विश्वास-प्रस्तुतिः
शुद्धानि पञ्चतत्त्वान्याद्यं तेषु स्मरन्ति शिवतत्त्वम् ।
शक्तिसदाशिवतत्त्वे ईश्वरविद्याख्यतत्त्वे च ॥ २१ ॥
पुंसो ज्ञकर्तृतार्थं मायातस्तत्त्वपञ्चकं भवति ।
कालो नियतिश्च तथा कला च विद्या च रागश्च ॥ २२ ॥
अव्यक्तं मायातो गुणतत्त्वं तदनु बुद्ध्यहङ्कारौ ।
चेतोधीकर्मेन्द्रियतन्मात्राण्यनु च पञ्चभूतानि ॥ २३ ॥
मूलम्
शुद्धानि पञ्चतत्त्वान्याद्यं तेषु स्मरन्ति शिवतत्त्वम् ।
शक्तिसदाशिवतत्त्वे ईश्वरविद्याख्यतत्त्वे च ॥ २१ ॥
पुंसो ज्ञकर्तृतार्थं मायातस्तत्त्वपञ्चकं भवति ।
कालो नियतिश्च तथा कला च विद्या च रागश्च ॥ २२ ॥
अव्यक्तं मायातो गुणतत्त्वं तदनु बुद्ध्यहङ्कारौ ।
चेतोधीकर्मेन्द्रियतन्मात्राण्यनु च पञ्चभूतानि ॥ २३ ॥
कुमारः- तात्पर्य-दीपिका
अथ द्वितीयः परिच्छेदः
अथ सङ्क्षेपेणोक्तानां पतिपशुपाशानां विस्तारमुपदिशति- शुद्धानीति ।
अत्राद्यं पञ्चकं शिवस्वरूपत्वाच्छुद्धम्, मध्यमं सप्तकं
शुद्धाशुद्धम्, पशुरूपत्वात् । कथमत्र सप्तकत्व-मित्यत आह- पुंसो ज्ञकर्तृतार्थं
मायातस्तत्त्वपञ्चकं भवति । पुरुषस्य ज्ञानार्थं कर्तृत्वार्थं च मायातः
तत्त्वपञ्चक-मुत्पद्यते । तेन कारणभूता माया, कार्यभूतं पञ्चकम्, तदुपहितः
पुरुषः सप्तम इति सप्तकत्वम् । तदुक्तं शैवरहस्ये-
माया कालो नियतिः कला च विद्याभिलाषकृत् पुरुषः ।
कॢप्तानि सप्तधैवं शुद्धाशुद्धानि तत्त्वानि ॥ इति ।
शिष्टं केवलाशुद्धमव्यक्तादिपृथिव्यन्तम् । अव्यक्तस्य मायात उद्भवः, अव्यक्ताद्
गुणतत्त्वस्य, गुणतत्त्वाद् बुद्धेः, बुद्धि-तत्त्वादहङ्कारस्य, अहङ्काराद्
मनोबुद्धीन्द्रियकर्मेन्द्रिय-तन्मात्राणामुद्भवः, तन्मात्रेभ्य आकाशादिपृथिव्यन्तानामिति ॥
१-३ ॥
अघोर-शिव-वृत्तिः
इत्थं सकलविषयं पाशत्रयमुभयविषयां तिरोधान-शक्तिं चोक्त्वा
मयोत्तीर्णविषयं शुद्धाध्वस्वरूपं पाशमाह- शुद्धानीति ।
शुद्धानि शुद्धतत्त्वानि । किं तानि नित्यानि, उतानित्यानि ? नित्यत्वे सृष्टिविरोधः,
अनित्यत्वे किं तेषामुपादानमित्यत आह- तेषु मध्ये शिवतत्त्वं बिन्द्वात्मकम् आद्यं
प्रधानमुपादानं स्मरन्ति पूर्वाचार्याः । परमोपादानत्वेनैव चास्य मायावन्-
नित्यत्वं सिद्धमित्युक्तम् । अतश्चान्यानि चत्वारि तानि तत्कार्याणीति भावः । तदुक्तम्-
मायोपरि महामाया (रौ० सम्० ४।२८) इति । इदमत्राकूतम्- विद्यादितत्त्वानां
विचित्रभुवनादिसन्निवेशादिमत्-त्वेन श्रुतेः कार्य-त्वाव्यभिचारात् तत्तत्त्ववासिनां च
शरीरादि-योगात् तत्कारणं महामायात्मकं सिद्धमिति । यदुक्तम्- उपादानं
शरीराणां विद्याविद्येश्वरात्मनाम् इति । किञ्च, नादादिद्वारेण मन्त्रतन्त्राद्युत्-
पादकत्वमप्यस्याः श्रूयते- शक्तेर्नादो भवेद् बिन्दुरक्षरं मातृका ततः (मृ० क्रि० १।२)
इत्यादि । इत्थं बिन्द्वात्मकं शिवतत्त्वं प्रसाध्य तत्कार्याणि चत्वारि तानि किन्नामानीत्यत
आह- शक्तिसदाशि-वेति ॥ २१ ॥
एवं शुद्धानि तत्त्वानि सङ्ख्यातो नामतश्चोक्त्वाऽथोऽशु-द्धान्यपि तथैवोद्दिशति-
पुम्स इति ।
पुंसो बद्धात्मनोऽज्ञकर्तृतार्थमज्ञत्वकर्तृत्वसिद्ध्यै मायातः साक्षात्
पारम्पर्येण च कालादितत्त्वपञ्चकं भवति । पञ्चकञ्चुकयुक्तस्यास्य भोक्तृत्वेन
पुंस्त्वम्लयोगात् पुरुषतत्-त्वाख्या भवतीति वक्ष्यति ॥ २२ ॥
किं च- अव्यक्तमिति ।
धीकर्मेन्द्रियेति, बुद्धीन्द्रियकर्मेन्द्रियाणीत्यर्थः । अव्यक्ता-दीनि पञ्चविंशतितत्त्वानि
मायातः पारम्पर्येणोत्पन्नानीति वक्ष्यामः । अत्र लक्षणोक्त्यवसरेण, एतेषां च ॥ २३
॥
विश्वास-प्रस्तुतिः २४
पुरुषस्य भोगहेतोः प्रधानतो विंशतिर्भवेत् त्र्यधिका
यस्मात् प्रकृतिगुणानां नात्यन्तं वस्तुतो भेदः
मूलम् २४
पुरुषस्य भोगहेतोः प्रधानतो विंशतिर्भवेत् त्र्यधिका
यस्मात् प्रकृतिगुणानां नात्यन्तं वस्तुतो भेदः
कुमारः- तात्पर्य-दीपिका
किमर्थमेषामुत्पादः कृतो भगवता महेश्वरेणेत्याशङ्क्-याह- पुरुषस्येति ।
पुरुषस्य पशोः स्वकृतपुण्यापुण्यफलभूतसुखदुःखानु-भवार्थमेषामुत्पत्तिः
। भोगस्तु भोगायतनं भूतात्मकं शरीरम्, भोगसाधनानीन्द्रियाणि, भोग्यान्
शब्दादिविषयान् विना न सम्भवतीति भोगार्थमेषां जन्मेति सिद्धम् । अव्यक्तगुणतत्त्व-
योरत्यन्तभेदाभावान्न च तत्त्वाधिक्यमिति । एतदुक्तं शैवरहस्ये-
अव्यक्तबुद्ध्यहङ्कृतिमनांसि चत्वारि शब्दमात्राद्यम् ।
श्रोत्राद्यं वागाद्यं वियदाद्यं पञ्चकं च पृथक् ॥
तत्त्वचतुर्विंशतिकं त्रिगुणात्मतयैव केवलाशुद्धम् । इति ॥ ४ ॥
अघोर-शिव-वृत्तिः
सर्वेषां चैषां कुत्र कुत्रोपयोगः ? किञ्च, प्रधानात् साक्षाज्जातानि कानि ?
तत्त्वान्तरव्यवधानेन जातानि कानीति सर्वं दर्शयिष्यामः । ननु अव्यक्तं मायातः
(श्लो० २३) इत्यादिना प्रकृत्यधस्तनतत्त्वानां चतुर्विंशतेरुक्तत्वात् कथमत्र त्र्यधिका
विंशति-रुच्यते ? अत आह- यस्मात् प्रकृतिगुणानामिति । गुणानामेव प्रकृतित्वेन
साङ्ख्यैरभ्युपगमात् तन्निरासाय तेषामचैतन्ये सत्यनेकत्वाद् घटादीनामिव
कारणान्तरेण भवितव्यमिति प्रकृतिसिद्धिरस्माभिरुच्यते । ततः कार्यकारणयोरभेदविवक्ष-
यैवमुक्तमित्यविरोधः ॥ २४ ॥
विश्वास-प्रस्तुतिः २५
व्यापकमेकं नित्यं कारणमखिलस्य तत्त्वजातस्य
ज्ञानक्रियास्वभावं शिवतत्त्वं जगदुराचार्याः
मूलम् २५
व्यापकमेकं नित्यं कारणमखिलस्य तत्त्वजातस्य
ज्ञानक्रियास्वभावं शिवतत्त्वं जगदुराचार्याः
कुमारः- तात्पर्य-दीपिका
प्रथमोद्दिष्टं शिवतत्त्वं लक्षयति- व्यापकमिति ।
व्यापकं व्याप्तं सर्वगतमित्यर्थः । एकमद्वितीयं सर्व-
भूतस्वरूपेणावस्थितमित्यर्थः । नित्यम् अनश्वरम् । अखिलतत्त्व-जातस्य कालादिपृथिव्यन्तस्य
कारणमुत्पादकम् । ज्ञानक्रियास्व-भावमिति । ज्ञानमात्रं क्रिया व्यापारः साक्षित्वं
स्वभावो यस्य तत्त्वस्य तत् शिवतत्त्वमिति तल्लक्षणम् । जगदुराहुः । आचार्या आगमविद इति
। अथवा स्वव्यतिरिक्तमस्ति चेत् तदखिलं व्याप्नोतीति व्यापकमित्युक्तम् ।
स्वसमानासमानपुरुषान्तराभावादेकत्वम् । व्याप्त्येकत्वे चाकाशस्यापि स्त इति
तन्निवृत्त्यर्थं नित्यपदोपादानम् । व्याप्तिनित्यत्वैकत्वानि पशोरपि विद्यन्त इति तन्निवृत्त्यर्थं
कारणम-खिलस्य तत्त्वजातस्येति पदम् । मायायाश्च व्यापकनित्यत्वैकत्वाखिल-
कारणत्वसद्भावात् तन्निवृत्त्यर्थं ज्ञानक्रियास्वभावमुत्युक्तम् । अतो यद् व्यापकमेकं
नित्यमखिलतत्त्वकारणं ज्ञानक्रियास्वभावम्, तच्छिततत्त्वमिति । एतदुक्तं श्वेताश्वतरे-
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः ॥ (३।११) इति ।
शिवधर्मोत्तरे च-
आदिमध्यान्तनिर्मुक्तः स्वभावविमलः प्रभुः ।
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागेम ॥ इति ।
सिद्धान्तहृदये च-
कूटस्थममृतं ब्रह्म सत्यमेकमविक्रियम् ।
निष्प्रत्यनीकं चित्सौख्यं नित्यतृप्तमलुप्तदृक् ॥
अध्वातीतं परं व्योम विश्वव्यापि निरामयम् ।
अणीयोऽणोरजं नित्यमुक्तं च महतो महत् ॥
अप्रतर्क्यमरूपादि निरौपम्यमलक्षणम् ।
सदात्मकं स्वयञ्ज्योतिरवाङ्मनसगोचरम् ॥
अतन्निषेधमार्गेण ज्ञायते यच्च सूरिभिः ।
यच्च भ्रामकवत् कर्तृ ज्ञापकं च प्रदीपवत् ॥
मायासहायं तत्प्राहुः शिवतत्त्वं मनीषिणः । इति ॥ ५ ॥
अघोर-शिव-वृत्तिः
यथोद्दिष्टेषु तत्त्वेषु प्रथमोद्दिष्टं तावच्छिवतत्त्वं लक्षयति- व्यापकमिति ।
यत्प्राक् शुद्धाध्वोपादानत्वेन बिन्द्वात्मकं शिवतत्त्वं साधितं तद् व्यापकम्,
शुद्धाशुद्धात्मनो जगतो निजपरिणति-रूपाभिर्निवृत्त्यादिभिः कलाभिर्विश्वं व्याप्नोतीत्यर्थः
। यदाहुः- कलावस्थानि तत्त्वानि तत्त्वस्थो भुवनव्रजः (मृ० क्रि० ८।७१) इत्यादि । तच्च एकम्,
परमकारणत्वात् । अनेकत्वे हि जडत्वे सत्यनेक-त्वाद् घटादिवत् कार्यं स्यादित्युक्तम् । अत
एव नित्यम्, अनित्यत्वे परमकारणत्वाभावात्, तस्यापि चोपादानान्तरापेक्षायामन-
वस्थाप्रसङ्गाच्च । निखिलस्य च शुद्धरूपस्य तत्त्वजातस्य कारणम् उपादानम् । न
त्वशुद्धस्य तत्त्वस्य, तस्य मायोत्पन्नत्वे-नोक्तत्वादस्य च
शुद्धत्वेनाशुद्धकारणत्वायोगात् । किञ्च, ज्ञानक्रिये स्वस्मिन् स्थिते आत्मनां भावयतीति
ज्ञानक्रियास्व-भावम् । अयमर्थः- तत्तद्भुवनेश्वराराधनाद् दीक्षया वा
स्वकार्यभूतशुद्धाध्वभुवनप्राप्तानां ज्ञानक्रिये प्रकटयतीति । यदुक्तं
श्रीमन्मतङ्गे-
शान्त्यतीतं परं तत्त्वमविनाश्यव्ययात्मकम् ।
येनोन्मीलितसामर्थ्याः पशवो (पशवः शिवतां गता इति मुद्रितग्रन्तपाठः
शुद्धः ।) जीवतां गताः ॥ (वि० ३।३२-३३) इति ।
अत एवास्य बोधकत्वम् । ननु मायापि कलादिद्वारेण ज्ञानक्रि-याप्रकाशिकेत्युक्तम्,
सत्यम्, मयोत्पन्नस्य ज्ञानादेः किञ्चिद्विषय-त्वादनात्मादावात्मादिभावनाहेतुत्वाच्च
सा मोहिका । इदं तु सर्वविषयज्ञानादिप्रकाशकत्वाच्छास्त्रसिद्धोपादानद्वारेण
शिवादिशुद्धवस्तुबोधकत्वाच्च बोधकमित्यविरोधः । यद्वा ज्ञान-क्रियाख्यं स्वं
धनमात्मनां भावयत्यभिव्यनक्तीति ज्ञानक्रि-यास्वभावम् । अथवा ज्ञानक्रिये अस्य न
स्वभाव इति नङ्प्रश्लेष-णाज्जडरूपतया व्याख्येयम्, न तु ज्ञानस्वभाव-तया,
उपादानत्वेन मृदादिवदचेतनत्वात्, ज्ञानस्वभावस्यो-पादानत्वायोगात् । तदुक्तं
श्रीमत्पराख्ये- निमित्तमीश्वरस्तेषा-मुपादानं स बिन्दुराट् इति । अन्यत्रऽप्युक्तम्
(पौष्करागमीयं वचनमिदम् ।)- सा च कुण्डलिनी शम्भोः शक्तिः
शुद्धा जडात्मिका इति । एवम्भूतमुपादानरूपं महा-मायाख्यं
शिवतत्त्वमाचार्या जगदुरिति । न त्वियमार्या परम-शिवविषयतया तच्छक्तिविषयतया वा
व्याख्येया, शिवादिपृथि-व्यन्ततत्त्वल-क्षणप्रस्तावे तत्त्वातीतयोस्तयोरत्राप्रस्तुत्वात् । तयोरेव
शिवतत्त्वरूप-त्वेन शुद्धाध्वोपादानत्वाभ्युपगमे परिणामित्-वादचेतनत्वादिदो-
षप्रसङ्गात् । न च चिद्विवर्ताभ्युपगमो युक्तः, सर्वप्रमाणसिद्ध-त्वेन
जगतोऽसत्यत्वाभावात्, विवर्तस्य चासत्य-त्वाभ्युपगमात् । शिवतत्त्वसञ्ज्ञाया
बिन्द्वात्मनः कुण्डलिन्याश्-चित्समवायाभावे-न परिग्रहशक्तित्वेन श्रवणाच्च प्रोक्तैव
व्याख्या युक्ता । तदुक्तम्-
नात्र (पौष्करागमस्य श्लोका इमे इति लु० सं०, भा० २, पृ० १२१
दर्शनादवगम्यते ।) शक्तिरुपादानं चिद्रूपत्वाद्यथा शिवः ।
परिणामोऽचितः प्रोक्तश्चेतनस्य न युज्यते ॥
चितो विवर्त एवोक्तस्तथात्वे कार्यशून्यता ।
सर्वप्रमाणसंसिद्धं चिद्विवर्तं कथं जगत् ॥
मायापि नात्रोपादानं मोहकत्वात् स्वतेजसा ।
सा च कुण्डलिनी शम्भोः शक्तिः शुद्धा जडात्मिका ॥
न तादात्म्यात् स्थिता किन्तु वर्तमाना परिग्रहे ।
शिवे कर्तरि तादात्म्यान्नेयं कुण्डलिनी स्थिता ॥
उपादानं त्वतो हेतोः कुलाले मृत्तिका यथा । इति ।
शब्दब्रह्मवादिपक्षेणाप्यात्मन एव नादादिक्रमेण बहुधाऽवस्थानं न
युज्यत इत्युक्तं नादकारिकासु-
अविकार्यत्रात्मोक्तस्तच्छक्तिश्चाप्यतो न योग्यौ तौ ।
बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् ॥ (१९) इत्यादि ।
अतः शब्दोपादानत्वेनापि महामाया सिद्ध्यतीत्येवमादि
विस्तरेणास्माभिर्मृगेन्द्रवृत्तिदीपिकायां दर्शितमिति ततोऽवधार्यम् ॥ २५ ॥
विश्वास-प्रस्तुतिः २६
अस्मिन्निलीय निखिला इच्छाद्याः शक्तयः स्वकं कार्यम्
कुर्वन्ति तेन तदिदं सर्वानुग्राहकं प्राहुः
मूलम् २६
अस्मिन्निलीय निखिला इच्छाद्याः शक्तयः स्वकं कार्यम्
कुर्वन्ति तेन तदिदं सर्वानुग्राहकं प्राहुः
कुमारः- तात्पर्य-दीपिका
ननु निष्क्रियस्य शिवतत्त्वस्य कथं निखिलतत्त्वकारणत्वमित्याशङ्क्याह- अस्मिन्निति ।
अस्मिन् परमेश्वरतत्त्वे निलीनास्तत्तत्त्वमवलम्ब्य स्थिता इच्छाद्याः शक्तयः
स्वकार्यं कुर्वन्ति, न स्वातन्त्र्येण, तासां शिवसामर्थ्यरूपत्वात् । तेनासौ शिवो
निखिलतत्त्वकारणम्, अत एव सर्वानुग्राहकश्च भवतीति । अस्य शिवतत्त्वस्य षडध्वव्याप्तिः-
स्वराः षोडश वर्णाध्वा ताराद्यं नवकं पदम् ।
मन्त्रौ षड्वर्णपञ्चार्णौ तत्त्वं तत्र शिवात्मकम् ॥
नेन्तं नमः परायाद्यं त्रिपञ्चभुवनान्यपि ।
निवृत्त्यादीनि पञ्चात्र शान्त्यतीतादयः कलाः ॥
सर्वत्रान्ते पदं योज्यं स्यात् षडध्वात्मने नमः ॥ ६ ॥
अघोर-शिव-वृत्तिः
अत एव- अस्मिन्निति ।
इच्छाद्याः शिवशक्तयः, अस्मिन् उपादाने प्रथमं निलीय तदधिष्ठानेन
स्वकमनुग्राह्यानुग्राहकलक्षणं कार्यं तच्छेषभूतं च सृष्ट्यादिकं कुर्वन्ति ।
ततस्तदिदमपि परम्परया सर्वानुग्राहकत्वात् सर्वानुग्राहकं प्राहुः, न तु
शक्त्यधिष्ठा-ननैरपेक्ष्येणास्वातन्त्र्यात्, अचेतनस्य चेतनाधिष्ठानं विना
कार्योत्पादनायोगात् ॥ २६ ॥
विश्वास-प्रस्तुतिः २७
चिदचिदनुग्रहहेतोरस्य सिसृक्षोर्य आद्य उन्मेषः
तच्छक्तितत्त्वमभिहितमविभागापन्नमस्यैव
मूलम् २७
चिदचिदनुग्रहहेतोरस्य सिसृक्षोर्य आद्य उन्मेषः
तच्छक्तितत्त्वमभिहितमविभागापन्नमस्यैव
कुमारः- तात्पर्य-दीपिका
अथ शक्तितत्त्वमाह- चिदिति ।
अयमर्थः- पशुपाशानुग्रहार्थं सिसृक्षोः परमेश्वर-स्याद्यो य उन्मेषः
उन्निद्रभावः, ईक्षणमिति यावत्, तच्छक्तितत्त्व-मित्युक्तम्, शिवतत्त्वादभिन्नं च,
शक्तितद्वतोर्भेदासम्भवादिति । ननु कथं शक्तेः सद्भावावगमः ? कार्यानुपपत्त्येति
ब्रूमः । निष्क्रियस्य शिवस्य जगत्सृष्ट्यादिकं शक्त्यभावे न सम्भवतीति तत्सिद्धिः ।
तथा हि- यथाग्नेरङ्गुलिसंयोगे विद्यमानेऽपि मण्यादि-प्रतिबन्धकसद्भावदशायां
स्फोटकार्यानुद्भवादग्न्यङ्गुलि-संयोगव्यतिरिक्ता दाहिका शक्तिः कल्प्यते, तथात्रापि
पञ्चविधकार्-यान्यथानुपपत्त्या शक्तिसद्भावसिद्धिः । न चाग्न्यङ्गुलिसंयोग एव
स्फोटहेतुरिति वाच्यम्, तस्य प्रतिबन्धाप्रतिबन्धावस्थयोः सद्भावेनाविशेषेण
स्फोटकार्योदयप्रशङ्गात् । न च प्रतिबन्ध-काभावात्मककारणाभावात् तदानीं
कार्यानुदयो न शक्त्य-भावादिति वाच्यम्, प्रतिबन्धकाभावस्याकारणत्वात् । भूतानां
भविष्यतां देशान्तरे वर्तमानानां च प्रतिबन्धकानाम-भावसद्भावेऽपि
स्फोटकार्यानुत्पत्तेस्तस्याकारणत्वसिद्धिः । न चैतस्य प्रतिबन्धकाभावस्य कारणत्वेन
तद्व्यतिरिक्ताभावसद्-भावेऽपि कार्यानुदयो घटत इति वाच्यम्, एतदभावस्य कारणत्वे
प्रमाणा-भावात्, विपरीतप्रमाणसद्भावाच्च । तथाहि- विमतो भावः स्फोटाजनकः,
प्रतिबन्धकाभावत्वात्, तदन्याभाववदिति । तथैतत्-प्रतिबन्धकविगमने
एतदभावसद्भावेऽपि प्रतिबन्धकान्तरसद्भावे स्फोटकार्यानुदयाच्चैतस्याकारणत्व-
सिद्धिः । न च सर्वेषां प्रतिबन्धकानामभावः कारणम्, उपरिदीपनयनस्याङ्कुरोत्पत्ति-
प्रबन्धकस्यापनयने बीजादङ्कुरोत्-पत्तिप्रसङ्गात् । अथ न दीपनय-नप्रध्वंसः
कारणम्, तत्प्राग-भावस्य कारणत्वात् । स चात्र नास्तीति तस्य तत्र नीतत्वादिति चेत्, नैवम्,
उपरिदीपनयनप्रागभावान्तरसद्भावेनाङ्कुरोत्पादप्र-सङ्गात् । न चासावेव कारणमिति
वाच्यम्, उपरिनीतदीपेषु बीजाङ्कु-रेष्वेतद्दीपनयनप्रागभावस्य सद्भावात् तेभ्यो
बीजेभ्योऽङ्कुरोत्पत्तिप्रसङ्गात् ।
अतो दीपनयनादतीन्द्रियं किमपि कारणं नष्टमित्यवगम्यते,
तदभावाप्रतिबन्धावस्थायां कार्यानुदयनप्रतिबन्धका-भावस्याभावादिति । ननु
शक्तेर्विनाशे कारणाभावात् प्रतिबन्ध-कावगमेऽग्नेः स्फोटकार्याभावो गतिस्तम्भने च
सर्पादेर्ग-मनाभावश्च प्रसज्यते, मन्त्रेण नष्टशक्तित्वादिति चेत् ? नैवम्,
नष्टशक्तिज्वालानाशे पुनरुत्पद्यमानज्वालायाः शक्तिनाशा-भावेन स्फोटोदयोप-पत्तेः ।
सर्पस्य तु ध्यातमारवशात् गमना-भावः, न शक्तिनाशादि-ति पुनर्गमनोपपत्तेः ।
तस्माद् कार्यान्य-थानुपपत्त्या शक्तिसद्भा-वसिद्धिः । तदुक्तं भट्टपादेन-
शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः इति ।
सेयं परा शक्तिं परमेश्वरादभिन्ना । तस्या विकारा इच्छायाः
शक्तयस्तदभिन्ना इति । तदुक्तं मातङ्गे-
पत्युः शक्तिः परा सूक्ष्मा जाग्रतो द्योतनक्षमा ।
तया प्रभुः प्रबुद्धात्मा स्वतन्त्रः स सदाशिवः ॥ (वि० ५।२०) इति ।
अस्य शक्तितत्त्वस्य षडध्वव्याप्तिः-
अनन्तायेति पूर्वं यत् पदानां तु चतुष्टयम् ।
तत्त्वशक्तिः कलातीता पूर्वस्मात्तु विशिष्यते ॥ ७ ॥
अघोर-शिव-वृत्तिः
इत्थं शिवतत्त्वं प्रसाध्य तत्कार्यभूतं शक्तितत्त्वमाह- चिदिति ।
शिवो हि चितामात्मनामनुग्रहं मोक्षं कर्तुमिच्छुस्तेषां मलपाकाय
कर्मभोगार्थं च सृष्ट्यादि कृत्वा पाशानामचिता-मनुग्रहं
स्वव्यापारसामर्थ्योत्पादनं करोति । अत्र पाशानु-ग्रहे साध्ये प्रथमोपादानत्वाद्
बिन्दुः साधनमित्युक्तम् । अतोऽयमर्थः पर्यवसन्नः- सिसृक्षोः परमेश्वरस्य चिदचिद्विषयो
योऽनुग्रहः, तद्धेतोस्तत्साधनरूपस्य अस्य बिन्दोर्य आद्य उन्मेषः प्रथमः परिणामः
शान्त्यादिभुवनात्मनो नादात्मकश्च, तच्छक्तितत्त्वमुच्यते । नन्वेतच्छक्तितत्त्वं
बिन्द्वादिवन्निरवयवमुत सावयवमत आह- अविभागापन्नमिति । विभज्यन्ते एभिः
पदार्थाः परस्परं विविच्यन्त इति विभागा अवयवाः । अविभागापन्नं
निरवयवस्वरूपम्, अस्यैव परमकारणस्य बिन्दोर्मायाया वा शक्ति-रूपस्यैव
परमकारणत्वात् । शान्त्यादीनि तु कार्यरूपाणि तत्त्वानि व्यक्तत्वेन भुवनाद्याधारत्वात्
सावयवान्येव । ननु शिवतत्त्वेऽपि भुवनानि श्रुयन्ते ? सत्यम्,- न तु साक्षात् । किन्तु
शान्तिकलामस्तक एव तानि स्थितानि, मायाभुवनानीव कलामस्तक इत्यविरोधः ॥ २७ ॥
विश्वास-प्रस्तुतिः २८
ज्ञानक्रियाख्यशक्त्योरपकर्षोत्कर्षयोरभावेन
यः प्रसरस्तं प्राहुः सदाशिवाख्यं बुधास्तत्त्वम्
मूलम् २८
ज्ञानक्रियाख्यशक्त्योरपकर्षोत्कर्षयोरभावेन
यः प्रसरस्तं प्राहुः सदाशिवाख्यं बुधास्तत्त्वम्
कुमारः- तात्पर्य-दीपिका
अथेदानीं सदाशिवादिशुद्धतत्त्वानां स्वरूपं निरूपयितुमाह- ज्ञानेति ।
अयमभिप्रायः- पराशक्तिविकारभूतज्ञानेच्छाक्रियाशक्ती-नां प्रसरावस्थायां
ज्ञानक्रियात्मकशक्तिद्वयसाम्ये सतीच्छो-द्रेको यदा विवक्ष्यते, तदा शिवतत्त्वं
सदाशिवाभिधानमिति । तदुक्तं सिद्धान्तहृदये-
ज्ञानक्रियाख्ये न्यक्तुल्ये शक्तीच्छोद्रेकमश्नुते ।
यदा सदाशिवाख्यस्तु तदासौ शिव उच्यते ॥ इति ।
तत् तत्त्वं स्फटिकनिभम् । तदुक्तं चन्द्रज्ञाने-
सदाशिवाख्यं विमलं शुद्धस्फटिकसन्निभम् । इति ।
अस्य सदाशिवतत्त्वस्य षडध्वव्याप्तिः-
वर्णाध्वात्र ककारः स्याच्छाश्वतायादिकं त्रिकम् ।
पदाध्वा च स्वयं तत्त्वभुवने शान्तिरेव च ॥ ८ ॥
अघोर-शिव-वृत्तिः
अथ सदाशिवतत्त्वमाह- ज्ञानेति ।
सिसृक्षुत्वेन प्रागुक्तस्य परमशिवस्य ज्ञानक्रियाशक्त्योः साम्येनाधिष्ठानात्
तस्यैवोपादानतयोक्तस्य बोन्दोर्यो द्वितीयः प्रसरः परिणामः शक्तितत्त्वव्यवधानेन जायते,
तत् सदाशिवतत्त्वमाहुः ॥ २८ ॥
विश्वास-प्रस्तुतिः २९
न्यग्भवति यत्र शक्तिर्ज्ञानाख्योद्रिक्ततां क्रिया भजते
ईश्वरतत्त्वं तदिह प्रोक्तं सर्वार्थकर्तृ सदा
मूलम् २९
न्यग्भवति यत्र शक्तिर्ज्ञानाख्योद्रिक्ततां क्रिया भजते
ईश्वरतत्त्वं तदिह प्रोक्तं सर्वार्थकर्तृ सदा
कुमारः- तात्पर्य-दीपिका
ईश्वरतत्त्वनिरूपणार्थमाह- न्यगिति ।
न्यग्भूतज्ञानेच्छात्मकशक्तिद्वयसाम्ये सति यदा क्रियोद्रेको भवति, तदा
शिवतत्त्वमीश्वराभिधानं भवति । तत् सर्वसत्त्वानां कर्तृस्वभावम्, क्रियोद्रेकात् । तत्
पावकाभम् । तदुक्तम्-
अत (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् ।) ऊर्ध्वं भवेदन्यदीश्वरावरणं महत् ।
दीप्तपावकवर्णाभं विद्येशास्तत्र संस्थिताः ॥ इति ।
ननु ज्ञानेच्छान्यग्भावस्य स्वविषयं प्रकाश्य तुष्णीम्-
भावरूपत्वेनासत्त्वरूपत्वाभावात् । तदुक्तं सिद्धान्तहृदये-
ज्ञानेच्छे न्यक्समे शक्ती क्रियाधिक्यं यदाश्नुते ।
तदासावीश्वराख्यां तु लभते परमेश्वरः ॥ इति ।
अस्य षडध्वव्याप्तिः- खकारो वर्णाध्वा । ध्यानाहारायेत्-यादीनि त्रीणि पदानि ।
नं ईशानमूर्ध्ने, ऽनमः शिवायऽ इति मन्त्रौ । स्वयं तत्त्वाध्वा ।
अनन्तादिशिखण्ड्यन्तानि भुवनानि । विद्या कलाध्वा ॥ ९ ॥
अघोर-शिव-वृत्तिः
तृतीये तु प्रसरे- न्यगिति ।
यत्र जगत्कर्त्रनन्ताद्यधिष्ठानेन क्रियाशक्तेर्व्यापारबाहुल्-यम्,
तत्सादाख्यतत्त्वाधस्तनं प्रसरमीश्वरतत्त्वमाहुः । तस्य च सर्वार्थकर्तृत्वं
क्रियाशक्त्यधिष्ठितत्वात्, सर्वकर्तॄणामनन्-तादीनामत्रैवान्तर्भावस्य वक्ष्यमाणत्वाच्च ॥
२९ ॥
विश्वास-प्रस्तुतिः ३०
न्यग्भवति कर्तृशक्तिर्ज्ञानाख्योद्रेकमश्नुते यत्र
तत्तत्त्वं विद्याख्यं प्रकाशकं ज्ञानरूपत्वात्
मूलम् ३०
न्यग्भवति कर्तृशक्तिर्ज्ञानाख्योद्रेकमश्नुते यत्र
तत्तत्त्वं विद्याख्यं प्रकाशकं ज्ञानरूपत्वात्
कुमारः- तात्पर्य-दीपिका
विद्यातत्त्वं वर्णयति- न्यगिति ।
न्यग्भूतेच्छाक्रियाशक्तिसाम्ये सति यदा ज्ञानोद्रेको भवति, तदा शिवतत्त्वं
विद्याख्यं भवति । तदप्युक्तम्-
उद्रिच्यते ज्ञानशक्तिः क्रियेच्छे न्यक्समे यदा ।
तदासौ शुद्धविद्याख्यः सर्वविद्यानिधिः शिवः ॥ इति ।
प्रयोजनमाह- प्रकाशकमिति । तत्र हेतुमाह- ज्ञानरूपत्वा-दिति ।
पद्मरागसमानवर्णा । तदुक्तम्-
तद्बाह्ये (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् ।) शुद्धविद्या स्यात् कोटीनां
शतलक्षका ।
सुदीप्ता निर्मला सूक्ष्मा पद्मरागसमप्रभा ॥ इति ।
अस्याः षडध्वव्याप्तिः- गकारो वर्णः । शिवायेत्यादीनि
त्रीणि पदानि । मं तत्पुरुषवक्त्राय इति, नमः शिवाय इति मन्त्रौ । शुद्धविद्या तत्त्वम् ।
वामाद्या नव भुवनानि । प्रतिष्ठा कला ॥ १० ॥
अघोर-शिव-वृत्तिः
तथा- न्यगिति ।
यस्त्वीश्वरतत्त्वाधस्तने बिन्दुपरिणामरूपे तत्त्वे सप्तकोटिम-हामन्त्राधिष्ठानेन
ज्ञानशक्तेरुद्रेको भवति, तत्तत्त्ववासिनां ज्ञानरूपत्वात् सर्वज्ञत्वप्रकाशहेतुत्वात्
प्रकाशकं तद् विद्यात-त्त्वमुच्यते ॥ ३० ॥
विश्वास-प्रस्तुतिः ३१
नादो बिन्दुः सकलौ सादाख्यं तत्त्वमाश्रितौ कथितौ
विद्येशाः पुनरैशे मन्त्रा विद्याश्च विद्याख्ये
मूलम् ३१
नादो बिन्दुः सकलौ सादाख्यं तत्त्वमाश्रितौ कथितौ
विद्येशाः पुनरैशे मन्त्रा विद्याश्च विद्याख्ये
कुमारः- तात्पर्य-दीपिका
ननु नादबिन्दु शास्त्रान्तरे तत्त्वमध्ये कथितौ, अतस्तत्त्वा-धिक्यमनयोरन्तर्भावो
वा वक्तव्यः । तथाहि-
तदूर्ध्वं बैन्दवं तत्त्वं निर्मलं सर्वतोमुखम् ।
परमं सर्वतत्त्वानामनन्तं ज्योतिरव्ययम् ॥
इत्यादि । तथा विद्येश्वरविद्यामन्त्राणां सदाशिवे वृत्तिमन्ये मन्यन्ते ।
ततस्तन्निरासार्थं तयोरन्तभावार्थं चाह- नाद इति ।
अयमभिप्रायः- नादबिन्दू कलावत्तया सकलौ सदा सर्वदा शिवाख्यं
तत्त्वमाश्रितौ, तदभिन्नौ कथितावित्यर्थः । केचित् सदाशिवं तत्त्वमाश्रितावित्याहुः ।
विद्येशानन्तादय ईश्वरतत्त्वे वर्तन्ते । तदुक्तं सिद्धान्तागमे-
अनन्तसूक्ष्मौ शिवतमैकनेत्रैकरुद्रकाः ।
त्रिमूर्तिपूर्वं श्रीकण्ठः शिखण्डी च ततोऽष्टमः ॥
एते विद्येश्वरास्त्वष्टावीश्वरे सम्प्रकीर्तिताः ॥ इति ।
मन्त्राश्च विद्याश्च प्रकाशकतया प्रकाशकं विद्यातत्त्व-माश्रित्य वर्तन्त इति ।
तदुक्तम्-
मन्त्रा विद्याश्च विद्यायां बीजभूता भवन्ति हि इति ॥ ११ ॥
अघोर-शिव-वृत्तिः
इत्थं शुद्धतत्त्वान्यभिधाय तेष्वेव वस्त्वन्तरस्यान्तर्-भावमाह- नादो बिन्दुरिति ।
तत्र परबिन्दोः शिवतत्त्वत्वेन तत्कार्यस्य सूक्ष्मनादस्य शक्ति-तत्त्वान्तर्भावेन
चोक्त (तत्त्वा ? त्वा)त् सकलो बिन्दुरक्षरबिन्-द्वात्मको नादश्च स्थूलध्वनिरूपः । द्वौ च
सदाशिवतत्त्वान्तर्-भूतौ ज्ञेयौ । विद्येशानामनन्तादीनामीश्वरतत्त्वेऽन्तर्भावः ।
मन्त्राणां सप्तकोटिसङ्ख्याकानां वाचिकशब्दानां च व्योमव्याप्यादीनां
विद्यानां च कामिकाद्यष्टाविंशतितन्त्राणां विद्यातत्त्वेऽन्तर्-भावः ॥ ३१ ॥
विश्वास-प्रस्तुतिः ३२
पञ्चानामप्येषां नहि क्रमोऽस्तीह कालरहितत्वात्
व्यापारवशादेषां विहिता खलु कल्पना शास्त्रे
मूलम् ३२
पञ्चानामप्येषां नहि क्रमोऽस्तीह कालरहितत्वात्
व्यापारवशादेषां विहिता खलु कल्पना शास्त्रे
कुमारः- तात्पर्य-दीपिका
ननु नित्यतया विभुत्वेन चैषां क्रमासम्भवात् कथं
तत्सद्भावप्रतिपादनमित्याशङ्क्याह- पञ्चानामिति ।
अयमभिप्रायः- देशकालकृतस्य प्रथमचरमभावात्म-कस्य क्रमस्यासम्भवेऽपि
शक्तिव्यापारभेदोन्नेयभेदवशा-देषां तत्त्वानां सद्भाव आश्रीयत इति ॥ १२ ॥
अघोर-शिव-वृत्तिः
पञ्चेतीति काचिदार्या केषुचित्पुस्तकेषु दृश्यते, तदसत्, द्वयोरप्यध्वनोरेवं
क्रमप्रसवयोगिनोः । विलयः प्रातिलोम्येन शक्तितत्त्वद्वयावधिः ॥ (मृ० वि० १३।१७९)
इत्यादिभिरेषां सृष्टिसं-हारक्रमप्रतिपादकैस्तत्तद्भुवनवासिनामवस्थानभेदाभिधा-
यिभिः शुद्धाध्वन्यपि शुद्धकालसद्भा(वा?व)वेदिभिर्वाक्यैर्-विरोधात् । सेयमशास्त्रज्ञैः
प्रक्षिप्तेत्युपे(क्षै?क्ष्यै)व ॥ ३२ ॥
विश्वास-प्रस्तुतिः ३३
तत्त्वं वस्तुत एकं शिवसञ्ज्ञं चित्रशक्तिशतखचितम्
शक्तिव्यापृतिभेदात् तस्यैते कल्पिता भेदाः
मूलम् ३३
तत्त्वं वस्तुत एकं शिवसञ्ज्ञं चित्रशक्तिशतखचितम्
शक्तिव्यापृतिभेदात् तस्यैते कल्पिता भेदाः
कुमारः- तात्पर्य-दीपिका
ननु किमर्थं परमेश्वरतत्त्वस्य स्वत एवामी भेदा नाभ्यु-पगम्यन्ते, येन
शक्तिव्यापारोपाधिकृतभेदाश्रयणमित्याशङ्-क्याह- तत्त्वमिति ।
यतः शिवतत्त्वस्य परमार्थतो भेदासम्भवस्ततः शक्तिव्या-पारोपाधिकृता एवामी
पञ्च भेदाः । तद्भेदासम्भवश्च ईश्वरानेकत्वकल्पनासम्भवादिति,
भेदस्वरूपासम्भवाद्वा । स चाश्रयासम्भवात् । तथा हि- कोऽयं भेदाश्रयः ?
भिन्नो वा स्यादभिन्नो वा ? यद्यभिन्ने वस्तुनि भेदस्य वृत्तिः, तदैकपदार्था-
भावप्रसङ्गः, भेदसमावेशात् । यदि भिन्ने भेदस्य वृत्तिः, किं तर्हि भेदेन प्रयोजनम्
? वस्तुतः पूर्वमेव भिन्नत्वात् । अस्तु भेदवति भेदस्य वृत्तिः । तत्र यदि भेदान्तरेण
भिन्ने तद्वृत्त्यभ्युपगमस्त-दानवस्था, भेदान्तरस्यापि भिन्नवृत्तित्वात् । न च स्वेनैव
भिन्ने स्वयं वर्तत इति वाच्यम्, आत्माश्रयप्रसङ्गात् । तस्मादभिन्न एव वस्तुनि भेदस्य
चित्रशक्तिसहस्राढ्यं शिवतत्त्वं समातिगम् ।
विभक्तं पञ्चधा चैकं शक्त्युल्लासविभेदतः ॥ इति ।
तस्माच्छक्तिव्यापारभेदादेव तस्य महेश्वरस्यैते सदाशिवादिभेदा इति ॥ १३ ॥
अघोर-शिव-वृत्तिः
शिवस्यापि सदाशिवाअदिभेदः शास्त्रेषु श्रूयते, स किं परमार्थतो न वेत्यत
आह- तत्त्वमिति ।
परमार्थतः परमशिवाख्यमधिष्ठातृरूपं तत्त्वमेकमेव, तस्य कर्तृत्वेन
चैतन्याव्यभिचारात्, चैतन्यस्य च विकारित्वाभावादित्युक्तम् । तच्च चित्रशक्तिशतखचितम् ।
शक्तर्ज्ञेयकार्यानन्त्यादौपाधिकानन्तभेदभिन्नया शक्त्या समवेतमित्यर्थः ।
ततश्चास्य शक्तिव्यापारभेदादुपचारेण सदा-शिवादिभेदाः काल्पनिका एव, न तु
परमार्थतः । अधिष्ठेयस्य तु बिन्दोः शिवतत्त्वाद्यवस्थाभेदः सत्य एवेत्युक्तम् ।
यच्छ्रूयते-
किन्तु यः पतिभेदोऽस्मिन् स शास्त्रे शक्तिभेदतः ।
कृत्यभेदोपचारेण तद्भेदस्थानभेदजः ॥ इत्यादि ।
(मृ० वि० १३।१६४-१६५)
लयादिभेदः प्रागुक्तो यदुपाधौ शिवस्य तु ।
स बिन्दुरिति मन्तव्यः सैव कुण्डलिनी मता ॥ इति ।
अत एव सदाशिवाद्याकारकल्पनमपि तस्य ध्यानार्थमेव, न तु परमार्थत
इत्युक्तं श्रीमत्पौष्करे-
साधकस्य तु लक्ष्यार्थं तस्य रूपमुदाहृतम् इति ।
श्रीमन्मृगेन्द्रेऽपि-
वपुषोऽविद्यमानत्वाद् यद्यत्कृत्यं करोति सः ।
तत्र तत्रास्य तत्कर्तृवपुषाऽनुकृतं वपुः ॥ इति ॥ ३३ ॥
(क्रि० ३।४१)
विश्वास-प्रस्तुतिः ३४
चिदचिदनुग्रहहेतो रूपाण्येतानि स प्रभुः कृत्वा
कुरुते चितामनुग्रहमनादिमलरुद्धशक्तीनाम्
मूलम् ३४
चिदचिदनुग्रहहेतो रूपाण्येतानि स प्रभुः कृत्वा
कुरुते चितामनुग्रहमनादिमलरुद्धशक्तीनाम्
कुमारः- तात्पर्य-दीपिका
ननु किमर्थमेतानि रूपाणि करोति भगवानित्याशङ्क्याह- चिदिति ।
अनादिमलप्रच्छादितशिवस्वभावानां पशूनां पाशानां जडानां
चानुग्रहं कर्तुमेतानि रूपाणि स भगवान् करोतीत्यर्थः । तदुक्तम्-
शिवात्मकमिदं विश्वं शिव आधारकारणम् ।
अस्य शक्तिर्विपक्त्री स्यान्नियन्ता च सदाशिवः ॥
ईशः कर्ता कारकश्च शुद्धविद्या प्रकाशिका ।
एभिरीशोऽनुगृह्णाति कॢप्तैर्भेदैश्चराचरम् ॥ इति ॥ १४ ॥
अघोर-शिव-वृत्तिः
एतदेवाह- चिदिति ।
शिवो हि चिदनुग्रहार्थमेवैतानि रूपाणि करोति,
सदाशिवादिभ्येयाकारानधितिष्ठतीत्यर्थः । ततस्तानधिष्ठाया-चिदनुग्रहोपचिता-
नामात्मनामेवानुग्रहं करोति, तस्यापि चिदचिदनुग्रहार्थत्वेनोक्तत्वात् ।
अनादिमलरुद्धशक्तीनामित्येतद-नुग्रहापेक्षायां विशेषणद्वारा हेतुः ॥ ३४ ॥
विश्वास-प्रस्तुतिः ३५
भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थताधानम्
जडवर्गस्य विधत्ते सर्वानुग्राहकः शम्भुः
मूलम् ३५
भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थताधानम्
जडवर्गस्य विधत्ते सर्वानुग्राहकः शम्भुः
कुमारः- तात्पर्य-दीपिका
चितामचितां च कीदृशमनुग्रहं करोति भगवानित्याशङ्-क्याह- भुक्तिमिति ।
भुक्तिं सुखदुःखानुभवरूपाम्, मुक्तिं नित्यानन्दानुभ-वलक्षणां च
अणूनां संसार्यात्मनाम् । स्वव्यापारे समर्थताधानं जडवर्गस्य पाशवर्गस्य
विधत्ते करोति । सर्वानु-ग्राहकः, अतः कारणाच्छम्भुरिति । ननु सुखदुःखानुभवप्र-
दानस्य कथमनुग्रहरूपत्वम्, नित्यनिरतिशयानन्दे विद्यमाने
विषदूषितमध्वन्नकल्पसुखलेशप्रदानस्यानुग्रहरूपत्वा-सम्भवात् ।
दुःखानुभवप्रदानस्याननुग्रहरूपत्वं सर्वेषां सम्मतमेवेति चेत् ? उच्यते,
सुखानुभवस्य तथाभूतस्यापि
नित्यसुखरागोत्पादद्वारेणापवर्गहेतुतयाऽनुग्रहरूपत्वम् । दुःखानुभवस्यापि
संसारवैराग्योद्वेगजननद्वारेणापवर्ग-हेतुतयाऽनुग्रहरूपतत्वमिति
तत्प्रदातुरनुग्राहकत्वम् । ननु तथाप्यस्य न सर्वा-नुग्राहकत्वम्, दक्षाध्वरादौ
दक्षादिनि-ग्रहश्रवणात् । घृणानिधित्वं च तेनैव बाधितम् । नहि घृणा-वतः
कदाचिदपि प्राणिहिंसा दृष्टेति । रागादिमत्त्वं च तेनैवानु-मितम् । नहि रागादिरहितस्य
प्राणिहिंसा दृष्टेति । नैवम्, तन्निग्रहस्य दोषनिर्हरणार्थतया सर्वलोकपथ्यतया
चानुग्रहरूपत्वात् । तदुक्तं श्रीवायवीये-
ये के च निग्रहा लोके ब्रह्मादिषु निदर्शिताः ।
तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥
सदोषा एव देवाद्या निगृहीता यथोचितम् ।
अतस्तेऽपि विपाप्मानः प्रजाश्च विगतज्वराः ॥ इति ।
(शि० वा० १।३१।२३, २५)
अत्रेश्वरनिन्दा दक्षादीनां दोषः । तस्या दोषत्वम् अथ य एनं द्वेष्टि, स एव
पापीयान् भवति इत्यादिश्रुतेरवगम्यते । एवेत्यव-धारणा । अनन्तफलत्वं च तथा ।
शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ।
देवद्रव्यापहरणं गुरुद्रव्यविनाशनम् ॥
हरन्ति ये च सम्मूढाः शिवज्ञानस्य पुस्तकम् ।
सुमहापातकान्याहुरित्यनन्तफलानि षट् ॥
इति शिवधर्मोत्तरागमाच्च तदवगमः । अतोऽनन्तफलस्य शिव-निन्दादोषस्य
फलानुभवलक्षणेन यमदण्डेन विनाशासम्भ-वं मन्यमानो भगवान्
करुणानुन्नहृदयो निग्रहेण दक्षादीन् स्ववशान् कृत्वा स्वप्रणामात्मकं
स्वनिन्दाप्रायश्चित्तं कारयामास । नहि प्रायश्चित्तान्तरैः
खद्योतकल्पैर्नैशतमःकल्पमहेश्वरनिन्दादोषपरिहारो घटते, तेषां परिमितविषयतया
परिमितानामपरिमितमहेश्वरविषया-परिमितनिन्दापरिहारासम्भवात् । यथा
नैशतमसोऽनन्तस्याप्य-नन्तादित्योदयेन प्रबलेन विनाशस्तथा महेश्वरप्रणामेना-
नन्तेनानन्ततन्निन्दाप्रतिक्षेप इति । तदुक्तं श्रीवायवीये-
निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः ।
अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्तये ॥
सर्वोऽपि निग्रहो लोके न च विद्वेषपूर्वकः ।
नहि द्वेष्टि पिता पुत्रं यो निगृह्यापि शिक्षयेत् ॥
निदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुञ्जतः ।
न किञ्चिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ इति ।
(शि० वा० १।३१।२६, ३४, ३८)
तस्मादुपपन्नं सर्वानुग्राहक इति ॥ १५ ॥
अघोर-शिव-वृत्तिः
तमेव चिदचिद्विषयमनुग्रहं दर्शयति- भुक्तिमिति ॥ ३५ ॥
विश्वास-प्रस्तुतिः ३६
चिदनुग्रहस्त्वयं किल यन्मोक्षः शिवसमानतारूपः
सोऽनादित्वात् कर्मण इह भोगमृते न याति संसिद्धिम्
मूलम् ३६
चिदनुग्रहस्त्वयं किल यन्मोक्षः शिवसमानतारूपः
सोऽनादित्वात् कर्मण इह भोगमृते न याति संसिद्धिम्
कुमारः- तात्पर्य-दीपिका
ननु तर्हि भुक्तिमुक्त्योरनुग्रहयोर्मुख्यतमं निःश्रेयसमे-वासौ विदध्यात्,
नामुख्यं भोगात्मकमित्याशङ्क्याह- चिदिति ।
सत्यं संसारनिवृत्त्यात्मकापवर्गप्रदानमेव मुख्यानु-ग्रहो न भोगप्रदानम्,
तथापि जात्यायुर्भोगफलानां कर्मणा-मनादिभूतानां फलभोगं विना
नाशासम्भवात् तन्नाशं विना निःश्रेयसानुपपत्तेस्तदर्थमेव
भोगप्रदानमाश्रयणीयम् । स मोक्षः कियात्मक इत्याशङ्क्याह- शिवसमानतारूप इति ।
शिवेन समानता निर्विशेषताविवेकता रूपं स्वरूपं यस्य स शिवसमा-नतारूपः,
सायुज्यलक्षण इति यावत् ॥ ३६ ॥
अघोर-शिव-वृत्तिः
नन्वस्तु मोक्षोऽनुग्रहः, दुःखनिवृत्तिहेतुत्वात् । भोगस्तु सुख-
दुःखसंवेदनात्मकः, स कथमनुग्रहत्वेनोच्यते ? अत आह-
सत्यं पाशनिवर्तनेन सर्वार्थदृक्क्रियात्मकशिवत्वव्यक्त्या च शिवसाम्यरूपस्य
मोक्षस्यैवानुग्रहत्वम्, भोगस्य तु नाभुक्तं (महाभारतभाण्डारकरसंस्करणे
त्रयोदशेऽनुशासनपर्वणि १५ परिशिष्टे २२०० पङ्क्त्यनन्तरं श्लोकार्ध एष दृश्यते ।)
क्षीयते कर्म कल्पकोटिशतैरपि इति न्यायात् कर्मक्षयहेतुतया
परम्परयाऽनुग्रहहेतुत्वमित्यनुग्रहतयोक्त-मित्यविरोधः ॥ ३६ ॥
विश्वास-प्रस्तुतिः ३७
तेन विभुस्तद्भुक्त्यै कुरुते तनुकरणभुवननिष्पत्तिम्
कर्त्रा विना न कार्यं न तथोपादानकरणाभ्याम्
मूलम् ३७
तेन विभुस्तद्भुक्त्यै कुरुते तनुकरणभुवननिष्पत्तिम्
कर्त्रा विना न कार्यं न तथोपादानकरणाभ्याम्
कुमारः- तात्पर्य-दीपिका
ननु तर्हि कर्मफलभोग एव विधातव्यः, न जगदारम्भ इत्याशङ्क्याह- तेनेति ।
यतो भोगं विना न कर्मनाशः, अतस्तद्भुक्त्यै भगवाम्-
स्तनुकरणभुवननिष्पादं करोति । तनुः शरीरम्, सूक्ष्मस्थूलात्-मना द्विप्रकारम् ।
करणं च द्विविधं बाह्यमान्तरं चेति । तत्र बाह्यं कर्मेन्द्रियज्ञानेन्द्रियात्मना
दशविधम् । अन्तःकरणं त्रिविधं मनोऽहङ्कारो बुद्धिश्चेति । भुवनशब्देन
चतुर्विंशत्य-धिकशतद्वयलोका उच्यन्ते । तान्येतानि भगवान् महेश्वरः करोति भोगार्थमिति
। ननु कस्मान्महेश्वरस्तानि भुवनानि कृतवानित्यु-च्यते, भवतु तेषां सर्वेश्वरेण
विनोत्पाद इत्यत आह- कर्त्रा विना न कार्यं न तथोपादानकरणाभ्यामिति । यतः
कर्तुरभावे न कार्यसम्भवोऽतो महेश्वरस्तनुकरणभुवनानि कृतवानित्युच्यते । तथा
तद्वदुपादानकारणाभावे च न कार्यं जायेत, अतस्तत्रो-पादानकारणमपि
किञ्चिदाश्रयणीयम् । एवं करणाभावे न कार्यसम्भव इति करणं चात्र
किञ्चिदभ्युपेयमिति । तथाहि- घटाद्युत्पत्तौ तावत् कुलालादिः कर्ता, हस्तपादादिकं
करणम्, मृदाद्युपादानम्, चक्राद्युपकरणमिति दृष्टम्; तेषामेकस्याप्य-भावे कार्यस्य
घटादेरुत्पादासम्भवात् । अतोऽत्रापि तान्यवश्या-श्रयणीयानि, अन्यथा जगदात्मकस्य
कार्यस्योत्पादासम्भवादिति । ननु किं जगत्कर्तृसद्भावे प्रमाणम् ?
अनुमानागमावस्मदा-दीनाम्, अस्मद्विलक्षणानां योगिनां प्रत्यक्षमिति ब्रूमः ।
तथाहि- विमतं कालाद्यवनिपर्यन्तं कार्यजातं बुद्धिमत्-कारणकम्, कार्यत्वात्, यद्यत्
कार्यं तत्तद् बुद्धिमत्कारणकं दृष्टम्, यथा घटः, तथेदं कालाद्यवनिपर्यन्तं
कार्यम्, तस्माद् बुद्धिमत्कारणकमिति । न च क्षित्यादीनां कार्यत्वस्यानु-
पलम्भादनिश्चितपक्षवृत्तिरसिद्ध इत्यसिद्धत्वं हेतोरिति वाच्यम्, अनुमानागमाभ्यां
तत्कार्यत्वसिद्धेः । तथाहि- क्षित्यादि कार्यम्, मूलोपादानव्यतिरिक्तजडत्वात्,
यद्यन्मूलोपादानव्यति-रिक्तं जडं तत्तत् कार्यम्, यथा घटः, तथेदम्, तस्मात्तथेति । न
च क्षित्यादेरेव परमाणुभावापन्नस्य मूलोपादानत्वाभ्युप-गमादसिद्धमस्माकं
मूलोपादानातिरेकि-त्वविशेषणमिति वाच्यम्, परमाणोर्मूलत्वप्रतिषेधस्य वक्ष्यमा-णत्वात् ।
तथा क्षित्यादि कार्यम्, परतन्त्रत्वात्, त्रिगुणात्मकत्वात्, आत्ममूलान्य-वस्तुत्वाच्च
घटादिवदिति । तथा आत्मन आकाशः सम्भूतः, आकाशाद् वायुः, वायोरग्निः,
अग्नेरापः, अद्भ्यः पृथिवी (तै० उ० २।१।१) इत्यादिनागमेन क्षित्यादेः कार्यत्वमवगम्यते ।
तथा आत्मव्यतिरिक्तस्य सर्वस्य मायामूलत्वप्रतिपादनाच्च । तथाहीश्वरगीतायाम्-
चतुर्विंशतितत्त्वानि मायाकर्मगुणा इति ।
एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ …
एतेषामेव पाशानां माया कारणमुच्यते । (७।२१, ३०) इति न स्वरूपासिद्धं
क्षित्यादिषु कार्यत्वमिति ।
ननु विमतं जगत् सत्, भासमानत्वात्, शुक्तिरजतवदित्यनुमा-नेन
क्षित्यादेरसिद्धत्वनिश्चयात्, शशशृङ्गं तीक्ष्णं शृङ्ग-त्वात्, गोशृङ्गवदिति
वाऽस्याश्रयासिद्धतेति चेत्, नैवम्, भ्रान्तिज्ञा-नस्य शुक्तिविषयतया
तदन्यासद्रूपरजतगोचरत्वानुपपत्तेः, असद्रजता-सम्भवेनास्य
धर्म्यसिद्धदृष्टान्ततयाऽप्रमाण-त्वात्, कार्यत्वहेतोरिवास्याप्याश्रयासिद्धत्वसाम्याच्च ।
प्रत्यक्षतः क्षित्यादेः सत्त्वावगमेन प्रत्यक्षविरोधाच्चास्या-प्रमाणत्वमिति । न च
नियतिकालाव्यक्तगुणाहङ्कारादेरसिद्धत्वा-दाश्रयैकदेशासिद्धिरिति वाच्यम्,
तेषामागमादिसिद्धत्वस्योक्तत्वात् । न च कालाकाशादेर्नि-त्यत्वेन कार्यत्वस्याभावाद्
भागासिद्धो हेतुरिति वाच्यम्, तत्कार्यत्व-स्यानुमानागमाभ्यां साधितत्वात् ।
नन्विदमनुमानं सिद्धसाध्यतालक्षणासिद्धत्वसद्भा-वादप्रमाणम् । तथाहि-
बुद्धिमत्कारणवत्त्वं क्षित्यादेर्भवता साधितम् । तदस्माकमपि सिद्धम्,
बुद्धिमतामस्मदादीनामप्यदृ-ष्टद्वारेण कालादितत्त्वकलापं प्रति कर्तृत्वस्य सद्भावात्
। न च पुण्यापुण्यात्मके कार्यान्तरे यत् कर्तृत्वं न तदेव जगदात्मके कर्तृत्वं
भविष्यतीति वाच्यम्, कारणकारणतया तदुपपत्तेः । यथा
पटकारणतन्तुसंयोगमात्रकर्तुः कुविन्दस्य पटकर्तृत्वम्, शरादि-क्षेप्तुर्वा
शत्रुहिंसाकर्तृत्वम्, एवं जगत्कारणकर्म-कर्तुरेवास्म-दादेर्जगत्कर्तृत्वोपपत्तेः
सिद्धसाध्यताप्रसङ्ग इति । नैवम्,
उपादानोपकरणसम्प्रदानप्रयोजनविषयप्रत्यक्षबुद्धि-मत्कारणवत्त्वस्य
बुद्धिमत्कारणत्वशब्देन विवक्षितत्वात् । अतोऽस्मदादीनां
तच्चतुष्टयविषयापरोक्षज्ञानाभावान्न सिद्धसाध्यतेति ।
नन्वप्यंशे सिद्धसाध्यताप्रसङ्गः, त्र्यणुकादिजन्य-कार्याणामुपादानं
त्र्यणुकादिकम्, भूतादिजन्यकार्याणा-मुपादानं भूतादिकं वास्मदादिप्रत्यक्षम् ।
अदृष्टद्वारेण कर्तृत्वं चास्मदादीनां सिद्धम् । उपकरणं च कालादि किञ्चित्
प्रत्यक्षम् । सम्प्रदानभूताश्च देवदत्तादयः प्रत्यक्षसिद्धाः । प्रयोजनं च
स्थानासनादिकं प्रत्यक्षमिति भवेदेवांशे सिद्धसाध्यतेति । नैवम्, विमतस्यैव
क्षित्यादेस्तथाविधकर्तृमत्ता-साधनात् । यत्र
द्व्यणुकत्र्यणुकादीनामुपादानादिकालादीनां वा न प्रत्यक्षम्, तत्र
तथाविधकर्तृमत्तासाधनान्नोक्तदोषाव-काश इति ।
ननु च शक्यक्रियत्वमुपाधिः, तस्योपाधिलक्षणसद्भावात् । तथा हि-
साधनाव्यापकः साध्यसमव्याप्तिरुपाधिरिति तस्य लक्षणम् । तदस्य घटादिषु
सर्वेष्वनुगतत्वाद् मूलहेतुना कार्यत्वे-नासाध्यत्वाच्चास्तीति सोपाधित्वेनाप्रयोजकत्वात्
कार्यत्वस्य व्याप्यत्वासिद्धिरिति । नैवम्, शक्यक्रियत्वस्योपाधि-लक्षणाभावेनास्य
सोपाधित्वाभावात् । स च साधनव्यापकत्वात् । तथाहि- क्षित्यादि कस्यचित् शक्यक्रियं
कार्यत्वाद् घटादिवदिति मूलसाधनेन साधयितुं शक्यत्वात् साधनव्यापकत्वमिति । न च
क्षित्यादि कस्यचिच्छक्यक्रियं कार्यत्वाद् घटादिवदित्यस्यापि
कर्तृमत्त्वोपाधिवशादप्रयोजकत्वमिति वाच्यम्, शक्यक्रियत्वकर्तृ-मत्त्वादि यद्यदुपाधितया
भवता प्रतिपाद्यते, तस्य सर्वस्याप्ये-केनैव प्रयोगेण साध्यतया
साधनव्यापकत्वेनोपाधित्वासम्भ-वात्, तथा सर्वानुमानेषु समानत्वाच्च । तथाहि-
पर्वतोऽग्निमान् धूमवत्त्वाद् महानसादिवदित्यत्रापि जायमानभस्मवत्त्वस्यो-पाधेः
सद्भावाद् धूमानुमानस्याप्यप्रयोजकत्वप्रसङ्गः । अथ तत्र धूमवत्त्वेनैव
जायमानभस्मवत्त्वस्यापि साध्यतया नोपाधित्वमित्यस्य ना-प्रयोजकत्वमिति चेत् ? नैवम्,
तत्राप्यग्निमत्त्वस्यैवोपाधेः सद्भावेन तत्साधनासम्भ-वात् । अथ
धूमवत्त्वादेव जायमानभस्मवत्त्वाग्निमत्त्वादिसर्वो-पाधेः साध्यतया
साधनव्यापकत्वसद्भावेनानुपाधित्वान्ना-त्र तद्दोष इति चेत्, तर्हि कार्यत्वेनैवात्रापि
सर्वस्य शङ्कितस्योपाधेः साध्यतता सोपाधित्वासम्भवान्नोक्तदोषावकाश इति ।
किञ्च, शक्या क्रिया चलनलक्षणा यस्य तच्छक्यक्रियम्, तस्य भावः
शक्यक्रियत्वमिति यद्यभ्युपगमः, तदा परमाणुमनसो-रपि नित्ययोर्भवत्पक्षे
शक्यक्रियत्वसद्भावात् साध्यसमव्याप्त्य-भावेन तस्योपाधित्वाभावः । यदि शक्या
क्रिया उत्पत्तिलक्षणा यस्य तच्छक्यक्रियं तस्य भावः शक्यक्रियत्वमित्यभ्युपगमः,
तदाधि-कविशेषणत्वापरनामकं व्यर्थविशेषणत्वं प्रसज्यते, उत्पत्तेरेव
कर्तृमत्त्वप्रयोजकत्वेन शक्यपदवैयर्थ्यात् । न चाङ्कुरादेरप्युत्पत्तिसद्भावे
कर्तृशून्यतया तद्व्यवच्छेदार्थं शक्यपदोपादानमिति वाच्यम्, तेषां च
शक्योत्पादनतया व्यवच्छेदासम्भवात् तथेतरेतराश्रयप्रसङ्गाच्च क्षित्यादेः
कर्तृशून्यत्वे सिद्धे तद्व्यवच्छेदकशक्यविशेषणसार्थता, विशेषणोपाधिसद्भावेन
कार्यत्वस्याप्रयोजकत्वे सिद्धे कर्तृशून्यतासिद्धिरिति । तदुक्तम्-
निश्चिते तदकर्तृत्वे सोपाधित्वं भवेदिह ।
सोपाधित्वेऽनुमानस्य कर्तृभावविनिश्चयः ॥ इति ।
न च करचरणादिनोदनीयत्वमुपाधिः, प्रसादप्रकारादौ तदभावात्, प्राणादौ
तदसद्भावेन च साध्यसमव्याप्त्यभावात् । तथा क्षित्यादि कस्यचित्
करचरणादिनोदनीयम्, कार्यत्वात्, घटादिवदिति साधनव्यापकत्वाच्चास्य नोपाधित्वमिति । न
च करादिजन्यत्वमुपाधिः, अधिकविशेषणत्वात् । न च क्षित्यादेर्व्यवच्छेद्यत्वम्,
अन्योन्याश्रयप्रसङ्गादित्युक्तमिति, सर्पाद्याकर्षणस्वदेहप्रेरणादौ सकर्तृके
करजन्यत्वाभावेन साध्यसमव्याप्त्यभावाच्चेति । न च कार्यविशेषस्य कर्त्रा व्याप्तिरिति
वाच्यम्, विशेषस्यानुपलम्भात् ।
ननु किञ्चित् कार्यमुपलभमानस्य सकर्तृकत्वबुद्धिर्भवति, किञ्चिदुपलभमानस्य न
भवतीत्येतदन्यथानुपपत्त्या कार्यविशे-षोऽभ्युपगन्तव्यः । स च विशेषो घटादिषु
सकर्तृकेष्वनुस्यूतस्तृ-णादिभ्यो ह्यकर्तृकेभ्यो व्यावृत्तः सन्नेव रसविशेषवदनिर्देश्यः ।
तदुक्तम्-
सकर्तृकेष्वनुस्यूतो व्यावृत्तोऽन्येभ्य एव सः ।
किञ्चित्कार्यविशेषोऽन्यैः स्वीकार्यो मतिभेदतः ॥
किंरूप इति वादोऽयमिक्षुक्षीरगुडादिषु ।
माधुर्यभेदप्रत्यक्षदृष्टान्तादुपशाम्यति ॥ इति ।
तस्मात् स एव कर्त्रा व्याप्यते, न कार्यसामान्यमिति । नैवम्, गर्तोन्नयनादिकार्ये
सकर्तृके तादृशबुध्यभावेनानेकान्तात् । तदुक्तम्-
गर्तोन्नयनकार्यस्य चिरकालात्यये सति ।
सकर्तृकत्वधीगम्यभावो नैवोपलभ्यते ॥ इति ।
प्रसिद्धानुमाने समानोऽयं पर्यनुयोगः । तथा हि- पर्वतादौ धूमदर्शिनोऽपि
कस्यचिदग्निमत्त्वं नावगम्यते, असम्भावनादिना प्रतिबन्धात् । अत एव हि पर्वतोऽग्निमान्
धूमवत्त्वादित्यादिपरोपदेशसापेक्षपरार्थानुमानोपन्यासः । तेन तत्रापि
विशेषकल्पनया तस्यैवाग्निना व्यापकत्वादप्रयोजकं धूमानुमानमापद्यत इति । अथ
यत्र धूमवानग्निमानिति सामान्यव्याप्तिग्रहणबलादनुमानं प्रवर्तत इति चेत्, अत्रापि
तर्हि कार्यं कर्तृपूर्वकमिति सामान्यव्याप्तिग्रहणवलादनुमान-प्रवृत्तिराश्रयणीया
विशेषाभावादिति । न च घटत्वं कर्तृमत्त्वे प्रयोजकम्, परस्य तदभावेन
कतृमत्त्वाभावप्रसङ्गात् । नापि पटत्वम्, घटादेस्तदभावेनाकर्तृमत्त्वप्रसङ्गात् । न
च घटत्वप-टत्वकुड्यत्वादयः सर्व एव कर्तृप्रयोजका इति वाच्यम्, प्रयोजकबहुत्-वापातात्
। न च तद् युक्तम्, व्यक्तीनामेव कर्तृप्रयोजकत्वप्रसङ्गेन
घटान्तरस्याकर्तृमत्त्वप्रसङ्गात्, आनन्त्येन कर्त्रा सह व्याप्तिग्रह-
णासम्भवस्योभयत्रापि तुल्यत्वात् । तथा महानसत्वशालात्वादेः प्रयोजकत्वापातेन
धूमवत्त्वस्याप्रयोजकत्वप्रसङ्गः । तदुक्तम्-
घटादिव्यक्तिमात्राणां कर्त्रा व्याप्तिर्न गृह्यते ।
यथानन्त्यं तथा ज्ञातुर्घटत्वादेः प्रतीयताम् ॥ इति ।
ननु तर्हि प्रमेयत्वादेवाधिकव्याप्त्या कर्त्रा व्याप्तिराश्रय-णीया, न कार्यत्वस्येति
चेन्न, अन्यथासिद्धत्वात् । स्वगोचरज्ञानमा-त्रेण प्रमेयत्वं सत्त्वं च कर्त्रभावेऽपि
पदार्थानामभ्युपग-तं भवता । अस्मत्पक्षेऽपि मायापुरुषशिवानां
कर्तृहीनानामपि प्रमेयत्वं सत्त्वं चाभ्युपगतम् । अतः प्रमेयत्वादेः कर्तृव्याप्-
त्यसम्भव इति । कार्यत्वं तु कारणविशेषस्य कर्तुः कारणान्तरस-म्पादकतया
प्रधानभूतस्याभावे न सम्भवति । नहि मृद्दण्ड-चक्रादिसद्भावेऽपि तत्प्रयोक्तुः
कुलालस्याभावे घटोत्पादो घटते । कुलालसद्भावे तु कारणान्तरनिष्पत्त्या
कार्यजन्मोपपत्तिरिति कार्यत्वात् कर्तृसद्भावसिद्धिरिति । किञ्च, कार्यत्वं हि पदार्थाना-
मुत्पत्तिः । सा च कारणक्रियामपेक्षते । सा च पुरुषव्यापारं विना न भवति । स तु
प्रयत्नादृते न स्यात् । स चेच्छां विना न भवति । इच्छा चेष्टसाधनज्ञानं विना न
स्यादिति कार्यत्वं बुद्धिमत्का-रणाभावे न भवतीति तत्प्रयोजकत्वान्नास्यासिद्धत्वमिति ।
नापि विरुद्धोऽयं हेतुः, पक्षविपक्षयोरेव वर्तमानो विरुद्ध इत्युक्तविरु-
द्धलक्षणाभावात् । तथाहि- सपक्षे घटादौ कार्यत्वस्य वर्तमा-नत्वाद् विपक्षे
चाकर्तृके मूलकारणशिवादौ कार्यत्वस्याभावाद-स्य पक्षविपक्षयोरेव
वर्तमानत्वासम्भवाद् विरुद्धत्वाभाव इति ।
ननु सर्वज्ञकर्तृकत्वं क्षित्यादेः साध्यते, नान्यकर्तृकत्वम्, असर्वज्ञस्य
प्रपञ्चकर्तृत्वासम्भवात् । तथाहि-
जगदुपादानादिचतुष्टयविनियोगक्रमविषयप्रत्यक्षज्ञानवत एव कर्तृत्वं साध्यते ।
ततस्तस्य सर्वज्ञत्वम् । सर्वज्ञनिर्मितस्य चान्यस्य सम्प्रतिपन्नस्या-भावात् सपक्षाभाव
इति सपक्षे सत्त्वाभावः । तेन कार्यत्वस्य क्षित्यादिकालान्ते पक्षे वर्तमानस्य
सर्वज्ञनिर्मितत्वसाध्यरहिततया विपक्षभूतघटादौ च वर्तमानतया पक्षविपक्षयोरेव
वर्तमानत्वाद् विरुद्धत्वमिति । तथा शरीरिकर्तृत्वस्याप्यङ्कुरादावसत्त्वेनाशरीरिकर्तृत्वमपीह
साध्यते । तत्र च सपक्षाभावेन सपक्षे सत्त्वा-भावात् कार्यत्वस्य पक्षविपक्षयोरेव
वर्तमानत्वाद् विरुद्धत्वमिति । नैवम्, सर्वज्ञाशरीरिकर्तृकत्वस्य अत्रासाध्यत्वात् । तथाहि-
विप्रतिप-त्त्यनुरूपेणात्र साध्यनिर्देशाद् यदा किं सकर्तृकं क्षित्यादि अकर्तृकं वेति
विप्रतिपत्तिः, तदा सकर्तृकं क्षित्यादीति साध्यनिर्देशः । यदा बुद्धिमत्पूर्वकं वा न
वेति, तदा बुद्धिमत्पूर्वकं क्षित्यादीति साध्यनिर्देशः । यदा
सोपादानोपकरणादिप्रत्यक्षवता जन्यं वा न वेति, तदोपादानादि-प्रत्यक्षवता जन्यमिति
साध्यनिर्देशान्न विरुद्धत्वम्, घटादौ सपक्षे साध्यसाधनयोः सद्भावात् । न च
कदाचिदपि सर्वज्ञाश-रीरिकर्तृकं क्षित्यादीति साध्यनिर्देशः, तथा विप्रतिपत्त्यभावात्, (स
च?) असर्वज्ञशरीरिकर्तृकत्वस्य क्षित्यादीनां भवद्भिरनाश्रित-त्वादिति ।
ननु तथा साध्यनिर्देशेऽपि तथाविधकर्तुरभिप्रेततया कार्यत्वस्य विरुद्धत्वमिति
चेन्न, सर्वानुमानेषु समानत्वात् । तथा हि- पर्वतस्याग्निमत्त्वं यः साधयति,
तस्याप्यतद्देशकालानुमेय-सम्प्रतिपन्नप्रत्यक्षाग्निनाग्निमत्त्वं नाभिप्रेतम्, किन्तु
महानसादिगतवह्निव्यतिरिक्तपर्वतगततत्कालानुमेयविप्रतिपन्ना-
प्रत्यक्षापुरुषपूर्वकतरुसङ्घट्टजन्याग्निनाऽग्निमत्त्वमभि-प्रेतम् । तस्य
महानसादावभावाद् धूमानुमानमपि विरुद्धमापद्येत । अथ तथापि तत्साध्यस्य
शब्देनानुपादानात् पर्वतस्य स्वगताग्निनाऽग्निमत्त्वस्य साधनाच्च न विरोध इति चेत्, तर्हि
प्रकृतेऽपि सर्वज्ञाशरीरिकर्तृकत्वस्य शब्देनानुपादानात् क्षित्यादेः
स्वोपादानसमर्थकर्तृमत्त्वस्य साधनाच्च नोक्तदोषावकाश इति । न
चासर्वज्ञशरीरिव्याप्तत्वात् कार्यत्वमपि शरीरिसर्वज्ञविशेषं प्रतिक्षिपतीति वाच्यम्,
कार्यत्वस्य शरीरिकर्तृव्याप्त्यभावात् । स च तृणादौ तथाविधकर्तुरभावेऽपि
कार्यत्वोपलम्भादवगम्यते । तदुक्तम्-
परोऽपि न शरीरस्य व्याप्तिमिच्छति वस्तुतः ।
प्रत्यक्षबाधया देही नाश्रितो यदिहाङ्कुरे ॥
न च शरीरिकर्तुरभावे कर्तृमात्रस्यासत्त्वम्, तस्यायोग्यत्वात् । तदुक्तम्-
न चाशरीरिकर्तृत्वं बाध्यं देहे तु बाधिते ।
शरीरस्येव योग्यत्वं यतो नास्ति परात्मनः ॥ इति ।
ननु न कार्यत्वं स्वव्यापकशरीरिकर्तृविरुद्धत्वान्नाशरीरि-कर्तृनिषेधकम्, किन्तु
स्वव्यापककर्तृसामान्यविरुद्धत्वादिति ब्रूमः । यत्र कुलालादौ कर्तृत्वं तत्र नाशरीरित्वम्
। यत्र मुक्तात्-मन्यशरीरित्वम्, तत्र न कर्तृत्वमिति कर्तृत्वाशरीरित्वयोः सहानव-
स्थानलक्षणविरोधसद्भावेन स्वव्यापककर्तृविरुद्धत्वादशरीरि-कर्तारं कार्यत्वमेव
प्रतिक्षिपति । धूमवत्त्वमिवाशीतभास्व-राग्निव्याप्तं शीतान्धकाराग्निमिति चेत्, नैवम्,
कार्यत्वस्य कर्तृसामान्येन व्याप्त्यभावे प्रतिक्षेपायोगात् । तथा च यदि कार्यत्वस्य
कर्तृसामान्येन व्याप्तिः, तर्हि न कार्यत्वव्यापकः कर्ता । तेन तद्विरुद्धत्वेऽप्यशरीरित्वं
न प्रतिक्षिपेत्, स्वाव्यापका-विरुद्धत्वात् तस्य । यदि कार्यत्वं कर्तृसामान्येन व्याप्तम्,
तदा च न प्रतिक्षेपः, कर्तृसामान्यापर्यवसानलभ्यत्वाद् विशेषस्य । यथा पर्वते
परिदृश्यमानधूमेनाग्निसामान्यमनुमाय
तदपर्यवसानान्महानसादावपरिदृष्टोऽग्निविशेषः पर्वते कल्प्यते, तथैव प्रपञ्चे
परिदृश्यमा-नं कार्यत्वं कर्तारं विनानुपपद्यमानं कर्तृसामान्यमवस्-थापयत्
तस्यापि विशेषणद्वारेण सम्बन्धसिध्यर्थं शरीरिविशेष-णमसम्भवात् परिहृत्य
तद्विपरीतं सर्वज्ञशरीरिविशेषं व्यवस्थापयत्येव, अन्यथा
स्वव्यापककर्तृसामान्यव्यवस्था-पनासम्भवात् । न च तद् युक्तम्, व्याप्यसद्भावे
व्यापकासत्त्व-स्यानुपपन्नत्वात् । नहि धूमसद्भावेऽग्न्यभाव उपपद्यत इति ।
न चाव्याप्तत्वेऽपि व्याप्त्युपलम्भमात्रेण प्रतिक्षेप इति वाच्यम्, तस्याप्रमाणत्वात्
। नहि कृतकत्वं नित्यताव्याप्तमिति केनचिदुक्ताप्रमाणवाक्यसिद्धव्याप्त्यपेक्षया कृतकत्वेन
तद्विरुद्धानित्यत्वप्रतिक्षेपो घटत इति । न च कर्तृत्वमदेहित्वप्रति-क्षेपकम्, कार्यत्वेन
साधितस्य कर्तृत्वस्याशरीरिविशेषाभावेऽनु-पपन्नतया तस्याक्षेप्यत्वात् । न च
शरीरिविशेषाक्षेपेणाशरीरि-विशेषप्रतिक्षेपः, तस्य योग्यानुपलम्भनिरस्ततयाक्षेपासम्भ-
वात् । न च साधितस्य कर्तृत्वस्य विशेषद्वयराहित्यं सम्भवतीत्य-शरीरिकर्त्रभ्युपगम इति
। नाप्यङ्कुरादावसाधितस्यादेहित्वप्रति-क्षेपकत्वम्, अविरोधादिति ।
तथा मोक्षावस्थायां शरीरेन्द्रियाद्यभावेऽप्यात्मगुण-
नित्यसुखविषयबुद्धिसन्ततिसम्भवं भगवान् भट्टपादो मन्यते ।
तेनादेहित्वबुद्धिमत्कारणत्वयोर्न विरोधः, पूर्वबुद्धि-विशिष्टस्यात्मन
उत्तरबुद्ध्युत्पत्तिहेतुत्वाभ्युपगमादिति । किञ्च, यदि जगत्कर्त्रनुमानस्यैवं
विरोधोद्भावनम्, तदा परमाण्वनु-मानस्यापि भवताऽभ्युपगतस्य विरोधप्रसङ्गः ।
तथा हि- आद्यं कार्यं स्वन्यूनानेकसमवायिकारणम्, कार्यद्रव्यत्वात्, घटादिवदिति
परमाण्वनुमानम् । तेनाद्यकार्यकारणतया परमाणूनां
नित्यत्वनिरवयवत्वकार्यत्वनिरतिशयाणुत्वादिक-मर्थादवगम्यते । तत्राप्ययं दोषः
सुव्यक्तः । यत्र भवत्पक्षे व्योमादौ नित्यत्वम्,
तत्रासर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वं नास्ति । यत्र पुनर्घटादौ मूर्तत्वम्, न तत्र
नित्यत्वमिति मूर्तत्व-नित्यत्वयोः सहानवस्थानलक्षणविरोधसद्भावात् परमाण्वनु-मानपि
विरुद्धमापद्यत इति, तथा परात्मानुमानमपीति । तथाहि- परशरीरचेष्टा आत्मपूर्विका,
जीवच्छरीरचेष्टात्वात्, अस्मच्छरीर-चेष्टावदिति परात्मानुमानम् । तत्रापि यत्रात्मत्वं
स्वात्मनि तत्र न परत्वम्, यत्र परत्वं घटादौ तत्र नात्मत्वमिति परत्वात्म-
त्वयोर्विरोधात् परात्मानुमानासम्भव इति । अथ यदि द्रव्यसम-वायिकारणस्य मूर्तस्य
नित्यत्वमन्यत्र न दृष्टम्, तथाप्याद्य-कार्यकारणतया नित्यत्वं तस्याभ्युपेयम्,
अन्यथाऽनवस्था-प्रसङ्गात् । तस्य च नित्यत्वमर्थादवगम्यते । आद्यकार्यस्य
स्वन्यूनसमवायिकारणकत्वमात्रसाधनान्नात्र विरोधः । तथा परात्मानुमाने
परशरीरगतायाश्चेष्टाया आत्मपूर्वकत्व-मात्रसाधनात् स्वव्यापारस्य तत्र
योग्यानुपलम्भनिरस्तत्वात् परत्वमर्थादवगम्यते, न शब्दत इति न विरोध इति चेत्, एवं
तर्हि जगत्कर्त्रनुमानेऽपि सकलविनाशे सत्याद्य-कार्यकारणस्य बुद्धिमन्मात्रस्य साधने
तस्यानित्यतायां कर्त्रन्तरकारणान्-तरकल्पनयाऽनवस्थानप्रसङ्गेन तस्य नित्यत्वमर्था-
दवगम्यते न शब्दत इति । तथा कर्तृमात्रसाधने शरीरिणो योग्यानुपलम्भ-
निरस्तत्वेनाशरीरिणोऽर्थादवगम्यमानतया च न विरोध इति समानः पन्थाः ।
ननु पक्षधर्मताव्याप्तिग्राहकप्रमाणाभ्यां प्राप्तयोर्-विशेषयोर्विरोधे न
कश्चिदर्थः सिद्ध्यति । तथाहि- व्याप्तिबलात् शरीर्यसर्वज्ञानीश्वरसंसारी कर्तावगम्यते,
पक्षधर्मतया च कार्यस्य तदुत्पादनसमर्थः सर्वज्ञोऽशरीरी नित्यो नित्यमुक्तः
सर्वेश्वरः कर्तावगम्यते । तदनयोरितरेतरसापेक्षयोर्विरोधे न किञ्चित् सिध्येत् । नैवम्,
सर्वानुमानेषु समानत्वात् । तथाहि- धूमानुमाने तावद्
दृष्टान्तभूमिगतप्रत्यक्षाननुमेयसम्-
प्रतिपन्नापर्वतगताचन्दनेन्धनपुरुषजन्यत्वादिधर्मविशिष्टो वह्निविशेषो
व्याप्तिग्राहकप्रमाणेनावगम्यते । पक्षधर्मतया तु
पर्वतगतानुमेयविमततरुसङ्घट्टजन्याप्रत्यक्षचन्दनेन्धनत्व-अदिधर्मविशिष्टोऽवगम्यते
।
तत्रापि न किञ्चित् सिद्ध्येदिति । अथ धूमवानग्निमानिति सामान्येन व्याप्तिग्रहणं
न विशेषत इत्यत्रानुमानप्रवृत्तिरा-श्रीयत इति चेत्, तर्हि प्रकृतेऽपि कार्यं
बुद्धिमत्कारणकमिति सामान्येनैव व्याप्तिग्रहणं न विशेषतः, अङ्कुरादौ तथाविध-
कर्तृदर्शनादि-ति भवेत्येवानुमानप्रवृत्तिरविशेषादिति ।
ननु किं तर्हि दृष्टान्तदृष्टमाश्रयणीयं दार्ष्टान्तिके इति चेत्, अविरुद्धमिति
ब्रूमः । न च शरीरकरणनिवृत्त्या कर्तृत्वनिवृत्तिरिति वाच्यम्,
स्वशरीरप्रेरणाकर्षणादिष्विवेच्छात्मककरणान्तरसद्-भावादपि कर्तृत्वोपपत्तेः । न च
स्वशरीरप्रेरणे प्रेर्यस्य शरीरस्य करणत्वं सम्भवति, कर्मणः करणत्वासम्भवात् ।
नह्यङ्गुल्यग्रेड तदग्रस्पर्शनमुपपद्यत इति । न च तत्र शरीरान्तरं करणमिति वाच्यम्,
अनवस्थाप्रसङ्गात् । न च पक्षे देहसम्बन्धः सर्वत्राव्यभिचारेण करणमिति वाच्यम्,
देहसम्बन्धस्य हस्ताङ्गुल्यादिप्रेरणे कर्त्रानपेक्षितत्वात् । तथाहि-
हस्तस्योत्क्षेपणमवक्षेपणं वा कुर्वान्नात्मा तत्सम्बन्धमेवा-पेक्षते, न तु
पुनर्देहसम्बन्धम्, तस्मिन् विद्यमाने हस्तसम्बन्ध-विनाशे काष्ठीभूतेऽस्मिन्
हस्तक्रियाकर्तृत्वादर्शनात् । अतः केवलव्यतिरेकात्
साक्षादिच्छानुविधायिक्रियाश्रयत्वयोग्यत्वमे-वात्र प्रयोजकम् । तत् प्रपञ्चे
भगवतोऽनुमानसिद्धम् ।
तथाहि- विमतं मूलकारणादि कस्यचित् साक्षादिच्छानुविधायिक्रियाश्रयत्वयोग्यम्,
अचेतनत्वात्, देहवदिति । अत एवाशरीरित्वेऽपि पुराणोक्ताष्टमूर्तित्वविरोधः परिहृतः,
साक्षादिच्छानुविधायिक्रियाश्रयतादेहलक्षणसद्भावेन मूलाद्यवन्यन्ततत्त्वजातस्य
महेश्वरदेहतया मूर्तिमत्त्वोप-पत्तेः । ननु कथं तर्ह्यदेहित्ववचनम्, उच्यते-
यथोपादानभूत-मृत्तत्त्वाद्यतिरिक्तं शरीरं कुलालकुविन्दादेरुपलब्धम्, तथा
मूलकारणतत्कार्याद्यतिरिक्तमत्र शरीरं नास्ति भगवत इत्यदेहित्वोपपत्तिरिति ।
नाप्यनैकान्तिकत्वम्, पक्षत्रयवृत्तिरनैकान्तिक इत्युक्ततल्लक्षणाभावात् । तथाहि- यदि
कालाद्यवन्यन्तेषु विमत्यधिकरणतया सन्दिग्धसाध्येषु पक्षेषु घटादिषु च
निश्चितसाध्यतया सपक्षभूतेषु कार्यत्वस्य वृत्तिः, तथापि निश्चितसाध्यव्यतिरेकतया
विपक्षभूतेषु मायापुरुषशिवेषु कार्यत्वहेतोर्वृत्त्यभावात् पक्षत्रयवृत्त्यभाव इति ।
नन्वङ्कुरादि-षु कर्तृशून्येषु कार्यत्वस्योपलम्भात् पक्षत्रयवृत्तित्वेन
कार्यत्वस्यानेकान्तत्वमिति चेन्न, अङ्कुरादेः पक्षत्वेन विपक्षत्वाभावात् । ननु
नाङ्कुरादेः पक्षत्वम्, सन्दिग्धकर्तृकत्वाभावात् । तथाहि- सन्दिग्धसाध्यः पक्ष इति हि
पक्षलक्षणम् । तदङ्कुरादेर्नास्ति, निश्चितसाध्यव्यतिरेकतया विपक्षत्वादिति चेत्, नैवम्,
परस्य बुद्धिमतः साध्यस्य प्रत्यक्षानर्हत्वेनासत्त्वानिश्चयादङ्कुरादेः
सन्दिग्धसाध्यत्वो-पपत्तेरिति । न च सन्दिग्धानैकान्तिकत्वं कार्यत्वस्याशङ्कनीयम्,
विपर्यये बाधकतर्कस्योक्तत्वात् । तदुक्तम्-
कारकाणां च सर्वेषां नियोक्तुर्यदि नास्तिता ।
वैयर्थ्यं स्यात् तदा तेषां सतामप्यसतामिव ॥ इति ।
नाप्यनध्यवसितत्वम्, साध्यासाधकपक्ष एव वर्तमानोऽनध्यवसित इति
तल्लक्षणाभावात् । नहि नित्या भूः, गन्धवत्त्वादितिवत् कार्यत्वस्य पक्ष एव वृत्तिः,
सपक्षे घटादौ च वर्तमानत्वादिति । न चासौ कालात्ययापदिष्टः, प्रमाणबाधिते
प्रतिज्ञातार्थे वर्तमानो हेतुः
कालात्ययापदिष्ट इति प्रोक्ततल्लक्षणाभावात् । न चानुष्णोऽग्-निः कृतकत्वाज्जलवदितिवदस्य
प्रत्यक्षविरुद्धकालात्ययापदिष्टत्वम्, परात्मनो बुद्धिमत्कारणस्य प्रत्यक्षानर्हत्वात् ।
प्रत्यक्षानर्ह-स्यापि तदनुपलम्भेनासत्त्वाभ्युपगमे सर्वानुमानोच्छेद-प्रसङ्गः ।
तथा घटादावपि कर्ता कुलालः प्रत्यक्षतो नावगम्यते, शरीरस्य करणभूतस्यैव
प्रत्यक्षत्वात् । न तु शरीरस्य कर्तृत्वम-चेतनत्वात् कुठारवदिति कुलालादिशरीरस्य कर्तृत्वे
निषिद्धे तदात्म-नः कर्तृत्वं शरीरस्य च करणत्वमवशिष्यत इति न क्वचिदपि कर्तुः
प्रत्यक्षार्हत्वमिति न तदनुपलम्भेनासत्त्वमिति केचित् । अन्ये तु शरीरत्वेऽपि कर्तुः
सूक्ष्मत्वदूरत्वस्थत्वादिनाऽनुपलम्भसम्भवात् कार्यदेशे तदनुपलम्भो नासत्त्वादिति
ब्रुवते । तदुक्तम्-
यतः कार्यस्य कर्त्रा तु विना भावो न विद्यते ।
अतो देशान्तरस्थोऽयमिच्छया कुरुते जगत् ॥ इति ।
द्विविधमिह कार्यम्- कायिकव्यापारजन्यमिच्छामात्रजन्यं चेति । तत्र
कायिकव्यापारजन्यं घटादि । तदेव शरीरसन्निधानम-पेक्षते । इच्छामात्रजन्यं
त्वाकर्षणादि । न तच्छरीरसन्निधान-मपेक्षते । योजनशतव्यवहितसर्पाद्याकर्षणस्य
दूरस्थैः क्रियमाणत्वादिति । अपरे तत्र वर्तमानस्य शरीरस्यायोग्यत्वात्
प्रत्यक्षेणानुपलम्भो नाभावादिति ब्रुवते । तदुक्तम्-
अथवा दृश्यमेवास्तु शरीरं चक्षुरादिवत् ।
श्रुतिस्मृतिभ्यां तत् सिद्धं शशशृङ्गो न तादृशः ॥ इति ।
ननूक्तं शरीरस्यानित्यत्वे स्वयं निजशरीरस्य निर्माणमति-साहसम्,
कर्त्रन्तरविनिष्पत्तावीश्वरानन्त्यमापतेदिति ? सत्यम्, बीजा-ङ्कुरवद् देहस्यानादित्वेन न
विरोध इति केचित् । तदुक्तम्-
पूर्वसिद्धेन देहेन शरीरान्तरकर्तृता ।
तच्च पूर्वेण देहेनेत्यनादित्वमिहाश्रितम् ॥ इति ।
एकब्रह्माण्डतद्वर्तिसकलकार्यविनाशे ब्रह्माण्डान्तरसद्-भावात् तत्र स्थित्वासौ
कार्यं करोतीति न कश्चिद् दोषः । अण्डानां बहुत्वं श्रुतिस्मृतिसिद्धम्, यथा
खल्वलाबूलतायां विततानि फलानि, एवं महेश्वरशक्तौ ब्रह्माण्डसहस्राणि इति श्रुतेः
।
ईदृशानां तथाण्डानां कोट्यो ज्ञेयाः सहस्रशः ।
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥
इति स्मृतेश्च तदवगमः । अन्ये नित्यं माहेश्वरं शरीरम्, अनादित्वात्,
तच्चानादिसृष्ट्यादिकर्तुर्महेश्वरस्य देहानादित्वस्या-भ्युपगमनीयत्वात् । तच्छरीरं
मायेति चाहुः । अपरे शब्दब्रह्म-तनुत्वं भगवतो मन्यन्त इति । अथ
प्रत्यनुमानबाधितमिदमनु-मानम् । तथा हि- क्षित्याद्यसर्वज्ञकृतम्,
कार्यत्वादित्यनुमानात् सर्वज्ञकर्तृकत्वानुमानस्य सप्रतिसाधनत्वमिति । तदसत्,
विकल्पानुपपत्तेः । किं सर्वज्ञकर्तृनिषेधमात्रं विवक्षितम्, किं वा किञ्चिज्ज्ञकर्तृमत्त्वम्,
किं वा कर्तृशून्यत्वम् ? नाद्यः पक्षः, असर्वज्ञकर्त्रभ्युपगमप्रसङ्गात्,
वामेनाक्ष्णा न पश्यतीति विशेषनिषेधवद् विशेषनिषेधस्य शेषाभ्यनुज्ञा-विषयत्वात् ।
अथ परस्य सर्वज्ञकर्तृकत्वमभिमतमिति तन्निषेधमात्रमत्र क्रियत इति चेन्नैवम्,
कर्तृमात्रनिषेधादेव सर्वज्ञकर्तृनिषेधसिद्धेस्तदेव निषेध्यं न विशेष इति ।
तथा घटादीनामप्यदृष्टादिप्रेरण-द्वारेण
सर्वज्ञजगत्कर्तृपूर्वकत्वस्याभ्युपगमनीयत्वात् साध्यविकल-दृष्टान्तता च भवेत् । न च
तत्रान्यः कर्ता, कर्तृभेदे प्रमाणाभा-वात् । न च कार्यमहत्त्वात् कर्तृबहुत्वकल्पनं
कार्यमिति वाच्यम्, इच्छामात्रजन्ये कार्ये बहुत्वस्यानुपयोगित्वात् । कायिकव्यापारजन्ये तु
तदुपादानादिनोदनमुपायान्तरेण यत्रैकस्यैव न स्यात् तत्रैव बहुत्वकल्पना । अथवा
सर्वेष्वपि कार्येष्वेकस्यैव कर्तृत्वान्न क्वचि-दपि बहुत्वकल्पना, एकाचार्यानुगमात्,
बहुत्वेऽपीतरेषां वास्यादिवदकर्तृत्वाद्वा । आचार्यानेकतायां च
ज्ञानाधिक्यवशादेकस्यैव कर्तृत्वम्, तत्साम्ये च कार्यभेदेन भागभेदेन
वैककर्तृत्वोपपत्तिः । इतरथा तद्वैयर्थ्यापातादिति । तथा कार्यमहत्त्वस्य तु
कर्तृमहत्त्वाद-प्युपपत्तेर्न बहुत्वकल्पनासम्भवः, धर्मिकल्पनायां गौरवापातात् ।
तथा समाभिप्रायत्वे वैयर्थ्यम्, विरुद्धाभिप्राय-त्वे कार्यवैशसप्रसङ्ग इति न सर्वथा
कर्तृबहुत्वकल्पनोपपत्तिरिति । तथा घटाद्यदृष्टव्यापारः क्षितिकर्तृविनिर्मितः,
अदृष्टव्यापार-त्वात्, क्षित्याद्यदृष्टव्यापारवदित्येककर्तृत्वे सिद्धे तस्य सर्वज्ञ-
सर्वेश्वरत्वादिसिद्धिः ।
अथ किञ्चिज्ज्ञकर्तृमत्त्वं विवक्षितमिति चेन्न, अपसिद्धान्तता-प्रसङ्गात् । नहि
मीमांसकादयो जगतः कर्तृमत्त्वमभ्युप-गच्छन्ति । अतो दूरनिरस्तं किञ्चिज्ज्ञकर्तृत्वमिति ।
तथा किञ्चित्त्वस्य कार्योत्पा-दानुपयोगित्वाद् वैयर्थ्यं च । तथासर्वज्ञस्य
सर्वकर्तृत्वासम्भ-वाद् माता मे वन्ध्येतिवत् प्रतिज्ञाविरोध-प्रसङ्गः । यदि
किञ्चिज्ज्ञस्यापि कर्तृत्वं साध्येत, तदा सिद्धसाध्यता, क्षेत्रज्ञानामप्यदृष्टद्वारेण
जगत्कारणत्वा-भ्युपगमात् । न च जीवानामेव कर्तृत्वसाधनात् परमेश्वरस्या-कर्तृत्वमिति
वाच्यम्, उपादानाद्यभिज्ञकर्तुः पञ्चरूपवतानु-मानेन साधितत्वात् । न च जीवानां
कर्तृत्वम्, हेतुत्वमात्रस्य विवक्षितत्वात् । अथाकर्तृत्वं विवक्षितमिति चेन्नैवम्, घटादेः
कर्तृमत्त्वेन साध्यविकलदृष्टान्तत्वात् । मूलकारणदृष्-टान्तत्वे साधनविकलमुदाहरणम्,
तत्र हेतोरभावात् । सत्त्वप्रमेय-त्वादिसाधनोपन्यासे घटादिभिर्व्यभिचारः, घटादेश्च
पक्षता-यां प्रत्यक्षविरोध इति धूमानुमानेऽप्ययं दोषः समानः । पर्वतो धर्मी
अपर्वतगताग्निमानिति साध्यो धर्मः, धूमवत्त्वाद् महानसवदिति वक्तुं शक्यत्वादिति ।
ननु महेश्वरः क्षित्यादिकर्ता न भवति, अशरीरत्वात्, पुरुषत्वाद्वा,
मुक्तात्मत्वाद्वाऽस्मदादिव-च्चेत्यनुमानविरोध इति चेन्नैवम्, भवतां
जगत्कर्तृत्वसिद्धेराश्र-यासिद्धताप्रसङ्गात् । अथ भवत्पक्षे जगत्कर्ताऽसिद्ध इति नाश्रया-
सिद्धिदोष इति चेन्नैवम्, परसिद्धे प्रमाणमूलत्वे तेनैव धर्मिग्रा-हकेण प्रमाणेन
बाध्यमानत्वात् । न च विपरीतानुमानस्यानुत्था-नान्नाअनेन तस्य बाध इति वाच्यम्,
तस्य तन्मूलतया तद्बाधकत्वा-सम्भवात् । तथापि यदि बाधाभ्युपगमः, तदा
महेश्वरस्याप्रसिद्धत्वादस्य आश्रयासिद्धत्वप्रसङ्गः । अथ न प्रमाणमूला
परप्रसिद्धिरिति चेन्न, तर्हि विपरीतानुमानोपन्यासः कार्यः । प्रमाणाभावादेव
प्रमेयासिद्धेरस्याश्रयासिद्धिदोषप्रसङ्गाच्चेति ।
ननु प्रमाणसिद्धस्यापि तस्य पक्षत्वमुपपद्यते, सिद्धत्वा-
देवाश्रयासिद्धिदोषाभावादिति चेन्नैवम्, सुरभि गगनकुसुमं कुसुमत्वात्
सम्प्रतिपन्नवदित्यस्यापि गगनकुसुमशब्दसिद्धतया आश्रयासिद्ध्यभावप्रसङ्गात् । न च
पुरुषः क्षित्यादिकर्ता न भवति, पुरुषत्वात्, अस्मदादिवदिति वाच्यम्,
सिद्धसाध्यताप्रसङ्गात् । विशिष्टपुरुषपक्षीकरणेऽपि
जगत्कर्तृत्वव्यतिरिक्तकर्तृविशेषणविशिष्टत्वे सिद्धसाध्यता ।
जगत्कर्तृत्वविशिष्टपुरुषपक्षीकरणे भवेदेवाश्रयासिद्धिः, धर्मिग्राहकप्रमाणबाधो वेति
। न च सर्वे पुरुषाः क्षित्यादि-कर्तारो न भवन्ति, पुरुषत्वात्, कुलालादिवदिति वाच्यम्, अंशे
सिद्धसाध्यताश्रयासिद्धिधर्मिग्राहकप्रमाणबाधात्मकदोष-त्रयापाताद्
दृष्टान्ताभावाच्चेति ।
ननु विमतः पुरुषः क्षित्यादिकर्ता न भवति, पुरुषत्वादित्-यस्मिन् साध्ये न
दोषत्रयावकाशः । न तावदाश्रयासिद्धिः, आत्मनः पुरुषस्य सिद्धत्वात् । नापि
सिद्धसाध्यताविप्रतिपत्तिः, अन्यपुरुषव्यवच्छेदात् । नापि धर्मिग्राहकप्रमाणबाधः,
तस्य जगत्कर्तृत्वानङ्गोकारेण सिद्धत्वादिति चेत्, नैवम्, पुरुषमात्रे विप्रतिपत्त्यभावात् ।
क्षित्यादिकार्यमधिकृत्य विप्रतिपत्तिर्न पुरुषे । अस्तु वा पुरुषे विप्रतिपत्तिः, तथापि न
पुरुषमात्रे, तस्य जगत्कर्तृत्वा-नभ्युपगमात् । विशिष्टे चेत्, केन विशेषणेन । विशिष्टे यदि
किञ्चिज्ज्ञत्वादिना विशिष्टे, तत्र च न विप्रतिपत्तिः । यदि सर्वज्ञत्वादि-विशेषणविशिष्टे, तत्र
च न विप्रतिपत्तिः, जगत्कर्त्रनुमानप्रवृत्तेः प्राक् तस्याप्रसिद्धत्वात् । नह्यप्रतिपन्ने धर्मिणि
धर्ममूला विप्रतिपत्तिर्युक्ता, जगत्कर्त्रनुमानप्रवृत्त्युत्तरतश्च न विप्रतिपत्तिः, तस्य
प्रमाणासिद्धत्वात् । तस्मान्न विप्रतिपत्तेर्व्यवच्छेदकत्वमिति । तथेश्वरः शरीरादिमान्
कर्तृत्वादित्यादयश्च निरसनीयाः, उक्तन्यायसाम्यादिति ।
अथ क्षित्यादि कर्तृशून्यम्, तद्व्यापकशरीररहितत्वात्, यद् यद् व्यापकरहितं तत् तद्
व्याप्येनापि रहितम्, यथा जलं धूमव्याप-काग्निरहितं धूमेनापीत्यनुमानविरोधात्; इति
चेन्न, अस्यानुमा-नस्य विशेषणासिद्धत्वेनाप्रामाण्यात्, शरीरकर्तृत्वयोर्व्याप्य-
व्यापकभावेन तद्व्यापकशरीररहितत्वस्यासिद्धत्वात् । अस्मदनु-मानाप्रामाण्ये
भवदनुमानासिद्धिपरिहारः, भवदनुमान-बाधयाऽस्मदनुमानाप्रामाण्यमिति
इतरेतराश्रयप्रसङ्गश्च । अस्मदनुमा-नस्य भवदनुमानस्याप्रामाण्यमन्तरेणापि
रूपपञ्चकोपपत्तेर्निरपेक्षं प्रामाण्यमृत्युभयोः परस्पर-
विरुद्धयोर्बाध्यबाधकसाम्येऽपि भवदनुमानस्य विशेषणा-
सिद्धिरूपदोषान्तरसद्बावादबाधकत्वमिति । अथ क्षित्यादि कर्तृशून्यं शरीररहितत्वादिति
हेतूपन्यासादसिद्धिपरिहारो भवेदिति चेन्न, घटादिव्यभिचारात् । घटादयोऽपि
शरीररहितास्-तथापि कर्त्रशून्या इति । अथ शरीराजन्यत्वं विवक्षितमिति चेन्न,
शरीरविशेषणवैयर्थ्यात्, अजन्यत्वस्यैव कर्तृशून्यताव्याप्तत्वा-दिति । न च स एव हेतुरिति
वाच्यम्, स्वरूपासिद्धताप्रसङ्गादिति । तथाग्नीषोमीयपशुहिंसा धर्मफला, हिंसात्वात्,
ब्राह्मण-हिंसावदितिवद् नास्यागमविरुद्धकालात्ययापदिष्टत्वम्,
कर्तृभावप्रतिपादकागमानुपलम्भात् ।
न च- अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम् इत्याद्यागमविरोधः, तस्य
सव्यापारकर्तृत्वमात्रनिषेधत्वात् । तच्चागमान्तरैः- न तं विदाथ य इमा जजान (ऋ०
१०।८२।७; तै० सम्० ४।६।२।२), मा नो हिंसीज्जनिता यः पृथिव्याः (ऋ० १०।१२।९) इत्यादिभिः
परमेश्वरस्य जगत्कर्तृत्वप्रतिपादनादवगम्यते । तस्मादयस्-
कान्तवन्निर्व्यापारकर्तृत्वमस्येति सिद्धमिति । न चासौ प्रकरण-समः,
स्वपरपक्षसिद्धावत्रिरूपो हेतुः प्रकरणसमः इत्युक्ततल्ल-क्षणाभावात् । तथाहि- यथा
क्षित्यादि बुद्धिमत्पूर्वकं कार्यत्वाद् घटवदित्यस्मिन् प्रयोगेऽस्य कार्यत्वस्य
पक्षधर्मत्व-सपक्षसत्त्वविपक्षव्यावृत्त्यात्मकरूपत्रयसद्भावः, न तथा क्षित्यादि
बुद्धिमत्पूर्वं न भवति कार्यत्वान्मायावदिति
परपक्षसाधनेऽस्य रूपत्रयसद्भावः, मायादौ कार्यत्व-स्याभावेन सपक्षे
सत्त्वाभावाद् घटादौ विपक्षे कार्यत्वसद्-बावेन विपक्षाद् व्यावृत्त्यभावाच्चेति ।
तस्माद् रूपपञ्चकसद्-भावादिदमनुमानं जगत्कर्तुः परमेश्वरस्य सद्भावे
प्रमाणमेवेति सिद्धम् ।
आगमाश्च विश्वतश्चक्षुः (श्वे० उ० ३।३) इत्याद्याः परमेश्व-रस्य जगत्कर्तुः
सद्भावं बोधयन्ति । न च तेषां विधिशेषत्वात् स्वार्थेऽप्रामाण्यमिति वाच्यम्,
वेदवाक्यत्वाद् विधिवाक्यवदिति । न च आदित्यो यूपः (ऐ० ब्रा० ५।२७) इत्यादिवदौपचारिकत्वम्,
स्वार्थे बाधाभावात्, तथा ब्राह्मणादौ तदुक्तमृषिणा इति मन्त्राणां स्वार्थे
प्रामाण्यप्रतिपादनाच्चेति । तस्मादनुमानागमाभ्या-मस्मदादीनां सिद्धो महेश्वर
इति । योगिनां तु करतलामलक-वदखिलमवलोकयतां प्रत्यक्षतोऽपि सिद्धः । तथाहि-
परमेश्वरः केषाञ्चित् प्रत्यक्षसमधिगम्यः, प्रमेयत्वात्, करतलामलकवदित्यनुमानाद्
महेश्वरस्य प्रत्यक्षगम्यत्व-सिद्धिः । योगिनां सद्भावश्च अस्मदाद्यप्रत्यक्षा
मूलकारण-धर्माधर्मादयः प्रधानपुरुषप्रत्यक्षाः, प्रमेयत्वात्,
करतलामलकवदित्यनुमानसिद्धः । तत्र प्रधानपुरुषो महेश्वरोऽप्रधानपुरुषा योगिन
इति तत्सिद्धिरिति ॥ १७ ॥
इति तत्त्वप्रकाशतात्पर्यदीपिकायां शुद्धवर्गविनिर्णयो द्वितीयः परिच्छेदः ॥
अघोर-शिव-वृत्तिः
एवं पाशानुग्रहोऽपि भोगभोजनद्वारेण पश्वनुग्रहार्थ-मेवेत्यत आह- तेनेति ।
तत्र तनुकरणशब्देनासाधारणी सूक्ष्मशरीरसृष्टिरुच्यते । भुवननिष्पत्तिशब्देन
साधारणी भुवनाद्यात्मिका साधारणा-साधारणी च भुवनजशरीरात्मिका सृष्टिरुच्यते
। एतच्चानन्तादि-द्वारेण करोतीत्युक्तम् । अत्र चोदयति- कर्त्रा विनेति । यथा कार्यस्य कर्तारं
विना नोत्पत्तिर्दृष्टा तथोपादानकरणे अपि विनेति शिवस्यापि
तनुकरणादेरशुद्धाध्वन्युत्पादे किमुपादानं किं वा करणमिति पूर्वः पक्षः ॥ ३७
॥