अथ तन्त्रावतार-पटलः
अथ बिन्दुत आरभ्य विचित्रजगत् पुनः प्रवर्तत इत्युक्ति समुत्थ स्मृति
मन्त्रन्तस्तन्त्रसमुत्पत्तिः पुरासूचितां विस्पष्टं ज्ञातुं गुरूं पृच्छति -
कथन्तन्त्रं समुत्पन्नं मन्त्रा वै सहशक्तिभिः ।
भेदास्तत्र कियन्तस्युस्साधनं सिद्धिरेव च ॥
एतत् सर्वं समासेन ब्रूहि नः परमेश्वर ।
[[९१४]]
प्रासङ्गिकत्वान्न पृथक् सम्बन्धोपि विवक्षते । अयन्तु
परिहर्तुमशक्यः पुनरुक्ति बाहुल्यात् न पौष्करपटलः । किन्तु कामिकवर्तार
तन्त्रावतारपटल एवात्र कैश्चित् प्रक्षिप्त इति स्फुरन्तीति गुरवः कथयन्ति ।
प्रश्नोक्तरोक्तिः कथञ्चित् किञ्चित् प्रकारान्तर गीतिमतीति न पुनरुक्तित्वं
क्षमत इति पुनः कथयन्ति । केचित् ततः न कथञ्चित् सङ्क्षिप्य विवृत्तिस्तुरीयते ।
शक्तिभिरम्भिकादिभिः साधनमन्त्रवशीकरं सिद्धिस्तत्फलं शेषं
सुगमम् । ईश्वरः -
आदौ ब्रह्मपरं शुद्धमादिवर्णत्वमागतम् ।
तन्त्रमन्त्रत्वमापन्नं श्रुणुध्वं द्विजसप्तमाः ॥
ब्रह्मत्वात् ब्रह्मणत्वात् ब्रह्मशब्दशब्दिता महामाया [[३१५]] तत्
प्रथमन्नाद विद्व चराकारत्वमागत्य तदवन्तरमादि
वर्णत्वमाकारमान्त्रमाकारत्वमागमम् । तदुक्तं मृगेन्द्रे ।
शक्तेर्णाददो भवेद्भिन्दुरक्षरमात्रका तत इति विशेषम् । शेषं सुगमम् ।
अथ कथमित्यत आह -
अनासौ सति संस्कारे कारणं परमेश्वरः ।
स्वभावादेव जन्तूनाम् अनुग्रहकरः परः ॥
सत्यम् । ततः किमित्यत आह -
ततस्त्वहमुखे काले शिवशक्त्या समागमात् ।
शिवेच्छयैव सर्वेषामुत्पत्यर्थमनन्तरः ॥
तता(द)भुक्षोभितं विश्वं कारणं योगमायया ।
अहर्मुखे सृष्टा॥॥॥॥।काले शिवशक्त्या पाल॥॥॥॥॥क्रियां कुर्वत्या पालनीया
माहामायलक्षण विश्वकारणस्य [[९१६]] समागमात् । सम्बन्धात्
प॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। सङ्कल्पलक्षणार्थक्रिया
कुर्वत्या शिवशक्त्याधिकारावस्थां क्रमतो ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ पुनः
क्षोभ्यः क्षोभाक्षेण सम्बन्धोदया भवति तदा योगस्य मतङ्गे । तथोक्तेति
शिवक्रियशक्तेः मयति महामायाम्बिकरोतीति मायां सङ्कल्पार्थक्रिया
तथोक्तेतितया योगमायायां विश्वकारणं बिन्दुलक्षणं क्षोभिलमभूत्
ततः किमित्यत आह -
तत् क्षोभतस्समुत्पन्नं शास्त्रन्नादस्वरूपतः ।
प्रवृत्तन्तदधः किञ्चिद्विगुज्वाकारतश्शिवम् ॥
स च बिन्दुरिति ख्यातः शरश्चन्द्रसमप्रभः ।
सुगमम् । स च बिन्दुः प्रथमं प्रणवं भूत्वा आकारादिकला [[९१७]]
लक्षणम्बिकादि च त्रिरेखा भूत्वा विविधरेखात्मना भवतीत्याह -
स चतुर्था समाख्यातो ज्योतिषां परमोनिधिः ।
शिवेच्छा क्षोभितो बिन्दुस्तदधश्शक्तिरम्बिका ॥
सशाङ्कसकलाकारा शक्तित्रय[म]भूत्ततः ।
वामाज्येष्ठा तथा रौद्री सुप्तनागेन्द्रसन्निभा ॥
वामादण्डवज्ज्येष्ठा रौद्री शृङ्गा भवत्स्थिता ।
स मायाऽपररूपेण जयात्या(द्या) परिकीर्तिता ॥
जया च विजया चैव जिताचाप्यपराजिता ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्थतैव च ॥
इन्धिका दीपिका चैव रोचिका मोचिका परा ।
व्योमरूपा अनन्ता च अनाथानाश्रिता तथा ॥
[[९१८]]
अभिव्याप्तमिदं सर्वं शिवाद्यवनिगोचरम् ।
आभ्यस्सर्वे समुत्पन्नाः त्रिंशद्वर्णास्सविंशतिः ॥
वक्ष्यमाणप्रकारेण वाङ्मया भूत्वा प्राप्नुवन्तीत्यर्थः । अम्बिकादि
कलान्योन्य घटने प्रणवकलाकाराकारादि वर्णास्समुत्थीयक्त इत्याह -
शिरस्यास्यां स्थिता रौद्री वक्त्रं वामा प्रकीर्तिता ।
अम्बिका बाहू संलग्ना ज्येष्टा वै दण्डवत् स्थिता ॥
अकार एष विख्यात आकारं श्रुणुतद्विजाः ।
एष एव द्वितीयोऽर्णो दण्डेनाग्रस्थितेन च ॥
शेषाणां लक्षणन्नोक्तं मया विस्तारभीरुणा ।
आसामम्बिकाद्यक्षरबिन्दुकलानां मध्ये यस्य वर्णस्य शिरसि
शिरसात्मना रौद्री स्थिता वक्त्रं वामा [[९१९]] प्रकीर्तिता । वन्त्रात्मना
वामा स्थिता । अम्बिका बाहु संलघ्न बाह्यात्मानाम्बिका स्थिता । ज्येष्ठा
वै दण्डवत् स्थिता दण्डवत् स्वदैर्घ्या कारणेन ज्येष्ठा स्थिता एष वर्णः
ज्येष्टा स्थिता, एष वर्णः आकार इति विख्यातः एष एव अकार एव स्वस्याग्रहितेन
दण्डेन ज्येष्टया द्वितीयोर्णश्च आकारश्चेति विख्यातः
श्लेषाणामिकारादीनाम् । शेषं सुगमम् । अथ ननु ॥।ट्पन्ना
अपराक्षर॥॥॥॥श्शक्तिः अम्बिकादि प्रभिन्ना पञ्चाशद्वर्ण्यात्मनासिता
सर्वानुग्राहिकेत्याह -
तस्य शक्तिस्स्मृताभिन्ना पञ्चधा दशभेदतः ।
सर्वानुग्राहिका ज्ञेया सर्वशब्दार्थरूपिणी ॥
[[९२०]]
तैर्विना तु भवेच्छब्दो नार्थेनापिविधेर्गतिः ।
तेन ते सर्वसिद्धीनामालयं परिकीर्तिताः ॥
शेषं सुगमम् । तन्त्रमन्त्रात्मका वर्णा साक्षात्
शिवनिमित्तसमुत्थ॥॥॥॥॥॥॥ष्समुत्था॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।
तेषामेकापरायोनिर्यत् तेजः परमेश्वरः ।
निमित्तमीश्वरस्तेषामुपादानं स बिन्दुराट् ॥
स्वकर्मसहकारिस्यात् कार्यन्तस्मात्सहेतुकम् ।
पारमेश्वरत्तेजः शिवशक्तिः महामायाधिष्ठितात्री भूत्वा
नादोत्पातयित्री नादाधिष्ठितात्रीभूत्वाक्षरबिन्दूत्पादयित्री
बिन्द्वधिष्ठात्री भूत्वा तबिकादि बिन्दुकलोत्पादयित्री पुनरम्बिकादि
कलाधिष्ठात्री तन्नाम्नी च [[९२१]] भूत्वा तेषामाकारादि वर्णानां
योनिः कर्तृ सहकारिणी करणकारकम् । शेषं सुगमम् । अचैतन्ये
सत्यनेकत्वात् । कार्याः कार्यत्वात् । सकारणका इत्याह -
उपादानमतो बिन्दुर्यस्माद्वर्णा नतद्विजा ।
बहुधा संस्थिता वर्णाः कृतका चेतनायतः ॥
वर्णाश्च स्वरसंयोगात् पदन्तैर्वाक्यमिष्यते ।
तस्मादर्थप्रतीति स्यात् व्यवहारनिबन्धना ॥
वर्णाश्च कादयश्च स्वरसंयोगात् आकारादि सम्बन्धात् । शेषं सुगमम् ।
आकाराद्यक्षरसंहतिमात्रके त्विच्यत इत्याह -
सर्वज्ञमातृकाज्ञेया जगतो मातृवत् स्थिता ।
यथा भूत्वा च सा देवी शिवक्ति प्रभेदतः (चिच्छक्तिस्सप्रभेदतः) ॥
[[९२२]]
अवर्गे तु परो देवः कादौ देवी व्यवस्थिता ।
पुनर्भिन्नाष्टभिर्वर्गैस्वरो देवो विनायकः ॥
ब्रह्माद्याः कादिवर्गेषु सप्त सप्त सुसंस्थिताः ।
ईश्वरोस्ते च विज्ञेयास्सर्वानुग्रहकारिणः ॥
ज्ञानशक्तिस्तथा ज्ञेया मातृकालोकमातृका ।
अकारादिवर्णसंहरति । जगतः शब्दः प्रपञ्चस्य मातृवत् स्थिता ।
मातृकास्सर्वार्थज्ञानाभिव्यञ्जकत्वात् सर्वज्ञा ज्ञेय । सा लोकमातृका
मातृका श्वशक्ति प्रभेदतः । शिवशक्ति स्वाधिष्ठातृ द्विदेवता वेदेन
अकाराद्यात्मना यथा भूता तथा ज्ञानशक्त्यभिव्यञ्जकत्वात्
ज्ञानशक्तिज्ञेयेत्यतिदूरस्थे नाप्यन्यथा नवपत्या सम्बन्धः अकारादिषु
शिवशक्त्यादि देवता स्थित दर्शनम् । अवेत्याद्यनुग्रहकारिणा [[९२३]]
इत्यन्तं मातृकायामेव शास्त्रोत्पत्तिरित्याह -
तस्यान्तु जायते सर्वं वाङ्मयं स चराचरम् ।
उपादानन्तु तां कृत्वा वक्तिदेवो बहूनि तु ॥
तन्त्राणि कामिकादीनि तत् सङ्ख्या संस्थितानि तु ।
सुगमम् । इतः परं प्रमाणपटले प्रमाणप्रस्तापे पटले पञ्चमन्त्र तनु
प्रस्तापे पाशपटले नादशक्तिपरीक्षा प्रस्तापे प्रभाषितं कथञ्चित् किञ्चित्
विशेषयुक्तं भविष्यतीति ज्ञेयम् । ऋषयः -
प्रागुद्दिष्टश्शिवोऽमूर्तो वागिन्द्रिय विवर्जितः ।
न शास्त्रकरणे शक्तस्सकलोऽर्थात्ततस्स च ॥
विकल इत्युक्त शिवोपि अर्थात् शास्त्रकृति लक्षणा॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।
सकल॥॥॥॥॥॥॥॥॥।
[[९२४]]
देहत्वस्य शास्त्रकृतोपदेशदानेन वा कलादिकार्य कृत्येव
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ तृत्वे गुरूणान्तथा
दर्शनात् तत् तु न चलाभिः कला ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥
अमूर्तस्यापि देवस्य स्वेच्छा सामर्थ्ययोगतः ।
वर्णादि रचना सर्वा सा भवेत् तत्र कार्यवत् ॥
किन्तूपदेशदातृत्वे सकलः किल स प्रभुः ।
साकल्यात् तु यथा तस्य तत् प्रवक्ष्यामि साम्प्रतम् ॥
सर्वारम्भो नरार्थं यत् निजापूर्णा तनुः प्रभोः ।
सा पूर्णो पञ्चभिस्साद्यो वामाघोरनरात्मकैः ॥
ईशान सहितैर्मन्त्रैस्सा तनुः परमेष्ठिनः ।
[[९२५]]
ईशानमूर्धा पुंवक्त्रो घोरहृत् वामगुह्यकः ॥
सद्योमूर्तिश्च देवोऽयं सकलः परिपठ्यते ।
साकल्यन्नार्थतस्तस्य कल्पनीयं यथात्मनः ॥
नान्यथास्यार्चनं यस्माच्चर्मास्थ्यादि विवर्जनम् ।
न च शास्त्रप्रणेतृत्वं तेनायं सकल स्थितः ॥
साकल्यात् तु तस्य शिवस्य यथा यदुपदेश दातृत्वन्तथा तदित्यन्वयः ।
यथात्मनः परमार्थतः साकल्यन्तथा तस्य शिवस्य नार्थतः
परमार्थतः साकल्यं किन्तु कल्पनीयम् । अन्यथा यदि कल्पनीयमपि साकल्यं
नास्ति । तर्ह्यस्य शिवस्यानाकारत्वात् नार्चनम् । तस्माच्चर्मास्थ्यादि विवर्जनम्
। शास्त्र प्रणेतृत्वमुपदेष्टॄत्वं बूज्यत्यञ्च न चोपपद्यते । तेनायं सकल
स्थितः । [[९२६]] कल्पित चर्मास्थ्यादि मदचलसकलस्सुनिश्चितः । शेषं सुगमम्
। कियद्भिस्सङ्ख्याभिः पत्यादि साधनं शास्त्रं रचितं शिवे नेत्यत आह -
अनुष्टुप्छन्दसा तेन निबन्धं(द्धं) बहुकोटिभिः ।
शङ्खैः पद्मैश्च खर्वैश्च निखर्वैरर्थसाधनम् ॥
कामिकादीनां क्रमतः परार्थादिसङ्ख्या कामिकादिषु ज्ञेया विस्तर
भीरुणात्र न लिख्यते । ऋषयः वैय्याकरणभूमिकया शङ्कयन्ति -
वर्णानां क्षणविध्वंसात् स्फोटोर्थप्रतिपादकः ।
वर्णव्यङ्ग्यो विभुर्नित्यस्सोर्थं स्फोटयते किल ॥
स्फोटयते प्रकाशयति । ईश्वरः परिहरति -
न वर्णव्यतिरेकेण स्फोटस्यार्थोऽन्तरा स्थितिः ।
[[९२७]]
स च भिन्नोनभिन्नो वा तद्भिन्नोनार्थवत् स्थितः ॥
वर्णा एव न भेदश्चेत्तस्याद्धेतो न विद्यते ।
स च स्फोटः तद् भिन्नानार्थवत् स्थितः । न प्रामाणिकः । ननु यद्येवं
वर्णव्यग्यार्थवाचकनादे भिन्नाभिन्नत्वेन विकल्पिते भिन्नस्या
प्रामाणिकत्वात् । कथं स सिध्येत् । सत्यम् । नादो वर्णस्य सूक्ष्मावस्थात्म
शक्तिरिति पृथक् पृथक् सिद्धोहं स्वर्णो भूत्वाहं स्वर्णसञ्ज्ञितः । हंस
हंसेति प्राणवृत्तिमविभज्यानुभवसिद्ध इति न कोपि विरोधः । वर्ण
व्यङ्ग्यत्वञ्च प्रतिवक्तृगत नादस्य इव नव॥॥॥।णादस्य । तस्य
भवतस्समु॥॥।ऌअत्वक्तम् । नादशक्ति परीक्षायां नैय्यायिक भूमिकया
ऋषयः पुनश्शङ्कन्ते -
[[९२८]]
क्षणविध्वंसिनोवर्णास्संस्कारो वर्णतस्स्थितः ।
पूर्ववर्णज संस्कार युक्तोन्त्योऽर्णोभिधायकः ॥
ईश्वरः -
न वर्णास्संहतिं यान्ति येन तत् स्मरणं भवेत् ।
यदि तस्य स्मृतिस्तस्य कथमर्थं विमुञ्चसि ॥
तस्मादर्थे प्रवृत्तिस्स्यात् संस्कारादर्थनिर्णयात् ।
सत्यम् । न वर्णास्संहतिं यान्ति तथापि ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। वाच्यार्थ
स्मृतिः । न यद्यपि तत् स्मरणं भवेत् । तद्व स्मृति स्यात् यदि तन्त्रवर्णे
स्मृतिस्तस्य वर्णस्यार्थन्तद्वर्ण स्मृतिः । कथं विमुञ्चति ।
तद्वर्णद्वारावलम्बते । तस्माद् अर्थनिर्णयात् संस्कारात् । न यद्यपि
स्मरणमर्थे वर्णस्मृति द्वारा [[९२९]] प्रवृत्ति स्यात् । कथन्ततः प्रवृत्तिरित्यत
आह -
संस्कारो वर्णजश्शक्तश्शक्तावेकार्थसाधने ।
तैश्च शक्तियुतैर्वर्णैर्व्यवहारोऽर्थवाचकैः ॥
प्रतिपत्तुर्बुधो वर्णजः वक्तुच्चरितवर्णजनित्यः । संस्कारः । अनेकार्थेषु
सत्सु एकार्थसाधने वाचक ॥॥॥॥ अ च्यगतिमत्यां शक्तौ सम्बन्धशब्द
शब्दितायां शक्तः । सान्त्यवर्णानुभूतिः । स्वसमुत्थ स्वजनक
वर्णस्मृतिद्वारा ग्राहकतया समर्थः । तैश्शक्तियुक्तैर्गृहीत वाच्य
संहितैरर्थवाचकैः । स्वकारणतया स्वश्रुति समुत्थान्तज्वलदर्थवाचक
नादैर्वर्णैर्गौरानीयतामित्यादि लक्षणैर्व्यवहारः । गो बुद्धिपूर्वा
नयनादिक्रिया दृश्यत इति शेषः । [[९३०]] ननु सम्बन्धोस्ये दृक् लक्षणच्चेत् तु
मशक्यत्वात् । शश शृङ्गितुल्यः । तदुक्तं सूपलभ्यत्वात् इत्याह -
शब्दस्यार्थेन सम्बन्धः कथन्नोनिश्चितो भवेत् ।
न सम्बन्धोज्झितो यस्मात् शब्दस्वार्थाभिदायकः ॥
नोनिषेये । सुगमम् । तर्हि कीदृक्लक्षण इत्यत आह -
न कार्यकारणायोगो (य)तोसा वर्णहेतुजः ।
भूमावर्तो मुखे शब्दस्समवायो न संस्थितः ॥
न साध्य साधने भावस्सतु बन्धनवस्थितः ।
प्रत्येय प्रत्ययाख्यस्तु सम्बन्धोन्तरपूर्वकम् ॥
न कार्यकारणमभवनुद्देश इति कार्यकारणभावो न योगः । नात्र
सम्बन्धः । यतो सौ अर्थः न वर्णजः । किन्तु अर्णहेतुजः । वर्णनिमित्ताकाश
वाय्वादि जन्यः । [[९३१]] वर्णार्थयोस्समवायस्सम्बन्धो न संस्थितः । यतो
भूमावर्थोमुखे शब्द अत संयोगसम्बन्धोपि न संस्थित इत्यध्याहार्यम्
। न साध्य साधनो भ॥॥॥।ष्सतु बन्धन स्थितः । पूर्वोक्त द्विसम्बन्धवत् ।
सुस्थितः । तदुक्तं
धर्मेण साध्यते धर्मी क्वचित्कार्येण कारणम् ।
कारणेन क्वचित्कार्यमिति तर्हि पर्यवसितसम्बन्धः क उच्यते । अन्तरपूर्वकं
सङ्केतादि विवेकपूर्वकम् । प्रत्येय प्राख्यस्तु ज्ञाप्यज्ञापक लक्षणस्तु
सम्बन्धः । सूचितश्च पूर्वम् । ज्ञायन्ते येन पत्याद्या पदार्था षट्
द्विजोत्तमाः । तत् ज्ञानपादमित्युक्तमिति न शब्दस्वरं समुच्चार्यार्थेनोक्त
लक्षणसम्बन्धयति । ततः पुरुष स्वक्रिया श॥॥॥।प्तार्थ सम्बन्धे ॥॥॥॥॥
[[९३२]]
योजकस्मर्यते यत्र ततो बुद्धेव प्रयोजितः ।
न योजको भवेच्छब्दः पुरुषस्तत्र योजकः ॥
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।
यति । ततर्थम्मन्त्राणाञ्च सङ्केतश्शिवेन कृत । ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।
यो वर्णः केनचित्ख्यातस्तस्मिन्नर्थे स वाचकः ।
तावदर्थन्नगृह्णाति परसङ्केतवर्जितः ॥
सङ्केतास्तस्त्रमन्त्राणान् ते नैव परिकीर्तिताः ।
सहवस्तेन संसिद्धाश्शास्त्रे वै कामिकादिके ॥
इति श्रीशालिवाटिपुरनिवासि ज्ञानप्रकाशाचार्य विरचितायां
श्रीमत्पौष्करज्ञानपादवृत्तौ सप्तमः पटलः ॥