शैवागमादिमाहात्म्यम्

विस्तारः (द्रष्टुं नोद्यम्)

In this hymn to the ‘Glory of the śaivāgama, jñānaprakāśa eulogises "Siva as the source of the Agama and begins by describing how they originate as Sound from the core of Sadashiva’s consciousness. He establishes that the authority of the "Saiva scriptures is equal or more to that of the Vedas. He also describes their extent number and contents.

शैवागमादिमाहात्म्यम्

श्रीशालीवाटिपुरनिवासि ज्ञानप्रकाशगुरुविरचित

ट्।णो। ३७२

प्। ११९२ -१२६१

नमश्शिवाय शक्त्यै बिन्दवे शाश्वताय च । गुरवे च गणेशाय
कार्तिकेयाय धीमते ।

केचिन्नीरीश्वरवादीनाम्मतमवलम्ब्य नीनामकृतकृत्वेन
प्रामाण्यं शिवागमानां कृतकत्वेन प्रामाण्यं नास्ति
यद्यस्यपि कथञ्चित् प्रामाण्यन्तथापि
श्रुतिपथगलितनाम्मानुषाणामिति दुर्बद्धयो वदन्ति । तन्न ।

पञ्चवक्त्रधरो भूत्वा पञ्चभिमेस्तमुखैरपि ।
वेदादिश्रद्धजालं यत्तत्सर्वमवदत् प्रभुः ।
अदृष्टविग्रहाच्छान्तात् शिवात्परमकारणात् ।

नादरूपं विनिष्क्रान्तं शास्त्रं सर्वमिति स्थितमिति ।

पौष्करशिवागम श्रुतेश्च -

पुनरङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं
धर्मशास्त्रञ्च विधात्येताश्चतुर्दश ।

आयुर्वेदो यजुर्वेदो गान्धर्वञ्चेत्यनुक्रमात् । अस्त्रशास्त्रं
परन्तस्मात् विद्यात्यष्टादश स्मृताः ।

अष्टादशानां विद्यानमेतासां भिन्नवर्त्मनाम् । आदिकर्ता
कविस्साक्षाच्छूल पाणिनिति श्रुतिः ।

अष्टादश पुराणानि कथितानि समासतः । तेषां
सर्गान्तरेष्वेव द्वापरे दर्शको मुनिः ।

व्यासो यथा महादेवः कामिकादि प्रकाशकः ।

प्। ११९३)

अष्टादशपुणानां कर्ता सत्यवती सुतः । कामिकादि
प्रभेदस्य यथा देवो महेश्वरः ।

इति वायव्यसंहिता धर्मसंहिता सूतसंहिता श्रुतिभिश्च
यथा कामिकादीनां शिवेनैव प्रणयनात् । प्रामाण्ये यथापि
नारायणावतारेण न्यासेन प्रणयनात् । प्रामासेपि
असाववशिष्ट इति सूतसंहिता प्रतिवचनाच्च वेदानां
शिवागमानाञ्च परमास्तपर शिवकृतकत्वेनैव प्रामाण्यम् ।
नाकृतकत्वेन । कालिदासादि वाक्यवद्वर्णपदवाक्या च नावत्वात्
सत्कार्यतया वेदाः नित्या इति चेच्छिवागमाश्च ।

नासते विद्यते भावो ना भावो विद्यते सत इति सूतसंहिता वृत्ति
वचनाश्च च्च । वेदानां शिवागमानाञ्च परमाप्त परशिव
कृतकत्वेनैव प्रामाण्यं नाकृतकत्वेन
कालिदासादिवाक्यवद्वर्णपदवाक्य वचनावत्वात् सत्कार्यतया
वेदाः ते बुधैरिति - तथा सहस्रनामव्याख्यायां
कृतागमायेत्यत्र कृताः प्रणीता आगमाः
कारणकामिकाद्यास्तन्त्रविशेषा येन सः कृतागमस्तथा
चोक्तकामिकाद्या वातुलान्ताश्शिवेनोक्ताश्शिवागमा इत्यलङ्कार
दीक्षितेन व्याख्यातम् । ततश्शिव कृतकत्वेनैवोभयोः
प्रमाण्यन्तदुक्तञ्चतुर्वेदार्थ तत्पर्यसङ्ग्रहे । वेदाः
प्रमाणमिति सङ्गिरमाण एव दिव्यन्तवागमवैति जनः प्राणम् ।
त्वध्यानवाक्य विषयौपधिमेकः
पदार्थैश्मूर्धमाकलितविग्रहमा च मूलात् कल्पाः प्रमाण
ऋषिभिर्यदि नः प्रणीताः किं न प्रमाणमृषिणां महतां
महर्षे ।

शक्यं न वक्तुं परिग्रह दूषितानि तन्त्रान्तराणि भवता
शिवकर्तृमन्तीति ।

वायव्य संहितायाञ्च -

अजाताशेषदोषेण सर्वज्ञेन शिवेन यत् । प्रणीतं मम वाक्यन्
तत् प्रमाणं न संशयः ।

तस्मादीश्वर वाक्यानि श्रद्धेयानि विपश्चिता ।

यथार्थं पुण्यपापेषु तदश्रद्धो व्रजत्यध इति ततः
परस्परं वेदानामिव परस्परोप बृंहणत्वमन्तरा
स्वतन्त्रत्वेनैवोभयेषां प्रामाण्यं तदुक्तं मतङ्गे -

प्रमाणमेकं तद्वाक्यन्तथ्यमीश्वर भाषितम् ।

इति । पौष्करेपि -

प्रमाणमेकं तद्वाक्य तथ्यं श्रेयो निधिस्सदेति । तथा
व्याख्यातं सूतसंहितायां विद्यारण्य स्वामिभिरपि शिवपूजा
प्रक्रमे

वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा ।

तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्सहीति अत्र वेद तन्मूल
स्मृति पुराणादि प्रतिपादित प्रकारा वैदिकी तदनपेक्ष
शिवप्रोक्त कामिकाद्यागम प्रतिपादित प्रकारा

प्। ११९५)

तत्र तान्त्रक्या अधिकारि विशेषमाह तान्त्रिकस्यैवेति तत्रोदित
कुण्डमण्डलादि पुरस्सर दीक्षादि संस्कृतस्यैवेत्यर्थ इति ।
तथाहि - नहि परस्परं वेदानामिव स्वतन्त्र प्रवृत्त
शिवागमानां वेदबाह्यत्वं वेदसारमिदं तन्त्रमिति
वेदोत्कृष्ट वेदविशेषत्वस्य समुक्तत्वात् । तदुक्तं शैवपुराण
सम्भव वायव्य संहितायां -

भगवं श्रोतुमिच्छामश्शिवेन परिभाषितम् । वेदसारं
शिवज्ञानं संश्रुताधिमुक्तये इति ।

मकुटे च -

वेदसारमिदन्तत्रं तस्माद्वैदिक आचरेत् । वेदान्तार्थमयं
ज्ञानं सिद्धान्तं परमं शुभम् । ऊर्ध्व स्रोतोद्भवं
श्रेष्ठमष्टाविंशति तन्त्रकम् । वेदसारार्थदं
ज्ञेयत्वन्यत्वन्यार्थ साधनमिति ।

सुप्रभेदे -

शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् । तेषु शैवं
परं सौम्यं रौद्रं पाशुपतादिकम् ।

कामिकाद्यष्टविंशच्च तन्त्रं शैवमिति स्मृतम् । तदेव
सौम्यमाख्यातं सिद्धान्तं हि तदेव तु ।

तदन्यद्रौद्रमाख्यातं तन्त्रं पाशुपतादिकमिति ।

कामिके च -

सिद्धान्तं वेदसारत्वान्यद्वेदबहिष्कृतम् ।

प्। ११९६)

सिद्धान्ते विहिताचारो वैदिकाचार उच्यते ।
कर्तव्यञ्चेदनुष्ठेयं शैवकर्माविरोधि यत् ।

विरुद्धञ्चेत् परित्याज्यन्न तु शैवं परित्यजेत् । सङ्ग्राह्यं
वैदिकं सर्वं शैववाक्या विरोधिवत् ।

शैवं वैदिकमेवोक्तं वैदिकं शैवमेव च ।
वैदिकान्तर्बहिर्भूतं शैवं शैवात्तदप्यधः ।

तथापि वैदिकाच्छ्रेष्ठं शैवं तस्मात्परं न हि ।
सिद्धान्तं कामिकादि स्यात् नास्मात्परमनुत्तमम् ।

शैवन्तु मूलभूतं स्याश्चतुर्वेदास्तदुद्भवाः । तथापि
वैदिकं वेद सारमित्यादि वाक्यतः ।

शैवं प्रोक्तञ्च सर्वत्र तदर्थैक्यान्मुनीश्वर । इति ।

ननु वेदसारं श्रौतमस्वतन्त्र मन्त्रमन्यत् ।
पुनरवेदसारशौतं कामिकादिकं स्वतन्त्र तन्त्रमन्यत् ।
तदुक्तं वायव्य संहितायाम् ।

शैवागमोपि द्विविधं श्रौतोश्रौतश्च संस्मृतः । श्रुति
सारमयश्रौत स्वतन्त्र-इतरो मतः ।

स्वतन्त्रो दशधा पूर्वं तथाष्टादशधा पुनः । कामिकादि
समाख्याभि सिद्धस्सिद्धान्त सञ्ज्ञितः ।

श्रुति सारमयोन्यस्तु शतकोटि प्रविस्तरः । परं पाशुपतं
यत्र व्रतं ज्ञानञ्च कथ्यत इति ।

प्। ११९७)

तदेवं स्थिते कामिकादिकं वेदसारमिति मकुटादिषूक्तं सत्यम्
। श्रौतत्वाधादकं वेदसारत्व द्विप्रकारं तत्र प्रथमं
शैव पाशुपत प्रतीत तन्त्रवैदिक पाशुपत प्रमेय
प्रविस्तारकशतकोटि पविस्तरे कस्मिंश्चिदद्यथावदष्टसिद्धा
स्वतन्त्रं तत्र दृष्टं वेदनुसारित्वं द्वितीयसिद्धान्त प्रमेय
प्रय प्रविस्तारक पदार्थादि प्रविस्तरे स्वतन्त्रमन्त्रे कामिकदिके
दृष्टं वेदसारत्वन्तु नहि दध्यादेर्नवनीतादि
वद्वेदादुत्पन्नत्वं वेदानुसारित्वं वेदव्याप्यत्वं वा
अन्यद्वकिञ्चिदुक्तमपि वेदानुसारित्वं वेदात्स्वीकारत्वमित्यर्थः
नत्वेन वेदव्यापकत्वात् । तदुक्तं वायव्य संहितायां
यदुक्तमन्यशास्त्रेषु विद्यते तच्छिवागमे । न दृष्टं
यच्छिवज्ञाने तदन्यत्र न विद्यत इति कामिकेव सिद्धान्तात्
परमं ज्ञानं नेतिशास्त्रस्य निश्चयः - अन्यशास्त्रेषु
अष्टाविंशति तन्त्राणि सिद्धान्तमिति कीर्तितमिति । चिन्त्यविश्वे

शैवं परपदं ज्ञेयं सर्वतत्वैकनायकम् । सर्वमन्त्रमयं
ज्ञेयं सर्वदेवमयं भवेत् ।

जन्मान्तरतपोभिश्च सन्मार्गज्ञानसम्भवमिति ।

अरुणाचलमाहात्म्ये च

नास्ति शोणाद्रितः क्षेत्रं नास्ति पञ्चाक्षरात्मनः । नास्ति
माहेश्वराद्धर्मो नास्त्रि शास्त्रं शिवागमादिति ।

प्। ११९८)

किन्तु प्रमाणविरोधस्य स्वतः प्रमेय विरोधमूलत्वात् परस्परं
वेदानामिव कथञ्चित् क्वचिकिञ्चिदेकात्म वादादि प्रमेय प्रदेश
प्रतिपादन प्रकार विरोधमात्र परित्यागेन वेद विहित
विधिनिषेधकत्ववैधुर्येण बहुशोर्थैक्यादविरोध वेदाचार
वेदार्थस्वीकारेण शैववेद विशारदानिति सुप्रभेदे श्रुते
स्वातमन्त्र्यण वेदाधिगतानधिगतार्थगन्तृत्व लक्षण
वेदजनक वेदविशेष शिवागमनाशिववेदत्वमेव वेदसारत्वमिति
पर्यवसितार्थः । मनुष्यजनकमनुष्यत्व विशेष ब्राह्मणत्ववत्
। तदुक्तं मोक्षकारिकासु -

पाशदृष्टविरोधाया प्रवृत्तमपिमानताम् । न जहाति
यतश्चेद्यां पाशास्तस्येह सर्वतः ।

न च स्वगोचरे तासां बाधते तत्प्रमाणताम् । तासु
वर्णाश्रमाचारा नह्यनुज्ञोतवच्च तत् ।

न चान्येन प्रमाणेन संरुद्धस्तस्य गोचर इति विशोरपि च
कर्तृत्वं पत्युं प्रेरणपूर्वकमिति च मोहशूरोत्तरे च

पुराणं बाध्यते वेदै रागमैश्च तदुक्तयः । सामान्यञ्च
विशेषञ्च शैवं वैशिष्टिक वच इति ।

वृद्धाचलमाहात्म्ये च -

एतास्तु मूर्तीः परमेश्वरस्य वृद्धाचले शालमण्डपेषु ।

प्। ११९९)

स्थानेषु संस्थाप्य चकार पूजा शिवागमे
प्रोक्तविशेषमार्गैरिति पुनरत्रायं विवेकः बहुधा
वेदविरुद्धार्थ प्रतिपादकत्वमेव वेदबाह्यत्वं न सर्वथा
तथात्वे शिवशास्त्रेतर चार्वाकादि सर्वशास्त्राणामपि यथा
कथञ्चिवेदद्विरुद्धार्थ प्रतिपादकत्वमस्तीति वेदबाह्य
शास्त्रदुर्लभं स्यात् । तत्र परस्परं वेदानामिव वेदविशेष
शिवागमानामपि कथञ्चिद्वेदविरुद्धार्थ प्रतिपादकत्वमस्त्यपि
न वेदबाह्यत्वं चार्वाकादि सर्वशास्त्राण्यपि यथा
कथञ्चिद्वेद विरुद्धार्थं प्रतिपादकत्वमस्तीति न सर्वधा
वेदबाह्यानीति यथानुरूपं प्रमाणानि सफलान्येव । तदुक्तं
शिवागमे गुरुकृतौ च -

चार्वाभूत संसिद्धास्मार्तास्तन्मात्र संहतौ ।
वैशेषिकास्त्वहङ्कारे मानसाश्चेन्द्रिया अपि ।

बुद्धितत्वे स्थितास्ततत्वे रायवादिनः । आर्हतास्तु गुणे तत्व
प्रकृतौ पाञ्चरात्रकाः ।

वेदान्तज्ञाश्च साङ्ख्याश्च योगिनः पुरुषे स्थिताः । शैव
पौराणिकारागे सोमाविद्ये पदा स्थिताः ।

कापालास्तु कला निष्ठाः काले कालेश्वरा स्थिताः ।
नीयतीशाः कलान्तस्थाः पृथक् तस्यान्नवोदिताः ।

(वश्ये पदान्तज्ञाश्च साङ्ख्याश्च योगिनः पुरुषे स्थिताः ।)

प्। १२००)

पाशुपतास्तु मायायां विधायान्तु महाव्रताः । प्रवाहेश्वर
का * शे * प्रयोज्य कर्तृका अपि । ये सदाशिव तत्वस्था
शिवसम्बन्धवादिनः । शक्तौ शाक्ताश्शिवे शैवा सामान्यस्ते
स्मृता बुधैः । सिद्धान्ती शिवसायुज्य सिद्धिमनु * रि स्थित इति
तदिदमेव शिवसायुज्यमपीदुगुत्तं - नात्मच्छेदोपवर्ग न च पशु
शिवयोरैक्यमत्रापवर्गो नाविद्या ग्रास हानिर्न च गुणविलयो
नापि पाषाणमुक्तिः । यद्बोधानन्दरूपं त्रिमल विगमने
व्यक्तमात्मस्वरूपन्तत्सायुज्येन वाच्यं शिवसदृश विभुश्चैव
तर्येपवर्गः इति । ततस्साक्षान्महिमत्वेन श्रुतिसिद्धशिवकृत
कत्वे नैव शिवशास्त्रस्य सामान्यार्ष
सूत्रशास्त्रादेरुत्कृष्टत्वञ्चानुक्त्वा सिद्धम् । तस्मात्सूत
संहितादिके अयं स्रोतोद्भवाद्धर्मादूर्ध्वस्रोतोद्भवः परः ।

ऊर्ध्वस्रोतोद्भवाद्धर्मात्स्मार्त धर्मोमहत्तरः ।

स्मार्तेभ्यश्श्रौत धर्माश्च वरिष्ठामुनिसत्तमा इति
क्वचिदर्थमन्ययोक्तमपि तदुक्तिरमल शिव महावाक्येन बाध्यते
शिवागमस्य वेदादुत्कृष्टत्वमीशान मुखादुत्पत्तिश्रुतेः ।
तदुक्तं श्रीमद्धालास्य महात्म्ये

शिवज्ञानानि दिव्यानि कामिकादीनि भूसुराः ।

प्। १२०१) श्रीमद्धालास्य नाथस्य सम्भवन्त्यूर्ध्व वक्त्रतः ।
पुनस्सदेव देवस्य पुरुषाख्येन वक्त्रतः । एकविंशति भेदेन
युक्त ऋग्वेद मव्रवीत् । यजुर्वेदञ्चैक शतभेदयुक्तमधोरतः ।
सहस्रभेदसहितं सामवेदन्तु वामतः । अथर्वन्नवधा भक्तं
सद्योजातेन चार्णवीत्वदिति ।

श्रीकामिके च -

ईशानवक्त्रा दूर्ध्वस्थात् ज्ञानं यत्कार्यत्वादिकम् ।
ऋग्यजुस्सामाथर्वश्च पुरुषाद्याननोद्भवाः ।

तथैव मन्त्र तन्त्राख्यं सदाशिव मुखोद्गतम् । सिद्धान्तं
गारुढं वामं भूततन्त्रञ्च भैरवम् ।

ऊर्ध्वपूर्व कुबेर्यास्यप्यष्टधाद्य चक्राद्यथा क्रममिति
तस्मादाप्त समाप्तोभयाप्त प्रणीतानाञ्चार्वाकादि
शैवसिद्धन्तानां सर्वेषां शास्त्राणां प्रत्यक्षादि
प्रमाणानामिव यथारूपमधिगतानधिगतार्थ
गत्वेनबाध्यबाधक सामान्य विशेष व्याप्यव्यापकतास्थ
लक्षण स्वरूप साध्यसाधक सावधिनिरवधि प्रामाण्यं
सिद्धं नहि स्वस्वमतमेकैकं प्रमाणं तथा स्वीकारे सुगतो
यदि सर्वज्ञः कपिलो नेतिका प्रमा अथोभावपि सर्वज्ञौमति
भेदस्तयोः कथमिति निर्वक्तुमशक्यत्वात् सर्वाणि शास्त्राणि
अप्रमाणानिस्युरित्यनिष्टञ्जगदाध्यमापतेत् ।

प्। १२०२)

ततस्सर्वाणि शास्त्राणि स्वस्वावधि प्रमाणान्येव । तथा
साधितंश्रीरामकण्ठ शिवाचार्येण रौरवे वृत्तिविवेके
तदुक्तञ्च पौष्करे -

अन्योपि मार्गो वेदादिः पशुपाशार्थदर्शकः । स्वोक्त तत्वावधि
व्याप्ति ब्रह्मविष्ण्वादि कर्तृकः ।

ब्रह्मविष्ण्वादि कर्तृकमित्युक्तं

न हान्विवरत्वान्मोक्षमार्गस्य स्थितस्स्वर्गादिभोगदः । न
चार्षं पौरुषैर्वाक्यै ऋषिभिर्दैविकन्तथा ।

न देवैर्ब्रह्मणो वाक्यं वैष्णवं पद्मवन्मना । तथा रौद्रं
न हरिणा न रुद्रेण शिवात्मकम् ।

बाध्यमूर्द्धे वाध्व वैशिष्यादयो यो बाध्यमूर्ध्वतः ।

शिवागमाविरोधेन शात्रं सर्वं व्यवस्थितम् ।
नान्यशास्त्राविरोधेन तत्संवादतयाथवा ।

शिवशास्त्रं व्यवस्थाप्यं तद्वयावस्थापकं यतः । यस्य
यस्य हि शास्त्रस्य यावती व्याप्तिरिष्यते ।

तावत्येव भवेद्विप्राः प्रामाण्यं तस्य तस्य चेति ।

सूतगीतायामपि सूचितम् -

तन्त्रोक्त प्रकारेण देवताया प्रतिष्ठिता । सार्थवन्द्यासु
सेव्या च वन्दनीया च वैदिकैः ।

राजा तु वैदिकान्सर्वान्तान्त्रिका न खिलानपि ।

प्। १२०३)

असङ्कीर्णतया नित्यं स्थापयेन्वति मत्तमः ।
अन्नपानादिभिर्वस्त्रै सर्वान्राजानभिरक्षयेदिति ।

ननु पूर्वं वेदादिकं सर्वं शास्त्रं शिवकतृकमित्युक्तम्
इदानीमन्योपि मार्गो वेदादि ब्रह्मविष्णवादिकर्तृक इति ।
ब्रह्मविष्ण्वादिकमित्युक्तं महान्विरोधः । सत्यं वेदादिकं
सर्वं शास्त्रं शिवशास्त्रञ्च महामायायां नादात्मना
शिववक्रतः । वर्णपदवाक्यरचनात्मना पुनस्साधिकरण
निरधिकरण शिवकृतमिति कोपि विरोधः तदुक्तं श्रीमत्कामिके

लौकिकं वैदिकञ्चैव तथाध्यात्मकमेव च । अतिमार्गञ्च
मन्त्राख्य तन्त्रमेकमनेकधा ।

सिद्धान्तं मन्त्र तन्त्रं स्यादतिमार्गन्ततो वरम् । अध्यात्मं
यत्ततो नीचन्तस्माद्वैधिकमेव च ।

वैदिकाल्लौकिकं हीनं ब्रह्मायाः पञ्चदेवताः । सद्यो
वाममहाघो * पूषेशानमूर्तयः ।

प्रत्येकं पञ्चवक्त्रास्यास्तैरुक्तं लौकिकादिकम् ।
सद्यमन्त्राद्विनिष्क्रान्तो ब्रह्मानामाखिलार्थ दृक् ।

तेन वै लौकिकं शास्त्रं मर्त्यलोकेवतारितम् ।
शब्दशास्त्रमलङ्कारं निरुक्तश्छन्द एव च ।

कौ * * * भारषतञ्जोतिश्शास्त्रं वात्स्यायनादिकम् ।
आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च ।

प्। १२०४)

लोकायतं तथा साङ्ख्यमर्हतो मतमेव च । मीमांसा
दण्डनीतिश्च वार्ताद्यलौकिकं मतम् ।

वाममन्त्राधिपो विष्णुः कारणेशो द्वितीयकः । तेन
वैदिकमुद्दिष्टमष्टादश पुराणकम् ।

धर्मशास्त्रञ्च वेदान्तं पाञ्चरात्रञ्च बौद्धकम् ।
रुद्रोघोराद्विनिष्क्रान्तस्त्वध्यात्मञ्च प्रणीतवान् ।

न्यायवैशेषिकं साङ्ख्यं सेश्वरञ्च प्रणीतवान् । ईश्वरः
पुरुषाज्जात जातस्त्वतिमार्गं प्रणीतवान् ।

पञ्चार्धं लाकुलञ्चान्यन्तथा पाशुपतं मतम् । सदाशिवोपि
भगवान् मन्त्रतन्त्रमपालयत् ।

उक्तानि प्रतिषिद्धानि पुनस्सम्भाषितानि च । सापेक्ष
निरपेक्षाणि शिववाक्यान्यनेकधा ।

ऊर्ध्वस्रोद्भवं सर्वमनन्त * दीनबोव यत् । तेनोक्तं पमेशेन
श्रीकण्ठाय महात्मने ।

आदावभूद्विधाज्ञानमधिकार विभेदतः । परापरेण भेदेन
पतिपाशात्मदर्शकम् ।

शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् ।
वेदाद्यपरि विज्ञानं पशुपाशार्थ दर्शकम् ।

यथा * * क्षणञ्चक्षुः क्षपायां नृलिलालयोः । तथा
विलक्षणं ज्ञानम् एवमेतत्परापरम् ।

प्। १२०५)

ज्योतिज्ञानरतं वेद पुराणाहित चेतसा । तत्सिद्धपुरुषार्थेषु
कृतयत्नं परित्यजेत् ।

कामिकादि शिवज्ञानं वेदार्थज्ञानमेव च । समं यो मन्यते
मोहात्तं प्रयत्नेन वर्जयेदिति ।

पुनस्तत्रैव -

गारुडं भूततन्त्रञ्च भैरवं वामतन्त्रकम् । कापालं
पाञ्चरात्रञ्च लाकुलं कुलशास्त्रकम् ।

तन्त्रं पाशुपतञ्चान्यत् पुराणन्धर्मशास्त्रकम् । इतिहासं
षडङ्गञ्च ऋग्यजुस्साम सञ्ज्ञकम् ।

अथर्वणं तथा बौद्धमर्हतोमतमेव च ।
ऊर्ध्वस्रोतोद्भवाच्छास्त्रादपशान्त मुखक्रमात् ।

कामिकादि शिवज्ञानम्मूर्धाभगवतस्सदा । इतराणि महेशस्य
हृत्कर्णाद्यङ्गकानि वै ।

पूर्वपक्षतया तानि कथितानीह शम्भुना । हेयोपादेय
वस्त्रान्निर्णये परमार्थतः ।

तत्सर्वमधरी कृत्य शिवसिद्धान्त ईरित इति ।

तथा महाभारते च वेदादेस्साधिकरण शिवकृत कत्व मुक्तं
युगान्तेन्तहीनान्वेदान् इति हासान्महर्षयः ।

लेभिरे तपसापूर्वमनुज्ञाता स्वयं भुवेति ।

वायव्य संहितायाञ्च मुभाय सिद्धमखिल धर्माश्रमिह

प्। १२०६)

ब्रह्मणा कल्पितं पूर्वं ममेवाज्ञा पुरस्सरौ । स तु पैतामहो
धर्मो बहुवित्तक्रियान्वितः ।

नात्यन्त फल भूयिष्ठङ्क्लेशाया स समन्वितः । तेन धर्मेण
महतां श्रद्धां प्राय सुदुर्लभाम् ।

वर्णरोधे प्रपद्यन्ते मामनन्य समाश्रयाः । तेषां
सुखेनमार्गेण धर्मकामार्थमुक्तये ।

वर्णाश्रम समाचारो मयाभूतः प्रकल्पितः ।
तस्मिन्भक्तिमतामेव मदीयानाम् अवर्णिनाम् ।

अधिकारो न चान्येषामित्यात्मा नैष्ठिकी ममेति ।

अथ श्रुतिपथगलितानां मानुषाणान्तु तन्त्रमित्युक्त तन्त्रं न
शिवागमः । तथा कृते शिवादधीत शिवतन्त्राणां
सनकादीनां श्वेतोपमन्युना कृष्णार्जुन मार्कण्डेय
प्रभृतीनाञ्च श्रुतिपथगलितार्थ श्रुत्यनवकारित्व प्रसङ्गात्
तेषाञ्चाधीत शिवागमत्वमुक्तं स्कान्दे सम्भवकाण्डे
एतस्मिन्नन्तरे देवः कैलासे रजताचले सनकादिमुनीन्द्रेभ्यस्त्रि
पदार्थार्थ सम्मितम् । रहस्यागमान्नाख्यं सिद्धान्तं कथां
स्थित इति उपदेशकाण्डे च -

पुराब्रह्मात्मजाः पुण्याः सनकश्च सनातनः । सनन्तनश्च
भगवान् सनत्पूर्व कुमारकः ।

चत्वारोच्छषयश्शम्भोः पूजां पुण्यां विधाय च ।

प्। १२०७)

प्रपन्नेन ततो वेदाच्छिवेनाध्यापिताः खलु । आगमांश्च
पुराणानि सेतिहासानि सुव्रताः ।

शिवार्चनपरानित्यं शिवयोगेन पावनः ।

शिवज्ञानाग्निना दग्ध महापातक सञ्चया इति शिवपुराणे
काञ्ची पुरमाहात्म्ये च

सनत्कुमारः पप्रच्छ प्राञ्जलिः कमलासनम् । भगवन्सकला
वेदा साङ्गोपाङ्गास्ससंहताः ।

शिवागमास्तथा सर्वे व्यधिता भवतो मुखादिति ।

स्कान्दे स्वेतारण्यमाहात्म्ये पुण्डरीकपुरमाहात्म्ये -

व्याघ्रपाद सुतो यत्र पुरा स्नात्वा महामुनिः । शिवागमस्य वै
पारङ्गतो प्राप्यं सुरैरपि ।

यस्य शिष्यो भवत्कृष्णस्तत्तीर्थन्नवमं स्मृतमिति ।

उपदेशकाण्डे च -

पुनश्च वसुदेवस्य दैवत्यां कृष्णरूपधृत् । जज्ञे
विष्णुरमेयात्म भृगुशापनिमन्त्रितः ।

तत्राभ्यर्च्य महादेवं कृत्वा शक्रजयं पुनः । उपमन्यु
समासाद्य विधिना तेन दीक्षितः ।

शैवमुख्यस्ततो तीर्थं भक्त्याराध्य च शङ्करम् ।
भूभारमपनीयाथ विष्णुलोकञ्ज?गाम स इति ।

तत्रैव बाणासुरं प्रतिवचनम् -

प्। १२०८)

तमाह?पूर्ववन्नैष जेत्वं शक्यस्त्वया सुर इदानीं मम
भक्ताग्रादुपमन्योर्महात्मनः ।

शिवदीक्षास्य शिवागमानां पानञ्च शैवाचार्यत्वमेव च
लब्ध्वा च परमं योगं शिवसारूपतां गतं

यस्य नाम्ना वनमिदं कथितं सवनत्रये । अवनाधास्य भक्तस्य
श्वेतनाम नृवस्यत्विति ।

निवृत्तं शिवागम विशारदात् भस्मधारी च सततं वीर्यवान्
भक्ति संयुत इति - तत्रैव -

सोपि सम्प्राप्य नित्यत्वं मार्कण्डेयो महामुनेः । स्वगृहं
प्राप्यपरया प्रीत्या पित्रोस्समा च सत् ।

अनन्य सदृशो लोके शिवशास्त्र विशारदः । शिवागमार्थ
विज्ञान सम्पन्नोधापि वर्तत इति ।

किन्तु श्रुतिपथगलितानाम्मानुषाणान्तु तन्त्रमित्यत्र तन्त्रम् ।

नादरूपं विनिष्क्रान्तं शास्त्रं सर्वमिति
श्रुतेर्नादात्माशिवकृतम् । वर्णपदवाक्यरचनात्मना
शम्भुपदोपलक्षित त्रिरीश्वर प्रेरित मायारुद्रकृतं वामादि
तन्त्रमिति मतिमदूह्यम् । तदुक्तं कामिके -

वामं पाशुपतञ्चैव लाकुलञ्चैव भैरवम् । न
सेव्यमेतत्कथितं वेदबाह्यं तथेतरमिति ।

सूत संहितावृत्तौ च विद्यारण्य स्वामिभिश्शिवागमोदाहरणं
स्वीकृत्य लिखित्वा गुरुणा चोपदिष्टोपि तन्त्रसम्बन्धवर्जित -

प्। १२०९)

इत्यत्र तन्त्रसम्बन्ध इति

कापालं लाकुलं वाममित्यादि वेद विरुद्धागम सर्गरहित
इत्यर्थ इति व्याख्यातम् । तथा ह्यलास्य माहात्म्येविक्रमपाण्डय
चरिते - पाण्डयस्य वेदबाह्य शास्त्राणि परित्यज्य
शिवशास्त्रस्य श्रवणं कृतम् ।

प्रसृता वैदिकाधर्मास्सर्वतः क्षितिमण्डले । वेदबाह्यमनाये
च ते गच्छन्ति सुदूरतः ।

सदा शैवानिशास्त्राणि पुराणानि गुहानि च । शृणोति
विद्वद्वक्त्रेभ्यस्सावधानस्स्वसादरमिति ।

तथा शिवागमस्य पूज्यत्वमुक्तं वायव्यसंहितायाम् ।

मन्नामनिरतावाणी वाङ्गता मम नेतरा ।
लिङ्गैर्मच्छासनोद्दिष्टैस्त्रिपुण्ड्रादिभिरङ्कितः ।

ममोपचारनिरतः कायः कायो न चेतरः । मदिज्याकर्मविज्ञेयं
बाह्यं या दिनोच्यते ।

मदर्थे देह संशोषः तपः कृच्छ्रादिनो मतः । जपं
पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ।

रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् । ध्यानं
मद्रूपचिन्तार्थं नान्यदर्थं * दा * यः ।

ममागमार्थ विज्ञानं नात्यार्थ वेदनमिति । तथा यथा
कथञ्चित् सामान्य विशेषत्व फलक्षणत्वेपि

प्। १२१०)

उभाभ्यां वेदान्त सिद्धान्तमार्गाभ्यामसंशयं मोक्ष
प्राप्तिरस्ति । तदुक्तं स्कान्दे चिदम्बरमाहात्म्ये -

वेदान्तनिष्ठिताये तु ज्ञानिनो वीतकल्मषाः । मदागमपराये
च ज्ञानवादैर्व्यवस्थिताः ।

उभयेपि च वदन्ति सायुज्यमतिदुर्लभम् । उभयेषु च मार्गेषु
कर्मब्रह्मपरेषु च ।

वेदागम प्रसिद्धेषु येन तिष्ठन्ति पापिन । चतुर्विधैश्च ते
दण्ड्यादण्डैश्शास्त्र प्रचोदितैरिति ।

उभयेपि च विन्दन्ति सायुज्यमति दुर्लभमिति श्रुते इयं विवेकः
सिद्धान्तानुसारिणो वेदान्तिनोपि वेदान्तत्वज्ञेपि प्रकृत्यूर्ध्व
शिवागममात्र सिद्धरागादि शिवतत्वान्त पदार्थज्ञानार्थं
मोक्षार्थञ्च शिवदीक्षावन्तस्सन्तस्सद्यस्स * शिवसायुज्यं
विन्दन्ति । शिवदीक्षा राहित्ये वेदान्त ज्ञत्वेपि न
साक्षाद्विन्दन्तीति तदुक्तं सूतसंहितायाम् -

स्थापयित्वा गुरश्शिष्यं मण्टपस्य तु मध्यमे । ग्रन्थिच्छेदं
पुनः कुर्यात् गुरूक्तेनैव वर्त्मना ।

कृते कारुणिकेनैवमाचार्येण द्विजोत्तमाः । महादेवो महानन्दो
महाकारुणिकोत्तमः ।

स्वात्मभूतां परां शक्तिं प्रेरयत्येव सुव्रताम् । प्रसन्ना स
महादेवी महाकारुणिकोत्तमा ।

प्। १२११)

शिष्यस्यात्मनि चिद्रूपे स्वयं पथतिनिर्मला । महादेवस्य
भक्तश्चेत् शिष्यस्सद्गुरुभक्तिमान् ।

तस्य शिष्यस्य विप्रेन्द्राः कर्मसाम्ये मतिद्विजाः । शाम्भवी
शक्तिरत्यर्थ तस्मिन्पतति चिद्घने ।

तस्य प्रसादयुक्तस्य विद्यावेदान्त वाक्यजा ।
दहत्यविद्यामखिलामन्तस्सूर्योदयो यथा ।

शक्तिपात विहीनोपि सत्यवाक् गुरुभक्तिमान् । आचार्याच्छ्रुत
वेदान्त क्रमान्मुच्येत् बन्धनात् ।

शक्तिपात प्रकारस्य रहस्यांशश्च कश्चन । मयानोक्तो
रहस्यत्वात् राज्ञाभङ्गभयादपीति ।

अत्राप्ययं विवेकः - शक्तिर्दीक्षाकर्मसम्पातदयित्री सती
ततः पूर्वं सामान्यरूपिणी पतति पश्चाद्दीक्षा कर्मणि
साक्षाद्दीक्षात्मिका सती विशेषरूपिणी पतति तथा पतती
शक्तिः । तस्मात् वैदिकमार्गेण मलनाशो न विधते शैवागमोक्त
मार्गेण दीक्षया मोक्ष एव हीति देव्यामतवचनात्
मलमौज्यात्मिकामविद्यां क्रमतो दहति इति तावत्कालं
प्रकृतेरूर्ध्वं पुरुषतत्वभुवनं प्राप्य महाभोगं
भुञ्जन्तीति तत्पर्यं तदुक्तं सर्वज्ञानोत्तरादिके -

तामसं जिनभक्तानां पौरुषं ब्रह्मवादिनाम् । नासतो विद्यते
भावो नाभावो विद्यते सतः ।

तस्मादेकात्म वादोयं कल्पितो मूलचेतनैः ।

प्। १२१२)

इत्यद्वैतग्रहाविष्ठाः प्रन्नपन्ति दयालुभिः । गुरुभिः
प्रतिबोध्यन्ते सिद्धान्तागदायिभिः ।

अद्वैत बलमाश्रित्ययेपि शृङ्खलवृत्तयः । तेषामद्वैत
निष्ठां पुंस्तत्वे विलयो भवेत् ।

वेदान्तज्ञाश्च साङ्ख्याश्च योगिनः पुरुषे स्थिताः ।

इति । कश्चित्कथञ्चिद्वेदोप ब्रह्मणत्वेन शिवागमानां
सौम्यत्वमुक्तं तन्न पारमार्थिकम् । किन्तु सौम्यत्वं स्वाभाविकम्
। तदुक्तं कामिके -

तथा पाशुपतं सोमसिद्धान्ताख्यञ्च लाकुलम् । गारुढं
भैरवं वामं भूततन्त्रञ्च यामलम् ।

कापालं पाञ्चरात्रञ्च बौद्धमप्यार्हतन्तथा ।
बृहस्पतिमतं साङ्ख्यं योगं वैखानसं तथा ।

वेदान्ताख्यञ्च मीमांसा पुराणन्त्व शास्त्रकम् ।
वस्तुशास्त्रं तथा सूत्रं षडङ्गमिति हासकम् ।

तथा देवाश्च चत्वारो यत्तत्र परिचोदितम् । सर्वं रौद्रं
समादिष्टं सिद्धान्तं सौम्यमिष्यते ।

रुद्रैश्च स्थापितं यच्च विष्वादि प्रतिमादिकम् । तत्सर्वं
शैवमापाद्य शैवस्समर्चयेत् ।

लिङ्गाद्यमादिशैवेन स्थापितं पूजितन्तु वा । तद्रूपं
पूजितन्तैश्चेद्राष्ट्रं राजानमेव हि ।

प्। १२१३)

तद्ग्रामं ग्रामसंस्थाश्च सर्वा * न्ति न संशयः । यजनं
त्रिविधं प्रोक्तम् उत्तमं मध्यमाधमम् ।

कैवलं शिवमन्त्रैस्तु यजनं चोत्तमं भवेत् । वैदिकैश्शिव
मन्त्रैश्च यजनं मध्यमं भवेत् ।

केवलं वैदिकैर्मन्त्रैर्यजनञ्चाधमं भवेत् । केवलं
शैविकैर्मन्त्रैर्यजेदात्मार्थमुत्तमम् ।

शैवमन्त्रसमो मन्त्रो नास्तीति भुवनत्रय इति ।

स्कान्दे बुद्धकाण्डे कुमारविश्वरूपप्रदर्शनाध्याये -

शब्दजालमशेषं तत् कण्ठदेशे समाश्रितम् । आस्य मध्ये
स्थिता वेदा देव देवस्य भूसुराः ।

अक्षराणि च दन्तेषु जिह्वायां तु शिवागमोः । सप्तकोटि
महामन्त्रा ओष्ठमध्ये व्यवस्थिता इति ।

चिदम्बरमाहात्म्ये -

इति देवान्समाहूय ध्वजं वृषभलाञ्च्छितम् । पुरं
प्रदक्षिणी कृत्य सभेशस्य तु सन्निधौ ।

द्रुममारोपयामासुरागमोक्तेन वर्त्मनेति ।

शिवपुराणे * * ग ना माहात्म्ये -

शिवार्चनं तपो मुख्यं वेदागमनिरुपितम् । तपस्सिद्धि
प्रदस्थानं पुण्डरीक पुरम्महदिति ।

शिवपुराणे एकाम्रनाथमाहात्म्ये इन्द्रस्य शिवपूजा प्रकरणे -

प्। १२१४)

वृर्त्र * * जश्शिव तन्त्रोक्तैर्व्रतहोम जपादिभिः ।

प्रत्यहं प्रीणयामास कामाक्षीरमणमिति शिवपुराणे विरिञ्चि
माहात्म्ये -

शिवनायक इत्यासीच्छिवभूसुर नायकः ।
कामिकाद्यागमार्थज्ञस्साक्षादिव महेश्वर इति ।

शिवपुराणे कालहस्ति माहात्म्ये -

सुवर्णमुखरी स्नातो जापागमिकान्मनून् । प्रयश्चित्तविधानेन
प्रसन्नात्मा सभूसुरः ।

यथा तन्त्रं प्रपूज्येशं ययौ भूयस्तपोवनमिति ।

शैवपुराणे पुण्डरीकमाहात्म्ये -

शिवशास्त्रं लिखित्वा यो ददाति शिवयोगिने । रौद्रं
भक्तिसंयुक्तं शिवसायुज्यमाप्नुयादिति ।

हालास्य माहात्म्ये -

महालिङ्गस्य पूजार्थं शिवसृष्टि द्विजोत्तमान् । गङ्गातीरस्य
निरतान् समाहूय महीपतिः ।

सिद्धान्तैः कामिकाद्यैस्तु महालिङ्गं निरन्तरम् ।

पूजयन्त्विति सम्प्रार्थ्य वृत्तिं तेभ्यः प्रदाय चेतनस्तत्रैव -
गङ्गातीर्थस्य सलिलैर्हेमकुम्भसु
सम्भृतैरागमोक्तविधिभिरभिषिञ्चत् सहोत्सवमिति ।
वेदारण्यमाहात्म्ये कुलेश्वरवैभवे -

आगमोक्तेनमार्गेण पूजयामासुरादुगत् ।

प्। १२१५)

सुधारूपं महेशानं शङ्करं शशिभूषणमिति ।

शिवपुराणे रामेश्वर माहात्म्ये -

मन्त्रैरागमकैस्तैस्तैर्महितं रामपूजितम् ।

रामेश्वरेति लिङ्गन्तु तदा प्रभृति पप्रथ इति आगमादि
पदनिर्वचनञ्चोत्तां शुभदादिके -

आगतं शिववक्त्रात्तु गतं च गिरिजामुखे । मतञ्च
ऋषिभिस्सर्वैर्यस्समागम ईरितः ।

तत्वमागम्यते येन आगमो वेति च स्मृतः । तनोति
विपुलानर्थांस्तत्वमन्त्रान् समाश्रितान् ।

त्राणञ्च कुरुते पुंसां तेन तन्त्रमिति स्मृतमिति ।

इति शिवागममाहात्म्यं समाप्तम् । तदित्थं भूतं
शिवशास्त्रं प्रोक्त प्रकारं दीक्षितैरेव श्रोतव्यं
पठितव्यञ्च । दीक्षा विहीने तु ज्ञानादिकं सर्वं व्यर्थं
स्यात् । ज्ञानादेरस्वातन्त्र्या ददीक्षाङ्गत्वेनैव ज्ञानादिकं
मोक्षसाधनं नान्यथा तदुक्तं -

तस्य तेन तदङ्गत्वं दिक्षासाताङ्गिनी भवेत् । शिवदीक्षान्तु
मुक्त्वैकां स पत्रां व्याहतां पराम् ।

ज्ञानतो योगतश्चापि चर्यातश्चन मुच्यते । ज्ञानादीनां तु
सामर्थ्यं तत्रापि स्वं न विद्यते ।

बालबालीश वृद्ध स्त्रीभोगिनां सरुजां तथा । ज्ञानादिना
न मोक्षोस्ति तस्माददीक्षैव मोचिनीति ।

प्। १२१६)

केवलं ज्ञानादेव मोक्ष इत्यत्रापि ज्ञानशब्दस्य
दीक्षादिरेवार्थः ।

तदुक्तं सुप्रभेदे -

अथातस्सम्प्रवक्ष्यामि ज्ञानपादं समासतः । तस्यादौ
शिवसृष्टिश्च शृणुष्वैकाग्रमानसः ।

ज्ञानं प्रवर्तते वत्स सक्लान्ति निर्णाशनाय च । अध्वश्रेणि
विनाशाय शिववृत्तिकराय च ।

अन्धकारवदज्ञानं ज्ञानं दीपवदुच्यते । ज्ञेयं
भास्करवत्प्रोक्तं पश्चात् ज्ञानं विनश्यति ।

पाशजालानि विच्छेध दीक्षादिर्ज्ञानमुच्यते ।
पशुपाशपतित्वञ्च ज्ञानेनाश्रयते बुधः ।

ज्ञाने नैव तु कैवल्य प्राप्तिस्तत्र न संशय इति दीक्षा च
दीक्षाकर्मस्यभिव्यक्ता काचित्स्वयं चलन्ती च ।

शिवज्ञानशक्त्युपकृता शिवेच्छा शक्त्यात्मिका
शिवक्रियाशक्तिरेव तदुक्तं पराख्ये -

धर्माधर्म क्षयकरी दीक्षेवं पारमेश्वरी । ज्ञानतो
योगतश्चैचर्यातश्चनमुच्यते ।

दीक्षया चात्र मुक्तिस्तु सर्वेषां प्राणिनामिह । तस्मात्तु
शिवसामर्थ्यान्मुक्तिस्सर्वत्र सिध्यतीति ।

तथा स्कान्दे भृगशापप्रकरणे -

नात्माश्रमः कृतः कश्चिदुत्कर्षो विद्यते नृणाम् ।

प्। १२१७)

परान्दीक्षां विनाशैवीम्बसत्रय विमोचिनीम् । तस्मान्मुक्ति
दीक्षयैव नाश्रमैर्नान्यकर्मभिरिति ।

स्कान्दे काशिखण्डे -

अध्वशुद्धि विनाये च मुक्तिमिच्छन्तिमानवाः ।
अदण्डपाणिश्चाण्डस्तु गन्तुमारभते हगत् ।

यथा द्रोणिविहीनात्मा तर्तुमिच्छन्ति सागरम् । अध्वशुद्धिविहीनो
हि तथा मुक्तिं समीहते ।

किमत्र बहुनोक्तेन भूयोभूयो वदामि च

षडध्वशुद्धि परिशोधनमिति श्रीमद्रौरवे -

पतयस्साञ्जनाः प्रोक्ता ब्रह्मविष्ण्विन्द्रसञ्ज्ञिताः ।
तेषामत्यन्तमैश्वर्यं विद्येशानां महात्मनाम् ।

दृष्ट्वा तद्योगमीत्सन्तस्तेषां शरणमभ्ययुः । विद्या
राजाधिराजेशास्तेत्यन्त निरपेक्षिणः ।

जरामरणसंसारबद्धभेद विचक्षणाः ।
विद्यामण्डपदीक्षाभिर्यजनेज्या परिग्रहैः ।

विद्यावृतोपदेशैश्च मन्त्रतन्त्राङ्गनिस्त्रतैः ।
दिव्यैरनुहैश्चान्यै शुद्धसत्वावभासिभिः ।

तेषामनुगृहञ्च क्रुर्मन्त्रमन्त्रेश्वराश्शिवाः ।
पितामहादयश्चापि तेभ्यो वा व्यमोहदयाः ।

शैवं परमनिर्वाण कारणं ज्ञानमुत्तमम् ।

प्। १२१८)

ऋषिभ्योपि बुधेभ्यश्च पितृभ्यश्च यथा क्रमः । प्रयच्छन्ति
महामन्त्र तन्त्रराजमहाध्वराः ।

पितामहनियोगाच्च ऋषयच्छिन्न संशयम् । दीक्षाविधि
विधानज्ञाः मनुष्येभ्यः प्रचक्षते ।

शिवेन्दु किरणादेतत्सूत्रमात्रं विनिसृतम् । पाशौघ
तिमिराण्डानां प्रकाशकरणं परमिति ।

शिवपुराणे हेमसभानाथ माहात्म्ये चकार व्याघ्रपादस्तं
कृतार्थं शिवदीक्षया । स खलु कनकवर्मा
व्याघ्रपादप्रसाद प्रकटित शिवदीक्षालब्ध दिव्यानुभावः
शिवमनुजपशीलश्शङ्करोताण्डवेशे विरचित दृढभक्तिस्तत्र
वासं चकारेति । पुनस्तत्र

पुरा च ऋषयोराज नैकोनसहस्रकाः ।
दीक्षितास्सार्थमावाभ्याम् अद्रक्षुश्शिवताण्डवशिति ।

उक्तमन्यत्र -

यथा भूपतिं दृष्ट्वा वनेभीतो गजस्तथा । अदीक्षितार्चितं
लिङ्गन्दृष्ट्वा भीतो महेश्वर इति ।

शिवपुराणे -

अदीक्षिता विधिसन्नाहमवास्त नियमश्रमम् । अमन्त्र
कल्पसापेक्षमर्चनं न विभोरिदमिति ।

शैवपुराणे गणेश्वरसंहितायाम् -

संस्थाप्य स्वात्मने देवं नन्दिनं प्राञ्जलिस्तदा ।

प्। १२१९)

प्रणम्य दण्डवद्भूमौ देवैस्सार्द्धं गणेश्वरः । दीक्षां
शिवात्मिकां तेषां प्रीणयामास नन्दिनम् ।

पुनस्तत्रैव -

तेपि विस्मयमापन्नाश्शिव लिलाप्रहर्षणः । कृतकृत्या
वयन्धन्या यच्छिवेनैव दीक्षिता इति

षट्सहस्रिकायाम् -

दीक्षया श्रवणे योग्यः दीक्षया पूजने क्षमः । दीक्षया
श्रमधर्मास्तु प्रवर्तन्ते यथार्थतः ।

दीक्षया प्राप्यते ज्ञानं दीक्षया सिद्धिभाक्भवेत् ।
मुक्तिदानेनैव दीक्षा ज्ञानादावन्तरङ्गिण ।

शिवदीक्षा विशुद्धाये सर्वत्रैवाधिकारिणः । नास्ति
दीक्षासमतीर्थं नास्ति दीक्षासमं तपः ।

नास्ति दीक्षासमो धर्मो नास्ति दीक्षासमो गुणः । नास्ति दीक्षा
समं ज्ञानं नास्ति दीक्षा समं स्मृतिः ।

नास्ति दीक्षासमं ज्ञेयं नास्ति दीक्षा समं कुलमिति ।
रौरवसङ्ग्रहे च -

एवं शैवाध्वरं प्राप्य दीक्षामन्त्र समुद्भवम् । न
पुनर्जन्मतां याति दीक्षितो मनुजोत्तम इति ।

दीयते येन वै ज्ञानं क्षीयते पाशबन्धनम् । तस्मात्संस्कार
एवात्र दीक्षेत्यपि च कथ्यत इति शिवागमे -

दीयते ज्ञानसद्भावं क्षीयते च मलत्रयम् ।

प्। १२२०)

ज्ञानक्षपणधर्मित्वाद्दीक्षाशब्द इहोच्यते इति ।

वरुण पद्धत्याम् भेदः प्रतिपादितः -

चाक्षुषीस्पर्शदीक्षा च वाचिकी मानसी तथा । शास्त्री च
योगदीक्षा च हौत्रीत्याद्यनेकधा ।

चक्षुरुन्मील्यवत्तत्व ध्यात्वा शिष्यं समीक्षते ।
पाशबन्धविमोक्षाय दीक्षेयञ्चाक्षुषी भवेत् ।

नियाथ दक्षिणे हस्ते शिवं सर्वाङ्ग संयुतम् ।
संस्पृशेच्छिष्यमूर्धादि स्पर्शदीक्षाभवेदियम् ।

तत्वे चित्तं समाधाय बृंहितान्तर चेतसा । उच्चरेत्
संहितामन्त्रा वाग्दीक्षेयं प्रकीर्तिता ।

मानसं विधिमाश्रित्य मानसी च विधीयते । शास्त्रस्य
सम्प्रदानेन शास्त्र दीक्षासमीरिता ।

योगेन योगदीक्षाच्छिवत्वे संव्यवस्थिता । दीक्षा
तामिस्समायुक्ता परिचारसमाह्वयाः ।

न तु लिङ्गार्चने योग्याः किमुदीक्षादि कर्मणि ।
जात्युद्धारविहीनत्वात् समये संव्यवस्थिता इति

वायव्ये -

असच्छूद्रान्त्यजातीनां कारुणाञ्च विशेषतः । तथा
सङ्करजातीनां नाध्वशुद्धिर्विधीयते ।

अत्रानुलोम जाताये युक्ताये च द्विजादिषु । तेषाञ्चैवाध्व
शुद्धादि कार्यं मातृकुलोचितमिति ।

प्। १२२१)

सुप्रभेदे -

अनुलोमाश्च षट् प्रोक्ता प्रतिलोमास्त्रयस्त्रिधा । अन्तरालाश्च
सर्वेषां दीक्षाकर्मणि योजनम् ।

व्रात्यास्सर्वेपि सन्त्याज्यास्सर्वकर्म बहिष्कृता इति ।

किरणे -

यतस्त्येनान्त्यजस्यापि किन्तु दीक्षा तु मानसी । कारुकाणान्तु
संस्पर्शान्नाहौत्रीं परिकल्पयेत् ।

ज्ञात्वा तेषां परां भक्तिं लोभाच्चेद्दोषमाप्नुयात् ।

इति वायव्ये -

तेप्यकृत्रिमभावाश्चेच्छिवे परमकारणे । पादोदक
प्रदानाद्यैः कुर्यात्पाश विशोधनम् ।

पुनरन्यत्र -

अमद्यपः कुलीनश्च नित्यं धर्मपरायणः । शूद्रक्षत्रियवत्
ज्ञेयश्शेषास्ततो भृशम् ।

दीक्षा हौत्री न तेषां स्यात् भक्तानां चाक्षुषीमतेति
वारुणपद्धत्यां हौत्रीभेदः प्रोक्तः -

रजः कुण्डवती हौत्री सा द्विभेदा किलोदिता ।
समासाद्विविधैवैवन्दीक्षा तज्ज्ञैरिहेष्यते ।

ज्ञानवती भवत्येका क्रियावत्यपरास्मृता । विनेज्यानलकर्मादि
मनोव्यापारमात्रतः ।

दीक्षा ज्ञानवतीः प्रोक्ता सम्यक् तत्वावबोधिका । इज्यानलवती
या तु क्रिया कौशल्य सम्भवा ।

क्रियावत्यथसानेका निर्बीजाथ सबीजिका ।

कालोत्तरे -

दीक्षा क्रियावती प्रोक्ता ब्राह्मणादि चतुष्टये ।

प्। १२२२)

पुनर्हौत्री त्रिधा प्रोक्ता वामने -

शाम्भवी चैव शाक्ती च मान्त्री चेति शिवागमे ।
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ।

नासाग्राच्छुलिकायावत्तत्वज्ञान दृशगुरुः ।
गुरोरालोकमात्रेण स्पर्शार्थ सम्भाषणादपि ।

सद्यस्सञ्जायते चात्र पाशोपक्षयकारिणी । सा
दीक्षाशाम्भवी प्रोक्ता सा पुनभिद्यते द्विधा ।

तीव्रातीव्रतरा चेति पाशोपक्षय भेदतः । यया
स्यान्निर्वृतिस्सद्यस्सैव तीव्रतरा मता ।

तीव्रा तु जीवतो नित्यन्तं पुण्यपाप विशोधिका । शाक्ती
ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य च ।

गुरुणा योगमार्गेण क्रियते ज्ञान चक्षुषा । मान्त्री क्रियावती
दीक्षा कुण्डमण्डप पूर्विका ।

मन्दमन्दतरोद्देशात् कर्तव्या गुरुणा बहिः । ज्ञानेन क्रियया
वाथ गुरुश्शिष्यं विशोधयएत् ।

योन्यया कुरुते मोहात् सविनश्यति दुर्मतिरिति । एका ज्ञानवती
प्रोक्ता द्वितीया तु क्रियावतीति च ।

श्रीमच्चिन्त्य विश्वसादाख्ये प्रोद्धृत्योक्त्वा पुनः ।

एवं मान्त्रि क्रिया दीक्षा सम्पन्नो गुणसत्तमः । स एव
योगदीक्षायामधिकारी च नान्यथा ।

प्। १२२३)

पूर्वदीक्षासमायुक्त शिष्याणामुत्तमन्तया । आणवं शक्ति
सम्भूतं शाम्भवं त्रिविधं भवेत् ।

शाक्ती शाम्भवदीक्षा च क्रियते तत्वया मया । अन्यैराणव
दीक्षा तु मन्दतीव्रादिभेदत इति च वृत्तम् ।

अन्यैरपि योगबलवत् गुरुभिः क्रिया दीक्षा मन्दतरापि अतिपक्वे?ति
दरिद्रे वा मन्त्रादि वैकल्यकृत क्रियादीक्षागतया
सद्यस्समुच्चरित प्रासादमन्त्र समुद्धृति
कृतशिवयोजनषाट्गुह्योदय शिवत्वाभिव्यक्ति
सत्वादिकतन्मन्त्रमात्रात्मिका सती सह सङ्क्षिप्ता
शाक्तीशाम्भवी च सहकार्येत्यप्यर्थोन्तस्फुरति ।
तदेतत्त्रिविधदीक्षा विहीनः पशुः । तदुक्तम् -

चतुर्वेदधरो विप्रश्शिवदीक्षा विवर्जितः । दुष्टचाण्डाल
भाण्डेषु यथा भागीरथीजलम् ।

कोटिविप्रस्समश्शूद्र शिवदीक्षा समन्वितः । सुदुर्लभं
शिवज्ञानं तदभ्यासश्च सुदुर्लभः ।

सुदुर्लभमिदं ज्ञात्वा शिवे भक्तिं समाचरेदिति ।

॥ इति शिवदीक्षा माहात्म्यं समाप्तम् ॥

ततश्शिवशास्त्रं शिवदीक्षया दीक्षितैश्चतुर्वर्णैरेव
पठितव्यं तदुक्तं सुप्रभेदे -

साधु साधु महाप्राज्ञ यत्वया परिचोदितम् ।

प्। १२२४)

शुद्धशैवमिदन्तन्त्रन्नदेयं न प्रकाश्यकम् । दीक्षितस्यैव
धीरस्य शिवभक्ति परस्य च ।

श्रावणीयन्न चान्यत्र कथनं हि प्रशस्यते । चतुर्णां
शुद्धशैवानां दीक्षया प्रापयेच्छिवम् ।

लौकिकाचारमार्गेण सर्वेषां वर्तनं शृणु । अध्ययनं
चाध्यापनं यजनं यजनं तथा ।

दानं प्रतिग्रहं चैव तेषां कर्माणि चोच्यते ।
साक्षाच्छिवमयाः प्रोक्ता कामिकाद्यागमास्त्विह ।

तेषामध्ययनान्येव तस्याध्ययनमुच्यते । तेषामध्यापनान्येव
तस्याध्यापनमेव हि ।

शिवाराधनया तस्य यजनं याजनं तथा ।
शिवमुद्दिश्ययद्द्रव्यन्दत्तन्तद्दानमेव च ।

प्रतिग्रहवतो वाथ तस्य षत्कर्म उच्यते । शिवसद्भावयुक्तस्य
शुद्धशैवस्य धीमत इति ।

मकुटे -

निर्वाण दीक्षितानान्तु दातव्यं शिवयोगिनाम् । अन्येषान्तु न
दातव्यमिदन्तन्त्रमनुत्तममिति ।

काञ्ची पुरमाहान्त्ये च -

ब्राह्मणं वेदविद्वांसं शिवभक्तं जितेन्द्रियम् ।
भूतिरुद्राक्षसम्पन्नं शिवपूजा परायणम् ।

आगमार्थ परिज्ञान निरतं शिवधर्मिणम् ।

प्। १२२५)

क्षत्र्यं वैश्यमपि वा शूद्रं वा प्रतिलोमममलम् ।
अनुलोमोद्भवं वापि साक्षादाम्रेश संश्रयम् ।

भक्त्या वित्तानुसारेण गृहक्षेत्रधनादिभिः । वासयेदधिक * *

प्रतिष्ठया तु देवानां यत्फलं तदुदीरितम् । तत्फलं
सकलं लब्ध्वा मुच्यते भवसागरादिति ।

शैवपुराणे -

इदं हि शिवभक्ताय शिवशास्त्रावलोकिने ।
शिवदीक्षाविशुद्धाय प्रकाश्यं मुनि पुङ्गवा इति ।

तथा किरणवृत्तौ भगवतारामकण्ठा चार्येण -

त एवास्य निर्वाण दीक्षा सम्पन्नेति प्रतीयते ।

ना दीक्षितानां श्रवणाधिकार इति वक्ष्यतीत्युपक्रम्य
यदावाप्य नरास्सर्व इत्यत्र सर्व इति ब्राह्मणाः
क्षत्रियावैश्याश्शूद्रा म्लेच्छादयोपि हीति श्रुत्यधिकारिण एव
गुरुत्मतोधिकार प्रक्रमतस्सर्वपदस्यानियतार्थत्वादिति
व्याख्यातम् ।

ननु दीक्षा विहीनैः पठितव्यं तदुक्तं कामिके -

दीक्षा विहीना विप्राद्यास्त्रिवर्णाश्शूद्रजातयः । पठन्ति
शिवशास्त्रञ्चेद्राजराष्ट्रं विनश्यति ।

चिन्त्यविश्वे -

विप्राद्यादीक्षिते नैव शिवज्ञानं न लेखयेत् ।

प्। १२२६)

अदीक्षित सकाशे तु नाध्येतव्यं विशेषत इति ।

वीरतन्त्रे -

नादीक्षितैस्तु श्रोतव्यं न देयं न प्रकाश्यकम् ।
शिष्याणाञ्चैव दातव्यं समासात्कथयामित इति

अन्यत्र च -

पशुनालेखयेन्नैव शिवज्ञानं प्रयत्नतः । न समीपे
पशूनाञ्च कुर्यादध्ययनं बुध इति ।

चतुर्वणेष्वपि दीक्षिता एव श्रेष्ठाः ।

तदुक्तं शैवपुराणे ।

गतं शूद्रस्य शूद्रत्वं द्विजत्वं ब्राह्मणस्य च ।
शिवसंस्कार सम्बन्धाज्जति भेदो न विद्यते ।

शिवदीक्षाभिजातस्य पूर्वजातिर्न चिन्तयेत् । सम्प्रतिष्ठित
लिङ्गे तु न यथा पूर्वभावनेति ।

शिवधर्मे -

स्थावरञ्जङ्गमञ्चैव द्विविधं लिङ्गमिष्यते । स्थावरं
स्थापितं लिङ्गं जङ्गमं दीक्षितं विदुः ।

जङ्गस्यावमानेन स्थापने निष्फलं भवेत् । तस्माल्लिङ्गद्वयं
प्राज्ञो नावमन्येत सर्वदेति ।

श्रीमन्मतङ्गे -

शिववच्छिवभक्तास्तु द्रष्टव्याश्शिव काङ्क्षिभिः ।
संस्कृताश्च शिवैर्मन्त्रैर्गुरुणां मन्त्रमूर्तिना ।

वागीशी गर्भसम्भूता सवेप्राप्त वरानराः । यथोक्त
शिवसंस्कार पवित्री कृतमूर्तयः ।

सर्वे समानधर्माणस्तथाप्येव विधीयत इति ।

प्। १२२७)

कामिके -

इन्धनं वह्निसंयोगाद्वृक्षनाम न विद्यते । गतं शूद्रस्य
शूद्रत्वं द्विजत्वं ब्राह्मणस्य तु ।

शिवसंस्कारसम्बन्धाज्जाति भेदो न विद्यत इति ।

अन्यत्र च -

काञ्चनं रजतं ताम्रं लोहञ्चेति चतुष्टयम् । तत्प्रयाति
सुवर्णत्वं रसवेधप्रभावतः ।

रससिद्धं यथा ताम्रं न भूयस्ताम्रतां व्रजेत् ।
भानसिद्धस्तथा देही न भूयश्शूद्रतां व्रजेत् ।

यथा शुक्तिगतं तोय मौक्तिकन्जायते ध्रुवमिति । न पुनस्तोयतां
याति मौक्तिकत्वं न मुञ्चतीति ।

ज्ञानलक्षण समुच्चये -

वागीशी जननीयस्य व्योमव्यापी पिता शिवः ।
मन्त्रैश्शिवाध्वरे जातः स शूद्रस्स्यात्कथन्त्विति ।

मृद्भावना घटादीनां संस्कारान्न कदा यथा । तथैव
पाशहानाच्च न प्राकृत्यस्तु जातयः ।

नराणां शिव संस्काराच्छिवत्वं न वेद्यति । न भवेयुस्तदा
नूनं द्विजदेवादि देशिकाः ।

मन्त्रसंस्कार दीक्षाभिः संस्कृतं गुरुणा सदा चराचरं
प्रपद्यन्ते शिवत्वं तत्क्षणाद्ध्रुवमिति ।

चिन्त्यविश्वे -

शिवलिङ्गे शिलाबुद्धिं कुर्वाण इव पातकी ।

प्। १२२८)

श्रेष्ठत्वं विद्यते तस्य दिक्षया तु विशेषतः । यस्य चित्तं
शिवेलीनं तस्य जात्यादि न स्मरेत् ।

रजतं ताम्रकं वापि सीसमायसकन्तथा । वेधितं
गुलिकाद्याभिर्दीक्षिताञ्च नयेत्तथा ।

पूर्वरूपञ्च सञ्ज्ञाञ्च चिन्हं तन्नाम भेदकम् । हेमत्व
सिद्धौ सर्वञ्च समानत्वं प्रपद्यते ।

कामिके -

विप्रादयोपि शूद्रास्स्युर्गुणस्तस्मात् समुद्धरेत् । शूद्रजातिं
समुद्धृत्य स्वाहान्तेनैव मूलतः ।

स्कन्दकालोत्तरे -

जात्युद्धरणहोमन्तु एकैकन्तु शतं शतम् । दहेद्वै
शूद्रजातिन्तु अनलेन तु षण्मुख ।

सच्छूद्रत्वं योजयित्वा क्रियां वै षोडशं कुरु ।
साक्षाद्विप्रत्वमापन्ने पश्चाद्दीक्षां कुरुष्वथ ।

त्रैवर्णिकानामेवन्तु कारयेद्विधिना इति ।

कामिके -

नमो वौषट् च शूद्रस्य प्रणवादि विवर्जितम् । निर्वाण दीक्षितो
यस्तु प्रणवेन तु योजयेदिति ।

मकुटे च -

निर्वाण दीक्षिते * * * द्र प्रधानन्तु नियोजयेदिति ।

सुप्रभेदे -

यतीनां शुद्धशैवानां मर्त्यमाहेश्वरात्मनाम् ।
विशेषभोजनं दानं कुर्यात्तत्रैव शक्तित इति ।

अदीक्षिता यद्यपि शिवभक्ता मुक्तभक्तीतरेप्य श्रेष्ठा वै
भवन्ति ।

प्। १२२९)

शिवभक्तलक्षणमुक्तमुपदेशकाण्डे -

शिवभक्तामाहात्मान सन्तिदेवेषु केचन । दैत्येषु यातु यानेषु
यक्षगन्धर्वभोगिषु ।

मुनीश्वरेषु मर्त्येषु ब्राह्मणेष्वपि नृपेष्वपि । ऊरुजेष्वपि
शूद्रेषु सङ्करेष्वपि सर्वशः ।

वर्णाश्रम व्यवस्थाश्च नैषां सन्तिमूनीश्वराः । केवलं
वै रूपास्ते सर्वे माहेश्वरा स्मृताः ।

अतिवर्णाश्रमाः प्रोक्तास्सर्व वेदेषु शत्तमा इति ।

वायव्य संहितायाम् -

एवमष्टविधं लिङ्गं यस्मिन् म्लेच्छेपि वर्तते । स विप्रेन्द्रो मुनि
श्रीमान् स यतिस्स च पण्डितः ।

नमे प्रियाश्चतुर्वेदी मद्भक्तश्च पचोपि यः तस्मै देयं ततो
ग्राह्यं स च पूज्यो यथा ह्यहमिति ।

वासिष्ठलैङ्गे -

शिवेति वाचं यो नित्यं चण्डालोपि वदेन्मुदा । सहते न
वेदद्वाचं सहत न वसेत्सदेति ।

वृद्धाचलमाहात्म्ये च -

विनै * * * तो विप्रवरश्च विद्वान्यदिश्चपाकोपि स एव भक्तः ।
नान्यश्चतुर्वेदधरोपि पूज्यो देयञ्च तस्मै स शिवस्वरूपः ।

उपदेशकाण्डे -

पापिष्ठस्यापि वै मुक्ति भस्मरुद्राक्षधारिणः ।

प्। १२३०)

इति सर्वत्र वेदेषु पुराणेषु आगमेष्वपि ।

बहुधा गण्यते लोके सर्वैरपि महात्मभिरिति ।

भक्तिलक्षणञ्चोक्तं सूतसंहितायाम् -

शिवज्ञानैक निष्ठानां शिवज्ञानस्य सुव्रत । दूषकस्य
शिरच्छेदश्शिवभक्ति प्रतीयते ।

लेखनं शिव विधायाः प्रदानं पुस्तकस्य च । शिवभक्तिरिति
प्रोक्ता शिवशास्त्रविशारदैरिति ।

किरणे -

भोज्यमन्नं त्रयाणान्तु शूद्रान्तं न कदाचन । शौचाचार
समायुक्ता शूद्रा ये मद्यपाश्शुभाः ।

रुद्रार्चनं परा भक्ता भोज्यन्ते भोग्यजानपीति ।

॥ इति शिवभक्तमाहात्म्यं समाप्तम् ॥

कामिके -

ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् । द्विविधं
गोत्रमत्रोक्तं दीक्षोत्थं जातिजं तथा ।

कौशिकः -

काश्यपश्चैव भरद्वाजोथगौतमः । अगस्त्योत्त्रिर्वसिष्ठस्तु
जमदग्निश्च भार्गवः ।

अङ्गिराश्च मनुश्चाद्यो द्विविधाश्च प्रकीर्तिताः ।
शिवसृष्टिसमोपेतामुनयस्तद्विवर्जिताः ।

शिवसृष्ट्यन्विताश्चैते पञ्चवक्त्रेषु दीक्षिताः । शिवेन
तत्कुलोत्यास्स्युश्शैवास्सान्तानिकोद्विजाः ।

प्। १२३१)

आदिशैवास्तु ते ज्ञेया सर्वानुग्राहकास्स्मृताः ।

सुप्रभेदे -

दीक्षितानां द्विजातीनाम् आत्मार्थमनुलोमिनाम् ।
परार्थमादिशैवानामात्मार्थ सहितं भवेत् ।

कामिके -

वृत्यर्थं ये शिवं विप्रास्सामान्यास्त्वर्चयन्ति चेत् ।
षाण्मासात्पतनं यान्ति यस्मात्तानि परिवर्जयेत् ।

शिवदीक्षा विशुद्धस्य शिवविप्रस्य धीमतः ।
शिवाज्ञावशतस्तस्य परार्थेज्यान दोषदा ।

शिल्पे -

शिवार्चनं शैव शिवद्विजानां वैधानसम्पूजनमेव विष्णोः
। तथार्चयेदन्य महीसुरश्चेच्छण्डालक देवलकं वदन्ति ।

अन्यत्र -

अदीक्षितस्तु विप्राणां षाण्मासं पूजयेद्यदि ।
षाण्मासात्पतनं यान्ति स वै देवलक स्मृतः ।

वीरतन्त्रे -

वृभूत्यर्थं सर्वदा कालमादिशैवश्शिवं यजेत् । तच्च
स्वधर्मानुष्ठानन्नदोषाय प्रकल्पते ।

अदीक्षितञ्चतुर्वेदी शिवलिङ्गन्तु न स्पृशेत् । दीक्षितश्चापि यो
विप्रो वृत्यर्थन्तु न पूजयेत् ।

आत्मार्थ पूजनं कुर्यात् परार्थं नैव पूजयेत् ।

वीरतन्त्रे -

अदीक्षितश्चतुर्वेदी शिवपूजान्न कारयेत् । वृते चैव पूजयन्ति
दीक्षिता विधि विवर्जिताः ।

षाण्मासा पतनं यान्ति ते वै देवलकौ स्मृताः । त्रीणि
वर्षाणि वृत्यर्थं स्थिते लिङ्गेषु दीक्षितः ।

प्। १२३२)

पूजयेधदिविप्रस्तु स वै देवलक स्मृतः ।

शैवरत्नाकरे -

दीक्षितश्च ये विप्रा चतुर्वेदपरोपि वा । असंस्पृशेधदि वा
लिङ्गं श्वानो वा स्पृशितो यदि ।

अदीक्षितश्च यो विप्रः कुर्याल्लिङ्गस्य पूजनम् । अरण्ये निर्जले
देशे भवनिर्ब्रह्मराक्षसः ।

चतुर्वेदेष्वहं कारी शिवलिङ्गन्तु पूजयेत् । राजराष्ट्रा
विनश्यन्ति तस्य ग्रामो विनश्यति ।

योर्चयेत् प * त्र पूर्वन्तु सर्वेदेवलक स्मृतः ।

योगजे -

दीक्षितश्चतुर्वेदी परार्थं पूजान्तकारयेत् ।

सन्ताने -

अदीक्षितोपि यो विप्रः षाण्मासन्तु शिवं स्पृशेत् । सोपिदेवलकः
प्रोक्तो स नार्हो देवपूजने ।

दीक्षितश्चापि यो विप्रो वृत्यर्थं वत्सरत्रयम् । पूजयेद्यदि
देवेशं सोपि देवलको भवेत् ।

मकुटे -

विप्रक्षत्रिय विट्छूद्रा दीक्षिताश्च प्रवेशकाः ।
आत्मार्थयजनं कुर्यान्न कुर्युस्तु परार्थकम् ।

अंशुमति -

विप्रक्षत्रिय वैश्यश्च शूद्राश्चैव तु दीक्षिताः ।
आत्मार्थयजनं कुर्युर्न कुर्युस्तु परार्थकम् ।

चातुर्वर्णोद्भव स्त्रीणामर्चनन्तु विशेषतः ।

कामिके -

शिवाय शिव विप्रेभ्यो दद्याद्गां दक्षिणान्विताम् । दशनिष्कं
तदर्थं वा तदर्थं निष्कमेव वा ।

प्। १२३३)

तत्रैव -

परार्थ यजनं कार्यं शिवविप्रेण नित्यशः । धार्मिकः
कथिते नित्यमादिशैवो द्विजोत्तमः ।

अन्येषा स्वार्थमेवं स्यात्कुर्युश्चेत्कर्तृनाशनम् । शिवसृष्टिं
विना येन जायन्ते ब्रह्मणोमुखात् ।

ते न सामान्या न तेषान्तु परार्थेत्यधिकारिता । यदिमोहेन
कुर्वीरन् राज्ञो राष्ट्रस्य नाशनम् ।

तत्रैव -

तस्मात्परार्थमात्मार्थं पिनं यजनन्तथा । शिवविप्रेण
कर्तव्यमन्येषां स्वार्थमेव हि ।

परार्थमपि कुर्याच्चेल्लोभेन न नृपतेस्तदा । तद्रष्ट्रस्य
विनाश स्यादचिरेण न संशयः ।

तत्रैव -

विपरीते क्रियान्दृष्ट्वाप्यौदासीनं करोति यः । स
राजाक्षयमाप्नोति नामकार्या विचारणा ।

तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना । शैवागमपरिज्ञान
पारगेण क्रियावता ।

क्रिया निर्वत्यमानस्स्या स्वस्वराष्ट्राभिवृद्धये ।

तत्रैव -

नान्तिकं पौष्टिकं कर्म कार्यं राज्ञां विशेषतः ।
अन्येषामपि वेषामाभि चारादिकं तु वा ।

विधेयन्धर्मनिष्ठेन सान्तानिकपरेण तु । तेनैवानुष्ठितं
कर्मकामदं सर्वदा नृणाम् ।

प्। १२३४)

तत्रैव -

आदिशैवेन कर्तव्या न चान्यैश्च विशेषतः । अन्यैश्चैव कृता
चेत्तु निष्फला स भवेत्तथा ।

तत्रैव -

अन्यमशुक्ल?कर्तव्यं मात्मार्थञ्च परार्थकम् । स्थापनं
यजनञ्चैव आदिशैवादिकं भवेत् ।

अन्येन यत्कृतं कर्म आभिचारमिति स्मृतम् ।

कृतं तदन्यथा चेत्तु आभिचारायश्चैव हि । यथा गौरन्य
वत्सस्य न सृजत्येव तद्रसम् ।

तत्सर्वप्रयत्नेन आदिशैवेन कारयेत् ।

योगजे -

स्थापनं यजनञ्चैव आदिशैवार्हकं भवेत् । अन्येन यत्कृतं
कर्म आभिचारमिति स्मृतम् ।

तत्रैव -

आदिशैवेन कर्तव्यं प्रतिष्ठाद्यर्चनान्तकम् । अन्यथा
कारयेद्यस्तु निष्कलन्तदवाप्नुयात् ।

सुप्रभेदे -

चर्यापादे तु यन्नोक्तं सामान्यश्चेतवच्चरेत् । तच्चबोधायने
सूत्रे दृष्ट्वा कर्मसमाचरेत् ।

तस्माद्बोधायनेनोक्तं तेषां सूत्रमुदीरितम् । आदिशैवा इमे
प्रोक्ता सङ्क्षेपान्नतु विस्तरात् ।

योगजे -

आदिशैवमिति प्रोक्तस्सशिव ब्राह्मणो गुरुः । देशिका
स्थापकश्चैव तस्य पर्याय वाचकाः ।

आदावेव तु शैवत्वा दादिशैव इति स्मृतः ।

प्। १२३५)

शिवेनदीक्षितत्वाच्च शिवब्राह्मण उच्यते । षर्वेषान्तु
गुरुत्वाच्च गुरुरिष्यभिधीयते ।

देश आदिश्यते येन स देशिक इति स्मृतः । लिङ्गस्थापन
योग्यत्वात् स्थापये * का नामकीर्तितः ।

तत्रैव -

आदिशैव इति प्रोक्तस्सशिव ब्राह्मणो गुरुः । आदिशैवेन
दीक्ष्यार्महानैवानुशैवकाः ।

महाशैवान्तु विप्राणां नृपाणामनुशैवकम् । मनुष्याणां
भोगशैवञ्चान्तरशैवन्तु शूद्रकम् ।

आदिशैवादि शैवानामादिशैवो गुरुर्भवेत् ।

कामिके -

आदिशैव कुले जातश्श्रेष्ठस्स्यात् स्थापनादिषु ।
विप्रादयश्चतुर्वर्णा अपि यो * * स्वकर्मणि ।

दीक्षायां सर्वमर्त्यानां प्रतिष्ठायामथोत्सवे ।
स्नपनेप्रोक्षणे न्यत्र प्रायश्चित्ते भिषेचने ।

प्रत्याख्यानादौ च युक्तस्स्यात् स्वार्के वाथपरार्थके ।
सर्वदेवार्चने चैव आदिशैवो गुरुर्मतः ।

मकुटे -

चतुर्वर्णस्य दीक्षायां विशेष ब्राह्मणो गुरुः । विप्रक्षत्रिय
विट्छुद्रा दीक्षिताश्च प्रवेशकाः ।

आत्मार्थ यजनं कुर्युर्न कुर्यस्तु परार्थकम् । ऊर्ध्वशैवेन
कर्तव्यमात्मार्थं च परार्थकम् ।

प्। १२३६)

ऊर्ध्व शैव इति प्रोक्तस्सशिव ब्राह्मणो गुरुः ।

कारणे -

पञ्चशैवास्समाख्याता सिद्धान्ते तु प्रजापते । प्रथमो
नादिशैवस्स्यात् सशैवस्तु सदाशिवः ।

आदिशैवो द्वितीयस्तु शिवश्चेतस्स उच्यते । आदौ सदाशिवेनैव
दीक्षितस्त्वादिशैवकः ।

कौशिकः काश्यपश्चैव भरद्वाजस्सगौतमः । अगस्त्यश्चैव
पञ्चैते पञ्चवक्त्रेषु दीक्षिताः ।

कौशिकश्शिवमूर्त्या तु दीक्षितश्शिवगोचरे ।
कार्यस्यस्त्वीश्वरेणैव शिवागोचर संस्थितः ।

ईशानेन भरद्वाजो दीक्षितो ज्योति गोचरः । गौतमो
ब्रह्ममूर्त्यान्तु सावित्री गोचर स्मृतः ।

अगस्त्यञ्चोर्ध्व वक्त्रेण दीक्षितो व्योमगोचरः । ऋषीणाञ्चैव
पञ्चानां गोचरं सम्प्रकीर्तितम् ।

आदिशैवा इमे प्रोक्ता गोचरं कुलमुच्यते । कुलेष्वेतेषु सञ्जाता
स्थापनादिक्रिय रङ्गकाः ।

प्रवर्तकास्त्वेते आदिशैवा इति स्मृताः । तृतीयस्तु
महाशैवस्सशैवो विप्र उच्यते ।

चतुर्थमनुशैवञ्च नृपवैश्यौ तु कृतौ स्मृतौ ।
पञ्चमोत्तरशैव स्व * शूद्रश्चेति कथ्यते ।

शिवस्त्वनाश्रितः प्रोक्त आदिशैवस्तमाश्रिताः ।
आदिशैवाश्रिताः प्रोक्ता मताशैवानुशैवकाः ।

प्। १२३७)

स्वायम्भुवे -

सिद्धान्तेषु समाख्याता पञ्चशैवाञ्चतुर्मुखा । अनादिशैवः
प्रथमोह्यादिशैवो द्वितीयकः ।

तृतीयस्तु महाशैव चतुर्थञ्चानुशैवकः ।
क?ष्णस्त्वान्तरशैव स्यात्प्रोच्यते ते धुना क्रमेण तु ।

शिवेनाश्रितः प्रोक्तञ्चादिशैवस्तमाश्रितः । अनाद्यायादि
शैवाश्च दीक्षितास्त्वादिशैवकाः ।

महाशैवादयस्त्वन्ये ते विप्राद्याः प्रवेशकाः । प्राप्ता
प्रविश्यद्यस्मात्तु शिवतां चतुरानन ।

तस्मात्प्रवेशकेत्युक्त्वाश्चात्र लेपनतवाम्रवत् । प्रवेशकेति
नामानि सामान्यन्तेषु पद्मकः । सुप्रभेदे -

मत्यानां मलनाशाय तेषाम्मत्यर्थमेव च ।
परार्थपूजनार्थाय परेषां बोधनाय च ।

स्थापन प्रोक्षणादीक्षा विधानकारणाय च । ये
शिवान्निर्मितासेन न शिवेन परात्मना ।

ते शैवा ब्रह्मवक्त्राच्च मर्त्यलोकं गताक्रमात् । काश्य
पादिकनामैश्च ऋषि देवैश्च कीर्तिताः ।

आदौ शिवत्वमस्तीति आदिशैवा उदीरिताः । शिवेन
दीक्षिताश्चेता ते शिव ब्राह्मणा स्मृताः ।

सव्योमाः परमाचार्याः विप्रोत्तमशिवोत्तमाः ।

प्। १२३८)

द्विजोत्तमोत्तमाश्चैव शिवश्वेताश्शिवात्मकाः । तेषां
पर्यायनामानि सङ्क्षेपात्कथितानि ते ।

तत्रैव -

अनुशैवास्तु वक्ष्येहं दीक्षिताः ब्राह्मणास्त्विमे । अनुशैवाः
क्रमेणोक्ता अन्त * * श्च ततश्शृणु ।

क्षत्रियाद्यास्त्रयो वर्णा शैवास्तेन्तर सञ्ज्ञकाः ।
आदिशैवानुशैवैर्वा दीक्षासम्पद्यते क्रमात् ।

एवमन्तरशैवानां लक्षणं च समासतः । तेषामन्तर
शैवानामनुशैवागुरुर्भवेत् ।

तेषाञ्चैवानुशैवानामादि शैवोगुरुर्भवेत् । सर्वेषां
गुरुरित्युक्तश्शिवश्वेतश्शिवात्मकः ।

पूर्वं ब्रह्ममुखेष्वेवश्वेत * * समुद्भवः ।
ततश्वेतास्समुत्पन्ना सामान्यश्वेतका स्मृताः ।

शिवसृष्ट्या समुद्भूता ब्रह्मवक्त्र चतुष्टयात् । ये भूमौ
ब्राह्मणा जातास्ते शिवब्राह्मणा स्मृताः ।

शिवसृट्या विनायस्माज्जायन्ते केवलं मुखात् । सामान्य
ब्राह्मणास्तांस्तु दीक्षया प्रापयेच्छिवम् ।

तत्रैव -

ततस्तु दी * * * ष्यान् ब्राह्मणादिक्रमेण तु ।
आचार्यलक्षणोपेतश्शिव सिद्धान्तवत्सुधीः ।

आदिशैवस्सुसंसृष्टस्सरेषाञ्च गुरूत्तमः ।

वीरागमे -

विप्रक्षत्रिय विट्छूद्रा दीक्षिताश्चापि देशिकैः ।

प्। १२३९)

आत्मार्थयजनं कुर्युर्न कर्तव्यं परार्थकम् ।

योगजे -

विप्रक्षत्रियविट्छूद्रा दीक्षिताश्चापिपूजकाः ।
आत्मार्थयजनं कुर्यान्न कुर्यास्तु परार्थकम् ।

सूक्ष्मे -

आत्मार्थञ्च परार्थञ्च द्विविधनं यजनं स्मृतम् । शिवव्रत
द्विजादीनामात्मार्थन्तु प्रशस्यते ।

आर्यदेशोद्भवस्योक्तं शिवद्विजस्य परार्थकम् ।

कारणे -

महा * * * वानुशैवाश्च तथैवान्तर शैवकाः ।
आत्मार्थयजनं कुर्युर्न कुर्युस्तु परार्थकम् ।

सुप्रभेदे -

दीक्षितानां द्विजादीनामात्मार्थमनुलोमिनाम् ।
परार्थमादिशैवानामात्मार्थञ्च समर्चनम् ।

तत्रैव -

अथातस्सम्प्रवक्ष्यामि आचार्यस्य तु लक्षणम् । फलपाकविधिं
ज्ञात्वा शिवभक्तिर्भवेद्यदा ।

प्रवर्तते पुंलसालिङ्ग संस्थापने * * तिः । आचार्यं
पूर्वमन्विच्छेन्मूर्तिपांस्तदन्तरम् ।

आदिशैव कुलोद्भूतः पञ्चगोचरसंस्थितः । सर्वशास्त्रार्थ
तत्वज्ञ शिवज्ञान विशारदः ।

ईदृक्भूतस्तु योविद्वान् स्थापनादीन कारयेत् । स एव स्थापको
वत्स नेतरस्सर्वधा विभोः ।

अनुशैवादिभिर्नैव स्थापनादी न कारयेत् । कर्मिणां
ह्यादिशैवस्य कर्तव्यं स्थापनादिकम् ।

प्। १२४०)

अन्यथा तु कृतेराज्ञस्त्वभिचारकमेव तत् । न तद्ग्राहीत देवेशो
न फलज * * ते यतः ।

तत्रैव -

आदिशैवाङ्गकैर्युक्तान्विधिज्ञान्मन्त्रसंयुतान् ।
शिवव्रतधरान्मुख्यान् शैवदेव विशारतान् ।

शतमष्टोत्तरं वापि आदिशैवान्प्रगृह्य च । स्थापनादि
क्रियास्सर्वास्त्वादिशैवेन कारयेत् ।

दीक्षामाज्ञाञ्च सर्वेषां कारयेद्विधिचोदितः ।

कामिके -

गुरुमूर्तिधरैस्सार्द्धं होमकर्म समारभेत् । पूर्वोक्त
भूषणोपेतस्त्वादिशैव कुलोद्भवः ।

तत्रैव गौरी कल्याणपटले -

शिवद्विज कुलोद्भूतस्समधीत शिवागमः ।
सोष्णीषस्सोत्तरीयश्च धृतस्सर्वाङ्गलक्षणः ।

ध्यात्वोद्धृत्योदकं दन्द्यात् कराभ्यां करकेण च ।

तत्रैव शताभिषेकपटले -

ब्राह्मणं क्षत्रियं वैश्यं शूद्रञ्चैव मयापि वा । अनुलोम
समुद्भूतं विशेषाद्भूपतिन्द्विजाः ।

राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् । तत्तजाति
समुद्भूता स्त्रियं वा शिव विप्रजः ।

पञ्चाङ्ग भूषणोपेतस्त्वभिषेकं समाचरेत् ।

प्। १२४१)

तत्रैव -

स्थात्वा समाप्य सन्ध्या * * कृतनित्यो गुरूत्तमः ।
पञ्चगोचरसञ्जातस्सोष्णीषस्सोत्तरीयकः ।

पञ्चाङ्गभूषणोपेतो दक्षिणाहृष्टमानसः ।

तत्रैव नैमित्तिकपूजापटले -

पर्युक्तं महद्द्रव्यं यागे स्वर्णां वरादिकम् । आचार्यायैव
दातव्यं पञ्चगोचरवर्तिते ।

स्वायम्भुवे -

योगपूजाविधानज्ञश्शिवद्विज कुलोद्भवः । पूजां कृत्वा तु
विधिवन्नटेशस्य विशेषतः ।

सुप्रभेदे -

आचार्य आदिशैवंस्तु सकलीकृत विग्रहः । पुण्याहं
वाचयित्वा तु प्रोक्षयेत्पञ्च गव्यकैः ।

कर्षयेच्छिवमन्त्रेण प्रागुदक् प्रणवान्महीम् ।

कामिके -

यस्य राज्ञोश्शिवज्ञान व्याख्यानं वर्तते द्विजाः ।
तद्राष्ट्रं वर्द्धते नित्यं सनराधिप ऊर्जितः ।

राजराजगुरुत्वेव सेनापत्येन्यकर्मणि । पुरोहितत्वे सर्वस्य
राजकार्यस्य दर्शने ।

शुद्धशैवो भवेद्योग्य स चेत्सान्तानिकेश्वरः ।

तत्रैव -

सृष्टयनन्तकालेये दीक्षिताः कौशिकादयः । शिवेन
तत्कुलोत्मास्युच्छैवास्सान्तानिका द्विजाः ।

सान्तानिकाश्च विज्ञेयास्सर्वाग्राह कामताः ।

प्। १२४२)

चरणाचर्या वृतेर्वा तद्वियुक्तास्तु वा मताः । शिवद्विजकलेन *

वीरतन्त्रे -

शिवद्विजास्तु विप्रेन्द्रा आदिशैवा इति स्मृताः । कौशिकः
काश्यपश्चैव भारद्वाजोनिरेव च ।

गौतमश्चैव पञ्चैते पञ्चवक्त्रेषु दीक्षिताः ।
तेषामृषीणां विप्रेन्द्र जातानाञ्च पुनः पुनः ।

शिवद्विजानान्दीक्षान्तु न कुर्वीत कदाचन ।
मदर्चनार्थन्तेषाञ्च दीक्षाशुध्यर्थमिष्यते ।

कामिके -

उत्सवाद्यङ्गकॢप्तिञ्च देवताषा दानादिकम् । तत्काले
मूललिङ्गादि व्रजनं नित्यहोमकम् ।

अनेक नरनिर्वत्यं कथमेकं करोत्यहो । साधुपृष्टं
महाप्राज्ञस्समधिं कथयाम्यहम् ।

नित्य नैमित्तिके काम्ये यत्कर्मैका लयस्थितम् । एकाचर्यो
कर्तव्यमित साधूदितं मया ।

देशिकस्यास्य पुत्रो वा पौत्रो वा तस्य बान्धवः ।
तददीक्षितास्तदादेशभयाविषाश्च ये नराः ।

आदिशैव कुले जाताः ब्राह्मणा क्षत्रिया विशः । शूद्राये
वानुलोमास्ते गन्धर्वा नर्तकादयः ।

शूद्रकन्याश्च मद्दास्य तदाज्ञा पालका यदि ।
तैरष्यनुष्ठितं कर्म देशिकानुष्ठितं भवेत् ।

प्। १२४३)

सूक्ष्मे -

आदिशैवेन कर्तव्यं प्रतिष्ठा स्थापनादिकम् ।
अनुशैवादयस्सर्वे आत्मार्थविषये क्रमात् ।

समयी पुत्रकश्चैव सायको मूर्तिधारकः ।
गुरोराज्ञावशात्कुर्याद्देशान्तरगतो यदि ।

योगजे -

भवेत् कर्मोत्तरे विस्त आचार्ये * * णे यदि । तस्य पुत्रेण
शिष्येण कर्तव्यं तदनुज्ञया ।

कारणे -

गुरुणा करणस्यैव विरोधे सति तत्र तु । सा क्रियन्तस्य
शिष्येण कर्तव्या तेन शास्त्रतः ।

कामिके -

शिवश्रितस्य तत्प्रोक्त ब्राह्मणस्य शिवागमे । क्षत्रियादि
त्रयाणाञ्च नार्चनन्तु परार्थकम् ।

कामिके -

तस्मात् परार्थमात्मार्थमात्मार्थ स्नपनन्तथा । शिवविप्रेण
कर्तव्यमन्येषां स्वार्थमेव हि ।

परार्थमपि कुर्याच्चेलोपेन नृपतेस्तदा । तद्रष्ट्रस्य
विनाशस्स्यादचिरेण न संशयः ।

वीरतन्त्रे -

आदिशैव कुले जातस्स वै देशिक उच्यते । आदिशैवेन कर्तव्यं
प्रतिष्ठाद्यर्चनान्तकम् ।

अन्यथा कारयेद्यस्तु अभिचाराय चैव हि ।

तत्रैव -

तेषामृषीणां वंशेषु जाताये तु शिवद्विजाः ।
पुनर्दीक्षां न कुर्वन्ति कर्तव्य कर्त * * निष्फला ।

कारणे -

उत्सवं कारयेत् पश्चाद्यावत् सप्तदिनावधि ।

प्। १२४४)

एकाहमुत्सवं वापि कारयेद्देशिकोत्तमः । आरम्भादन्तमेवन्तु
एकदेशिकता भवेत् ।

आचार्यस्य अभावे तु मूर्तिपेन तु कारयेत् । यागोपकरणं सर्वं
देशिकाय प्रदापयेत् ।

अन्यत्र -

आदिशैवान्यथोद्भूतश्शिव दीक्षाभिषिक्तकः ।
पञ्चगोचरसम्भूतश्शैवानुष्ठान तत्परः ।

ईदृशं गुरुमासाद्य प्रणयेत्स्थापनादिकम् ।
मूर्तिपास्तादृशाः प्रोक्ताश्चानयेद्धोमकर्मणि ।

कामिके -

सिद्धान्तशास्त्रतश्चैव शिवविप्रैर्यथा क्रमम् ।
शास्त्रान्तरैश्चयत्स्थाप्यं लिङ्गं तदुभयात्मकम् ।

पूजनीयं नृपग्राम यजमानाभिवृद्धये । शैवस्सर्वाधिकारी
स्यात् स्वकीये च परत्र च ।

शैवास्सर्वेषु कुर्वन्तिये गृहस्था द्विजोत्तमाः ।

यामेले मन्त्रतन्त्रे च कापाले पाञ्चरात्रके

बद्धे वाचार्हते चैव लागुडे वैदिकेपि च । अन्येष्वपि च मार्गेषु
तत्तच्छास्त्रोक्तमार्गतः ।

शैवाः कुर्वन्ति दीक्षाद्यं तल्लिङ्ग स्थापनादिकम् ।

तदेवं सान्तानिक शिवद्विजास्सर्ववर्णपूज्यानां
ब्राह्मणानां सर्वाश्रम पूज्यानां सन्यासिनामपि पूज्या इति
शिवागमपुराणेषु श्रवणात् ।

प्। १२४५)

तदुक्तं मकुटोत्तरे -

कृतबुद्धीव कर्तारस्तेभ्यस्स न्यासिनोधिकाः । सन्यासिभ्यो
महाश्रेष्ठास्तेषु शङ्करपूजकाः ।

सन्यासिभ्यो महद्भयोपि श्रेष्ठश्शङ्करपूजक इति प्रोक्त
पञ्चर्षिगोत्रसम्भव सान्तानिक विशेष शिवद्विज
व्यतिरिक्तास्सामान्य विप्रसङ्कर शिवद्विजास्सम्भवन्तीति क्वचित्
पुराणान्तरादिके ज्ञेयम् । तदित्थं शिवद्विजमाहात्म्य प्रसङ्क्त
प्रसङ्गेन शिवद्विजव्यतिरिक्तानां शिवदीक्षितानां महाशैव
ब्राह्मणादीनामदीक्षितानां ब्राह्मणानाञ्च परार्थ
पूजानिषेध वचनानि प्रदर्शितानि । तथापि क्वचित्
सुप्रभेदाजितागमादिके कथञ्चिद्भक्ति प्रकर्षाकृष्टविधे
शिवदीक्षितानां महाशैवानां परार्थपूजा प्रतिपादिता ।
यथा सुप्रभेदे ।

दीक्षया प्रापिता यस्मादनुशैवास्तु कीर्तिता ।

इत्युपक्रम्य स्वाम्यर्थं वाथ परार्थं वा पूजयेत्तु
विशेषतः ।

अजिते -

शिवाश्रितस्य तत्प्रोक्तं ब्राह्मणस्य शिवागमे । क्षत्रियादि
त्रयाणाञ्च नार्चनन्तु परार्थकम् ।

हालास्यमाहात्म्ये -

दीक्षा विहीना विप्राश्च महालिङ्गस्य तस्य तु ।
अर्चनायामनर्हाश्च क्षत्रियाश्चापि दीक्षिताः ।

ते सर्वे कारयामासुरन्यैरन्यैस्तु भूसुरैः ।

प्। १२४६)

अन्यत्र -

तन्मध्ये वै पुनर्दीक्षा शैवमासाद्य पूजकाः ।
कर्तुमात्मपरार्थन्ते पूजामर्हन्ति वै द्विजा इति ।

ततो यमत्र विवेकः वैदिकी शैवी चेति पूजा द्वेधा ।

तत्र शैवी परार्थपूजा वैदिकेषूक्ता यद्यपि प्रोक्त प्रकारेण
परिपाक दीक्षामुमुक्षु विषयाप्यर्चनाङ्ग शिवदीक्षितानामेव
महर्षि महाशैवानां केवलं वैदिकी परार्थ पूजा च ।
केवलं वैदिकानां बोधायन सूत्रोक्त प्रकारेण कर्तव्या ।
यद्यपि शिवागमोक्त शिवदीक्षा विधुरत्वेनदीक्षितानां
वैदिकपाशुपतादिषूक्त प्रकारेण कथञ्चिच्छिवदीक्षितानामेव
सर्वथा ना दीक्षितानां कर्षणादि प्रतिष्ठान्तोत्सवादि
प्रायश्चित्तान्तकर्मणां शिवागम सापेक्षत्वेना दीक्षितानां
शिवागमेनाधिकारात् । तत्सापेक्षत्वञ्च वेदोपब्रंहणे
सूतसंहितादिपुराणे प्रोक्तम् ।

आगमेनैव शास्त्रेण प्रोक्तलक्षणलक्षितम् । आदाय
श्रद्धयाविप्राश्शिवलिङ्गं समाहिताः ।

ब्रह्मोत्तरखण्डे -

आगमोक्तेन विधिना पीठमामन्त्रयेत्सुधीः ।

स्मृतौ च -

केचिद्वेदविदश्चापि तान्त्रिकेणाध्वना सुरान् । अभ्यर्च्य
सिद्धिमायान्ति काङ्क्षितश्च ततः फलम् ।

तथैव वैदिक परार्थमीमांसायां श्रीमदापदुद्धारण

प्। १२४७)

दीक्षितैरपि शिवागम शिवदीक्षा सापेक्षत्वं साधितम् ।
प्रधान प्रकृष्टकर्माधिकारिभिस्साकल्येन प्रवृत्ते
सत्यप्रधानेन तथा भूतं कर्म न कार्यं तथा कृतं कर्म
प्रोक्त सर्वदोष कृत्तथा मीमांसा न्यायाच्च पूजासु
शिवतान्त्रिकी पूजा मुख्या तत्र मुख्याधिकारिणां शिव
ब्राह्मणानामभावे वैदिकेन वैदिकीं शिवपूजां कथं
चिद्राजा कारयेत् । वैदिकपरार्थपूजा प्रकारश्च पौराणिकः
प्रोल्लिख्यते । कलिदोषेण मर्त्यानां महामोहो भविष्यति ।

वेदमार्गी रतिश्शुद्धा न भविष्यति सर्वथा । वेदबाह्येषु
मार्गेषु श्रद्धां कुर्वन्ति सन्ततम् ।

अल्पायुषो भविष्यन्ति दरिद्राश्च विशेषतः । आधिव्याध्यस्त्र
शस्त्राद्यैर्व्याघ्र चोरादिभिस्तथा ।

पीडीताश्च भविष्यन्ति भूतप्रेतादिभिस्तथा ।
त्यक्तवर्णाश्रमाचारानष्टोपाद्य विशेषतः ।

भूयो भूयो भविष्यन्ति विवशात्सर्व योनिषु । मुमुक्तलक्षणं
साम्बं राजराष्ट्र विवर्द्धये ।

प्रतिष्ठाप्य नदीतीरे प्रणवेनैव केवलम् ।
गन्धपुष्पादिर्दिव्यैस्सर्वभौमो भवेद्ध्रुवम् ।

विचित्रमालयं कुर्यात् प्राकारैर्गोपुरैर्युतम् ।
नृत्तगीतादिकन्दद्यात्त्रिसन्त्यं शुद्धमोदनम् ।

प्। १२४८)

षण्मुखं वायुकोणे च नैर्-ऋते च विनायकम् ।
स्थापयित्वार्चयेन्नित्यं राजराष्ट्राभिवृद्धये ।

द्विजैराराधनं कार्यं राजराष्ट्राभिवृद्धये ।
राजाविजयमाप्नोति तत्रैव मम पूजनात् ।

आयुरारोग्यसम्पन्नो भवेन्मुक्तो भविष्यति । शत्रवश्च
विनश्यन्ति देव राज्ञो न संशयः ।

धनधान्य समृद्धं स्याद्राष्ट्रं सर्वत्र सर्वदा । काले
कालेभिवृद्धि स्यात् सर्वत्र मम पूजया ।

वर्णाश्रम समाचार निरतास्सर्वमानवाः । भविष्यन्ति न
सन्देहस्तत्र मामर्चयेत्तत इति ।

तदेवं शिवब्राह्मण व्यतिरिक्त ब्राह्मणानामपि कथञ्चित्
परार्थपूजा भाषितेपि गौण वृत्येति मन्तव्या । इत्यन्य
शैवाचार्य माहात्म्यं समाप्तम् ।

॥ अथ चतुर्वण शैवाचार्य विधिरुच्यते ॥

तदुक्तं शैव पुराणे -

शिवशास्त्र समायुक्ताः पशुशास्त्र पराङ्मुखाः ।
ब्राह्मणादि चतुर्वर्णा आचार्यास्तु प्रकीर्तिताः ।

कामिके -

स्वार्थेष्टौ चललिङ्गस्य प्रतिष्ठायान्त्रयस्त्विमे । शूद्रोपि
शूद्रदीक्षाया स्वार्थे च चलसञ्ज्ञक इति ।

प्। १२४९)

सुप्रभेदे -

ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्शुद्धकुलोद्भवाः ।
आचार्यास्ते तु विज्ञेया नान्येषां तु कदाचनेति तत्रैव
जातिनिर्णये -

ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्चैव प्रकीर्तिताः ।
एतेषाञ्चातुर्वर्णानामाचार्यत्वं नियोजयेदिति ।

सर्वज्ञानोत्तरे -

ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्शुद्धास्तु साधकाः ।
स्ववर्णादानु पूर्व्येण आचार्यश्च षडाननेति ।

चिन्त्ये -

विप्रादिषु चतुर्ष्वेवमनुलोमादिषट्सु च । एतेषां
दशजातीनाम् आचार्यत्वं विधीयत इति ।

पराख्ये -

सर्ववर्णानतो विप्रः क्षत्रियं स्त्रितयं गुरुः । वैश्यशूद्रो
द्वयञ्चैकन्दीक्षयेद दृक्क्रियार्थवित् ।

ब्राह्मणस्सर्व जातीनां सदानुग्राहक स्मृतः । स्वजाति
पूर्वमाचार्यास्त्रयश्शेषा नृपादय इति ।

तथा षट्सहस्रिकायाम् -

चतुर्णामपि वर्णानामाचार्यत्वमिहोदितम् । सर्वेषाञ्चैव
वर्णाना द्विजोनुग्राहकृन्मतः ।

त्रयाणाक्षत्रियो द्वाभ्यां वैश्यश्शूद्रस्वयोनि जे ।

प्। १२५०)

एवञ्चानुग्रहकार्यश्चतुर्भिरपि दैशिकैरिति ।

किरणे - गरुडः -

मध्ये वर्ण चतुष्कस्य गुरुत्वं कस्यचिद्वद ।

ईश्वरः -

चतुर्णामपि वर्णानामाचार्यत्वमिहोदितम् । ब्राह्मणादि
चतुष्कस्य द्विजोनुग्राहकृन्मतः ।

त्रयाणां क्षत्रियोद्वाभ्यां वैश्यश्शूद्रस्वयोनिज इति ।

पुनः कामिके च -

नित्यादित्रितयं कार्यं चतुर्भिस्थ चारत * * । वैश्वदेवं
तथा सन्ध्यां शूद्रस्त्यक्त्वात्म मयीमयीमिति ।

कालोत्तरे -

अभिषिक्तोयमेवं हि ब्राह्मणः क्षत्रियोऽथवा । वश्यो वाप्यथ
शूद्रो वा प्रतिष्ठाद्यविकारिणः ।

ननु चतुर्थ विषय गुरुत्व
प्रतिपादकप्रदर्शबन्व?नानान्नैष्ठिक शूद्रवियत्वमस्तु न तु
गृहस्थ विषयत्वम् ।

तदुक्तं कामिके -

शूद्रोपि शूद्रदीक्षायां स्वार्थे च चलसञ्ज्ञके ।
बाणलिङ्गेक्षणे वापि स्थापकादि नैष्ठिकः ।

शूद्रस्यापि गृहस्थस्य नित्येष्टावेव योग्यता ।
अभिषेकेप्ययोग्योयं किं पुनस्थापनादिष्विति ।

सत्यं श्रोतुरभिप्रेताधीनमिदं वचनमकाचित्कम् ।

प्। १२५१)

अन्यथापि भूयासामिति न्याया दपार्थकमेव । तथा च
वाक्यविदः । विप्रतिषिद्धमसमवाये भूयासं स्यात् ।
सधर्मकः लौकिके -

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कु * * जेत् । ग्रामं
जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेदित्यादि पुराण
विप्रतिपत्ति परिहारे तत्र भवता स्कान्दरातेनप्युक्तोयं न्यायः
। आर्षेण वा विप्रतिषिद्धम्मार्यं संयुक्तेन नेतव्यं
युज्यमानं नेतव्यमल्पां बहुना तथैव सतां प्रवृत्या पृथक्
न चान्यदिति । शूद्रगृहस्थानां गुरुत्वं सिद्धमेव
नैष्ठिकस्त्वधमो ज्ञेय इत्यादि नैष्ठिकस्याधमत्व
वचनमप्युक्तन्यायेन परिहरणीयः । तदुक्तं पराख्ये -

गृहस्थस्सर्व वर्णेषु श्रेष्ठो गुरुरुदाहृतः ।
नैष्ठिकस्त्वधमो ज्ञेयो भौतिकस्तु विशेषत इति

कालोत्तरे -

चतुर्णामपि वर्णानालिङ्गिनां गृहिणामपि । आचार्यत्वं
शिवेनास्मिन् सिद्धान्ते प्रतिपादितमिति ।

उत्तरकामिके -

चातुर्वर्ण गृहस्थानामाचार्यत्वं विशेषतः । अथवा
ब्रह्मचारीणामाचार्यत्वं विशेषत इति ।

षट्सहस्रिकायाम् -

प्। १२५२)

शृणु षण्मुख तत्वेन भोगमोक्षौ यथा स्थितौ ।
ब्रह्मचारीगृहस्थश्च द्विविधो देशिकोत्तमः ।

दीक्षा प्रतिष्ठयोरेतौ उभावप्यधिकारिणौ । किन्तु मोक्षैक
युक्तानां विभूति विमुखात्मनाम् ।

ब्रह्मचारिगुरुर्ज्ञेयो गृहस्थश्चोभयात्मनाम् ।
गृहस्थादितरेषान्तु नास्ति भोगाधिकारिता ।

तस्माद्गृही गुरुः कार्यो भोगमोक्षोभयाथिभिरिति ।

तथा सन्ताने -

गृहस्थश्चोत्तमो विद्या ब्रह्मचार्यधमो भवेदिति ।

सुप्रभेदे - गृहस्थ श्चोत्तमो ज्ञेयो भौतिक ब्रह्मचार्यपि । त * *
तन्त्रे -

गृहस्थमुत्तमं विद्यादथवा ब्रह्मचारिणाम् । सान्तानिक गृही
श्रेष्ठो गृहस्थस्तदभावतः ।

भौदिको ब्रह्मचारी वा देशिको गृहमेधिनाम् । नैष्ठिको
नैष्ठिकेषुस्स्याद्भुक्तौ मुक्तौ क्रमात्मत इति ।

किरणे -

सान्तानिको गुरुः प्रोक्तो गृहस्थो देशिकोत्तमः ।
गृहस्थञ्चोत्तमं विद्यात् अथवा ब्रह्मचारिणम् ।

गृहस्थो देशिकश्रेष्ठो * * दय मोक्ष प्रसिद्धय इति

कामिके -

सृष्ट्यनन्तरकाले ये दीक्षिता कौशिकादयः ।

प्। १२५२)

शिवेन तत्कुलोर्थास्युश्शिवास्सान्तानिका द्विजाः । सान्तानिक
गुरुश्रेष्ठो गृहस्थस्तदभावतः ।

भौतिको ब्रह्मचारी वा देशिको गृहमेन्व? । नैष्ठिको
नैष्ठिकेषु स्याद्भुक्तिमुक्ति क्रमान्मतः ।

भुक्तिमुक्ति प्रसिध्यर्थं गृहस्थो गुरुरुच्यते ।

तत्रैव -

महापुरस्य सौम्यायामभिषिञ्चेद्विजानथ । पूर्वायां
क्षत्रियान्ब्रह्म वैश्यान्दिशि यमस्य तु ।

शूद्रास्तु पश्चिमाशायां सर्वान्वा * * स्थितानिति ।
सर्वलक्षण हीनोपि ज्ञानवान्गुरुरिष्यते ।

वर्णावर्ण विचारोयस्सनरः पातकी भवेदिति ।

॥ इति चातुर्वर्ण्य शैवमाहात्म्यं समाप्तम् ॥

॥ चातुर्वर्ण सन्यासविधिः ॥

चिन्त्यविश्वे -

यतयः त्रिविधा ज्ञेयास्तपस्वी विदुषस्तथा विद्वानिति त्रिधा
प्रोक्ता तेषां लक्षणमुच्यते ।

तपोनिष्ठस्तपस्वीति तस्य वृत्तिस्तु सुव्रत । नाध्येतव्यं न
सङ्कल्पो न श्रोतव्यं कदाचन ।

शिष्याणां सङ्ग्रहञ्चैव नैव विद्या प्रकाशकः । न
वदेत्संस्कृतां भाषां न दण्डी न कमण्डलुः ।

प्। १२५४)

लिङ्गमक्षकमभ्यर्च्य भक्तिमात्रेण संयुतः । एकाकी
वृक्षमूले वा वने वा जनवर्जिते ।

जनाद्भीति समायुक्तो वसेत्बाहूपयानकः । सनं येन केनापि
तथैवाशन पानकम् ।

पाणिपात्रोदरो पानो याचितान्नेन जीवनम् । इत्युक्तस्तु तपस्वी
स्यात् साधको याति नामवान् ।

विदुषोश्च यतेर्वापि वर्तनं नदिकेश्वर ।
अध्यापनञ्चाध्ययनं श्रवणं चिन्तनं तथा ।

एतच्चतुष्ट्यं तस्य विदुषोश्च विशेषतः । विद्वद्यतेर्विशेषोस्ति
व्याख्यानं चिन्तनं भवेत् ।

सदाचार्याभिषेकेण युक्तो विद्वत् समारण्यकः । यतीनां
त्रिविधं प्रोक्तं शैवानाञ्चतुराश्रमे ।

आशूद्राणाञ्च भेदोस्ति निष्ठा भेदो न विद्यते । *र्कद्वयं
फलं भुङ्क्ते मोक्षस्साधारणस्तयोः ।

सूतसंहितायां किरणादिके च भङ्ग्यन्तरेण नामा निवृत्तानि
खननदहन व्यवस्कादीनि च द्रष्टव्यानि । सुप्रभेदे -

ब्राह्मणादि चतुर्वर्णाः काश्यपादि समुद्भवाः । परमेश
प्रसादेन अधिकारे नियोजिताः ।

शेचरा गोत्रसूत्रञ्च सङ्क्षेपेण वदाम्यहम् । गोचरं
शिवचिह्नं हि गोत्र स्म मुनिवर्गकम् ।

प्। १२५५)

सूत्रमाचारमेवं हि शैवानामुच्यते क्रमात् । शिश्शिखा तथा
ज्योतिस्साविती चेति गोचराः ।

एतच्चतुर्थ नामानि शैवानां शिवशासने । गोचरमित्यु * * *
तच्चिन्हं च चतुर्विधम् ।

काश्यपः कौशिकश्चैव भरद्वाजोथ गौतमः । एते चतुर्विधा
ज्ञेया सम्प्रोक्ता मुनास्तिह ।

व्रतं हि द्विविधं प्रोक्तं सामान्यञ्च विशेषतः । ब्रह्मचारी
गृहस्थश्च वानप्रस्थोथ भिक्षुकः ।

चतुराश्रम एवं हि सामान्य विधि चोदितम् । चतुर्णां
गोचराणां तु सममेतच्छिवागममिति

कालोत्तरे च -

शिवश्शिखा तथा ज्योतिस्सावित्रीति चतुष्टयम् । शैवं कुलं
शिवाज्जातं शक्तेर्जातं शिखाकुलम् ।

बिन्दोज्योतिष्कुलं जातं नादात्सवित्रमेव च । दीक्षा काम्ये यदा
मन्त्रो लीयते च शिवादिषु ।

तत्तद्वारवशाज्जातं क्रमात्कुल चतुष्टयम् । क्रमामेतत्तु
विज्ञेयं ब्राह्मणादि चतुष्टयम् ।

शुद्ध कात्युदये नश्येत् प्राकृतं यत्कुलस्थितम् ।

कृतयुगे ब्रह्मण सन्यासी श्रेष्ठः त्रेतायुगे क्षत्रिय सन्यसी
श्रेष्ठः द्वापरयुगे वैश्य सन्यासी श्रेष्ठः । कलियुगे
शूद्रसन्यसी

प्। १८५६)

श्रेष्ठः इत्यादिकं ब्रह्मण्डपुराणादिके
विद्यमानन्द्रष्टव्यम् ।

ननु सर्वज्ञानोत्तरे -

द्वावे वाश्रमिणौ शैवे गृहस्थ ब्रह्मचारिणौ ।
लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि ।

कालोत्तरे -

वानप्रस्थातीनान्तु गुरुत्वन्नेष्यते सदा ।

सुप्रभेदे -

भावद्रव्याग्नि सन्त्यागाद्येते सन्यासीनो यदा । दीक्षा
स्थापनयोप्तस्मादेते नैवाधिकारिण इत्यादि निषेधवचनात्
कथं कथयन्ति सन्यासिनां मृगत्वमिति चेत् सत्यम्
आणवीनामणिमादीक्षां विना शाक्तीशाम्भ दीक्षाद्विविधा
तस्यां ज्ञानवती दीक्षायां कथाचित् क्वचित्कं गुरुत्वमस्त्येव
। तदुक्तं सन्यासदीपिकायां परहंस यतीनां च
तपस्सन्यासिनाञ्च यौ - अनयोरग्निकार्येषु योग्यत्वन्नविधीयते
होमं विना तयोरेवमभिषेकं विधीयते इति शैवसन्यास
विधिस्समाप्तः ॥ शिवपूजाविधिः ॥

रौरवे -

श्वेतवर्णं भवेद्विप्रो क्षत्रिये रक्तवर्णकम् । पीतवर्णं
भवेद्वैश्ये कृष्णवर्णन्तु रीयके ।

सारे -

श्वेतं रक्तं तथा पीतं कृष्णवर्णं चतुर्विधम् ।
भूसुरादिपतुर्णान्तु वर्णानां लिङ्गकं क्रमात् ।

अथवा कृष्णवर्णं तत् सर्वजात्यर्हकं भवेत् ।

प्। १२५७)

कालोत्तरे -

अभावात्कृष्णवर्णन्तु सर्वजातिषु सिद्धिदम् ।

तत्रैव -

सर्वार्थसिद्धिदं कृष्णं चतुर्वर्ण हितावहम् ।
सर्वेषामथवाश्चेत बाणलिङ्गं विमुक्तिदम् ।

सूक्ष्मे -

ब्राह्मणस्य तु वस्वश्रु क्षत्रियस्य षडश्रकम् । वैश्यस्य
चतुरश्रं स्यात् शूद्रस्यैव तु वृत्तकम् ।

सर्वजातिषु कर्तव्यं पीठं वृत्तं विचक्षणः ।

विद्यासारसंहितायाम् -

रसलिङ्गं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् ।
रक्तलिङ्गं क्षत्रियाणां महाराज्यप्रदं भवेत् ।

स्वर्णलिङ्गन्तु वैश्यानां महाधनपति प्रदम् । शिलालिङ्गन्तु
शूद्राणां बृहदैश्वर्यदं विदुः ।

स्फटिकं बाणलिङ्गञ्च सर्वेषां सर्वकामदम् । स्त्रीणान्तु
पार्थिवं लिङ्गं सभर्तॄणां विशेषतः ।

विधवानां निवृत्तानां रसलिङ्गाद्यनुक्रमम् । बाले वा यौवने
वाथ पार्थके वाथ सुव्रताः ।

शुद्धस्फटिकलिङ्गन्तु स्त्रीणां वै सद्यतो गतम् ।

अंशुमति -

विप्रक्षत्रिय वैश्याश्च शूद्राश्चैव तु दीक्षिताः ।
आत्मार्थमर्चनम् कुर्युर्न कुर्युस्तु परार्थकम् ।

प्। १२५८)

चातुर्वर्णोद्भवस्त्रीणामर्चनञ्च विशेषत इति
शिवपूजाविधिकारविधिस्समाप्तः ॥

शिवादि निन्दा दोष प्रवृत्तिनि पादक दोषवचनम् ।

षुप्रभेदे ज्ञानपादे -

देव द्रव्यापहारञ्च शिवशास्त्रविदूषकः । पितृधातश्च
ब्रह्मघ्न एवमाद्यस्त्वनेकशः ।

यातना स्थानमाश्रित्य पतन्ति नरकार्णवे ।

उपदेशकाण्डे -

एताष्षडपि शम्भ्वादीन् शिव स्नानान्यपि द्विपाः ।
वेदान्विभूतिरुद्राक्षमागमानपि शकरान् ।

तथा शिवपुराणानि शिवसम्बन्धकान् परान् विनिन्दयति
मूढात्मा शिवमो हि स ईरितः । विनिन्दकस्य निकटे वर्तनं
श्रवणं तथा । वीक्षणं स्पर्शनं तस्य तेन
सम्भाषणं तथा ।

तद्वाक्य श्रवणन्तद्वच्छिव द्रोहस्स ईरितः ।

ब्रह्माण्डादि सकलपुराणसारे रूपाक्षमाहात्म्ये पूर्वभागे -

शिवशास्त्रं शिवाचारं शिवमन्त्रं शिवोच्चयम् । शिवलोकं
शिवज्ञानं शिवध्यानं शिवार्चनम् ।

शिवशक्तिं शिवस्तोत्रं शिवक्षेत्रं शिवागमम् । लघुकुर्वन्ति
ये पापास्तान्निबीडतानिशम् ।

शैवं पाशुपतं कालामुखं कापाल धारिणम् ।

प्। १२५९)

यदि हन्याज्जगत्सर्वं हतं तेन दुरात्मना ।

स्कान्देक शिखण्डे विष्णुं प्रति शिववचनम् -

ममाश्रम रताश्चान्ये ये निन्दन्ति नराधमाः । ब्राह्मणादि
चतुर्वर्णाच्छिवास्त्र कवचान्वितान् ।

पाषण्डास्ते सुरश्रेष्ठ भविष्यन्ति न संशयः ।
तेषान्तप्तं हुतं जप्तं स्नानं ध्यानादि पूजनम् ।

भस्मनीव हुतं हव्यं सर्वं भवति निष्फलम् । ममाश्रमरता
द्वेष्टि यस्समाद्वेष्टिमाधव ।

ममाश्रमरतां स्तौति यस्समां स्तौति निर्मलम् । चान्यथा
करिष्यन्ति त्वं मायामूढ ब्रह्मेद्रार्कादि देवताः ।

समर्थास्युः परित्राणे पातुकान्नरकार्णवे ।

स्वच्छन्दे -

ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्चान्येथवा प्रिये । सर्वे
ते समधर्माणश्शिवधाम नियोजिताः ।

सर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः । एक
पङ्क्तिभुजस्सर्वे * * * वतु वरानने ।

मन्त्रमेतत्समाहृत्य प्राक्जातिं न ह्यदीरयेत् । पुत्रकाणां
साधकानां तथा समयिनामपि ।

प्राक्जात्युदीरणाद्देव प्रायश्चित्तीतरोऽभवत् । दिनत्रयन्तु
रुद्रस्य पञ्चाहं केशवस्य तु ।

प्। १२६०)

पितामहस्य पक्षैकं नरके पच्यते तु सः । ब्राह्मणाः
क्षत्रिया वैश्या शूद्राश्च परमेश्वरी ।

आश्रमत्वे रहश्च ते सर्वे तु शिवा स्थिताः । अन्यथा
प्राक्स्वरूपेण ये पश्यन्ति नराधमाः ।

नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयम् ।

काशीखण्डे -

शिवनिन्दारतो मूढश्शिवशास्त्र विनिन्दकः । तस्य नो
निष्कृत्यर्द्दष्ट्वा क्वचित् शास्त्रेपि

केनचित् सूतसंहितायाञ्च -

अस्ति चेद्ब्रह्मविज्ञानं स्त्रियो वाथ पुरुषस्य वा । वर्णाश्रमा
समाचारास्तस्य नास्त्येव सर्वदा ।

न विज्ञायात्मविज्ञानं सवर्णाश्रममास्तिकाः । जहाति
यस्समूढात्मा * * शस इति मनुस्मृतौत्रिपुण्ड्र
भस्मनाधार्यं नित्यमेव द्विजादिभिः ।

वृद्धाचल माहात्म्ये च -

स्थाने वा जपहोम तिथौ देवार्चना तयोर्दीक्षा श्राद्धकयोः
कृतौ सभयितो रुद्राक्षमालाधरः । आयुः कर्म च वैदिकञ्च
सकलं स्यादक्षयन्तत् फलमन्ना चेद्व्यर्थमिदं भवत्ययमहो
वापोनवद्यो भवेदिति ।

प्। १२६१)

अंशुमति -

त्रिपुण्ड्रेण विनाश्राद्ध त्रिपुण्ड्रेण विनाहुतिः ।
त्रिपुण्ड्रेण विनादानं राक्षसं तत्प्रकीर्तितमिति ।

अतश्शिवागमप्रोक्त विशेषा चारतत्पराः । नराः श्रेयांसि
भूयांसि विन्दन्तीति निश्चितम् ॥

इति श्रीशालीवाटिपुरनिवासि ज्ञानप्रकाशगुरुविरचित
शिवागमादिमाहात्म्य सङ्ग्रहस्समाप्तः ॥