विश्वास-प्रस्तुतिः ५०
पुरुषस्य हि भोगार्थं कलैव तस्मात् प्रसूयतेऽव्यक्तम्
अनभिव्यक्तगुणत्वादव्यपदेश्यं तदव्यक्तम्
मूलम् ५०
पुरुषस्य हि भोगार्थं कलैव तस्मात् प्रसूयतेऽव्यक्तम्
अनभिव्यक्तगुणत्वादव्यपदेश्यं तदव्यक्तम्
कुमारः- तात्पर्य-दीपिका
अथ चतुर्थः परिच्छेदः
अथेदानीमव्यक्तस्वरूपनिरूपणार्थमाह- पुरुषस्येति ।
पुरुषस्य सुखाद्यनुभवाय मायातत्त्वादेवाव्यक्तमुत्पद्यते ।
अव्यक्तपदप्रवृत्तिनिमित्तमाह- अनभिव्यक्तसत्त्वादिगुणवत्त्वादिदं तत्त्वमव्यक्तमित्युच्यते ।
सत्त्वरजस्तमसां (साङ्ख्यसूत्रमेतत् साङ्ख्यप्रवचनभाष्ये (१।६१) व्याख्यातं
द्रष्टव्यम् ।) साम्यावस्था प्रकृतिः इति साङ्ख्याचार्या आहुः, अतोऽनभिव्यक्तगुणत्वमस्य
सम्भवति । भूततन्मात्रेन्द्रियमनोऽहङ्कारबुद्धीनामव्यक्तकार्याणां
सुखदुःखमोहहेतुतया त्रिगुणात्मकत्वात् । तत्कारणस्याव्यक्तस्य त्रिगुणात्मकत्वसिद्धिः ।
तस्य स्वरूपमप्रतर्क्यम् । तदुक्तम्-
तद्बाह्ये (वचनमिदं चन्द्रज्ञानस्य स्यात् ।) तु भवेदन्यदव्यक्तं तत्त्वमुत्तमम्
।
अप्रतर्क्यमविज्ञेयं निर्वाणवदवस्थितम् ॥ इति ।
अस्य षडध्वव्याप्तिः- टकारो वर्णः । अरूपिन्नित्यादि द्वे पदे ।
नं शिरसे पञ्चार्णौ मन्त्रौ । गुणप्रकृत्याख्यं तत्त्वम् । कृताकृतादीन्यष्टौ भुवनानि
। शान्तिः कला ॥ १ ॥
अघोर-शिव-वृत्तिः
एवं भोक्तृत्वं प्राप्तस्य पुंसो भोगार्थं भुज्यन्ते एभिरिति भोगा
भोगसाधनानि गुणादीनि तत्त्वानि, तत्सिद्ध्यर्थं तत्कारणत्वेनाव्यक्तम् । तस्मात्
प्रागुक्ताद्रागत्त्वादनन्तरं कलैवोत्पादयति । ननु गुणा एवाव्यक्तं बुद्ध्यादिकारणमिति
साङ्ख्याः, तदयुक्तमित्याह- अनभिव्यक्तेति । गुणानामचैतन्ये सत्यनेकत्वात्
कारणपूर्वकत्वमित्युक्तम्, अतोऽनभिव्यक्तगुणरूपकार्यत्वादेव तदव्यक्तमित्युच्यते ।
यद्येवं साङ्ख्याभ्युपगतप्रकृतिवन्नित्यमेवेदमस्तु, तन्न । प्रकृतेश्च प्रतिपुरुषं
भेदेन जडत्वे त्वनेकत्वात् कार्यत्वं सिद्धम् ॥ ५० ॥
विश्वास-प्रस्तुतिः ५१
अव्यक्ताद् गुणतत्त्वं प्रख्याव्यापारनियमरूपमिह
सत्त्वं रजस्तमोऽपि च सुखदुःखे मोह इत्यपि च
मूलम् ५१
अव्यक्ताद् गुणतत्त्वं प्रख्याव्यापारनियमरूपमिह
सत्त्वं रजस्तमोऽपि च सुखदुःखे मोह इत्यपि च
कुमारः- तात्पर्य-दीपिका
गुणतत्त्वं लक्षयति- अव्यक्तादिति ।
गुणसाम्यस्वभावादव्यक्ताद् गुणतत्त्वं वैषम्यात्मकं जायते ।
प्रख्याव्यापारनियमरूपं तद्बृत्तिकम् । प्रख्या प्रकाशो ज्ञानं वृत्तिः सत्त्वगुणस्य,
निर्मलत्वात् । व्यापारः क्रिया रजसो वृत्तिः, चलत्वात् । नियमो नियमनं वृत्तिस्तमसः,
गुरुत्वादिति सत्त्वरजस्तमोनामकं च सुखदुःखमोहस्वरूपकं च गुणतत्त्वमिति । तदुक्तं
साङ्ख्यैः-
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ (सा० का० १३)
अस्य गुणतत्त्वस्य वर्णं शुक्लरक्तकृष्णात्मकम् । तदुक्तम्-
तद्बाह्ये (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् ।) तु भवेदन्यद् गुणावरणसञ्ज्ञितम् ।
इन्द्रनीलमहारत्नशुद्धस्फटिकसन्निभम् ॥ इति ॥ २ ॥
अघोर-शिव-वृत्तिः
ततश्च- अव्यक्तादिति ।
प्रकाशप्रवृत्तिनियमाख्यैस्त्रिभिः कार्यैरेतत्सिद्धम् । किञ्च, ते गुणाः सत्त्वादयः
सुखादिजनकत्वात् क्रमेण सुखदुःखादय उच्यन्ते । एषां च सर्वेषां तत्त्वानां
विस्तरेण साधनं श्रीमन्मतङ्गादौ (मातङ्गपारमेश्वरे विद्यापादे ३-२३ पटलेषु
तत्त्वप्रपञ्चो द्रष्टध्यः ।) द्रष्टव्यम् । नात्र विस्तरभयाल्लिखितम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः ५२
भवति गुणत्रयतो धीर्विषयाध्यवसायरूपिणी चेह
सापि त्रिविधा गुणतः प्रोक्ता कर्मानुसारेण
मूलम् ५२
भवति गुणत्रयतो धीर्विषयाध्यवसायरूपिणी चेह
सापि त्रिविधा गुणतः प्रोक्ता कर्मानुसारेण
कुमारः- तात्पर्य-दीपिका
इदानीं बुद्धितत्त्वं निरूप्यते- भवतीति ।
गुणानां सत्त्वरजस्तमसां त्रयं गुणत्रयम्, तस्माद् बुद्धिरुत्पद्यते । तस्या
लक्षनमाह- विषयाध्यवसायरूपिणी चेति । विषयेषु शब्दादिष्वध्यवसायो निश्चयो
रूपं वृत्तिर्यस्याः सा तथोक्ता । चकाराद् धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावै-
राग्यानैश्चर्यात्मनाऽष्तविधवृत्तिमत्त्वं बुद्धेः सूचितम् । तदुक्तम्-
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥ (सा० का० २३)
तत्राभ्युदयनिःश्रेयसयोर्यो हेतुः, स धर्मः । तत्र
कामनापूर्वयागाद्यनुष्ठानजनितो धर्मोऽभ्युदयस्य स्वर्गादिसुखस्य हेतुः ।
तद्रहितयागाद्यष्टाङ्गयोगानुष्ठानजनितो धर्मो निःश्रेयसस्य हेतुः ।
योगलक्षणमुपरिष्टाद् वक्ष्यामः । ज्ञानं सम्यग्ज्ञानम् । तद् द्विविधम्- प्रमाणं
च स्मृतिश्चेति । अनुभूतविषयासम्प्रमोषः स्मृतिः । तद्यथा- सा मे माता, स मे पिता,
तद् गृहमित्यादि हि ज्ञानं पूर्वानुभवजनितसंस्कारमात्र-मुद्भवति । सम्यगनुभवः
प्रमाणम् । तदुक्तम्-
अनुभूतिः प्रमाणं सा स्मृतेरन्या तु सा स्मृतिः ।
पूर्वानुभवसंस्कारमात्रजं ज्ञानमुच्यते ॥ इति ।
सम्यक्पदेनात्र विकल्पविपर्ययादिव्युदासः क्रियते । अनुभवपदेन स्मरणं
व्युदस्तम् । तद् द्विविधम्- तत्त्वावेदकमतत्त्वावेदकं चेति । तत्रात्मानात्मविवेकज्ञानं
तत्त्वावेदकम् । तदुक्तं लैङ्गे-
अव्यक्ताद्ये विशेषान्ते विकारेऽस्मिन्नचेतने ।
चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ॥ इति ।
अनात्मविषयं प्रमाणज्ञानमतत्त्वावेदकम् । तदुक्तम्-
द्वे विद्ये वेदितव्येऽत्र परा चैवापरा तथा ।
कर्मादिविद्या ह्यपरा परा चोपनिषद्गता ॥ इति ।
तदेतत् प्रत्यक्षमेवेति चार्वाकः । स्पष्टास्पष्टात्मना द्विविधमित्यार्हताः ।
प्रत्यक्षानुमानात्मना द्विविधं प्रमाणमिति बौद्धवृद्धवैशेषिकौ ।
तत्रागमस्याप्रामाण्याद् द्वैविध्यं बौद्धैः कल्पितम् ।
शब्दादीनामप्यनुमानेऽन्तर्भावाद् द्वैविध्यमितरो ब्रूते । सशाब्दं चैतत् प्रमाणमिति
साङ्ख्यनूतनवैशेषिकभूषणकाराः । तत्त्रयमुपमानसहितं वृद्धनैयायिकः,
सार्थापत्तिं तच्चतुष्कं प्रभाकराचार्यो ब्रूते । साभावं तत्पञ्चकं
भट्टपादोपनिषदः । ऐतिहासिकपौराणिका एऐतिह्यसम्भवचेष्टाविरोधसहितं
तत्षट्कमाहः । तदुक्तम्-
चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं तद्द्वैतं पारमर्षः
सहितमुपमया तत्त्रयं चाक्षपादः ।
सार्थापत्तिं प्रभाकृद् वदति तदखिलं पञ्चकं तच्च भाट्टः साभावं द्वे
प्रमाणे दिनपतिसमये स्पष्टताऽस्पष्टता च ॥ इति ।
अन्यथाख्यामुपाश्रित्य साङ्ख्यवच्छिवशासनम् ।
इति वचनादस्माकं तत् त्रिविधमेव प्रत्यक्षमनुमानमागम इति । परे चाहुः-
तत्त्रैविध्यमैन्द्रियकं लैङ्गिकं शाब्दं चेति । अर्थेन्द्रियसम्प्रयोगात् सम्प्रयुक्तेऽर्थे
विज्ञानं प्रत्यक्षम् । विज्ञानं प्रत्यक्षमित्युक्ते विकल्पे व्यभिचारः । तन्निवृत्त्यर्थमर्थ
इति पदम् । अर्थे ज्ञानमित्युक्ते विपर्यये व्यभिचारः । तन्निवृत्त्यर्थं सम्प्रयुक्त इति पदम् ।
अनुमानादिव्यवच्छेदार्थमर्थेन्द्रियसम्प्रयोगादिति पदम् । तद् द्विविधम्- निर्विकल्पकं
सविकल्पकं चेति । तत्र नामजात्युल्लेखशून्यं प्रत्यक्षज्ञानं निर्विकल्पकम्, यथा
प्रथमाक्षसन्निपातजं वस्तुमात्रावभासकं विज्ञानम् । तदुक्तम्-
अस्ति ह्यालोचनज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
(श्लो० वा०, प्र० ११२) इति ।
नामादिसम्बन्धोल्लेखि प्रत्यक्षज्ञानं सविकल्पकम् । तद्यथा- देवदत्तेति
नामविकल्पः । दण्डी कुण्डलीत्यादयो द्रव्यविकल्पाः । शुक्लः कृष्णो महानित्यादयो
गुणविकल्पाः । गच्छत्यागच्छति पततीत्यादयः क्रियाविकल्पाः । मनुष्यः पशुर्घट
इत्यादयो जातिविकल्पाः । इति पञ्चविधं सविकल्पकमिति । तत् पुनर्द्विविधम्-
योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । देशकालस्वभावविप्रकृष्टार्थविषयमपरोक्षज्ञानं
योगिप्रत्यक्षम् । तद्विपरीतमयोगिप्रत्यक्षम् । तद्यथा- देशविप्रकृष्टा मेर्वादयः ।
कालविप्रकृष्टा रावणादयः । स्वभावविप्रकृष्टा मूलकारणेन्द्रियादयः । तेषु
यदपरोक्षं विज्ञानं योगिनाम्, तद् योगिप्रत्यक्षम् । इतरस्योदाहरणमुक्तमिति ।
लिङ्गादुपजायमानं लिङ्गिविज्ञानमनुमानम् । निरुपाधिकसाध्यसम्बन्धि लिङ्गम् । तत्
त्रिविधम्- पूर्ववत्, शेषवत्, सामान्यतोदृष्टं चेति । कारणेन कार्यानुमानं पूर्ववत्,
यथा विशिष्टमेघोन्नत्या भविष्यति वृष्टिरिति विज्ञानम् । तदुक्तं न्यायविद्भिः-
सविद्युतां विदधतां गर्जाडम्बरमम्बरे ।
घनानामुन्नतिर्दृष्टा न वृष्टिव्यभिचारिणी ॥
त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ।
वृष्टिं व्यभिचरन्त्येते नैवम्प्रायाः पयोमुचः ॥
तथा-
शिखण्डिमण्डलारब्धचण्डताण्डवडम्बरैः ।
प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥ इति ।
कार्येण कारणानुमानं शेषवत् । तद्यथा- नदपूरणेनोपरिष्टाद्
वृष्ट्यनुमानम् । तदन्यत् सामान्यतोदृष्टम् । तद्यथा- रसाद् रूपविषयं विज्ञानमिति ।
अपरे दृष्टस्वलक्षणसामान्यविषयं पूर्ववत् । तद्यथा-
धूमादिलिङ्गदर्शनादध्यक्षयोग्येऽग्नावनध्यक्षे सञ्जायमानं विज्ञानम् ।
सामान्यतोदृष्टम् अदृष्टस्वलक्षणसामान्यविषयम् । तद्यथा- रूपाद्युपलब्धिः
करणजन्या क्रियात्वात् छिदिक्रियावदितीन्द्रियसाधकमनुमानम् । इन्द्रियत्वस्यानुमानविषयस्य
स्वलक्षणं पूर्वं न प्रसिद्धमिति नास्य पूर्ववत्त्वम् । अनयोरन्वयमुखेन
प्रवर्तमानत्वाद् वीतत्वम् । व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् । तदेव
शेषवदनुमानम् । शिष्यत इति शेषः । स विषयतयास्त्यस्यानुमानस्येति शेषवदिति ।
तदुक्तम्- प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाद् शिष्यमाणे सम्प्रत्ययः (न्या० भा० १।१।५)
तच्छेषवदनुमानमिति । तद्यथा- सर्वं कार्यं सर्वज्ञनिर्मितम्, कदाचित्कत्वात्, यद्यत्
सर्वज्ञनिर्मितं न भवति तत्तत् कादाचित्कमपि न भवति, यथा मायादि, न च
तथेदमकादाचित्कम्, तस्मात् सर्वज्ञानिर्मितमपि न भवतीति । तत् पुनर्द्विविधं स्वार्थं
परार्थं चेति । तदुक्तम्-
परोपदेशानपेक्षं स्वार्थं स्वस्यानुमापकम् ।
परोपदेशसापेक्षं परार्थमभिधीयते ॥ इति ।
परोपदेशः पञ्चावयवं वाक्यम् ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः पञ्चेति तार्किकाः ।
प्रतिज्ञाहेतूदाहरणाख्यास्त्रय इति मीमांसकाः । उदाहरणोपनयौ द्वाविति बौद्धः ।
तत्र प्रतिपिपादयिषया पक्षवचनं प्रतिज्ञा, यथाग्निमान् पर्वत इति ।
साधनत्वख्यापकं लिङ्गवचनं हेतुः, यथा धूमवत्त्वादिति । स त्रिविधः-
अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति । तत्र पञ्चरूपोऽन्वयव्यतिरेकी । रूपाणि तु
पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद् व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं
चेति । तत्र साध्यधर्मविशिष्टो धर्मी पक्षः । तत्र व्याप्यवृत्तित्वं हेतोः पक्षधर्मत्वम्
। साध्यसमानधर्मा धर्मी सपक्षः । तत्र सर्वस्मिन्नेकदेशे वा हेतोर्वृत्तिः सपक्षे
सत्त्वम् । साध्यव्यावृत्तधर्मा धर्मी विपक्षः । तत्र हेतोरवृत्तिर्विपक्षाद् व्यावृत्तिः ।
प्रमाणाविरोधिनी प्रतिज्ञातार्थे हेतोर्वृत्तिरबाधितविषयत्वम् ।
स्वपरपक्षसिद्धावत्रैरूप्यमसत्प्रतिपक्षत्वम् । तद्यथा- क्षित्यादिबुद्धिमत्पूर्वं
कार्यत्वाद् घटादिवदित्यादि । पक्षसपक्षवृत्तिरविद्यमानविपक्षः केवलान्वयी । तद्यथा-
विवादास्पदमदृष्टादि कस्यचित् प्रत्यक्षं प्रमेयत्वात् करतलादिवदिति ।
पक्षवृत्तिरविद्यमानसपक्षो विपक्षाद् व्यावृत्तः केवलव्यतिरेकी ।
तस्योदाहरणमवीतानुमानमिति । तथाहि- विमतं कलादिकं मायातो न भिद्यते,
मायाकार्यत्वात्, यत्तु भिद्यते न तन्मायाकार्यम्, यथा पुरुषशिवौ, न तथा न
मायाकार्यं कलादि, तस्मान्न मायातो भिद्यत इति । एवं हेतुलक्षणोक्त्या हेत्वाभासा
निराकृताः । ते चासिद्धविरुद्धानैकान्तिकानाध्यवसि-तकालात्ययापदिष्टप्रकरणसमाः
पक्षधर्मत्वादिरूपाभावाद् भवन्ति । तत्रानिश्चितपक्षवृत्तिरसिद्धः । यथा- शब्दो
नित्यश्चाक्षुषत्वादित्यादि । पक्षविपक्षयोरेव वर्तमानो विरुद्धः । यथा-
आकाशविशेषगुणः शब्दः प्रमेयत्वादित्यविद्यमानसपक्षः । क्षित्यादिकालानतं नित्यं
कार्यत्वादिति विद्यमानसपक्षः । पक्षत्रयवृत्तिरनैकान्तिकः । यथा- नित्यः शब्दः
प्रमेयत्वादिति साध्यासाधकः । पक्ष एव वर्तमानोऽनध्यवसितः । तद्यथा- नित्या
भूर्गन्धवत्त्वादिति विद्यमानसपक्षः । सर्वं क्षणिकं सत्त्वादित्यविद्यमानसपक्षः ।
प्रमाणबाधिते प्रतिज्ञातार्थे वर्तमानो हेतुः कालात्ययापदिष्टः । शुचि
नरशिरःकपालं प्राण्यङ्गत्वात् शङ्खवदित्यागमविरुद्धः । उलूको दिवा रूपं पश्यति,
चक्षुष्मत्त्वादित्यनुमानविरुद्धः, रूपदर्शनाविनाभाविचेष्टाभावेन
रूपदर्शनाभावानुमानादिति । अनुष्णोऽग्निर्मथनजन्यत्वाद् नवनीतवदिति प्रत्यक्षविरुद्धः
। स्वपरपक्षसिद्धावभिरूपो हेतुः प्रकरणसमः । तद्यथा- अनित्यः शब्दः
पक्षसपक्षयोरन्यतरत्वाद् घटादिवदित्यस्य नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद्
मायावदित्यत्रापि त्रैरूप्यसद्भावादिति । सम्यग्दृष्टान्ताभिधानमुदाहरणम् ।
व्याप्तिग्रहणभूमिर्दृष्टान्तः । तद्यथा- यो यो धूमवान् स सोऽग्निमान् यथा महानस
इति साधर्म्योदाहरणम्, अन्वयमुखेन दृष्टान्ताभिधानत्वात् । यस्त्वग्निमान्न भवति स
धूमवानपि न भवति, यथा जलमिति वैधर्म्योदाहरणम्, व्यतिरेकमुखेन
दृष्टान्ताभिधानत्वात् । अनेकोदाहरणाभासा व्युदस्ताः । तथा च नित्यं मनो
मूर्तत्वाद् यद् यद् मूर्तं तत्तन्नित्यं यथा घट इति साध्यविकलः, यथात्मेति
साधनविकलः, यथा कर्मेत्युभयविकलः, यथा खपुष्पमित्याश्रयहीनः । यन्नित्यं न
तन्मूर्तं यथात्मेति साध्याव्यावृत्तः । यथा घट इति साधनाव्यावृत्तः । यथा
मायेत्युभयाव्यावृत्तः । शिवतत्त्वाद् न्यूनतया मायाया मूर्तत्वम् । व्याप्तिस्तु
स्वकार्यव्याप्ततयैवोच्यते । यथा खपुष्पमित्याश्रयहीनः,
असौ महाराज्यं करिष्यति सोमवंशोद्भूतत्वाद् भविष्यद्राजपुत्रवदिति सन्दिग्धाश्रय
इत्यादि । दृष्टान्ते प्रसिद्धव्याप्तिकस्य हेतोर्दृष्टान्तोपमानेन पक्षे व्याप्तिव्यापकं
वचनमुपनयः । तथा चायं धूमवानिति साधर्म्योपनयः । न च तथा
धूमवानयं पर्वत इति वैधर्म्योपनयः । उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं
निगमनं तस्मादग्निमानेवेति । तदुक्तं भगवता वेदव्यासेन-
पञ्चावयवयुक्तस्य (महाभारतस्य भाण्डारकरसंस्करणे सभापर्वणि
प्रथमे परिशिष्टे वचनमेतद् दृश्यते ।) वाक्यस्य गुणदोषवित् ।
उत्तरोत्तरवक्ता च ब्रुवतोऽपि बृहस्पतेः ॥ इति ।
(म० भा० २।१।७-८)
अन्ये तु पक्षधर्मत्वसपक्षसत्त्वविपक्षाद्व्यावृत्त्यात्-मकरूपत्रयवानन्वयव्यतिरेकी
। पक्षादिलक्षणं च सन्दिग्धसाध्यः पक्षः । सन्देहश्च विप्रतिपत्तेः । निश्चितसाध्यः
सपक्षः । निश्चितसाध्यव्यतिरेको विपक्ष इत्यतोऽग्न्यनुष्णतासाधकस्य कृतकत्वस्य
विपक्षाद्व्यावृत्तिरूपाभावेनागमकतया बाधितविषयत्वस्य विपक्षाद्व्यावृत्तावन्तर्भावः
। स्वपरपक्षसिद्धावेकस्य त्रैरूप्यासम्भवादसत्प्रतिपक्षत्वरूपाभावः,
पक्षसपक्षयोरन्यतरत्वस्य चैकस्यासम्भवात् । तदुक्तम्-
यच्चानुमेयसम्बन्धं प्रसिद्धं च तदन्विते ।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥
विपरीतमतो यत् स्यादेकेन द्वितयेन वा ।
विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥
एवं केवलान्वयी च रूपद्वयवान्, विपक्षाद् व्यावृत्तिरूपाभावात् । व्यतिरेकी च
तथा, सपक्षाभावेन सपक्षे सत्त्वरूपाभादिति मन्यन्त इति । शब्दजन्यं
सम्यग्ज्ञानमागमः । स द्विविधः- पौरुषेयवाक्यजन्योऽपौरुषेयवाक्यजन्यश्चेति । तत्र
तन्त्रेतिहासपुराणमन्वादि वाक्यानि पौरुषेयाणि । वेदवाक्यान्यपौरुषेयाणि इति । ननु
वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद् भारतादिवाक्यवदित्यनुमानात् तेषां
पौरुषेयत्वसिद्धिरिति चेत्, नैवम्, तस्मै नूनमभिद्यवे वाचा विरूपनित्यया (ऋ० ८।७५।६)
इत्यागमेन वेदनित्यत्वसिद्धेरस्य कालात्ययापदिष्टतयाऽप्रामाण्यात् ।
प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे ।
एकोऽहं संस्थितो देवि न द्वितीयोऽस्ति कुत्रचित् ॥
तस्मिन् वेदाश्च शास्त्राणि मन्त्रे पञ्चाक्षरे स्थिता ।
ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः ॥
इति लैङ्गागमविरोधाच्चेति । न च प्रत्युच्चारणं
वेदस्योत्पत्तिनाशोपलम्भादनुपपन्नं तन्नित्यत्वमिति वाच्यम्, उच्चारणाया अभिव्यञ्जकत्वेन
तदुभयाभावात् । तच्च स एवायं वेद इति स एवायं स्तम्भ इतिवत्
प्रत्यभिज्ञाप्रत्यक्षेण प्रागदीपानीमुपलभ्यमानस्य वेदस्य सत्त्वावगमादवगम्यते ।
न च प्रलयावस्थायां वेदधारणसमर्थपुरुषाभावेन
वेदस्य विनाशे पुनः सर्गादौ वेदानां परमेश्वररचितत्वेनानित्यत्वमिति वाच्यम्,
द्विजातीनां वेदधर्तॄणामभावेऽपि परमेश्वरस्य वेदधर्तुः सद्भावात् । तथाहि-
सर्गादावुत्पन्नस्य वेदस्य यावत्प्रलयमवस्थानं
वैशेषिकादिभिर्वेदानित्यत्ववादिभिरभ्युपगम्यते । ततस्तत्र न विवादः । प्रलयकाले तु
सद्भावः साध्यते । तथाहि- प्रलयकालो वेदवित्पुरुषसमन्वितः, कालत्वादितरकालवदिति । न
च भूभूधरादिसत्त्वमपि तेनैव न्यायेनानुमातुं शक्यत्वादतिप्रसङ्ग इति वाच्यम्,
भूभूधरादिशून्यकालस्य प्रलयत्वेन तस्य तद्वत्तासाधने माता मे वन्ध्येतिवत्
प्रतिज्ञाविरोधप्रसङ्गात् । एकब्रह्माण्डवर्तिसकलवैदिकपुरुषविनाशेऽपि
ब्रह्माण्डान्तरवर्त्यनन्तवैदिकपुरुषसद्भावाच्च वेदनित्यत्वम् ।
ब्रह्माण्डान्तराण्यप्येतद्वेदवन्ति ब्रह्माण्डत्वात् सम्प्रतिपन्नवदिति सर्वत्र वेदैकत्वम् ।
वेदानित्यत्वपक्षेऽनन्तशा-खाविततानन्तवेदजनननाशतत्कारणकल्पनायां
कल्पनागौरवप्रसङ्गः । नित्यत्वे तु सिद्धस्य वेदस्य नित्यत्वमात्रकल्पनाया लाघवान्न
कश्चिद् दोष इति । तथा वेदकर्तुरसम्भवाच्च न वेदपौरुषेयत्वम् । तथा हि- नेश्वरः
कर्ता वेदस्य, पूर्ववेदपरित्यागे कारणाभावात् । न च पूर्वकल्पे वेदाभाव इति
वाच्यम्, पूर्वकल्पे वेदसद्भावस्यानुमानसिद्धत्वात् । तथाहि- पूर्वः सर्वोऽपि कल्पो
वेदवैदिकयुक्तः कल्पत्वादिदानीन्तनकल्पवदिति । न चेदानीन्तनकल्पवदेव
भावनामद्यतनानामपि कल्पान्तरे सद्भावानुमानादतिप्रसङ्ग इति वाच्यम्,
प्रमाणाविरुद्धभावसद्भावस्येष्टत्वात् । तदुक्तं भगवता मनुना-
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु ॥ इति ।
तस्मादपौरुषेयो वेदराशिरिति सिद्धम् । वेदाः प्रमाणम्, अनाप्तकृतशब्दत्वात्,
सम्प्रतिपन्नवत् । विमतं वेदाध्ययनं तद्वेदाध्ययनपूर्वकम्, वेदाध्ययनत्वात्,
इदानीन्तनवेदाध्ययनवदिति ।
उपमोपमानम् । गोसदृशो गवय इति वाक्यं तज्जनितं वा विज्ञानं
यद्युपमानम्, तदागम एव न प्रमाणान्तरम् । योऽयमस्य गोसदृशस्य गवयशब्दो
वाचक इति सञ्ज्ञासञ्ज्ञिसम्बन्धविषयः प्रत्ययः, स चानुमानमेव । तथा हि-
गोसदृशस्यास्य गवयशब्दो वाचकः, तत्र वृद्धैः प्रयुज्यमानत्वात्, यो हि शब्दो यत्र
वृद्धैः प्रयुज्यते सोऽसति वृत्त्यन्तरे तस्य वाचकः, यथा गोशब्दो गोत्वे प्रयुज्यमानस्तस्य
वाचकः, तथा प्रयुज्यते चायं गवयशब्दो गोसदृशे, तस्मात् तस्य वाचक इति
ज्ञानमनुमानान्न भिद्यत इति । यश्च प्रत्यक्षे गवये गोसादृश्यप्रत्ययः,
सोऽक्षसंयोगजत्वात् प्रत्यक्षान्तर्भूतः । तथैव प्रत्यक्षमेव स्मर्यमाणायां गवि
गवयसादृश्यज्ञानम्, तस्यैकतया प्रत्यक्षगम्यत्वाविरोधात् । तथाहि-
भूयोऽवयवसामान्ययोगो जात्यन्तरवर्ती जात्यन्तरे सादृश्यमुच्यते । तस्यैकतया गवये
प्रत्यक्षगम्यस्य गोस्मरणानन्तरं गवि प्रत्यक्षत्वाविरोध इति
पूर्ववन्निर्विकल्पकानुभूतत्वेन स्मर्यमाणं वा गवि गवयसादृश्यमिति नोपमानवेद्यं
किञ्चिदस्तीति न प्रमाणान्तरमिति ।
एवं जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्य
प्रमाणान्तरानवगतस्य परिकल्पनात्मिकाऽर्थापत्तिरपि न प्रमाणान्तरम्, अनुमानत्वात् ।
सदेव यदेकत्र नास्ति, तदन्यत्रास्ति । सन्नेवाव्यापको यदेकत्र नास्ति, तदन्यत्रास्तीति
स्वशरीर एव व्याप्तिग्रहणसम्भवात् ।
तथा च देवदत्तो बहिर्देशसम्बन्धी, सत्त्वे सति गृहेऽविद्यमानत्वात्,
बहिःस्थवृक्षादिवदिति गृहाभावलिङ्गेन बहिर्भावज्ञानमनुमानमेवेति । न च
सत्त्वमात्रावेदकगृहासत्त्वावेदकप्रमाणयोर्ज्योतिःशास्त्रप्रत्य-क्षयोः
परस्परविरोधादेकविषयव्यवस्थयाऽर्थापत्तिरिति वाच्यम्, अनवच्छिन्नावच्छिन्नयोः
सत्त्वमात्रगृहासत्त्वयोर्विरोधाभावेनाविरोधापादनासम्भवात् । नहि यत्र क्वचन
सत्त्वस्य गृहासत्त्वेन विरोधः सम्भवति, भिन्नविषयत्वात् । न च निश्चितो गृहाभावः
पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षिप्यते, प्रबलत्वादसत्त्वस्य । न च
देशसामान्येन पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन् गृहाभावः सत्त्वमात्रं
प्रतिक्षेप्तुं सांशयिकत्वं वा नेतुं शक्नोति, तस्य तत्रौदासीन्यादिति ।
सत्त्वमात्रगृहासत्त्वयोर्विरोधाभावादविरोधापादनं नार्थापत्त्या क्रियत इति न सा
प्रमाणान्तरमिति ।
न च भावान्तरादन्योऽस्त्यभावः, यत्सिद्ध्यर्थमभावाख्यं प्रमाणमाश्रीयेत
। नहि भूतलपरिणामविशेषात् कैवल्यक्षणादन्यो घटाभावो नाम ।
प्रतिक्षणपरिणामिनो हि सर्वे भावा ऋते चितिशक्तेः परमेश्वरादिति स परिणामभेद
इन्द्रियसिद्ध इति । अथवा भवतु भावान्तराद् व्यतिरिक्तोऽभावः, तथापि
प्रत्यक्षादिप्रमाणसिद्धत्वात् तत्सिद्ध्यर्थं न प्रमाणान्तरमभ्युपगन्तव्यम् । तथाहि-
चक्षुर्विष्फारणान्वयव्यतिरेकानुविधानादिह भूतले घटो
नास्तीत्यभावज्ञानस्यैन्द्रियकत्वम् । तथा बहिःस्थत्वेन घटादीनां गृहासत्त्वं
स्वशरीरवदनुमीयते । तथा भारतपुरुषाणामभावो भारताअगमेनावगम्यत इति ।
तस्मान्नाभावाख्यं प्रमाणान्तरमस्तीति ।
सम्भवस्तु खार्या द्रोणाढकप्रस्थावगमः । स चानुमानम्, खारीत्वस्य
द्रोणादिव्याप्ततया तेन तदनुमानादिति ।
यच्चानिर्दिष्टप्रवक्तृकं प्रवादमात्रमिति होचुर्वृद्धा इत्यैतिह्यम्, यथेह वटे
यक्षः प्रतिवसतीत्यादि । इदं न प्रमाणान्तरम्, आप्तोक्त्यनिश्चयेन सांशयिकत्वात् ।
आप्तवक्तृनिश्चये त्वागम एवेति न प्रमाणान्तरमिति ।
चेष्टा चाभिनयः । स च समयबलेन परोक्षानुभवसाधनत्वादागम एवेति न
प्रमाणान्तरमिति ।
एवं विरोधोऽपि । ह्रदमध्येऽग्न्यभावज्ञानं तदनुमानमेव, जलाग्न्योः
परस्परविरुद्धयोरेकत्रासम्भवेनेतरेतराभावव्याप्तत्वादिति त्रीण्येव प्रमाणानीति ।
तदुक्तम्-
दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥
प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं च ।
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥ इति ।
(सा० का० ४-६)
ऐहिकामुत्रिकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम्, न रागाभावः ।
तदैहिकामुत्रिकविषयाणामनित्यत्वसातिशयत्वादि-दोषदर्शनादुपजायत इति ।
अविघातकरणमैश्वर्यम् । तदष्टविधम्-
अणिमा महिमा चैव लघिमा गरिमा तथा ।
ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च ॥
तत्राणुत्वम् अणिमा परमाणुवदवस्थानम् । महत्त्वं महिमा यावदिच्छं
स्थूलीभावः । लघिमा लघुत्वम्, यतः सूर्यमरीचीन् आलम्ब्य सूर्यलोकं गच्छति ।
गुरुत्वं गरिमा अन्यैरचाल्यत्वेनावस्थानम् । ईशित्वमीशभावो भूतभौतिकानां
प्रभवादिहेतुत्वम् । वशित्वं वशीकरणभावः सर्वस्य स्वेच्छावशवर्तित्वम् । प्राप्तिः
प्रापणम्, येनाङ्गुल्यग्रेण स्पृशति चन्द्रमसम् । प्राकाम्यमिच्छानभिघातः, भूमौ
चोन्मज्जति निमज्जति यथोदक इति । सत्यसङ्कल्पतेत्यपरे । यथास्य सङ्कल्पो भवति, तथैव
भूतानि भवन्तीति । अस्मदादीनां निश्चयाः पदार्थानुरूपाः, योगिनां तु
निश्चयानुविधायिनः पदार्था इत्येतच्चतुष्कं समासतः सात्त्विकम्, सत्त्वादुत्पन्नं
रूपमिति । चत्वारस्तामसाश्च विपरीता अधर्माज्ञानावैराग्यानैश्वर्याभिधाना इति ।
तामसास्तमस उत्पन्नाः । अधर्मोऽनभ्युदयानिःश्रेयसहेतुः । अज्ञानं
ज्ञानविपर्ययः, असम्यग्ज्ञानमिति यावत् । तत् त्रिविधम्- विपर्ययो विकल्पो निद्रा चेति ।
विपर्ययो मिथ्याज्ञानतद्रूपप्रतिष्ठं शुक्तिकादौ रजतादिज्ञानम् । शब्दज्ञानानुपाती
वस्तुशून्यो विकल्पः । तद्यथा- शशविषाणादिशब्दश्रवणानन्तरं तदर्थविषयज्ञानमिति
। जाग्रत्स्वप्नप्रत्ययाभावहेतुतमःप्रकर्षमवलम्ब्य या बुद्धिवृत्तिरुद्भवति, सा निद्रा ।
तदुक्तं पतञ्जलिना भगवता- अभावप्रत्ययालम्बना निद्रा (१।१०) इति सूत्रेण ।
अवैराग्यं च दृष्टानुश्रविकविषयतागः । अणिमादिप्रादुर्भावविरोधी
बुद्धिधर्मोऽनैश्वर्यमिति । अन्ये तु परमेश्वरतत्त्वावेदकं ज्ञानम्, तदन्यदज्ञानमिति
ब्रुवते । एतदुक्तं साङ्ख्यैः-
धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥
वैराग्यात् प्रकृतिलयः संसारो राजसाद्भवति रागात् ।
ऐर्श्यादविघातो विपर्ययात् तद्विपर्यासः ॥ इति ।
(सा० का० ४४-४५)
विषयाध्यवसायरूपिणीत्यनेन बुद्धेः सद्भावश्च प्रतिपादितः । तथाहि-
विषयाध्यवसायादिवृत्तेः परिदृश्यमानाया मूलभूतं
अथ बुद्धेर्विकासो यः स्वधर्मेणानुमीयते ।
क्षुब्धेभ्यः सहसा पूर्वं गुणेभ्यो भूतगोचरा ॥
बुद्धिरध्यवसायेन भावानां जननी शुभा ।
वर्ण्यतेऽष्टगुणोपेता संविभज्य यथाक्रमम् ॥ इत्यादि ।
(वि० १७।१-२)
तस्या विभागमाह- सापि त्रिविधेति । सा बुद्धिस्त्रिप्रकारा । कुत इत्यत आह- गुणतः
प्राक्तनकर्मानुसारेणेति । पुरुषस्य पूर्वजन्मनि कृतपुण्यापुण्यात्मककर्मानुसारेण
गुणभेदादिति । तदुक्तम्- बुद्धिः कर्मानुसारिणी इति । तथाहि- पुण्येनैकेन सात्त्विकी
बुद्धिरपुण्येन तामसी मिश्रेण राजसीति । तथा जाग्रत्स्वप्नसुषुप्त्यात्मना च
कर्मानुसारेण गुणभेदात् त्रिविधा बुद्धिरिति वा । तथा हि- स्थूलकर्मनिमित्तं सात्त्विकी
बुद्धिर्जागर्ति । सूक्ष्मकर्मवशाद् राजसी स्वप्नं गच्छति ।
जाग्रत्स्वप्नवृत्त्यभावहेतुभूततमःप्रकर्षमवलम्बमाना बुद्धिः सुषुप्तिमुपगच्छति ।
विश्रमार्थमात्मनः सर्वदैकस्वभावस्य सर्वगतस्य चिन्मात्रस्य
जाग्रत्स्वप्नसुषुप्तिसाक्षिणो जाग्रदादित्रयाभावाद् बुद्धेर्विकारवतोऽवस्थात्रयवत्त्वमिति ।
तस्या वर्णमादित्योदयनिभम् । तदुक्तम्-
अहङ्कारस्य (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् । ) बाह्येऽपि बुद्धितत्त्वं व्यवस्थितम्
।
आदित्योदयसङ्काशं बोधयन्तमिवाखिलम् ॥ इति ।
तस्याः षडध्वव्याप्तिः- ठकारो वर्णः । तेजस्तेज इत्यादि द्वे पदे ।
तारहृदयपञ्चार्णमन्त्रः । बुद्ध्याख्यं तत्त्वम् । पैशाचाद्यष्टभुवनानि । विद्या
कला ॥ ३ ॥
अघोर-शिव-वृत्तिः
अयं घट इत्याद्यध्यवसायात्मना कार्येण बुद्धिः सिद्धा । सापि पुंसः
कार्यवशात् सत्त्वादिगुणबाहुल्येन सात्त्विकादिरूपा जायते, गुणानां सर्वत्र
व्यापारदर्शनात् । अस्याश्च बुद्धेर्धर्माद्यष्टगुणत्वं सिद्ध्यादिप्रत्ययभेदश्च
श्रीमन्मतङ्गादाववधेयः ॥ ५२ ॥
विश्वास-प्रस्तुतिः ५३
स्यात् त्रिविधोऽहङ्कारो जीवनसंरम्भगर्वरूपोऽयम्
सम्भेदादस्य सतो विषयो व्यवहार्यतामेति
मूलम् ५३
स्यात् त्रिविधोऽहङ्कारो जीवनसंरम्भगर्वरूपोऽयम्
सम्भेदादस्य सतो विषयो व्यवहार्यतामेति
कुमारः- तात्पर्य-दीपिका
इदानीमहङ्कारतत्त्वं निरूपयति- स्यादिति ।
बुद्धितत्त्वादहङ्कारात्मकं तत्त्वमुत्पद्यते । अहङ्कृतिरहङ्कारः ।
अहमित्येवंरूपव्यापारवानित्यर्थः । विभागमाह- त्रिविध इति । केन रूपेणेत्याशङ्क्याह-
जीवनसंरम्भगर्वरूपोऽयमिति । जीवनाहङ्कारः, संरम्भाहङ्कारः, गर्वाहङ्कारश्चेति
। तत्र जीवामीत्याकारो जीवनाहङ्कारः । अहं करोमीति संरम्भाहङ्कारः । प्रबलोऽस्मि
रूपवानित्यादि गर्वाहङ्कारः । एतानि रूपाणि यस्य स तथोक्त इति । प्रमाणमाह-
सम्भेदादित्यादि । अहङ्कारसम्बन्धात् शब्दादिविषयो व्यवहार्यतामनुभवार्हतां
यातीति । तथाहि- आत्मा तावन्निर्गुणो निष्क्रियश्चिन्मात्र उदासीनस्वभावः । तस्मादसौ न
शृणोति, न पश्यति, न च करोतीत्ययमहङ्कारः श्रोत्रादिकृतश्रवणादिकं
वागादिकृतवचनादिकं बुद्धिकृताध्यवसायादिकं चित्तकृतसंशयादिकं चाहं
शृणोमीत्यादिभिरहं वच्मीत्यादिभिरहमध्यवस्यामीत्यादिभिश्च वृत्तिभिरात्मनि साक्षिणि
सम्बध्नाति । तेनाहङ्काराख्यं तत्त्वमभ्युपगन्तव्यम् ।
अन्यथा देवदत्तकृतस्य यज्ञदत्त इव श्रोत्रादिकृतस्य श्रवणादेरात्मनि
सम्बन्धाभावप्रसङ्ग इति । तदुक्तं शैवरहस्ये-
सम्बन्धप्रतिभासो ज्ञातुर्ज्ञेयेन देशकालाभ्याम् ।
सुलभोऽभिमाननामा व्यापारोऽहङ्कृतेरस्याः ॥ इति ॥ ४ ॥
अघोर-शिव-वृत्तिः
तस्याश्च- स्यादिति ।
आहङ्कारिको हि प्रयत्नात्मकः संरम्भः । यदुक्तम्- संरम्भोऽहङ्कृतेर्वृत्तिः
(भो० का० ३३) इति । किञ्च, प्राणादिवायुप्रवृत्तिहेतुत्वेन जीवनमपि तद्धेतुकमेव । तदुक्तम्-
संरम्भाद्यस्य चेष्टन्ते शारीराः पञ्च वायवः (मृ० वि० ११।२०) इति । तथा गर्वोऽपि ।
ग्राह्याध्यवसायाद् बुद्धिकार्याद् भिन्नोऽहमिति ग्राहकाध्यवसायोऽपि तत्कार्यमेव । अत
एतैस्त्रिभिरहङ्कारसिद्धिः । ततश्चैतत्सम्बन्धादेव घटमहं जानामीति व्यवहार इत्याह-
सम्भेदादिति । स च बुद्धेरुत्पन्नः । यदुक्तं साङ्ख्यैरपि- महतोऽहङ्कारः (साम्०
का० २३) इति ॥ ५३ ॥
विश्वास-प्रस्तुतिः ५४
सात्त्विकराजसतामसभेदेन स जायते पुनस्त्रेधा
स च वैकारिकतैजसभूतादिकनामभिः समुच्छ्वसिति
मूलम् ५४
सात्त्विकराजसतामसभेदेन स जायते पुनस्त्रेधा
स च वैकारिकतैजसभूतादिकनामभिः समुच्छ्वसिति
कुमारः- तात्पर्य-दीपिका
तस्यैव प्रकारान्तरेण त्रैविध्यमाह- सात्त्विकेति ।
सत्त्वरजस्तमोविकारतया सात्त्विकराजसतामसभेदवानहङ्कारस्त्रिविधो भवति । स
पुनरहङ्कारो वैकारिकतैजसभूतादिकनामभिस्त्रिविधो भवतीति । सत्त्वोद्रिक्तः सात्त्विको
वैकारिकाख्यः । रजोद्रिक्तस्तैजसः । केचिद् वैपरीत्यमिच्छन्ति, स च तैजसवैकारिकभूतादिकेति
ग्रन्थपाथश्च इत्याहुः । तमोद्रिक्तः तामसः । स भूतादिनामेति गुणतो नामतश्च
त्रैविध्यमहङ्कारस्य भवतीति ॥ ५ ॥
अघोर-शिव-वृत्तिः
किञ्च- सात्त्विकेति । सात्त्विकादीनामहङ्कारस्कन्धानां तैजसादीनि क्रमान्नामानि
भवतीत्यर्थः ॥ ५४ ॥
विश्वास-प्रस्तुतिः ५५
तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि
भूतादेस्तन्मात्राण्येषां सर्गक्रमोऽयमेतस्मात्
मूलम् ५५
तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि
भूतादेस्तन्मात्राण्येषां सर्गक्रमोऽयमेतस्मात्
कुमारः- तात्पर्य-दीपिका
कार्यमाह- तैजसत इति ।
एतस्मादेव त्रिविधादहङ्कारादेषां ज्ञानकर्मेन्द्रियतन्मात्रमनसां
षोडशानां सर्गः । किमात्मकान्मनस उत्पत्तिः, किंरूपादिन्द्रियाणाम्, कथम्भूतात्
तन्मात्राणामित्याशङ्क्य तेषामुत्पत्तिं विभागेनाह- तैजसत इत्यादि ।
तैजसाख्यादहङ्काराद् राजसात् चलस्वभावं मन उत्पद्यते, वैकारिकात् सात्त्विकात्
प्रकाशलाघवोपेतमिन्द्रियदशकम् । भूतादेस्तामसात् तमोबहुलानां
तन्मात्राणामुद्भव इति । तैजसात् सात्त्विकात् स्वच्छं लघूत्पद्यते मन इत्यन्ये ।
सात्त्विकसहकृताद् वैकारिकाद् राजसाद् बुद्धीन्द्रियाणामुत्पत्तिः, ज्ञानसाधनत्वात् ।
तामससहकृताद् वैकारिकात् कर्मेन्द्रियाणामिति । साङ्ख्याः
सात्त्विकादेवाहङ्कारादेकादशेन्द्रियाणाम्, तामसात् तन्मात्राणामुत्पत्तिं मन्यन्ते ।
सत्त्वतमसोर्निष्क्रियतया स्वयमुत्पादनासामर्थ्यात् चलस्वभावेन रजसा प्रेरितयोस्तयोः
कारणत्वमित्युभयमपि रजसा निमित्तेनोत्पद्यत इति, न तु तस्योपादानत्वम्, तत्
सत्त्वतमसोरेवेति ब्रुवते । तथाहि-
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ इति ।
(साम्० का० २५)
एषां सर्गक्रमोऽयमेतस्मादित्यनेन पुनरुक्तेन पञ्चभूतेभ्यः पञ्चानां
बुद्धीन्द्रियाणामुद्भवं तार्किकाद्यभिमतं निरस्यति । तथा हि-
घ्राणरसनचक्षुस्त्वक्श्रोत्रेन्द्रियाणि भूतेभ्यः (१।१।१२) इति न्यायसूत्रम् । भूतानां
बाह्यैकैकेन्द्रियग्राह्यविशेषगुणवत्त्वेन्द्रियप्रकृतित्वे साधर्म्यम् (पृथिव्यादीनां
पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्वबाह्यैकैकेन्द्रियग्राह्यविशेषगुणवत्त्वानि इति
साधर्म्यवैधर्म्यप्रकरणीयं प्रशस्तपादभाष्यम् ।) इति प्रशस्तपादीयं
वैशेषिकभाष्यं च पृथिव्यादिभ्य इन्द्रियाणां घ्राणादीनां शब्दादीनां च
समुद्भवमभिधत्ते । मनश्च नित्यमिति तार्किकमीमांसका आहुः ।
तदेतदागमविरुद्धत्वादनुपपन्नम् । तथा हि पारमेश्वरे तावत्-
सत्त्वधर्मस्त्रिधा तावदहङ्कारस्य सुव्रत ।
वैकारिकस्तैजसश्च भूतादिश्चेति स त्रिधा ॥
सत्त्वेनोत्कृष्टवीर्येण गर्वो वैकारिकः स्मृतः ।
रजसा भूरिसम्पृक्तस्तैजसः परिकीर्तितः ॥
भूतादिस्तमसोत्कृष्टस्तेषां वक्ष्यामि वृत्तयः ।
वैकारिकोऽक्षसेनायाः कारणं योनिरुच्यते ॥
मिथुनाज्जायते गर्वान्मनश्चैवोभयात्मकम् ।
तस्माद् वैकारिकादेव गर्वात् कर्मेन्द्रियाण्यपि ॥
व्यक्तिमायान्ति सङ्क्षोभात् सिसृक्षोः कारणात्मनः ।
भूतादेरप्यहङ्कारात् तन्मात्राणि भवन्ति हि ॥ इत्यादि ।
(वि० १८।४३-४५, ४६, ५०, ६८-६९, ९८)
शिवधर्मोत्तरे च-
प्रधानादभवद् बुद्धिर्जगद्धेतुः शिवेच्छया ।
बुद्धेरपि च सङ्क्षोभादहङ्कारस्त्रिधाऽभवत् ॥
अहङ्काराच्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च । इति ।
अनुमानाच्च । तथाहि- विमतानीन्द्रियाणि भौतिकानि न भवन्ति, इन्द्रियत्वान्मनोवदिति ।
अनित्यं मनः, इन्द्रियत्वाच्चाक्षुरादिवत् । सर्वाणीन्द्रियाणि जन्यानि,
आत्ममूलकारणव्यतिरिक्तवस्तुत्वात्, मूलकारणातिरेकिजडत्वात्, सगुणत्वात्, मूर्तत्वाद्वा,
घटादिवदित्याद्यनुमानादभौतिकत्वकार्यत्वसिद्धौ इन्द्रियाणां
कारणापेक्षायामागमबलादहङ्कारस्य कारणत्वमाश्रीयत इति । अत एव
नाहङ्कारिकाणीन्द्रियाणि, इन्द्रियत्वात्, मनोवदित्यनुमानस्य कालात्ययापदिष्टत्वात्
साध्यवैकल्याच्चाप्रामाण्यमिति । तथा पृथिव्यप्तेजोवायवो गन्धरसरूपस्पर्शोपादाना
न भवन्ति, भूतत्वात्, व्योमवत्; व्योम च न शब्दोपादानं भूतत्वात् पृथिवीवदिति;
शब्दादीन्युपादानकारणवन्ति कार्यत्वात्; कार्याणि च मूलकारणातिरिक्तानि जडत्वाद्
घटादिवदित्यनुमानाद् भूतव्यतिरिक्ततदुपादानाहङ्कारसद्भावसिद्धिः । तस्य वर्णं
पावकनिभम् । तदुक्तम्-
तद्बाह्ये (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् ।) तु भवेत् तत्त्वमहङ्काराख्यमव्ययम्
।
दीप्तपावकसङ्काशं भीमरूपं दुरासदम् ॥ इति ।
अस्य षडध्वव्याप्तिः- धकारो वर्णः । अरूपेत्यादि द्वे पदे ।
ईशानपञ्चार्णौ मन्त्रौ । अहङ्काराख्यं तत्त्वम् । छगलण्डद्विरण्डौ भुवने ।
प्रतिष्ठा कला ॥ ६ ॥
अघोर-शिव-वृत्तिः
तत्र तेषु मध्यात् तैजसाऽहङ्कारान्मनोबुद्धीन्द्रियाणि जायन्ते, वैकारिकात्
कर्मेन्द्रियाणि, भूतादेरपि तन्मात्राणीत्यर्थः । न च तैजसतो मन एव
वैकारिकादुभयरूपाणीन्द्रियाणीति व्याख्येयम्, मूलवचनविरोधाद् युक्तिविरोधाच्च । सत्त्वस्य
प्रकाशरूपत्वेन बोधहेतुत्वम्, रजसः क्रियाहेतुत्वं युक्तम् । उक्तं च श्रीमन्मृगेन्द्रे-
श्रोत्रं त्वक्चक्षुषी जिह्वा नासा च मनसा सह ।
प्रकाशान्वयतः सात्त्वास्तैजसश्च स सात्त्विकः ॥
वाणी पाणी भगः पायुः पादौ चेति रजोद्भवाः ।
कर्मान्वयाद् रजोभूयान् गणो वैकारिकोऽत्र यः ॥ (वि० १२।३-४) ५५ ॥
विश्वास-प्रस्तुतिः ५६
इच्छारूपं हि मनो व्यापारस्तस्य भवति सङ्कल्पः
बुद्ध्यक्षाणि श्रोत्रं त्वग् दृग् जिह्वा च नासा च
मूलम् ५६
इच्छारूपं हि मनो व्यापारस्तस्य भवति सङ्कल्पः
बुद्ध्यक्षाणि श्रोत्रं त्वग् दृग् जिह्वा च नासा च
कुमारः- तात्पर्य-दीपिका
अथ मनःपूर्वाणामिन्द्रियाणां स्वरूपमाह- इच्छेति ।
इच्छारूपं प्रार्थनारूपं मन इति । व्यापारः वृत्तिः, तस्य मनसः
सङ्कल्पोऽनिर्धारितविशेषरूपः, संशयरूप इति यावत् । अनेन लक्षणमुक्तम् ।
सद्भावश्च संशयात्मिकया वृत्त्या वृत्तिमतोऽनुमानादिति । तथा
चक्षुरादिकरणसम्बन्धेष्टविषयेषु युगपज्ज्ञानानुत्पादनात्
चक्षुरादिव्यतिरिक्तं करणान्तरमस्तीत्यवगम्यते । यदि तन्न स्याद् युगपद्
रूपादिज्ञानं जायेत । अतः करणान्तरमस्तीति तन्मन इति तत्सिद्धिः । तस्याणुकल्पत्वं
त्वयुगपद् ज्ञानादेवावगम्यत इति विभुत्वानुमानं कौमारिलोक्तं
धर्मिग्राहकप्रमाणविरुद्धत्वादप्रमाणमिति । बुद्ध्यक्षाणि बुद्धिवृत्तिसाधनानीन्द्रियाणि
। कानि तानीत्यत आह- श्रोत्रं त्वग् दृग् जिह्वा च नासा चेति ॥ ७ ॥
अघोर-शिव-वृत्तिः
मनःसिद्धिमाह- इच्छेति ।
सङ्कल्पोऽवधानमेकाग्रता । तेन व्यापारेणेच्छारूपं मनः सिद्ध्यतीत्यर्थः ।
अयं तत्राऽभिप्रायः- आत्मन इन्द्रियार्थसन्निकर्षेऽप्यन्यपरस्य यदधिष्ठानं विना
बाह्येन्द्रियाणि न प्रवर्तन्ते तन्मन इति । बुद्धीन्द्रियाण्याह- बुद्ध्यक्षाणीति ॥ ५६ ॥
विश्वास-प्रस्तुतिः ५७
ग्राह्यास्तेषां शब्दः स्पर्शो रूपं रसश्च गन्धश्च
इत्येतेषां विषयाः क्रमेण पञ्चापि पञ्चानाम्
मूलम् ५७
ग्राह्यास्तेषां शब्दः स्पर्शो रूपं रसश्च गन्धश्च
इत्येतेषां विषयाः क्रमेण पञ्चापि पञ्चानाम्
कुमारः- तात्पर्य-दीपिका
तेषां विषयमाह- ग्राह्या इति ।
बुद्धीन्द्रियाणां श्रोत्रादीनां पञ्चानामेते पञ्च शब्दादयो विषया यतो
ग्राह्याः, अतस्ते विषयाः । तान् क्रमेण दर्शयति- शब्दः स्पर्शो रूपं रसश्च
गन्धश्चेति ॥ ८ ॥
अघोर-शिव-वृत्तिः
अथ एषां ग्राह्यान् विषयानाह- ग्राह्या इति ।
विश्वास-प्रस्तुतिः ५८
शब्दादीनां ग्रहणं व्यापारः कीर्तितः क्रमेणैषाम्
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि स्युः
मूलम् ५८
शब्दादीनां ग्रहणं व्यापारः कीर्तितः क्रमेणैषाम्
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि स्युः
कुमारः- तात्पर्य-दीपिका
बुद्धीन्द्रियाणां स्वरूपं चाह- शब्दादीति ।
शब्द आदिर्येषां ते शब्दादयः, तेषां ग्रहणं तदाकारभजनम्,
एषामिन्द्रियाणां व्यापार उक्तः, तत्त्वज्ञैरित्यर्थः । क्रमादित्यन्यस्यान्यग्रहणं न
सम्भवति । अनेन लक्षणमुक्तं प्रत्येकं श्रोत्रादीनामिति । परीक्षापरं चेदं वाक्यम्
। तथाहि- शब्दग्रहणं करणजन्यं क्रियात्वात् छिदिक्रियावदिति श्रोत्रसद्भावसिद्धिः ।
एवं स्पर्शरूपरसगन्धग्रहणकरणतया त्वगादीन्द्रियसिद्धिरवगन्तव्या । तथाहि-
वर्णावर्णात्मना द्विविधशब्दग्रहणं श्रोत्रेण करणेन विना नोपपद्यते, बधिरस्य
तद्ग्रहणादर्शनात् । एवं शीतोष्णमृदुकठिनद्रवतीक्ष्णादिस्पर्-शग्रहणं च त्वगिन्द्रियेण
विना न स्यात्, त्वग्दोषदूषितस्य तदनुपलम्भात् । तथाहि-
श्वेतरक्तकृष्णपीतहरितधूम्रश्याम-ह्रस्वदीर्घादिभेदभिन्नरूपग्रहणं चक्षुःकरणं
विना न सम्भवति,
अन्धस्य तद्दर्शनासम्भवात् । एवं मधुराम्लतिक्तलवणकटुकषायात्मना
षड्विधरसग्रहणमपि तत्प्रवर्तकरसनकरणेन विना न स्यात्,
जाड्योपप्लुतरसनेन्द्रियवतस्तदनवगमात् । तथा सुरभ्यसुरभ्यात्मना
द्विविधगन्धग्रहणं च तत्करणनासिकाकरणं विना न सम्भवति,
अघ्रातृत्वदूषितेन्द्रियस्य तदनुपलब्धेरिति ॥ ९ ॥
अघोर-शिव-वृत्तिः
अतश्च शब्दादिग्रहणान्यथानुपपत्त्यैवैषां सिद्धिरित्याह- शब्दादीति ।
न चैषां नियतविषयत्वाद् भौतिकत्वं युज्यते, भूतान्तराणां तद्गुणानां
कर्मसामान्यादेश्चक्षुरादीनां ग्रहणदर्शनात् । तदुक्तं सिद्धगुरुणा-
भौतिकत्वाच्च नियमे कर्मसामान्ययोः स्फुटम् ।
देवेभ्यो बुद्धयो न स्युः समवाये च देहिनाम् ॥ इति ।
(भो० का० ४०)
तत्र देवनाद् द्योतनाद् देवा इतीन्द्रियाण्युच्यन्ते । कर्मेन्द्रियाण्याह- वाक्पादेति ॥ ५८
॥
विश्वास-प्रस्तुतिः ५९
वचनादानविहरणोत्सर्गानन्दाश्च कर्मैषाम्
अन्तःकरणं त्रेधा बुद्धिरहङ्कारचेतसी चेति
मूलम् ५९
वचनादानविहरणोत्सर्गानन्दाश्च कर्मैषाम्
अन्तःकरणं त्रेधा बुद्धिरहङ्कारचेतसी चेति
कुमारः- तात्पर्य-दीपिका
कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानीति पञ्च भवन्ति । तेषां
व्यापारमन्तःकरणानां विभागं चोत्तरश्लोकेनाह- वचनेति ।
एषां कर्मसाधनतया कर्मेन्द्रियाणां वचनादीनि कर्माणि । परीक्षार्थं
चेदं वाक्यम् । तथाहि- शब्दोच्चारणान्यथानुपपत्त्या
तत्करणभूतवागिन्द्रियसद्भावोऽवगम्यते । न च तदधिष्ठानं वागिन्द्रियमिति वाच्यम्,
मूकस्यापि शब्दोच्चारणप्रसङ्गादिति । एतदिन्द्रियान्तरेष्वप्यवगन्तव्यम्, अन्यथा
कौण्यपङ्गुत्वोदावर्तक्लैब्यात्मकेन्द्रियवत आदानादिप्रसङ्गात् । तदुक्तं साङ्ख्यैः-
बाधिर्यं (वचनमेतत् साङ्ख्यतत्त्वकौमुद्यामेकादशेन्द्रियवधा (४९) इति
कारिकाव्याख्यायामुद्धृतं समुपलभ्यते ।) कुष्ठिताऽन्धत्वं जडताऽजिघ्रता
तथा ।
मूकता कौण्यपङ्गुत्वे क्लैब्योदावर्तमन्दताः ॥ इति ।
तस्मादधिष्ठानातिरिक्तानामतीन्द्रियाणामिन्द्रस्यात्मनश्-
चिह्नत्वेनेन्द्रियशब्दवाच्यानां सद्भावः सिद्ध इति । विमतानीन्द्रियाण्यतीन्द्रियाणि,
इन्द्रियत्वात्, मनोवदिति च तेषामतीन्द्रियत्वसिद्धिरिति । आभ्यन्तरं करणमन्तःकरणं
त्रिविधम्, केन रूपेणेत्यत आह- बुद्धिरहङ्कारचेतसी चेति । बुद्धिरहङ्कारो मनश्चेति ।
अथवा अन्तःकरणमेकैकं त्रिविधं भूतभविष्यद्वर्तमानविषयभेदात् । तदुक्तं
मातङ्गे-
यदन्तःकरणं नाम त्रिकालविषयात्मकम् ॥
यतोऽवसीयते तस्मात् चिरकालानुसञ्चितम् ।
वर्तमानमतीतं च यच्चैष्यदनुमानतः ॥ इति ।
(वि० १८।८६-८७, ८८)
तथा साङ्ख्यैश्च-
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् इति ॥ १० ॥
(साम्० का० ३३)
अघोर-शिव-वृत्तिः
अथ व्यापारैः कैरेषां सिद्धिरित्यत आह- वचनेति ।
विहरणं गमनम्, उत्सर्गो मलापनयनम् । शेषं सुगमम् । अत एव
कर्मेन्द्रियाणि ये नेच्छन्ति ते प्रतिक्षिप्ताः । नामकरणा कृतिर्दृश्यते यतः । नन्वेवं चेद्
भ्रूक्षेपादीनामपि क्रियात्वादनन्तता कर्मेन्द्रियाणाम् । तन्न, त्वगिन्द्रियवत्
सर्वशरीरव्यापकत्वेनैषामभ्युपगमात् । भ्रूक्षेपादि हस्तादेरेव व्यापार इत्यदोषः ।
तेषु चान्तःकरणबहिःकरणभेदमाह- अन्तःकरणमिति ॥ ५९ ॥
विश्वास-प्रस्तुतिः ६०
बुद्धीन्द्रियकर्मेन्द्रियभेदाद् बाह्यं पुनर्भवेद् दशधा
तन्मात्रेभ्यः खपवनतेजोऽम्भःक्ष्मेति पञ्चभूतानि
मूलम् ६०
बुद्धीन्द्रियकर्मेन्द्रियभेदाद् बाह्यं पुनर्भवेद् दशधा
तन्मात्रेभ्यः खपवनतेजोऽम्भःक्ष्मेति पञ्चभूतानि
कुमारः- तात्पर्य-दीपिका
बाह्यकरणभेदं तन्मात्रवृत्तिं चाह- बुद्धीति ।
बाह्यं करणं दशविधम्- पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणीति । अथवा
अन्तःकरणं बुद्ध्यहङ्कारमनोरूपम् । कर्मेन्द्रियबुद्धीन्द्रियात्मकं बाह्यं च
कार्यभेदात् त्रिविधं च । अन्तःकरणस्य प्राणादिवृत्त्या शरीरधारणलक्षणम्,
बुद्धीन्द्रियाणां प्रकाशः, कर्मेन्द्रियाणामाहरणमिति । तदुक्तम्-
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् इति ।
(साम्० का० ३२)
मनःपूर्वाणामिन्द्रियाणां षडध्वव्याप्तिः क्रमेणोच्यते- उकारो वर्णः ।
आधूमेत्यादि द्वे पदे । तत्पुरुषपञ्चार्णौ मन्त्रौ । मनस्तत्त्वम् । माकोटाख्यं
भुवनम् । निवृत्तिः कला । नकारो वर्णः । शर्वमहेश्वरौ पदे । कवचपञ्चार्णौ
मन्त्रौ । श्रोत्राख्यं तत्त्वम् । मण्डलेश्वरं भुवनम् । शान्त्यतीता कला । पकारो
वर्णः । महादेवेत्यादि द्वे पदे । शिखापञ्चार्णौ मन्त्रौ । त्वगात्मकं तत्त्वम् ।
कालञ्जरं भुवनम् । शान्तिः कला । ढकारो वर्णः । महातेजादि द्वे पदे ।
शिरःपञ्चार्णौ मन्त्रौ । चक्षुराख्यं तत्त्वम् । शङ्कुकर्णं भुवनम् । विद्या कला ।
बकारो वर्णः । मुञ्च मुञ्चेत्यादि द्वे पदे । हृदयपञ्चार्णौ मन्त्रौ । वागात्मकं
तत्त्वम् । मण्डलेश्वरं भुवनम् । शान्त्यतीता कला । यकारो वर्णः ।
सार्वसान्निध्यकरणेत्यादि
द्वे पदे । अघोरपञ्चार्णौ मन्त्रौ । पाण्यात्मकं तत्त्वम् । कालञ्जरं भुवनम्
। शान्तिः कला । र इति वर्णः । अनर्चितेत्यादि द्वे पदे । वामदेवपञ्चार्णौ मन्त्रौ ।
पादात्मकं तत्त्वम् । शङ्कुकर्णं भुवनम् । विद्या कला । लकारो वर्णः ।
पूर्वस्थितेत्यादि द्वे पदे । सद्योजातपञ्चार्णौ मन्त्रौ । पाय्वात्मकं तत्त्वम् ।
स्थूलेशं भुवनम् । प्रतिष्ठा कला । वकारो वर्णः । तुरु तुर्वित्यादि द्वे पदे ।
अस्त्रपञ्चार्णौ मन्त्रौ । उपस्थात्मकं तत्त्वम् । स्थलेश्वरं भुवनम् । निवृत्तिः कला ॥
११ ॥
अघोर-शिव-वृत्तिः
अथ तन्मात्राणां भूतकारणतयैव सिद्धिरित्याह- तन्मात्रेभ्य इति । खं च
पवनश्च तेजश्च खपवनतेजः । शेषं सुगमम् ॥ ६० ॥
विश्वास-प्रस्तुतिः ६१
तन्मात्राण्यविशेषाः शब्दादीनां प्रकीर्तिताः पञ्च
भूतानि पञ्च तेभ्यो भवन्ति तान्येकगुणवृद्ध्या
मूलम् ६१
तन्मात्राण्यविशेषाः शब्दादीनां प्रकीर्तिताः पञ्च
भूतानि पञ्च तेभ्यो भवन्ति तान्येकगुणवृद्ध्या
कुमारः- तात्पर्य-दीपिका
तन्मात्रेभ्य इत्यत्र कानि तन्मात्राणि, तेभ्यः कथं भूतानामुत्पाद इत्यत आह-
तन्मात्राणीति ।
अविशेषाः सुक्ष्माः शब्दादयः पञ्च तन्मात्राणीत्युच्यन्ते । मात्रशब्देन
भूतसंश्लेषो भूतभावेन परिणामो वा व्युदस्तः । केवलाः शब्दादयः
सूक्ष्मत्वेनावस्थितास्तन्मात्राणोत्यर्थः । तेभ्यस्तन्मात्रेभ्यः पञ्चभ्यः पञ्च भूतानि
एकैकगुणवृद्ध्या भवन्तीति । तथाहि- शब्दतन्मात्रात् शब्दैकगुणमाकाशमुत्पद्यते,
शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छब्दस्पर्शगुणो वायुः, उक्ततन्मात्रद्वयसहिताद्
रूपतन्मात्रात् शब्दस्पर्शरूपगुणं तेजः, उक्ततन्मात्रसहिताद् रसतन्मात्रात् चतुर्गुणा
आपः, शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रोपादानकारणात्
शब्दस्पर्शरूपरसगन्धात्मकपञ्चगुणा पृथिवी समुत्पद्यत इति । अपरे
केवलेभ्यस्तन्मात्रेभ्यः केवलानि भूतानीत्याहुः । अन्ये तु
शब्दतन्मात्रादाकाशस्पर्शतन्मात्रावुत्पद्येते, स्पर्शतन्मात्राद् वायुरूपतन्मात्रौ,
रूपतन्मात्रात् तेजोरसतन्मात्रौ, रसतन्मात्राद् जलगन्धतन्मात्रौ, गन्धतन्मात्रात् केवला
पृथिवीति । तदुक्तम्-
तामसतो (शैवरहस्यस्य वचनं स्यात् ।) भूतादेरहङ्कृतेर्भवति शब्दतन्मात्रम् ।
तस्मादपि तन्मात्रादाकाशः स्पर्शतन्मात्रः ॥
रूपरसगन्धमात्रं पवनाद्यैः सह यथोत्तरं भवति ।
पूर्वस्मात् तन्मात्रात् केवलतो गन्धतः पृथिवी ॥ इति ।
परे शब्दतन्मात्रादाकाशः तद्द्वयसहितात् स्पर्शतन्-मात्राद् वायुः,
तत्त्रयसहिताद् रूपतन्मात्रात् तेजः, तच्चतुष्क-सहिताद् रसतन्मात्रादापः, तत्पञ्चकसहिताद्
गन्धतन्मात्रात् पृथिवीत्याहुः । अपरे शब्दतन्मात्रादाकाशः, तस्मात् स्पर्शतन्मात्रम्,
तस्माद् वायुः,
तस्माद् रूपतन्मात्रम्, तस्मात् तेजः, तस्माद् रसतन्मात्रम्, तस्मादापः, ताभ्यो
गन्धतन्मात्रम्, तस्मात् पृथिवीति ब्रुवत इति । तन्मात्राणां षडध्वव्याप्तिः- णकारो
वर्णः । अनादेत्यादि द्वे पदे । अघोरपञ्चार्णौ मन्त्रौ । शब्दतन्मात्रं तत्त्वम् ।
मण्डलेश्वरं भुवनम् । शान्त्यतीता कला । तकारो वर्णः । धूत्रयादि द्वे पदे ।
वामदेवपञ्चार्णौ मन्त्रौ । स्पर्शतन्मात्रं तत्त्वम् । कालञ्जरं भुवनम् ।
शान्त्यतीता कला । थकारो वर्णः । ॐ भुव इत्यादि द्वे पदे । सद्योजातपञ्चार्णौ मन्त्रौ
। रूपतन्मात्रं तत्त्वम् । शङ्कुकर्णं भुवनम् । विद्या कला । दकारो वर्णः ।
अनिधनाधि द्वे पदे । अस्त्रपञ्चार्णौ मन्त्रौ । रसतन्मात्रं तत्त्वम् । स्थूलेशं
भुवनम् । प्रतिष्ठा कला । धकारो वर्णः । निधनोद्भवेति पदम् । नेत्रपञ्चार्णौ
मन्त्रौ । गन्धतन्मात्रं तत्त्वम् । स्थलेश्वरं भुवनम् । निवृत्तिः कलेति ॥ १२ ॥
अघोर-शिव-वृत्तिः
कानि पुनस्तन्मात्राणीत्यत आह- तन्मात्राणीति ।
शब्दस्पर्शादीनां पञ्चानामविशेषा अनभिव्यक्तविशेषाणि सूक्ष्मरूपाणि
पञ्चतन्मात्राणीत्युच्यन्ते, यदुक्तम्- गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोजिताः (मृ० वि०
१२।५) इति । ततश्च सूक्ष्मेभ्यः कारणरूपेभ्यः
पञ्चभूतान्यस्मदादिबाह्येन्द्रियपरिच्छेद्यगुणत्वात् स्थूलानि जातानीत्याह- भूतानीति ।
तानि चाकाशादीनि शब्दाद्येकोत्तरगुणानि भवन्ति । शब्दैकगुणमाकाशम् ।
शब्दस्पर्शगुणो वायुः । शब्दस्पर्शरूपगुणोऽग्निः । शब्दस्पर्शरूपरसगुणमम्भः ।
शब्दादिगन्धान्तपञ्चका पृथिवी इति । यच्छ्रूयते- शब्दाद्येकोत्तरगुणमवकाशादिवृत्तिमत्
(मृ० वि० १२।२०) इत्यादि । ननु वैशेषिकादिभिराकाशविशेषगुणः शब्द इष्यते । तन्न,
आश्रयादन्यत्राप्युपलब्धेः । यदुक्तम्- अस्य हेतोः प्रत्यक्षागमविरुद्धत्वेन
कालात्ययापदिष्टत्वात् इति । तथाह्याकाशे तावत्प्रतिशब्दः श्रूयते, वायोः सकसकादिः,
अग्नेर्धमधमादिः, चलचलादिकमम्भसि, कटकटादिः पृथिव्यामिति । उक्तं च
श्रीमन्मृगेन्द्रे-
इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये ॥
अशीतोष्णो महीवाय्वोः शीतोष्णौ वारितेजसोः ।
भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ॥
रूपं त्रिषु रसोऽम्भस्सु मधुरः षड्विधः क्षितौ ।
गन्धं क्षितावसुरभिः सुरभिश्च मतो बुधैः । इति । ६१ ॥
(वि० १२।२७-२९)
विश्वास-प्रस्तुतिः ६२
अवकाशव्यूहनपाचनसङ्ग्रहधारणं क्रमादेषाम्
व्यापारो भूतानां व्योमादीनां समुद्दिष्टः
मूलम् ६२
अवकाशव्यूहनपाचनसङ्ग्रहधारणं क्रमादेषाम्
व्यापारो भूतानां व्योमादीनां समुद्दिष्टः
कुमारः- तात्पर्य-दीपिका
अथ पञ्चभूतानां व्यापारमाह- अवकाशेति ।
अवकाशः स्थानप्रदानं व्योम्नो व्यापारः, भेदकारणत्वात् । व्यूहनं
विविधवहनं वायोर्व्यापारः पुञ्जीकरणं वा । पाचनं परिपाककरणं तेजसो
व्यापारः । सङ्ग्रहः
संश्लेषणमपां व्यापारः, क्लेदनं वा । धारणं सम्भरणं पृथिव्या
व्यापार इति । तदुक्तम्-
व्योम्नोऽवकाशदानं (शैवरहस्यस्य वचनं स्यात् ।) व्यूहो वायोर्हविर्भुजः पाकः ।
सङ्ग्रहणमपां धारणमुर्व्याः सर्वात्मना वृत्तिः ॥
आकाशमत्र परमं भूतम् । तच्छब्दगुणम्, शब्दतन्मात्रादुत्पन्नत्वात् । यथा
मृदुत्पन्नो घटो मृद्गुणः, कार्पासादुत्पन्नस्तन्तुः कार्पासगुणः, एवं शब्दादुत्पन्न
आकाशः शब्दगुण इति । तदिदं भूतमवस्याश्रयणीयम्, अन्यथा मूर्तवस्तुनो
गमनागमनवृद्धिसंरोहणव्यायामादिसर्वव्यापाराभाव-प्रसङ्गादिति । तदुक्तं
पारमेश्वरे-
आकाशं शब्दतन्मात्रादवकाशत्वलक्षणम् ।
व्यक्तं व्यक्तिकरं विप्र ! पृथक्संस्थानसिद्धये ॥ इति ।
(वि० १९।६-७)
तदेकममू (र्त?र्तम्) मूर्तघटकुम्भमठकूपाद्यु-पाधिभेदादनेकभेदभिन्नम्
। तस्य वर्णमनिर्देश्यं शुद्धस्फटिकसन्निभमिति । अपरे चन्द्रमण्डलाकारं मण्डलमिति
। तदुक्तम्-
तद्बाह्ये (चन्द्रज्ञानस्य श्लोकोऽयं प्रतीयते ।) तु भवेद् व्योम भूतत्त्वे
संव्यवस्थितम् ।
अप्रतर्क्यमविज्ञेयं मोक्षस्थानमिवापरम् ॥ इति ।
अस्य षडध्वव्याप्तिः- शकारो वर्णः । पिङ्गपिङ्गेत्यादि
द्वे पदे । नेत्रपञ्चार्णौ मन्त्रौ । आकाशात्मकं तत्त्वम् । वस्त्रापदाद्यष्टौ भुवनानि
। शान्त्यतीता कला । नीरूपस्पर्शवान् वायुः । स शब्दस्पर्शगुणः । आकाशाद् वायुः
(तै० उ० २।१) इत्यागमबलात् परमाणोरुत्पत्तिर्बाधिता । स त्रिविधः- शरीरं प्राणो
विषयश्चेति । यातनादेः शरीरस्य वायवीयत्वं तदाधिक्यात्, न तावन्मात्रत्वात् । प्राणः
शरीरस्थोऽन्तःकरणसामान्यवृत्तिरूपः । तदुक्तम्-
स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च ॥ इति ।
(साम्० का० २९)
इतरो विषयवायुः । तदुक्तं मातङ्गे-
येनाविष्टं जगत् कृत्स्नं स्फुरते वृद्धिमेति च ।
यत्र बद्धा विमानानां कोटयोऽष्टौ च विंशतिः ।
भ्रमन्ति चक्रवत् सोऽयं वायुः प्राणभृतां वरः ॥ इति ।
(वि० २०।३,४)
अस्याञ्जननिभं वर्णं वृत्तं षड्बिन्दुमण्डलम् । तदुक्तम्-
तद्बाह्ये (चन्द्रज्ञानस्य श्लोकोऽयं स्यात् ।) वायुतत्त्वं तु
भिन्नाञ्जनसमप्रभम् ।
घर्घरारावमुखरं महाबलजनाकुलम् ॥ इति ।
अस्य षडध्वव्याप्तिः- षकारो वर्णः । शब्दशब्देत्यादि द्वे पदे ।
कवचपञ्चार्णौ मन्त्रौ । वाय्वात्मकं तत्त्वम् । गयाद्यष्टौ भुवनानि । शान्तिः कला ।
भास्वररूपं तेजः । तद् द्विविधम्- आभ्यन्तरं बाह्यं चेति ।
शरीरान्तर्वर्तिभुक्ताहारपाकसाधनमाभ्यन्तरम्, इतरद् बाह्यम् । तच्च द्विविधम्- शरीरं
विषय इति । देवर्षीणां देहस्तैजसः,
तैजसानि शरीराणि भवन्त्यद्भुतकर्मणाम् (भवन्त्यत्रोपपद्यतामिति तत्रत्यः
पाठः ।)
(म० भा० ३।२६१।१३)
इति वचनात् । इतरत् सूर्यसोमवह्निविद्युदादि । तस्य वर्णं विद्युन्निभम् । तदुक्तम्-
तेजस्तत्त्वं (चन्द्रज्ञानस्य श्लोकोऽयं स्यात् ।) तु तद्बाह्ये विद्युत्कोटिसमप्रभम् ।
मेघस्तनितनिर्घोषं तेजोरूपं जनाकुलम् ॥ इति ।
मण्डलं स्वस्तिकलाञ्छितं त्रिकोणम् । अस्य षडध्वव्याप्तिः-
शिवशर्वेति पदम् । शिखापञ्चार्णौ मन्त्रौ । तैजसं तत्त्वम् । श्रीशैलाद्यष्टौ भुवनानि
। विद्या कला । स्वतो द्रवा आपः शब्दस्पर्शरूपरसगुणाः । तत्र स्वकीयो रसगुणः ।
त्रयोऽन्ये सङ्करजाः । तदुक्तं पारमेश्वरे-
रसः स्वाक्योऽत्र बोद्धव्यस्त्रयोऽन्ये सङ्करोद्भवाः इति ।
(वि० २२।२)
तद् द्विविधम्- शरीरं विषय इति । शरीरं वरुणलोकस्थानम् । विषयभूतमितरत्,
भोग्यत्वात् । स्फटिकवर्णं चैतत् । तदुक्तं चन्द्रज्ञाने-
पृथिवीतत्त्वमाक्रम्य जलं दशगुणं बहिः ।
ब्रह्माण्डाधारभूतं तु शुद्धस्फटिकसन्निभम् ॥ इति ।
अस्य षडध्वव्याप्तिः- हकारो वर्णः । सर्वदादि द्वे पदे । शिरःपञ्चार्णौ
मन्त्रौ । अबात्मकं तत्त्वम् । अमरेशाद्यष्टौ भुवनानि । प्रतिष्ठा कला । गन्धवती
पृथिवी, पञ्चगुणा च । तदुक्तं पारमेश्वरे-
सङ्क्षुब्धाद् गन्धतन्मात्राद् गुणैः पञ्चभिरन्विता ॥
स्वाक्योऽस्या गन्ध एवोक्तश्चत्वारोऽन्येऽनुषङ्गजाः ।
सारं तावत् परा काष्ठा नखदन्तास्थिजातयः ॥ इत्यादि ।
(वि० २३।१-२,५)
सा चेयं शरीरं विषय इति द्विविधा । शरीरं च स्थावरजङ्गमात्मना द्विविधम्
। स्थावरं तृणादिवृक्षान्तम् । जङ्गमं चतुर्विधम्- जरायुजमण्डजं स्वेदजमयोनिजं
चेति । मनुष्यपशुमृगाणां जरायुजम् । पक्षिसरीसृपाणामण्डजम् ।
यूकमत्कुणपतङ्गादीनां स्वेदजम् । भुवनेशदेवर्षीणाम् अयोनिजं चेति ।
ब्रह्माण्डतदन्तर्वर्तिसप्तद्वीपपातालाष्टा विंशतिकोटिनरकतावत्सङ्ख्यविमानादयः
पुराणशतेतिहाससिद्धा विषयाः, भोग्यत्वादिति । अण्डात्मकं क्षितितत्त्वं
शतकोटियोजनविस्तृतम् । तदुक्तं शैवरहस्ये-
पार्थिवमन्तिमतत्त्वं ब्रह्माण्डात्मकमखण्डमपि तावत् ।
विस्तारायामाभ्यामुक्तं शतकोटियोजनम् ॥ इति ।
मतङ्गपारमेश्वरे च-
एवं कोटिशतं पूर्णं पार्थिवं तत्त्वमत्र तु ।
अस्माद् दशगुणं तोयं तोयादग्निस्ततोऽनिलः ॥
वायोः खं खादहङ्कारस्तस्माच्च परतो महान् ।
महतः परतो ज्ञेयं गुणानां त्रितयं मुने ॥
गुणत्रयात् प्रधानाख्यं तत्त्वं दशगुणोत्तरम् ।
शतोत्तरगुणानि स्युर्मायान्तान्यपि रागतः ॥
सहस्रवृद्धं विद्याख्यं लक्षमैशं ततस्ततः ।
कोट्या विवर्धितं भूयः शिवतत्त्वं प्रकीर्तितम् ॥
अनन्तरमनन्तं स्यादप्रमेयं च शाश्वतम् । इति ।
(वि० २४।४१-४५)
एतत् क्षितितत्त्वं स्वर्णनिभम् । तदुक्तं चन्द्रज्ञाने-
सौवर्णं पृथिवीतत्त्वं सूर्यकोटिसमप्रभम् ।
कुक्कुटाण्डनिभं चैतद् ब्रह्माण्डं परिकीर्तितम् ॥ इति ।
चतुरस्रं वज्रलाञ्छितं चन्द्रमण्डलम् ।
ब्रह्माद्या देवता ज्ञेयाः क्ष्मादीनां पञ्च वै क्रमात् ।
शिवादिपृथिव्यन्तेषु तत्त्वेषु सकलेष्वपि ॥
भुवनानि चतुर्विंशत्यधिकं तु शतद्वयम् ।
अस्याः षडध्वव्याप्तिः- क्षकारो वर्णः । शिवाय्ॐ नमो नम इति पदम् ।
हृदयपञ्चार्णौ मन्त्रौ । पार्थिवं तत्त्वम् । कालाग्न्यादिभद्रकाल्यन्तान्यष्टोत्तरशतं
भुवनानि । निवृत्तिः कला इति ॥ १३ ॥
इति तत्त्वप्रकाशतात्पर्यदीपिकायाम् अशुद्धवर्गविनिर्णयः
चतुर्थः परिच्छेदः
अघोर-शिव-वृत्तिः
अथैषां व्यापारमाह- अवकाशेति ।
अवकाशदानमाकाशस्य व्यापारः, व्यूहनमवयव-घटनं वायोः,
पाकोऽग्नेः, सङ्ग्रहोऽवष्टम्भोऽम्भसः, धारणं भूमेरिति । अत्र
चाकाशस्यावकाशमात्रादन्यत्व-मनित्यत्वं चास्माभिमृर्गेन्द्रवृत्तिदीपिकायां विस्तरेण
दर्शितमिति ततोऽवधार्यम् ॥ ६२ ॥