प्रासादचन्द्रिका

विस्तारः (द्रष्टुं नोद्यम्)

Based on excerpts from the Suprabhedāgama and the Svāmbhuva it deals with a series of yoga ascents the stations of which are variously marked.

॥ प्रासादचन्द्रिका ॥

त्रिशून्यम् शून्यात् परं योजयथामशैवम् ।

शून्यं तावत् समाख्यातं सामरस्यं निबोध मे ।
आत्मन्ये * * * * * * त्रो ज्ञेयो द्वितीयकम् ॥ १ ॥

तृतीयं नाडिसंस्थं तु शक्तौ कुर्याच्चतुर्थकम् ।
पञ्चमं व्यापिने स्थाने समनायां तु षष्ठकम् ॥ २ ॥

तत्वे समरसो देव सप्तमं तु विधीयते ।
शिष्यात्मान ह्य पूर्वोक्तविधिना क्रमात् ॥ ३ ॥

पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेत् ।
पूरकं कुम्भकं कृत्वा समानेन निरोधयेत् ॥ ४ ॥

यावत्यो नाडयो देहे तिर्यगूर्ध्वमध * * ।
समानेन समाकृष्टमेकी भूता भवन्ति ताः ॥ ५ ॥

तासु वै वायवस्तेऽपि प्राणेन समरसङ्गताः ।
नाड्यस्तु सुषुम्नायाम् एकीभूता व्यवस्थिताः ॥ ६ ॥

प्। २)

ततो वै उच्चरेन्मन्त्रं ना * * * * चिन्तयेत् ।
मन्त्रमात्मा तथा नाडिरेवं समरसं भवेत् ॥ ७ ॥

वामदक्षिणऊर्ध्वे तु ततो नाडिं प्रमोचयेत् ।
सेतुबन्धेन यन्मार्गं तत्र गत्वा न जायते ॥ ८ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एतेऽत्र समतां यान्ति तन्मयात पृथक् पृथक् ॥ ९ ॥

तस्मिन् समुच्चरेन्नादो यावच्छक्तौ लयङ्गतः ।
शक्तिमध्यगतो नोडेश्शक्त्या ता * * * यते ॥ १० ॥

सर्वं शक्तिमयान् तत्र सर्वं समरसं भवेत् ।
तदूर्ध्वं व्यापिनीं व्याप्य सर्वं तन्मयतां व्रजेत् ॥ ११ ॥

समन्ताद् व्यप्नवेद् यस्मात् व्यापिनीत्यभिधीयते ।

सा च सर्वगता ज्ञेया सामरस्येन संस्थिता ।
षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेत् ॥ १३ ॥

तं मा * * * * * * भवत्यपि विचारणात् ।
स च सर्वेषु भूतेषु भाव तत्वेन्द्रियेषु च ॥ १४ ॥

स्थावरे जङ्गमे चैव चेतना चेतने स्थितः ।
ऊर्ध्वा न व्याप्य सर्वं तु सामरस्येन संस्थितः ॥ १५ ॥

प्रनह * * * * * * निनामपि यो मनः ।
यस्याज्ञा समयोभावस्थिरः पूर्णसमं ततः ॥ १६ ॥

प्। ३)

एवं समरसः प्रोक्तो विषुवं तु निबोधते ।
प्रथमं प्राणविषुवं मन्त्रो ज्ञेयं मन्त्रो * कम् ॥ १७ ॥

तृतीयं नाडिविषुवं प्रशान्तं च चतुर्थकम् ।
पञ्चमं शक्तिविषुवं षष्ठं वैकल्यमुच्यते ॥ १८ ॥

सप्तमं तत्वविषुवं प्रविभागस्त्वथोच्यते ।
आत्मानं च मनः प्राणैस्संयोज्य विषुवम् ॥ १९ ॥

मन्त्रमुच्चारयेद् यावत्तावन्नान्यमना भवेत् ॥ २० ॥

परापरविभागेन मन्त्रात्मानं तदुच्यते ।
मन्त्रं विषुवमि * * * * * स्थानं निबोधते ॥ २१ ॥

सर्वासामेव नाडीनां मध्ये यां संव्यवस्थिता ।
सुषुम्ना नाम सा ज्ञेया नाडीशक्त्या शिवं गता ॥ २२ ॥

तत्र प्रवाहयेन्नादं नाडी विष * * * * ।

प्राणेन तु समुच्चार्य कारणान्यङ्गुलेङ्गुले ।
तान्यवस्थात्परित्यज्य कारणानि षडेव तु ॥ २४ ॥

सप्तमे * * * * * प्रशान्तेन्द्रियगोचरम् ।
प्रशान्तस्तमितो ज्ञेयोस्तिमिते निश्चलस्स्मृतः ॥ २५ ॥

निश्चलो निस्तरङ्गश्च स्थिरपूर्णस्समं ततः ।
एवं भवं स (मा) स्थाय देशा * * * * * * ॥ २६ ॥

प्। ४)

एतत्प्रशान्तविषुवं शक्त्युपाधिर्निबोधमे ।
शक्तिमध्ये गतो नादः तदूर्ध्वं केचरेद्यदा ॥ २७ ॥

तावत्तच्छक्ति विषुवं कालाख्यं तु निबोधमे ।
तृट षोडशिकाया तु प्राण * * * * * ॥ २८ ॥

कालो भ्रूक्षेपमात्रस्तु तन्त्रान्ते कथितो मया ।
परापर विभावेन पुनरेव त्रिधा कुरु ॥ २९ ॥

अपरष्षोडशी यावत् कालस्सप्तदशः परः ।
परापरस्तु यत्कालः सुप्रिय * * * * प्रभुः ॥ ३० ॥

प्राणमेकं त्रिधाकालं कृत्वा चैवं यजेत्पुनः ।
अपरश्शशिमूर्ध्वस्थो व्यापिन्यां तु द्वितीयकः ॥ ३१ ॥

तृतीयं समनास्थाने कालो विषुवमुच्यते ।

उन्मना परिता देवि तत्रात्मानं नियोजयेत् ।
तस्मिन्युक्तस्ततो ह्यात्म तन्मयं च प्रजायते ॥ ३३ ॥

तत्वाख्यं वि * * * वि सर्वेषां परत स्थितः ।
विषुवं न्यैवं विधं ज्ञात्वा को न मुच्येत बन्धनात् ॥ ३४ ॥

एवं विषुवमाख्यातं योजना च तथोच्यते ।
मन्त्रभावक्रिया * योजनायेतु परे शिवे ॥ ३५ ॥

विद्यातत्वास्पदं बुध्वा बिन्दुतत्वासने स्थितः ।
नादशक्तितनुश्चैव व्यापिनीकरणान्वितः ॥ ३६ ॥

सर्वं ज्ञात्वावबोधेन समनान्तं चरेस्तु सः ।

अध्वातीतं परं प्रोक्तं परं चाध्वमध्यमेध्यगम् ।
पूर्णाहुत्या रसोपेत पशुं योजयते परे ॥ ३८ ॥

ऊर्ध्वं * * * वस्सह समपादो व्यवस्थितः ।
नाभिस्थाने सृजेन्मूलं मुखेनाग्रमुखं समम् ॥ ३९ ॥

सृचोपरि सृचं देवी क्रित्वा चैव मधोमुखम् ।
पुष्पं दत्वा सृवाले तु दर्भेन सहितौ करौ ॥ ४० ॥

म * * * * हस्ताभ्यां गृहीत्वा यत्नतोऽपि च ।
मुखाग्रे दक्षिणं हस्तं वामं वै पृष्ठतः प्रिये ॥ ४१ ॥

मुष्टिभ्यां सङ्गृहीत्वा तु उत्थानकरयोगतः ।
ततो तेन सम्प्राप्य अभिमानं तु कार * * ॥ ४२ ॥

तत्वमेकं हि सर्वत्र नान्यभावं तु कारयेत् ॥ ४३ ॥

भेदयेन्मन्त्रशूलेन मुद्राभावयुतेन च ।
मन्त्रो वै ज्ञानशक्तिं च चैव क्रियात्मिका ॥ ४४ ॥

भावश्च मन इत्युक्तं तन्मणा बुद्धिपूर्वकम् ।
वरश्च मनसागम्य इच्छाशक्त्यात्वधिष्ठितः ॥ ४५ ॥

यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्त ।

प्। ६)

क्रियाकरणहीनस्य न चैवोच्चारणं भवेत् ।
क्रियाकरणरूपेण न चैव त्रिविधा स्मृता ॥ ४७ ॥

ए * * * * * तत्वं करणेन विचक्षणः ।
नात्युच्चरं द्वितीयेन द्वाराणां सं निरोधनम् ॥ ४८ ॥

तृतीयं करणं दिव्यं क्रीत्वा वै तत्वमुचरेत् ।
पूरकं कुं * * * * * * द्वाराणि पादयेत् ॥ ४९ ॥

गुदद्वारेण रुद्धेन सर्वे रुद्धा भवन्ति हि ।
द्वारमेकं द्वितं चोर्ध्वे प्रवाहात्तद्विचिन्तयेत् ॥ ५० ॥

ना * * * * * * * * * * * * * * * ।

ते कुम्भकेन सङ्कुम्भ्य विकसन्ति समन्ततः ।
कारणं तु ततः कृत्वा लक्षणं तस्य वै शृणु ॥ ५२ ॥

जिह्वां तु तालुके योज्य किञ्चिदूर्ध्वं * * * * ।

दन्तपङ्क्तिं तदैवेह दृष्टिश्चा योर्ध्ववर्जितः ।
कायं समुन्नतं कृत्वा करणं दिव्यमुच्यते ॥ ५४ ॥

दिव्यं च करण * * * त्रस्योच्चारणं कुरु ।
कुम्भितश्चैव यः प्राणो रेचयेत्तं शनैश्शनिः ॥ ५५ ॥

नाडयो ग्रन्थिपद्माश्च देहे एवं व्यवस्थिताः ।
रेचकेन समाक्षिप्य ऊर्ध्व स्रोतो * * * * त् ॥ ५६ ॥

प्। ७)

ततो विज्ञानशूलेन ग्रन्थीन् भिन्दन्समुच्चरेत् ।
भित्वा हृत्पद्मग्रन्थिं तु शब्दो धुनुधुनायते ॥ ५७ ॥

तालुमध्यगतप्राणो यदा भवति मुच्चतः ।
बिन्धतस्ता ग्रन्थिसुशब्दो घुमुघुमायते ॥ ५४ ॥

एवं तेऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते ।
तिस्रस्ते तु कलाः प्रोक्ता उपर्युपरि ताः क्रमात् ॥ ५९ ॥

तिष्ठते यत्र वै प्ता * मात तद्गतिमाव्ययात् ।
तत्तद्रूपं भवेत्तस्य धाश भावानुरूपतः ॥ ६० ॥

भ्रुवोर्मध्ये यदा गच्छेत् स्फोटशब्दः प्रजायते ।
बिन्दुं भेदयतो देवि शब्दोधु मधमायते ॥ ६१ ॥

कपिलैत्थैर्नालिकेरेण आचार्यस्सह बिन्दुना ।
अभिन्नो मोक्षमनं बाह्याभ्यन्तरं विना ॥ ६२ ॥

भित्वा बिन्दुं * * * * अर्धचन्द्रं विभावयेत् ।
भिन्दतश्चार्ध चन्द्रश्च फाले सिमिसिमायते ॥ ६३ ॥

अर्धचन्द्रं तु भित्वा वै भेदयेत्तु निरोधिनम् ।
तस्यां तु भियमानायां शब्दश्शिमिशिमायते ॥ ६४ ॥

स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम् ।
प्राणस्सचरतिस्तत्र यस्मिन्स्थानेन तिष्ठति ॥ ६५ ॥

तत्तद्रूपं भवेदात्मा तां तां गतिमवाप्नुयात् ।
निरोधिनीं भेदयित्वा तु ततो नादं व्रजेत्पुनः ॥ ६६ ॥

प्। ८)

वंशशब्दस्समश्शब्दः तत्र सूक्ष्मं प्रजायते ।
भेदयेन्नाद संस्थानं ब्रह्मरन्ध्रं स तु स्मृतम् ॥ ६७ ॥

भिन्दतो ब्रह्मरन्ध्रं तु शब्दश्शमशमायते ।
शक्तिमध्यगतः प्राणो वंशनादान्तसन्निभः ॥ ६८ ॥

तांश्च वै भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिभिः ।
भिद्यते च यदा शक्तिश्श * * मुशुमुस्ततः ॥ ६९ ॥

शक्तिं भित्वा ततो देवी तच्छेषं व्यापिनी भवेत् ।
अनुभावे भवेत्तत्र स्पृशेद्यत्र पिपीलिका ॥ ७० ॥

स्थानत्रयमिदं देवि पञ्चं पञ्चक तम् * * ।
यत्र यत्र च कत्प्राणः तत्तद्रूपमवाप्नुयात् ॥ ७१ ॥

तस्माद् वै सुप्रयत्नेन भित्वा धाम परां गतिम् ।
भित्वा वै व्यापिनं देवि न मना * * * * * त् ॥ ७२ ॥

मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेत् ।
जीवो वै केवलस्तत्र आत्मा ज्ञानक्रियान्वितः ॥ ७३ ॥

बन्धनाशेषनिर्मुक्तस्स * * त्र व्यवस्थितः ।
समस्ताध्व पदातीत सश्शुद्धविज्ञानकेवलः ॥ ७४ ॥

गृह्णातिनापरं भावं ततः परशिवात्मकम् ।
परापर विनिर्मुक्तः स्वात्मनात्मा व्यवस्थितः ॥ ७५ ॥

आत्मव्याप्तिर्भवेदेषा शिवव्यापिरतः परम् ।
इन्धनाशेष भावेन सर्वाध्वो पादिवर्जितम् ॥ ७६ ॥

प्। ९)

विदित्वा परमं तत्वं शिवत्वं कल्पितं तु यैः ।
आत्मोपायाधिका शैवेन गच्छन्ति शिवं परम् ॥ ७७ ॥

आत्मतत्वगतिं यान्ति आत्मतत्वेन रञ्जिताः ।
तस्मादात्म परित्याज्यो यदि चेच्छिवमात्मनः ॥ ७८ ॥

आत्मतत्वं ततस्त्यक्त्वा विद्यातत्वं नियोजयेत् ।
उन्मना सा तु विज्ञेया मनस्सङ्कल्प्य उच्यते ॥ ७९ ॥

सङ्कल्प्य नयतो ज्ञेयमुन्मना युगपत् स्थितम् ।
तस्मात्सा च परा विद्या यस्मादन्या न विद्यते ॥ ८० ॥

विन्दते यत्र युगपत् साप्यग्ज्ञाति गुणान्परान् ।
वेदनानादि धर्मस्य परमात्म प्रबोधनात् ॥ ८१ ॥

व्यञ्जना परमार्थत्वे तस्माद्विद्येति सोच्यते ।
तत्र व्यञ्जयेत्तेजः परं परमकारणम् ॥ ८२ ॥

परस्मिन्तेजसि व्यक्ते तत्रस्थशिवतां व्रजेत् ।
अप्रदप्ते यथा वह्नौ शिखा दृश्येत चाम्बरे ॥ ८३ ॥

दशप्राणस्थि ह्यात्मा तद्वल्लीयेत तत्पदे ।
तद्वदेवाभिमानस्तु कर्तव्यो देशिकोत्तमैः ॥ ८४ ॥

अहमेव परो हंसः शिवं परमकारणम् ।
मत्प्राणे स पश्यात्मलयं स परमं गतः ॥ ८५ ॥

एवं यो वेत्ति तत्त्वेन वह्निवद्देह मध्यतः ।
यद्वद्वह्निमुखातीतस्तद्वद्योजयते परे ॥ ८६ ॥

प्। १०)

सूक्ष्मस्वायम्भुवे-

यो यत्राभिलषेद् भोगान् स तत्रैव नियोजितः ।
सिद्धिभा मन्त्रसामर्धो तत्तद्योजयते पदे ॥ ८७ ॥

तस्मिन्युक्तः परे तत्वे सर्वज्ञादिगुणान्वितः ।
शिव एको भवेद् देवी अविभागेन सर्वतः ॥ ८८ ॥

वह्निं निरोधभावेन शिवेन सह संयुतः ।
अन्यथा न चेद् देवी नदीवेग इवार्णवे ॥ ८९ ॥

स्थितस्स सागरेद्भिस्तु सिन्धो समरसी भवेत् ।
पुनर्विभा नाप्नोति तथात्मा तु शिवार्णवे ॥ ९० ॥

पूर्वोक्तं तदिदं सर्वं ज्ञात्वा तत्वे नियोजयेत् ।
एवमाचरते यस्तु आचार्यन्तु शिवात्मकम् ॥ ९१ ॥

शिवेन सहचारित्वाद् आचार्यस्तेन सोच्यते ।
तस्मान्मामानवीं बुद्धिं कारयेद्देशिकं प्रति ॥ ९२ ॥

आचार्यं च मन्त्रं च शिवज्ञाने शिवस्य च ।
नानात्मं नेव कुर्वन्ति विदेशाश्चत्रनायकः ॥ ९३ ॥

ब्राह्मणा क्षत्रिया वैश्याश्शूद्रो वा वीरवन्दिते ।
आचार्यत्वे नियुक्ताये ते जयन्ति शिवास्स्मृताः ॥ ९४ ॥

अन्यथा प्रागृरूपेण ये पश्यन्ति नराधमाः ।
नरके ते प्रपश्यन्ते सादाख्य वत्सरत्रयम् ॥ ९५ ॥

न तेन सह सम्भाषा कर्तव्या तु शिवार्थिना ।

प्। ११)

कृत्वा सम्भाषणं तेन सोऽपि गच्छति तद्गति ॥ ९६ ॥

तस्माच्छिवसमास्सर्वे द्रष्टव्या मुक्तिमिच्छता ।
भुक्तिमुक्तिफलव्याप्तिर्भवेत्येव तदाज्ञया ॥ ९७ ॥

आचार्यस्स्वजनानां च कुलकोटिसहस्रजः ।
ज्ञानज्ञेय परिज्ञानात् सर्वांस्तांस्तारयिष्यति ॥ ९८ ॥

एवमुक्त विधानज्ञो तामज्ञश्चैव देशिकः ।
ब्रह्मणा क्षत्रिया वैश्या शूद्राश्चान्येऽथवा प्रिये ॥ ९९ ॥

सर्वे ते समधर्माणः शिवधामनि योजिताः ।
सर्वे जटाधराः प्रोक्ताः भस्मोद्धूलित विग्रहाः ॥ १०० ॥

एकभाक्ति भुजस्सर्वे सर्वे ये तु वरानने ।
पुत्रकाणां भवेदेकस्साधकानां तथा भवेत् ॥ १०१ ॥

नैष्ठिकानां भवेदेको न पश्यन्ति विभेदतः ।
एकैव सा स्मृता जाति भैरवीया शिवाज्ञया ॥ १०२ ॥

मन्त्रमेतत् समाहृत्य प्राज्ञातिं ह्युदरयेत् ।
साधकानां पुत्रकाणां तथा समयिनामपि ॥ १०३ ॥

प्राज्ञात्युदीरणाद्देवि प्रायश्चित्त भवेन्नरः ।
दिनत्रयं तु शूद्रस्य पञ्चाहं केशवस्य च ॥ १०४ ॥

पितामहस्य पक्षे कं नरके पच्यते तु सः ।
जनः शीलो भवेत् पश्चाद्यदि चेदुत्तमाङ्गतिम् ॥ १०५ ॥

श्रीमत्प्रासादमन्त्रस्तु देवदेवेन भाषितम् ।

प्। १२)

सप्तधा वर्तते यस्तु सर्वतीर्थफलं लभेत् ॥ १०६ ॥

अब्रह्मचारी ब्रह्मचारी अस्नातस्नातको भवेत् ।
पितॄन्पितामहांश्चैव तथैव प्रपिता महान् ॥ १०७ ॥

अक्षयं शिवलोकन्तु यान्ति सद्यत्प्रभावतः ।
प्रासादनादमुस्थाप्य जपेद्यस्सततं नरः ॥ १०८ ॥

अणिमादिगुणैश्वर्यं षड्भिर्मासैर्न संशयः ।

इति श्रीमत्कलालयदेवतीर्थस्य उत्तरतटे निवासि
ज्येष्ठज्ञानप्रकाशवराचार्ये तस्यारुणदेवेन सङ्गृहीतायां
प्रासादचन्द्रिकायां मात्राज्योतीकारणेश्वर स्थानम्
आनाध्वसमरसी भाव विषुवशब्दयोजनविधानविधिस्समाप्तः ॥

श्रीमदरूणाचलाय नमः ॥

अस्मिंश्च कोशे प्रासादचन्द्रिकया सह तत्वसिद्धान्तव्याख्या
सिद्धान्तप्रकाशिका दशकार्यं षडध्वत्रिंशत्कलान्यासः
पुरुषार्थसुधानिधिः सुप्रभेदागमः इति नामका विलिखिता वर्तन्ते ॥