ॥
प्रणवात् त्रिकलः प्राप्तः कामिकं त्रिकलाद्धरः ।
सुधाख्याद् योगजं तन्त्रं भस्मसञ्ज्ञस्ततः प्रभुः ॥
दीप्ताद्रुद्रात् तु चिन्त्यं च गोपतिश्च ततोऽम्बिका ।
कारणं कारणाच्छर्वस्ततः प्राप्तः प्रजापतिः ॥
अजितं सुशिवात् प्राप्त उमेशोऽप्यच्युतस्ततः ।
ईशाद् दीप्तं त्रिमूर्त्तिस्तु ततः प्राप्तो हुताशनः ॥
सूक्ष्मं सूक्ष्माद् भवः प्राप्तस्तस्मात् प्राप्तः प्रभञ्जनः ।
कालसञ्ज्ञात् सहस्राख्यं भीमो धर्मस्ततः खगः ॥
गणेशात् सुप्रभेदाख्यं त्वविघ्नेशस्ततः शशी ।
अंशुमच्चांशुज्ञात् तु प्राप्तो ह्यग्रस्ततो रविः ॥

एवमेते शिवाः ख्याताः शिवभेदा दशाद्यके ।
दशाष्टसङ्ख्ययाऽप्यन्यो रुद्रभेदः परो मतः ॥
दशाष्टसङ्ख्यया रुद्रान् पूर्वमुत्पाद्य बुद्धिमान् ।
शिवस्तत्सङ्ख्ययैवेह पुनस्तान् बोधयत् खगः ॥
रुद्रस्याऽनादिसञ्ज्ञस्य विजयं तन्त्रमुत्तमम् ।
पारमेशं महातन्त्रं श्रीरूपस्य प्रभाषितम् ॥
निश्वासं यद् दशार्णस्य प्रोद्गीतं नाम शूलिनः ।
मुखबिम्बं प्रशान्तस्य बिन्दोः सिद्धमतो मतम् ॥
शिवनिष्ठस्य सन्तानं सिंहं सौमस्य चोदितम् ।
चन्द्रहासमनन्तस्य भद्रं सर्वात्मतो मतम् ॥
निधनस्य स्वयम्भूतं विरजं तेजसः स्मृतम् ।
कौरव्यं ब्रह्मणेशस्य शिवाख्यस्य च माकुटम् ॥
किरणं देवपितुः ख्यातं ललितं चालयस्य तु ।
आग्नेयं यच्च तद् व्योम्नः शिवस्यापि पुनः परम् ।
एते जाताः सहज्ञाने शिवदेहात् पुनः शृणु ॥
प्राप्तश्चानादिसञ्ज्ञात् तु विजयं परमेश्वरः ।
श्रीरूपात् पारमेशं तु प्राप्तोऽस्मादुशना मुनिः ॥
दशाक्षराच्च निश्वासं सम्प्राप्ता शैलसम्भवा ।
प्रोद्गीतं रुद्रसञ्ज्ञात् तु कचाख्यो मुनिसत्तमः ॥
प्रशान्तो मुखबिम्बन्तु दधीचिर्नाम यो मुनिः ।
बिन्दुसञ्ज्ञाच्च यत् सिद्धं प्राप्तश्चण्डेश्वरो गणः ॥
शिवनिष्ठाच्च सन्तानं सम्प्राप्तो हंसवाहनः ।
नारसिंहं तु यत् सौम्यान् नृसिंहः प्राप्तवान् महान् ॥
अनन्ताच्चन्द्रहासं तु प्राप्तो देवपुरोहितः ।
भद्रं सर्वात्मदेवात् तु वीरभद्रो महागणः ॥
स्वायम्भुवं तु निधनात् सम्प्राप्तः पद्मसम्भवः ।
विरजं तेजसः प्राप्तः प्रजारक्षणतत्परः ॥
कौरव्यं ब्रह्मणेशात् तु सम्प्राप्तो नन्दिकेश्वरः ।
ईशानात् मुकुटं प्राप्तो महादेवो ध्वजाश्रयः ॥
किरणं देवपितृतः प्राप्तः संवर्तको मुनिः ।
आलयाल्ललितं प्राप्तो रुद्रो भैरवरूपवान् ॥
आग्नेयं व्योमसञ्ज्ञात् तु सम्प्राप्तो हुतभुक् पुनः ।
तन्त्रभेदो मया प्रोक्तश्चात्र सङ्क्षिप्तलक्षणः ॥
येषु भेदेषु यो भेद उपभेदः स उच्यते ।
भेदोऽयमुपचारेण कल्पितः स यतस्ततः ॥
फलभेदो न कल्प्योऽत्र ज्ञानभेदः प्रकल्प्यते ।

इदं ज्ञानं क्रमेण सदाशिवानन्त-श्रीकण्ठमुनिगण-परम्परया भूमौ प्रवर्त्तते ।

तथा- अनुष्टुप्छन्दसा पूर्वं निबद्धं बहुकोटिभिः ।
सदाशेवेन देवेन ततोऽनन्तेन धीमता ॥
?

पौष्करे- तेनोक्तं परमेशेन श्रीकण्ठाय महात्मने ।
श्रीकण्ठादृषयो लब्धास्तेभ्यो लब्धाः सुमानवाः ॥

एतन्महातन्त्रं चतुष्पादात्मकं भवति ।
तथा मृगेन्द्रे-

त्रिपदार्थं ? चतुष्पादं महातन्त्रं जगत्पतिः ॥
इति ॥ ४ ॥

अन्यशब्दरूपस्य ज्ञानस्योन्मुखे विरसत्वेऽपि परिणामसुखतया भेषजवत् तस्य ग्राह्यत्वमिति प्रतिपादयितुं पराख्यसूत्रेण तस्य भेषजत्वनिरूपणं करोति-

ज्ञानमेतच्छिवक्ष्मोत्थं सङ्गृहाणात्मभेषजम् ।
परिणामसुखं स्वादु विशेषगुणदर्शकम् ॥ ५ ॥

आत्मभेषजमेतज् ज्ञानं सङ्गृहाण ।
गृह्यतामित्यर्थः ।
औषधस्य सर्वस्य भूम्युद्भवत्वात् अस्य ज्ञानरूपौषधस्यापि उत्पत्तिभूमिं दर्शयति-शिवक्ष्मोत्थमिति ।
शिव एव क्ष्मा भूमिः, तदुत्थं तदुत्पन्नमित्यर्थः ।

? मातङ्गपारमेश्वरे त्वेवमुक्तम्-

अनुष्टुप्छन्दसा पूर्वं निबद्धं कोटिसङ्ख्यया ।
सदाशिवेन देवेन ततोऽनन्तेन धीमता ॥
-मातङ्गपारमेश्वरम् । १।३१

? त्रिपदार्थमिति ।
पति-पशु-पाशरूप-पदार्थत्रयप्रतिपादकम्, पदार्थान्तराणामत्रैवाऽन्तर्भावात् ।
चतुष्पादमिति ।
क्रिया-चर्या-योग- विद्यापादैर्विभक्तमित्यर्थः ।

पुनः कीदृशम् ? परिणामसुखम् ।
परिणामः उदर्कः ? उत्तरकालसुखकरम् ।
स्वादु अमृतसमानत्वात् ।
विशेषगुणदर्शकं सर्वज्ञत्वादिगुणानामभिव्यञ्जकम् ।
औषधपक्षे विशेषगुणस्य स्वास्थ्यस्यदर्शकम् ।
अनेन विशेषणत्रयेणाऽपि ज्ञानस्याऽस्य अग्राह्यताशङ्का निरस्ता ।
लोके उदर्कसुखकराणाममृतरूपाणां विशेषगुणसम्पादकानां पदार्थानां सर्वैरपि ग्राह्यत्वादिति ।
आत्मभेषजमित्यस्याऽभिप्रायः - यथा चक्षुषः प्रकाशनशक्तिः वर्तमाना पशुत्वमलरुद्धा गुरुरूपेण परमशिववैद्येन परमकृपालुना तद्भेषजज्ञानप्रयोगेण पशुत्वनिरसनद्वारा पुनरभिव्यज्यत इति ।
तदुक्तं शिवधर्मोत्तरे-

व्याधीनां भेषजं यद्वत् प्रतिपक्षः स्वभावतः ।
तद्वत् संसारदोषाणां प्रतिपक्षः शिवः स्मृतः ॥
औषधस्य च सामर्थ्याद् यथा दोषं विसर्जयेत् ।
तथात्मज्ञानभैषज्याद् दोषं च विनिवर्तते ॥
तस्मात् स पण्डितः शान्तस्तपस्वी विजितेन्द्रियः ।
शिवज्ञानस्य सम्बन्धाद् भावमालोच्य मुच्यते ॥ ५ ॥

इयता प्रबन्धेन ज्ञानस्य वक्तव्यतां प्रतिज्ञाय तस्य प्रयोजनमुपवर्ण्य तद्द्वैविध्यमभिधाय तस्य बहुतन्त्रभेदाकारितां प्रसाध्य सर्वैरवश्यग्राह्यत्वं च समर्थितम् ।
इदानीमनेन शिवज्ञानेन प्रतिपाद्यानां पति-पशु-पाशरूपाणां त्रयाणामपि पदार्थानां सद्भावावेदकतया अनुमानं प्रमाणयितुं प्रथममनुमानस्वरूपचतुष्टयं मतङ्गसूत्रेण गृह्णाति-

धर्मेण साध्यते धर्मी क्वचित् कार्येण कारणम् ।
कारणेन क्वचित् कार्यं क्वचिदाम्नायदर्शनात् ॥ ६ ॥

अत्र प्रथमपादेन सामान्यमिति अनुभयात्मकमिति लब्धसञ्ज्ञाद्वयमनुमानमुक्तम् ।
धर्मेण गन्धादिरूपेण अधिष्ठेयपदार्थेन धर्मी पृथिव्यादिरूपः आधाररूपः पदार्थः साध्यते ज्ञायते ।
कार्यकारणरूपव्यतिरेकेण धर्मधर्मिस्वभावमात्रप्रतिबन्धमूलत्वादिदमनुभयात्मकं सामान्यमित्युच्यते ।
तथा योगपादे-

शेषवत् पूर्ववच्चान्यत् सामान्यमपरं स्मृतम् ।

? उदर्कः फलमुत्तरमित्यमरः ।

एतेनाऽनुमानेन क्वचित् पतिपदार्थप्रकरणे शक्तिरूपधर्मेण शक्तिपतिर्धर्मीसाध्यते ।
यथा वा पशुपदार्थप्रकरणादौ ज्ञानक्रियालक्षणेन धर्मेण पशुपदार्थलक्षणो धर्मी साध्यते ।
यथा गन्धादेः कस्तूरिकादिः ।
तथा द्वितीयपादेन कार्यलिङ्गमिति विशेषवदिति च लब्धसञ्ज्ञाद्वयमनुमानमुक्तम् ।
क्वचित् कार्येण कारणं तद्वत् पदार्थप्रकरणे पृथिव्यादिरूप-कार्येण तन्मात्रादि-मायान्तं कारणं साध्यते ।
यथा मदगन्धादिभिर्मत्तगजानुमानम् ।
तथा-

योगपादे-

स्थूलावृत्तशकृत्पुञ्जभूपृष्ठं मदगन्धि च ।
स्तम्भशय्यादिभिश्चिह्नैरत्रासीन्मत्तवारणः ॥
अतीतो ह्यनुमानेन साध्यः शेषवता बुधैः ।
इति ।

तृतीयपादेन कारणलिङ्गमिति पूर्ववदिति च लब्धसञ्ज्ञाद्वयमनुमानमुक्तम् ।
क्वचिद् भोगपदार्थप्रकरणे सुकृतदुष्कृतानुष्ठानेन आगमसिद्धकारणभावेन कार्यम् आमुष्मिकभोगपदार्थः सुखात्मको दुःखरूपो वाऽनुमीयते ।
उपेयपदार्थानुष्ठानेन सिद्धिमुक्तिलक्षणं च फलमनुमीयते ।
यथा विशिष्टघनादिभिः कारणैर्वष्ट्यादिकार्यमनुमीयते ।
यथाऽत्रैव योगपादे-

कृष्णाञ्जननिभैरुच्चैः सागोपैर्निविडैर्घनैः ।
निर्विघ्नैर्विपुलैः स्निग्धैस्तडिन्निर्घोषसङ्कुलैः ॥
प्रवृट्समयसम्प्राप्तैर्दृष्टैर्वृष्टिः प्रमीयते ।
एवं पूर्ववता साध्यमनुमानेन वृट् सदा ॥
इति ।

चतुर्थेन पादेन आगमानुमानमुक्तम् ।
क्वचित्=यत्र तु त्रिविधस्यापि कार्यकारणधर्मस्वरूपप्रतिबन्धस्याऽपगमः, तत्र विषये ।
आम्नायस्य दर्शनात् आगमसिद्धेनानुमानेन साध्यते यथा मन्त्रमन्त्रेश्वरादीनां बैन्दवशरीरादिरित्यनुमीयते ।

ननु धर्मः शौक्लयादिरनेकत्र वर्तमानो नियतधर्मिणं व्यभिचरतीति कथं ततो विशिष्टधर्मिसिद्धिः ।
तथा कार्यमपि वह्नेश्चक्रमूर्धादेर्धूमादि दृश्यते ।
कारणमपि धनादि कायं वृष्ट्यादिकं कदाचित् करोति कदाचिन्नेत्यनैकान्तिकत्वात् कथं ताभ्यां कारण-कार्ये साधयितुं शक्येते इति ।

अत्रोच्यते ।
न धर्ममात्रस्याऽस्य हेतुत्वमिष्यते ।
अपितु अव्यभिचारविशिष्टधर्मिणः कस्यचिदेव विशिष्टधर्मस्य, तथास्वभावत्वेन निश्चयात् ।
न तु तस्य व्यभिचारः सम्भवति ।

यस्य व्यभिचारः पाण्डुत्वादेर्न तस्य हेतुत्वम् ।
तस्य चाभ्यासतो नियतधर्मिगत-विशेषग्रहणेन व्यभिचाराभावाद्धेतुत्वमेव ।
तदुक्तम् -

न सुष्ठु विवेचितो धर्मिणं व्यभिचरतीति ।

तथा कारणमपि मेघादि ।
यद्वश्यं कार्यजनकस्वभावं न तद् ब्रह्मणापि प्रतिबद्धुं शक्यम् ।
यत् तु अजनकस्वभावं न तदिन्द्रेणापि जनकं शक्यं कर्तुमिति न सुष्टुं विवेचितं कारणं कार्यं व्यभिचरतीति तदुक्तम् -

यदभावि न तद् भावि यद्भावि न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किन्न पीयते ॥
इति ।

एवं वक्ष्यमाण-पत्यादिपदार्थनिरूपणोपोद्घाततया षट्सूत्राणि गृहीतानि ।
यथा -

चिन्तां प्रकृतिसिद्ध्यर्थामुपोद्घातं प्रचक्षते ॥ ६ ॥

इति उपोद्घातप्रकरणम् ।

एवं पदार्थसिद्धये अनुमानचतुष्टयं प्रमाणतयोपन्यस्य प्रथमं तावत् पतिपदार्थो विशेषवताऽनुमानेन साधयितुं विश्वसारोत्तरं गृह्णाति -

अचेतनस्य मायादेः प्रवर्त्तकतया पतिः ।
सिद्धः सर्वार्थवित् कर्त्ता व्यापकः सततोदितः ॥ ७ ॥

सर्वार्थवित् सर्वज्ञः ।
कर्ता सर्वकर्ता ।
व्यापकः सर्वव्यापी ।
सततोदितः नित्यमुक्तः पतिः अचेतनस्य जडस्य ।
मायादेः माया-महामायाप्रमुखस्य जगतः प्रवृत्तिजनकतया सिद्धः परिज्ञातः ।
एतदुत्कं भवति- मायादेरचेतनस्य प्रवृत्तिः चेतनाधिष्ठानपूर्विका, अचेतनप्रवृत्तित्वात्, रथादिप्रवृत्तिवदिति प्रवृत्तिरूप-कार्यलिङ्गानुमानेन तत्कारणतया पतिसिद्धिरिति ।
एवं क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदित्याद्यनुमानेन निरुद्धज्ञानक्रियाशक्तिकपशुविलक्षणतया सर्वज्ञपतिसिद्धिरूहनीया वायवीये -

अस्ति कश्चिद्पर्यन्त-रमणीय गुणाश्रयः ।
पतिर्विश्वस्य निर्माता पशुपाशविलक्षणः ॥
इति ।

पौष्करे -

अचेतनं जगद् विप्राश्चेतनप्रेरणं विना ।
प्रवृत्तौ वा निवृतौ वा न स्वतन्त्रं रथादिवत् ॥
योऽत्र प्रवर्तकः शक्तः स पतिः परिपठ्यते ।
(१ प०) विवादाध्यासितं विश्वं विश्ववित्-कर्तृपूर्वकम् ।
कार्यत्वादावयोः सिद्धं कार्यं कुम्भादिकं यथा ॥
(१ प०) इति ।

मतङ्गे -

एवं हि परतन्त्रत्वाज् जगतोऽस्याऽखिलस्य तु ।
प्रवृत्तिर्दृश्यते यस्मात् तस्मात् कर्ता महेश्वरः ॥
इति ।

पतिः शिवभट्टारकः ।
कथमवसीयते? पातीति पतिरित्यनेन शब्देन कारणमात्रमेवाऽवगम्यते ।
स विशिष्ट एवेति ॥ ७ ॥

एवं लक्षण-प्रमाणाभ्यां वस्तुसिद्धिरिति न्यायेन प्रमाणसिद्धस्य पतेरसाधारणधमरूपं लक्षणं पराख्यसूत्रेणाह -

दृक्क्रियात्मकमैश्वर्यं यस्य तद् दात्रपूर्वकम् ।
ईश्वरः सोऽत्र मन्तव्यः शक्तिद्वययुतः प्रभुः ॥ ८ ॥

यस्य दृक्क्रियात्मकं ज्ञानक्रियास्वरूपम् ऐश्वर्यम् ईश्वरत्वं दात्रपूर्वकं पूर्वं न विद्यते दाता यस्य तद् दात्रपूर्वकं, पूर्वं केनापि न दत्तं, स्वाभाविकमित्यर्थः ।
स शक्तिद्वययुतः ज्ञानक्रिया- शक्तियुक्तः ।
ज्ञानशक्तेः प्रयोजनं जगद्विषयज्ञानम्, क्रियाशक्तिस्तु जगत्कारणम् ।
तदुक्तं रत्नत्रये -

ज्ञानशक्त्या विजानाति क्रियया कुरुते जगत् ।

इति ।
प्रभुः स्वतन्त्रः अनीश्वरः ईश्वरः अत्र अस्मिन् शास्त्रे मन्तव्यः ज्ञातव्यः ।

अत्र स्वभावनिर्मलदृक्क्रियालक्षणशक्तिमत्त्वं पतिलक्षणमित्युक्तं भवति ।
तत्र शक्तिमत्त्वमित्युक्ते मले अतिव्याप्तिः, तदर्थ - दृक्क्रियालक्षणेति ।
एतावत्युक्ते बद्धात्मन्यतिव्याप्तिः, तदर्थ - निर्मलेति ।
तावत्युक्ते प्रसादमुक्तेऽतिव्याप्तिः, तदर्थं - स्वभावेति ।
तेषां शक्तिनैर्मल्यस्य शिवप्रसादाधीनतया स्वाभाविकत्वाभावात् ।
तदुक्तं पराख्ये -

चिद्रूपमात्मनो रूपं दृक्क्रियागुणलक्षितम् ।
ज्ञानरूपस्थितस्यापि स्वरूपं दृक्क्रियात्मकम् ॥

वक्ष्यति च -

कर्तृशक्तिरणोर्नित्या विभ्वीचेश्वरशक्तिवत् ।
तमश्छन्नतयाऽर्थेषु नाभाति निरनुग्रहा ॥

पौष्करे -

ज्ञान-क्रिये शिवे प्रोक्ते सर्वार्थे निर्मले परे ।
इति च ॥ ८ ॥

ननु लक्षण-प्रमाणाभ्यां सर्वज्ञत्वेन सर्वकर्तृत्वेन च पतिः साधितः ।
तत्र कर्तृत्वं मूर्त्तिमन्तरेणाऽनुपपन्नमित्याशङ्क्य तस्य मूर्त्तिरपि स्वशक्तिरेवेति प्रतिपादयितुं सार्धद्वयमतङ्गसूत्रं (३।१-३) गृह्णाति -

अथ पत्युरधिष्ठानं स्वशक्ति-किरणात्मकम् ।
तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्त्तिमान् ॥ ९ ॥

अथ शब्दः पटलादौ मङ्गलार्थः ।
पत्युः परमेश्वरस्य पतिपदार्थत्वेन सङ्गृहीतस्य अधिष्ठानम् अधिक्येन सर्वकार्यव्याप्त्याऽधिष्ठीयते यत्तदधिष्ठानं विशिष्टस्थानमेव, प्रोच्यत इत्यनुषङ्गः ।
तच्च तस्य विद्याविद्येश्वरादीनामिव न व्यतिरिक्तम्, अपि तु स्वशक्तिकिरणात्मकं स्वशक्तिरेव ज्ञानक्रियात्मिका किरणास्तदात्मकं तत्स्वरूपम् ।
सवितृरुचिरिव दाहप्रकाशादिकर्तृत्वात् तदात्मिकाः शक्तय एव तत्राधिष्ठेयत्वेनोपचर्यन्ते इति ।
ये तावत् तत्रापि विद्यात्मकं बैन्दवं वा भुवनं ऽबिन्दुरूपः शिवो ध्येयऽ इत्यादन्यार्थश्रुतिजनितभ्रान्त्या कल्पयन्ति, अनेन ते प्रतिक्षिप्ताः ।
यथा चास्यां दिवि सविता दाहकप्रकाशकस्वभाव एव, तथा तस्यां शक्तिकिरणात्मिकायां परस्यां दिवि क्रीडास्थाने सुद्दिप्तात्मा सुष्ठु दीप्तः सर्वविषयज्ञानैश्वर्यदीप्तिभिरात्मा स्वभावो यस्य सः तत्स्वरूप एव पतिरित्यर्थः ।
नतु मनःसंयोगान्नैयायिकादि- सिद्धेश्वरस्येव बुद्धिसंयोगात् पातञ्जलसिद्धस्येव वा तस्य सञ्ज्ञानं दीप्तिः ? ।
किञ्च निष्कम्पः निर्गतः कम्पः परिणामो यस्मात् स निष्कम्पः ।
बिन्दुसदाशिवात्मभेदेन वा मन्त्रमन्त्रेश्वरभेदेन वा मायादिपृथिव्यन्तभेदेन वा परिणामिनी प्रकृतिरुपादानम्, अन्यथा मृदादिवदचैतन्यप्रसङ्गादित्यर्थः ।
ततश्च यैः कौलादिशास्त्रवासनावासितैः विवर्त-परिणामपक्षयोरन्यतराभ्युपगमे पत्युरद्वैतवादः समारोप्यते ।
अनेन ते प्रतिक्षेप्याः अन्यैस्तु पाञ्चरात्रादिभिः -

अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवद् भवेत् ।

इत्येतद्दोषभयात् पतिः शरीरयुक्त एवाभ्युपगतः ।
तद्व्यावर्तनायाह - अचल-मूर्तिमानिति ।

? प्रचलितन्यायादि-निबन्धेषु मतमिदं नैव समुपलभ्यते ।
तेषु सर्वत्र ईश्वरस्य नित्यज्ञानाभ्युपगमात् ।

अचला मूर्तिर्यस्य स अचलमूर्तिमान् ।
द्विधा हि आत्मनां मूर्त्तिः चला अचला चेति ।
तत्र चला तु तत्त्वभौवनशरीरात्मिका, अचला तु ज्ञानक्रिया-स्वभावा ।
अयं च पतिरचलमूर्त्तिमान् ।
नतु भौवन-शरीरयुक्त इत्यर्थः ।

काष्ठा सैव परा सूक्ष्मा सर्वदिक्काऽमृतात्मिका ।
प्रध्वस्तावरणा शान्ता वस्तुमात्राऽतिलालसा ॥ १० आद्यन्तोपरता साध्वी मूर्त्तित्वेनोपचर्यते ।

अस्यार्थः - सैवाऽचलमूर्त्तिलक्षणा शक्तिः परा प्रकृष्टा काष्ठा निष्ठा सर्वोत्कृष्टेत्यर्थः ।
एतेनाऽस्मदादिभ्यश्चलमूर्त्तिमद्भ्योऽतिशयितोऽचलमूर्तिमानधिष्ठातेति दर्शितम् ।
तथाच परमेश्वरादधिको मोक्ष इति ये वदन्ति ते निरस्ताः ।
नहि सर्वज्ञत्व-सर्वकर्तृत्व-प्राप्तेरन्यः प्रकर्षस्तस्यापि प्रकृष्टतरावस्थेत्यादि-तरतमादि-प्रत्यय-प्रतिपाद्य- मोक्षभेदावस्थितेरनवस्थैव मुक्तौ भवेत् ।
नतु परमेश्वरादाधिक्यमेव ।
कल्पित-व्यपदेशमात्रभेदस्य न क्वचिदप्यपसृतिः ।
सूक्ष्मा परमाण्वादेरप्यतिसूक्ष्मा ।
सर्वदिक्का सर्वदिग्गता ।
वक्ष्यमाणतत्त्त्कार्यव्याप्तेरित्यर्थः ।
अत्र सूक्ष्मपदेन स्थूलमूर्त्तियुक्त- हिरण्यगर्भरूप-विकारेश्वर-वादिनो निरस्ताः ।
सर्वदिक्केति पदेन अव्यापकशरीर-प्रकृतिजन्य- प्रद्युम्नादीश्वरत्वस्थापकपाञ्चरात्रवादोऽपि निरस्तः ।
अमृतात्मिका अमृतो मरणरहितः आत्मा स्वभावो यस्याः सा अमृतात्मिका ।
अनेन मीमांसकसिद्ध-पुरुषेश्वरवादोऽपि निरस्तः ।
तस्य पुरुषस्य मूर्तेर्मृतिस्वभावत्वादिति ।
तस्य सुकृताद्यर्जनमात्रसामर्थ्येऽपि तनुकिरण- भुवननिर्माणादौ सामर्थ्यादृष्टेरनीश्वरत्वमेवेति भावः ।
प्रध्वस्तावरणा-प्रध्वस्तं विनिवृत्तमावरणं समस्तबन्धनं यस्याः सा प्रध्वस्तावरणा ।
एतेन सदाशिवस्याऽप्यनुग्रह-तिरोभावरूप- पाशसंसर्गप्रतिपादनेन पशुत्वं वदन्तः प्रक्षिप्ताः ।
सदाशिवस्य पाशसम्बन्धे जगत्कर्त्तृत्वानुपपत्तेः ।
न चानुग्रह-तिरोभावयोश्च पाशत्वम् ।
विमतौ न पाशभूतौ तत्कृत्यविशेषात्मकत्वात् सृष्ट्यादिवत् इत्यनुमानेन पाशत्वनिराकरणात् ।
अत एव न तस्य पशुत्वमिति ।
शान्ता रागद्वेषरहिता ।
अनेन भगवतः सर्वेश्वरत्वेऽपि आराधन- तदभावाभ्यामिष्टानिष्टफलप्रदत्वेन नृपत्यादेरिवरागद्वेषाभ्युपगमवादो निरस्तः ।
तदाराधनस्य चोदितत्वे सति श्रेयःसाधनत्वेन ज्योतिष्टोमादेरिव विशिष्टेष्टफलप्रदत्वात् नृपत्यादिसाधर्म्याभावादिति ।
अत एवाऽतिलालसा ।
लालसा तृष्णातिरेकः, साऽतीव विद्यते यस्याः साऽतिलालसा ।

राग-द्वेषाभावेऽपि पितेव पुत्रादीन् योग्यतानुसारेण सर्वं जगत् पातीत्यर्थः ।
वस्तुमात्रा ।
पतिलक्षणवस्तुमात्रा, तस्यास्तु लयभोगादिको भेदो नात्र विवक्षितः ।
नन्वसौ विद्येश्वर-मुक्त-शिवसम्बन्धि- प्रवाहनित्येश्वरवादिवदङ्गीक्रियतामित्यत आह-आद्यन्तो-परतेति ।
आद्यन्तशून्येत्यर्थः ।
विद्येश्वराणां त्वाद्यन्तयुक्ता मूर्त्तिः ।
मुक्तशिवानां त्वादियुक्ता ।
उभयत्राप्याद्यन्त-रहितत्वमसिद्धमित्यर्थः ।
न च प्रवाहनित्येश्वरपक्षोऽपि सम्भवति ।
ईश्वरभावस्य स्वरूपव्यक्तिलाभात्मकत्वेन विनाशासम्भवात् ।
तत्सम्भवे हि भवेत् प्रवाहनित्येश्वरपक्षः ।

यद्येवं मुक्तशिवानामपि पतिसमत्वेन ईश्वराणां बहुत्वाच्चातुल्यमतित्वेन सर्वकार्यानिर्वाह इति चेत् ।
न ।
सर्वज्ञत्वाद् यथार्थदर्शनप्रवृत्तत्वेन तेषामतुल्यमतित्वासिद्धेः, रागद्वेषातुल्यज्ञानादियुक्तानामेव नॄणां दोषदर्शनात् ।

यद्येवं प्राप्तप्रापणीयत्वेन प्रयोजनाभावादस्या मूर्त्तेर्न निसर्ग-निर्माणप्रवृत्तिरुपपद्यते ।
ऽप्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्ततऽ इति न्यायादित्यत आह-साध्वीति ।
साध्वी करुणायुक्ता स्वप्रयोजनाभावेऽपि करुणावन्तः परार्थ प्रवर्तमाना दृश्यन्त इति नात्र प्रयोजनाभावदोषः ।

ननु पत्युः सुदीप्तात्म-स्वभावत्वेनोक्तत्वात् कथं सा तस्य मूर्तिः ? व्यतिरिक्ता हि मूर्तिः सर्वत्र कथ्यत इत्यत आह-मूर्त्तित्वेनोपचर्यत इति ।
मूर्त्तित्वेन शरीरत्वेनोपचर्यते ।
नतु मुख्यतया पति-व्यतिरिक्ता सा मूर्त्तिरित्यर्थः ।
प्रोक्तं च श्रीमत्पौष्करे -

ज्ञान-क्रिये शिवे प्रोक्ते सर्वार्थे निर्मले परे ।
इति ।

सैवेत्यवधारणप्रधानादत्र च मन्त्रमन्त्रेश्वराणां मुक्तात्मनां वा दीक्षयाबिन्दु-सदाशिवत्वयोजितानामपि मूर्त्तिरुपचर्यत इति व्यावर्तते ।
ततश्च तेषां मुख्यैव शुद्धमायोपादाना मूर्त्तिरित्युक्तं भवति ।
तदुक्तं रत्नत्रये -

बिन्दूपादानजत्वे(न्ये)न एषां बैन्दवमुच्यते ।
विद्याश्च विद्याधीशाश्च नादाख्यमभिदेवताः ॥
लयभोगाधिकारेण तनुभोगेन्द्रियाणि च ।
? ।
इति ।

तथा किरणे - शुद्ध-योनिमयं तस्य वपुरुक्तमकल्मष(र्मज)म् ।
इति ।

अत्र विद्याविद्येश्वरादीनां वास्तवशरीरयोगत्वे असर्वज्ञत्वप्रसङ्ग इत्याद्यनुमाना-वस्कराणामनैकान्तिकत्वादिभिर्निरासः साधनीयः ।
तन्निरसनप्रकारस्तु रामकण्ठविरचितायां मतङ्गवृतौ विस्तारेण प्रतिपादितः ।

? मुद्रिते रत्नत्रयेऽयमंशो न दृश्यते ।

तत्रैव द्रष्टव्यः ।
इह तु ग्रन्थगौरवभयान्नलिख्यते ।
अत एव सदाशिवाद्याकार-कल्पनमप्यस्य ध्यानार्थमेव ।
पौष्करे -

साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् ।

तत्त्वप्रकाशेऽपि -

चिदचिदनुग्रहहेतो रूपाण्येतानि स प्रभुः कृत्वा ।

कुरुते चितामनुग्रहमनादिमलरुद्धशक्तीनाम् ॥
(२।१४) इति ॥ १० ॥

ननु ज्ञानक्रिया-लक्षणा शक्तिः पत्युरव्यतिरेकादौपचारिकी मूर्त्तिरस्तु ।
तथापि कृत्यानां करणे मुख्यमूर्त्तिव्यतिरेकेण कथं हेतुता ? इत्याशङ्क्य तस्य तादृशं वपुरपि तत्तत्कृत्याधिकारि-शरीरमेव नतु पारमार्थिकमिति मृगेन्द्रसूत्रमुदाहरति -

वपुषोऽविद्यमानत्वाद् यद् यत् कृत्यं करोति सः ।
तत्र तत्राऽस्य तत्कर्त्तृवपुषाऽनु कृतं वपुः ॥ ११ ॥

स पतिः वपुषो हस्तपादादिशरीरस्य अविद्यमानत्वादसम्भवात् यद् यत् कृत्यं सृष्ट्यादि करोति ।
तत्र तस्मिन् कृत्ये अस्य पत्युः वपुः शरीरं तत्कर्तृवपुषा तत्तत्कृत्याधिकारिशरीरेण अनु सदृशतया कृतं कल्पितम् ।
अधिकारि-शरीरमेव तत्तत्कृत्येषु मुख्यं शरीरमित्यर्थः ।
अथवा तत्कर्त्तवपुषा तत्कर्तॄणां पञ्चकृत्योपयोगिनां वपुषा पञ्चब्रह्मरूपेण शाक्तेन शरीरेण कल्पितमित्यर्थः ।
तदुक्तं श्रीमन्मृगेन्द्रे एव -

तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ।
ईशतत्पुरुषाघोर-वामाजैर्मस्तकादिकम् ॥
(वि० ३।८) इति ।
?

वस्तुतस्तु पर्मार्थस्वभावेन मूर्त्तित्वे भगवतःस्वशक्तिमहिम्नैव घटते ।
तथापि अशरीरस्य च कार्यनिष्पत्त्यदर्शनात् यद् यत् किञ्चित् कार्यं विधत्ते, तत्र तत्र तत्कर्त्तॄशरीरमस्य वपुः प्रसादादौ प्रसन्नरूपं क्रोधादौ सक्रोधमाप्यायनादावाप्यायितरूप- मित्यर्थिभिश्चिन्तनीयमित्यर्थः ।
यथोक्तं सर्वस्रोतःसङ्ग्रहसारे -

येन येन हि रूपेण साधकः संस्मरेत् सदा ।
तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ॥
इति ।

वपुषा न कृतं वपुरिति पाठे अयमर्थः - स पतिर्यद् यत् कृत्यं करोति, तत्र स्थले तत् कृत्यं पत्युः कर्त्तृवपुषा भवतीति शेषः ।

? यथाक्रमम् अनुग्रह-तिरीभावादान रक्षणीत्पत्तिलक्षणे कृत्यपञ्चकेऽवश्यमुपयोगो येषां तैरीशानादिभिः पञ्चभिर्मन्त्रैस्तत् मूर्धादिवपुः ऽदेवस्योच्यतेऽ दूत्यध्याहारः ।
भक्तानुग्रहाय तत्तदाकारग्रहणस्य आगमेषुपदिष्टत्वात् ।
तथाचोक्तं श्रीमत्पौस्करे- साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् ।
इति (रामकण्ठवृत्तिः)

करोतीति कर्त्तृ, तद्रूपं वपुः क्रियाशक्तिस्वरूपं शरीरं, तेन सर्वमपि कृत्यं घटत इत्यर्थः ।
कृतं वपुर्न, कत्तृरूप-क्रियाशक्ति व्यतिरेकेण कृतमुत्पादितमन्यद् वपुर्नास्तीति भावः ।
अत्र हेतुः-ऽ वपुषोऽविद्यमानत्वादिऽति ।
कारणत्रयाभावेन शक्तिव्यतिरिक्तस्य कार्यशरीरस्याऽस्मादादिवच्छिवस्याऽसम्भवादित्यर्थः ।

अयमभिप्रायः -पत्युः शरीराभ्युपगमे तस्य शुद्धस्य भौतिकदेहायोगाद् बैन्दवदेहं वक्तव्यम् ।
तस्य बिन्दुरूपादानं वक्तव्यम् ।
तच्चात्र न सम्भवति तथाहि -सर्वत्र क्षुब्धबिन्दोरेवोपादानत्वम् ।
तत्क्षोभः स्वतो वा? शिवतो वा ? नाद्यः ।
आत्माश्रयदोषापत्तेः ।
द्वितीये शिवस्य तत्क्षोभक्रियायां वपुरस्ति तद्वपुषःसाधकबिन्दुक्षोभार्थं पुनर्वपुरन्तरकल्पनायामनवस्थापत्तेः ।
यदि तत्राऽचलमूर्त्तिमात्रेणैव बिन्दुक्षोभः, तर्हि तस्य सृष्ट्यादि-क्रियासु किं शरीरान्तरकल्पनया ।
एवमेव शरीराधीन-सहकारिणोरदृष्ट-निमित्त-कारणयोर्निरासः ।
तस्माच्छिवस्य कारणत्रयाभावेन कृतशरीराभावेऽपि स्वदेहस्पन्दादावात्मनः कर्तृत्ववत् सृष्ट्यादि-क्रियाकर्त्तृत्वोपपत्तिरिति ।
तदुक्तं श्रीमत् पौष्करे -

अदेहस्यापि कर्त्तृत्वं स्वदेहप्रेरणे यथा ।
(१।३४) इति ॥ ११ ॥

ननु जगत्-सृष्टि-स्थित्यादिरूपाः पत्युः क्रिया नाऽकरणिका क्रियात्वात् छित्तिक्रियावत्, अतस्तस्यापि करणेन भवितव्यमित्याशङ्क्य तत्करणं मृगेन्द्रसूत्रेण दर्शयति-

करणं च न शक्त्यन्यच्छक्तिर्नाचेतना चितः ।
विषयानियमादेकं बोधे कृत्ये च तत्तथा ॥ १२ ॥
(वि० ३।४) (१२)

शिवस्य शक्त्यन्यत् शक्तेरन्यत् इतरद् वस्तु करणं न भवति ।
अत्र निषेधमुखेन विधिरुच्यते ।
शक्तिरेव करणं, तथैव तत्तत्क्रियानिष्पादनादित्यर्थः ।
चितः-चिद्रूपस्य ।
सम्बन्धे षष्ठी ।
चित्सम्बन्धिनी सा शक्तिश्च अचेतनस्वरूपा न भवति, चित्स्वभावायाः शक्तेरचिद्रूपत्वायोगादित्यर्थः ।
यस्मात् ज्ञेयानां करणीयानां चानन्त्यं, तस्माच्चास्य करणैरनन्तैर्भवितव्यम् ।
अपरिमितविषयं च परमेश्वरस्य ज्ञानं कृत्यं च ।
तदुक्तं तत्रैव -

तदेकं विषयानन्त्याद् भेदानन्त्यं प्रपद्यते ।
कर्त्तृत्वं तदभिन्नत्वात् तद्वदेवोपचारतः ॥
(५।१७) इति ।

तस्माद् विषयस्य करणीयस्य च अनियतत्वात् अनवच्छिन्नत्वाद्धेतोरेकमपि तत् शक्तिरूपं करणं बोधे कृत्ये च ज्ञानविषये कार्यविषये च तथा अनियतम् अनवच्छिन्नम् अनन्तमेवेत्यर्थः ।

तथा सिद्धान्तसारावल्याम् -

शक्तिश्चित्तनुरीश्वरस्य करणं ज्ञेयेषु कार्येषु तद् भेदैः सोपहिता प्रयाति गुणतो भेदं क्रियाज्ञानतः ।
नित्यं तत् सकलान्यकर्त्तृनिहिता वर्त्मन्यशुद्धे सिते कृत्यं सैव करोति पत्यनुगता वामादिशक्त्यात्मिका ॥
इति ॥ १२ ॥

अथ ज्ञानक्रियारूप-शक्तेः ईश्वरस्य मूर्त्तित्वेनोक्तवात् कथं तस्य कारणत्वमित्याकाङ्क्षायामिच्छाशक्तेरेव करणत्वम्, अमूर्त्तित्वेऽपि कर्त्तृत्वमविरुद्धमिति प्रतिपादयितुं किरणसूत्रं गृह्णाति -

यथा कालो ह्यमूर्त्तोऽपि दृश्यते फलसाधकः ।
एवं शिवो ह्यमूर्त्तोऽपि कुरुते कार्यमिच्छया ॥ १३ ॥
(२)

यथा लोके कालः क्षण-मुहूर्त्तादिकः षडृतुरूपः फलं कार्यं तस्य साधकः, अमूर्त्तोऽपि अशरीरोऽपि कालः स्वस्वोचितपुष्पफलादीनां प्रतिक्षणं द्रव्यपरिपाकस्य बाल्ययौवनादेश्च साधकः कर्ता दृश्यते प्रख्यायते ।
एवममूर्त्तोऽपि शिवः कार्य क्षित्यादिकं जगत् कुरुते हि ।
अनेन शिवस्य शरीराभावेऽपि कर्त्तृत्वाभावः परिहृतः ।
तस्य करणस्वरूपमाह - इच्छया ।
इच्छाशक्त्या कुरुत इत्यर्थः ।
तथाच योगिन इव शिवस्य सर्वासु क्रियासु इच्छैव करणमित्यभिप्रायः ।
तदुक्तमत्रैव -

इच्छैव करणं तस्य यथा तद् योगिनां मता ।
इति ।

नचेन्द्रियादि-करणाभावे कर्त्तृत्वासिद्धिरित्यपि वाच्यम् ।
अक्षहीनस्याप्ययस्कान्तस्य लोहाकर्षणकर्त्तृत्ववत् तदुपपत्तेः ।
यथा श्रीमत्किरणे -

शल्याकृष्टिकरो दृष्टो ह्यक्षहीनोऽपि कर्षकः ।
इति ।

श्रीपौष्करे च -

अनादिरूपो भगवानिच्छयाऽस्यावतारकः ।
इति ॥ १३ ॥

इत्थं स्वशक्त्यात्मक-शरीरकरणस्य वास्तव-शरीरकरण-रहितस्य कर्तुः पतिपदार्थस्य त्र्यैविध्यं मृगेन्द्रसूत्रेणाह-

शक्तोद्युक्तप्रवृत्तश्च कर्ता त्रिविध इष्यते ।
शक्तेः प्रवृत्तिभेदेन भेदस्तस्योपचारतः ॥ १४ ॥
(६)

अत्र कर्ता पतिः शक्तोद्युक्तप्रवृत्तः शक्तश्च उद्युक्तश्च प्रवृत्तश्च शक्तोद्युक्तप्रवृत्तः ।
द्वन्द्वैकवद्भावः ।
नपुंसकलिङ्गाभावश्छान्दसः ।
समानाधिकरणस्तत्पुरुषो वा ।
शक्त इति उद्युक्त इति प्रवृत्त इति च त्रिविधस्त्रिप्रकार इष्यते ।
तस्य प्त्युर्भेदः शक्तादिभेदः शक्तेः चिच्छक्तेः प्रवृत्तिभेदेन व्यापारभेदेन औदासिन्योद्योगप्रवृत्तिरूपव्यापारैरित्यर्थः ।
उपचारत इति ।
भवतीति शेषः ।

तथाचायमर्थः - अत्र यच्छक्तत्वं कार्यं प्रति योग्यत्वम् असौ निष्कलावस्था, तद्वान् शान्त इत्युच्यते ।
यद् उद्युक्तत्वं सकलनिष्कलावस्था सदाशिव कथ्यते ।
प्रवृत्तक्रियत्वं तु स्थूलत्वात् ईश्वर इति ।
कृत्यविषयोऽयमवथाभेदः, तेनोपचारत् एतत् तत्त्वत्रयं भिन्नमित्युच्यते; न परमार्थत्वादिति ।
तथा किरणे-

प्रोक्तः स निष्कलः स्थूलस्तथा सकलनिष्कलः ।
ईशः सदाशिवः शान्त इति नाम्ना स्थितिस्त्विह ॥
इच्छानुग्रहकर्त्तृत्वाल्लयभोगाधिकारवान् ।
त्रिविधः कृत्यभेदेन कथितो नामभेदतः ॥
इति ।

मतङ्गे -

शान्त्यतीतं परं तत्त्वमविनाश्यव्यया(शिवा)त्मकम् ।
योनोन्मीलितसद्भावाः (सामर्थ्यात्) पशवः शिवतां गताः ॥
सदाशिवस्य देह(व)स्य लयस्तत्त्वेऽतिनिष्कले ।
चतुर्मूर्त्तिमयं शुभ्रं यत् तत् सकलनिष्कलम् ॥
तस्मिन् भोगः समुद्दिष्टः पत्युर्विश्वस्य सर्वदा ।
(३ । ३२ । १) अथाऽधिकारिणः पत्युः क्रीडतः परमं पदम् ।
स्वतन्त्रस्यापि वक्तव्यं स्वभावोऽस्य यतः पुरा ।
(४ । १) तथा शिवैकरूपं च स्यान्नटे बहुरूपवत् ॥
इति ॥

पौष्करे -

लयभोगाधिकाराणां न भेदो वास्तवः शिवे ।
किन्तु बिन्दोरणूनां च वास्तवा एव ते मताः ॥
इति ॥

तत्र कार्योपसंहार-कार्योद्योग-कार्यसम्पत्तिरूपाऽवस्था लय- भोगाधिकारात्मा ।
बिन्दुरपि त्रिविधः ।
तद्यथा ।
वास्तवबिन्दुभेदा लयभोगाधिकार -तत्त्वाधिकरणवशेन ।
शिवस्यापि लयभोगाधिकारेण त्र्यैविध्यम् ।
निष्कलादिरूपेण त्र्यैविध्यम् ।
परमेश्वरशिव-सदाशिवाह्वयेन च त्र्यैविध्यम् ।
औपचारिकं सर्वम् ।
शक्तोद्युक्तप्रवृत्तश्चेत्यनेन चकारेण सङ्गृहीतम् ।

ननु शिव-सदाशिवयोस्तर्हि भेदो यदि शिवान्नादाभिव्यक्तं सदाशिवेन चेत् पदादिनियमेन स्थापितम् ।
तदा अनयोस्तत्त्वयोर्भेदः स्याद्, भेदे शास्त्रविरोधः ।

एकमेव हि तत् तत्त्वं परमं शुद्धमव्ययम् ।
ईशः सदाशिवः शान्तः पर्यायास्तस्य संस्थिताः ॥

इत्युच्यते ।
सत्यम्-एकमेव तत् तत्त्वं किन्तु कृत्यभेदाद् भेदव्यपदेशो मणिवदिति ।
यथा मणिद्रव्यमुपधानवशादनेकप्रत्ययभाग् भवति ।
एवं शिवतत्त्वं लयाधिकारभोगदातृत्वात् नानाव्यपदेशभाग् भवतीति सकल- निष्कलत्वादिभेदेन भेदश्चात्मवदिति ।
यथा आत्मा शरीर-योगात् सकलः, प्रलयावस्थायामकलः, कुक्त्यवस्थायां पर इत्युच्यते ।
शिवोऽप्येवं सकल- निष्कलभेदाद् भिन्न इत्युपचर्यते ॥ १४ ॥

एवम्भूतस्य कर्त्तुरीश्वरस्य प्रपञ्चं प्रति निमित्तत्वमुपादानत्वं चास्ति ।
अभिन्ननिमित्तोपादानत्वाङ्गीकारादिति केचिद् वदन्ति ।
तान् निराकर्त्तुं सर्वस्याऽपि कार्यस्य पृथक्तया कारणत्रय-सद्भावं पराख्यसूत्रेण दर्शयति-

निमित्तमीश्वराख्यं तद् यद् दृष्टं सहकारणम् ।
उपादानं च यत् सूक्ष्मं सर्वकार्येषु संहितम् ॥ १५ ॥

ईश्वराख्यं ज्ञान-क्रिया-शक्तिरूपैश्वर्येण ईश्वर इत्याख्या यस्य तदीश्वराख्यं यन्निमित्तं निमित्तकारणम्, यच्च दृष्टं दण्ड-चक्रादि सहकारणं सहकारिकारणं, यच्च सूक्ष्मं मृदादि उपादानकारणं, तत् त्रितयमपि सर्वकार्येषु संहितं सम्बद्धम् ।
तथाच कारणत्रयं ऽसर्वकार्येषु संहितमिऽत्येतदुत्तरवचनेन सर्वकार्यस्य पृथक्तया कारणत्रयव्याप्ति-प्रतिपादनेन प्रपञ्चस्याऽपि कार्यस्य पृथक् कारणत्रयावश्यकतया अभिन्ननिमित्तोपादानत्वं निरस्तम् ।

ननु ऊर्णनाभि-जन्तोर्लूतातन्तुं प्रति निमित्तत्वमुपादानत्वं च दृष्टमिति चेत् ।
न ।
तत्रापि तदास्यगत-लालाया एव तत्र उपादानत्वात् ।
किञ्च ईश्वरस्योपादानत्वे तस्य परिणामित्वमचिद्रूपत्वं च प्रसज्येत् ।
तदुपादेयस्य सर्वस्य प्रपञ्चस्याऽपि चिद्रूपत्वापत्तिश्च ।
अत एव तत्समवायिशक्तेरपि नोपादानत्वम् ।
चिद्विवर्त्तत्वाङ्गीकारे जगदसत्यतापत्तिः ।
न चेष्टापत्तिः ।
सर्वप्रमाण-सिद्धस्य जगतोऽपह्नोतुमशक्यत्वात् ।
तदुक्तं पौष्करे -

नास्ति शक्तिरुपादानं चिद्रूपत्वाद् यथा शिवः ।
परिणामोऽचितः प्रोक्तश्चेतनस्य न युज्यते ॥

चितो विवर्त्त एवोक्तस्तथात्वे कार्यशून्यता ।
सर्वप्रमाण-संसिद्धं चिद्विवर्त्तः कथं जगत् ॥
(२ । ४-५) इति

अत्र च प्रपञ्चस्य ईश्वरो निमित्त-कारणम् ।
शक्तयः सहकारि-कारणम् ।
बिन्दुरुपादान-कारणम् ।
यथाऽत्रैव (पौष्करे ८ । १७) -

निमित्तमीश्वरस्तेषामुपादानं स बिन्दुराट् ।

अन्यत्र-

तपने दीधितिश्चन्द्रे चन्द्रिकौष्ण्यमिवाऽनले ।
समवेता शिवे शक्तिः कारणं सहकारणम् ॥
स्वशक्तिश्चेश्वरो माया मृच्चक्रक-कुलालवत् ।

तत्रापि शुद्धेऽध्वनि शिवस्य निमित्तत्वं, बिन्दोरुपादानत्वम् ।
अशुद्धेऽध्वनि तु अनन्तेशस्य निमित्तत्वं मायाया उपादानत्वं वेदितव्यम् ।
तथा च किरणे -

शुद्धेऽधवनि शिवः कर्त्ता प्रोक्तोऽनन्तोऽसिते प्रभुः ।

शुद्धेऽध्वनीति शुद्धाशुद्धयोर्बिन्दु-माययोः शुद्धाशुद्ध- कार्यव्यत्यास-कारणत्वमुचितम् उक्तम् ।
श्रीपौष्करे (२ । ६) -

मायापि नात्रोपादानं मोहकत्वात् स्वतेजसा ।

अत्र शुद्धेऽध्वनीत्यर्थः ।
नच - माया-काल-कर्मादीनामेव जगन्निमित्तत्वं, नेश्वरस्येति वाच्यम् ।
तेषामचेतनानां चेतनप्रेरणं विना कार्यकारकत्वानुपपत्त्या तत्प्रेरक-चेतनावश्यम्भावे सति अस्मदादीनां निरुद्धदृक्क्रियतया तत्प्रेरकत्वाभावेन सर्वज्ञस्य सर्वकर्त्तुरीश्वरस्यैव तत्सम्भवेन सकलप्रपञ्चं प्रति तस्यैव निमित्तकारणत्वौचित्यात् ।

निमित्तमीश्वराख्यं यददृष्टं सहकारणमिति पाठे - अदृष्टशब्दवाच्य-कर्मणः सहकारिकारणत्वमुक्तम् ।
यथाऽत्रैवारणेयपटले (पौष्करे ८ । १८ ) -

निमित्तमिश्वरस्तेषामुपादानं स बिन्दुराट् ।
नृकर्म सहकारि स्यात् कार्यमेतत् त्रिहेतुकम् ॥

तस्मात् प्रपञ्चकार्यस्य निमित्तादि-कारणत्रयरूपत्वमीश्वरादित्रयस्येति सर्वैरभ्युपेयमिति ॥ १५

अथ ऽ न कदाचिदनीदृशं जगदिऽति न्यायेन प्रपञ्चनित्यत्ववादिनं निराकर्त्तुं प्रपञ्चस्य कार्यत्वं पराख्यसूत्रान्तरेण साधयति -

मूर्त्ताः सावयवा येऽर्था नानारूप-परिच्छदाः ।

स्थूलावयव-शिष्टत्वाद् बुद्धिमद्धेतुपूर्वकाः ॥
अतोऽस्ति बुद्धिमान् कश्चिदीश्वरः समवस्थितः ॥ १६ ॥

मूर्त्ताः आकृतिमन्तः ।
सावयवाः अवयव-सहिताः ।
नानारूप- परिच्छदाः नाना बहुविधैः रूपैः संस्थान-विशेषैः परिच्छदः आवरणं येषां ते नानारूप-परिछदाः ।
एवम्भूता ये अर्थाः पृथिव्यादयः एते पक्षत्वेनोपात्ताः ।
मूर्त्तादीनि पक्षविशेषणानि कार्यत्वसाधने प्रत्येकं हेतुत्वसूचकतया उपात्तानि ।
न तु बाधादि- निवारकाणि ।
तस्य प्रतिज्ञामाह-बुद्धिमद्धेतुपूर्वकाः ।
बुद्धिर्यस्यास्ति स बुद्धिमान् ।
स चासौ हेतुश्च सोऽयं बुद्धिमद्धेतुः पूर्वःपूर्वावधिर्येषां ते तथाविधाः ।
उपादानादि- गोचरापरोक्षज्ञानवत्-कर्त्तृका इत्यर्थः ।
हेतुपूर्वकत्व-साधनमात्रेण कार्यत्वसिद्धावपि कर्त्तृविशेषसिद्धि-विवक्षया बुद्धिमत्पदं प्रयुक्तम् ।
तत्र हेतुमाह - स्थूलावयव-शिष्टत्वादिति ।
स्थूलैरस्मदादिबाह्येन्द्रियग्राह्यैरवयवैः शिष्टत्वात् सम्बद्धत्वात् ।
अत्र चावयवानामप्रत्यक्षतया अवयवयुक्तत्वहेतोरसिद्धिपरिहारसूचकतयैव स्थूलपदमुपात्तं, नतु व्यभिचारवारकतया ।
अत्र घटादिवदित्युदाहरणमध्याहर्त्तव्यम् ।
निगमनमाह-अतः सावयवत्वादेव बुद्धिमान् समवस्थितः प्रमाणसिद्धः कश्चिदीश्वरः कर्त्तास्ति ।
पृथिव्यादीनामिति शेषः ।
तथा वायवीये-

प्रधान-परमाण्वादि यावत् किञ्चिदचेतनम् ।
न तत् कर्त्तृ स्वयं दृष्टं बुद्धिमत् कारणं बिना ॥
जगच्च कर्त्तृसापेक्षं कार्यं सावयवं यतः ।
तस्मात् कार्यस्य कर्त्तृत्वं पत्युर्न पशु-पाशयोः ॥

अनेन च सकर्त्तृकत्व-साधनेन पृथिव्यादीनां कार्यत्वं सिद्धम्, अतः कार्यत्वसाधनस्य सुलभत्वेऽपि सकर्त्तृकत्व-साधनद्वारेण तत्साधनमीश्वरसिद्धि-नान्तरीयकतया निरीश्वरवादनिराकरणार्थमिति ।
इदञ्च पञ्चरूपोपपन्नत्वादन्वयव्यतिरेक्यनुमानम् ।
तदुक्तं श्रीमत्पौष्करे (७ । ४०) -

पक्षधर्मः सपक्षे सद् व्यावृत्तश्च विपक्षतः ।
अबोधोऽसत्प्रतिपक्षो व्यतिरेकान्वयात्मकः ॥
इति ॥ १६ ॥

इदानीमीश्वरकृत्यस्यैव इयत्तया परिच्छेदं साधन-प्रयोजनवत्वं च मृगेन्द्रसूत्रेणाह -

जगज्जन्म-स्थिति-ध्वंस-तिरोभाव-विमुक्तयः ।
कृत्यं सकारक-फलं ज्ञेयमस्यैतदेव हि ॥ १७ ॥
(२ । ३ )

जन्म च स्थितिश्च ध्वंसश्च तिरोभावश्च विमुक्तिश्चेति द्वन्द्वः ।
जगतो जन्मेत्यादि षष्ठीतत्पुरुषः ।

एते जगज्जन्मादयः पञ्च ।
एतत् पञ्चविधम् अस्यैव परमेश्वरस्यैव सम्बधि कृत्यम् ।
सकारकफलं कारकैः शक्त्यादिभिः फलेन भुक्तिमुक्त्यात्मना च सहितं ज्ञेयम् अवबोद्धव्यम् ।

अत्र जगच्छब्देन जन्मवज्-जन्तुचक्रमुच्यते ।
तस्य जन्म शिवस्यैकं कृत्यम् ।
साक्षाच्छिवसृष्टिः शुद्धाध्वविषये बिन्द्वात्मकादुपादानात् शुद्धतत्त्व-भुवनाद्युत्पादन पूर्वं तद्भुवन-वासिनां विद्याविद्येश्वराणां च बैन्दवशरीर-योजनान्नादादिक्रमेण शब्दोत्पादनम् ।
अनन्तादिद्वारकसृष्टिः अशुद्धाध्वविषये मायाख्यादुपादानात् अशुद्धतत्त्वभुवनाद्युत्पादनपूर्वं भोगोपयोगि- परिकरसहितस्य पौनःपुन्येन तत्तद्विविधयोनिषु उद्भावनं च जन्मशब्देन गृहीतम् ।
तत्रैवोक्तम् ।

तत्रादौ केवलाणूनां योग्यानां कुरुतेऽष्टकम् ।
वामादि-शक्तिभिर्युक्तं सप्तकोटिपरिच्छदम् ॥
तेषामनन्तः सूक्ष्मश्च तथा चैव शिवोत्तमः ।
एकनेत्रैकरुद्रौ च त्रिमूर्त्तिश्चामितद्युतिः ॥
श्रीकण्ठश्च शिखण्डी च राजराजेश्वरेश्वराः ।
-मृगेन्द्रे २ । ३-४

अत्र राजानो लोकेशा-इन्द्रादयस्तेषां राजानः शतरुद्राः, तदीश्वराणां मण्डलिप्रभृतीनामप्येते ईश्वराः प्रभवः, विद्यामहेश्वरा इति यावत् ।
एते च सर्वे शिवप्रेर्या न स्वतन्त्राः ।
तथा -

ईषदप्राप्तयोगित्वान्नियोज्याः परमेष्ठिनः ॥
सर्वज्ञत्वादियोगेऽपि नियोज्यत्वं मलांशतः ।
परस्परं विशिष्यन्ते मन्त्राश्चैवमधः स्थिताः ॥
ते च मन्त्रेश्वरव्यक्त-शिवशक्तिप्रचोदिताः ।
कुर्वन्त्यनुग्रहं पुंसां यदा येषां स युज्यते ॥
-मृगेन्द्रे २ । ४-६

ते च मन्त्राः परापरमन्त्रेश्वरव्यक्तया शिवशक्त्या व्यपारिताः योग्यतानुरूपेण कदाचित् केषाञ्चिदनुग्रहं कुर्वन्ति ।
नतु योग्यतानपेक्षम् ।

प्रयोक्तृ-देहसापेक्षं तदर्धमखिलेऽध्वनि ।
कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् ॥

विनाधिकरणेनान्यत् प्रधानविकृतेरधः ।
कृत्वाऽधिकारमीशेष्टमपैति साध्वरांहृतौ ॥
ततोऽनन्ताद्यभिव्यक्तः पतीनां ग्रन्थितत्त्वतः ।
कलाद्यारब्धदेहानां करोत्यष्टादशं शतम् ॥
तानप्याविश्य भगवान् साञ्जनान् भुवनाधिपान् ।
येभ्यः सर्वमिदं येषां शक्तिः कर्मनिबन्धना ॥
प्रणेतॄन् पशुशास्त्राणां पशूंस्तदनुवर्तकान् ।
स्वसाध्यकारकोपेतान् कालधामावधिस्थितान् ॥
इति ।
-मृ० ४ । ४-११

स्थितिः तदिच्छानिरुद्धस्य स्वदृष्टस्य सर्वलोकस्य पुरुषार्थसिद्धये व्यापारप्रसिद्धये नियोजनं स्थापनं द्वितीयं कृत्यम् ।
यथा तत्रैव -

स्थितौ सकारकानेतान् समाक्रम्य स्वतेजसा ।
युनक्ति स्वार्थसिद्ध्यर्थं भूतैरनभिलक्षितः ॥
इति ॥
मृ० ४-१२

ध्वंसः स्थित्यन्ते शुद्धाशुद्धाध्व-भोगसाधन-तनुकरण- भुवनादीनां बिन्दुमायात्मक-कारणे सशक्त्यात्मनां विलयनद्वाराऽन्तर्निहिताणुसङ्घकाधिष्ठानेन भवाध्वभ्रमणश्रान्तानां संसारिणां विश्रमायाऽवस्थापनं तृतीयकृत्यम् ।
यथा तत्रेव -

भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम् ।
तच्च सात्मकमा(श्रित्य)क्रम्य विश्रमायाऽवतिष्ठते ॥
भविनां भवखिन्नानां सर्वभूतहितो यतः ।
-मृ० ४ । १३-१४

अयमेव च ध्वंसः प्रलय इत्युक्तः ।
स च त्रिविधः अधम- मध्यमोत्तमभेदेन ।
ब्रह्मणो दिनान्तस्वापेकालाग्निरुद्रोर्ध्वावलोकनवह्निना भूर्भुवः स्वर्लोकानां त्रयाणां लयोऽधमः प्रलयः ।
श्रीकण्ठस्य दिनान्तस्वापे भूततत्त्वादि- गुणतत्त्वान्त-लयो मध्यमः प्रलयः ।
कालाग्नि-भुवनादि-नादान्त-लयः उत्तमः प्रलयः ।
एतत् सर्वं मतङ्गे विस्तरेण प्रदर्शितम् ।
ग्रन्थविस्तरभयान्नेह प्रतन्यते ।
अस्मिन् महाप्रलये माया-पुरुष-शिव- व्यतिरेकेण सर्वेषामुपसंहार एव ।
तथाऽचिन्त्यविश्वे -

महार्थ संहारकाले मायाऽऽत्मानश्च सर्वशः ।
शिवश्चाऽशुद्धमायाभिस्तिष्ठन्त्यन्यश्च लीयते ॥
आत्मना मुपभोगार्थमेते तिष्ठन्ति सर्वतः ॥
इति ।

तथाचाचार्यैः-

माया पुरुषः शिव इत्येतत् त्रितयं महार्थसंहारे ।
अवशिष्यते पुनस्तत् प्रवर्त्तते पूर्ववत् सृष्टौ ॥
इति ।
-तत्त्वप्र० ६९

तिरोभावः पाशानुग्रहेण पशूनां यथानुरूपाद् भोगादप्रच्युतिश्चतुर्थं कृत्यम् ।
अयमेव संरक्षणाख्यतया अन्यत्रोक्तः ।
यदाहुः श्रीवार्त्तिककारः -

स्वसंस्कारोचिताद् भोगादप्रच्यावः शरीरिणाम् ।
प्रोक्तं संरक्षणं नाम न्यायेन परिपालितम् ॥

विमुक्तिश्च अनुध्यानमनुग्रहः पाश-तिरोधानेनाऽणूनां परापरमोक्षदानम् ।
तत्राऽपरमोक्षः षड्विधः ।
परस्त्वेकविधः ।
तथा मतङ्गे -

मोक्षः सप्तप्रकारोऽयं विभागेनोपवर्णितः ।
एभ्यो ह्येकः परः सूक्ष्मः कार्यकारणगोचरः ॥
अतीतः परिपूर्णश्च स्वतन्त्रः सर्वतोमुखः ।
एको निरीश्वरः स्वस्थः षडन्ये सेश्वरा मताः ॥
संरुद्धशक्तयश्चान्ये स्थूलभेदाः प्रकीर्त्तिताः ।
इति ।

इदमनुग्रहरूपं कृत्यं शिवः सृष्टिकाले संहारकालेऽपि करोति ।
तदुक्तमत्रैव-

यान् विमोचयति स्वापे शिवाः सद्यो भवन्ति ते ।
संहृतौ वा समुद्भूतावणवः पतयोऽथवा ॥
रुद्रमन्त्रपतीशानपदभाजो भवन्ति ते ।
स्थितौ याननुहृह्णाति गुरुमास्थाय चिद्वतः ॥
-मृगेन्द्रे वि० ५ । २-३

स्वायम्भुवे कृत्यस्य प्रयोजनमुक्तम् -

एवमाख्यमिदं कृत्यं किङ्कारणमुदाहृतम् ।
पशूनां देहसंयोगो भोगमोक्षाय कथ्यते ॥
तथापि सह चेत्याहुरनादिमलमोचकः ।
इति ।

अत्र एवकारेण शिवस्यैव एतत् पञ्चकृत्यं विद्याविद्येश्वरादीनां तत्प्रेरणयेति दर्शयति ।
तथा श्रीमद्रौरवे -

अधिकारं प्रकुर्वन्ति शिवेच्छा-विधिचोदिताः ।
इति ।

एतच्च कृत्यं न मायादिभिः कर्मभिर्वा निर्वर्त्तयितुं शक्यम्, अचेतनत्वात् ।
नापि पुरुषेण, तस्य मलनिरुद्ध-शक्तिकत्वात् ।
सकारकमित्यनेन साधनापेक्षा च शिवस्य दर्शिताः ।

अन्यथा निर्हेतुको मोक्षः स्यात् ।
अन्यानपेक्षणात् सर्वस्यैव म्यात्, कस्यापि वा न स्यात् ।
यथाहुः -

नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥
इति ॥ १६ ॥

परमेश्वरस्य स्वापे विक्रियादिशक्तयस्तत्तत्कार्यनिष्पादनोद्युक्तं भवन्तीति मृगेन्द्र सूत्रान्तरेणाह -

स्वापेऽप्यास्ते बोधयन् बोधयोग्यान् रोध्यान् रुन्धन् पाचयन् कर्मिकर्म ।
मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन् सर्वं यद् यथावस्तुजातम् ॥

स्वापे जाग्रदवस्थायामिव स्वापावस्थायामपि बोधयोग्यान् मलपरिपाकतारतम्याद्यपेक्षया प्रबोधनार्हान् बोधयन् तेषां बोधनं कुर्वन् रोध्यान् रोधनार्हान् रोधशक्त्या निरुन्धन् ।
कर्मिणां कर्मवतां कर्म शरीरेन्द्रियजात्यायुर्भोगकारणमिति ।
सूक्ष्मरूपं कर्म पाचयन् फलदानोन्मुखमापादयन् ।
तथा वक्ष्यति -

तथा बीजं शरीरादेः पाचयत्यानिवेशनात् ।
-मृगेन्द्रे वि० ५ । ११

इति भावः ।
उक्तमत्रैव -

न योग्यताङ्गमभजत् सद्यः स्यादौषधादिवत् ।
इति ।
-मृगेन्द्रे वि ५ । ११

पाकयोग्यमपि तत् स्वयमात्मनात्मानं न पाचयितुमीशम् ।
सर्वस्य हि परिणामिनो वस्तुनः क्षीरादेरयं साधारणो धर्मः यत् किमप्यपेक्ष्य परिणामित्वं नान्यथेति ।
तस्मात् परिणामित्वात् कर्मणोऽपि अन्यापेक्षः पाक इति ।
तथा -

पाकार्हमपि तत् पक्तुं नेशत्यात्मानमात्मना ।
धर्म-सामान्य एवायं सर्वस्य परिणामिनः ॥
-मृगेन्द्रे वि० ५ । १२

इति ।
मायाशक्तीः शुद्धाशुद्धमाययोः शक्तीः तत्तत्कार्यजनकशक्तीः व्यक्तियोग्याः प्रसवाभिमुखीः प्रकुर्वन् प्रकर्षेण कुर्वन् ।
अत्रापि परिणामि- कर्मिकर्मवन्मायाशक्तीनामपि स्वत एव प्रसवाभिमुख्यापादनं न घटत इति भावः ।
सर्वं चिद्चित्-तत्त्वभावभूतभुवनात्मकं वस्तुजातं वस्तुसमूहं यत् यथास्थितं तत् तथा पश्यन् अवलोकयन् भूत्वा आस्ते ।
शिव इति शेषः ।
यथावत् पश्यन् इत्यनेन शिवस्यास्मदादिवदयथावत्- स्थितवस्तुभासोनिरस्तः बोधयन् रुन्धन् पाचयन् प्रकुर्वन्नित्यनेन शिवस्य सर्वकर्त्तृत्वं, पश्यन्नित्यनेन सर्वज्ञत्वं च दर्शितम् ।

सर्वविषयज्ञानं विना सर्वकर्त्तृत्वानुपपत्तेः ।
यो हि यद्यत्क्रियासिद्धिं तदङ्गानि तत्फलानि च जानाति तस्यैव विचित्रतत्तत्कारकोपयोगाभिसन्धानवतस्तत्तत्-कर्तृत्वं घटते, कुविन्दादेरिव पटादिकृतौ ।
अतो यस्तु तत्राऽज्ञः, स तत्कार्यकरणाय नालम् ।
बालिश इव न्यायविद्याद्युपन्यासे इति ।
तदुक्तमत्रैव (मृगेन्द्रे ५।१३)-

सर्वज्ञः सर्वकर्त्तृत्वात् साधनाङ्गफलैः सह ।
यो यज् जानाति कुरुते स त देवेति सुस्थितम् ॥
इति ।

आस्त इत्यनेन महाप्रलये शिवस्य सद्भावश्च बोधयोग्यानित्यादिना च पुरुषसद्भावश्च मायाशक्तीरित्यनेन बिन्दुमायात्मनोः सद्भावश्च प्रदर्शितः ।
प्रलयकालेऽपि शिवस्य पञ्चकृत्यानि दर्शितानि ।
तद् यथा पौष्करे- प्रलयेऽप्यनुगृह्णाति सृजत्यवति हन्ति च ।
तिरोदधाति भगवान् न कालापेक्षया सदा ॥
इति ।

एवमचेतन इत्यादि-त्रयोदशश्लोकैः पतिलक्षण-प्रमाण- धिष्ठानमूर्ति-कारणदेहाद्यन-पेक्षकर्तृत्वौपाधिक- सहकार्युपादानापेक्ष-सर्वज्ञत्व-पञ्चकृत्यानि प्रतिपादितानि ।
एवं- प्रकारेण पतिस्वरूपवेदनयैव संसारमुक्ता भवन्ति ।
नतु पाशरूपतया ईश्वरवेदिनाम् तदुक्तं मृगेन्द्रे (५।१८)-

सत्ता-स्वरूप-करणार्थ-विधेय-दृग्भिर्लेशोदिताभिरिति ये विदुरीसतत्त्वम् ।

ते मोचयन्ति भविनोभवपङ्कमग्नान् नो विस्तरेण पुरुषाः पशुपाशरूपम् ॥
? इति ॥
अत्राऽप्यचेतनस्य मायादेरित्यनेन ईश्वरस्य सत्ता साधिता ।
अथ पत्युरधिष्ठानमित्यनेन तत्स्वरूपं वर्णितम् ।
करणं चेत्यनेन करणं कथितम् ।
स्वापेऽप्यास्त इत्यनेन तस्यार्थः प्रयोजनं भुक्तिमुक्तिरूपं वर्णितम् ।
जगज्जन्मस्थितिध्वंसेत्यनेन पञ्चकृत्यरूप-विधेयमुक्तम् ।
पश्यन् सर्वं यद् यथा वस्तुजातमित्यनेन दृक्पदवाच्य-तत्त्वज्ञान- स्वरूपमुक्तं वेदितव्यम् ।
ब्रह्मणो जीवैक्यं सार्वात्म्यं च वदन्तो वेदान्तिनः

? अचेतनस्य मायादेरित्यादिना पश्यन् सर्वं यद् यथावस्तुजात मित्यन्तेन ग्रन्थेनोक्ताभिः सत्ता-स्वरूपकरणार्थ-विधेयदृग्भिरीश्वरतत्त्वं ये विदुस्ते एव संसारमुक्ताः पुरुषाः संसारपङ्कमग्नान् संसारिणः पुरुषान् मोचयन्ति ।
ये तु आत्मैवेदं सर्वं पुरुष एवेदं सर्वमिति पशुपाशरूपमीश्वरं मन्वन्ते, न ते संसारमुक्ता भवन्तीत्यर्थः ।

पशुपाशरूपेश्वरवादिनः ।
कालकर्मेश्वरवादिनः पाशरूपतामीश्वरस्य ब्रुवते ॥ १७

इत्थं पतिलक्षणमुक्त्वाऽन्ते चिद्विलक्षणतया पशुस्वरूपं पराख्यसूत्रेण प्रतिपादयति-

देहान्योऽनश्वरो व्यापीविभिन्नः समलोऽजडः ।
स्वकर्मफल-भुक् कर्ता किञ्चिज्ज्ञः सेश्वरः पशुः ॥ १८ ॥

आत्मा देहान्यः शरीर-व्यक्तिरिक्तः ।
अनेन चार्वाकस्य निरासः ।
इत्थं हि चार्वाका वदन्ति-कृशोऽहं स्थूलोऽहमिति शरीर एवाऽहम्प्रत्ययस्य दृष्टेर्न तद्व्यतिरिक्त आत्मा उपलक्ष्यते ।
अथ-परार्थाश्चक्षुरादयः, सङ्घातत्वात् शयनाद्यङ्गवदित्यादिना करणानां कर्त्तृप्रयोज्यत्वादित्यनेन वानुमानेनात्मा प्रसाध्यते ।
नैतद् युक्तम् ।
तस्यात्मा पलापिनश्चार्वाकान् प्रत्यसिद्धेः ।
न ह्येषां प्रत्यक्षादन्यत् किञ्चित् प्रमाणम् ।
सिद्धावपि अनुमेयस्यात्मनो देवदत्तादिवत् परत्वं प्रसज्येत ।
यत् किल स्वयं प्रकाशते, स एवात्मा ।
तत्प्रकाश्यस्तु पर इति विविक्ततयात्मपरभावस्य प्रकाशमानस्यैव सङ्करोऽनवस्था च स्यात् ।
तदुक्तम्-

आत्मा यदि भवेन्मेयस्तस्य माता भवेत् परः ।
पर आत्मा तदानीं स्यात् स परो यस्तु मीयते ॥

तथा-

प्रकाशते संविदेका तदन्यत् तु प्रकाश्यते ।
प्रकाश्यं च भवेत् कर्म तच्च कर्त्रा विना कथम् ॥
इति ।

तस्मान्नाऽनुमाने देहव्यतिरिक्त आत्मा उपलक्ष्यते ।
नच देहस्य चैतन्याभावेन कथमात्मत्वमिति वाच्यम् ।
किण्वादि-द्रव्यविकारे मदशक्त्युत्पत्तिवत् चतुर्भूतविकारे देहेऽपि सम्बिदुद्भवात् ।

अपिच यस्मिन्नुपचिते यस्योपचयः, यदपचये वा अपचयः, तत् तदात्मकम् ।
यथा वह्न्युपचयापचयावनुगच्छदौष्ण्यम् ।
तथा यौवन-स्थाविर- भोजन-तदभावहेतुकौ च देहसम्बन्धिनावुपचयावनुकुर्वद् विज्ञानं देहात्मकमेव ।
अतो देह एव चेतन आत्मेति ।
तदयुक्तम् ।
तथाहि-देहश्चेतनः कदाचिन्न भवति, भोग्यत्वात् विकारित्वाच्च ।
ये ये केचन विकारिणः परिणामिणो भोग्याश्च, ते ते ह्यचेतना दृष्टाः ।
यथा पटादयः ।
स देहोऽप्येवंविधस्तस्मान्न चेतनः ।

ननु अङ्गनादिभिर्भोग्यत्वमनैकान्तिकम् ।
भोग्यत्वेऽपि तत्राऽचैतन्याभावात् ।
नाऽनै-

कान्तिकम् ।
तदीयस्यदेहस्यैव भोग्यत्वात् ।
यद्येवं निर्जीवस्य देहस्य कथं नो-पभोगः ? भवत्येव तदवस्थोचित उपभोगः क्रव्यादादेः, न पुनः कान्तादेः ।
कामिन्याद्यवस्थाया अन्यावस्थान्तरापत्तेर्विकारित्वेन वीभत्सरसहेतुत्वात् ।
तदुक्तिरत्रैव

क्वैतत् तद् वक्त्रमत्र क्व तदधरमधु क्वाऽऽयताक्ष्याः कटाक्षाः ।
? इत्यादि ॥

एवं गजाश्वादावपि ज्ञेयम् ।
तस्मात् स्थितमेतद् विकारित्वाद् भोग्यत्वाच्च देहस्याऽचैतन्यम्, अचेतनत्वाच्च पारार्थ्यमिति ।
न चात्मनो देहान्यत्वे कृशोऽहमित्यादिप्रत्ययबाधः ।
तस्य ऽदेहऽ इति भेदग्राहि-प्रत्ययेन बाधात् ।
न चात्मनोऽनुमेयत्वे परत्वं स्यादिति वाच्यम् ।
तस्य स्वसंवेदन- सिद्धस्याऽऽत्मनः विप्रतिपन्नं प्रति प्रतिपादनार्थमेवाऽनुमानप्रयोगात् ।
न चानुमान-प्रामाण्य-निरासस्तेन शक्यः कर्त्तुम् ।
तदनुमान-प्रामाण्य- निरासक-युक्तेरेवाऽनुमानतया स्वव्याघातापत्तेः ।
नच चैतन्यस्य देहानुविधायित्वं, शवशरीरे व्यभिचारात् ।
तस्मादनुभव- स्मरणयोरेकान्धिकरण्यात् चेतनो देहान्य एवात्मेति ।

अत्र च देहान्यत्व-वचनेन तत्सम्बन्धिनामिन्द्रियादीनाम् आत्मत्वं निरस्तम् ।
तथाहि-बहिर्गृहीतार्थ-धारक-मनः-प्रेरित-वागिन्द्रियजन्य- शब्दप्रपञ्चस्य व्यवहर्त्तृपुरुषाशय-प्रकटकतया दर्पण-स्थानीयत्वेन अचेतनानामिन्द्रियाणां करणत्वमेव समुचितम् ।

तथा च मतङ्गे -

वागिन्द्रियेण स्पष्टेन मनसान्त[पू]रितेन तु ।
यः प्रपञ्चोऽनुमानाख्यः सामान्यो व्यवहर्त्तृषु ॥
तेनाऽनुमीयते ह्यात्मा दृक्-दर्पण-निदर्शनात् ।
-६-१६।१७

अपिच -

यो यः संहतः, स भोक्त्रर्थः, यथा शयनादि ।
संहतश्चायं चक्षुरादीन्द्रियवर्गः अतस्तस्यापि भोक्त्रा भवितव्यमिति इन्द्रियं-व्यतिरिक्त-भोक्त्तृसिद्धिः ।

अनश्वरः नित्यः ।
तस्य हि सौगतादिवत् क्षणिकत्वे विनाशित्वे वाऽभ्युपगम्यमाने कर्मानुष्ठान-फलभोगादिकं पूर्वानुभूत- स्मरणादिकं च नोपपद्यते ।
तथाऽत्रैव-

क्षणभङ्गे स्थिते ज्ञाने न च कर्मार्जनं भवेत् ।
न तत्कर्मफलं भोग्यं ज्ञाननाशे निरन्वये ॥

शिह्णनकृते शान्तिशतके चैवं दृश्यते-क्वैतद्-वत्कारविन्दं क्व तदधरमधु क्वाऽऽयतास्ते कटाक्षाः, क्वालापाः कोमलास्ते क्वच मदनधनुर्भङ्गुरी भ्रुविलासः ।
-शा० २७ ।

स्थिरत्वं तद्गतिगम्यं स्मृतिर्नाऽनुभवादृते ।
स्मर्ताऽनुभविता स्थैर्यात् तेन ज्ञाता स्थिरो भुवि ॥
इति ॥

व्यापीव्यापकः ।
क्षपणकवत् तस्याऽव्यापकत्वे काश्मीरकस्य दक्षिणापथे परिदृश्यमानभोग इव देशान्तरफलभोगो नोपपद्येत, तस्या मूर्त्ते राकशस्येवाचेतनेन कर्मणा वा देशान्तर-नयनासम्भवात्; शरीर- परिमितत्वे सङ्कोच-विकाश-धर्मित्वे वा परिणामित्वाचेतनत्वादि- दोषप्रसङ्गाच्च ।
तथा तत्रैव-

देशान्तरफलायत् स्यात् अविमुक्तोऽपि योगतिः (?) ।
मूर्तत्वे न फलं भोग्यं यतो मूर्तिर्विनश्वरा ॥
अमूर्ता नियते व्यापे केनचित् कर्मणाऽथवा (?) ।
अतैनं यत् तत् कथं नयते पटु (?) तत् फलं भिन्नदेशस्थं विभुत्वात् तनुयोगजम् ।
इति ।

विभिन्नः अनेकः ।
नतु वेदान्तवादिनामिव एकः, तस्य परमार्थत एकत्वे बन्ध-मोक्ष-साधक-विद्याऽविद्या विभागेन द्वैतापत्तेः, एकमुक्तौ सर्वभवोच्छेद-प्रसङ्गात् भोगसाम्यादिदोषप्रसङ्गाच्च तथा तत्रैव-

चिद्रूपत्वात् तदेकत्वं तद्भेदो भिन्नभोगतः ।
स च तस्य स्वकर्मोत्थः साऽविद्या बन्धलक्षणा ॥
तच्छेदिका भवेद् विद्या द्वयमस्ति यदा तव ।
विद्याविद्या-विभागेनागतो द्वैतपरिग्रहः ॥
स्थितायां सर्वतो मुक्तौ भवोच्छेदः प्रसज्यते ।
नचाऽस्ति स भवोच्छेदस्तेन ते बहवो मताः ॥

श्रीमत्पौष्करे -

यद्यभिन्नं तु सर्वेषां भोक्तुमिच्छैकदा भवेत् ।
भोक्तुमिच्छायदैकस्य गन्तुमिच्छा परस्य च ॥
तदैवतस्माच्चैतन्यं भिन्नरूपमिति स्मृतम् ।

समलः मलेन सहितः ।
मलशब्देन ज्ञानावारकं कर्मभिन्नं रागकारणमज्ञानमुच्यते ।
तथा तत्रैव-

तेन तत्कर्मणो भिन्नमज्ञानं रागकारणम् ।

प्रावृणोति तदज्ञानममूर्त्तं विषशक्तिवत् ॥
तेनाऽशुद्धः पशुरसावनुपातिगुणाश्रयः ।

अजडः जडो न भवतीत्यजडः, ज्ञानक्रिया-स्वभाव इत्यर्थः ।
चैतन्याभावे कर्त्तुः प्रवृत्त्ययोगात् ।
तथा पौष्करे (६।१८६)-

प्रवर्तमानो देहादिश्चेतनाधिष्ठितः सदा ।
स्वतः प्रवृत्तिशून्यत्वाज् जडत्वेन प(घ)टादिवत् ॥
यस्तु प्रवर्त्तकः सोऽयमात्मेति परिपठ्यते ।

तथा तत्रैव -

सर्वकार्ये यतः कर्त्तुर्भावमालोच्य वस्तुगम् ।
प्रवृत्तिर्दृश्यते यस्मात् स भावः सत्त्ववाचकः ॥
तेन तत्प्राक् चितेर्भावः कर्मवत् किं न मन्यसे ।
इति ।

स्वकर्मफलभुक् ।
स्वस्य कर्म स्वकर्म धर्माधर्मात्मकं, तस्य फलं भुङ्क्त इति स्वकर्मफलभुक् ।
युगपत् सेवा-कृष्यादि-प्रवृत्तयोर्द्वयोः पुरुषयोरेकस्य फलसिद्धेरितरस्यादर्शनाच्च ।

तथा -

सेवाप्रवृत्तयोर्द्वयोः समानगुणशीलयोः ।
एकस्य फलसम्पत्तिस्तेन तत्-कारणपदम् ॥
अदृष्टं सूक्ष्महेतुत्वाद् गम्यते कार्ययोगतः ।
कारणं कर्मसञ्ज्ञं तद् धर्माधर्मात्मकं स्थितम् ॥

पौष्करे (३।४०)-

उभयोः कृषिसाम्येऽपि कश्चिद् धान्यानि गच्छति ।
न किञ्चिदपरस्तस्य कर्म कारणकं द्विजाः ॥
इति

कर्ता पूर्वोक्तस्य कर्मणः सम्पादयिता, अचेतनस्य शरीरादेः कर्त्तृत्वायोगात् कर्मणः करणसापेक्षत्वेऽपि कुठरादिवदप्रशस्यतया पुरुषस्यैव प्राधान्याच्च ।
तथा तत्रैव-

तत्कर्त्त्ता पुरुषः प्रोक्तो न शरीरस्य कर्त्तृता ।
अचेतनं यतस्तस्मात् कर्त्तृत्वममृते ततः ॥
कर्त्तृत्वं करणे सद्धि तथाप्यस्य प्रधानता ।
वृक्षच्छेदे यथा लोको न कुठारं प्रशंसति ॥
स कर्त्ता कारणैस्तेन प्राधान्यात् पुरुषः स्मृतः ।
इति ।

किञ्चिज्ज्ञः किञ्चिदल्पं जानातीति किञ्चिज्ज्ञः ।
एतत् किञ्चिज्ज्ञत्वं विभुः सन् इत्यादिना उत्तरत्र ग्रन्थकार एव वक्ष्यति ।
सेश्वरः ईश्वरेण प्रेरकेण सहितः ।

न साङ्ख्यानामिव स्वतन्त्र इत्यर्थः ।
कर्मणा देहेत्यादिना उत्तरत्र वक्ष्यति ।
पशुः पशुत्वमलयुक्तः, मुक्तस्य पशुत्वासम्भवात् ।
तथा पौष्करे (४।१)-

पशुः पशुत्वसंयोगान्न मुक्तः पशुरुच्यते ।

अयं च पशुः विज्ञानकल-प्रलयाकल-सकल-भेदेन त्रिविधः ।
ते च क्रमेणैक-द्वि-त्रि-मला भवन्ति ।

यस्मात् स्वदृक्क्रियाशालि-कलाहीनोप्यनीश्वरः ।
व्यापकश्चिन्मयः सूक्ष्मः शिववत् संव्यवस्थितः ॥
इति ।
(-पौष्करे ४।२)

किञ्चिज्ज्ञत्वं च उत्तरत्र सूत्रकारेण प्रदर्शितम् ॥ १८ ॥
इत्थं पशुलक्षणमुक्वा तद्-विलक्षणेषु पञ्चसु पाशेषु पृथग्भूतमाणवं मलं स्वायम्भुवसूत्रेण निरूपयति-

अथाऽनादिमलः पुंसां पशुत्वं परिकीर्त्तितम् ।
तुष-कम्बुकवद् ज्ञेयं मायावापाङ्कुरस्य तत् ॥ १९ ॥

अथ पशु-लक्षणानन्तरं मलादयो व्याक्रियन्त इति शेषः ।
अनादिश्चासौ मलश्चानादिमलः, मलिनीकरोति दृक्क्रियात्मकं तेजः प्रच्छादयतीति मलः ।
मलशब्द आच्छादकपर्यायः कृत्-प्रत्ययान्तः ।
न विद्यते आदिर्यस्य सः अनादिः ।
अत्र पाचक-विशेषणीभूत-शोभनपदवद् आछादकाज्ञानविशेषणानादिपदेन आच्छादनक्रियासम्बन्धस्याऽनादित्वप्रतिपादन-द्वारा तत्सम्बन्धिनो मलस्याप्यनादित्वमुक्तम् ।
अयं मलः पुसां पुरुषाणां पशुत्वमिति कीर्त्तितम् ।
तत्र मलस्वरूपे दृष्टान्तमाह-तुषकम्बुकवदित्यादि ।
तत् मलरूपं पङ्कम् ।
मायावापाङ्कुरस्य आवापश्चाङ्कुरश्च आवापाङ्कुरः, द्वन्द्वैकवद्भावः ।
मायाया आवापाङ्कुरं मायावापाङ्कुरं तस्य, तुष-कम्बुकवत् तुष-कम्बुकमिव ज्ञेयम् ।
यथा हि तुष-कम्बुकः शालितण्डुलानामावापस्य उच्छूनतायाः प्रसवाभिमुखभावस्य अङ्कुरोपत्तेर्निमित्तम् ।
एवं मायाया शिवेच्छावशादावापस्य प्रसवाभिमुखभावस्य कलादिकार्यादेश्च तन्निमित्तमिति ।
एतदुक्तं भवति-यस्येदमस्ति, तं प्रति माया प्रसवाभिमुखी भवति कलादींश्चोत्पादयतीति ।

ननु आत्मनि तुषकम्बुकस्थानीयो मलो वर्त्तते ।
मायायां च कलाद्यङ्कुरजन्मेति भिन्नाधिकरणत्वात् कथमेकाधिकरणो दृष्टान्त इति चेत् ।
सत्यम् ।
नायं सर्वथा दृष्टान्तः, किन्तु निमित्तनिमित्तीभावमात्र इत्यदोषः ।

अत्र तुष-कम्बुकदृष्टान्तेन शास्त्रान्तरोक्त- ताम्रकालिकादृष्टान्तोऽप्युपलक्षणीय इति ।
तदुक्तं श्रीमन्मतङ्गे (पुम्प्रधानेश्वरसाधनपटले ८०)-

ताम्रकालिकवद् योगात् सहजः परिकीर्तितः ।
इति ।

अत्रापि यथा ताम्रस्य कालिका रसशक्त्या निवर्त्तते ।
तथा मलः शिवशक्त्या निर्वर्त्तत इत्येतावति दृष्टान्तत्वम् ।
नतु सर्वथा साधर्म्यादितिबोध्यम् ।
अस्य च पर्याय-नामानि मृगेन्द्रे दर्शितानि ।
यथा-

पशुत्व-पशुनीहार-मृत्यु-मूर्च्छा-मलाञ्जनैः ।
अविद्यावृतिरुग्ग्लानि पापमूलक्षयादिभिः ॥
-मृ० १।७।७

सुप्रभेदे च -

मलोऽज्ञानं तमोऽज्ञत्वं तिरस्कारकरस्तथा ।
पतिः पशुरविद्येति मलपर्यायवचकः ॥
इति ॥ १९ ॥

अत्र पुंसामिति बहुवचन-निर्देशाद् मल इत्येकवचननिर्देशाच्च मलस्यैकस्यैव बहुपुरुष-क्रियावारक-शक्तिवैचित्र्यमस्तीति ध्वनितमर्थं मृगेन्द्रसूत्रेण (१।७।८) मुखतो दर्शयति-

तदेकं सर्वभूतानामनादि निविडं महत् ।
प्रत्यात्मस्थ-स्वकालान्ता-पायिशक्तिसमूहवत् ॥ २० ॥

तद् आवरणं सर्वभूतानां चतुर्दशविधानामपि प्राणनामेकमेव ।
कस्मादित्यत्र विशेषणद्वारेण हेतुमाह-अनादीति ।
अनादि न मायीयबन्धनवदागन्तुकम् ।
अत एवैकम् ।
अनेकत्वे हि तस्याऽचेतनत्वात् कारणान्तर-पूर्वकत्वेनाऽनादित्वानुपपतीः ।
नच कारणान्तर- पूर्वकत्वेऽपि कलादिना पारम्पर्येण बन्धकत्वात् अनादित्वं भवतीति वाच्यम् ।
तस्य प्रवाहानादित्वानङ्गीकारात् ।
तदङ्गीकारे तु पुंसां मलाभावा वस्थावस्यकतया तदानीं शिवस्येव पुनर्बन्धाभावप्रसङ्गात् ।
तस्मान्न कर्मवत् प्रवाहानादित्वं मलस्य ।
किन्तु कारणाभावादेवाऽनादित्वं मायावत् ।

निविडं घनम्, अभेद्यमित्यर्थः ।
व्यापकानामात्म- नामावारकत्वात् महत् ।
ननु मलस्यैकत्वे एकमुक्तौ सर्वमुक्तिप्रसङ्ग इत्यत्र आह-प्रत्यात्मस्थ-स्वकालान्नापायि शक्तिसमूहवदिति ।
प्रत्यात्मस्थाः प्रति पुरुषं वर्त्तमानाः स्वकालान्ता

पायिन्यः स्वस्वपरिणाम-कालापसारिण्यः या शक्तयस्तासां समूहः सोऽस्यास्तीति तद्वत् ।
तथोक्तं तत्त्वत्रय निर्णये-

मलशक्तयो विभिन्नाः प्रत्यात्मं चैव तद्गुणावरिकाः ।
इति ।

एवञ्च सति मलस्यैकत्वेऽपि तदीयावारक-शक्तीनामानन्त्यात् तदावार्याणामपि भेदाद् नैकमुक्तौ सर्वमुक्तिप्रसङ्गः ।

अनेन सुत्रेण मलस्यैकत्वादि-प्रतिपादकेन तत्स्वरूप-लक्षणमुक्तम् ।
तत्र प्रमाणं तु मोहादिलक्षण-कार्यलिङ्गं शेषवदनुमानं द्रष्टव्यम् ।
तद् यथा-मोहादिकं कार्यं सकारणकं कार्यत्वाद् घटवत् ।
अत्र च मायादीनां प्रकाशकतया मोहकारणत्वासिद्धेः परिशेषात् मोहकारणतया मलस्य सिद्धिः ।
तथा किरणे-

प्रकाशो व्यक्तिशब्देन मलशब्देन चावृतिः ।
व्यक्तिर्याऽणोमलः प्रोक्तः स्फुटं दीपान्धकारवत् ।
इति

मतङ्गे च -

तस्माद् द्वयं मलो माया सदा दिपान्धकारवत् ।
द्वयोः स्वभावभेदश्च त्वयाऽऽख्यातमिदं मुने ॥
इति ।

मोहादीनि मलकार्याणि सप्तविधानि भवन्ति ।
तद् यथा तत्रैव (मातङ्गपारमेश्वरे (६।१०३)-

मोहो मदश्च रागश्च विषादः शोप एव च ।
वैचित्त्यं चैव हर्षाख्यः सप्तैते सहजा मलाः ॥

एतेषां स्वरूपं मतङ्गादौ द्रष्टव्यम् ॥ २० ॥

नचैता मलस्य शक्तयः स्वातन्त्र्येण रुन्धन्ति अपसरन्ति वा, किन्तु परमेश्वर-रोधशक्त्यधीनाः ।
साऽपि रोधशक्तिरुपचारात् पाश इति [मृगेन्द्र]सूत्रद्वयेन [७।११] प्रतिपादयति ।

तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा ।
धर्मानुवर्त्तनादेव पाश इत्युपचर्यते ॥ २१ ॥

माहेश्वरी शैवीशक्तिः तासां मलशक्तीनां धर्मानुवर्त्तनात् धर्मस्य दृक्क्रिया-सन्निरोधकत्व-लक्षणस्य अनुवर्तनात् अनुसरणादेय ।
हेतुपञ्चमीयम् ।
पाशतया पाशत्वेन उपचर्यते ।

नचात्र मुख्यं पाशत्वम् ।
तत्र हेतुतया रोधशक्तिं विशिनष्टि- सर्वानुग्राहिका शिवेति ।
सा सर्वानुग्राहिका सकल-जगदनुग्रह-स्वभावा शिवा तच्छ्रेयः प्रसाधिका यतः, ततो न मुख्यत्वमित्यर्थः ॥ २१ ॥

नन्वस्या रोधशक्तेः रोधनैकस्वभावायाः कथमनुग्रहकारित्वमित्याशङ्क्याह-

परिणामयत्येताश्च रोधान्तं कार्कचित्त्विषा ।
यदोन्मीलनमाधत्ते तदानुग्राहिकोच्यते ॥ २२ ॥
(मृ० ७।१२)

एताश्च सर्वभूतगताः मलसम्बन्धिनी आवरणशक्तिः रोधान्तं तदधिकार-कालं यावत् तावत् परिणामयति परिणामेन योजयति ।
परिणामशब्दात् प्रातिपदिकाद्धात्वर्थे इति णिचि कृते परिणामयतीति रूपम् ।
अत्र णौह्रस्वाभाव श्छान्दसः ।
सा पतिशक्तिः कार्क चित्त्विषा ।
क एवार्क कार्कः चित्त्विषा चिद्रूप-त्विषा तया कार्कचित्त्विषा ।
क शब्देन मूर्धा सदानुग्रहैकव्यापार ईशान उक्तः, ईशानो मूर्द्धेति मन्त्रलिङ्गात् ।
स एव सकलजगदनुग्रहे नित्योद्युक्तत्वात् अर्केणादित्येनोपमितः ।
ततः प्रवृत्तया परश्रेयः-प्रकाशिकया चित्त्विषा ज्ञानभासा हेतुभूतया यदा यस्मिन्काले उन्मीलनम् अनुन्मीलित-स्वरूपाणामणुवर्गाणाम् आशयविकाशनमाधत्ते करोति, तदा तस्मिन् काले अनुग्राहिका अनुग्रहकरी उच्यते भण्यते ।
यद्यपि रोधशक्तेर्मलपरिपाकान्तमेव निरोधानैकस्वभावत्वं, तथापि तदनन्तरमणुवर्गाणामाशयविकासनहेतुत्वादनुग्राहकत्वमित्यर्थः ।
तथा च इयमेव एतिशक्तिर्यावन्मलपरिपाकमचिद्रूपाणि मल-कर्म- मायातत्कार्याण्यनुगृह्णाति, चिद्रूपतामात्मनस्तिरोदधाति ।
पाकानन्तरमात्मनोऽनुगृह्णाति ।
पाशं तिरोदधातीति चिदचितां सर्वेषामनुग्रहकारित्वात् सर्वानुग्रह-कारिकेत्यपि सिद्धम् ।
तद् यथा-

शिवस्य शक्तिः सर्वेषां सदाऽनुग्रहकारिणी ।
पाशधर्म-निरोधेन पाशानां पाशहेतुना ॥
निवृत्तियोग्यतां तेषां करोतीति यतस्ततः ।
पाशधर्मनिरोधाच्च विधत्ते पश्वनुग्रहम् ॥
तादात्मिकेन रोधेन रोधिकेत्युपचर्यते इति ॥ २२ ॥

एवं मल-तिरोधानशक्तिरूप-पाशद्वयमभिधाय अवशिष्ट-पाशेषु मायोपरि महामाये त्युक्तत्वात् मायादेरभ्यर्हितं महामायारूपं विश्वसारोत्तरसूत्रेण दर्शयति

वागीश्वरी च शुद्धाध्व-मूलोपादानकारणम् ।
नोपादानं विना कार्यं कदाचिदुपलभ्यते ॥ २३ ॥

शुद्धस्याऽध्वनो मूलभूतमुपादानकारणम् ।
चशब्दो वधारणार्थः ।
सैव वागीश्वरी महामाया ।
तदुक्तं श्रीमत्पौष्करे-

परा वागीश्वरी विद्या मायाऽविद्याऽपरा स्मृता ।
इति ।

महामायाया नादादीनि बहूनि पर्यायनामानि ।
तथा नादकारिकायाम्-

सिद्धोनादः परसुमङ्गला (?) मालिनी महामाया ।
समनानाहत बिन्दुरधोषा वाग् ब्रह्मकुण्डलिनीतत्त्वम् (?) ॥
विद्याख्यं चेत्युक्तस्तैस्तैः शब्दैस्तदागमेष्वित्थमिति ।

अनेन महामायाया शुद्धाध्वोपादानत्वरूपं लक्षणं प्रदर्शितम् ।
तेन च कार्यलिङ्गकमनुमानं तत्सद्भाव-साधकं प्रमाणमाक्षिप्तम् ।
तथाहि-शुद्धध्वाऽयं सोपादानः कार्यत्वात् घटवत् ।
नचात्र समवेतशक्तेरेवोपादानत्वेन सिद्धिरित्वति वाच्यम् ।
तस्या उपादानकारणत्वेऽचेतनत्वापत्त्या चेतनशिव-समवायायोगात् ।
यथा श्रूयते पौष्करे (२।११)-

शिवे कर्त्तरि तादात्म्यान् नेयं कुण्डलिनी स्थिता ।
पादानत्वतो हेतोः कुलाले मृत्तिका यथा ॥
इति ।

अत्र मायाप्रकृत्योर्मोहकत्वेन प्रबुद्धपुरुष-कायकरणरूप- शुद्धाध्व-कारणत्वायोगेन परिशेषात् तदनुकारि-कारणतया महामायासिद्धिः ।
तथा पौष्करे (२।६-७।१०)-

मायापि नात्रोपादानं मोहकत्वात् स्वतेजसा ।
यतः प्रबुद्धपुंस्कायकरणानां न कारणम् ॥
शुद्धाध्ववर्त्तिनः सर्वे प्रबुद्धाः शिवतेजसा ।
तस्माच्छुद्धाध्वनश्चा (स्त)स्य स्वानुकार्येव कारणम् ॥
इष्यतां कुण्डलिन्याख्यं शुद्धमेतद् द्विजोत्तमाः ।
इति

ननु कार्यस्य सोपादानत्वमसिद्धम् ।
प्रध्वंसे व्यभिचारादित्याशङ्क्याह-उपादान मित्यादि ।
उपादानम् उपादानकारणं विना अन्तरेण कार्यं कदाचिदपि नोपलभ्यते न दृश्यते ।
कार्यत्वहेतोर्भावत्व-विशेषणदानेन व्यभिचारः परिहरणीय इति भावः ।
अस्मादपि शुद्धाध्ववासिनां परमोक्षं प्रति बन्धकत्वात् पाशत्वमेव ।
यथा श्रीमत्पौष्करे (२।२-३)

किञ्च रुद्राणवो येन बध्यन्ते यत्र वा स्थिताः ।
विमुच्यन्ते यतो वाऽयं स बिन्दुरिति गम्यताम् ॥ २३ ॥

अथ [स्वतन्त्रतन्त्रीय-] सूत्रान्तरेण तस्य सकलजगदुत्पत्तिहेतुभूतं शुद्धाध्वकार्यं दर्शयति-

याऽथ कुण्डलिनी शक्तिर्मायाकर्मानुसारिणी ।
नादबिन्द्वादिकं कार्यं तस्या इति जगत् स्थितिः ॥ २४ ॥

अत्राऽथ-शब्दः शिवसमवाय-शक्त्यपेक्षः, समवायिशक्तेः शिवस्य च मायोर्ध्वत्व-प्रतिपादनात् ।
तथा सर्वज्ञानोत्तरे श्रूयते-

निष्कला परमा शक्तिरचिन्त्या सर्वतोमुखी ।
संसूक्ष्मानिर्मला नित्यानन्दा वर्वाणदायिनी ॥
या विजृम्भति तत्त्वेषु ॥

चैव हि (?) ।
तया धृतं जगत् सर्वमेकयाऽनेकरूपया ॥
अस्या ऊर्ध्वं निरालम्बं निराधारं निरामयम् ।
अचिन्त्यं व्यापकं शान्तं सृष्टि-संहार-वर्जितम् ॥
इति ।

एवं समवायिशक्तेरधो वर्तमाना मायाकर्मानुसारिणी माया च कर्म च मायाकर्मणी, मायाकर्मणोऽनुसारः मायाकर्मानुसारः, सोऽस्याऽस्तीति मायाकर्मानुसारिणी ।
निवृत्त्यादि-कलारूपेण मायाकार्य- पृथिव्यादि-तत्त्वाधारभूता तद्वर्त्तिनां कर्मानुगुण वाक्शक्तिरूपा चेत्यर्थः ।
यद्वा मायाक्षोभकानन्तदेव-शरीरोत्पादकत्वेन तस्या मायानुकूलत्वम् ।
कर्मजन्य-भावप्रत्ययानुवेधशब्दोत्पादकत्वात् कर्मानुकूलत्वम् ।
कुण्डलिनी कुण्डलिन्याख्या या शक्तिः शिवस्य परिग्रहशक्तिः ।
तदुक्तं रत्नत्रये (१६६)-

मन्त्रयोनिर्महामाया या परिग्रहवर्त्तिनी ।
इति ।

यथा सर्वज्ञानोत्तरवृत्तौ-अत्र कुण्डलिनी-शब्दवाच्या तु भुजङ्गकुटिलाकारेण नादात्मना स्वकार्येण प्रतिपुरुषं भेदेनाऽवस्थिता, नतु स्वरूपेण प्रतिपुरुष मवस्थितेत्यर्थ इति ।

श्रीमत्त्रयोदशशक्तिकायाम्-भुजङ्गकुटिलाकारेति ।
तस्याः महामायायाः कार्यभूतं नादबिन्द्वादिकं नादश्च बिन्दुश्च नादबिन्दू, तौ आदिर्यस्य तन्नादबिन्द्वादिकं जगत्प्रपञ्चः शुद्धाध्वा, इति इत्थं स्थितिः सिद्धान्तः ।
अत्र चादिशब्देन नादाख्येश्वर-तत्त्वानां नादादिपञ्चतत्त्ववर्ति- भुवनतनुकरणादीनां कामिकादीनां तन्त्राणां च ग्रहणम् ।
अथवादिशब्देन शुद्धेतराण्यपि तत्त्वानि गृह्यन्ते, कुण्डलिन्याः साक्षात् परम्परया च सकलप्रपञ्चकारणत्वात् ।
यथा चाहुः कालोत्तरे-

पञ्चत्रिंशतितत्त्वं हि शिवतत्त्वाद् विनिर्गतम् ।
तत्र स्थितिश्च वृद्धिश्च तत्रैव च लयो भवेत् ॥

अत्र शिवेन समवायिशक्त्या क्षुब्धाया महामायायाः सकाशान्नादाभिधानं तत्त्वं प्रथममुत्पद्यते ।
इयमेव शिवाधारकतया शिवतत्त्वमित्यपि वदन्ति ।
ततः सकाशाद् बिन्दुसञ्ज्ञकं तत्त्वमुत्पद्यते ।
इदञ्च तत्त्वं शक्त्याधारकतया शक्तितत्त्वम् ।
ततः शक्तितत्त्वात् सदाख्यं तत्त्वम् ।
ततः सदाख्यादीशाख्यं तत्त्वम् ।
ईशाख्याद् विद्याख्यं तत्त्वमिति क्रमेण शुद्धानि पञ्चतत्त्वानि जायन्ते ।
तत्र विद्यातत्त्वे विद्यातत्त्वाधिपतिश्च, भृगुण्यादयः सप्त विद्याराज्ञ्यश्च, तदधीनाः सप्तकोटिमहामन्त्राश्च, वाचकशब्दा व्योमव्याप्यक्षरादयश्च, वैखर्यादयश्च कामिकाद्यष्टाविंशति- तन्त्राणि च वर्त्तन्ते ।
यथा मृगेन्द्रे (१३।१५६)-

भृगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा ।
रूपिणी नन्दिनी ज्वाला सप्त सप्तार्वुदेश्वराः ॥ १९ ॥

श्रीमतङ्गे -

प्राधान्येन स्थिता ह्येता विद्या मन्त्राश्च सुव्रत ।
एकाशीतिपदा देवी या सा शक्तिः शिवात्मिका ॥
शा[न्तौ]न्ताद् विनिर्गता पूर्वं स्थानं तस्यास्तदात्मकम् ।
लये च शिवतत्त्वाख्यं व्यक्तौ बिन्द्वा[त्मकं] ह्वयं परम् ॥
भो[गः]गे सदाशिवस्था[ने]नम् ईश्वरा[ख्ये]ख्यं च शास[नं]ने ।
विद्यातत्त्वेऽधिकारः स्याद् योनिर्ज्ञेया सदैव हि ॥
त[अ]स्यामेव स्थिता मन्त्रा विद्याश्च विविधा मुने ! ।
इयं तावन्महाशक्तिः शिवस्य परमात्मनः ॥
इति ॥
(मा० ७।३०-३४)

अत्र लयभोगाधिकारप्रदस्य शिवस्य आत्मनां भौवनशरीरप्रदस्यापि व्योमव्याप्यक्षरसमूहस्याऽभिव्यक्तिस्थान- शरीरतया लयभोगाधिकार-सम्बन्ध उक्तः ।
नतु स्वाभाविकः, साधिकरणनाशाकारकोरकोशावशानायानामक्षराणामिवाऽचेतनत्वेन तदयोगात् (?) तस्मादस्या विद्यातत्त्वे एवाऽक्षरयोनौ मुख्यः सम्बन्ध इति ।
ईश्वरतत्त्वेऽनन्तादयोऽष्टौ विद्येशाः, तदधिष्ठात्र्यस्त्वष्टौ वामादिशक्तयः, तद्विलासिन्यः शक्तयोऽष्टौ भानुमत्यादयः, उच्छुष्मादयश्च पञ्च रुद्राः सिद्धान्तशास्त्रैः प्रपूजिताः नन्द्याद्यष्टौ गणेश्वराः, इन्द्रादयो लोकपालास्तेषामायुधानि च शिवासनभूता धर्मादयोऽष्टौ च स्थिताः ।
तदाह मृगेन्द्रे (१३।१५८)-

उच्छुष्माः शाम्बराश्चण्डा महावीर्याः पदद्रुहः ।
रुद्रा गणाः सदिक्पालाः शास्त्राणि पतयस्ततः ॥
इति ।

श्रीमतङ्गे -

विद्या भानुमती नाम भासुरप्रतिमा तु सा ।
ततोऽन्यापि महाभागा रौद्री रुद्रेण कर्मणा ॥
विश्वा च काली कापाली विद्याऽन्यापि महोदया ।
सुखोदयाऽन्या विख्याता तथा वज्रीति कीर्तिता ॥
अष्टावेता यशस्विन्यो विद्येशानां महात्मनाम् ।
क्रिडनार्थं विलासिन्यः पशूनां पाशमोचिकाः ॥
इति (मा० ७।१९-२२)

सदाशिवतत्त्वे तु तदधिकारावस्थः सदाशिवः, प्रणवाद्या दश अणवः, सदाशिवश्च पञ्च ब्रह्म, षडङ्गानि च, अक्षरबिन्दुस्थूलध्वनिरूपो नादश्च वर्त्तते ।
तदुक्तं स्वच्छन्दे-

ओङ्कारेशः शिवो दीप्तः कारणेशो दशेशकाः ।
सुशिवश्चैव कालश्च सूक्ष्मरूपोऽंशुतेजसः ॥
इति ।

श्रीमतङ्गे (विद्यातत्त्वपटले २५)-

ब्रह्माण्यङ्गानि यानि स्युस्तानि सादाख्य गोचरे ।
नादो बिन्दुः सकलः सादाख्यं तत्त्वमाश्रितौ कथितौ ।

एतत् सदाशिव-तत्त्वं प्राप्ताः सर्वेऽपि तत्समा भवन्ति ।
यथा मतङ्गे (४।५५)-

मेरुपृष्ठं यथा प्राप्तास्तृणलोष्टादयो भृशम् ।
पाप्नुवन्ति सुवर्णत्वं तद्वत् सादाशिवे पदे ॥
इति ।

बिन्दुतत्त्वे तु भुवनरूपोनिवृत्तिमदादिसञ्ज्ञः सद्योजातादि-सञ्ज्ञः सकलनिष्कलाख्यः शिवश्चाक्षरबिन्दुहेतुस्वरूप-सूक्ष्मनादश्च वर्त्तते ।
मृगेन्द्रे (१३।१६१)

बिन्दौ निवृत्त्यादिकलेश्वराः ।
इति ।

तत्त्वप्रकाशवृत्तौ-सूक्ष्मनादस्य शक्तितत्त्वान्तर्भावत्वेन चोक्तत्वादिति वाक्येन सूक्ष्मनादस्य बिन्दुतत्त्वावस्थानं प्रकटितम् ।
सर्वात्म शम्भुकृतसिद्धान्तदीपिकायामयमर्थः ।

नादतत्त्वे तु ध्वनिपतिरिन्धिका वा दीपिका वा रेचिका वा निवृत्त्यादिभुवनपतिसञ्ज्ञः शिवो वर्त्तते ।
चिच्छक्तौ शक्तिमद्-वरिष्ठः परमेश्वरः सकलजगत्परमकारणं कुण्डलिनी च वागीशां पतयश्च ।
तदुर्ध्वं केवलः परः शिव इति ।
तदुक्तं मृगेन्द्रे (१३।१६२)

नादे ध्वनिपतिः शक्तौ सर्वशक्तिमतां वरः ।
योनिर्विश्वस्य वागीशाः पतयः परतः शिवः ॥
इति ।

श्रीमत्स्वतन्त्रे-

तत्र कुण्डलिनी शक्तिर्माया कर्मानुसारिणी ।
भुवनाधिपतीनां च हेतुस्तद्वासिनां प्रिये ! ॥
तदतीतं वरारोहे परं तत्त्वं निरामयम् ।
इति ।

सुप्रभेदे च-

तदूर्ध्वं बिन्दुतत्त्वं तु तदूर्ध्वे नाद एव तु ।
तदूर्ध्वं शक्तितत्त्वं हि तत्त्वं तत्त्वे तदूर्ध्वतः (?) ।
अतोर्ध्वे शिवतत्त्वं स्यात् सर्वतत्त्वोपरिस्थितम् ॥
शिवाद्यवनिपर्यन्तं व्यापकं तेन तेजसा ।

इदं नादतत्त्वमेव परमकारणं नित्यम् ।
तदेव महामायेति केचिदाचार्या वदन्ति ।
तेषां पक्षे चत्वार्येव कार्याणि शुद्धतत्त्वानि ।
यथा-

शुद्धानि पञ्चतत्त्वान्याद्यन्तेषु स्मरन्ति शिवतत्त्वम् ।
शक्ति-सदाशिवतत्त्वे ईश्वर-विद्याख्यतत्त्वे च ॥

अस्य व्याख्या-तेषु मध्याच्छिवतत्त्वं बिन्द्वात्मकमाद्यं प्रधानमुपादानं स्मरन्ति पूर्वाचार्याः, परमोपादानत्वेनैव चास्य मायावन्नित्यत्वं सिद्धम् ।
अतश्चान्यानि चत्वारि तत्त्वानि तत्कार्याणीति भाव इति ।
श्रीमत्पौष्करे तु-नादाभिधानं शिवतत्त्वमपि कार्यमेव, किन्तु तत्र शक्तितत्त्वान्तर्भावेण चत्वार्येव कार्याणि शुद्धानीत्युक्तम् ।
तद् यथा-

वृत्तिस्तत्त्वात्मिका चास्य चतुर्थी संव्यवस्थिता ।

शिवतत्त्वं सदेशाख्यमीशं विद्याह्वयं तथा ॥
शुद्धान्येतानि तत्त्वानि रुद्राणूनां महात्मनाम् ।
इति ।

सर्वज्ञानोत्तरे तु-शक्त्यभिधानं बिन्दुतत्त्वमेव परमकारणमित्युक्तम् ।

तद्यथा-

अतोर्ध्वं बैन्दवं तत्त्वं विमलं सर्वतो मुखम् ।
परमं सर्वतत्त्वानामनन्तज्योतिरूपकम् ॥ २४ ॥

अथ सूत्रान्तरेण चतस्रोऽपि वाग्वृत्तयो महामायाकार्याणीति शब्दसृष्टिमुद्दिशति-

तस्याश्चतस्रो वाग्रूपा वृत्तयो वैखर्यादयः ।
वैखरी मध्यमा चान्या पश्यन्ती सूक्ष्मसञ्ज्ञिता ॥ २५ ॥

वागूपा वैखर्यादयश्चतस्रः तस्या महामायाया वृत्तयः कार्याणि ।
चतसॄणामपि क्रमेण नामान्याह-वैखरीत्यादि ।
एका वृत्तिर्नाम्ना वैखरीत्युच्यते ।
अन्या वृत्तिर्नाम्ना मध्यमा ।
अपरा नाम्ना पश्यन्ती ।
अपरा सूक्ष्मसञ्ज्ञिता ।
एतासां स्वरूपमुत्तरत्र सङ्ग्रहकारः स्वयमेव वक्ष्यति ।
अनेन शब्दसृष्टिरपि बिन्दूपादानेत्युक्ता भवति ।
अत्राऽयं सृष्टिक्रमः-शिवेच्छया प्रथमं क्षुब्धाया महामायायाः सकाशान्नाद उत्पद्यते ।
नादाद् बिन्दुः ।
बिन्दोरक्षरम् ।
अक्षरान्मातृकेति ।
तथा पराख्ये-

बिन्दुः क्षुब्धस्तदिच्छातः शब्दराशिरभूत् तदा ।
इति ।

मृगेन्द्रे-

शक्तेर्नादो भवेद् बिन्दुरक्षरं मातृका ततः ।
इति ।
आकाशवायुप्रभवः शरीरात् समुच्चरन् वक्त्रमुपैति नादः ।
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः ॥
इति ।

स्वायम्भुवे-

नवपर्वशतार्थात्म-योनिर्बीजात्मकः परः ।
अकारादि-विसर्गान्तं बीजं तत् षोडशाक्षरम् ॥
शेषा योनिश्चतुस्त्रिंशदव्यया ह्यक्षरात्मिका ।
सा शक्तिर्देवदेवस्य तया व्याप्तमिदं जगत् ॥
इति ।

आसां चतसॄणामपि वृत्तीनामाश्रयभूता निवृत्त्यादयः, कलाः पञ्च च बिन्दोरेव कार्याणि ।
तथोक्तं रत्नत्रये (८५)-

सैषा चतुर्विधा वृत्तिर्निवृत्त्यादि कलाश्रयात् ।
पञ्चधा भिद्यते भूयः कलास्ता बिन्दुवृत्तयः ॥
इति ।

मूलतन्त्रेऽपि-पूर्वोक्तबिन्दुमध्यस्थाः कलाः पञ्च समुद्भवाः ।
इति ।

इयं महामाया शब्द-वस्तूभयात्मिका भवति; सूक्ष्मादीनां शब्दानां वर्णपदमन्त्रात्मकानाञ्च वस्तूनां चोत्पादनात् ।
तथा पौष्करे-

शब्दवस्तूभयात्मानौ बिन्दुर्नान्यतरात्मकः ।
इति ।
मन्त्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ।
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ।
इति ॥

अत्र शब्दब्रह्मवादिनः आत्मन एव नादादिक्रमेणाऽवस्थानमिति वदन्ति ।
तदयुक्तम् ।
अविकारिणस्तस्य नादाद्याकारेण परिणामानुपपत्तेः ।
नापि तच्छक्तेः, तस्या अपि परिणामायोगात् ।
द्वयोरपि विकारित्वा भ्युपगमे अचेतनत्वप्रसङ्गात् ।
तस्मात् शब्दोपादानत्वं बिन्दोरेवाभ्युपगन्तव्यमिति ।
तथा नादकारिकासु (१६)-

अविकार्यत्रात्मोक्तस्तच्छक्तिश्चाप्यतो न योग्यौ तौ ।
बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् ।
इति ॥ २५ ॥

एवं शुद्ध-मायालक्षणं पाशं निरूप्य स्वायम्भुव- सूत्रेणाऽशुद्धमायालक्षणं निरूपयति-

मायातत्त्वं जगद्बीजमविनाश्यशिवात्मकम् ।
विम्वेकमकलं सूक्ष्ममनाद्यव्ययमीश्वरम् ॥

मात्यस्यां प्रलये सर्वजगत्, मयति अन्नात् जगदिति वा माया ।
तथा पौष्करे-

मयत्यस्माद् जगत् सर्वं तेन माया समीरिता ।
इति ।

मायारूपं तत्त्वं मायातत्त्वम् ।
इदमेव तत्त्वं ग्रन्थ्यादि नामभिर्बहुभिर्गीयते ।
जगद्बीजम् जगतः सर्वस्य कलादेर्बीजमुपादानकारणम् ।
अनेन विशेषणेन-जगदिदं सोपादानम् उत्पत्तिधर्मकत्वात् यथा पटादिरिति मायासिद्धिरुक्ता ।
यथा मृगेन्द्रे (९।३)-

कर्त्ताऽनुमीयते येन जगद्धर्मेण हेतुना ।
तेनोपादानमप्यस्ति न पटस्तन्तुभिर्विना ॥
इति ॥

अविनाशि नित्यम् ।
जगत्-संहारे यद्युपादान-कारणस्य मायाख्यस्यापि विनाशः स्यात्, तत् पुनः सर्गादौ कस्मादुपादानाज् जगदुत्पद्येत ।
अतो नास्या अनित्यत्वम् ।

अथोच्येत-सर्गादौ उपादानमपि देवः स्रक्ष्यतीति ।
नैतद् युक्तम् ।
एवं सति तत्कार्यस्येव अस्याप्युपादानं विनाऽनुत्पत्तेरुपादानान्तरं कल्प्यम् ।
तस्याप्यन्यदित्य-

नवस्था स्यात् ।
व्यक्त्युपसंहारेण शक्तिरूपतयाऽवस्थाने न कश्चिद् दोषः तदिदमुक्तं-

यद्यनित्यमिदं कार्यं कस्मादुत्पद्यते पुनः ।
इति ।
-मृगेन्द्रे (९।५)

अशिवात्मकम् अशुद्धं, शिवात्मकं चेतनं न भवतीत्यशिवात्मकम् ।
अचेतनमिति यावत् ।
अचेतनस्यैव तत्कार्यस्य कलादेरुपलम्भात् ।
अचेतन- तत्कार्योपलम्भेऽपि तत्कारणस्य चेतनत्वाभ्युपगमे कारणानियमलक्षणः सकलानुमानोच्छेदः सर्वव्यवहार-लोपोऽपि दोषः स्यात् ।
तदुक्तं (मृगेन्द्रे ९।४)-

तदचेतनमेव स्यात् कार्यस्याऽचित्त्वदर्शनात् ।
प्राप्तः सर्वहरो दोषः कारणानियमोऽन्यथा ॥
इति ।

विभु व्यापि ।
पुरुषस्य भोगाय तिर्यगूर्ध्वाधो मध्यस्थित-स्रोतोभिः सर्वतोमुखतया सर्वकार्योत्पादकत्वात् ।
तदुक्तम्-

अव्यापि चेत् कुतस्तत् स्यात् सर्वेषां सर्वतोमुखम् इति ।
-(मृगेन्द्रे ९।५)

एवं पक्षतुण्डादिभेदानामपि भोगाधिष्ठानत्ववत् कलादि- कार्यभेदानामपि भोगाधिष्ठानतया भेदरहितम् ।
भिन्नत्वे अनेकत्वे सत्यचेतनस्य घटपटादिवदुत्पत्तिमत्त्वप्रसङ्गात् ।
इदं तु नोत्पत्तिमत् न कारणजन्यम्, परमकारणत्वात् ।
नहि परमकारणानि बहूनि भवन्ति ।
यथा मृगेन्द्रे (९।७-)

यदनेकमचित् तत् तु दृष्टमुत्पत्तिधर्मकम् ।
न तदुत्पत्तिमत् तस्मादेकमभ्युपगम्यताम् ॥
इति ।

ननु जगदुत्पत्तौ परपरिकल्पित-परमाण्वादिवदुपादानकारण- बहुलत्वमस्तु ; बहुभ्योऽपि तन्तुभ्यः पटस्यैकस्योत्पत्तिदृष्टेः, तद्वद् जगत् सर्वमनेकस्मात् कारणादुतपद्यताम् किं ग्रन्थ्यात्मक परमकारण- कल्पनयेति चेत् ।
न ।
यदनेकतन्त्वात्मकं कारणं पटस्योक्तं, तदनेकमपि एकस्माद् दुकूल-कार्पासादि-द्रव्यादुपन्नत्वादेकम् ।
यथा च एकस्माद् दुकूल-कार्पासादि-द्रव्याद् अनेकाकार-पटाद्युत्पत्तिः ; एवं परमकारणात् सर्ग-स्थिति-लयाधारात् सर्गादौ मायातत्त्वाज् जगदुत्पत्तिरिति न कश्चिद् दोषः ।
तदूक्तम्-

पटस्तन्तुगणाद् दृष्टः सर्वमेकमनेकतः ।
तदप्यनेकमेकस्मादेव बीजात् प्रजायते ॥
इति ।
-मृगेन्द्रे (९।७) ।

एवमनेकत्वे सत्यचेतनानामनित्यत्वप्रसङ्गेन परमकारणत्वभङ्गमजानानां परमाणुगणकारणत्ववादिनां वैशेषिकादीनां द्रव्यादिषट्पदार्थ-षोडशपदार्थान्यतरज्ञानस्य निःश्रेयस हेतुतावर्णनेन प्रकटितप्रबोधतैक्ष्ण्यानामपि उपेक्षणीय [त्व]म् ।
तदुक्तम् (मृगेन्द्रे)-

भूतावधि जगद् येषां कारणं परमाणवः ।
तेषां पूर्वोदिताद्धेतोर्ज्ञातैव ज्ञानसूक्ष्मता इति ।

अकलं कलारहितम् ।
कला नाम हावृतवाद्युक्ताः (?) पुरादिसन्निवेशानेकरुद्रभोग्यत्वादयो विशेषाः, तद्रहितम् ।
नात्र क्वचित् पुराणि नित्यानि दृश्यन्ते ।
नापि तत् सन्निवेशाः ।
नापि भोग्यत्वम् ।

ननु तत्र विशेषाभावे मण्डलेशानामवस्थानप्रतिपादिकायां मायायां मण्डलेशानाः क्रमतोऽष्टौ व्यवस्थिता इति श्रुतेरनुपपत्तिरिति चेत् ।
न ।
मायायाः शक्तिरूपत्वेन भुवनासम्भवेन तत्र स्थित्यनुपपत्तेः तत्समानदेशकलामस्तकस्थितानामुपचारेण तत्रावस्थानश्रुत्युपपत्तेः ।
तदुक्तं श्रीमन्मृगेन्द्रे (१३।३)-

मायायामपि पठ्यन्ते गहनेशादयोऽधिपाः ।
तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके ॥
इति ।

मायागर्भाधिकार्ये तदीश्वरत्वं, न तु पञ्चाष्टकादिवन्नियतभुवनेश्वरत्वमित्येतद् ज्ञापयितुमत्रोपचाराभिधानमिति भावः ।

सूक्ष्मम् ।
न स्थूलम् ।
अव्यक्त बुद्ध्यादिवत् स्थूलं न भवतीत्यर्थः ।
सूक्ष्मतारतम्यविश्रान्तभूभित्वादपि इदमेव सूक्ष्मम् ।
तथा ।
पौष्करे-

तन्मात्राणि पृथिव्यादेः सूक्ष्माण्येभ्यस्त्वहङ्कृतिः ।
तस्याः सूक्ष्मतरा बुद्धिस्तस्याः प्रकृतिरेव च ॥
तस्याः कलादिवर्गश्च माया सूक्ष्मतरा ततः ।
यत्र सौक्ष्म्यपराकाष्ठा सा मायेत्यभिधीयते ॥
इति ।

अस्याः सूक्ष्मत्वमन्तर्गूढपटस्य कटादेरिवाभिप्रेतम् ।
नतु सर्वथा विकारराहित्यम् ।
यथा मृगेन्द्रे (९।२१)-

यथा कटादिगूढस्य पटादेस्तद्व्युदासतः नासतः क्रियते व्यक्तिः कलादेर्ग्रन्थिस्तथा ॥
इति ।

अनादि परमकारणत्वात् यच्चानादि, न तत् सर्वात्मना परिणमते ।
किन्तु शक्त्यात्मनावस्थितायास्तस्या एकदेशतो मायात्मकादुपद्यते व्यक्तिमासादयति ।

येषां सर्वात्मना जगद्बीजं परिणमते, तेषां तदनित्यमिति अनादि-पदेन एकदेशपरिणाम-सिद्धिः ।
एवं सति अस्मिन् सिद्धान्ते कार्यत्वं न पटकुटीवत् वृत्तितया, पटदशायां कुटीकृत्यस्याऽनुपपत्तेः ।
नापि साङ्ख्यवद् दधि- क्षीरन्यायेन परिणामतया, तथात्वे क्षीरनाशवत् सर्वात्मना उपादान- नाशप्रसङ्गात् ।
अत एव न बौद्धवद् बीजान्तराङ्कुरन्यायः, तत्रापि सर्वात्मना बीजनाशात् ।
नापि मायावादिवत् शुक्तिरजत-न्यायेन विवर्त्ततया, कार्यस्याऽसत्यत्वप्रसङ्गात् ।
तस्मादस्मिन् मते घृतकीट-न्यायेन एकदेश- परिणामतयैव कार्यत्वं सिद्धम् ।
तदुक्तम्-

बिन्दु-माया-प्रधानानां विकृतिर्घृत कीटवत् ।
इति ।

सिद्धान्तदीपिकायाम्-

शिवेच्छाप्रेरिता नन्दनाथ-विक्षोभिता पुनः ।
घृतकीटनयादेकदेशेन परिणामता ॥
शक्त्यात्मक-कलादीनि प्रयान्ति स्थूलरूपताम् ।
नाऽसतो विद्यते भावो नाऽभावो विद्यते सतः ॥
इति ।

अत्र तनुकरणादीनि कार्याणि संहृतौ बिन्द्वाद्युपादानेषु शक्त्यात्मनाऽवस्थाय सृष्टौ बन्धात्मक-प्रयोजनाय पुनर्व्यक्तात्मकानि भवन्ति ।
तथा मृगेन्द्रे (९।१३)-

तदाधाराणि कार्याणि शक्तिरूपाणि संहृतौ ।
विकृतौ व्यक्तिरूपाणि व्याप्रियन्तेऽर्थसिद्धये ॥
इति ।

अव्ययं न तस्याः विकारशक्तयो व्ययं विनाशं गच्छन्तीति अव्ययम्, शक्तिव्ययरहितमित्यर्थः ।
अव्ययपदेन असत्कार्यवादिभ्योऽस्यात्र विशेषः सूचितः ।
तेषां हि विशिष्ट-कार्योत्पादन-सम्भवादित्युक्तं मोक्षकारिकासु ।
इत्थं सर्वविकाराणामुपादानतयाऽऽपूरकत्वेन ईश्वरवत् पुरुषार्थसाधकत्वादीश्वरत्वमिति ॥ २६ ॥
अस्य मायातत्त्वस्य एकत्वेऽपि अनेकाकार-कार्योत्पादकत्वं सहकारिसापेक्षत्वं च मृगेन्द्रसूत्रेण (९।२) प्रतिपादयति-

तदेकमशिवं बीजं जगतश्चित्रशक्तिमत् ।
सहकार्यधिकारान्त-संरोधि व्याप्यनश्वरम् ॥ २७ ॥

तत् मायातत्त्वम् एकम् ।
अशिवम् अशुद्धं मोहकत्वात् ।
जगतो बीजम् ।
चित्रशक्तिमत् चित्रा विचित्राः शक्तयो यस्य तत् तथोक्तम् ।
तथाचाऽस्य एकत्वेऽपि तच्छक्तीनामनेकत्वाद् विचित्रकार्य-जनकत्वमविरुद्धमित्यर्थः ।

किञ्च सहकार्यधिकारान्त-संरोधि ? ।
ताच्छील्ये णिनिप्रत्ययः ।
अनेन कर्म सहकारीत्युक्तम्, कर्माभावे ग्रन्थितत्त्वस्याऽप्रवृत्तेः ।
व्यापि अनश्वरम् ।
पदद्वयमेतत् पूर्वमेव व्याख्यातम् ।
अत्र एकत्वादि-विशेषणानां पुनरुपादानं प्रतिपादयितुं (?) विचित्रशक्तिमत्- सहकार्यधिकारान्तसंरोधि-रूप-विशेषणद्वय-सहवर्त्तितयैवेति न पौनरुक्त्यम् ।
अस्य मायातत्त्वस्य रूपमाचार्यैरप्युक्तम्-

मायाख्यं चित्रशक्त्या परिगतमकलं कृष्णवर्त्मैकबीजं नित्यं कर्मान्तरोधि स्वकृतिनिवसनं तत्कृतिव्यापकं च ।
कार्याचित्त्वप्रकाश्य —– दशिवकरं (?) मोहकं स्वापकाले सत्त्वात्मा च स एवं परमपि च सितं कारणं बोधकं तत् ॥
इति ॥ २७ ॥

अथ किरणसूत्रार्धेन शुद्धाशुद्धयोरुपादानयोर्माययोर्- अधिष्ठातुर्निमित्तकारणस्य भेदं दर्शयति-

शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः ॥ २८ ॥

शिवः शुद्धः परमेश्वरः शुद्धे अशुद्धिरहिते अध्वनि विद्यातत्त्वभुवनाद्यात्मके मन्त्रे मन्त्रेशाद्यात्मके च कर्ता निमित्तं प्रोक्तः उदितः ।
तत्कृतं तत्त्वभुवनादिकं च समस्त मित्यर्थः ।
अनन्तः अनन्तादिको वर्गः असिते अशुद्धमायात्मके प्रभुः सृष्ट्यादिकर्ता प्रोक्त इत्यनुषङ्गः ।
अत्राऽनन्तादीनामीश्वरप्रेरणयैव कर्तृत्वमभिमतम् ।
तदुक्तमत्रैव-

ईश्वरोऽधस्त-विद्यानां पतीन् स प्रेरयत्यणून् ।
तेन प्रेरितमात्रास्ते कुर्वन्त्यधस्तनं जगत् ॥
इति ॥

तथा कैलाससंहितायां-

माया-विक्षोभकोऽनन्तो महेश्वर-समन्वयात् ।
इति ।

यद्येवं शिवस्य सर्वकर्तृत्वं न घटत इति चेत् ।
न ।
अन्तरङ्गामात्य- पुरोहितादिप्रकृतिवर्गं स्वयमेव कुर्वतो नृपतेर्बहिरात्मकल्पा ऽमात्यादि- प्रेरणेन सर्वकर्तृत्ववत् अनन्तादीन् स्वयमेव कुर्वतस्तत्-प्रेरणया च बहिः कर्त्तुः शिवस्य सर्वकर्तृत्वाविरोधात् ।
तदुक्तमत्रैव-

? सहकारिणां कर्मणामधिकारान्तं यावत् संरुणद्धि अणून् बध्नाति तच्छीलमिति सहकार्यधिकारान्तसंरोधि, कर्मणामभावे मायातत्त्वस्याप्रवृत्तेरित्यर्थः ।

यथा भूमण्डलेशेन नियुक्तः सर्वतः प्रभुः ।
तथाऽसौ कुरुते सर्व तच्छक्ति-प्रतिबोधितः ॥
इति ।

अत्र शिवप्रेरितस्याऽनन्तस्य कलादि-प्रधानपर्यन्त-तत्त्वानामेव कर्त्तृत्वम् ।
अनन्तप्रेरितस्य श्रीकण्ठस्यैव गुणादि-क्षित्यन्त-तत्त्वानां कर्त्तृत्वम् ।
भौतिकसृष्टेस्तु श्रीकण्ठप्रेरितस्य ब्रह्मणः कर्तृत्वमिति विवेकः ।
तद् यथा पौष्करे-

क्षोभकोऽत्र महातेजाः श्रीकण्ठोऽनन्तविक्रमः ॥
(पौ० ६।३०) प्रवृद्धः परमेशान ! शक्तिसम्पर्क-मात्रतः ॥
(पौ० ६।३१) गुणादि-क्षितिपर्यन्त-तत्त्वजातं यतो भवेत् ॥
इति (पौ० ६।१८)

श्रीमतङ्गे-

स्थितये सर्वभूतानां शरीराण्यसृजत् पुरा ।
स्थूलानि तद्विशिष्टानि सृष्टवान् भूतनायकः ॥
इति ।
(मा० १९।२-४)

तथा स्वायम्भुवे-

तथो(यो)द्वलितसामर्थ्याः सर्वस्य प्रभविष्णवः ।
अनन्तेशादि-विद्येशा बभूवुः कारणेच्छया ॥
तेभ्योऽमितबलाश्चान्ये तेभ्यश्चान्ये नियोगिनः (?) ।
भवन्ति विमलात्मानः सितासितफलप्रदाः ॥
तेभ्योऽपि साञ्जनाश्चान्ये पतीच्छानुविधायिनः ।
येभ्यो निखिलमुत्पन्नं जगत् स्थावरजङ्गमम् ॥
इति ॥ २८ ॥

एवमनन्तक्षोभ्यस्य मायातत्त्वस्य कार्याण्यशुद्ध-स्वरूपाणि मृगेन्द्रसूत्रेण (१०।१) दर्शयति-

ग्रन्थिजन्य-कला-काल विद्या-राग-नृमातरः ।
गुण-धी-गर्व-चित्ताक्ष-मात्राभूतान्यनुक्रमात् ॥ २९ ॥

यथायोग्यक्रमाद् ग्रन्थेः मायायाः अनन्तक्षुब्धायाः जन्यानि साक्षात् परम्परया च कार्याणि ।
श्रीमतङ्गे (कलातत्त्वपटले २)-

क्षोभितोऽनन्तनाथेन ग्रन्थिर्मायात्मको यदा ।
तदा स्वेन विकारेण तनो(करो)ति विपुलं जगत् ॥

अत्राऽयमुत्पत्तिक्रमः-मायातत्त्वात् प्रथमतः कलाशब्दस्याऽर्थभूतयोः कला-नियति-नाम्नोस्तत्त्वयोः कालतत्त्वस्य च नृशब्देनोक्तस्य च पुंसः पुम्प्रत्ययहेतोस्तत्त्वविशेषस्य चतुर्णां तत्त्वानां साक्षादभिव्यक्तिः ।
कलातत्त्वात् तु विद्या-रागतत्त्वयोर्मातृ शब्दार्थभूतस्य प्रधानतत्त्वस्य त्रयाणां तत्त्वानामभिव्यक्तिः ।

श्रीकण्ठ-क्षोभितात् प्रधान-तत्त्वाद् गुणशब्दार्थानां सत्त्वरजस्तमसामभिव्यक्तिः ।
तेभ्यो धी-शब्दार्थस्य बुद्धि- तत्त्वस्याऽभिव्यक्तिः ।
बुद्धितत्त्वाच्च गर्वशब्दवाच्यस्य तैजस- वैकारिकभूतादिरूपेण त्रिविधस्याऽहङ्कार-तत्त्वस्याऽभिव्यक्तिः ।
तैजसादहङ्कारात् चित्तशब्दवाच्यस्य मनसश्च अक्षरशब्द-वाच्यानां ज्ञानेन्द्रियाणां च समुद्भवः ।
वैकारिकादहङ्कारात् कर्मेन्द्रियाणामुत्पत्तिः ।
भूतादिशब्दवाच्यादहङ्कारात् मात्राशब्दोद्दिष्टानां तन्मात्राणां तत्त्वानामुद्भवः ।
तन्मात्रेभ्यः सकाशाद् भूतानां पञ्चतत्त्वानामुत्पत्तिः ।
अमादनुक्रमात् एतान्येकत्रिंशत्तत्त्वानि अनन्तेशादिभिर्ग्रन्थितत्त्वतः साक्षात् परम्परया च अभिव्यक्तानीति ।
अत्र सम्मतयो बहुलत्वान्न लिखिताः ।
अस्याऽशुद्धस्याऽध्वनः परशक्ति-नाद-बिन्दु-सदाशिव-विद्या-रूपः पञ्चस्कन्धः शुद्धो व्यापकत्वेन संस्थितः ।
तत्र परमकारणं महामायारूपः सूक्ष्मो नादः कलां व्याप्नोति ।
इन्धिकादि-पञ्चकलोपेतः स्थूलो नादः काल-नियति-विद्या-राग-पुरुष-रूपाणि तत्त्वानि व्याप्नोति ।
निवृत्त्यादिकला-चतुष्टय-सहितो बिन्दुश्चतुग्रन्थिरूप-प्रधान-गुण- बुद्ध्यहङ्कारतत्त्वानि-व्याप्नोति ।
एतदन्तर्गतमहङ्कारतत्त्वं मनसा सह ज्ञानेन्द्रिय-कर्मेन्द्रियात्मकं करणदशकं व्याप्नोति ।
तद्बिन्द्वन्तर्गतं बुद्धितत्त्वं धर्माधर्मादिभावांस्तदुपादानानि प्रत्ययांश्च व्याप्नोति ।
सदाशिवनाथः पृथिव्यादि-तन्मात्रपञ्चकाधिष्ठातृ- सद्योजातादि-पञ्चमन्त्रतनुर्भूत्वा तन्मात्रपञ्चकं व्याप्नोति ।
मन्त्रेशास्तु सूक्ष्म देहारम्भक-भूतविशेषान् व्याप्नुवन्ति ।
मन्त्रास्तु स्थूलपृथिव्यादीनि व्याप्नुवन्ति ।
तथाच विद्याविद्यश्वरो-भयात्मको विद्यास्कन्ध एकः ।
सदाशिवस्कन्धो द्वितीयः ।
बिन्दुस्कन्धस्तृतीयः ।
नादस्कन्धश्चतुर्थः ।
कारणस्कन्धः पञ्चम इति पञ्चस्कन्धः शुद्धाद्धा इति मन्तव्यमिति ।
तथा मृगेन्द्रे ( १३।१९६-१९७-१९८-१९५ )-

नादः सूक्ष्मः कलाकाल-रागयुग्मे सपूरुषे ।
स्थूलः पञ्चकलो नादः पञ्चतत्त्वाश्रयो मुने ! ॥
प्रधानादि-चतुर्ग्रन्थि-निधिर्बिन्दुश्वतुष्कलः ।
गर्वे मनोमुखा देवा बुद्धौ भावादयः स्थिताः ॥

पञ्चमन्त्रतनुर्देवः स्थितस्तन्मात्रपञ्चके ।
सूक्ष्मभूतेषु मन्त्रेशा मन्त्राः स्थूलेषु संस्थिताः ॥
विद्या पञ्चाणुदेहश्च बिन्दुर्नादोऽथ कारणम् ।
पञ्चस्कन्धः परो मागः ॥
इति

अस्य च प्रेरककाण्डत्वेन भोग्य(क)भोजक-काण्डयोर्व्याप्तिर्युज्यते ।
अचिन्त्ये-

चतुर्विंशतिसङ्ख्यातमशुद्धं भोग्यकाण्डकम् ।
ततो हि मिश्रतत्त्वं च भोक्तृकाण्डं तु सप्तकम् ॥
प्रेरकं शुद्धतत्त्वं च स्वतन्त्रं तच्छिवस्य तु ।

प्रेरककाण्डं शुद्धम् ; नादादिपञ्चतत्त्वेन वैखर्यादिप्रेरकत्वाच्च तद्भुवनवासिनां सर्वज्ञत्व- सर्वकर्तृत्वोद्धलनहेतुत्वाच्चिद्रूपतया चिद्रूपकारितया च (ख) ।
अत्र प्रेरितप्रकारः सूक्ष्मा वृत्तिर्नादः, पश्यन्ती वृत्तिर्बिन्दुः, मध्यमा वृत्तिरक्षरं, वैखरी वृत्तिर्मातृका इत्युच्यते ।
सा च वैखरी द्विधा- स्वश्रोत्रग्राह्या, परश्रोत्रग्राह्या चेति ।
एता वृत्तयः क्रमेण शिवादिपञ्चतत्त्वसम्बन्धिन्यः ।
आसां स्थानानि क्रमेण वस्ति-नाभि-हृद्- ग्रीवास्यानि पञ्च ।
तदुक्तं सिद्धान्तरहस्यसारे-

विद्यादि-पञ्चतत्त्वानां वागिन्द्रियसहायता ।
वैखर्यादिविभेदश्च भोगकाले नॄणां भवेत् ॥
नादः सूक्ष्मो भवेद् बिन्दुः पश्यन्ती मध्यमाऽक्षरम् ।
मातृका वैखरी ज्ञेया नादाद्यास्तु शिवादयः ॥
कण्ठोष्ठ्यमीश्वरीतत्त्वे विद्यायां वैखरी स्थिता ।
सुक्ष्मादयो वस्ति-नाभि-हृद्-ग्रीवास्येषु संस्थिताः ॥
वैखर्यन्यश्रोत्रगता कण्ठोष्ठ्यं स्वश्रुतिं गता ।
सविकल्पा मध्यमा स्यात् पश्यन्ती निर्विकल्पयुक् ॥
आसां सूक्ष्मा कारणं स्याद् ब्रह्मघोषं तदुच्यते ।

भोक्तृकाण्डं शुद्धाशुद्धम् ।
तद्वासिनां पुम्मलावृतानां किञ्चिज्ज्ञत्वाद्युपोद्वलन-हेतुत्वात् शुद्धम् ।
चिद्रूपकारितया अशुद्धं भोग्यकाण्डकम् ।

ततो हि मिश्रतत्त्वं च भोक्तृकाण्डं तु सप्तकम् ।
प्रेरकं शुद्धतत्त्वं च स्वतन्त्रं तु शिवस्य तु ॥

तथा-भोक्ता भोग्यं भोजयिता मन्तव्यं त्रिविधं त्विदम् ।
इति ।

अत्र प्रेरककाण्डं शुद्धम्; नादादिपञ्चकेन वखर्यादिप्रेरकत्वाच्च, तद्भुवनवासिनां सर्वज्ञत्वात् सर्वकर्त्तृत्वाद् दुःखादि-रहितत्वाच्च ।
भोक्तृकाण्डं शुद्धाशुद्धम् ; तद्वासिनां किञ्चित्- सर्वज्ञत्वेन शुद्धत्वं, दुःखादि-योगेनाऽशुद्धत्वं च ।
भोग्यकाण्डमशुद्धम् ।
तद्वासिनां सदा किञ्चिज्ज्ञत्वाद् दुःखादि- युक्तत्वाच्च ।
तद् यथा-

अशुद्धं तु चतुविंशच्छुद्धाशुद्धं च सप्तधा ।
नित्यशुद्धं च पञ्चैते षट्त्रिंशत् तत्त्वरूपकम् ॥
इति ॥ २९ ॥

एवं माया-पाश-लक्षणानन्तरं कर्मरूपं प्रञ्चमं पाशं विश्वसारोत्तर-सूत्रेण निरूपयति-

धर्माधर्मात्मकं कर्म तच्च त्रिविधमर्थतः ।
जात्यायुर्भोगदं येन नामिश्रं पच्यते क्वचित् ॥ ३० ॥

कर्म धर्माधर्मात्मकं धर्मश्चाधर्मश्च धर्माधर्मौ, तौ आत्मा स्वरूपं यस्य तद् धर्माधर्मात्मकम् ।
तच्च कर्म अर्थतः फलतः त्रिविधं त्रिप्रकारम् ।
तदेवाह-जात्यायुर्भोगदमिति ।
जातिर्देवत्वादिः ।
आयुः शतवर्षेष्वपि जीवनादि ।
भोगः सुखदुःखानुभवः ।
तानि ददातीति जात्यायुर्भोगदम् ।
येन हेतुना ततो हेतोः जातिप्रदमायुः प्रदं भोगप्रदमिति त्रिविधं फलदमित्यर्थः ।
तथा योगपातञ्जलसूत्र-

सति मूले तद्-विपाको जात्यायुर्भोगा इति ।
एते जात्यादयोऽप्युत्तमादि- क्रमेण त्रिविधा भवन्ति ।
तथा श्रीमतङ्गे (धर्माधर्मनिर्णयपटले ६-८)-

जातिभेदाद् रूपभेदाच्छौर्य विज्ञानभेदतः ।
सौभाग्यभेदतश्चापि दौर्भाग्येन च लक्ष्यते ॥
एवं मध्योत्तमाद् भोगात् कनिष्ठाच्चैव भेदतः ।
न्यूनं न्यूनतमानि स्युः श्रेष्ठं श्रेष्ठतमानि च ॥
पशूनामुपसर्पन्ति विभागांस्तेष्वथोच्यते ॥
इति ।

तच्च त्रिविधमपि कर्म अमिश्रं परस्परसम्बन्ध-रहितं क्वचिदपि स्थले न पच्यते न पक्वं क्रियते ।
फलदानं पाक-शब्दार्थः ।
जात्यायुर्भोग-प्रदत्वेन तद्देशवर्त्तिनामपि

विचित्राणां विनश्वराणां प्रत्यात्मनियतानां भवान्तरभाविनां च तत्तज्जातिदेहेन्द्रियार्थानां च कारणतया दृक्-गुण-कर्मसिद्धिरुक्ता ; कारणासम्भविनां गुणानां कार्येष्वनुपलब्धेः ।
यथा मृगेन्द्रे ( ८।२)-

तस्य प्रदेशवर्त्तित्वाद् वैचित्र्यात् क्षणिकत्वतः ।
प्रतिपुन्नियतत्वाच्च सन्ततत्वाच्च तद्गुणम् ॥
इति ।

जातिवैचित्र्यं तावत् प्रसिद्धम् ।
इन्द्रियवैचित्र्यम्-यथा परावृत्त- जिह्वावत्त्वं गजादीनाम्, चक्षुःश्रवत्वं भुजङ्गानाम्, अनालोकालोकित्वमुलूकानाम् ।
पुरुषाणां च केषाञ्चित् विपुलदृशामपि अदर्शनम्, अन्धप्रायाणामपि सूक्ष्मार्थदर्शित्वमिति ।
विषयवैचित्र्यं तु यथा-जलधरनिपतित-जलकणोपजीवित्वं चातकानां मयूराणां च ।
अवकराहारत्वं कुक्कुटादीनाम् ।
अवकरः सङ्करः, सङ्करोऽवकरस्तथा इत्यमरः ।
कमलकिञ्जल रसास्वादनं मधुकर-सारसानामित्याद्यहनीयम् ॥ ३० ॥

अथ मृगेन्द्र सूत्रेण (८।३-४) सार्धश्लोकद्वयेन कर्मणोऽपि विशेषानाह-

कर्म व्यापारजन्यत्वाददृष्टं सूक्ष्मभावतः ।
जनकं धारकं भोग्यमध्यात्मादि-त्रिसाधनम् ॥ ३१ ॥

व्यापार-जन्यत्वात् व्यापारेण यत् जन्यं तत् व्यापारजन्यं तस्य भावः तत्त्वं, तस्माद्वेतोः, कर्म क्रियत इति कर्म सूक्ष्मभावतः सूक्ष्मस्य भावः तस्मात् सौक्ष्म्याददृष्टं दृष्टं न भवतीत्यदृष्टम्, अतीन्द्रियमित्यर्थः ।
तथा मतङ्गे (विद्यातत्त्वपटले ६१।६२)-

लोकेऽपि सुप्रतीतं स्याद् द्विविधं कर्म कर्मिणाम् ।
क्रियावसानिकं दृष्टमदृष्टं तत्र सङ्क्षये ॥
इति ।

जनकं निमित्ततया देहेन्द्रियभुवनादेः, यतः कर्मफलोपभोगायैव तत्तत्-तनुकरणादियोगोत्पादः ।
धारकं च तस्यैव प्रतिनियतकालस्य दातृत्वेन ।
-भोग्यं च तत्फलद्वारेण ।
किञ्च-अध्यात्मादि-त्रिसाधनम् ।
अध्यात्मादीनि त्रीणि साधनानि यस्य तत् तथा ।
तत्राऽध्यात्मशब्देनाऽन्तःकरण-सन्निकर्षेण आत्मानमधिकृत्य यद् वर्त्तते तन्मतिरित्युच्यते ।
आदिग्रहणात् वाक्-कायक्रिये च गृह्येते ।
एवं च मनो वाक् कायक्रिया

च साधनं यस्य तद् यथाक्रमम् इष्टदेवतानुध्यान-नमस्कार- स्तोत्रपाठ-यजनादिरूपं धर्मात्मकं कर्म ।
परस्वहरणेच्छा- तत्प्रवाद-तदुपघातादयो यथासङ्ख्यं मनो वाक् काय-क्रिया साधनं यस्य तत् अधर्मात्मकं कर्म ।
यथाऽचिन्त्ये-

जायते पुण्यपापौ तौ मनोवाक्-कायकर्मभिः ।
तन्मनः-कर्म चेत्याहुः पुंसश्चित्ता पराधतः ॥
सत्यज्ञानोपदेशश्च प्रियमप्रियमन्यतः ।
अनित्यमज्ञानरतमेतद् वाक्कर्म चोच्यते ।
दानाहिंसापरश्चैव हिंसाचर्या-सुरावशः ॥
विषये सक्ति-रत्यादि कायिकं समुदाहृतम् ।
इति ।

यद्वा-अध्यात्म-भूत-दैवानि त्रीणि हेतुतया अधिकृत्य अध्यात्ममधिभूतमधिदैवतं च यत् सुख-दुःखमुत्पद्यते तस्य त्रिविधस्यापि साधनम् ।
कर्मवशाद्धि चेतः-प्रसादाद्युद्वेगादि वा आध्यात्मिकं सुखदुःखमुत्पद्यत इति ।
आधिभौतिकं च अङ्गनासम्भोग गज-सिंहाद्यमिभवरूपम् ।
आधिदैविकं च अभिमतानभिमत- वर्षातपादिकृतम् ।
तथा सुप्रभेदे-

अध्यात्ममधिभूतं च आधिदैविकमेव च ।
त्रिविधं दुःखमाप्नोति तेषामाध्यात्मिकं शृणु ॥
अध्यात्मिकं द्विधा प्रोक्तं शरीरं मानसं तथा ।
गुल्मोऽर्शमतिसारं च ज्वरशूलाद्यनेकधा ॥
नर-मृग-पिशाचैश्च गो-यक्ष-चोर-राक्षसैः ।
प्रोक्तं शरीरजं दुःखं मानसं शृणु सुव्रत ! ॥
शोकासूयावमानेर्ष्या-मात्सर्यादिभिरेव च ।
एवं मानसमाख्यातमाधिभौतिकमुच्यते ॥
शीतोष्णवातवर्षैश्च विद्युदशनिमारुतैः ।
एतैर्भूतैस्तु यद् दुःखमाधिदैविकमुच्यते ॥
गर्भजन्मजराऽज्ञानमृत्युनरकजं तथा ।
प्रोक्तं दुःख-त्रयं ह्येवमेषु स्थानेषु भुज्यते ॥
इति ॥ ३१ ॥

तत् सत्यानृतयोनित्वाद् धर्माधर्मस्वरूपकम् ।
स्वापे विपाकमभ्येति तत् सृष्टावुपयुज्यते ॥ ३२ ॥
मायायां वर्तते चान्ते नाभुक्तं क्षयमेति च ॥ ३३ ॥

तत् कर्म सत्यानृत-योनित्वात् सत्यं च अनृतं सत्यानृते, ते योनिः प्रकृतिर्ययोस्तयोर्भावस्तत्त्वं तस्माद् धर्माधर्मस्वरूपकम् ।
सत्य-प्रकृति कर्म धर्मरूपम्, असत्य-प्रकृति कर्म अधर्मरूपमित्यर्थः ।
तादृशं कर्मस्वापे सर्वभूत-संहारकाले विपाकं परिणतिम् अभितः समन्तात् एति प्राप्नोति ।
तत् तादृशं कर्म तद्विपाका नुगुणं पक्वं कर्म सृष्टौ सृष्टिकाले उपयुज्यते उपयोगमेति ।
सृष्टिसमनन्तरमेवाऽस्य यथायोग्यं कलादि-क्षित्यन्तं भोगः प्रवर्त्तत इत्यर्थः ।
तदुक्तमत्रैव-

इति मायादिकालान्त-प्रवर्तकमनादिमद् ।
(मृ० ८।६)

अन्ते संहारकाले च मायायां मायातत्त्वे वर्त्तते ।
दहेजन्मजनकं (? १४) मनोवाक्कायरूपेण स्थूलकर्मेत्युच्यते ।
अनेन कर्म-त्रैविध्यमुक्तम् ।
तथा सिद्धान्तसारावल्यां-

वाग्धीकायात्मसाध्यं फलजननकरं कर्म धर्मादिभोग्यम् ।
स्वापे चायाति पाकं स्थितिमति-सहितं भोगदं स्यात् कलान्तम् ।
इति ॥

शिवधर्मे-

अधर्मभेदा विज्ञेयाश्चित्तवृत्ति-प्रभेदतः ।
स्थूलाः सूक्ष्माः सुसुक्ष्माश्च कोटिभेदैरनेकधा ॥
इति ।

अभुक्तं भुक्तं न भवतीत्यभुक्तं कर्म क्षयं विनाशं नैति ।
पौष्करेऽप्येवमुक्तम्-

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
इति ।

चकाराद् दीक्षाज्ञानादौ नाशकेऽसति ।

प्रायश्चित्तेऽथवा भोगे युगपद वा क्रमेण वा ।

विनश्वरं च विज्ञेयम् ॥
इति ।

एवं क्रमेणोक्तानि मल-तिरोधानशक्ति-महामाया-माया-कर्माणि पञ्चापि पुरुषबन्धकतया अस्मिन् शास्त्रे पाशपञ्चकत्वेन प्रसिद्धानि ।
यथा श्रूयते-

मलः कर्म महामाया-मायोत्थमखिलं जगत् ।
तिरोधानकरी शक्तिः पाशत्वेनाऽर्थपञ्चकम् ॥
इति ॥ ३२-३३ ॥

इत्थं चतुर्दशश्लोकैः पाशानां स्वरूपमुक्त्वा तदधीनं पशोरवस्थात्रय-स्वरूपं स्वायम्भुव-सूत्रेण दर्शयति-

अथात्माऽविमलो बद्धः पुनर्मुक्तश्च दीक्षया ।
विज्ञेयः स त्रिधावस्थः केवलः सकलोऽमलः ॥ ३४ ॥

अत्रात्मशब्देन अत सातत्यगमने इति धातुनिष्पन्नेन जीवात्मा उच्यते ।
स आत्मा केवल इति सकल इति विमल इति च त्र्यवस्थः अवस्थात्रय-युक्तः ।
अविमलः विमलो न भवतीत्यर्थः, अत्यन्त-मलिन इत्यर्थः ।
अयं तु केवलावस्थः ।
बद्धः कर्मानुरक्तः कलादिबन्धेन बद्धः ।
अयं तु सकलावस्थः ।
पुनश्च दीक्षया दीक्षाख्येन साधनेन मुक्तः कलादिबन्धान्मुक्तः ।
अयं च अमलः शुद्धावस्थ इति विज्ञेयः बोद्धव्यः ।
तथा सुप्रभेदे-

त्र्यवस्थः पुरुषः प्रोक्तः शुद्धः सकलः केवलः ।
शुद्धावस्थानमात्मानं शिवरूपमिति स्मृतम् ॥
इति ॥ ३४ ॥

पूर्वत्र केवलः सकलोऽमल इत्युक्तम् ।
तत्र केवलस्य प्रथममुद्दिष्टत्वात् तदनुसारेण प्रथमं केवलस्य स्वरूपं सूत्रान्तरेण दर्शयति-

अचेतनो विभुर्नित्यो गुणहीनोऽक्रियोऽप्रभुः ।
व्याघातभागशक्तश्च शोध्यो बोध्योऽकलः पशुः ॥ ३५ ॥

अत्र अचेतनः चेतनारहितः, अचेतनत्वं केवलस्य प्रकृति-चैतन्यं ज्ञानक्रियारूपमात्मनो नास्तीति ।
अत्र तु ज्ञानमात्रं विवक्षितम्, उत्तरत्र क्रियानिषेधात् ।
तच्चैतन्यं मलेन सन्निरुद्धत्वात् परार्थेषु न प्रवर्त्तत इत्यचेतन इत्यर्थः ।
न पुनरयं लोष्टवद् अचेतनः, भोगावस्थायां तस्य चैतन्याभिव्यक्तिश्रुतेः, सत एवाऽभिव्यक्तेरसतोऽभिव्यक्त्यसम्भवात् ।
चैतन्यमत्र भोग्यार्था (?-११) वभासात्मकमेवाऽभिव्यज्यते ; नतु स्वभावात्मकमपि, तस्य मलोपरोधासम्भवात् ।
नित्यव्यापक-स्वयञ्ज्योतिः- स्वरूपत्वात् ।
एतच्च प्रपञ्चितं तत्त्वसङ्ग्रहवृहट्टीकायाम् ।

यद्येवं विषय-प्रकाशात् पूर्वमपि कस्मान्न प्रकाशते ? क एवमाह ? किन्तु परप्रकाश-स्वभावात्मकत्वात् असति परप्रकाशे सुषुप्त्यवस्थायामिवाऽकिञ्चित्करस्वरूपमात्रनिष्ठत्वेन व्यवहर्त्तुमशक्यमसत्कल्पमेव ।
सर्वज्ञत्वाद्यभिव्यक्तौ तु सम्प्राप्त- चित्क्रिया-प्रसरं सर्वार्थ-द्योतनात् प्रकाशत एव ।

यद्येवं स्वप्रकाशात्मनस्तत्स्वरूपस्याऽनावरणात् किमस्य प्रतिबद्धमर्थविषयं ज्ञानं, बहलान्धकार-नेत्रस्यैव पुंस इति चेत् ? सत्यम् ।
तदप्यर्थस्य ज्ञानं तस्य स्वरूपमेव; तस्य चावृतत्वान्न दोष इति ।

विभुर्व्यापकः ।
यत्र यत्र व्यञ्जकं कार्य-करणादि, तत्र तत्राऽस्य चैतन्याभिव्यक्तेः व्यापकत्वम् ।
नित्यः उत्पत्ति-रहितः ।
अवस्थाविशिष्टस्याऽनित्यत्वेऽपि स्वकारणोत्पन्नत्व- रूपस्याऽनित्यत्वस्याऽभावादस्य नित्यत्वम् ।
गुणहीनः भोगसिद्धर्थमस्याङ्गानिगुणाः कलादयः, तैर्हीनो गुणहीनः ।
अक्रियः क्रियारहितः ।
करण-व्यापारः क्रिया, नेयमात्मनः सम्भवति ।
तस्या अना (तदा)त्मकत्वेन जडवस्तुधर्मत्वात्, अतस्तत्-क्रियायां शक्तत्वं कर्तृत्वमस्य निरुद्ध-क्रियाशक्तित्वात् नास्तीत्यक्रियः ।
अप्रभुः प्रभुत्वं सकलकारकवशित्वमैश्वर्यम्, तदस्य मलनिरुद्धत्वान्नास्तीत्यप्रभुः ।
नचाऽक्रियत्वेनाऽस्य पौनरुक्त्यम् ; तत्र (क) स्वतन्त्रकर्तृत्वस्य निषेधः, अत्र (ख) हेतुकर्तृत्वस्य निषेध इति भेद-सम्भवात् ।
व्याघातभाक् शिवशक्ति- तिरस्कारो व्याघातः तिरोभावः, तं भजत इति व्याघातभाक् ।
अशक्तः स्वयं मलनिरुद्धत्वात् इन्द्रियमर्थेषु प्रवर्त्तयितुं न शक्नोतीत्यशक्तः ।
शोध्यः एतस्यामप्यवस्थायां शिवेन मलतः शोध्यः ।
बोध्यः मलेन मुकुलीकृत-शक्तिजालः सन् विकसित-शक्तिजालः कार्यः ।
क एवं व्याख्यायत इत्यत्राह-अकलः ।
कलादिनाऽपरिभूतत्वादकलः ।
पशुः पशुत्वयोगात् पाशवत्त्वाच्च पशुः ।
ननु व्याघातभाक्त्व-शोध्यत्वादयो विरुद्धाः कथमेकस्मिन्नात्मनि सम्भवतीति चेत् ।
न ।
भावित्वात् शोध्यत्वादीना मप्यविरोधात् ।
अत्र विभुत्वादिकं केवलावस्था-वर्णने न विवक्षितम्, विभुत्व- नित्यत्वयोर्मुक्तस्यापि सम्भवात् ।
शोध्यत्व-बोध्यत्वयोः सकलावस्थस्यापि सम्भवाच्च ।
तस्मादत्र विशेषणतया विभुत्वादिकमुक्तम् ।
सुप्रभेदे च- केवलावस्थास्वरूपमे (ग)वमुक्तम् ।
तद् यथा ।

अमूर्त्तः स पशुर्नित्यो निर्गुणो निष्कियोऽप्रभुः ।
मायोदरगतो व्यापी भोगोपायेष्वशक्तितः ॥
स केवलस्त्विति प्रोक्तः स्वापवान् मलबन्धनात् ॥ ३५ ॥

मलाधीनमिदम् अवस्थान्तरम् आत्मनो वाच्यम्, तच्च न सम्भवति ।
मलस्य शशविषाणप्रायत्वादित्याशङ्क्य सूत्रान्तरात् साधयति-

यद्यशुद्धिर्न पुंसोऽस्ति सक्तिर्भोगेषु किं-कृता ।
शुद्धे पुंसि न तद्भोगो जाघटीति विपश्चितः ॥ ३६ ॥

पुंसः पुरुषस्य अशुद्धिः मलः यदि नास्ति तदा अशुद्ध्या विना शुद्धस्य पुंसोऽपि विषयेषु अनित्याशुचि-दुःख स्वभावकेषु भोगेषु या सक्तिः सा किं-कृता केन कारणेन कृता ? नहि शुद्धस्य निरञ्जनस्याऽशुद्धेषु सक्तिर्भवति ।
अशुद्धिवादिनापि रागाभ्युप-गमात् रागेणैव सक्तिरस्तु किमशुद्ध्येति चेत् ? सत्यम् ।
रागस्याऽशुद्धि-सहितस्यैव सुखदुःखादि-भोगासक्ति-कार्यजनकत्वात्, सामग्र्या एव कार्यजनकत्वात् ।
रागमात्रस्य सामग्रीत्वाभावात् ।
तर्हि भोगाभ्यास एव सक्तिहेतुरस्तु, किमशुद्ध्येति ।
तदुक्तम्-

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाऽभिवर्द्धते ।
इति ।
(मनुसंहिता २।९४)

अत आह-शुद्धे पुंसीति ।
पुंसि पुरुषे शुद्धे सति तद्भोग एवं न सञ्जाघटीति युक्त्या न युज्यते, किमु तदभ्यासः ।
कस्माच्च सक्तिरिति ।
विपश्चितः विद्वांस इति ऋषीणां सम्बोधनमेतत् ।
अयं भावः-भोगो हि सञ्ज्ञानरूपा चिच्छक्तिव्यक्तिरिन्द्रियजन्या च (?-१२) शुद्धगोचरोपरक्तत्वात् अशुद्धाया अस्याः (?-१३) शुद्धत्वाभिव्यक्तेः (?-१४) शुद्धेनैव सम्बन्धो वक्तव्यः ।
नहि शुद्धस्य निरञ्जनस्य शक्तिव्यक्तिरशुद्धा दृष्टा, शिवेनैकान्तिकत्वात् ।
तस्माद् भोगासक्ति-कारणतया अशुद्धभोगघटकतया चानाद्यशुद्धे-रावश्यकत्वात् तदधीनमवस्थानिरूपणामात्मनो नानुपपन्नमिति ॥ ३६ ॥

ननु आत्मनश्चैतन्यमेव नास्ति, यन्निरोधादस्य अवस्थाभेदसिद्धिरित्याशङ्क्य तच्चैतन्य-मात्मन्यस्तीति मृगेन्द्रसूत्रद्वयेन (२।५) साधयति-

चैतन्यं दृक्क्रियारूपं तदस्यात्मनि सर्वदा ।
सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ ३७ ॥
सदप्यभासमानत्वात् तन्निरूद्धं प्रतीयते ।
वश्योऽनावृतवीर्यस्य स्रोत एवाऽविमोक्षणात् ॥ ३८ ॥

विना सम्भवतीत्याह विद्या-दर्शित-गोचरः ।
रागेण रञ्जितस्याऽपि बुद्ध्यादिकरणैर्युतः ? ॥ ३९ ॥

विद्यया दर्शितः फलभूतो गोचरो यस्य स विद्यादर्शित-गोचरः, परम्परा-गोचर इति यावत् ।
अत्र साक्षादव्यवधानात् पुरुषस्य शब्दाद्यनुरञ्जिताः सुखदुःख-मोहरूपा फलभूताः साक्षाद्-गोचराः, पारम्पर्येण गोचराः शब्दादयः ।
अनेनात्मनो विषयावभासकत्वांशे विद्याया उपकारो दर्शितः ।
मृगेन्द्रे (१०।१०)-

तेन प्रकाशरूपेण ज्ञानशक्ति-प्ररोचिना ।
सर्वकारक-निष्पाद्यमवैति विषयं परम् ॥
इति ।

ननु एवमुपलब्ध-गोचरोऽपि न रागं विना तदुपादानाय प्रवर्त्तत इति ।
अत आह-रागेण रञ्जितस्याऽपीति ।
रागेण रागतत्त्वेन रञ्जितः, दुःखमोहात्मकमपि (क) भोग्यं सुखत्वेन प्रपद्यत इत्यर्थः ।
सक्ति- जनकत्वं च रागतत्त्वस्यैव सम्भवति ।
वीतरागस्याऽतिमलीमसे विषये भोगानुपपत्तेः ।
तदुक्तं तत्त्वसङ्ग्रहे-

यज्जनिताभिष्वङ्गे भोग्याय नरिक्रिया स रागोऽत्र ।
इति ।

अनेनात्मन सक्तिमत्त्वांशे रागतत्त्वस्योपकारो दर्शितः ।
एवमनेन तत्त्वत्रयेण जनित-प्रवृत्तिः पुमान् पुनर्बुद्ध्यादिभिः करणैर्भोग्यं निष्पादयतीत्याह-बुद्ध्यादि-करणैर्युत इति ।
बुद्ध्यादिभिः करणैर्युतः सहितश्च ।
भवतीति शेषः ।
अयमर्थः-प्रधानस्य गुणानां चाऽऽपूरकत्वेन बुद्ध्याद्युपकारकत्वम् ।
तन्मात्राणां भूतानां चाधिष्ठानत्वेन कालनियत्योश्च प्रवृत्तिं प्रति प्रयोजकत्वम् ।
कालो हि प्रवृत्तमेव पुरुषं त्र्युट्यादिभिः कलयति ।
नियतिरपि प्रवृत्तमेव पुरुषं यत्र कर्मफलं तत्र रागं जनयंस्तन्नियमयतीति ।
तदुक्तं तत्त्वसङ्ग्रहे (४)-

अविभुत्वात् करणानि तु कार्यमधिष्ठाय चेष्टन्ते ।
इति ॥ ३७-३९ ॥

एवमर्जित-भोग्यस्याऽऽत्मनो भोगस्थानं सूत्रान्तरेणाऽऽह-

मायाद्यवनि-पर्यन्ते तत्त्वभूतात्म-वर्त्मनि ॥ १९ ॥

? पूर्वोक्तमृगेन्द्र-सूत्रद्वयस्य व्याख्या मातृकायां नोपलभ्यते ।
अस्य च सूत्रस्य पादद्वयं नैव दृश्यते ।
परन्तु व्याख्या- दर्शनेनाऽनुमीयतेऽव पादद्वयं लिपिकर-प्रमादात् पतितमिति ।
अतीऽत्र चिह्नित-पादद्वयं सूत्रत्वेन निवेशितम् ।

भुङ्क्ते तत्र स्थितान् भोगान् भोगैकरसिकः पुमान् ॥ ४० ॥

मायादिकं च तत् आवनि-पर्यन्तं च मायाद्यवनिपर्यन्तं तस्मिन् ।
वर्त्मनो विशेषणमिदम् ।
माया आदिर्यस्येति अतद्गुणसञ्ज्ञानो बहुव्रीहिः ।
तथाच कलादिकस्यैव ग्रहणम् ।
न तु मायायाः ; तत्र भुवनाभावेन भोगासम्भवात् ।
तत्त्व-भूतात्म-वर्त्मनि तत्त्वानां भूतानाम् आत्मनां च वर्त्म तत्त्वभूत पञ्चकं तस्मिन् ।

अत्र तत्त्वशब्देन तत्त्वस्य भुवनानि लक्षणया उच्यन्ते ।
कलोच्चलित- चैतन्य इत्यत्रैव तत्त्ववर्त्मनः प्रोक्तत्वाद् भूतशब्देन स्थूलगुण-योगतो गौण्या वृत्त्याऽत्र कलादि-क्षित्यन्तानि भुवनजानि भोगसाधनानि भौवन- स्थूलशरीराण्युच्यन्ते ।
आत्मशब्देन आत्मनः साक्षादुपकारकत्वाद् गङ्गायां घोष इतिवद् अत्यन्तसन्निकर्षलक्षणया भावप्रत्यय-सन्तान उच्यते ।
भावा अष्टौ धर्मादयः ।
प्रत्ययास्तु चत्वारः सिद्ध्यादयः ।
भुवन-भौवन-देहभाव-प्रत्ययात्मके त्रिविधेऽपि वर्त्मनीत्यर्थः ।
भावप्रत्ययार्थ उक्तः-

भावयन्ति यतो लिङ्गं तेन भावाः प्रकीर्तिताः ।
प्रत्याययन्ति क्षेत्रज्ञं तेन ते प्रत्ययाः स्मृताः ॥
इति ।

तत्र त्रिविधेऽपि वर्त्मनि स्थितः भोग्यभोक्तृत्वेन स्थितो भूत्वाप्यस्मिन् पुमान् पुरुषः भोगान् भुङ्क्ते प्राप्नोतीत्यर्थः ।
अत एवाऽयमीश्वरेण बलाद् भोगे नियुक्तः सन् अनिछन्नपि कदाचित् पशुभोगं भुङ्क्ते ।
तथा-

येन यत्र च भोक्तव्यं कृतं कर्म शुभाशुभम् ।
स तत्र रज्ज्वा बद्ध्वैव बलाद् दैवेन नियते ॥
इति ।

अपि चास्य भोगेच्छाविरह एव नास्तीत्याह-भोगैकरसिक इति ।
भोगेष्वेकेषु रसस्तन्निष्ठोऽभिलाषो यस्य स तथा ।
मलिमसमपि भोगं भुञ्जानो न विरज्यति, न च तृप्यतीत्यर्थः ।
अनेन च रागस्य भोगकालेऽपि व्यापारोऽस्तीति सूचयति ।
विद्यायाश्च करणत्वाद् भोग-निष्पत्तौ व्यापारो लब्ध एव, कर्त्तुः करणं विना कर्मणि व्यापारायोगात् ।
विद्या-व्यतिरिक्तस्य विषये व्यापारायोगादिति ।
एतत् त्रिविध-वर्त्मन्यपि भोक्तृत्वं मतङ्गे (पुम्प्रधानेश्वरसाधनपटले १०४)ऽप्युक्तम्-

तदुद्वलितवीर्येण भुङ्क्ते प्रकृतिजान् गुणान् ॥
इति ।

तत्त्वसङ्ग्रहेऽपि-

पर्यटति कर्मवशतो भुवनज-देहेष्वयं च सर्वेषु ।
इति ॥ ४० ॥

अथ को (क) भोगः कुतश्च वा भोग इति प्रश्नद्वयस्योत्तरं सूत्रान्तरेणाह-

भोगोऽस्य वेदना पुंसः सुखदुःखादिलक्षणः ।
तां समर्थितचैतन्यः पुमानभ्येति कर्मतः ॥ ४१ ॥

अस्य पुंसः पुरुषस्य भोगः भोगो नाम वेदना संवित्तिरनुभवः ।
स च भोगः सुखदुःखादि-लक्षणः ।
आदिशब्देन मोहो गृहीतः ।
सुखादयो लक्षणानि यस्य स सुख-दुःखादि-लक्षणः, सुखदुःखादिभिर्विषयैरुपरक्तत्वात् ।
सुख-वेदना दुःख-वेदना मोह- वेदना चेति त्रिप्रकारो भोग इत्यर्थः ।
भोगस्वरूप-प्रश्नस्योत्तरमुक्त्वा निमित्तप्रश्नस्योत्तरमाह-तामिति ।
तां त्रिप्रकारामपि भोगरूपां वेदनां समर्थित-चैतन्यः कलाभिव्यक्त-चैतन्यः पुमान् आत्मा कर्मतः कर्मवशाद् अभ्येति प्राप्नोति, सुख-दुःखमोहभावेन विपक्वं कर्मैव पुरुषवेदनाया आलम्बनं भवतीत्यर्थः ॥ ४१ ॥

शरीरादीनामपि भावाभावौ कर्म-निमित्तकौ, शरीरादि विना कर्मणो भोगसाधनत्वानुपपत्तेरेव तदाक्षेपकतया तत्र तस्य हेतुत्वौ चित्यादिति सूत्रान्तरेणाह-

कर्मतश्च शरीराणि विषयाः करणानि च ।
भोगसंसिद्धये भोक्तुर्भवन्ति न भवन्ति च ॥ ४२ ॥

शरीराणि स्थूलरूपाणि, विषयाः शब्दादयः, करणानि बुद्ध्यादीनि- एतानि च सर्वाणि भोक्तुः भुञ्जानस्य पुरुषस्य भोगसंसिद्धये भोगसाधनाय कर्मतः कर्मनिमित्तात् भवन्ति च उत्पद्यन्ते च तत्-कर्माभावे न भवन्ति च न जायन्ते च ।
अत्र चकारेण सर्वथा यत् किञ्चिद्-भोगस्य निमित्तं वस्तु तत् सर्वं कर्म इति सूचितम् ।
अत्रोदाहरणम्-सुखभोग-निमित्तम् अहिकण्टकाद्यभावः ।
दुःखभोग-निमित्तं पुत्रान्नाद्यभावः ।
दुःख- मोह-भोग निमित्तं स्रक्चन्दनाद्यभावः ।
दुःखभोग-निमित्तम् अहिकण्टकादिभावः ।
सुखभोगनिमित्तं पुत्राद्यन्नादि-भावः ।
सुखमोह- भोगनिमित्तं स्रक्चन्दनादिभाव इति ।
अत्र कर्मणां यथा शरीरादि- जनकत्वं तथा

शरीरादीनामपि कर्मजनकत्वात् (क) बीजाङ्कुरसन्तानस्येव कर्म-शरीर- सन्तानस्यापि प्रवाहानादित्वमवसेयम् ।
तदुक्तं सर्वज्ञानोत्तरे-

कर्मणा तु शरीराणि भावात् कर्मोदयो भवेत् ।
पूर्वोपार्जित-कर्मणां भावः संयोगकारकः ॥
इति ।

अन्यत्र-

नित्यद्वन्द्व-समायुक्तमन्योन्यं वट-बीजवत् ।
इति ॥ ४२ ॥

एवं बद्धात्मनः (ख) पशुदर्शनमात्रयुक्तां शिवादिदर्शन-रहितां परमावस्थां सूत्रान्तरेणाह-

एवं मायाञ्जनस्थोऽणुर्निजदोष-तिरस्कृतः ।
याति तन्मयतां तेषु मायाभोगेषु रञ्जितः ॥ ४३ ॥

एवम् उक्तक्रमेण कलया प्रवर्त्तितः विद्यया विवेच्य बुद्ध्यादिभिरुपस्कृत्येत्यर्थः ।
मायाञ्जनस्थः मायाञ्जनपदेन मायायां यानि तत्त्वानि, तानि परिगृह्यन्ते ।
तानि च कलादीनि (ग) आत्मसंसर्गाद् विशुद्ध-स्फटिक-प्रख्यमप्यणुं जपाकुसुमाद्युपाधिवत् स्वनिर्भासं कुर्वन्ति बुद्ध्या आत्मानमञ्जयन्तीत्यञ्जनान्युच्यन्ते, तेषु तिष्ठति अतिरमणीय-बुद्ध्या च वर्त्तत इति मायाञ्जनस्थः, तादृशः अणुः आत्मा निजदोष-तिरस्कृतः निजेन सहजेन दोषेण मलेन तिरस्कृतः ।
अधो नियमितः नोर्ध्वं शिवादिकं पश्यतीत्यर्थः ।
तादृशः सन् रञ्जितः तैर्मायात्मकैर्भोगक्रिया-विषयै रञ्जितः सन् तेषु मायाभोगेषु तन्मयतां याति ।
तदव्यतिरिक्तं तदभिन्नमात्मानं मन्यते, तदनुग्रहेणाऽनुगृहीतं तदुपघातेन चोपहतमात्मानं मन्यत इत्यर्थः ॥ ४३ ॥

एवं सकलावस्थस्य बन्धात्मनः उचितार्थकानि नामानि सूत्रान्तरेणाह-

संसारी विषयी भोक्ता क्षेत्री क्षेत्रज्ञ एव च ।
शरीरी चेति बन्धात्मा सकलः सोच्यते बुधैः ॥ ४४ ॥

बन्धात्मा सकलः बन्ध आत्मा स्वरूपं यस्य स बन्धात्मा ।
कलादिभिः सह वर्त्तत इति सकलः ।
तादृशः सकल एव आत्मैव संसारी शरीराद्यादान-हानेन संसरतीति संसारी ।
विषयी विषयोऽस्य भोग्यत्वेन विद्यत इति विषयी ।
भोक्ता भोगं भुङ्क्ते इति भोक्ता ।
क्षेत्री क्षेत्रमस्य स्वशक्ति-व्यक्तिकर-मधिकरणमस्तीति क्षेत्री ।
क्षेत्रज्ञः क्षेत्रं पाशजालं भोग्यत्वेनोपस्थितं जानातीति क्षेत्रज्ञः ।
शरीरमस्य भोगायतनत्वेन विद्यत इति शरीरी इति च बुधैरुच्यते ।

तत्तन्निमित्ताश्रयेण शास्त्र-व्यवहारादेव ताः सञ्ज्ञा इत्यर्थः ।
सुप्रभेदे तु-

त्रिमलैर्बध्यते चात्मा सकलः परिवारितः (क) ।
सकलश्चेति बद्धात्मा संसारी विषयी तथा ॥
क्षेत्री क्षेत्रज्ञो भोक्ता च पशुर्ज्ञानी तथैव च ।
भोगी चैव शरीरी च आत्मपर्याय-वाचकः ॥
इति ॥ ४४ ॥

इत्थं सकलावस्थमात्मानं निरूप्य शुद्धावस्थं निरूपयितुं तदुपादानभूतं प्रथमं शक्तिपातं मृगेन्द्रसूत्र-सार्द्व-द्वयेन (५।१) दर्शयति-

तमः-शक्त्यधिकारस्य निवृत्तेस्तत्-परिच्युतौ ।
व्यनक्ति दृक्-क्रियानन्त्यं जगद्बन्धुरणोः शिवः ॥ ४५ ॥

तमःशक्त्यधिआरस्य तमश्च शक्तिश्च तमः-शक्ती, तयोरधिकारस्तमःशक्त्यधिकारस्तस्य तमसो मलस्य शक्तेः भगवत्- सम्बन्धिन्यास्तिरोधानशक्तेश्च योऽधिकारः न्यग्भावन-व्यापृतत्वं तस्येत्यर्थः ।
निवृत्तेः निवृत्तिर्विरामः तस्माद्धेतोः तत्-परिच्युतौ तस्यास्तिरोधानाद् दर्शन-शक्तेः परिच्युतिः कैवल्याभिमुखीभावः, तस्यां सत्यां जगद्-बन्धुः जगतो बन्धुः जगदुद्धरण-प्रवणः शिवः परमेश्वरः अणोरात्मनः दृक्क्रियानन्त्यं दृक् च क्रिया च दृक्-क्रिये दृक्- क्रिययोरानन्त्यं परिपूर्णत्वं व्यनक्तिप्रकटीकरोति ।
सत्योरेवाऽनन्तयोर्दृक्- क्रिययोर्मलावच्छिन्नत्वात् आवृतानन्त्ययोर्मलपरिपाकेन आवरणापगमाद् अभिव्यक्तिः क्रियते, नत्वपूर्वतया उत्पाद इत्यर्थः ।
अनेन कर्मनाशे मलपरिपाके च सति भगवतोऽनुग्राहिका शक्तिः पशुषु पततीत्युक्तं भवति ।
तदुक्तं पौष्करे-

कर्मनाशान् मलस्यापि विपाके सहकारिणी ।
पतत्युन्मीलनी शक्तिस्तदानुग्रह-रूपिणी ॥
इति ॥
(पौ० वि० ४।३७)

शक्तिपातस्य दुर्ज्ञेयतया तस्य ज्ञापकानि दर्शयति (मृ० ५।४)-

येषां शरीरिणां शक्तिः पतत्यविनिवृत्तये ।
तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भव-स्थितौ ॥ ४६ ॥
भक्तिश्च शिव-भक्तेषु श्रद्धा तच्छासके विधौ ॥ ४७ ॥

शरीरिणां शरीरमस्याऽस्तीति शरीरी तेषां शरीरिणां शक्तिः पारमेश्वरी शक्तिः अविनिवृत्तये पुनर्नाविर्भावः अविनिवृत्तिः अविनिवृत्तये अपुनराविर्भावाय पतति (क) ।

अत्राऽशरीरिणां तावद् गुरुभिः शक्तिपातस्य दुर्लक्ष्यत्वात् शरीरिणामित्युक्तम् ।
तेषां शरीरिणां मुक्तौ मोक्षे औत्सुक्यम् उत्कण्ठा, भव-स्थितौ भवे संसारे स्थितिर्वर्त्तनं तस्यां द्वेषः वैराग्यं, शिव- भक्तेषु शिवभक्ति-परेषु भक्तिश्च, तच्छासके सः शिवः शासको यस्य तस्मिन् तच्छासके विधौ शास्त्रे शिवागमेष्वित्यर्थः ।
तत्र श्राद्धा च तलिङ्गं शक्तिपातस्य लिङ्गं चिह्नम् ।
एभिर्लिङ्गैर्मन्द-धियोऽपि शरीरिणां शक्तिपातमनुमिन्वन्तीति भावः ।
श्रीमत्स्वायम्भुवे-

क्षीणे तस्मिन् धिया सा स्यात् परं निःश्रेयसं प्रति ॥
इति ॥

एतच्छक्तिपातस्य प्रयोजनं मतङ्गसूत्र-(४।४५-४९) चतुष्टयेनाह-

तन्निपाताच्च तस्येत्थमज्ञस्याप्यभिलाषिणः ।
बुद्धिरुत्पद्यतेऽकस्माद् विवेकेनात्मवर्त्तिना ॥ ४८ ॥

इत्थम् एवं प्रकारेण अज्ञस्य अनात्मन्यात्माभिमान-युक्तस्य अभिलाषिणः अभिलाष इच्छा यस्य तादृशस्यापि तस्य सकलात्मनस्तन्निपातात् तस्याः शक्तेः निपातात् निपातनाद्धेतोः आत्मवर्त्तिना आत्म-विषयेण विवेकेन अनित्याशुचि-दुःखानात्मभूतायाः प्रकृतेरन्योऽहं चेतनात्मकः पुरुषः स्वतोऽवभासमानः परमेश्वराधीन इत्येवंविधेन विवेकेनेत्यर्थः ।
तेन युक्तेति शेषः ।
बुद्धिर्मतिः अकस्माद् अकारणाद् उत्पद्यते जायते ।
तत्र शक्तिपात-व्यतिरेकेण हेत्वन्तरं नास्तीत्यर्थः ॥

इत्थं विवेकानन्तरम् उत्पद्यमानं कार्यमाह-

विवेकिनो विरक्तस्य जिज्ञासा चोपजायते ।
जिज्ञासोपेत-चैतन्यं पशुं संसार-सागरात् ॥ ४९ ॥
जिघृक्षया युनक्त्येनं युक्तं प्रेरयति प्रभुः ॥ ५० ॥

विवेकिनः पूर्वोक्त-विवेक-बुद्धि-युक्तस्य विरक्तस्य संसार- वैराग्यवतश्च जिज्ञासा ज्ञातुमिच्छा जिज्ञासा प्रधानात्मक- संसारनिवृत्ति-हेतुरीश्वर-पुरुष-विषय-ज्ञानेच्छेत्यर्थः ।
सा उपजायते ।
जिज्ञासोपेत-चैतन्यं जिज्ञासया उपेतं सहितं चैतन्यं यस्य तं

पशुम् आत्मानं संसार-सागरात् संसार एव सागरः समुद्रस्तस्मात् जिघृक्षया गृहीतुम् उद्धर्त्तुम् इच्छया युनक्ति योजयति ।
भगवानिति शेषः ।
पुनः किं करोतीत्यत आह-एनं युक्तं प्रेरयति प्रभुरिति ।
युक्तम् एनं पशुं प्रभुः परमेश्वरः प्रेरयति आचार्यं प्रति प्रेरयतीत्यर्थः ॥

आचार्य-शिष्ययोरुभयोरपि सम्बन्ध-सम्पादक ईश्वर एवेत्याह-

प्रेरणे प्रेरकः श्रीमान् द्वयोरपि स मन्त्रराट् ।
अनुग्राह्यस्य विनये तथाऽनुग्राहकस्य च ॥ ५१ ॥
कारुण्ये त्वनयोर्यस्मात् तयोर्योगः सुदुर्लभः ॥ ५२ ॥
-मा० पा० वि० ४।४८-४९

श्रीमान् सर्वज्ञत्वाद्यैश्वर्य-युक्तः मन्त्राणां राट् मन्त्रनायकः स प्रभुः प्रेरणे प्रेरककर्म-विषये द्वयोरपि शिष्याचार्ययोरुभयोरपि प्रेरकः ।
तयोः प्रेरणांशे विशेषामाह-अन्वित्यादि ।
अनयोः शिष्याचार्ययोर्मध्ये अनुग्राह्यस्य अनुग्रह-योग्यस्य विनये विशिष्टो नयो विनयः गुरु-शुश्रूषात्मकः तस्मिन्, प्रेरक इत्यनुषङ्गः ।
तथैव अनुग्राहकस्य अनुग्रहकर्त्तुराचार्यस्य च कारुण्ये करुणैव कारुण्यं, चातुर्वर्ण्यादित्वात् ष्यन्प्रत्ययः तस्मिन् ।
तु-शब्दादनुग्रहेच्छायामपि प्रेरक इत्यनुषङ्गः ।
तथा च प्रेरकः शिव एव अनुग्राह्यानुग्राहकयोः सम्बन्धं करोतीत्यर्थः ।
तत्र हेतुमाह-यस्मादिति ।
यस्माद् कारणात् तयोः शिष्याचार्ययोर्योगः सम्बन्धः सुदुर्लभः ईश्वरं विना सुदुर्घटः, तस्मात् ईश्वर एव सम्बन्ध-जनक इत्यर्थः ।
तथा पौष्करे-

वैराग्यं जायते क्षिप्रं संसाराद् दुःख-सागरात् ।
दिदृक्षा जायते शम्भोः पाद-पङ्कजयोरपि ॥
कदा द्रक्ष्यामि देवेशं मोक्ष्येऽहं बन्धतः कदा ।
को वा दर्शयिता शम्भोरिति सञ्जायते मतिः ॥
एवं संसारतो भीतमनुगृह्णाति चेश्वरः ॥
इति ।
(वि० पा० ४प० ३९।४१)

ननु शक्तेः कथं निपातः ? तस्या व्यापकत्वात्, व्यापकस्य वस्तुनश्च्युति-लक्षण-निपातायोगात् ; अग्नेरुष्णत्ववत् शिव- समवायिन्यास्तस्याः शिवात् च्युत्ययोगाच्च ।
किञ्च नित्य-व्यापक-शक्तेः सर्वथा सर्वकालं पश्वात्मसु स्थितत्वाद् युगपन्मुक्ति-प्रसङ्गः ।
नच सा शक्तिः कस्मिंश्चिद् विशिष्ट-काल एवाऽनुग्रह-कारिणीति वाच्यम् ।
तर्हि कालस्यैव मोक्षकर्त्तृत्वापत्तेः, शिवेन प्रयोजनाभाव-प्रसङ्गात् ।
अतः कथं शक्तिपात इति चेत् ? मैवम् ।

द्विधा शब्द प्रवृत्तिर्गौणी मुख्येति ।
अत्र पातशब्द-प्रवृत्तिर्गौणी ।
यथा लोके अस्य दृष्टिरस्यां कामिन्यां पतिता इत्युक्ते न सा पुरुषाद् विच्युता कामिन्यां पतिता दृश्यते, किन्तु दृश्य-दर्शक-सम्बन्धमात्रेण सम्बन्धाद् दृष्टिः पतिता इत्युपचर्यते ।
तद्वदिह अस्मिन् पुंस्यपि अनुग्राह्यानुग्राहकत्व-लक्षण- सम्बन्धेन सम्बन्धात् शक्तिः पतिता इत्युपचारेण उक्ता, न मुख्यत इत्यदोषः ।
अयमेवाऽर्थः शङ्कोत्तरतया किरणागमे स्पष्टं प्रतिपादितः ।
तद् यथा-

गरुड उवाच-

शक्तिपाताद् भवेद् दीक्षा निपातो न विभुत्वतः ।
शिवस्य सर्वस्थिता पशोः (?) ॥
स्थितत्वात् सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेत् (क) ।
कालो वा (ख) सचिवः प्रोक्तो यदि कालः शिवेन किम् ॥

ईश्वर उवाच-

उपचारेण शब्दानां (ग) प्रवृत्तिरिति दृश्यते ।
यथा पुमान् विभुर्नित्यो विनष्टः शिवतां गतः ॥
एवं शक्ति-निपातोऽपि प्रोच्यते चोपचारतः (घ) ।

सिद्धान्तेऽपि-

यथाऽर्कस्य प्रभाः सद्यो मेघजालेन वारिताः ।
तद्वद् ज्ञानात्मिका शक्तिः पाशजालैः समावृता ॥
पक्व-पाशेषु सुव्यक्ता पतितेत्युपचर्यते (ङ) ।
इति ।

शक्तिसंविदानं नरमद्रि-पातभीतवत् संसाराद् भीतः शिष्यो देशिकं गच्छति ।
किरणे-

निपात-भयतो यद्वद् वस्तुनः सहसा भवेत् ।
तस्मादन्यत्र यात्येव तथात्मा देशिकं प्रति ॥
इत्यादि ॥

एवं शक्तिपातमुक्त्वा तदनन्तर-भाविन्या दीक्षया प्राप्तं शुद्धावस्था-स्वरूपलाभं स्वायम्भुवसूत्रेणाह-

स देशिकमनुप्राप्य दीक्षा-विच्छिन्न-बन्धनः ।
प्रयाति शिव-सायुज्यं निर्मलो निरुपप्लवः ॥ ५३ ॥

स निःश्रेयस-प्राप्तिकामः (च) शक्तिपातवान् पुरुषः दिशिकं शिवेच्छयाऽधिगतमेव गुरुम् अनुप्राप्य अधिगम्य दीक्षा-विच्छिन्न-बन्धनः दीक्षया विछिन्नानि बन्धनानि यस्य स दीक्षा-विच्छिन्न-बन्धनः, गुरोर्दीक्षामासाद्य दीक्षितस्य त्रि-मलबन्धनानि विछिन्नानीत्यर्थः ।
तथा वरुणपद्धत्यां-

क्रियया वाऽथ शक्त्या वा दीक्षा सा सर्वतो मता ।
दीक्षया मुच्यते(???) देही त्रिविधाद् भवबन्धनात् ॥
इति ।

एवम्भूतः सन् ।
अत एव निर्मलो मल-रहितस्तथाविधो भूत्वा शिवसायुज्यं मोक्षं शिव-तुल्यत्वं तत् प्रयाति प्राप्नोति ।
तथा चिन्त्य-विश्वे-

दीक्षयित्वा विधानेन षट्त्रिंशत्-तत्त्वकोपरि ।
निष्कले निर्मले तत्त्वे योजयत्येव निश्चयः ॥
इति ।

अत्र निर्मल इत्यनेन शुद्धावस्थाया अकेवलावस्थातो भेदो दर्शितः ।
निरुपप्लव इत्यनेन बन्धावस्थातो विशेष इति ।

इत्थम्भूतदीक्षाया एव मोक्षहेतुत्वं, नतु ज्ञानादीनामिति सर्वज्ञानोत्तरसूत्रं दर्शयति-

तत्त्वैरेभिर्निबद्धात्मा सर्वधर्मैश्च संयुतः ।
नाऽनेन शक्यते मोक्तुं वर्ज्य दीक्षां शिवात्मिकाम् ॥ ५४ ॥

एभिः तत्त्वैः कलादिभिः ? सर्वधर्मैः सर्वैश्च तत्तत्तत्त्वधर्मैर्भुवनादिभिश्च संयुतः सहितः निबद्धात्मा अनादि-मलेन प्रवाह-रूपेण कर्मणा च नितरां बद्धो निबद्धः स चासौ आत्मा च निबद्धात्मा सम्बद्ध आत्मा शिवात्मिकां शिव-स्वरूपां दीक्षां देशिक- व्यापाररूपां वर्ज्य वर्जयित्वा अनेन ज्ञानादिनोपायेन मोक्तुं मोचयितुं न शक्यते ।
तथा-

ज्ञानादिभिर्न मोक्षोऽस्ति तस्माद् दीक्षैव मोचनी ।
सर्वस्याऽनुग्रहकरः शिवो देवः स्वभावतः ॥
दीक्षया चात्र मुक्तिः स्यात् सर्वेषां प्राणिनामिह ।
तस्मात् तु शिव-सामर्थ्यान् मुक्तिः सर्वत्र सिध्यति ॥

तथा निश्वासे-

स्नानेन निर्मलो मन्त्र-जपात् सिद्धिर्न संशयः ।
पूजायां सन्निधानं (क) न होमो नैव फलप्रदः ॥
ध्यानेन सर्वगं देवं योगैर्योगित्वमाप्नुयात् ।
व्रतेन काय-शुद्धिः स्याद् दीक्षया मुक्तिरिष्यते ॥
इति ।

तथा पुराणे सौरसंहितायाम्-

कृत्वा तु नैष्ठिकों दीक्षां विमुक्ता निवसन्ति ये ।

तेषां तत् परमं ज्ञानं दद्यादन्ते परं पदम् ॥
इति ।

स्कान्दे भृगुशापे च-

नात्राश्रम-कृतः कश्चिदुत्कर्षो विद्यते नृणाम् ।
परां दीक्षां विना शैवीं बन्धत्रय-विमोचनीम् ।
तस्मान्मुक्तिर्दीक्षयैव नाश्रमैर्नान्य-कर्मभिः ॥

तथा ज्ञानतिलके-

न दानै र्न तपो-यज्ञै र्नियमै र्न व्रतैः शुभैः ।
न स्नान-तीर्थ-सङ्घातैर्लभ्यते परमं पदम् ॥
नानेकैः तपसां व्रातैर्लभ्यते पुण्यसञ्चयैः ।
बध्नन्ति सर्वथात्मानं कोशकारं कृमिर्यथा ।

अयं मलपाक-वशात् शक्तिपात-क्रमेण दीक्षया मोक्षं याति, नतु ज्ञानादिभिरूपायैः ; तेषां दीक्षाङ्गत्वेन श्रवणात्, योगादेः शिव- विषयस्य दीक्षया विनाऽनुपपत्तेः, मलस्य च द्रव्यत्वेन चक्षुःपटलादिवत् ज्ञानमात्रेण निवृत्त्यभावात्, चक्षुर्वैद्य व्यापारेणेव दीक्षाख्येनेश्वर- व्यापारेणैव निवृत्तिसिद्धेश्च ।
उक्तं श्रीमत्पौष्करे-

दीक्षैव मोचयेत् पाशान् शिवत्वं च ददात्यणोः ।
(पौ० ज्ञा० १७४)

षट्सहस्रिकायामपि-

दीक्षैव मोक्षदा पुंसां चिदभिव्यक्ति-कारिणी ॥
इति ॥

दीक्षा-व्यापारेणाऽभिव्यज्यमाना-(क)त्मचैतन्य-स्वरूपं मृगेन्द्र-(१०।३) सूत्रेणाह-

कर्त्तृशक्तिरणोर्नित्या विभ्वी चेश्वर-शक्तिवत् ।
तम-श्छन्नतयाऽर्थेषु नाभाति निरनुग्रहा ॥ ५५ ॥

अणोरात्मनः कर्त्तृशक्तिः ज्ञान-क्रियात्मिका शक्तिः ईश्वरः-शक्तिवत् ईश्वरस्य शक्तिस्तद्वत् नित्या आद्यन्त-रहिता विभ्वी व्यापिका च ।
यद्येवं नित्यत्वाद् विभुत्वाच्च सर्वदा मान-प्रसङ्गः ।

तथा-

व्यञ्जिका यत्र यत्राऽस्य शरीरं तत्र तत्र तु ।
भोगार्थं (ख) स्याद् गुणव्यक्तिर्व्यापित्वं तेन गम्यते ॥
इति ॥

अत आह-अर्थेषु विषयेषु करणीय स्वरूपेषु तमश्छन्नतया तमसाऽनादिमलेन छन्नतया आवृतत्वात् निरनुग्रहा अनुग्रहो व्यञ्जकः तद्रहिता सती नाभाति न भासते ।

तदुक्तं रत्नत्रये (२५२)-

गलिते सर्वथा बन्धे विमुक्ते चाणवे मले ।
सर्वार्थ-द्योतिका शक्तिः शिवस्येव विजृम्भते ॥
इति ॥

आत्म-शक्तेर्विभुत्वेऽपि तद्-भानस्य व्यञ्जकाधीनत्वात् सर्वज्ञतापि नास्तीति पराख्यसूत्रेण दर्शयति-

विभुः सन् ज्ञान-रूपोऽपि प्रदेशे वेत्ति येन तत् ।
किञ्चिज्ज्ञस्तेन सः प्रोक्तो व्यवधानानिदर्शनात् ॥ ५६ ॥

ज्ञान-रूपः ज्ञानमेव रूपं स्वरूपं यस्य सः ज्ञान-रूपः विभुः व्यापकः सन् अपि प्रदेशे कलादि-व्यञ्जक-प्रदेशे येन कारणेन तद् ज्ञेयं वेत्ति जानाति, तेन कारणेन सः आत्मा किञ्चिज्ज्ञः किञ्चिज् जानातीति किञ्चिज्-ज्ञः प्रोक्तः प्रतिपादितः ।
तत्र हेतुमाह-व्यवधानानिदर्शनात् ।
व्यवधाने व्यञ्जक-रहित-स्थले अनिदर्शनात् निदर्शनाभावात्, ज्ञानाभावादित्यर्थः ॥

यद्यात्मनो व्यञ्जक-वशात् किञ्चिज्ज्ञत्वं, तर्हि दीक्षारूप-व्यञ्जके सत्यपि सर्वज्ञत्वमात्मनो न स्यात् ; व्यञ्जकत्वाविशेषादित्याशङ्कां दृष्टान्तपूर्वं व्यञ्जक-तारतम्य-प्रतिपादकेन सूत्रान्तरेण निरस्यति-

स्वल्पेऽपि व्यञ्जके स्वल्पं महन्महति तत् स्थितम् ।
यादृक् तादृक् भवेत् तस्य प्रदीपस्तिमिरे यथा ॥ ५७ ॥

तत् मल-रुद्धं चैतन्यं स्वल्पे व्यञ्जके स्वल्पे सति स्वल्पं स्वयमभिव्यज्यते ।
महति व्यञ्जके महति सति महत् अभिव्यज्यते ।
तत्र दृष्टान्तमाह-यथा तिमिरे अन्धकारे प्रदीपः अर्थ-व्यञ्जक-प्रदीपः यादृक् स्वल्प व्यञ्जको (क) वा महाव्यञ्जको (ख) वा भवेत् ।
तथा तस्य चैतन्यस्य व्यञ्जकमित्यध्याहारः ।
तादृक् तथाविधम् अल्पं वा महद् वा स्थितं व्यञ्जकतया स्थितमिति ।
तथाच कलादि-रूपादल्पाद् व्यञ्जकाद् दीक्षा- रूपस्य महाव्यञ्जकत्वम् ।
तथाच नात्मनः सर्वज्ञत्वानुपपत्तिरित्यर्थः ।

आत्मनश्चेतनत्वं च स्वशक्ति-योगात अचेतनत्वं च तदभावादित्येतत् निश्वासकारिकासूत्रेण दृष्टान्तमुखेन दर्शयति-

स चेतनः स्मृतो जीवो यदा शक्त्या तु युज्यते ।
अन्यथा निष्कलो ह्यात्मा विष-सुप्त्येव लक्ष्यते ॥ ५८ ॥

जीव आत्मा यदा तु यस्मिन् काले शक्त्या अभिव्यक्तया स्व-शक्त्या युज्यते सम्बध्यते, तदा स जीवश्चेतनः चैतन्य-युक्तः इति स्मृतः ।
आगमज्ञैरिति शेषः ।
अन्यथा हि अभिव्यक्तशक्त्यभावे आत्मा जीवः निष्कलः कला चैतन्यं तद्रहितो निष्कलः अचेतन इति ।
तत्र दृष्टान्तमाह-विष-सुप्त्येव विषेण सुप्तिः मूर्च्छा तयेव तया युक्त इव लक्ष्यते दृश्यते ।
यथा विष- मूर्च्छावस्थायाम् आत्मनश्चैतन्याभिव्यक्त्यभावादेव अचेतनत्वं, नतु चैतन्य-राहित्यात् ; तथाऽस्यापि चैतन्य-व्यक्त्य-भावादेवाऽचेतनत्वं, न तु सर्वथा लोष्टवत् चैतन्याभावादित्यर्थः ॥

अथाऽतीतावस्थस्यात्मनो ज्ञानशक्त्या प्रबोधनं दृष्टान्त-मुखेन किरणसूत्रेण निरस्यति-

गुरुर्यथाऽग्रतः शिष्यान् सुप्तान् दण्डेन बोधयेत् ।
शिवोऽपि मोह-निद्रायां सुप्ताञ्च्छक्त्या प्रबोधयेत् ॥ ५९ ॥

यथा गुरुः आचार्यः ।
अत्र गुरु-शब्दार्थः-

गु-शब्दस्त्वन्धकारश्च रु-शब्दस्तन्निरोधकः ।
अन्धकार-निरोधित्वाद् (क) गुरुरित्यभिधीयते ॥

अग्रतः पुरतः सुप्तान् निद्रा-परवशान् शिष्यान् शासनार्हान् दण्डेन वेत्रादिना करणेन बोधयेत् प्रबोधयेत् ।
अग्रेस्थितत्वाविशेषेऽपि शासनार्हान् मलपरिपाक-योग्यत्वेन गुरुर्दण्डेन बोधयति, न त्वशिष्यानित्यर्थः ।
तथा शिवोऽपि परमेश्वरोऽपि मोहनिद्रायां मोहः मलः तस्य निद्रा कार्यं प्रत्यसामर्थ्यं परिपाक-विशेषः, तस्यां सत्यामपि सुप्तान् तन्निवृत्त्युपाय-संविद्-रहितान् पशून् शक्त्या करणभूतया ज्येष्ठा- शक्त्या बोधयेदिति ॥

आत्मशक्तेरभिव्यक्ति-प्रकारं दृष्टान्तमुखेन सूत्रान्तरेण प्रतिपादयति-

यथा भेषजसामर्थ्या दशक्तान्नां बलं परम् ।
तेन तच्छक्ति-योगेन सामर्थ्यममितं भवेत् ॥ ६० ॥

अशक्तानां व्याधिना सामर्थ्य-हीनानां भेषज-सामर्थ्याद् भेषजस्य औषधस्य सामर्थ्याद् वीर्याद् यथा येन प्रकारेण परमुत्कृष्टं बलं प्राग्विद्यमानरूपं सामर्थ्यं, भवेदिति शेषः ।
तथा तेन तच्छक्ति-योगेन तस्य शिवस्य शक्तिः रौद्री अनुग्राहक-शक्तिः तस्या योगेन सम्पर्केण मितं न भवत्यमितं देशकाल-परिच्छेद-शून्यं सामर्थ्यं प्राक्सिद्धरूपं ज्ञानक्रियात्मकं सामर्थ्यं भवेत् अभिव्यक्तं भवेदिति ॥ ६० ॥

पराख्य-सार्ध सूत्रेण न केवलमस्यात्मनो मोक्ष एव शिवशक्त्यपेक्षा किन्तु देहभोग-योगयोरपीत्याह-

शिवत्वाद् युज्यते मोक्षे पशुत्वाद् युज्यते तनौ ।
भोगेष्वपि च सामर्थ्यात् कर्मणो मुनिसत्तम ! ॥ ६१ ॥
ईश्वराधिष्ठितात्माऽसावस्वतन्त्रो यतस्तु सः ॥ ६२ ॥

यतः यस्मात् कारणात् अस्वतन्त्रः इष्टप्राप्त्य-निष्ट-परिहारयोः स्वातन्त्र्यरहितः, ततः तस्मात् कारणात् ईश्वराधिष्ठितात्मा ईश्वरेण परमेश्वरेण अधिष्ठितः आत्मा स्वरूपं ज्ञानक्रियात्मकं यस्य असौ आत्मा शिवत्वात् शिवत्वं पशुत्व-निवृत्तिः मलपरिपाकः तस्मान्निमित्तात् मोक्षे युज्यते सम्बध्यते ।
पशुत्वात् पशुत्वं मलपरिपाकाभावः तस्मात् तनौ देहे युज्यते ।
कर्मणां सामर्थ्याद् भोगेष्वपि सुखदुःखात्मकेष्वपि युज्यते ।
मुनिसत्तमेति श्रोतुः सम्बोधनम् ॥ ६१-६२ ॥

अथात्मनो भोग-मोक्षयोः परस्पर-भिन्न-कारणमपेक्षितमिति मृगेन्द्रसूत्रेण (७।५) प्रतिपादयति-

नित्य-व्यापक-चिच्छक्ति-निधिरप्यर्थ-सिद्धये ।
पाशवं शाम्भवं वापि बलमन्वेष्टि नान्यथा � ॥ ६३ ॥

नित्य-व्यापक-चिच्छक्ति-निधिः नित्या च व्यापिका चेयं चिच्छक्तिः नित्य- व्यापक-चिच्छक्तिः तस्याः निधिः आस्पदमपि अर्थ-सिद्धये अर्थौ भोग-मोक्षौ तयोः सिद्धये

� मुद्रिते मृगेन्द्रे तु अत्रायं पाठः नान्विष्यत्यन्धथा बलम् ।
-मृ० ७\५

भवावस्थायां भोग-लक्षणस्याऽर्थस्य निष्पत्तये पाशवं पशोरिदं पाशवं पशु-सम्बन्धि बलं सामर्थ्यं पशूचितं कलाद्युत्तेजनम् अन्वेष्टि अपेक्षते ।
मुक्ति-निमित्तं च शाम्भवं शम्भु-सम्बन्धि दीक्षारूपं बलम् अन्वेष्टीत्यनुषङ्गः ।
भोग-मोक्षावस्था-द्वयेऽपि अयमात्मा पाशवं वा पारमेश्वरं वा स्वसामर्थ्योत्तेजनमपेक्षत इत्यर्थः ।
अन्यथा बलोत्तेजनाभावे न अर्थसिद्धिरित्यध्याहारः ।
भोग मोक्षौ न सिध्यत इति ॥ ६३ ॥

अथ भोगमोक्षापेक्षणीयस्य ज्ञानस्य स्वरूपं कालोत्तरसूत्रेण दर्शयति-

विश्वस्याऽनेकरूपस्य ज्ञानमेकं शिवात्मकम् ।
व्यापकं विमलं शान्तं भुक्ति-मुक्तीति येन तत् ॥ ६४ ॥

अनेक-रूपस्य चतुर्दश-(चतुर्विध)भूतरूपस्य विश्वस्य जगतः येन ज्ञानेन भुक्तिमुक्ती भुक्तिर्मुक्तिश्च ।
भवत इति शेषः ।
तत् शिवात्मकं शिवस्य रूपं ज्ञानं परज्ञानम् एकम् अद्वितीयं व्यापकं सर्वगतं विमलं शान्तं रागद्वेष-रहितमिति ॥ ६४ ॥

तस्या एव ज्ञानशक्तेः शिव-समवायित्वं चात्म-शिव-योजकत्वं च निश्वास-सार्ध-सूत्रेण दर्शयति-

एकैव वस्तुतः शैवी या शक्तिर्निमला परा ।
अविनाभाविनी शम्भोः शुचेरुष्णमिव प्रभोः ॥ ६५ ॥
तयाऽऽत्मशिवयोः सन्धिः शिवबोध-परापरा ॥ ६६ ॥

निर्मला मल-रहिता परा उत्कृष्टा शैवी शिव-सम्बन्धिनी या शक्तिः, सा वस्तुतः परमार्थतः एका भेद-रहितैव ।
निश्वासोत्तरे-

एक एव शिवः शक्तिस्तथाकार्याणि भेदतः ।
तस्माच्छिवात्मिका शक्तिर्भोग-मोक्षौ शिवेच्छया ॥
इति ।

पुनः कीदृशी ? अत आह-शुचेः अग्नेः उष्णम् उष्णत्वमिव प्रभोः प्रभवन-शीलस्य शम्भोः शं भवत्यस्मादिति शम्भुः तस्य परमेश्वरस्य अविनाभाविनी अविनाभावः समवायः सोऽस्याऽस्तीत्यविनाभाविनी समवायिनी ।
तथा पौष्करे (वि० १।८)-

शिवस्य समवेता या शक्तिर्ज्ञानात्मिकाऽमला ।
सैव ज्ञानमिति प्रोक्तं शास्त्रं तदनुमापकम् ॥
इति ।

पुनः कीदृशी ? अत आह-शिवबोध-परापरा ।
शिवस्य बोधः शिवज्ञानं तद्विषये परा च अपरा च, परापरभिन्नेत्यर्थः ।
तथाच आदावेवोक्तं-ज्ञानं द्विविधमाख्यातमिति ।
एवं-विधया तया ज्ञान- शक्त्या आत्म-शिवयोः आत्मा च शिवश्च आत्म-शिवौ, तयोः सन्धिः सन्धानम् अनुग्राह्यानुग्राहकत्व-लक्षण-सम्बन्धो भवेदिति शेषः ॥ ६५-६६ ॥

इदं शाम्भवं ज्ञानम् अध्यक्षादि-विलक्षणम्, अपरोक्षेण प्रकाशं, सर्वार्थ-विषयं चेति मृगेन्द्र-सूत्रेण (५।१६) दर्शयति-

नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् ।
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥ ६७ ॥

तत् शाङ्करं शङ्कर-सम्बन्धि ज्ञानम् अध्यक्षं न प्रत्यक्षं न भवति ।
अक्ष-सव्यपेक्षं हि ज्ञानं प्रत्यक्षम् ।
न चेश्वरस्याऽक्षव्यापारोऽस्ति, अतो न प्रत्यक्षम् ।
न लैङ्गं लिङ्ग-जन्यम् आनुमानिकमपि न भवति, तस्य प्रत्यक्षाधीन-वृत्तित्वात् ।
न शाब्दमपि शब्दजन्यं ज्ञानमपि न भवति, तस्याऽत्यन्त-परोक्षार्थ-विषयत्वात् ।
नच किञ्चिद् भगवतः परोक्षम् ।
अतः विमलम् अनाद्यावरण-शून्यं सर्वदा सर्वस्मिन् काले सर्ववस्तुषु समस्त-विषयेषु आभाति प्रकाशते ।

ननु पञ्चवक्त्रस्त्रिपञ्चदृक् इत्यादिना श्रूयत एवागमेष्वपि ईश्वरस्य शरीरेन्द्रिय-योगः ।
तत्सद्भावेऽपि कस्मान्न तत्सव्यपेक्षे ईश्वरस्य ज्ञान- क्रिये इति चेत् ।
न ।
ईश्वरस्य ज्ञान-क्रियोपयोगि-शरीरेन्द्रिय-योगाभावात्, स्वभावत एव सर्वार्थ-दृक् क्रिया-शक्तिमत्त्वात् इच्छामात्रेणैव सर्ग- स्थित्यादि-करणक्षमत्त्वात् ।
भक्तानुग्रहाय तनुग्रहणम्, अन्यथा निराकारे ध्यान-पूजयोरयोगात् ।
उक्तं हि पौष्करे-

साधकस्यं तु लक्ष्या(रक्षा)र्थं तस्य रूपमिदं स्मृतम् ।
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ॥
इति ।

अत्र तु विमल मित्यावरण-राहित्य-प्रतिपादनेन शिवज्ञानं न व्यञ्जकापेक्षं, नापि संसारि-ज्ञानमिव संशय-विपर्ययानध्यवसाय युक्तमित्युक्तं भवति ।
यानि किल ज्ञानानि मलशक्त्या आवृतानि भोग- निष्पादनाय व्यञ्जकं कलादि अपेक्षन्ते, तानि तु

व्यञ्जकस्य कलादेः स्वल्प-प्रकाश-कारणात् तथाविध-व्यञ्जन-भाञ्जि ज्ञेयविषये (क) व्याघातवन्त्यपि भवन्ति ।
न चैश्वरं ज्ञानमेवंविधम्, अनाद्यावरण-शून्यत्वात् ।

उक्तं किरणे-अनादिमल-मुक्तत्वात् सर्वज्ञोऽसौ ततः शिवः ।

मृगेन्द्रे (५।१४-१५) च-तच्चाऽस्यावृति-शून्यत्वान्न व्यञ्जकमपेक्षते ।

तन्न सांशयिकं तस्माद् विपरीतं न जातुचित् ॥
यानि व्यञ्जकमीक्षन्ते वृतत्वान्मलशक्तिभिः ।
व्यञ्जकस्याऽनुरोधेन तानि स्युर्व्याहतान्यपि ॥
इति ॥ ६७ ॥

इदानीं त्रिविधं बन्धमनूद्य तस्य च बन्धत्वम् अस्याऽणोश्च तद्- विमुक्तये शिवत्व-व्यक्तये च शिवात् प्रवृत्तमुपायं स्वायम्भुवसूत्रेणाह-

अस्मात् प्रवितताद् बन्धात् परसंस्था-निरोधकात् ।
दीक्षैव मोचयत्युर्ध्वं शैवं धाम नयत्यपि ॥ ६८ ॥

परसंस्था-निरोधकात् परसंस्था कैवल्यं तस्या निरोधकात् विघातकात् प्रविततात् प्रकर्षेण विततात् विस्तृतात् मल-कर्म-मायारूपेण त्रिविधादित्यर्थः ।
तदुक्तं तत्रैव-

मायेय-माणवं कम चैतावदणुबन्धनम् ।
एतच्चोक्तं मया सर्वं संसारात्मक-काण्डजम् ॥ १३ ॥

अस्माद् बन्धात् अमुं दीक्षैव मोचयति ।
अत्र दीक्षैवेत्यवधारणं मतान्तरोक्त-बोधादि-निवृत्यर्थम् ।
तथाहि-ये तावत् पशुमत-प्रोक्ता बोधाद्युपायास्ते पाशव्यञ्जकत्वात् पाश-रूपत्वाच्च न पुरुषार्थ- साधका भवन्ति ।
यथा तत्रैव-

पाश-ज्ञानान्न मुक्तिः स्यात् पशु-ज्ञानात् तथैव च ।
सर्वतश्च यतो मुक्तिः पतिज्ञानेन गम्यते ॥
इति ।

पाश-ज्ञानादि-स्वरूपं चिन्त्ये प्रतिपादितम्-

शास्त्रजालानि नादान्तं पाशज्ञानं वरानने ।
पशुज्ञानमिति प्रोक्तं ह्यहं ब्रह्माभिमानतः ॥
शिववस्तुपरं तस्मान्मन्त्रातीतो निरञ्जनः ।
सर्वज्ञः सर्वगः शान्तः सर्वात्मा सर्वतोमुखः ॥
इति ।

ये अस्मिन् शास्त्रे प्रोक्ता विज्ञान-योगादयस्ते दीक्षाङ्गत्वात् तत्सिद्ध्यर्थं प्रतिपाद्यन्त इत्येतावताऽवधारितम् ।
तथा श्रीमत्पराख्ये-

ज्ञानादीनामुपायानां दीक्षा कारणमिष्यते ।
चतुर्णामङ्गता प्रोक्ता तत्स्वरूप-विभागतः ॥

कारणं प्रयोजनमित्यर्थः ।

यावन्न तद्गतो भावस्तावत् स्यान्न क्रिया-क्रमः ।
अतः क्रियापि तस्याङ्गं पूजा-होमादि-लक्षणा ।
भस्मचर्या व्रताद्यापि चर्याऽङ्गत्वमुपागता (क) ॥
प्रत्याहारादि-योगोऽपि धारणा-ध्यान-संयुतः ।
निर्दग्धे प्राकृते देहे कृते सति ततो भवेत् ॥
क्रियाभोगः शिवे भावः शिवभावोपबृंहितः ।
तस्य तेन तदङ्गत्वाद् दीक्षा सा त्वङ्गिनी भवेत् ॥

एषा दीक्षा ऊर्ध्वं सर्वोत्कर्षेण वर्त्तमानमभिव्यनक्तीत्यर्थः ।
शैवं शिवसम्बन्धि धाम प्रभावः ।
धाम � देशे शुभे स्थाने जन्म- प्रभावयोरपीति विश्वः ।
शिवतुल्यं शिवसमानता-रूपमिति यावत् ।
तदपि नयति प्रापयन्तीति ।
अत्र बुभुक्षुश्चेत् शैवं पदं, मुमुक्षुश्चेत् पश्वतीतं शिव-सायुज्यं च देहान्ते प्राप्नोतीत्यर्थः ।
अत्र बन्धतत्त्वस्थ- निवृत्त्यादि-भुवनचतुष्टयं योग-बलेन प्राप्ता दीक्षया नियोजिता वा क्रमेण मूर्ति-केवलि-योग-केवलि-ज्ञानकेवलि-शक्तिकेवलिनो भवन्ति ।
तथा मतङ्गे-

योग-वीर्य-बलोपेता दीक्षया वा नियोजिताः ।
सदाशिव-समाः सर्वे नचैकं कारणेश्वराः ॥
न शिवत्वमनुप्राप्तास्तेषां कर्मोच्यतेऽधुना ।
सामीपाः शान्ति-निलया ज्ञान-केवलिनो मताः ॥
सालोक्याश्चैव विद्यायां येऽप्यधः परिपिण्डिताः ? ।
योगकेवलिनस्तेऽपि तन्त्रेऽस्मिन् परिभाषिताः ॥
सान्निध्यात् तु प्रतिष्ठायां शक्तिकेवलिनो मताः ।
काम्याश्चैव निवृत्तिस्था मूर्त्तिकेवलिनः स्मृताः ॥

तद् यथा-

नादाख्ये चैव ये तत्त्वे संस्थिताः परमाणवः ।
मूर्त्तिकेवलिनस्तेऽपि शेषा रुद्राः प्रकीर्तिताः ।

सर्वज्ञानोत्तरे केवल-शब्दस्य अर्थ उक्तः ।
तद् यथा-

कलानां निलयो यस्मात् तेनाऽसौ केवलः स्मृतः ।
इति ।

अत्र षट्सहस्रिकायां विशेषः प्रदर्शितः-

सपर्या पुत्रकाश्चैव साधकाचार्यकास्तथा (?) ।
सर्वेषां योजना कार्या शक्तितत्त्वे तु पुत्रक ! ॥
मायातत्त्वे तुं समधि विद्यातत्त्वे तु पुत्रक ! (?) ।
ईश्वरे साधको भोगे आचार्यः सकले स्थितः ॥
एवं ज्ञात्वा प्रयत्नेन लय-भोगौ प्रकल्पयेत् ।
अज्ञात्वा लय-भोगौ तु यो दीक्षां कुरुते गुरुः ॥
आचार्यः सह शिष्यैस्तु नरके रौरवे पचेत् ।
देशिकस्तु प्रयत्नात् तु ज्ञात्वा दीक्षां समाचरेत् ॥
इति ।

ततः परमनिष्कलं शिवतत्त्वमेव परम् ? ।

मुक्तिस्थानं भवेदेकं विमलं सर्वतोमुखम् ॥
अचलं व्यापकं शान्तं लिङ्गाश्रम-विवर्जितम् ।
इति ।
एभ्यः एक परः सूक्ष्म-कार्यकारणगोचरः ।
अतीतः परिपूर्णश्च स्वतन्त्रः सर्वतोमुखः ।
एको निरीश्वरः स्वस्थः षडन्ये सेश्चरा मताः ॥ ६८ ॥

अथ मतङ्गसूत्रद्वयेन दीक्षाशब्दार्थं निरूपयति-

अनयोः शासने सिद्धा दीक्षा क्षपण-दानयोः ।

क्षपणं च दानं च क्षपण-दाने तयोः ।
क्षपण-शब्देन पशुत्वस्य नाशनम् ।
दानशब्देन शिवत्वस्य दानं चोच्यते ।
अनयोरर्थयोः सिद्धा उत्पन्ना शासनेऽस्मिन् शैवशास्त्रे दीक्षा दीक्षेत्युच्यते ।
पशूनां पशुत्व-क्षयकरी शिवत्व-दायिका शिवशक्तिरेव दीक्षेत्यर्थः ।
तथा-

दीयते ज्ञानसद्भावः क्षीयते च मलत्रयम् ।
दीयते क्षीयते चेति दीक्षाशब्दो द्विधोच्यते ॥
इति ॥

ननु शिवस्य स्वशक्ति-दानेन शक्ति-दारिद्र्यमापद्येत ।
तत्र (मातङ्ग- पारमेश्वरे विद्या पादे ४।५९-६०) आह-

दानं नाम स्वसत्तैव या सा ज्ञान-क्रियात्मिका ॥ ६९ ॥
सा शक्तिस्तस्य संस्पर्शाद् व्यक्तीभूता सुनिर्मला ।
पत्युर्दानं तदेवोक्तं न स्वयं व्यज्यते पशोः ॥ ७० ॥

ज्ञानक्रियात्मिका ज्ञान-क्रिया-स्वरूपा या स्वस्य सत्ता स्वसत्ता सामर्थ्यं सद्रूपकं सैव दानं देयवस्त्विति नाम प्रसिद्धम् ।
तथाच आत्मनो विद्यमानायाः सत्ताया एव देयत्वात् स्वशक्ति-व्ययाभावेन न शक्ति- दारिद्रयं शिवस्येति भावः ।
तर्हि दानशब्दार्थानुपपत्तिरित्यत-आह-सा शक्तिरित्यादि ।
सा स्वसत्ता-रूपा शक्तिः तस्य परमेश्वरस्य संस्पर्शात् अनुग्राहक-शक्त्या स्पर्शनात् सुनिर्मला अर्ककिरण-योगात् पक्कं पद्ममिव तथा च तत्रैव-

यथार्क-रश्मिसंस्पर्शात् पद्मं पक्वं भवेत् तथा ।

व्यक्तीभूता ।
तत् अभिव्यञ्जनमेव पत्युः परमेश्वरस्य दानमित्युक्तम् ।
सकला वरण-निवृत्त्या स्वसत्ताया सर्वज्ञत्वादि-रूपाया एवाऽभिव्यक्तिः ।
पुंसां परमेश्वरात् शिवत्वस्य अभिव्यक्तिः (क) दानमुपचारादुच्यते, न मुख्यत इत्यर्थः ।
ननु नर्त्ते प्रयोजनादिष्टं मुख्यशब्दार्थ-लङ्घनमिति ।
तत्राह-नेत्यादि ।
पशोः स्वसत्ता स्वयं स्वात्मना न व्यज्यते व्यक्ता न भवति ।
अयं भावः-नहि सत्ता सार्था सर्वदात्मना स्वयमेव व्यज्यते, आवृतत्वात् कालिकावृत-ताम्रवत्; न तु पुरुषो ज्ञानात् तन्निवर्त्तकः सिद्धः, अपितु सातिशयः ; चक्षुर्वैद्य इवेति ।
इहापि ईश्वर एव मोक्षकर्त्ता नतु स्वयमेव पुरुष इति ।
तथा पौष्करे (वि० १।९४)-

न मोक्षं याति पुरुषः स्वसामर्थ्यात् कदाचन ।
मुक्त्वा प्रसादं देवस्य शिवस्याऽशिवहारिणः ॥
इति ॥ ६९-७० ॥

शिव-दीक्षया शुद्धावस्थस्यात्मनो दर्शन-प्रकारं देव्यामतसूत्रेण दर्शयति-

अशरीरं यदात्मानं पश्यति ज्ञानचक्षुषा ।
तदा भवति शान्तात्मा सर्वतो विगतस्पृहः ॥ ७१ ॥

यदा यस्मिन् काले ज्ञान-चक्षुषा ज्ञानम् उन्मीलनशक्त्यभिव्यक्त- चैतन्यमेव चक्षुर्नेत्रं तेन ।

अशरीरं शरीरादन्यं शरीरेतरं स्थूलसूक्ष्म-देहान्यम् आत्मानं परप्रकाश संविन्मात्ररूप-स्वप्रकाशं पश्यति अपरोक्षीकरोति ।
तदा तस्मिन् काले सर्वतः पृथिव्यादिशिवान्त-षट्त्रिंशत्-तत्त्वरूप-समस्त- हेयपदार्थेभ्यः विगतस्पृहः विगता निवृता स्पृहा इच्छा यस्य सः तादृशः सन् शान्तात्मा शान्तः अधोमुखत्वादि-कालुष्य-रहित आत्मा तादृशो भवतीति ।
रागद्वेषादिरहित इत्यर्थः ॥ ७१ ॥

आत्मैक्य-प्रसन्नस्य दर्शनान्तर-मुक्तवत् पुनरावृत्तिर्नास्तीति श्रीन्मतङ्ग- सूत्रेणाह-

दीक्षानलप्लुष्टमलस्य जन्तोः स्वाक्यं बलं व्यक्तिमुपैति योगात् ।
शक्त्या विभोश्चुम्बितहृत्प्रदेशो नान्येन पुंसो विनिवृत्तिमेति ॥ ७२ ॥

दीक्षानल-प्लुष्टमलस्य दीक्षैव अनलः दीक्षानलः दीक्षारूपेण वह्निना प्लुष्ट दग्धः आत्यन्तिक-निवृत्तिं प्रापितो मलश्चैतन्यावरको यस्य स दीक्षानल प्लुष्टमलः तादृशस्य जन्तोः आत्मनः स्वाक्यं स्वकीयं बलं दृक्क्रियारूप-सामर्थ्यं योगात् शिवशक्ति सम्पर्कात् ।
तदुक्तं मतङ्गे (४।५)-

योगोऽस्य शक्तयः स्वाक्या विस्फुरन्ति समन्ततः ।
इति ।

व्यक्तिं पुनर्व्यक्त्यन्तर-शून्याभिव्यक्तिम् उपैति, विभोः परमेश्वरस्य अनुग्राहिकया शक्त्या पुंसः पुरुषस्य चुम्बित-हृत्प्रदेशः स्पर्शितो हृत्प्रदेशः मुक्तचैतन्यम् अन्येन बन्धविशेषेण पुनर्व्यक्तिं पुनरागमनं न एति न गच्छति ।
यथा रसविद्धं ताम्रं हेमत्वमापद्य पुनस्ताम्रतां न याति, तद्वत् अयमात्मापि शिवत्व-मापद्य भूयः पशुत्वं न प्राप्नोतीत्यर्थः ।
तदुक्तं स्वच्छन्दे-

रसवह्नि-समायोगात् ताम्रं कालिकया युतम् ।
विशोधितं तु तत्त्वज्ञैर्हेमत्वं प्रतिपद्यते ॥
न भूयस्ताम्रतां याति तथात्मा तु कथञ्चन ।
गुरुणा तन्त्रविदुषा यस्माद् वै निर्मलः कृतः ।
न भूयो मलतां याति शिवत्वं याति निर्मलः ॥

दर्शनान्तरेषु मुक्तानां पुनरावृत्तिरस्त्येव तत्तत्-प्राप्यस्य तत्त्वातीतत्वाभावात् तदुक्तं वातुलोत्तरे-

त(चि ?)न्मयो(क)ऽन्तर्बहिश्चैव षट्त्रिंशत्-तत्त्वमुक्तियुक् ।
यथार्थतः स देवो हि तत्त्वातीतः परः शिवः ॥

तथा मृगेन्द्रे च-यत् कैवल्यं पुम्प्रकृत्योर्विवेकाद् यो वा सर्वं ब्रह्म मत्त्वा विरामः ।

या वा काश्चिन् मुक्तयः पाशजन्या स्तास्ताः सर्वा भेदमायान्ति सृष्टौ ॥
-मृ० २।२८

शैवे सिद्धे भाति मूर्द्ध्नीतरेषां मुक्तः सृष्टौ पुंवरोऽभ्येति नाधः ।

विश्वानर्थान् स्वेन विष्टभ्य धाम्ना सर्वेशानानीरिताः सर्वदास्ते ॥
इति ।
-मृ० २।२९ ॥ ७२ ॥

इह शास्त्रे पुनरावृत्ति-रहित-मुक्तिरूपं निरूप्य तत्क्रमोपसंहार- पूर्वकं मुक्तात्मनः कारणपूर्वकापुनर्भवं स्वायम्भुवसूत्रेण निरूपयति ।
अथवा मुक्तिक्रमोप-संहारपूर्वकं मुक्तस्याऽपुनर्भवं कारणपूर्वं स्वायम्भुवसूत्रेण दर्शयति-

अनेन क्रम-योगेन परां केवलतां गतः ।
अनाद्यशुद्धि-शून्यत्वात् प्राप्नोति न भवान्तरम् ॥ ७३ ॥

अनेन क्रमयोगेन क्रमेण योगः तेन पूर्वं शिवस्य शक्त्या सह योगः ।
ततो मलक्षरणेन फलेन सह योगः ।
ततो निःश्रेयसादिकमिषधा योगः ।
ततो दिशिकेन योगः ।
पुनर्दीक्षया योगः ।
ततो बन्धविच्छेदेन फलेन योग इति ।
एवं विधेन क्रमयोगेन पराम् उत्कृष्टां केवलताम् एकाकितां शिवसायुज्य-लक्षणां, पूर्वं केवलावस्थितः, केवलता हि एकाकिता, नासौ परा यतस्तस्यामप्यवस्थायाम् आत्मनो द्वितीयो मलोऽस्ति ।
शिवसायुज्य- लक्षणा तु परा केवलता ।
यतस्तस्यां न किञ्चिदपि द्वितीयमस्ति ।
तां गतः प्राप्तः सन् अनाद्यशुद्धि-शून्यत्वात् अनाद्यशुद्धिराणवमलः तच्छून्यत्वात् ।
तद्रहितत्वाद् भवान्तरं जन्मान्तरं न प्राप्नोति ।
नहि कारणं विना कार्यमुत्पद्यते, सत्यपि कर्मणि पुनर्भवबीजमशुद्धिः तच्छुन्यत्वात् कुतो भवान्तर-प्राप्तिरित्यर्थः ।

मायीय-मलस्यादिमतः प्रलयेऽपि नाशेऽपि पुनर्भवान्तर-हेतुत्वं दृष्टमिति तन्निषेधाय अनादिग्रहणं कृतमिति ।
रौरवे-

यथा प्रदीप्त-ज्वलने तुलराशिः समर्पितः ।
दग्धो निर्वाति स तत्र न भूयः स्थूलतां व्रजेत् ॥
एवं वै मण्डलं प्राप्य दीक्षामन्त्र-समुद्भवम् ।
न पुनर्जन्मतां याति दीक्षितो मनुजोत्तमः ॥ ७३ ॥

इदानीमभिव्यक्तात्म-स्वरूपस्य पुंसः ज्ञानपर्याप्त्यवस्था निश्वासकारिका-सूत्रेण दर्शयति-

यस्य जाग्रे प्रलीयन्ते सर्वे भावाः सुषुप्तवत् ।
पर्याप्तं तस्य विज्ञानं त्रिपदं तेन लङ्घितम् ॥ ७४ ॥

यस्य पुरुषस्य सर्वे समस्ता (क) भावाः चित्तवृत्तयः सुषुप्तवत् सुषुप्तं सुषुप्तिः भावे क्तप्रत्ययः सुषुप्त्यवस्थायामिव जाग्रे जाग्रदवस्थायां प्रलीयन्ते प्रकर्षेण लयं गच्छन्ति, तस्य पुरुषस्य विज्ञानं विकल्पज्ञानं पर्याप्तं समाप्तं निर्विकल्पक- ज्ञानमुदेतीत्यर्थः (ख) ।
तेन निर्विकल्पज्ञानयुक्तेन पुंसा त्रिपदमधिकार-भोग-लयाख्यं पदत्रयमपि लङ्घित्तमतिक्रान्तमिति ।
तथा सर्वज्ञानोत्तरे-

यस्तु जाग्रदवस्थायां नियम्य सकलेन्द्रियान् ।
तुर्यावस्था-गुणोपेतस्तां विना भावयेत् पुनः ॥
स जीवन्मुक्त इत्युक्तो देहान्ते मुक्त उच्यते ।
इति ।

तथा-

न हृष्यत्युपकारेण नापकारेण तप्यति ।
यः समः सर्वभूतेषु जीवन्मुक्तः स कथ्यते ॥ ७४ ॥

अथ सूत्रान्तरेणाऽसौ शुद्धात्मा शिवसमर्थितया स्वशक्त्यात्मकया दृष्ट्या शिवं ध्यायति पश्यतीत्याह-

शिवार्क-शक्ति-दीधित्या समर्थीकृत-चिद्दृशा ।
शिवं शक्त्यादिभिः सार्द्धं पश्यत्यात्मा गतावृतिः ॥ ७५ ॥

गता आवृतिः आविद्यावरणं यस्य स आत्मा शिवार्क-शक्ति-दीधित्या शिव एवाऽर्कः तस्य शक्ति-दीधितिः शक्तिरविद्यातमो-निवर्त्तिका संविच्छक्तिः , सैव दीधितिः किरणः तया समर्थीकृत-चिद्दृशा समर्थीकृता शिवदर्शने समर्थतया कृता या चित् सैव दृक् नेत्रं तया, करणे तृतीया ।

शक्त्यादिभिः शक्तिः इच्छाद्यनेक-शक्ति समष्टि-रूपिणी शिवसमवायि शक्तिः आदिर्येषां तैः सार्धं सह शिवं परमेश्वरं पश्यति ।
अपरोक्षीकरोति ।
तथा (तत्त्वसङ्ग्रहे-२९ )-

पश्यति शिवं स्वशक्त्या ध्यायति चासौ शिवो(वेद्ध)त्थया दृष्ट्या ।
इति ।

आदि शब्देन शिवशक्त्याऽधिष्ठीयमान चिदचिद्रूपसमूह-तत्तत्- कृत्यपञ्चक-तत्साध्य-भोग-मोक्षादयो गृह्यन्ते ।
अत एव पातञ्जलाद्युक्तवद् बुद्ध्यादि-विषयत्वं शिवस्य न सम्भवति, तस्य पाशागोचरत्वात् ।
तदुक्तं तत्त्वसङ्ग्रहे ?-

अन्तःकरणवृत्तिर्या बोधाख्या सा महेश्वरम् ।
न प्रकाशयितुं शक्ता पाशत्वान्निगलादिवत् ॥

तत्र शिवस्य चिदभिन्न-स्वरूपस्य घटादिवत् कर्मतया न दृश्यत्वं द्रष्ट्ट-द्रष्टव्ययो-रात्म-शिवयो र्विशुद्धचित्-स्वरूपत्वेन व्यापकत्वेन तथादर्शनासम्भवात् ।
मोक्षकारिका-वृत्तावप्येवमुक्तम् ॥ ७५ ॥

अथ सूत्रान्तरेण शिवापरोक्ष-ज्ञानानन्तरं साधनीभूत- परोक्षज्ञान-हेतुभूतं कामिकादि-शिवज्ञानमनपेक्षणीयमित्येतत् सदृष्टान्तमाह-

उल्काहस्तो यथा कश्चिद् द्रव्यमालोक्य तां त्यजेत् ।
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ७६ ॥

उल्का प्रज्वालिताग्र-काष्ठविशेषः ।
उल्का स्यान् निगत-ज्वाला इत्यमरः ।
स हस्ते यस्य सः कश्चित् पुरुषः यथा द्रव्यं स्वापेक्षित-पदार्थमालोक्य दृष्ट्वा तामुल्कां त्यजेत् ।
तथा ज्ञानेन ज्ञायतेऽनेनेति ज्ञानं कामिकादि- शिवज्ञानं तेन ज्ञेयं स्वपरप्रकाश-सम्बिद्रूपं परशिवरूपं ज्ञेयमालोक्य अपरोक्षीकृत्य पश्चात् अनन्तरं ज्ञानं परोक्षज्ञानसाधनं शास्त्रं परित्यजेत् ।
सम्भावनायां लिङ् ॥ ७६ ॥

अथ निश्वाससूत्रद्वयेन ज्ञेयस्वरूप-निमग्नतावस्थामाह-

यदा मनः परे तत्त्वे लब्धलक्ष्यं निलीयते ।
तदा ह्यशेष-विज्ञानं विनाशमुपगच्छति ॥ ७७ ॥

? मुद्रिते तत्त्वसङ्ग्रहे श्लोकोऽयं नोपलभ्यते, नैव सम्भाव्यते च ।
परन्तु मोक्षकारिकायां षडधिकशत-सङ्ख्यकत्वेन श्लोकोऽयमुपलभ्यते ।

यदा यस्मिन् काले मनः लब्धलक्ष्यं लब्धं पुनः पुनश्चिन्तनेन स्फुटीकृतं लक्ष्यम् अनाद्युपाधि-रहित-परशिव-तत्त्वं यस्य तत् तादृशं सत् परे सर्वतत्त्वातीते तत्त्वे लयातीत इत्यर्थः ।
तथा निश्वासे-

लयातीतः परो देवो निरूपाख्यो निरामयः ।
ज्ञात्वैवमुच्यते ज्ञानी भुञ्जानो विषयानपि ॥
इति ॥

तस्मिन् निलीयते लयं गछति ।
तदा तस्मिन् काले अशेष-विज्ञानम् अशेषं समस्तं विज्ञानं विकल्पज्ञानं विनाशं लयम् उपगच्छति प्राप्नोति ।
अत्र मनः-शब्देन चतुर्विधमनोमध्ये स्वलीनावस्थं मन उच्यते ।
तथा निश्वासे-

संसृष्टश्च स्वलीनश्च विक्षिप्तो गतिरागतिः ।
मनश्चतुर्विधं प्रोक्तं तस्य भेदमिमं शृणु ॥
न मनो नापि मन्तव्यो न मन्ता च विभाव्यते ।
स्वलीनो विषयैर्मुक्त एकीभूतः सुषुप्तिवत् ॥
विषयान् गृह्यमाणोऽपि ज्ञेयत्वमधिगछति ।
न च तै र्युज्यते ज्ञाने (क) संश्लिष्टः स तु उच्यते ॥
अज्ञानाद् गछति ज्ञानं ज्ञानादज्ञानमेव च ।
चलते यस्य दौर्वल्यात् तस्याऽसौ गतिरागतिः ॥
ज्ञानेन श्लिष्यते यस्मादिन्द्रियार्थ-परायणः ।
त्रिकालमाकुलो नित्यं स तु विक्षिप्त उच्यते ॥
स्वलीनश्चोत्तमस्तत्र गुणातीतो निरामयः ।
मध्यमः स तु विज्ञेयः संश्लिष्टः सात्त्विकः स्मृतः ॥
अधमश्चपलः क्षुद्रो राजसो गतिरागतिः ।
तामसः स तु विक्षिप्तश्चतुर्थो ह्यधमाधमः ॥
गुणात्मकः समुद्दिष्टो मलप्रायश्च देहिनाम् ।
निर्गुणं त्वधिकत्वेन यत्र लीनो भविष्यति ॥
मनसश्च स्वलीनस्य यत् सुखं ह्यात्म-साक्षिकम् ।
योगावस्था परा ह्येषा प्राहुर्योगविदो जनाः ॥
एतद्विषयो निश्वासकारिकायां प्रपञ्चितः, तत्रावधार्यताम् ॥ ७७ ॥

अनेन शिवसायुज्यं प्राप्नोतीति सूत्रान्तरेण कथयति-

अनाख्ये तु निरालम्बे अग्राह्ये मानवर्जिते ।
नस्तत्त्वे योजितो मुक्त इति शास्त्रस्य निश्चयः ॥ ७८ ॥

अनाख्ये आख्याः शक्तोद्युक्तादि-नामानि तद्रहिते निरालम्बे नाद-बिन्दु- व्योममन्त्राद्याधार-रहिते अग्राह्ये बुद्ध्यादिकरणै-रशक्य-ग्रहणे ।
निरालम्बे अग्राह्ये इति प्रकृतिभावञ्छान्दसः ।
मानवर्जितं संश्लिष्टादिरहिते गुणत्रयानात्मके निस्तत्वे सर्वतत्त्वातीते परतत्त्वे योजितः ।
अत्र योगार्थो युजिधातु र्गृह्यते, न तु युजि समाधाविति समाध्यर्थः ।
तथाच प्रसिद्धं साजुज्यमात्मलाभरूपं प्रापित इत्यर्थः ।
यथा सुप्रभेदे-

शिवं संयोजितं रूपं सायुज्यमिति कथ्यते ।

एवम्भूतसायुज्यं प्राप्तः मुक्त इति शास्त्रस्य शिवागमस्य निश्चयः सिद्धान्तः ।

अत्र सायुज्य-शब्देन शिव-सादृश्यमुच्यते ।
नतु तादात्म्यादि- सम्बन्धः ।
तदुक्तं चिन्त्ये-

अन्यथा बहुमुक्त्युक्तिः शास्त्रे चैव वरानने ।
शिवत्वसुलभा मुक्तिरिदानीं कथ्यते मया ॥
इति ।

तथोक्तमभिर्युक्तैरपि-

नात्मच्छेदोऽपवर्गो न च पशु-शिवयोरैक्यमत्राऽपवर्गो नाविद्या-ग्रास-हानिर्नच गुणविलयो नापि पाषाणमुक्तिः ।
यद्बोधानन्दरूपं त्रिमलविगमने व्यक्तमात्मस्वरूपं तत् सायुज्येन वाच्यं शिवसदृशविभोश्चैष (क) तन्त्रापवर्गः ॥

देवीकालोत्तरे-

निद्राया बोधयेच्चितं विक्षिप्तं शमयेत् पुनः ।
पक्षद्वय-परित्यागे सम्प्राप्ते नैव चालयेत् ॥
निराश्रयं सदा चित्तं सर्वालम्बन-वर्जितम् ।
मनोऽवस्था-विनिर्मुक्तं विज्ञानं मुक्तिलक्षणम् ॥
इति ॥ ७८ ॥

इदानीमात्मलाभरूपं प्राप्तस्याऽस्य अवस्थानं स्वायम्भुवसूत्रेण दर्शयति-

भवोद्भव-पदातीतो निष्कम्पार्च्चिरिव स्थितः ।
मुक्तौ व्यक्त-शिवत्वोऽसौ कृतकृत्यो यतस्ततः ॥ ७९ ॥

[यतः यस्मात् कारणात् असौ कृतकृत्यः शिवसायुज्यं प्राप्तस्ततः] तस्मात् कारणाद् भवोद्भव-पदातीतः सन् भवः संसारः तस्मिन् उद्भवपदानि जन्म-

स्थानानि यद्वा भवपदं भवतीति भवोऽहं-पदं सकल-प्रलयाकल- विज्ञानाकलानां पदम्, उद्भवपदं तस्मादूर्ध्वं भवतीति उद्भवपदम् अनन्तादिपदं तदतीतः अतिक्रम्य वर्त्तमानः सन् निष्कम्पार्च्चिरिव निष्कम्पः कम्परहित अर्च्चिरिव ज्वालेव स्थितः ।
अथवा अपरमोक्षस्य षट् पदानि सन्ति भवोद्भवपदं शान्त्यतीतं शान्तितत्त्वं नादाख्यमैशं विद्याख्यमिति ।
तत्र सर्वोत्तरं षष्ठं भवोद्भवपदम् अतिक्रम्य वर्त्तमानो यः, सः प्रदीपार्च्चिरिव तिष्ठतीत्यर्थः ।
तदुक्तं शिवतत्त्व-विलासे-

भवोद्भवपदं त्वेकं शान्त्यातीत मतः परम् ।
शान्तितत्त्वं च नादाख्यमैशं विद्याख्यमेव च ॥
उदाहृतानि मुक्तानां पदान्येवं क्रमेण षट् ।

एतत् सर्वं सद्योज्योतिष्टीकायां (क) प्रपञ्चितम्, तत्राऽवधार्यताम् ॥ ७९ ॥

अथ देवीकालोत्तरसूत्रेण कृतकृत्यस्य नित्यादि-कृत्यान्तरं नास्तीति निरूपयति-

नात्र पूजा नमस्कारो न जपो ध्यानमेव च ।
केवलं ज्ञेयमित्युक्तं वेदितव्यं न किञ्चन ॥ ८० ॥

अत्र जीवन्मुक्त-दशायां पूजा अर्चना न, नमस्कारः सत्कारश्च न, जपोऽपि न, ध्यानं (क) चिन्तनं न ।
अतः किमस्ति नित्य-नैमित्तिकादि, अत आह- केवलं ज्ञेयमिति उक्तम् ।
ज्ञेयमिति ज्ञेयभावमात्रावस्था नेति सूचितम् ।
वेदितव्यं ज्ञातव्यं किञ्चन किमपि न नास्तीति ।
तथा न बाह्येषु कर्मसु प्रीतिं बध्नातीत्यर्थः ।
तथा-

नियमोऽपि न तस्याऽस्ति नोपवासो विधीयते ।
प्रवृत्तिश्च निवृत्तिश्च ब्रह्मचर्य-व्रतानि च ॥

तत्रैवाचारप्रकरणे-

न ध्यानं न जपः पूजा न होमो नैव साधनम् ।
अग्निकार्याधिकारश्च नैतस्याऽस्ति महेश्वर ! ॥
इति ॥ ८० ॥

एवं जीवन्मुक्तो वासनावशेन विषयज्ञानयुक्तोऽपि शिवशक्त्या स्वरूप-ज्ञाननिष्ठ एव भवतीति निश्वासकारिकासूत्रेणाह-

यथा वायुः सुशीघ्रोऽपि मुक्त्वाकाशं न गच्छति ।
ज्ञेये निक्षिप्तचित्तस्तु विषयस्थो न मुञ्चति ॥ ८१ ॥

वायुः सुशीघ्रः अत्यन्तशीघ्र-गमनोऽपि यथा आकाशं परिपूर्णं व्योम मुक्त्वा विसृज्य न गच्छति न सञ्चरति ।
तथा ज्ञेये शिवे निक्षिप्तचित्तः निक्षिप्तम् अवस्थापितं चित्तं चैतन्यं यस्य सः तादृशस्तु पुमान् विषयस्थः विषये तिष्ठतीति विषयस्थः तादृशोऽपि न मुञ्चति ज्ञेयं न त्यजति ।
तत्रैव-

भुङ्क्ते तु विषयान् सर्वानसौ लेप्यस्यालेपकः ।
यस्य सर्वगतो भावो शम्भावस्थो निरन्तरः ॥
इति ।

अयं साक्षात्कृत-शिवस्वरूपतया तज्ज्ञानात्मकम् अमृतं सर्वदाऽनुभवतीत्यर्थः ।
तथा सर्वज्ञानोत्तरे-

शिवज्ञानामृतं पीत्वा विचरस्वं यथासुखम् ॥
इति ॥ ८१ ॥

अथ सूत्रान्तरेण अस्याध्व-दर्शितत्वमेव स्वभाव इति दृष्टान्तपूर्वमाह ?-

इन्द्रियार्थे यथा चित्तं नित्यं गछति देहिनाम् ।
तथा चैवेन्द्रियातीते तस्य नैराकृते पदे ॥ ८२ ॥

देहिनां शरीरिणां चित्तं मनः इन्द्रियार्थे इन्द्रियविषये यथा नित्यं शश्वत् गछति प्रवर्त्तते, तथा तस्य जीवन्मुक्तस्य चिच्छक्तिश्च इन्द्रियातीते इन्द्रियागोचरे नैराकृते पदे स्थान एव गछति ।
अयं भावः- पुरुषस्य चित्तम् इन्द्रियार्थे विषये यथा निरावाधं प्रतिक्षणं वर्त्तते, मनसो निश्चलत्वं तु सर्वज्ञेयाभ्यासे न भवति (क) तद्वद् जीवन्मुक्तचित्तमपि अतीन्द्रिये निर्मले केवले सदा प्राप्नोतीत्यर्थः ॥ ८२ ॥

क्षीरक्षयाद् यथा वत्सः स्तनान्मातुर्निवर्त्तते ।
रागक्षयात् तथा पुंसां मनः शीघ्रं निवर्त्तते ॥ ८३ ॥

मातुः स्तन्यं यावत् तावत् वत्सस्तत्-स्तन्यं स्वीकरोति तत्क्षये सति यथा निवर्त्तते, तद्वन्मनोऽपि निवर्तत इति ।
तथा तत्रैव-

? अत्र दृष्टान्तपूर्वमाहेत्यनन्तरं-इन्द्रियार्थ इत्यादि-न भवत्यन्तः पाठस्ततः मातुः स्तन्य मित्यादि किं करिष्यत्यन्तः पाठस्ततः क्षीरक्षयादित्यादि-नैराकृते पदे इत्यन्तः पाठस्ततो देहिनां विरागीणमिति पाठो दृश्यते ।
टीकानुरोधेन प्रकृतोपयोगित्वेन चात्र परिवर्त्तनं कृतमिति मन्तव्यम् ।

कायानुबन्ध-चलने नासौ चलति निश्चलः ।
यस्य ज्ञेयमिदं सर्वं मनस्तस्य सुनिश्चलम् ॥
एवं यो निर्जितो धीरैः स त्वा किं करिष्यति ॥ ८३ ॥

तादृक्-पदावस्थितस्य पुरुषस्य काल-महिमानौ निरूपयति ।
अथवा सूत्रान्तरेणा (तीत) सर्वाध्वस्थानस्थानस्य कालं च महिमानं च दर्शयति-

गोदोहमिषुपातं वा नयनोन्मीलनमात्रकम् ।
सकृत् परपदे युक्तो न पुनर्भवमाप्नुयात् ॥ ८४ ॥

गोदोहः गौर्यावता कालेन दुह्यते, सोऽयं कालो गोदोहः तन्मात्रं वा ; नयनोन्मीलनमात्रकं नयनस्य चक्षुषः उन्मीलन-कालमात्रकं वा ।
कालाध्वनोरत्यन्त संयोगे द्वितीयेति द्वितीया विभक्तिर्भवति ।
सकृत् कदाचित् परपदे सर्वाध्वातीते निरुपाधिके शिवपदे युक्तः योजितः कृत-समाधिकः पुनर्भवं पुनर्जन्म नाप्नुयात् न प्रयायादीति ॥ ८४ ॥

अथ सूत्रान्तरेण तस्य शिवत्वसदृश-स्वकीय-शिवत्वावाप्तिरेव प्राप्तिः ।
न चाद्वैतवादवत् तदैक्यम्, इन्द्रादि-प्राप्तिवत् तद्देश-गमनं वेति प्रतिपादयति-

पशुभावाद् यदातीत्य पतिभावेन तिष्ठति ।
तत् तस्य गमनं नाम सर्वगे गमनं कुतः ।

यदा यस्मिन् काले पशुभावात् पशुत्वात् अतीत्य अतिक्रम्य पतिभावेन शिवभावेन तिष्ठति वर्त्तते ।
तदा तस्य मुक्तस्य तत्पतित्वेन वर्तनं गमनं नाम प्रसिद्धम् ।
तदुक्तं स्वायम्भुवे-

दग्ध-संसार-बीजस्य या पुंसः पश्चिमार्थतः ।
सा गतिस्तस्य विज्ञेया न देशान्तर-संस्थितिः ॥
पूर्वावस्थान्तरव्यक्तौ सत्यां लोके गतं यथा ।
प्रोच्यते पटवर्णादि वस्तु तद्वत् पुमानपि ॥
इति ।

अत्र गमन-शब्दस्य मुख्यार्थो न घटत इत्याह-सर्वगे व्यापके वस्तुनि गमनं कुतः ? आत्म-शिवयोरुभयोरपि व्यापकत्वात् अनयोः प्राप्य- प्राप्तभावो न घटत इत्यर्थः ।
अयं भावः-आत्मनः शिवत्वप्राप्तिः शिवेन संयोगो वा तादात्म्यं वा ॥ ८५ ॥

अथ स्वायम्भुवसूत्रेण भोक्तृत्वादिकमपि (क) तस्य नास्तीत्याह (ख)-

शिवधामार्पितस्याऽस्य भोगभोक्तुर्न जातुचित् ।
भोक्तृत्वमधिकारित्वं पतिकृत्यानुकारिता ॥ ८६ ॥

शिवधामार्पितस्य शिवस्य धाम तत्समत्वम् अर्पितम् अभिव्यञ्जितम् अस्येति शिवधामार्पितः तादृशस्य भोगभोक्तुः अस्य पुरुषस्य जातुचित् कदाचिदपि न भोक्तृत्वं भोगक्रिया-कर्तृत्वं यत् सकलस्य दृष्टं तद् नास्ति ।
अधिकारित्वं मायागर्भाधिकारित्वं यत् प्रलयाकलस्य दृष्टं, तदपि नास्ति, पतिकृत्यानुकारिता पतिकृत्यात् अनु पश्चात् कारित्वम् अनुकारिता ।
इदं कुर्विति पत्युरिच्छामात्र-प्रवृत्ते सति ये प्रवर्त्तन्ते, ते पतिकृत्यानुकारिणः तेषां भावः पतिकृत्यानुकारिता, पतीछा-प्रणिहित-व्यवहारित्वमिति यावत् ।
साऽपि सकल-प्रलयाकल-विज्ञानकलेषु त्रिष्वपि दृष्टा पतिकृत्यानुकारिता तस्य नास्ति ।
तस्य स्वतन्त्रत्वेन परप्रेर्यत्वं नास्तीत्यर्थः ।
एवं सर्वज्ञानोत्तरे-

शिववच्छाश्वतः शुद्धः सृष्टिधर्म-विवर्जितः ॥
सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः ।
अतः परतरं नास्ति विज्ञेयं कुत्रचिद् गुह ! ॥ ८६ ॥

अथ किरणसूत्रेण तदवस्थायामपि मलस्यावस्थानमानुमानिकं सदृष्टान्तमाह-

विषसम्बन्धिनी शक्तिर्यथा मन्त्रैर्निरुध्यते ।
तदा न तद्विषं क्षीणमेवं पुंसो मलक्षयः ॥ ८७ ॥

विषसम्बन्धिनी विषस्य सम्बन्धिनी या शक्तिः मोहमरणादि- कार्यजनिका शक्तिः, सा यथा मन्त्रैः गारुडादिभिर्मन्त्रैर्निरुध्यते (क) निरोधं तत्कार्य-प्रवृत्तिविघातं नीयते ।
तद्विषं च तदा तस्मिन् काले न क्षीणं वर्णाकृत्यादि-स्वरूप-निरोधरूपं क्षयं न प्राप्तम्, एवम् एतेन प्रकारेण पुंसः दीक्षया शुद्धस्यात्मनः मलक्षयः स्वसहभाविनो मलस्य क्षयः तदा कारकत्व-शक्तेः कार्य-प्रवृत्ति-विघात एव क्षयः ।
न स्वरूपतो मलस्य क्षय इत्यर्थः ।

अत्रेदं विचार्यते-दीक्षादिभिरुपायै किं मलस्य विश्लेषः क्रियते ? अथ विनाशः ? अथ तिरोभावो वा ? नाद्यः ।
तयोर्मलात्मनोः सम्बन्धस्याऽनादित्वेन विश्लेषायोगात् ।
अपि च प्राप्ति-पूर्वको विभागः ।
नच प्राप्तिर्मलात्मनोरस्ति, द्वयोरपि विभुत्वेन तदयोगात् ।

नहि यद् व्यापकं वस्तु तद् विविच्यमानं दृष्टम्, विभागोऽपि वा जायमानोऽन्यतरादि-कर्मनिमित्ताद् भवति ।
कर्म चोपजायमानं परिमित- परिमाण-सम्बन्धवति द्रव्ये भवति ।
विभुद्रव्ये तदभावान्न तयोर्विश्लेष इति ।

अथ विनाशः ? सोऽप्यनुपपन्नः, सहजस्य मलस्य (क) प्रक्षये आत्मनोऽपि तद्धर्मिणो विनाश-प्रसङ्गात् ।
धर्मधर्मिणोरनन्यत्वात् ।
अपिच सकल-पुद्गल-बलावरोधको मलोऽयमभ्युपगम्यते ।
यद्यस्योच्छेदः स्यात्, तदाऽस्य सकल-पुद्गल-साधारणत्वादेकस्य (ख) पुरुषस्याऽनुग्रहे सवप्राणिब्रातो विमलः स्यात् ।
तस्माद् विनाशोऽपि न युज्यते ।

अथ तिरोभावः ? सोऽपि न युज्यते ।
यस्याऽर्थस्य तिरोभावो भवति, तस्याऽवश्यं पुनराविर्भावोऽपि कालान्तरेऽभ्युपगन्तव्यः, अन्यथाऽसौ तिरोहित इत्येव न शक्यते वक्तुम् ।
ततः को दोष इति चेत् ? अत्यन्तमुक्तः संसारीति च व्यवहारसिद्धि-प्रसङ्गात् ।
तस्मात् तिरोभावोऽपि न युज्यते ।
नचान्या गतिरस्ति ।
तस्मात् अनेक-दोषापत्तेः कथमस्य मलस्याऽपायभाव इति ।

अत्रोच्यते-सत्यम्, अस्मिन् शास्त्रे दीक्षादिभिरुपायैर्व्यापकस्य मलस्य विभागो वा विनाशो वा तिरोभावो वा नाभ्युपगम्यते ।
अपि तु यथा अग्नेरुष्णस्पर्शस्य दाहिका-शक्तिर्मन्त्रेण निरुध्यते ।
तथा मलस्यापि व्यापारिका शक्तिरुपायैर्निरुध्यते ।
यथा च लोके स्तम्भितशक्तिरग्निः स्तम्भितो निगद्यते ।
तद्वत् मल-शक्तिवियोगात् स मलो वियुक्त इति उपचारेणाऽभिधीयते ।
तदुक्तमत्रैव-विभुरपि यथाग्निर्दाहकार्ये सकलपुद्गल-साधारणस्तथापि तच्छक्तयोऽनन्ता इत्युक्तम् ।
तथाच यस्य पुरुषस्य प्रसन्नो गुरुः तस्याग्नेर्दाहिकां शक्तिं सन्निरुद्ध्य हिमशीतलमग्निं-करोति ।
इतरेषां च स वह्निरप्रतिबन्धत्वाद् दाहलक्षणं कार्यं करोत्येव ।
तथा मलोऽपि, यस्य तच्छक्तिः प्रतिबद्धा (ग) तस्य संसारं न प्रतनोति; अन्येषां भवो भवत्येव प्रतिबन्धाभावात् ।
तस्मान्नायं दोषः ।

यदन्यत् सहज (घ)मलक्षये आत्मनो विनाशः स्यादिति दूषणमुक्तम् ।
तदपि न ।
धर्म-विनाशेऽपि धर्मिणो विनाशाभावात् ।
कुत्रैतद् दृष्टमिति चेत् ? उच्यते ।
यथा ताम्र-सहभाविनी कालिका अम्लसंस्पर्शात् क्षयमुपयाति, न ताम्रं क्षीयते ; किन्तु अवस्थितस्य तस्यैव गुणान्तरं प्रादुर्भवति ।
स्थितस्यैव धर्मान्तरं भवति ।

नतु विनष्टस्य ।
तस्मात् ताम्रकालिका-क्षयवद् अस्यापि पुंसो मलक्षय इत्यत्रापि नानुपपत्तिः ।
उक्तमत्रैव-

सहजा कालिका ताम्रे तत्क्षये न च तत्क्षयः ।
जायते तद्वदस्य स्यात् पुरुषस्य मलक्षयः ॥
इति ॥ ८७ ॥

सहजमलक्षयमुक्त्वा कर्मक्षयं सूत्रान्तरेण दर्शयति-

अनेकभविकं कर्म दग्धं (क) बीजमिवाऽणुभिः ।
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥ ८८ ॥

अनेकेषु भवेषु जन्मसु अर्जितं सञ्चितमनेकभविकं तत् सञ्चितं कर्म (ख) अणुभिर्मन्त्रैर्बीजमिव दग्धं, यथा वह्निदग्धं बीजमुपहत- सामर्थ्यं सत् अङ्कुरदानाय न भवति ।
यथा सुप्रभेदे-

अग्निदग्धानि बीजानि न प्ररोहन्ति भूतले ।
इति ।

तथा मन्त्रोपहत-शक्तिकं कर्म फलदानाय न भवतीत्यर्थः ।
भविष्यत् आगामि कर्माऽपि संरुद्धं सम्यक् मन्त्रशक्त्या रुद्धं प्रतिबद्धम् ।
ननु तस्याऽनुत्पन्नत्वात् कथं प्रतिबन्ध इति ।
नैतत् सत्यम् ।
अनुत्पाद एवाऽस्य प्रतिबन्धः ।
यत् तस्योत्पादकं सहकारि कर्मान्तरं, तद् दग्धबीजमिवेत्युक्तम् (ग) ।
अतः प्रतिबद्धत्वादागामि-कर्मणोऽनुत्पाद इत्यर्थः ।
येन कर्मणा पुनः इदं शरीरं निष्पादितमिति शेषः ।
तत् प्रारब्ध-कर्म भोगतः उपभोगादेवोपरममुपयाति, नान्यथा ।
सुप्रभेदे-

शरीरारब्ध-कर्माणि भुज्यन्ते स्वयमेव तु ।
इति ।

तथा प्रारब्धकर्म-व्यतिरिक्त-कर्मणामेव दीक्षया निरोधः इत्यर्थः ।
एतच्च प्रारब्धं त्रिविधम्-इच्छाप्रारब्धम् अनिच्छाप्ररब्धं परेच्छाप्रारब्धमिति ।
तथा-

इच्छाऽनिच्छा परेच्छा च प्रारब्धं त्रिविधं स्मृतम् ।
अपथ्यसेविनश्चौरा राज-दार-रता अपि ।
जानन्त एव स्वानर्थ मिच्छन्त्यारब्धकर्मतः ।
(पञ्चदशी ७-१५२।१५३)

इदमिच्छाप्रारब्धम् ।

स्वभावजेन कौन्तेय ! निबद्धः स्वेन कर्मणा ।

कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥
(भवद्गीता-१८।६०)

इदमनिच्छाप्रारब्धम् ।

नानिच्छन्तो न चेच्छन्तः परदाक्षिण्य-संयुताः ।
सुखदुःखे भजन्त्येतत् परेच्छापूर्वकर्म हि ॥
(पञ्चदशी-७।१६२)

इदं परेच्छाप्रारब्धम् ॥ ८८ ॥

ननु अशेषपाश-विनाशिका दीक्षा अभ्युपगता, तया च स्वसत्ताभिव्यक्तौ जातायां तस्मिन्नेव काले शरीरस्य पातः प्राप्नोतिः ।
तदुक्तमत्रैव-

अशेषपाश-विश्लेषो यदि देवस्य दीक्षया ।
जातायामर्थ कथं स्याद् वपुषः स्थितिः ॥

इत्याशङ्क्य तां सूत्रान्तरेण निरस्यति-

जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि ।
पूर्वसंस्कार-संसिद्धं तथा वपुरिदं स्मृतम् ॥ ८९ ॥

घटस्य निष्पत्तिरभिव्यक्तिः, तस्यां जातायाम् उत्पन्नायामपि यथा चक्रं भ्रमति भ्रमणं भजते ।
तथा इदं दृश्यमानं वपुः आत्मनः शरीरं पूर्वसंस्कार-संसिद्धं पूर्वसंस्कारेण धर्माधर्मलक्षण-कारणजन्य-संस्कार-विशेषेण संसिद्धं धृतं सत् स्थितं तिष्ठति ।

अयमर्थः-घटफलाभिव्यक्तये तावत् कुम्भकारश्चक्रं भ्रामयेत्, घट-निष्पत्तौ जातायामपि पूर्ववद् यथा तच्चक्रं भ्रमत्येव ।
पूर्वसंस्कारानुबिद्धमिदं शरीरम् अर्थनिष्पत्तौ जातायामात्मवदवतिष्ठते ।

ननु वेगात् तत्र चक्रे भ्रमणक्रिया भवति, तच्च निष्पन्नेऽपि फले युज्यते ।
एवं शरीरे पुनर्न किञ्चिदन्यनिमित्तं विद्यते ।
येन तस्याऽवस्थानं स्यादिति ।
मैवम् ।
अशेष-कर्म-प्रक्षयोऽत्र मया नाऽभ्युपगम्यते ।
यथा अवस्थित-वेगाख्य-संस्काराद् भ्रमणं कार्यं च भवति ।
तथा धर्माधर्म-लक्षणात् कारणात् साधारण-लक्षण-संस्कारविशेषो भवति ।
तस्मात् संस्कार-विशेषादिदं शरीरमवतिष्ठत इति ।
यथा सुप्रभेदे-

हिङ्ग्-त्यक्ते तु तत्पात्रे गन्ध स्तत्र न नश्यति ।
कुलालचक्रं कर्मान्ते यथा भ्रमति वै तथा ॥
इति ॥ ८९ ॥

अथ देव्या मतसूत्रेण जीवन्मुक्तस्य देहावसानस्थितिं दर्शयति-

भग्ने घटे यथा दीपः सर्वतः सम्प्रकाशते ।
देहपाते तथा चात्मा भाति सर्वत्र सर्वदा ॥ ९० ॥

यथा दीपः भग्ने घटे सति भिन्ने सति सर्वतः सर्वासु दिक्षु सम्प्रकाशते सम्यक् प्रकाशते, सङ्कोचं विहाय सर्वत्र स्वतः-प्रकाशो भवतीत्यर्थः ।
तथा आत्मा मुक्तात्मा च देहपाते देहान्ते देहस्य चैतन्य- सङ्कोचक-शरीरस्य नाशे सति सर्वत्र सर्वदेशे सर्वदा सर्वकाले भाति प्रकाशते ।
देशतश्च कालतश्च अपरिच्छिन्न-प्रकाशो भवतीत्यर्थः ।
यथा सुप्रभेदे-

घटगुप्तो यथा दीपो घटनाशे तु दीप्यते ।
घटागुप्तो यथा भानुर्मुक्तौ चापि तथा भवेत् ॥
स्वभावज्ञानतो मुक्तिः स जीवन्मुक्त एव हि ।
देहनाशे परा व्याप्तिर्घटनाशे तु दीपवत् ॥
इति ॥ ९० ॥

इत्थं पति-पशु-पाश-स्वरूप-निरूपण-द्वारेण आत्मनः केवलशुद्धावस्थात्रयं प्रतिपाद्य (क) अस्य ज्ञानशास्त्रस्याऽधिकार्यनधिकारि-विवेकं निश्वासकारिकया (ख) प्रदर्शयति-

प्रकटयस्वेदं ज्ञानं मद्भक्तानां वरानने ! ।
रक्षणीयं प्रयत्नेन तस्करेभ्यो घनं यथा ॥ ९१ ॥

इति उमापतिशिवाचार्य-सङ्गृहीतशतरत्नसङ्ग्रहः समाप्तः

हे वरानने ! देवीसम्बोधनमेतत् ।
इदं ज्ञानं ज्ञायन्ते पत्यादयोऽनेनेति ज्ञानं शास्त्रम् ।
तथा च वायव्ये-

ज्ञानं वस्तु परिच्छेदो वस्तु च त्रिविधं स्मृतम् ।
इति ।

मद्भक्तानां मद्भजनवतां प्रकटयस्व प्रकाशय ।
दया शान्ति- युक्तानां देवाग्नि-गुरु-भक्तानाम् अस्मिन् ज्ञान-शास्त्रे अधिकार इत्यर्थः ।
तथाच तन्त्रे (ग)-

देयं शान्ताय दान्ताय शिवभक्ति-रताय च ।
शिववन्मन्यते यस्तु आचार्यं तत्त्वपारगम् ॥
शिवाद् गुरुतरा भक्तिर्यस्य नित्यं गुरौ सदा ।
तस्य देयमिदं ज्ञानमन्यथा न कदाचन ॥

कालोत्तरे-

यस्य देवे परा भक्ति र्यथा देवे तथा गुरौ ।
नान्यशास्त्रे यदासक्तिर्ज्ञानं तस्मिन्नु दापयेत् ॥

तथा सर्वज्ञानोत्तरे-

गुरु-देवाग्नि-भक्ताय नित्यं भक्तियुताय च ।
प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् ॥
इति ।

अस्य ज्ञानस्याऽनधिकारिलक्षणमाह-रक्षणीयमित्यादि ।
यथा-लोके जनाः तस्करेभ्यः चोरेभ्यः सकशात् घनं निक्षेपादीन् प्रयत्नेन प्रयासेन पालयन्ति, तथा ज्ञानसाधनं चोरेभ्यः अभक्तादिभ्यः सकाशादिति ।
प्रयासेन गोपनीयमित्यर्थः ।
तथाच तन्त्रे-

इदं देवि ! न दातव्यं ज्ञानसद्भावमुत्तमम् ।
दुविर्दग्धे शठे क्रूरे अन्याय-पथवर्त्तिने इति ॥

सर्वज्ञानोत्तरे-

एतत्ते शिवसद्भावं शिववक्त्राद् विनिर्गतम् ।
गुह्याद् गुह्यतमं गुह्यमूहनीयं प्रयत्नतः ॥
नाशिष्याय प्रदातव्यं नापुत्राय कदाचन ॥ ९१ ॥

इति उमापतिशिवाचार्य-सङ्गृहीत-शतरत्नोल्लेखनी समाप्ता ।


ॐ ॥


विनायकाय नमः ॥


चिदम्बरेश्वरशिव-कामसुन्दरीभ्यां नमः ॥