अथ प्रमाणधीना सर्वत्रप्रमेयसिद्धिरुक्ता तदितं(दं) प्रमाणं
प्रथमं ज्ञातव्यं किदृगित्र्याद्या षट्पदार्थानां
पूर्वन्तत्परीक्षात्मकः प्रासङ्गिकः पटलः समारभते । ततः प्रत्येकन्न
सम्बन्धविवक्षा च ऋषयस्समाबाहुः -
भगवन्देव देवेश भक्तानुग्रह तत्परा ।
पदार्थाष्षट्समुद्दिष्टाः कृपयाऽनेकयुक्तिभिः ॥
अधुना श्रोतुमिच्छामः प्रमाणानि कृपानिधे ।
यत्स्वरूपमविज्ञाय प्रमेयोप्यर्थ इष्यते ॥
तस्मादस्माकमीशान तनिवक्तुमिहार्हसि ।
ननु षडित्युक्तमकरकपदार्थः कुतः न परीक्षितः । सत्यम् । न
पटलान्तरोक्तिभिः । किन्तु पशुपटलान्तरिततया । [[८०८]] यथानुग्रहरूपिण्योत्
यादिनामलक्षय शिवत्वाभिव्यक्तिन्यथानुपपत्ति सिद्धः परीक्षित इति नकोपि
विचारः । इष्टस्यार्थस्य सम्प्राप्ते कोविद्वान्यन्नमाचरेत् इति न्यायात् ।
किमर्थेयं प्रार्थनेति तदर्थमेतत् । यत् स्वरूपमित्यादि । यस्मात् प्रथमं
ज्ञातव्यं यत् स्वरूपं यत् प्रमाणलक्षणं विज्ञाय प्रमेयोव्यर्थः
विगतमर्थं प्रयोजनं स्वविषयज्ञानप्रकटाभिव्यक्तिः यस्य स तथोक्तः ।
प्रमेयस्य सार्थत्वार्थम् अन्यथापि प्रमाणस्यापि पदार्थत्वात्
तदवश्यमुद्देशलक्षणपरीक्षाभिज्ञातव्यन्तस्मादित्यनुषङ्गः । शेषं
सुगमम् । ईश्वरस्त्वित्थं प्रार्थितः प्रामाणिकमार्षमज्ञानम्-
उत्सारितुमुपक्रम्य तावत् प्रमाणं विभज्योद्दिशति -
[[८०९]]
शृणुध्वमथमानानि श्रोतुं कौतूहलं यदि ।
चत्वारि तानि मानानि प्रत्यक्षादीनि हे द्विजाः ॥
प्रत्यक्षमनुमानञ्च शब्दोर्थापत्तिरेव च ।
अथमेव श्रवणानन्तरं मानानि श्रोतुन्नहि क्रमः । तथापि कौतूहलं
यदि प्रीतिश्चेत् शृणुध्वं शेषं सुगमम् ।
अन्यान्युपमानादीन्यत्रान्दर्पवन्तीत्याशयः अथेत्थमुद्दिश्य पशुशास्त्र
सिद्धि प्रमाणलक्षणं शिवशास्त्रसिद्धं लक्षयति -
संशयादि विनिर्मुक्ता चिच्छक्तिर्मानमुच्यते ।
द्व्यालम्बा संशया बुद्धि समानाङ्कारदर्शनात् ॥
विपर्ययोऽन्यथा ज्ञानम् अतद्रूपप्रतिष्ठितम् ।
अनुभूतार्थविषया मति स्मृतिरिहोच्यते ।
[[८१०]]
येभिर्विहीना चिच्छक्तिः प्रमाणत्वेन सम्मता ।
संशयादि विनिर्मुक्तौ संशय स्वविवर्तिनि विमुक्तपर्यय स्मृतिलक्षण
तदनुरूपाभिव्यञ्जक बुद्धिप्रकाशनियुक्ता । क्वचिदध्यवसा बुद्धि
प्रकाशयुका । क्वचितद्वियुक्ता च सती सन्दिष्ठति या चिच्छक्तिस्सा शिवशास्त्रे
मानमुच्यते ततस्सहजप्रमाप्रमित्थ परपर्याय वक्ष्यमाणनिविकल्प
ज्ञानात्यर्थ क्रियावती चिच्छक्तिरेव प्रमाणम् । नतु चिच्छक्त्यर्थ क्रिया
परपर्याय प्रमिति तत् साधन निषेत् स्यमानेन्द्रियादिकम् । चत्वारीति
विभज्योद्दिश्यत् कथं चिच्छक्तिरित्येकलक्षणोक्तिः । सत्यम् । शिवमुक्तशिवानां
नैर्मल्यत सुचिस्फुरन्तीनां शक्तीनामक्षाद्यनपेक्षत्वात् । नहि ताश्चतुर्था
सत्यसन्तिषन्न्ति । [[८११]] तदुक्तं मृगेन्द्रे ।
नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् ।
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥ इति ।
ताश्शक्तिरपि हि प्रमाणलक्षणेन्तः पातयितुं सामान्यलक्षणैकोक्तिः ।
तासामपि हि प्रमाणकोटेरन्तर्भवित्वं वक्ष्यति । तत्रेन्द्रियानपेक्षञ्च
सर्वधा त्यक्त बन्धया चिच्छक्तेत्यादिना ।
ततस्सकलात्मशक्तिरेवैकाप्यक्षाद्युपाधिभिश्चतुर्था सति सन्तिष्ठन्तीति
वक्ष्यति । तत्र विवृत्तिञ्च विविच्यकर्मः । संशयादि बौद्धप्रकाशान्वित
अन्यस्पष्ट चिच्छक्तेस्तद्विनिर्मुक्ति ज्ञापनार्थं लक्ष्यति । द्वेत्यादिना ।
समानाकार दर्शनात् । उभय साधारणो ध्वतादि लक्षण दृष्टे स्थाणुर्वा
पुरुषोवेत्यादिद्व्यालम्बना [[८१२]] बुद्धि संशया । लक्षणया बुद्धि
प्रकाशः संशयः । समानाकारदर्शनात् । स्निग्ध शौत्यादि साक्षात् कारात्
अतद्रूपप्रतिष्ठितम् । तद्रूप शौक्तिकाकारादिकं नेत्यतद्रूपं
रजताकारादिकम् । पूर्वानुभूति समाहित संस्कार वशात्
भासमानन्तदतद्रूपे प्रतिष्ठितम् । निपतितन्तत् तथोक्तम् । अन्यथा ज्ञानम्
अयथार्थ बौद्धप्रकाशः विपर्ययः अनुभूतार्थविषया अनुभूतार्थ
कारतया बुद्धौ सदृश दर्शनादि निमित् ततः । समुत्थाय परिनत तदर्थ
पूर्वानुभूति जनित संस्कारविषया अत एव हि या स्वपताञ्जाग्रतां
वाकामुखादिनामसत्यप्यर्थे तदिति स्थानेस्त्विदमिति साक्षात् कारतया
संस्कार समुत्थस्त्रियाद्यर्थोल्लखिता सती [[८१३]] स्फुरन्ति सा बौद्धीमति
प्रकाशः । साङ्गङ्गेत्यादि यथार्थ प्रकाशश्च इह शिवशास्त्रे
स्मृतिरित्युच्यते । अत एव हि पशुपटले कदाचिदपि क्वापि च निर्विषयं ज्ञानमिति ।
निर्विषयज्ञानवादीनां वेदान्तचित्तमसौगतैकदेशिनां निराकृतिरूपोक्ति
शिववदनसमुत्था । येभिः तदित्थं लक्षित संशयादिभिर्विहिना
व्यञ्जकद्व्यङ्ग्य सम्बन्धविधुरा चिच्छक्तिः प्रमाणत्वेन
प्रमाणलक्षणेन सम्मता लक्षिता । चिच्छक्ति शब्देन किमुच्यत इति
भ्रुवन्निरस्यति -
चिच्छक्तिश्च परापेक्षो बोध एव न चापरः ।
न तस्याभिमुखं ज्ञानं मातामानं परोन्मुखम् ॥
परं प्रमेयं भावादि व्यापारः फलमिष्यते ।
चिच्छक्तिश्च परापेक्षः स्वेतर पादर्थमात्र सुनिहितं मुखः ।
[[८१४]]
बोधः परं संवर्तिरेव । नचापरोबोधः न च स्वमातृसुनितमुखी
स्वसंवित्तिः बुद्दिः प्रकाशो वा । बुद्धिप्रकाशस्य शिवाद्यगोचरत्वात् । स्वतो
बोधत्वा चेति निषेत्स्यमानत्वात् पुनर्बोधत्वा विशेषत्वादिति
स्वसन्त्तेर्बोधोपहित मानत्वे विवक्षिते स्वात्मनि त्रिधा विरोधो मातुरसिद्धिश्च
स्याद् इत्याह नेत्यादि । तस्य स्व संविक्त्यत्रस्वपदसमुत्थितस्य
स्वसंवेद्यमित्यत्र वेद्यपद समर्थितस्य ज्ञानस्य परसंवित्तेरिति यावत्
अभिमुखिज्ञानं स्वसंविदित्यत्र संवित्पदसमर्थितम् । स्व संवेद्यमित्यत्र
स्वपदसमर्थितमिदमिति । परसंवि�����। णाहमिति स्वसंविदिति यावत् ।
नमानं किन्तु माता तस्य मातुरप्यनुक्त्या सिद्धत्वात् । तदुक्तं मृगेन्द्रे ।
[[८१५]]
वेदान्तेष्वेक एवात्म चिदचिद्व्यक्तिलक्षितः ।
प्रतिज्ञा मात्रमेवेदं निश्चयः किन्निबन्धनः ॥
अथ प्रमाणं तत्रात्मा प्रमेयत्वं प्रपद्यते ।
यत्रैतदुभयं तत्र चतुष्टयमपि स्थितम् ॥ इति ।
अत्रापि चतुष्टयं प्रमाणप्रमेयप्रमातृ प्रमितयः प्रमितिरपि हि वेदन
क्रियेत्येताः पुनः क्रमतः करणकर्मकर्तृ क्रियाश्चोच्यन्ते । तस्मात्
परोमुखं प्रोक्ता परसंवित्तिः मानम् । तदुक्तं रत्नत्रये -
आकारद्वयसंवित्तिरशेषस्यापि वस्तुन । इति ।
ननु यद्येवं कार्यत्वाविनाभूतं सांशत्वं सिद्धन्तदयुक्तम् । नास्तो हि
द्वे संविद्धौ किन्तु यैव परसंवित्तिरूपा शक्तिस्सैव स्वसंवित्ति स्वती
स्वसंवित्ति सिद्धा शक्तिमतश्शिवस्यात्मनो वा रूपमित्यपृथक् सिद्धत्वात् (प्।
८१६) परोन्मुखमित्युक्तम् । परं सर्वोर्ध्वाधस्त शिवादिमात्रं किमिति ।
भ्रमन्निरस्यति परेत्यादिना । परमिति पदमत्र नोत्कृष्टवाचि किन्तु स्वेतरार्थ
वाचीति परम्मान विलक्षणं प्रमेयं समस्तपत्यादिपदार्थ बृन्दम् ।
यद्वक्ष्यति -
यन्मेयं न हि तन्मानं यतो मानेनमीयते ।
इति ननु यद्येवं चिच्छक्तेरमेयत्वेन प्रमाणान्तरागोचरत्वात् । पुनस्तस्याः
प्रमाणमित्यभिधेयत्वात् यत्राभिधेयत्वन्तत्र प्रमेयत्वं यथा घट इति
व्याप्तेश्चिच्छक्तिः प्रमेयत्वन्नव्यभिचरतीति प्रमाणान्तरा गोचरत्वे
वानवस्था समापतेदित्यतोपि न विच्छक्ति सिद्धौ प्रमाणमिति सा च
शक्तिरप्रमाणिकी स्यात् । ततः काक्षतिरिति भावदत्वम्माहेश्वर
अप्रामाणिकं शशशृङ्गतुलं सदसत् स्यादिति सेयमपि
शिच्छक्तिश्शशशृङ्गतुल्या सत्यसती स्यात् । सत्यम् ।
परसंवित्तिश्चिच्छक्तिर्नसंवित्यन्तर संवेद्या अनवस्थितेः पुनरनवस्थिते
स्वयमहं प्रमाणमित्यभिधायिनी सत्यनन्याभिधेया च पुन
स्वसंविदित्युक्त स्वसंवेद्येति शिवशास्त्र पठितापि भूयस्तस्यां
पर्यालोचितायां स्वस्या स्वयन्नसंवेद्या स्वात्मनिक्रिया विरोधात् किन्त्वीदृशी
सति संलक्ष्यते स्वसंवेदनं स्वेतर वेदनञ्च न पृथक् सिद्धौ
द्वावुपलम्भौ सोऽनवस्थितेरिति प्रागुदीरितरीतेः । न तस्याभीमुखी ज्ञानं
मातामानं पुरोन्मुखम् । इत्युदीरित रीतेश्च परसंवित्ति चिच्छक्ति स्वयमेव
प्रकृत्या भ्रमणेन स्वयोन्मुखीभूता स्वानुभूत्यर्थ क्रिया स्वसंवित्
भूत्वा तस्मिन् स्वप्रत्यग्रूप तच्छक्तिमति प्रमातरि स्वान्तस्सुनिहितमुख (प्।
८१८) स्वसंवित् स्वानुभूति वृत्तिमत् स्वप्रकाशे स्वस्मिन्
स्वाप्रकाश्यतयान्तस्समुज्वलती सती स्वेतर शिवादि पदार्थसत्तायां
स्वाभिव्यक्तिलक्षणस्य न पृथक् सिद्ध स्वानन्दलक्षणा प्रतिभासते ।
प्रत्यग्रूपतया प्रतिभासत इति सङ्क्षेपोक्तिः परप्रकाशशक्ति निपतित
त॥॥।प्रकाशतया शक्ति प्रत्यग्रूपतया शक्तिमात्र सिद्धिरिति मातृ माने
असतीस्तः अनुभूति सिद्धस्याशक्त्यापलापत्वात् । यदाहुः ।
अनुभूतौ प्रमाणानां परिनिष्ठा समप्यते ।
स्वतस्तस्यैव या ज्ञप्तिः किन्तत्रान्यैः प्रमान्तरैरिति ॥
ननु आत्मनस्वस्वेतरासामप्रकाश्यत्वे कथमाहङ्कारिकाहं प्रत्यय
प्रकाश्यत्वमुक्तमहङ्कारपरीक्षायाम् । [[२१९]] सत्यम् । न सोहं प्रत्यय
प्रकाश्यः किन्तु तत्राहङ्कारिकाहं प्रत्यये प्रकाश्ये तदाहङ्कारिकाहं
प्रत्यय स्वान्य प्रकाशकशक्तिभूतः शक्तिमति स्वप्रकाशेन्तस्समुज्वलन्
प्रतिभासते । ननु परप्रकाशस्वरूप शिवदि चितामित्थं स्वसंवेदन
सिद्धिरस्ति यद्यपि मातृमानरूपत्वे न मेय विलक्षणत्वात् कथं पुनः
परस्परसंवित्तिः । सत्यम् । न तावत् परसंवेत्तरि स्वप्रकारणे स्वसंवेदने
परसंवेदनलक्षणस्य स्वस्य परसंवेतृतया भासनमिव तदितर
परसंवेतृ परसंवेदनं भासते घटादिवत् परत्वात् । तथा त्वे
पुनरनुपचरिताद्वैत प्रसङ्गाद्वैतात्तवदी विजयेत नह्यात्मान
स्वसंवेदनमात्राः परस्परसङ्कीर्यते । सर्वेषां [[८२०]] सर्वज्ञता
प्रसङ्गेन सहैकात्म प्रसङ्गात् । किन्तु यथैव स्वात्मा प्रत्यक्
प्रतिभासिन्यां स्वसंवित् स्वानुभूतौ मेय विशदृशतया कथञ्चित्
सुलक्षितमानशब्द शब्दित परानुमातृतया विस्फुरति तथैव परशरीरे
परात्मा चाटनभ्रमणप्रमुखव्यवहरादिभिल्लिङ्गैर्मेय विशदृशतया
मान शब्दशब्दित परानुमातृतया परसंविदूहेनानुमीयते ।
शिवादिभिस्सर्वज्ञैस्तु मातृषु मेयतामिति विपरीतेति दृश्यादृश्य वै सा
दृश्यस्य कथञ्चित् स्फुरस्फुरणद्वारा दृष्टत्वेन कथञ्चित् स्फुरित स्वचित्
स्वेतरचित् सादृश्यभूत शिवत्वैक जाति सम्बन्धनेन परमात्मनः स्व स्व
परसंविद्दृक्शक्तिभिस्साक्षात् क्रियन्ते । अलमतिसूक्ष्म विचारेणाति प्रपञ्चेन
। [[८२१]] प्रकृतमनुसरामः भावः स्वभावः प्रमेये स्वेतरार्थमात्रे
प्रत्यर्थं वा चिच्छक्ते गुणत्वात् अविकृतिमत्वाच्च नार्थेन
सहसंयोगादिकमिति प्रमाणभूतचिच्छक्त्या निपतितम् । शिवादि सम्बन्धि
निर्विकल्पज्ञानम् आदि यस्य बौद्ध प्रकाशसम्मिश्रित
सकलमातृसम्बन्धिनस्सविकल्पज्ञानस्य हेयोपादानादि ज्ञानस्य वा
तद्भावाति । भावाद्येव व्यापारः अर्थक्रियाभावादि व्यापारः मानभूत
चिच्छक्तेस्सहजं प्रमिति प्रमाति शब्दशब्दितं फलं साध्यमिष्यते ।
लक्षणस्य त्रीणिभूषणानि सन्ति । तन्यत्र न सन्तीत्याह -
अत्राव्याप्त्यादि दीषाणां न कदाचन सम्भवः ।
प्रत्यक्षादि प्रमाणेषु व्याप्त्यानाव्याप्ति दूषणम् ॥
[[८२२]]
नातिव्याप्तिश्च मेयेषु नानाभावेष्ववर्तनात् ।
नान्यथाव्याप्तिरप्यस्ति प्रमाणञ्चेत्तदीदृशम् ॥
प्रमाण कथनन्तेन समीचीनमुदाहृतम् ।
अत्राधुनोक्त सिद्धान्तसिद्धिप्रमाणलक्षणे । अव्याप्तेत्यनुषङ्गः । कुतः
प्रेत्यादि प्रत्यादि प्रत्यक्षादि प्रमाणेषु व्याप्त्या अक्षधूमादि
लि"गशब्दार्थापत्ति सहकारोपबृंहित चिच्छक्त्यात्मलक्षणस्य परितः
स्थित्यानलकैक्ष्यकदेश प्रत्यात्मकम् । अव्याप्तिदूषणममान विलक्षणेषु
नानाभावेषु मेयेषु अवर्तनात् तत् कोट्यापि निविष्टत्वात् । न च लक्ष्यं
व्याव्या पुनरलक्ष्येपि निवेशिकात्मिका अतिव्याप्तिः तादृशं चिच्छक्तिलक्षणं
प्रमाणञ्चेत् नाप्यान्याप्तिं प्रत्यन्यथा व्याप्तिः लक्ष्यैकदेश
वर्तनमप्यन्तरा [[८२३]] सर्वधा व्याप्तिः लक्ष्ये क्वाप्यवृत्तिः
नासम्भवमिति यावत् । उपसंहरति प्रेत्यादिना ते त्रिदूषण विधुरत्वेन
प्रमाणं प्रमेयाद्विविच्य कथ्यते तेने नेति प्रमाणकथनं
प्रमाणलक्षणं यद्वा प्रमाणभाषणं समीचीनमुदाहृतम् । अदृष्टं
भाषितुम् । स्वतस्सिद्धमपि यावत् परतं न निराक्रियन्ते । तावत् स्वमतं
प्रतिष्ठितमिति नीतिज्ञोक्तिं परिपालयन् आक्षेप पूर्वन्तावत् तार्किकाणामिष्ट
विधातः क्रियते ।
ननु नस्यात्कुतो मानं यत् तत् प्रमिति साधनम् ।
तन्न दीपदृशादीनां प्रमाणत्व प्रसङ्गतः ॥
ननु यत् प्रमिति साधनं प्रमाकरणं तन्मानं कुतो न स्यात् तदन
तदयुक्तं दीपेत्यात्य(द्य)नुषङ्गः ननु दीपाक्षादीनां [[८२४]]
प्रमाणत्वेष्टनीतिवत् । भूमिकानान्नेष्टविघातः तदयुक्तमित्याह -
यत् प्रमाणन्नतन्मेयं मेया भावः पुनस्थितः ।
मित्यानुमीयते तत्र शब्दादिविषयत्वतः ॥
यन्मेयन्नहि तन्मानं यतो मानेन मीयते ।
पश्यामीति दृशा लोके प्रसिद्धिरुपकारतः ॥
यत् प्रमाणन्तत्वेन लक्षितन्नतन्मेयं न तत्वेन लक्षितं यदि वा मेयं
कथञ्चित् स्यात् । तदा प्रमाणाभावः पुनर्मेयं प्रमाणमपि स्याद् इति
मेयाभाव स्थितः नह्येतददोषोपशान्तये श्रोत्रादिकन्नमेयमिति वाच्यम् ।
तत्र श्रोत्रादिषु शब्दादि विषयत्वतः । शब्दादि विषयज्ञानसमुत्थोपकत्वात्
तत् श्रोत्रादिकं भवद्भिरपि मत्या शब्दाद्युपलब्धयः [[५२५]]
करणसाध्याः क्रिया त्वात् । चिदिक्रियावदित्यूहापोहात्म बुध्यानुमीयते ।
यतः यस्मात् इत्थं मनेनानुमीयते । तस्मात् यन्नेयं तत् प्रमाणप्रमेय
प्रमात्रमिति साङ्कर्यम् । सपेदिति न मानम् । ननु लोकसिध्या चक्षुरादिकं
प्रमाणमभ्युपगन्तव्यम् । तदयुक्तम् । अन्यथा सिद्धत्वात् तथा हि लोके दृशा
पश्यामीति प्रमाणत्वेन प्रसिद्धिः उपलक्षणत्वात् । धूमलिङ्गं
धूमकेतु लिङ्गिगमकं प्रमाणमेकं तद्वाक्यं कत्यथ तथ्यमीश्वर
भाषितमित्यादि । प्रसिद्धिरपि उपकारतः । चिच्छक्तिलक्षण
प्रमाणाभिव्यञ्जकत्वात् । उपचारबीज शिवशक्तेरपि परमुक्त्यवधि शिवादि
पदार्थदृष्टुस्साधकस्य चिच्छक्तिलक्षण प्रमाणाभिव्यञ्जकत्वात् ।
शिवशक्तिश्शिवं प्रतिस्वतस्सिद्धापितं साधकं
प्रतिप्रमाणमुपचारबीजमुच्यते । [[८२६]] उत्तरत्र च तदेतद्विचारे विविच्य
विवेकः क्रियते । चक्षुरादेर्मेयत्वम् अविवक्षित्वापि नास्ति हि मानतेत्याह -
न कस्यापि पदार्थस्य यद्विना भवति प्रमा ।
तदेव मानमेष्टव्यं चक्षुरादि न तादृशम् ॥
यदभिव्यक्तौ समस्तस्य शब्दादेः पदार्थस्य प्रमितिर्भवति । यद्विना
यदनभिव्यक्तौ कस्यापि पदार्थस्य प्रमा न भवति । तदेव
मानमेष्टव्यञ्चक्षुरादि न तादृशम् । तथा हि -
न चक्षुश्शब्द संवित्तौ न श्रोत्रं रूपवेदने ।
सर्वत्रग्राहिका संवित् सैवमानमतोमतम् ॥
यत् सिद्धा विदमस्सिद्धिर्यदसिद्धौ न किञ्चन ।
न चक्षुश्शब्द संवित्तौ शब्दप्रमितौ न श्रोत्रं रूपवेदने [[८२७]]
रूपप्रमायाम् उपलक्षणत्वात् ।न घ्राणादिकमपि रसादि प्रमितौ न धूम
लिङ्गादिकमपि जलाद्यनुमितौ । (न धूमलिङ्गादिकमपि जलाद्यनुमितौ ।) न
चन्द्रो विराजत इति शब्दादिकमपि सूर्यादि प्रमितौ न विजत्वादिकमपि
वक्ष्यमाणपशुत्व प्रमितौ प्रमाणत्वे न स्यात् । अतः यत् सिद्धौ इदमस्सिद्धिः
इदमिति समुत्थप्रमितेस्सिद्धिः यदसिद्धौ न किञ्चन । सैव संवित्
चिच्छक्तिस्सर्वत्र परस्परं चक्षुरादिभिव्यभिचरितेषु शब्दादिषु ग्राहिका
स्वस्वोचित प्रमिति लक्षणार्थक्रियां कुर्वति सती मानं मतम् । अथ
सौगतमतमनूद्य प्रतिक्षिपति -
बुद्धिस्सर्वान्तिमत्वेन कस्मान्मानन्नचेष्यते ।
प्राकृतत्वाविशेषेण दृगादेरविशेषतः ॥
[[८२८]]
असंविदात्मकत्वेन नहि बुद्धेः प्रमाणता ।
यत् सिद्धा विदमस्सिद्धिरित्याद्यत्राप्यनुषज्यम् । सा अविसंवाद
विज्ञानात्मिका बुद्धिः । सर्वान्तिमत्वेन सर्वप्रमेय प्रमित्ये कान्तत्वेन
नानेकान्तिकीति कस्मान्मानन्नचेष्यते । सत्यम् । उच्यते । प्रेत्यादिना
असंविदात्मकत्वेन अनविसंवाद ज्ञानात्मकत्वेन स्वसंवित्तित्वा भावाच्च
। चक्षुरादि पदध्यवसाय स्वकार्योपबृंहित प्रमाणान्तरेणानुमेयत्वाच्च
सौगतमतानुविहित स्वस्या असंविदत्वमपि स्वविषय वृष्ट्याद्यर्थार्थक्रिया
युक्तत्वमिति बुद्धिरतीता नागत विषयप्रमितिञ्च व्यभिचरतीति च अक्षमात्र
जन्य निर्विकल्पप्रमितिञ्च तथेति न मानमित्यक्षरार्थः । सर्वप्रमित्यविना
भूतापि बुद्धिस्सुखादि [[८२९]] रूप स्वप्रमितिं व्यभिचरतीति विद्यासिद्धौ
विस्तरितविविधोक्तिं स्मारयति -
बुद्धिश्च वेद्यते किञ्च सुखदुःखादि रूपतः ।
प्रमाणैकान्तता तेन बुद्धेरपि न सम्मता ॥
प्रमाणैकान्तता प्रमित्यव्यभिचारः । शेषं सुगमम् । ऋषयः कथञ्चित्
पुनश्चक्षुरादीनां नामत्वं समुत्पक्षिपन्ति -
ननु प्रमेयसंसिद्धौ सामग्री केन नेष्यते ।
प्रमात्रादि घटान्तेषु सत्स्वेव घटनिश्चयात् ॥
ननु यदि व्यष्टिमन्ति तर्हि चक्षुराद्विनी बहि शाब्दादि प्रमितौ बौद्ध
स्वाध्यवसायोपबृंहित सुखादि निर्विकल्पान्तः प्रमितौ च व्यभिचरन्ति ।
व्यष्टिमन्ति सती [[८३०]] मतिश्चान्तस्वाध्यवसित सुखादिरूपसु प्रमितौ
बहिरका लोचनमत्रार्थप्रमितौ च व्यभिचरन्तीत्युक्तं यत् तत् सत्यमेवामास्तु
तत् प्रमात्रादि घटान्तेषु आत्मेन्द्रियान्तःकरणेषु सत्सु घटनिश्चयात् । अर्थ
प्रमिति समुत्थितेः सामग्री तत् प्रमिति साधनानां समष्टिः प्रमाणत्वेन
केनमेष्यते । ईश्वरः -
तन्न प्रमातृमेयादि व्यवहारविलोपतः ।
मातृमानप्रमेयाणां तदन्तर्भावितस्थितेः ॥
तेषान्तु व्यतिरेकेण सामग्री च न दृश्यते ।
यद्यतोऽव्यतिरिक्तन् तत् ततो भिन्नं स्वरूपतः ॥
संशयादि विहीना तु चिच्छक्तिर्मानमिष्यते ।
तदयुक्तम् । कुतः प्रमातृ प्रमेयादि व्यवहारविलोपतः । [[८३१]]
प्रमातृमानमेय साङ्कर्यतस्समुत्थ प्रमात्रादि पृथगुक्ति विभञ्जनात् ।
यद्यपि सामग्री प्रमाणं स्यात् न स्यात् । प्रमात्रादि पृथगुक्ति विलुप्तिरिति यदि
तव क्लिप्ति स्यात् तर्हि मातामेवद्यतेतिवत् प्रौडीयं क्लिप्ति स्यादिति सोपहासः ।
कुतः । मातृमानप्रमेयाणां तदन्तर्भावत स्थितेः । यत् सामग्री कुक्षि
निक्षिप्तत्वात् । ननु गुणगुणिनोरिव सामग्री प्रमात्राद्योर्वस्तुतोस्तु भिन्नत्वं
तदयुक्तम् । वस्तुतोभिदोक्तिमतस्तार्किकान्य प्रतिक्षिप्य सौगतान् समान
तान्त्रिकान् कृत्वा अपृथक्सिद्ध तद्रूपतया गुणसंहतिरेव गुणीति तन्मात्र
परीक्षायां समर्थितत्वात् । अवयव संहतिरेवावयव्यतितेषान्तु । व्यतिरेकेण
पृथक्सिध्या सामग्री च न दृश्यते । [[८३२]] अपृथक्सिध्या किं भिदास्ति अस्ती हि
यत् बलभिस्तं भाविकं यतो ग्रहादेः अव्यतिरिक्तं पृथक्सिद्धं तत्
ततस्वरूपतोभिन्नं वस्तुतो द्वैतिभावकरास्तु अनुभूतिप्रमाणं कुर्वतः ।
अनुभूतिः प्रमिति लक्षण प्रमाणार्थक्रियेति प्रमाणप्रमिति साङ्कर्य
प्रसङ्गात् । भ्रमे अति व्याप्तेश्च यदि भ्रमव्यतिरिक्त प्रमितिवतीत दानाम्नि
विवादयति च प्रतिक्षिप्ताः । भाट्टास्तु अनतिगतार्थगन्तृ प्रमाणं कुर्वन्तः
आगमाध्युपबृंहित प्रत्यक्षाद्यधिगतानधिगतार्थविषय तदनुपबृंहित
स्वतोधिगतार्थविषय साकल शैव ज्ञानानां प्रमाणत्वात् । प्रतिक्षिप्ता
इत्युपेक्षामुपदर्शयन्नुपसंहरति संशयेत्यादिना सुगमम् । ऋषयः
पुनः नैय्यायिकभूमिकयापि भाषितं बहिश्चे॥॥ऽ भ्युपगच्छन्त [[८३३]]
इव स्वमतस्थापनायां किञ्चित्करीं परपक्षदूषणमात्र विधात्रीं
वितण्डां विदधन्ति -
चिच्छक्तेरर्थसंयोगोद्यक्षमिन्द्रिय मार्गतः ।
स्वयमेव हि चिच्छक्तिः पदार्थाभिमुखी नतु ॥
कथं पदार्थे सम्बन्धस्तस्या करणमन्तरा ।
इन्द्रिय मार्गतः । इन्द्रियोपब्रंहणात् । चिच्छक्तेरर्थसंयोग अर्थसम्बन्ध ।
ज्ञाप्यज्ञापकलक्षणं न तु संश्लेष इति व्याख्येयम् । अमूर्थत्वेन
गुणत्वेन तदसम्भवात् । तदेतत् सूचनार्थं वक्ष्यति च । कथं पदार्थे
सम्बन्ध इति अव्यक्षम् । लक्षणया अर्थसंयोगार्थ प्रमित्यभिहित
स्वचिन्मयार्थक्रियोपबृंहितम् । अक्षम् अर्थे प्रवर्तत इति प्रत्यक्षम् ।
उपलक्षणञ्चैतत् । धूमादिलिङ्गशब्दार्थ [[८३४]] क्लिप्त्युपब्रंहणात्
स्वसार्थसम्बन्धसमुत्थार्थप्रमिति लक्षणार्थक्रिया मयं ल्लैङ्ग
शाब्दं कल्पितमित्येतेषमपि तदित्थञ्चिच्छक्तिः प्रत्यक्षप्रमाणादि
व्यवहारं लभताम् । नतु स्वयं कुतः स्वयमित्यनुषङ्गः । शेषं
सुगमम् । ईश्वरः । पदार्थानामाभिमुख्यं पुनस्तदाभिमुख्य
लाभार्थं करणापेक्षित्वञ्च न स्वाभाविकं शिवसिद्ध शिवशक्तीनां
प्रमाणकुक्षिनिक्षिप्तानान्तदश्रुतेः । किन्तु मलौपाधिकं
ततस्सकलशक्तिमात्र समर्थानार्थं तत् करणा पेक्षित्वं सत्यमित्याह -
सत्यम्मलावृतत्वेन स्वनिष्ठैव प्रतिष्ठिता ।
कलादिकरणव्यक्त युज्यतेर्थैर्यदा तु चित् ॥
तदा प्रत्यक्षमित्युक्तम् अक्षमर्थे प्रवर्तते ।
[[८३५]]
स्पष्टोक्षरार्थः । परगूढाशयं समुक्षिप्य समाविष्कृत्य
तिरस्करोति -
नचेन्द्रियार्थमात्रस्य संयोगाध्यक्षमिष्यते ।
चित्संयोग विहीनानामकिञ्चित् करता यतः ॥
चित् अर्थप्रमितिलक्षणार्थ क्रियातया संयोगसम्बन्ध समवाय लक्षणः ।
तेन विहीनानि तथेति तेषाञ्चित् संयोगविहीनानामिन्द्रियाणां यद्वा
चिद्व्यञ्जक व्यङ्ग्य सम्बन्ध विधुराणामकिञ्चित् करता अनर्थप्रमिति
लक्षणार्थक्रिया विधातृत्वं किन्तु तानि चिदर्थक्रिया संयोग चिच्छक्ति करण
सह कर्तृकाणि । यद्वा चिच्छक्ति चिदर्थक्रिया व्यङ्ग्ये व्यञ्जकसम्बन्धिनी
किञ्चित् कराणि स्युः । तदुक्तञ्च सर्वज्ञानोत्तरे ।
[[८३६]]
प्रकाशं मनसायुक्तमिन्द्रियैस्सह युज्यते ।
इन्द्रियाणि ततोर्थेषु नित्यमेव प्रवर्तत ॥ इति ।
यतः (यतः) नचेत्यनुषङ्गः । शेषं सुगमम् । सौगताः निर्विकल्पकं
परमार्थसुलक्षणविषयं भवतु प्रमिति प्रमाणलक्षणं प्रत्यक्षम् ।
नामादिक्लिप्तविसयत्वा न तु सविकपकमिति ब्रुवन्ति । तदाकलय्य भगवान्
भवद्भिरुपादत्त लैङ्गानपन्नपनीय शाब्दप्रमित्योर्विकल्पकत्वात् ।
तादृशाध्यक्षमपि अनपह्ववनीयमित्याह -
विकल्पयोगात् सा शक्तिरेवाद्विविधमिष्यते ।
वस्तु स्वरूपमात्रस्य ग्रहणन्निर्विकल्पकम् ॥
नामजात्यादिसम्बन्ध संहितं सविकल्पकम् ।
सैका शक्तिः लक्षणया शक्तिनैसर्गिकनैर्विकल्प्य [[८३७]] सहजैक
प्रमित्यमित्यर्थक्रियेत्युक्त ज्ञानं विकल्पयोगात् ॥॥। ध्यध्यवसाय वृत्ति
व्यञ्जत्वात् द्विविधमित्यनुषङ्गः । इदमित्यध्याहृत्य वस्त्विति देवदत्तोयं
ब्राह्मणोयं श्यामोयमित्याद्यध्याहृत्य नामेति चा अनुषज्यताम् । यदाहुः
।
बुध्यावसीयते सापि प्रत्यक्षत्वेन सम्मतेति ।
ननु शक्तिसविकल्पप्रमित्यर्थक्रियां कुर्वति पुन स्वसुखेति स दुःखेति ।
स्वात्मनिक्रिया विरोधेन मेयतया सुसंलक्ष्यते । सत्यम् । भोग्यात्म
बुध्यविविक्ता सति तत् प्रकाशतया स्वप्रकाशेत्वप्रकाशतया प्रतिभासिनी
यद्यपि तया सुसंलक्ष्यत इत्यदोषः । तदुक्तं रत्नत्रये -
तत्र चित् स्वाभिसम्बन्ध बुद्धितत्वा विवेकतः ।
आरोप्यात्मनि तद्वृत्ति विकारानविकारिणी ॥
[[८३८]]
जन्माद ॥॥॥। जातेति नष्टेति विविधेति द्विससुखेति सदुःखेति स्वात्मानं
दर्शयत्यनोरिति । तदितं विकल्पाविकल्पं चिच्छक्तिकर्तव्यन्त्रिविधं
भवतीत्याह -
एतच्चन्द्रिय सापेक्षन्निरपेक्षन्तथैव च ।
अन्तःकरण सापेक्षमिति त्रिविधमिष्यते ॥
सुगमम् । त्रिविधप्रमिति लक्षयन् निरपेक्षप्रमिति लक्षयति -
तत्रेन्द्रियानपेक्षञ्च सर्वधा त्यक्तबन्धया ।
चिच्छक्त्यानन्तयोगाच्छ योगस्वाभाविकोत्तमः ॥
तत्र त्रिषुमध्यात् इन्द्रियानपेक्षञ्च उपलक्षणत्वात् । अन्तःकरण बहिःकरण
निरपेक्षमपि सर्वधा सर्वात्मना अधिकारमलांशवतामनन्तादीनामपि
विज्ञानस्य विकल्पात् । [[८३९]] बैन्दवकला
कलापरपेक्षास्तीत्यधिकारमलांशस्यापि निरवशेषेण त्यक्तबन्धया
समन्वितनिरवशिष्टा पाशया चिच्छक्त्यनिर्विक्लिप्ति प्रमिति मातृस्वार्थक्रियया
शिवमुक्त शिवसम्बन्धिन्या आनन्त्ययोगात् । तदेवं विषयानन्त्यात् ।
भेदानन्त्यं प्रपद्यत इति श्रुतेः । विषयानन्त्यं यथावत् स्वभावज्ञाप्य
ज्ञापकलक्षणसम्बन्धत्वात् योगमननम् । स्वसंवेदनलक्षण स्वप्रमिति
पूर्वं सर्वार्थनिर्विक्लिप्ति प्रमिति सयोगश्च स्वाभाविकः । स्वतस्सिद्धो मतः ।
तदुक्तमत्रैव पशुपटले ।
तद्वत्स्वतोपि सर्वज्ञाः किञ्चित् ज्ञत्वन्तु कारणात् ।
निरुद्धं येन सर्वज्ञं समलः परिपठ्यते ॥
इति सर्वदेति च पाठः । क्वचित्तदादाने सर्वदायोग [[८४०]] इत्यन्वयः सयोगः ।
न क्वचित् कस्यचित् कदाचिदित्यर्थः कैश्चित् शैवैकदेशिभिः देवतान्तरक्लिप्त
श्रुत्यनुवासितैश्शिवक्लिप्त श्रुतिविरोधविधातृभिः तदेतत् श्लोकार्थं
पूर्वमनुपदमेव सम्यक् समर्थितन्नतस्यभिमुखि ज्ञानमित्यादि स्वकुक्षि
निक्षिप्त पटश्लोकार्थञ्च मोक्षकारिकासु भगवता रामकण्ठेन सम्यक्
समर्थितम् । शिवार्कशक्तिदीधित्या समर्थी कृत चिद्दृशा । शिवं
शक्त्यादिभिस्सार्धं पश्यत्यात्मा गता वृत्तिंरित्यादि श्लोकार्थञ्च
स्वकोट्यन्तः पातयित्वा कदर्थीकृत्य संसारदशायां
चिच्छक्तेर्विद्यारागाद्य कलुषितकलुषितद्व्यंशत्वादनुक्रमतोस्ति हि । प्रमातृ
रूपं प्रमाणरूपञ्च । पुनर्बुद्धिवृत्ति विमिश्रिताङ्गं प्रमितिरूपं (प्।
८४१) मक्ति दशायान्तु विद्यारागाद्य कलुषितत्वात् केवलं प्रमातृ रूपमिति
सिद्ध श्विस्य च साधकस्य च सर्वकरणानि विधून्वतो वा शिवद्यवलोकने
स्वक्लिप्ति क्लिप्त शिवशक्ति प्रमाणरूपस्य पुनः स्वक्लिप्ति क्लिप्तविद्यारागादि
कलुषितत्वलक्षण व्यभिचारात् क्लिप्तरियं स्वविहतिविधातृ विहिता । अहोबत
कथमिदं व्यर्थं कल्प्यते । न यतः नीतिज्ञैः करणीयां काञ्चिदपि
विक्लिप्तिं क्षमते तथा हि । अस्माभिश्शिवमात्रं प्रतिस्वतस्सुक्लिप्तप्रमाण
लक्षणा शैवमानं सम्यगविन्दुद्भिर्भवद्भिर्मुक्तशिवं प्रति
पुनस्साक्षात् स्वतस्साधकम् । प्रत्यविक्लिप्त प्रमाणलक्षणा शिवशक्तिः
विद्यारागादिभिः कलुषिता । किमथ किमकलुषिता । तत्र यदि कलुषिता [[८४२]]
तदा शैवीत्वं भज्येतेति पशुशक्तिरेव मुक्तशिवसाधकौ प्रतिप्रमाणमिति
सोपहासः यद्यकलुषिता तदा त्वदुक्तप्रमाणलक्षणकोट्यविनिष्टत्वात् । त्वां
प्रति तस्या प्रमाणरूपत्वं भज्येत । क्व मुक्तशिवं प्रतिक्व साधकं प्रति
क्व विवादानध्यासितं शिवं प्रतिशिवशक्तेः प्रमाणक्लिप्तिः स्वात्म
लाभाभावात् । शिवं प्रतिमुक्तशिवाद्यवलोकने शिवान्तरशक्ति
क्लिप्तेरनवस्थितिरापतेत् । ननु शिवशक्तिः विद्यारागादिभिः कलुषितत्व विधुरापि
स्वत स्वपरापेक्ष स्वरूप स्वार्थक्रिया विवक्षयानुक्रमेण
प्रमातृप्रमाण प्रमिति नामत्रिरूपिणी यद्येवं किमपराद्धं मुक्त
शिवसाधक शक्तिभ्यां सजाति चित् साधारणत्वात् संविदस्त्वनुक्रमेण (प्।
८४३) प्रमातृ प्रमाण प्रमिति शक्तिमत् शक्तिशक्त्यर्थक्रिया त्रिविधैक्य
स्वरूपाणां स्वतस्सिद्धत्वं नित्यत्वञ्च पशुपटले ।
किञ्चानु भूयतेह्यात्मा स्वरूपात्मप्रकाशकः ।
परप्रकाशकत्वञ्च नित्यन्नित्यगुणो यत ॥
इत्यादिभिः परीक्षायुक्तं सिद्धम् । भाषितमिति न तस्याभिमुखी
ज्ञानमित्यत्र च सुपरीक्षितमिति अलमनुपसित गुरुभिः
स्तपस्विजनमनस्समाकुलमति विकुर्वद्भिर्विपादेन । ननु परजीव द्विपद
पृथगुपबृंहित मुक्तिपद पठित फलोपबृंहित दशायां सिद्ध
शिवसाधकयोश्शक्त्या शिवाद्यर्थावलोकने शिवशक्तिसापेक्षास्तीति न
केवलं शिवशक्तिः प्रमाणमिति ब्रूमः । [[८४४]] सत्यम् । साधकस्यारब्ध
कार्यकर्मभोगोपरोधेनाक्षपितस्य मलादि बन्धस्यावशिष्टत्वात् ।
नात्यन्तिकी निवृत्तिः कृतेति प्रत्यहं स्वेचित शिवत्वाभिव्यक्तये मन्त्राधिष्टाने
न वा पाशजयेन म॥।ऽ लये शिव स्व शिवावलोकनपूर्वम् अविकल्पं यथा
भवति तथा परशिवत्वाभिव्यक्ति फलपरभावनार्थं साक्षाद्वा शिवादि
त्रिपदार्थज्ञानार्थं शिवागमाधिष्टानेन वा शिवशक्तिश्चिच्छक्तिलक्षण
प्रमाणमभिव्यञ्जयतीति शिवं प्रतिनिरुपचरितापि साधकं प्रति
चक्षुरादिवत् उपचारबीजं प्रमाणमुच्यते । ननु शिवज्ञानन्तवास्त्विति
गुर्वाशीर्वाद श्रुतेः । साधकस्य शिव दर्शने शिव समवेतं शिवज्ञानं
प्रमाणं केवलमिति कथकेचिचिरे । बालभाषितमेतत् घटज्ञानमित्यत्र (प्।
८४५) घटसमवेतं घटज्ञानमिति सोपहासत्वात् । ननु घट दृष्टरि
समवेतं घटज्ञानं यद्येवं शिव दृष्टरि समवेतं शिवज्ञानमिति
किमिति नोच्यते । किं पक्षपातेन ततः प्रमाणाभिव्यञ्जत्वात् प्रमाणमिति
सूक्तिः । ननु मुक्त शिवस्यापि शिवशक्ति सापेक्षा नास्तीति मा वद तदयुक्तम् ।
कृतात्यन्तिक पाशनिवृत्तेः स्वस्वामि सम्बन्ध चिच्छक्ति सहकृत सर्वधाकृत
शिवत्वाभिव्यक्तेश्च मुक्तं शिवं प्रति शिवाधिष्ठातृत्वा सिद्धेः न
शिवशक्तिश्चिच्छत्यभिव्यञ्जकत्वेन प्रमाणम् । ननु व्यञ्जक
दीपाद्यनधिष्ठित घटादेरिव व्यञ्जक शिवशक्त्यनधिष्ठित सिद्ध
शिवशक्ति व्यक्तेः विलोपस्यात् । तदयुक्तम् । न दीप वदनाद्यत्यन्तिकिमावरण
निवृत्तिं [[८४६]] कुर्वती पुनस्साक्षात् सिद्धत्वमात्रं विवक्षित्वा स्वव्यक्ति
सदृशीमव्यक्तिं वितन्वती च सती स्वत श्रुति तस्सिद्धा । तदुक्तं
मोक्षकारिकासु ।
व्यङ्ग्य व्यक्तिर्भवेत्तावद्यावद्व्यञ्जकसन्निधिः ।
सिद्ध शक्तावधन्याधो विद्यते नेति चोद्यते ॥
अभिव्यक्तिकरी शैवी शक्तिस्तत्सन्निधानता ।
यातास्ततमित्यस्मादपि सैद्धी ननश्यतीति । अन्यथा शिवशक्ति व्यक्तितुल्य
व्यक्तिमत्यास्सिद्धशक्तेश्शिवशक्ति सापेक्षायां शिवशक्तेरपि शिवान्तर
शक्तिसापेक्षा कथन्नस्यात् स्याद् इत्यनवस्था स्यात्
पुनस्सिद्धशिवशक्तिर्मलविदूषिता सापेक्षित्वात् सकलशक्तिवदिति मुक्तस्य
पुनस्समलससंसारित्वं सुसंसिद्धम् । सापेक्षित्वे [[८४७]] चिन्मात्र विषयित्वे
शिवादिपदार्थैकदेशविषयित्वे वा समलसंससंरित्व सुसंसिद्धिस्यादिति
चिच्छक्तिर्व्याहता भवति । तदुक्तं मृगेन्द्रे ।
यानि व्यञ्जकमीक्षान्ते वृतत्वामलशक्तिभिः ।
व्यञ्जकस्यानुरोधेन तानिस्युर्व्यहतान्यपीति ॥
ततश्शिवत्व व्यक्तिमयी परसंवित्सिद्ध शिवशक्तिः शिवशक्तिवत् स्वाज्ञानेपि
बन्धोस्तीति प्रागुक्तप्रकारेण स्वसंविद्भूत्वा शिवान्तरशक्ति निरपेक्षासति
सदा खल्वभोग्यतया सर्वशिवादिपदार्थसत्तामात्र संवेत्ति स्यात् । तदुक्तं
प्रभास्वरमिदं चित्वं प्रकृत्यागन्तवोमलाः । तेषां महा भावे
सर्वार्थन्तज्येतिरविनश्वरमिति । रत्नत्रये च ।
[[८४८]]
बन्धवती विमूढात्मा मोक्षस्तत् बन्धमोचनः ।
गलिते सर्वधा बन्धे विमुक्ते चाणवे मले ॥
सर्वार्थद्योतिका शक्तिश्शिवस्येव विजृम्भते ।
सर्वावरणनिर्मुक्ता शक्तिरेषा महीयसी ॥
अल्पीयांसं समावृत्य विषयं साधु दर्शयेत् ।
परसंवित्स्वरूपायाश्शक्तेरसतिबन्धने ॥
परमात्रं प्रकाशेत मुक्ताणूनामनारतम् ।
ततो विमुक्तास्सर्वज्ञा न तु चिन्मात्रवेदिनः ॥
सति बाह्ये ततज्ञानं वस्तुनिस्यात्तमस्तुतः ।
तमसाच्छाद्यमाना हि न ते मुक्ता भवन्ति च ॥ इति ।
मृगेन्द्रेपि ।
कर्तृशक्तिरणोर्नित्या बह्नीचेश्वर शक्तिवत् । इति ।
[[८४९]]
ननु शरीराद्याधारं निरपेक्ष्य न कार्यकरज्ञानं
साधारव्याप्ति दर्शनात् । तद्वत् शिवश्य मुक्तशिवस्य वा निराधारन्तु
कार्यकरज्ञानन्तदुक्तम् । वायुनानैकान्तिकत्वात् । वायुश्शरीर साधारं
प्राणाद्यात्मना स्वसनादिकार्यं करोति निराधारं वृक्षकं पादिकार्यं
करोति । अथेन्द्रिय सापेक्षं लक्षयति -
अन्यच्चेन्द्रिय सापेक्षं स्याच्छादन निवृत्तये ।
इन्द्रिया पेक्षया शक्त्या तद्वारेणार्थवीक्षणम् ॥
छादननिवृत्तये विद्याराग सहभावमनोधिष्ठितेन्द्रियापेक्षया शक्त्या
स्वसंवेदन प्रत्यक्षमिति पूर्वन्निर्विकल्पं पुनर्बुद्धि
सहकृतेन्द्रियापेक्षया शक्त्या अहमित्यहङ्कारवृत्ति विमिश्रित सविकल्प
स्वसंवेदन प्रत्यक्षमिति [[८५०]] पूर्वं सविकल्पञ्च यथा भवति तथा
तद्वारेणार्थ वीक्षणं रूपादि चोरप्रमितिस्सकलमान्तृसम्बन्धनी तथा
शुद्धेन्द्रियद्वारानन्ताद्य परशिवसम्बन्धिनी च पूर्वोक्त निरपेक्षाद्
अन्यचेन्द्रिय सापेक्षं स्यात् । अथान्तः करणसापेक्षं लक्षयति -
अन्तःकरण सापेक्षं बाह्येद्रिय जयेन तु ।
अन्तःकरण सापेक्षञ्चिच्छक्तेर्द्येयसङ्गतिः ॥
योगिनः प्राप्तिगुण माहात्म्यात् । बाह्येन्द्रिय जयेन तु । सन्निहित स्वापेक्षित
बाह्य विषयादाहृत्य विधृत्य बाह्येन्द्रियानुन्नतिकरणेनान्तःकरण
सापेक्षं यथा भवति तथा सङ्कल्पाभिमानाध्यवसाय
ध्यानात्मिकायाश्चिच्छक्तेर्ध्येय सङ्गतिः । अति दूरस्थाभिमतपारिजात (प्।
८५१) पौष्पगन्धादि साक्षात् स्वीकरनरूपप्रमिति अन्तःकरण सापेक्षस्यात् ।
तदुक्तं मतङ्गे ।
यद्यदीप्सति योगीन्द्रि योमन साप्यथ तत् क्षणात् ।
सर्वमापेनात्य सन्देहाद् अथवा यत्र रोचते ॥
इति प्रत्यक्षाह्वयः । अक्षमात्रार्थ सन्निकर्षषोदेत्याह -
अक्षमात्रेण सम्बन्ध षड्विधोऽध्यक्ष सञ्ज्ञितः ।
घटादि द्रव्यविज्ञानं चक्षुस्संयोगमात्रतः ॥
संयुक्त समवायात् तत् गुणसामान्ययोर्मतिः ।
संयुक्तसमवेतार्थ समवायाद्गुणत्वः(त्वधीः) ॥
यथा स्वं विजाति सजाति विधा वृत्तगुणसमष्टि सहभूत विजातिमातृ
व्यावृत्तगुण समष्टिरूपा नानावयवसमष्टि समुत्थ सादृश्य लक्षण
जातेः । कथञ्चित् जातिमता [[८५२]] सह समष्टि पुरस्फूर्तिकं
शब्दानुल्लिखान्तविकल्पगुणसमष्टि अर्थमातृ निर्विकल्पज्ञान समनन्तरम्
अमिधर्मा ब्राह्मणस्यैव नान्यस्येति विशेषणविशेष्य
लक्षणयोर्गुणसमष्टि समुत्थ सादृश्य लक्षणजातिगुणयोर्व्यष्ठि समष्टि
विषजन्यास्ससन्देह मनस्सङ्क्लिप्ते समनन्तर समुत्थबौद्ध शब्दोल्लिखित
सविकल्पज्ञानात्मिका श्यामादिगुणसमष्टि द्रव्यो वाचकशक्तिग्रहपूर्वं
देवदत्तोयं सादृश्यलक्षणजातिव्यष्टिग्रहपूर्वं ब्राह्मणोयं
गुणव्यष्टि ग्रहणपूर्वं श्यामोयं गुण सादृश्य
लक्षणजातिव्यष्टिग्रहपूर्वं श्याम इति संयोग संयुक्त समवाय
संयुक्त समवेत समवायि तृसम्बन्धैर्द्रव्यं द्रव्यजातिगुण गुणजातिमति
स्यात् । चतुर्थपञ्चमसन्निकर्षण [[८५३]] समत्थयमिति -
शब्दस्य ग्रहणं श्रोत्रे समवेततया स्थितम् ।
शब्दत्वं समवेतार्थ समवायात् प्रतीयते ॥
श्रोत्रे वीणादिशब्दस्य वर्णात्मकस्य वा समवायात् । वीणाशब्दो यमाकारो
यमित्यादिरूपेण शब्दस्य ग्रहणं स्थितम् । प्रमिति स्थिता स्यात् समवेतार्थ
समवायात् । श्रोतृ समवेतार्थशब्द शब्दत्व समवाया ध्वनिशब्द
जातिरयं वीणाशब्दावान्तर सजातिरयमिति वा वर्णशब्दसजातिरयमिति
आकारवर्णशब्दावान्तर सजातिरयमिति वा ध्वनिशब्दावान्तर शब्दवर्णि
शब्दशब्दावान्तरशब्द शादृश्यानु सम्बन्धानरूपेण शब्दत्वं
प्रतीयते । ननु ध्वन्यात्मन शब्दस्याकाशादि सूक्ष्म स्वगुणिसहितं श्रोतृ
देशं गतस्याहं कृते स्वाश्रयाकाशादि प्रकृतिभूत [[८५४]] तन्मात्रादि
सहजश्रोत्रे कथञ्चित् समवायो हि सन्निहितत्वात् सात्विकादि सादृश्याद्वा
तदपृथक्सिध इव लक्ष्यत इति गुण्यन्तरे गुणसञ्ज्ञान्त्य
सम्भवेप्युपचारबीज उच्यते । कथं बैन्दववर्णात्मक शब्दस्य सत्यम् ।
तस्याप्यति सन्निहितन्द्वाद्वा कथञ्चिदुपचर्यत इति नैय्यायिक मतानुसारोक्त्या
वा निरुपचरितं वर्णनमिदमिति वा न कश्चिद्दोषः । षष्ठं लक्षयति -
विशेषणतया ह्यर्थे विशेष्यत्वेन वा भवेत् ।
समवायमिति स्थित्वा स्फुटमर्थे प्रकाश्यते ॥
समवायमिति स्फुटार्थे स्थित्वा प्रकाश्यते । सा चमितिः चक्षुस्संयुक्तेर्थे
विशेषणतया पटसमवायान्त स तन्तव इति विशेष्यत्वेन वा इह तत्तुषु
पटसमवाय [[८५५]] इति वा भवेत् अभावमितिश्च थथेति
पुनस्समवायमित्यनुवादेनाह ।
प्रागभावविशेषेण समवेततयाऽथवा ।
विशेषणतयाऽभाव समवायमिति स्थितिः ॥
विशेष्यत्वेन वाऽभाव समवायमिति स्थितिः ।
वस्तुन स्वनिष्ठत्व धर्मलक्षणशक्त्यात्मस्थित्यात्म तिरोभूतिः । विप्रकृष्ट
स्थित्यात्म तिरोभूतिश्चाभाव इत्युक्तत्वात् । प्रागभावविशेषेण
पटाभाववन्त इमे तन्तव इति घटाभाववतीत् । भूतलमिति वा समवेततया
पटसमलायवन्तस्तन्तव इति विशेषेणतया क्षिप्याभाव समवायमिति स्थितिः ।
इह तन्तुषु पटो नास्तीति इह भूतले घटो नास्तीति च इह तन्तुषु सम्बन्धस्य (प्।
८५६) सम्बन्धान्तर क्लिप्तौ पुनरनवस्थितेः । घटसमवाय इति विशेष्यत्वेन
वा क्षिप्याभाव समवायमिति स्थितिः । इत्थं
षड्विधोर्यक्षसम्बन्धस्सोप्यक्षमात्रेणेत्युक्तत्वान्नहि सात् चिच्छक्तेः
बाह्यर्थैस्सह ज्ञाप्य ज्ञापकलक्षणसम्बन्धिनि सुपरीक्षिता । ननु
कैश्चिदात्मनाम्मलेन सहानादि संयोगः पुनश्शिवेन सह नाद्यनन्त
संयोग इति कैश्चित्ताभ्यां सह समवाय इति च वर्ण्यते । कैश्चिदयुक्तौ द्वौ
हीति वर्ण्यते । तत इतस्समुत्थस्सन्देहः सत्यम् । यथा यथं
सम्बन्धिनोरक्रियत्वादमूर्तत्वात् क्वचिच्चेतनत्वात् अवयवावयवि गुणगुणि
जातिव्यक्तिसम्बन्धः क्रिया क्रियावतामपृथक्सिद्धिमतामन्यतमत्वा
सम्भवात् क्वचिच्चेतनाचेतनत्वादिति हेतुभिर्द्वयोर्नास्तीत्वे [[८५७]] सति
सर्वत्रातिसन्निहितत्वादित्वात् कथञ्चित् क्वचिदुपचरितोपि न
निरुपचरितस्संयोगस्समवायोथवा तत्र तत्र श्रूयमाणसंयोगादि शब्दस्य
सम्बन्धमात्र सूचकतया मलात्मनोरावार्यावारकलक्षणसम्बन्धः
सोपि व्यापकत्वान्न युज्यत इत्यत्र पशुपटलोक्त्या विरोधेन वश्य
वशितृलक्षणः पर्यवस्यति । तथा भगवता रामकठेन
मतङ्गकिरणवृत्यादौ वर्णितम् । शिवात्मनोर्बन्ध
दशायामनुग्राह्यानुग्राहकलक्षणसम्बन्धसम्पादक मलौपाधक
विजात्य परनामविसा दृश्योपि स्वतोन्तस्सजात्य परनाम सादृश्यं
सम्बन्धम् । यदाह वृत्तिकारः शिवश्चात्मनस्समानजातीयाति अतो न
संयोगादिकः भगवान् रामकण्ठश्चा ब्रवीत् । स्वात्म संवेदनेकस्य (प्।
८५८) कुत्रान्वय इति माययापि तदुत्थ प्रकृत्यापि च दृष्टृदश्य लक्षण
स्वाभाविकोपि बन्धदशायां स्वकार्यद्वारा कर्मनिमित्तभोग्य भोक्तृत्व
लक्षण स्वसम्बन्धः । न संयोगादि ॥॥॥ था समर्थितं मृगेन्द्रवृत्तौ
संयोगस्तावत् पुङ्प्रधानयो दृष्टदृश्यलक्षण एव न परस्पराश्लेषः
उभयोरप्यमूर्तत्वे न तादृश्यस्या नपपत्तिरिति मतङ्गवृत्तौ च ।
अमूर्तयोश्चेतनाचेतनयोर्यस्सम्बन्धस्सव्यतिरिक्त इति । अत्र चोक्तं जटे जडस्य
सङ्क्रान्तिर्युज्यते परिणामिणः इति । अथ क्रमप्राप्तमनुमानं लक्षयति -
अनुमान दृढव्याप्त्या परोक्षार्था व बोधकम् ।
तच्चेह पञ्चावयवं प्रतिज्ञाहेतुरेव च ॥
दृष्टान्तोपनयावेतौ निगमश्चापि पञ्चमः ।
[[८५९]]
चिच्छक्तिः दृढव्याप्त्या बुद्धिवृत्तिविमिश्रित स्वकर्तव्य स्मृति सुनिश्चित
साध्यस्य व्यक्ति भूमिभूत धूमादि साधन साहचर्य नियत्या
परोक्षार्था व बोधकम् । इन्द्रियातित जगत्कर्तादि लक्षण स्वनिपतिता
नमित्यार्थक्रियमनुमानमुच्यते । तच्च स्वपरप्रतिपत्ति हेतुतया स्वार्थं
परार्थञ्चेति द्विविधं भूत्वा पुनरिह शैवे शास्त्रे धूमादि
लिङ्गोपबृंहित स्वचिच्छक्त्या स्वयं बुध्यापरं बोधयितुं स्वमुख
समुत्थापित वाक्यस्य पञ्चावयवम् परकीय चिच्छक्तिलक्षणमनुमानं
पञ्चावयवारूढं भवति नहि बौद्धमीमांसकादि दृगन्तरेष्विव
द्व्यवयवं त्र्यवयवं वात्र स्यात् । पञ्चावयवोदेश प्रतिवादक
प्रमितिज्ञेत्यादि सुगमम् । अवयव पञ्चकमनुक्रमितो [[८६०]] लक्षयति -
इष्टार्थोक्तिः प्रतिज्ञा तु हेतुस्तद्व्याप्तिमद्वचः ।
दृष्टान्त इत द्विधेद्व्याक्त हेतुस्तद्वत्परीक्षते ॥
दृष्टान्तपरीक्षयोर्व्याप्ति प्रस्तारोपनयो भवेत् । पुनः प्रतिज्ञानियमो
निगमस्यात् स हेतुकः ॥ तत्र प्रतिज्ञा तु पर्वतोऽयम् वह्निमानित्यादि
पक्षनिविष्टतयष्टार्थोक्तिः हेतुस्तु धूमवत्वादित्यादिकन्तद्व्याप्तिमद्वचः ।
तदिष्टार्थान्यादि व्याप्तिमत् पक्षनिविष्टधूमादिवचनम् । दृष्टान्तस्तु
तद्विधोत्तुद्युक्त हेतुः तन्महानसधूमाद्य विच्छिन्न मूलत्वादिलक्षण
प्रकारप्रवृत्त पार्वतधूमादिहेतुः तद्वक्तम्महानसधूमरूपयो यो
धूमवान् ससोग्निमान् । यथा महानस इति परीक्ष्यते । तत् परीक्षोक्तिरिति शेषः ।
[[८६१]]
दृष्टान्त परीक्षयो व्याप्ति प्रस्तारः तथा चायमिति व्याप्त्युपारोह
वचम् उपनयो भवेत् । प्रस्तारोपनय इत्यत्र च्छान्दसत्वात् सन्धिः । तस्मात्
तथेति पुनस्सहेतुकः । प्रतिज्ञा नियमः । प्रतिज्ञोक्तिः निगमस्यात् ।
व्याप्तिरितीयङ्केत्याह -
साधनस्य स्वतस्साध्ये नान्वयो व्याप्तिरुच्यते ।
सा च व्याप्ति द्विधा ज्ञेया व्यतिरेकान्वयात्मिका ॥
स्वतः श्रीमतङ्गपादौ । धर्मेण साध्यते धर्मित्वचित् कार्येण कारणम् ।
कारणेन्यत्वचित्कार्यं क्वचिदात्माय दर्शनादिति श्रुतेः । धर्मादि भावेन
साधकस्य साक्षात् साधनभूत चिच्छक्तिव्यक्तिभूमि
भूतधूमादिलिङ्गस्य चिच्छक्त्यर्थक्रिया भूतप्रमिति भूमिभूता [[८६२]]
नलादीनामन्वयस्साहचर्यनियमलक्षणसम्बन्धः व्याप्तिरुच्यते । सा च
व्याप्तिः व्यतिरेकान्वयात्मिका सति द्विधा ज्ञेया । तदेव प्रकट इति ।
सामान्यमुखतो ज्ञेया सान्वय व्याप्तिरुच्यते ।
साध्यसाधनयोर्व्याप्तिरभावमुखतोऽपरा ॥
तत्र या सामान्यमुखतः । यत्र यत्र धूमस्तत्राग्निर्यथा महानस इति । सा
धर्म्यपुरोगतेः । ज्ञेया सा साध्य साधनयोरन्वय व्याप्तिरुच्यते या
पुनरभावमुखतः यन्त्राग्निर्नास्ति तत्र धूमोपिनास्ति यथा महाहृद इति वै
धर्म्यपुरोगतेः ज्ञेया सा अपरा व्यतिरेका व्याप्तिरुच्यते । ईदृग्व्याप्ति
वदनुमान द्विविधमित्याह -
दृष्टं सामान्यतो दृष्टं मिति तत् साधनं द्विधा ।
[[८६३]]
तत्राद्यमक्षयोग्यस्य पदार्थस्यानुमापकम् ॥
अन्यत्स्वतोप्यदृष्टस्य पदार्थस्यानुमापकम् ।
दृष्टं सामान्यतः दृष्टं वक्ष्यमाण हेतु त्रयस्य विशेषेण
साधारणेन च । तत् साधनन्तदुक्त व्याप्तिमदनुमानं
विशिष्टन्दृष्टमविशिष्टन्दृष्टमिति द्विधा तत्राद्यन्
दृष्टमनुमानमक्षयोग्यस्य इन्द्रियार्थक्रिया व्यक्तिभूमिभवितुमर्हस ।
पार्वतवह्न्यादेरनुमापकन्तत्र स्वनिपतित
स्वानुभूत्यर्थक्रियञ्चिच्छक्तिव्यक्तिभूमिभूतन् तद्वह्निकार्यं
धूमादिकम् अन्यत् सामान्ये न दृष्टं स्वतोपि स्वभावतोपि सद्यस्समुत्थ
निरूपाधितोपि क्वाप्यदृष्टस्या अतीताक्षार्थक्रियस्य जगत्कर्त्रादेः
पुनस्सद्यस्समुत्थितमस्तिरोहित स्वसत्वाद्युपाध्युपहित [[८६४]] नीलोत्पलादेश्च
अनुमापकन्तत्र स्वपतित स्वानुमित्यर्थ क्रियञ्चिच्छक्तिव्यक्ति भूमिभूतन्तत्
जगद्धर्मकार्यत्वादिकं हेत्वन्तरसिद्ध तत् जगत् कर्तृधर्मशक्त्यादिकं वा
तन्नीलोत्पलादिधर्मसुगन्धादिकञ्च । इत्थं विशिष्टदृष्टमविशिष्टन्दृष्ट
लक्षणमनुमानं पुनस्त्रिविधं भवतीत्याह -
अन्वय व्यतिरेकेति केवलव्यतिरेकि च ।
केवलान्वयरूपेण क्रमेण परिदृश्यते ॥
लक्ष्यते केवलान्वयरूपेण केवलान्वयीति । शेषं सुगमम् । परिलक्ष्यत
इत्युक्तं कथमित्यत आह -
पक्षधर्मस्सपक्षेसन् व्यावृत्तश्च विपक्षतः ।
अबाधोऽसत्प्रतीपक्षो व्यतिरेकान्वयात्मकः ॥
[[८६५]]
तत्र व्यतिरेकान्वयात्मकम् । अन्वय व्यतिरेकि हेतुः तस्य पञ्चरूपत्वात्
पक्षधर्मः पक्षधर्मत्वलक्षणरूपवान् स पक्षे सन् सपक्षसत्वलक्षण
रूपवान् विपक्षतः व्यावृत्तश्च विपक्षाद्व्यावृत्तिलक्षणरूपवान् । अबाधः
अबाधितविषयत्वलक्षण रूपवान् पुनरसत्प्रतिपक्षश्च असत् प्रतिपक्षत्व
लक्षणरूपवान् पक्षादिकाके यत्र धर्मत्वेन वर्तनादिकमुक्त इत्याह -
साध्यधर्मयुक्तः पक्षः सपक्षस्तत् सधर्म युक् ।
तद् विधर्मो विपक्षस्स्यात् बोधो नामान्तरोद्भवः ॥
साध्यद्वयोस्त्रिरूपत्वं सपक्षस्य विपक्षता ।
निर्विपक्षोऽन्वयी हेतुर्निस्सपक्षस्तथा परः ॥
तत्र पक्षसाध्यधर्मयुत सन्दिग्धसाध्यधर्मवान् [[८६६]] अबाधित
सुसाध्यत्वञ्चतुर्थरूपत्वमित्युक्तम् । स सद्धेतोरसन् बाधं
मनान्तरोद्भवः अनुष्णोग्निः पदार्थत्वात् । जलवदित्यत्र सद्धेतोसोष्णोग्निरिति
त्वगिन्द्रिय प्रत्यक्षादि प्रमाणान्तरसमुत्थः असत्प्रतिपक्षत्वं
पञ्चममित्युक्तम् । सत्प्रतिपक्ष सद्धेतोरसन्निति साध्यद्वयोः शब्दो नित्यः
नित्यधर्मरहितत्वात् शब्दोनित्यः अनित्यधर्मरहितत्वादिति साध्ये द्वे विद्ये ते
ययोस्तौ साध्य द्वौ तयोस्साध्यद्वयोर्हेत्वोः एकस्य वस्तुतो सम्भवेपि
निस्सन्दिग्धं बादि प्रतिप्रवादि स्वमनस्सङ्क्लिप्ति क्लिप्तं त्रिरूपत्वं
पक्षधर्मत्वादिकम् । अत एव सपक्षस्य वादिनैकेन सपक्षीकृतस्याकाशादेः
प्रति वा प्रयुक्ते हेतुं प्रति विपक्षता पुरः प्रतिवादिना [[८६७]] स पक्षीकृतस्य
घटादेः पूर्ववादि प्रयुक्तहेतुं प्रति विपक्षतया । तदीदृशं सत्
प्रतिपक्षत्वमिति शेषः । निर्विपक्षः विपक्षाद्व्यावृत्तिरूपविहीनः
अन्वयीहेतुश्च त्रिरूप वा निति यावत् । निस्सपक्षः सपक्षे सत्वरूपविहीनः
तथा च त्रिरूपवान् । अपरः व्यतिरेकि हेतुः क्रमस्तत् तान्त्रीन्दाहरति -
साग्न्यर्देशस्सधूमत्वारन्योरसवती यथा ।
केनाप्यध्यासितं विश्वं कार्यं स्याद्वस्तु भावतः ॥
यथा कुलाल सापेक्षा मृदित्येषोऽन्वयी पुनः ।
सदेवोत्पद्यते कार्यं क्रियमाणन्त्व हेतुतः ॥
असत्पूर्वक्रियते धर्मांशश्शश शृङ्गवत् ।
अन्यो विवादाध्यासितो देशः पर्वतादिः साग्निः [[८६८]] स धूमत्वात् यथा
रसवती षधृसवती पाकशाला पुनर्व्यतिरेक व्याप्त्यर्थं यथा रसवती
जलवती दीर्घिकेत्यपि उदाहरणीयम् । ईदृक् लक्षणो हेतुरन्वय व्यतिरेकि विश्वं
विवादाध्यासितं चिदचितात्मकं केनापि विशिष्टज्ञान क्रियायुक्ते
नाध्यासितमधिष्ठितं सत्कार्यं स्यात् स्व स्वार्थक्रिया युक्तं भवेत् वस्तु
भावतः । स्वतः प्रपत्तिशून्या स्वभावत्वात् । यथा कुलाल सापेक्षा
कुम्भकाराधिष्टिता मृदिति पुनरेषहेतुरन्वयी केवलान्वयी । यत् केन
चिदनधिष्ठितं कार्यं स्यात् । तन्न स्वतः प्रवृत्ति शून्य स्वभावम् । यथा
अमुक इति प्रतिवादि गोचर दृष्टान्ता भावात् कार्यं स्वानभिव्यक्त्यं
शक्त्यात्म स्थित्यात्म करणात्मना पूर्वं सदेवोत्पद्यते । [[८६९]] कारकै
स्वशक्तिव्यक्त्यात्मकं भवति क्रियमाणत्व हेतुतः कार्यत्वलक्षणहेतोः
पूर्वमसन् धर्माणामवयवानामंशः । विभागः यस्य स
धर्मांशः कार्यपदार्थः अप्रतिहत शक्तिभिकारकैरपि न क्रियते असत्वात् ।
शशशृङ्गवत् । असन्नकेवलव्यतिरेकी । अथ हेत्वाभास पञ्चकं लक्षयति -
हेतूनां दूषणान्यत्र पञ्चोक्तानि शिवागमे ।
असिद्धिः प्रथमो हेतोः पक्षवृत्तेरनिश्चये ॥
अत्र शिवागमे हेतूनाम् असिद्ध विरोधोनेकान्तप्रकरण समकालात्यया
पदिष्टतानध्यवसाय लक्षणानि दूषणानि पञ्चोक्तानि तत्र
हेतोपलक्षणाश्रय भावात् स्वरूपा भावात् व्याप्त्य भावात् विशेषणा
भावाद्विशेष्य [[८७०]] भावाद् वा पक्षवृत्तेरनिश्चये पक्षस्थित्यनुपलब्धे
सत्युपलब्ध पक्षधर्मत्वाभावः प्रथमा असिद्धिः आश्रया सिद्धि
स्वरूपा सिद्धि व्याप्यत्वा सिद्धि विशेषणासिद्धि विशेष्यासिद्धिषु
स्वरूपासिद्धेस् साक्षाद्धेतु सन्निविष्टत्वात् तद्वारा
विविक्तेस्सर्वोपलब्धिस्सम्भवतीति स्वरूपासिद्धि मुदाहरति -
नित्यत्वादणवोहेतुरित्यसिद्धि स्वरूपतः ।
विशेषण विशेष्यादेरसिध्या तत् तदात्मिका ॥
अणवः परमाणवः । जगतो हेतुः करणान्नित्यत्वादिति नैय्यायिकादिभिः
प्रयुक्त हेतोः । अचैतन्ये सत्यनेकत्वाद् इत्यादि हेतुभिरनित्यत्व
सिद्धिस्सुसिद्धेत्युक्तत्वात् । नित्यत्वलक्षणत स्वरूपतो सिद्धिः (प्।८७१) स्वरूपा
सिद्धिरिति यावत् । अणव नित्याः चैतन्ये सति निरंशत्वात् । निरंशत्वे सति चैतन्या
द्वेत्यत्र विशेषण विशेष्यादेरसिध्या आदिशब्देन गगनारविन्दं सुरभि
अरविन्दत्वात् सरोजारविन्दवत् । यत् सत्तक्षणिकं यथा धलधर पटलः
सन्निश्च शब्दादि इत्यत्र आश्रय व्याप्तेरसिध्या विशेषणसिद्धिः
विशेष्यासिद्धिः आश्रया सिद्धिः व्याप्त्यसिद्धिरिति तत् तदात्मिका भवतीति
विशेषः विरोधदूषणदूषितं हेतुं लक्षयति -
वर्तमानोविरुद्धस्याद्धेतुः पक्षविपक्षयोः ।
व्यपकोऽव्यापको देशा नवच्छिन्नत्व हेतुतः ॥
पक्षविपक्षयोर्वर्तमानः पक्षविपक्ष वृत्तिमान् सपक्षे [[८७२]] सत्व
विरूपवान् हेतु विरुद्धस्यात् । उदाहरति । व्यापक आत्मा अव्यापकः
देशानवच्छिन्नत्व हेतुतः । यथा घटः अनवच्छिन्नत्वादिति होतोस्सपक्षेस्य
साध्य व्यापकत्व वति घटे सत्वन्नास्ति स पुनर्विपक्षे शिवादौ स्वसाध्य
विरुद्ध व्यापकत्वेन व्याप्तस्सन्निवर्तते । अनेकान्त दूषणदूषितं हेतुं
लक्षयति -
पक्षादि त्रितये वर्तमानोऽनैकान्तिको भवेत् ।
आत्मा नित्यः प्रमेयत्वादित्यत्रोदाहृतोद्विजाः ॥
विपक्षाद्व्यावृत्ति विहीनस्साधारणानैकान्तिक इति यावत् प्रमेयत्वादिति
प्रयुक्त हेतोः आत्मलक्षणपक्षे घटलक्षण सपक्षे शिवलक्षण विपक्षे च
स्थित्यस्तित्वात् । ननु शिवात्मनोः प्रमेयत्वमसदित्युक्तम् । [[८७३]] सत्यम् । तत्र
दृश्यादृश्यविलक्षण द्रष्टृलक्षण शिवत्वैकस्वभाव सादृश्य
प्रकारान्तर प्रमिति कुर्वती । चिच्छक्तिः प्रमाणभूतः प्रवृत्तेत्युक्तत्वात्
प्रकारान्तरोपचरितमिति नैय्यायिक दृशा वा निरुपचरितमिति न कश्चिददोषः ।
भूर्नित्यागन्धवत्वादितित्यादिरूपो साधारणानैकान्तिकमिति मन्तव्यम् ।
अनुध्यवसाय दूषणदूषितं हेतु लक्षयति -
साध्या प्रयोजकः पक्ष एकोनध्यवसायतः ।
सन्तत्या वर्तते विश्वं वस्तुत्वादित्युदाहृतः ॥
एको विवादाध्यसित विश्वादि लक्षणपक्षे घटादिलक्षणसपक्षे
शिवादिलक्षणविपक्षे वर्तमानाध्यवसायतः साध्या प्रयोजकः साध्य
परिच्छेत्ता स च उदाहृतः [[३७४]] कथं विश्वं सन्तत्यानीरन्ध्रम्
अवनत्युन्नत्या सर्वनिष्प्रलयतो वर्तते वस्तुत्वादिति । नन्वत्र प्रकरण सम एव
लक्ष्यः पुनरुदाहरणीयश्च सत्यमनध्यवसितस्यानैकान्तिकेन्तर्भावात्
पृथक् यस्सत्प्रतिपक्षस्सतूदाहरणीय एव तथापि तदेतत् सत्प्रतिपक्षस्य च
कथञ्चित् कस्य चिदन्तर्भूतरस्तिहीति ज्ञापयितुं सतूपेक्षितः
कलात्ययापदिष्टता लक्षणदूषणदूषितं हेतुं लक्षयति -
कालातीतस्तु साध्यस्य पक्षे मान विरोधतः ।
निरूपादानकं विश्वं कार्यमागन्तुकत्वतः ॥
पक्षे साध्यस्य मान विरोधतः । प्रत्यक्षादि प्रमाणबाधात् कालेन हेतु
प्रयोगसमयेन अतीतः समुल्लङ्घितः [[८७५]] कालातीतः हेत्वाभासः
कालात्ययापदिष्ट इति उच्यते । तदुदाहरति । निरूपेत्यादिना विश्वनिरूपदानकम्
। उपादान कारणानपेक्षं सत्कार्यं भवति ह्युत्पत्तिमत् आगन्तुकत्वतः
आभूत्वा भावित्वात् इति सौगताः घ्ऽतादेस्सोपादानकत्व दृष्टेः विश्वः
सोपादनकं समुत्पत्तिमत् घटादिवदित्यनुमानेन बाधित साध्योयं
कालातीतः प्रत्यक्षबाधितस्तु अग्निरणुष्णः पदार्थत्वात् जलवदित्ययं
कालातीतः आगमबाधितस्तु नरशिरः कपालं शुचिः प्राण्यङ्गत्वात्
शङ्खवदित्ययं कालातीतः अनुत्वासिध्यादि भेदोत्र प्रासङ्गिकत्वान्न
विस्तीर्यत इति प्रमाणमात्र प्रविस्तरतरतमोक्ति परशास्त्रेषु सुपरिज्ञेयः । (प्।
८७६) इत्थं विशेष लक्षणमुक्त्वा भासानां सामान्यलक्षणमाह -
व्याप्तेर्यथावद्विज्ञानं साधनं साध्य सिद्धये ।
पर्याप्तमसतो हेतोर्येन केनापि वर्त्मना ॥
व्याप्तिभङ्गोऽनुमानस्य दूषणं प्रथमं मतम् ।
व्याप्तेर्यथावदबाधितं विज्ञानं यस्य तत् यथावद्विज्ञानं साधनं
सदध्यनुमानं साध्य सिद्धये । अनुमेय निपतनियानुमितये पर्याप्तं
पर्यवसितम् । ततः पुनरसतोहेतोर्येन केनापि वर्तमना
पक्षधर्मत्वाद्यनध्यवसायादीनां मार्गेण व्याप्ति भङ्गः ।
अनुमानस्य सदित्याकलय्य प्रयुक्तस्य प्रथमदूषणं मतम् । व्याप्ति
भङ्गः क इत्यत आह -
अनुष्णो वह्निरित्यादि प्रतिज्ञा ते सहेतुकम् ।
[[८७७]]
पञ्चानामनुमानस्या वयवानान्तु पूर्वयोः ॥
वैपरीत्यं समुद्दिष्टं दृष्टान्तस्याधुनोच्यते ।
अनुष्णे वह्निरित्यादि आदिशब्देन कालात्ययापदिष्ट प्रतिज्ञेतर प्रतिज्ञा
गृह्यते । सहेतुकं पदार्थत्वादित्यादि हेतु सहितम् । प्रतिज्ञा ते अनुमानस्य
पञ्चानामवयवानान्तु मध्ये पूर्वयोः प्रतिज्ञा हेत्वोर्वै परीत्यं व्याप्ति
भङ्गशब्देन समुद्दिष्टं दिष्टान्तस्यादुनोच्यते । आभासत्वमिति विशेषः
कथमित्यत आह -
नित्य आत्मा विभुत्वेन यथा काशमितीरिते ।
दृष्टान्तस्साध्यविकलः साधने च तथा भवेत् ॥
दृष्टान्त आकाशः तन्मात्र जन्यत्वेन परीक्षितत्वात् साध्य विकलः नीह्यत्व
लक्षण साध्यविकलः । [[८७८]] दृष्टान्ताभास इति यावत् साधने च विभुत्व
लक्षणहेतौ च तद्वारा तथा भासत्वं भवेत् पूर्वार्धार्थस्तु स्पष्टः
विविधपक्षाभास दृष्टान्त भासानां विचार्यमाणे हेत्वा भासात्मना
पर्यवसितत्वात् सविस्तर तदुपवर्णनमुपेक्षितं ज्ञेयम् । अथ
आगमप्रमाणं लक्षयति -
आप्तोक्तिरागमस्सोपि परोक्षार्थैक साधनम् ।
प्रत्यक्ष अनुमानेन यदि वार्थं सुनिश्चितम् ॥
यो वेत्ति सोयमाप्तस्यात् तस्मादाप्त ग(त)रश्शिरः(वः) ।
आप्तोक्तिः आप्त इत्यनेनानुत्वासिद्धाकाङ्क्षा योग्यता सन्निधिमत् पद
सन्दर्भलक्षणमाप्तवाक्यम् । आगम आगम्यन्ते । असमन्तादशेषेण
ज्ञायन्तेनेन पदार्थ इत्यागमशब्दशब्दितं प्रमाणम्
अनुमानान्तरासस्स-आगमोपि [[८७९]] स्वतस्साधना लक्षणा
चिच्छक्तिमभिव्यञ्जकद्वारा परोक्षार्थैक साधनम् । अनुमित्यनधिगतै
इन्द्रिय प्रमित्यनधिगतार्थाद्वितीया साधारण प्रमाणम् ।
प्रत्यक्षानुमानाधिगतार्थेपि साधारणं तं सत्प्रमाणं स्यात् । अत
एवास्यज्यायसत्वम् । तदुक्तं मृगेन्द्रे । मितार्थामितार्थस्य ज्यायसत्वमिति
सूरयः इति । आप्तः इत्यत आह । प्रेत्यादि ज्योतिश्शास्त्रादि रूपवाक्ये नानेन
योगेन सूर्यचन्द्रग्रहणवृष्ट्यादि भविष्यतीति मन्त्रपादशास्त्रेण वाक्येन
वा धममन्त्रः स स्वरूपमुच्चार्यमाणस्समनन्तरं विषयं हरतीति
सूत्याद तदवयौ भूते तस्मिन् प्रत्यक्षेण राहुणाधुना सूर्यो ग्रस्त
इत्यनुमानेन नदिजल प्रवाहादिना [[८८०]] वृष्ट्यादि तदुचित स्वागोचर
देशान्तरे भूतमिति देहादि स्वस्थत्व हेतुनागतं गरलमिति सुनिश्चितम् ।
पुनस्सूष्टू विवेचितमर्थं सुष्टुविवेचनात् । प्राक् यो यदि वक्ति सोयमाप्तस्यात्
। तदुक्तं विषाद्यभाव सन्दृष्टेर्मन्त्रपादाच्च स स्वरात् ।
रसोपनिषदादोपादाप्तस्सपरिगृह्यत इति । तस्मादाप्ताच्छिवस्तेनाप्यगोचरित
सर्वपदार्थां यथा यथं वर्तित्याप्ततरः परप्राप्त इति यावत् । ननु तर्हि
वेदादीनामपि सर्वज्ञ प्रणीतत्वेनैव प्रामाण्यात् । सर्वागमप्रामाण्य
प्रसङ्गः । अत्रोच्यते -
सुप्रसन्नेन्द्रियग्रामः सर्वज्ञस्सर्वगोचरः ।
पक्षपात विनिर्मुक्तो यथार्थग्राहकस्सदा ॥
[[८८१]]
अव्ययः परिपूर्णश्च स्वतन्त्रः पशुपाश ह ।
प्रमाणमेकन्तद्वाक्यन्तथ्यं श्रेयोनिधिस्सदा ॥
सत्यम् । हिरण्यगर्भप्रभृति कर्तृकाणां वेदादीनान्नैह्यप्रामाण्य
प्रसङ्गः समुत्थीयतेस्माभिः तान्यपि प्रमाणानीति हि वयमङ्गी कुर्मः ।
तथापि न तानि सर्वज्ञप्रयुक्तानि । ननु तत् कर्तारस्सर्वज्ञाः तदुक्तं
परस्परविरोधात् । यदाहुः ।
सुगतो यदि सर्वज्ञाः कविलोनेति का प्रमा ।
अथोभावपि सर्वज्ञौ मतिभेदस्तयोः कथमिति ॥
असर्वज्ञा का॥॥।ऽण्यपि प्रकारविरोधेप्युपेय विसम्पादात् । मित्रादि वाक्यवत्
स्वावयि प्रमाणानीति वक्ष्यति । असौ शिवः कीदृशः यस्य वाक्यमद्वितीयम्
इत्युच्यते । [[८८२]] सुप्रसन्नेन्द्रियग्रामः सन्नोनादिमल रहितः इन्द्र इन्द्रिय
ग्रा॥॥। ः सदाशिव मूर्तः पतिपटले शक्तिभिः कल्पितेन्द्रियेत्युक्तत्वात्
शक्तिसमूहो यस्य क्व तथोक्तः । अत एव सर्वज्ञः ननु आदि स्वावयि
स्वप्रसन्नेन्द्रिय ग्रामत्वात् । ये दादिकतारश्च स्वाधि सर्वज्ञाः । शिवोपि स्व
वधेरूर्ध्वं किमपि न जानातीति स्वावयि सर्वज्ञः । सत्यम् । शिवस्य
स्वावधेरूर्ध्ववस्तुनः शशविषाणवदसत्वात् तदज्ञानं
भूषणमेवेत्यादि वर्णितं पतिपटले इति न किञ्चिदसमञ्जसम् । हिरण्य
गर्भादे स्वावधिक पुरुषत्वादुर्ध्वं सद्भूतरागाद्यज्ञानं श्रेयः
प्रतिहन्त्रहीति । तद्वदिदमपि भूषणं कथन्नस्यादिति न क्रविकल्पः । [[८८३]]
अत एव सर्व गोचरः सोर्ध्व स्वेतरवस्त्वसद्भूति सर्वोर्ध्व
स्वसद्भूतिमद्धिरण्यगर्भाद्यगोचरगोचरशिवादीक्षित्यन्त विषयः । अत एव
पक्षपात विनिर्मुक्तः अतदात्म तदात्म पक्षपातयोस्सोपाध्यनुपाधिमतः
स्वचिच्छक्त्यर्थ क्रियामत्योर्मध्ये पक्षे अतदात्मनि पातोभिमुखो यस्यास्सा
पक्षपाता । स्वोपाधिक चिच्छक्त्यर्थ क्रियामतिम् । कदाचित् क्वचिद्
धिरण्यगर्भादि वर्तिनी तयाविनिर्मुक्तस्सतथोक्तः । अत एव सदा यथार्थ
ग्राहकः अनादिं कृत्वा तदात्मनि निवर्ततित स्वशक्त्यर्थक्रिया मतिः । अत एवा
व्ययः हिरण्यगर्भाद्विपाध्यन्तररविलुप्तशक्तिव्यक्ति विलक्षण विलुप्त
शक्तिव्यक्तिः । अत एव [[८८४]] परिपूर्णश्च अपर स्वशक्तिमद्धिरण्यगर्भादि
विलक्षण परस्वशक्ति व्यक्तिमान् । अत एव स्वतन्त्रः हिरण्यगर्भ प्रभृति
चिदचित्प्रोरकः अत एव पशुपाशहा । पाके मले हिरण्यगर्भप्रभृति पशु
स्वपश पाशच्छेदतदुपदक्षित शिवत्वाभिव्यक्ति विधाता । अत एव तत्
वाक्यन्तच्छिव वदन समुत्थागमः । तथ्यमबाधित स्वोर्थार्थमतिः
श्रेयोनिधिः आगमशब्दे पर्यवसितत्वात् पुल्लिङ्गोक्तिः शिवत्वाभिव्यक्ति
विलक्षण श्रेयस्सुनिमित्त शिवशक्त्यभिव्यक्ति स्थानं स्वेतरागमा विरोधेन
बुद्धितत्वे स्थिता बौद्धा गुणेष्वेवार्हता स्थिता । इत्यादि तदधिततदध्येतृ
प्राप्यस्थान प्रदर्शन पूर्वन्तदनधिगतार्थरागादि शिवान्त
गन्तृरूपत्वात् । [[८८५]] एकमद्वितीयं प्रमाणं तदुक्तं वायव्य
संहितायाम् ।
यदुक्तमन्य शास्त्रेषु विद्यते तच्छिवागमे ।
नदृष्टं यच्छिवज्ञाने तदन्यत्र न विद्यते ॥
इति परमापोक्तित्वादात्मस्य सद्भिः परिग्राह्यत्वं परिभाष्य शिवात् तस्य
प्रवृत्तिक्रमः । प्रोच्यते -
सृष्ट्यनन्तरमेवेशश्शुद्धाध्वविषयानणून् ।
स्वांशु संस्पर्शनादेव कृत्वा दृक्क्रिययोत्कटान् ॥
सदाशिवोपि भगवान् नादरूपतया गतम् ।
षट्पदार्थमयं ज्ञानम् अनेकच्छन्द एव तत् ॥
पूर्वतो दशसङ्ख्यातं शिवभेदं तथा परम् ।
रौद्रमष्टादशविधं तेभ्यो वा दिक्कृपानिधिः ॥
ईशोधिकारावस्थश्शिवसृष्ट्यनन्तरमेव स्व निर्वर्तित [[८८६]] शिवादि विद्यान्त
शुद्धतत्वसर्गसमनन्तरमेव विज्ञानकेवलेषु मध्ये शुद्धाध्व
विषयान्यशुद्धवर्त्म स्थित्यर्ह पक्व मलानणून् पशून् स्वांशु
संस्पर्शनादेव नानुपचरित संश्लेष इति इमे पशुत्वापनीति मन्नो भवन्त्विति
पुनश्शिवत्वाभिव्यक्तिमन्तो भवन्त्विति स्वेच्छालक्षणक्रियाशक्ति सङ्क्लिप्तेः
दृक्क्रिययोत्कटात् स्वोचित शिवत्वेन सह वर्तमानाभिव्यक्तिमतः
पुनर्बैन्दवदेव युक्तांश्च कृत्वा पुनस्सभगवान् सदाशिवोपि कृपानिधिः ।
दयावान् अमी पुमांस श्रेयोहास्तथाप्येतेषां परापरशिवत्वाभिव्यक्ति
पशुशास्त्र पठितोपायो पेयेन खल्विति अपश्लोक्य तदत्थिमहमेकं शास्त्रं
साक्षात् प्रवर्तयामि [[८८७]] पुनस्तदितराणि च वेदादीनि उत्तरोत्तर
भुक्त्यत्रिशय श्रेयः प्रदानि तत् कर्तृत्वार्हान् ब्रह्मादीन् प्रयोज्य
तद्व्यवधानेन प्रवर्तयामीत्वाकलय्य प्रवृत्तः प्रलये शिवेरिता अर्थात्मिका
यथा तथा शब्दात्मिका उकारलक्षणप्रतिष्ठा कला शक्तिः समुपसंहृत
स्वकार्य शक्तिमतीं स्वशक्ति व्यक्तिमतीम् अकारलक्षणनिवृत्ति कलाशक्ति
समुपसंहृत्य तत् स्वकार्यशक्तिमती स्वशक्ति व्यक्तिती स्थिता । तदनुमकार
लक्षणविद्या कला शक्तिः प्रतिष्ठा कलाशक्तिं समुपसंहृत्य तत् स्वकार्य
शक्तिमती स शक्तिव्यक्तिमती स्थिता । तदनु बिन्दुलक्षणान्ति कला शक्तिः विद्या
कलाशक्तिं प्रणव संहृतां समुपसंहृत्य [[८८८]] तत् स्वकार्य शक्तिमती
स्वशक्ति व्यक्तिमती सती पुनस्वानुन्नतिमय चतुष्कलबिन्दुशब्दशब्दित
चतुश्शक्ति समष्टिमय शक्तिमती स्थिता । तदनु नादसतां शक्तिं स्वलीनां
कृत्वा स्वविषस्फुलिङ्गशिखा लक्षणन्नादकला शान्त्यतीतकलेति च द्विनाम
प्रणवपञ्चमकलां स्वानुन्नतिमतिं कुर्वन् स्वमयी भूतां शक्तिं
समारूह्य स्वशक्तिं व्यक्तिमान् स्थितः । स्वनाद स्वयं
शान्त्यतीतकलाशक्तिसम्बन्धी यद्यपि शान्तिकलाशक्त्युपारूढत्वात्
शान्तिकलाशक्तिरुच्यते । तदनु महामायालक्षणशान्त्यतीतकलाशक्तिः
सूक्ष्मप्रणव पञ्चकलामयन्नादं समुपसंहृत्य स्वव्यक्ति
स्थित्यभावात् केवलन्नादलक्षण स्वकार्य शक्तिमती स्थिता । [[८८९]] ततो
नादस्यापि शान्तिकला शक्तित्वात् चतुश्शक्तिलक्षण चतुर्थम् । मूर्तिमयीं
महामायां शब्दसर्गारम्भे सङ्क्षोभ्य क्षुब्धात् तस्मात् कारणात्
नादरूपतया गतम् । अनाहत परध्वनिलक्षणतया विनिसृतम् । षट्
पदार्थमयं ज्ञाप्य ज्ञापकलक्षणसम्बन्धेन पत्यादि पदार्थ
व्यापकम् आधिदैविकं ज्ञानं विद्वक्षरमात्रकाक्रमेण अनुष्टुपाद्यं
कृत्वा अनेकच्छन्दः । ननु श्रीमन्मतङ्गे शुद्धविद्यायाः
मन्त्रतन्त्रयोनित्वं शृतम् । सत्यम् । नादादि क्रमेणागत्य तत्र मात्रकात्वं
यातीति योनित्वमुपचारबीजमुच्यते । तदेव पूर्वतः प्रथमतः दशसङ्ख्या
तं शिवभेदन्तथा परमष्टादशविधं रौद्रं श्रोतॄणामुपाधिवशात्
कृत्वा तोभ्योषादीन् । अयमाशयः । [[८९०]] अनन्तादि मन्त्रेश्वराणां
महौघक्रमेणाष्टविःशति तन्त्राणि प्रागुपदिष्टवान् तदनु प्रणवादि
दशशिवानां सदाशिव तत्व निवासिनां कामुकादीनि
अनाद्याद्यष्टादशरुद्राणां सदाशिवतत्वादधोवर्तिनां
विजयादीन्युपदिष्टवानिति पृथङ्नामवर्णनं कामिकादं ज्ञेयम् । प्रलय
केवलिषुमध्ये मायागर्भाधिकारार्हान् तथा कृत्वा अनन्तद्वारा मायीय
विशिष्टशरीरयुक्तांश्च कृत्वा तन्त्राणि महौघक्रमेण उपदिष्टवानिति
चोपलक्ष्यते अथ तेभ्यो वतीर्णक्रमं प्रोच्यते -
तत् तद्देशक्रमान्मेरो रागतन्तत्र सागरम् ।
तत्रेदं पौष्करन्तन्त्रमर्थवादादि लोपतः ॥
उद्धृत्य विप्रायुष्मभ्यां कथितं बहु युक्तिभिः ।
[[८९१]]
स्थापयध्वमिदं भूमौ योग्येषु गुरुवर्त्मसु ॥
अनन्ताद्यवतारकैः प्रणवाद्यवतारकैश्च स्वशिष्यद्वारा तत् तद् देश
क्रमात् मेरोरागतं मेरावावतीर्णमिति विभक्ति परिणामः तन्त्रसागरम् ।
तन्त्रार्थ गम्भीरलक्षणादि सागरमध्ये इदं शिवावतारकेणानन्ते
महङ्घक्रमेण कोटिसङ्ख्ययावतरितं पुन श्रीदेव्यान्द्वादशलक्षण
सङ्ख्यया संहिता क्रमेणावतरितम् । पुनरनन्तावतारकेन मयि
लक्षसङ्ख्ययावतरितम् । श्रीदेव्या चावतारिकया तदुचित स्वशिष्य
प्रशिष्येषु अवतरितम् । पारमेश्वर नामगीत तन्त्रत्रमर्थवादादि लोपतः
सारार्थ वाचकसूत्रात्मनोद्धृत्य पौष्करं तन्त्रं कृत्वा कथितं शेषं
सुगमम् । अनेन शिवकृतमेव [[८९२]] सूत्रं किञ्चित् सन्दर्भ प्रदादि स्वोक्ति
सुकलितं सङ्गृहीतमिति दर्शितम् । ननु ऋषिभिः प्रश्नात्मना कथितञ्च
लक्ष्यते । सत्यम् । तदिदमालोक्य केचिच्छास्त्रविदस्त्यद्यत्वेपि शास्त्रकाराणां
तथा दर्शनात् भगवतैव प्रश्नप्रतिवचनरूपं शास्त्रमेतत् प्रवर्तितम् ।
अनुग्रहात् प्रश्नपदानि ऋषिकर्तृकाणिवोपरचितानीत्याहुरित्यनवद्यम्
उखभूमौ वेदादिमार्गास्थापिताः । न च किन्तैरलमिति वाच्यमिति
प्रमाणमेकमित्यत्र सूचितं स्पष्टयति -
अन्योपि मार्गो वेदादिः पशुपाशार्थदर्शकः ।
स्वोक्ततत्वाविधि व्याप्तिर्ब्रह्मविष्ण्वादिकर्तृकः ॥
परस्मान्मोक्षमार्गस्य स्थित स्वर्गादि भोगतः ।
[[८९३]]
अन्योपि मृग्यन्ते परीक्ष्यन्तेनेन पदार्थ इति मार्गः । वेदादिः
स्वाध्येतु स्वनिष्ठं स्वेतरनिष्ठं शिवनिष्ठं वा शिवत्वं तदाद्यनादि
व्यक्ति सिद्धिञ्च न दर्शयति । किन्तु व्यधिकरणमलविषयोपहितत्वात् । यदि
चिन्मात्रं ब्रह्मेति दर्शयत्यपि स्वस्य स्वनिष्ठमिवाभासं स्वतो मलनिष्ठ
विषयनिष्ठञ्च पशुत्वमज्ञात्वा कर्तृत्वात्मकं स्वत स्वनिष्ठमिव
दर्शयतीति पशुपाशार्थ दर्शकः । नहि तथापि सर्वपापदर्शकः
पुरुषाद्यूर्ध्वमभाषणात् स्वोक्त तत्वावधिव्याप्तिः अत एव न
साक्षाच्छिवः कतृकः शिवाधिष्ठानात् ब्रह्मविष्ण्वादि कर्तृकः अत एव
मोक्षमार्गस्य साक्षाच्छिवकृत शास्त्रस्य परस्माद्विलक्षणात् स्वर्गादि
भोगतः स्वर्गादि भुक्तिहोतो [[८९४]] स्थितः वृत्तः आध्यात्मिकः । तथा हि
पञ्चधा शास्त्राणि लौकिकन्दृष्टफलम् । आयुर्वेदाद्यात्मिकं
वैदिकन्दृष्टादृष्टा फलं वेद ॥॥॥॥॥॥॥। सका ॥॥॥॥॥॥॥॥॥॥॥। पदार्थ
प्रमाणपरीक्षात्म न्याय वैशिष्यकाद्यात्मकञ्च ।
आद्यात्मिकमुपनिषद्भागात्मकं सिद्धान्तशास्त्रञ्चेति ऋषयश्शिवस्य
शास्त्रवक्तृत्वं कथं मुखप्रमुख विकलस्येति सुचोदयन्ति -
निष्कलान्नादरूपात्मा ज्ञानमार्गः प्रवर्तते ।
इत्युक्तं तन्नयुक्तं स्याद् वागिन्द्रिय वियोगतः ॥
स्पष्टः । ईश्वरः अस्मादादीनामपि क्रियाशक्तिरेव मलावृतत्वात् । वागिन्द्रिया
पेक्षणी स्वसङ्कल्पवृत्या शब्दं समुच्चारयतीति न वागिन्द्रियमिति परिहरति -
[[८९५]]
वागिन्द्रियानपेक्षस्य शक्तिस्सर्वत्र निसृता ।
अत्यन्त विमलत्वेन तयावर्ति किमद्भुतम् ॥
प्रवक्तृत्वं स्वचिच्छक्ति प्रवृत्यनुगुणस्य च ।
नादस्य बिन्दे(आ)ः प्रसृति शब्दानान्निसृतिस्ततः ॥
शब्दास्तु पारम्पर्येण शिवज्ञानानुमापकाः ।
अधिकारम्लांशेन नापि शून्यत्वादत्यन्तविमलत्वेन वागिन्द्रियानपेक्षस्य
शिवस्य शक्तिः सर्वत्र ज्ञेये कार्ये च निसृतानि
पतितस्वार्थक्रियालक्षणज्ञानक्रिया । तया स्व समुत्थसङ्कल्पलक्षणार्थ
क्रियत्वादिच्छाशक्ति सञ्ज्ञितज्ञान शक्त्यानन्यक्रियाशक्त्या वचनत्राण
धर्मित्वादूर्ध्ववक्त्रमित्युक्ते शान्युपबृंहितपुरणीनां
म्न्यासिद्धान्तशास्त्रं वर्तिकिमभुतम् । कीदृक् [[८९६]] शिवस्य वचनमुच्यते ।
वक्त्रं वचनं नादस्य बिन्दोः स्वकुक्षि निक्षिप्त नादशक्त्यात्मक
शक्तितत्वमय महामायाः स्वसङ्कल्पात् प्रसृति समभिव्यक्तिः । ननु
नादरूपं विनिष्क्रान्तं शास्त्रं सर्वमिति श्रुतेः वेदादि शास्त्राणि च तथा
निशृतानिति तेभ्यश्शिवशास्त्रस्य को विशेषः । सत्यम् । शिवशक्त्यधिष्ठितम् ।
शिवेतरपुरुषशक्तिसङ्कल्पान् गुणस्य ध्यात्मिकवर्णजनकस्यानादस्य निसृति
साक्षाच्छिवस्य वचनमप्यत्र न विवेक्ष्यते । किन्तु केवलं स्वचिच्छक्ति
प्रत्यनुगुणस्याधिदैविकवर्णजनकस्य अयं नादो बिद्वक्षरा ॥॥॥॥॥। पुनः
शब्दात्मकश्च भवत्विति इच्छालक्षण
स्वसङ्कल्पानुवर्तिनश्शिवशास्त्रलक्षणस्य [[८९७]] च निसृति समभिव्यक्तिश्च
ततो बिन्दोश्च शब्दानाञ्च शिवशास्त्रलक्षणमात्रकारणा निसृतिः पूर्विका
समभिव्यक्तिश्च साक्षाच्छिवस्य वचनम् । तदुक्तं मतङ्गे सदाशिवेन
देवेन निबन्धं कोटिसङ्ख्यया भाषितं लक्षमात्रेण ततोऽनन्तेन
धीमतेति । नहि तदित्थं वचनात्मनापि शिवसङ्क्लिप्त्युपचरितं शिवशास्त्रं
ब्रहादिशक्तिव्यवधानेन वेदादिव व्यवहित दुराचितम् । क्रूदैविकत्वात् । सृष्टि
स्त्रिया प्रणवादेः । तदुक्तं सिद्धान्तदीपिकायाम् ।
नादादि क्रमत सृष्टि प्रणवस्याधि दैविकी ।
अकारादि क्रमत्तस्य सृष्टिराध्यात्मिकी मता ॥
आकाराद् देव देवेन क्रमात् परमधीमता ।
॥॥॥॥॥॥। रानुकारायकृता॥॥।ण्तेन या लिपिः ॥
[[८९८]]
रेखादेषाञ्च वर्णानां श्वामता साधि भौतिकीति ॥
अध्यात्मिकी च सूक्ष्मनादबिन्दु प्रणवमकारोकाराकार
पूर्वस्थूलाकारादिमती । तच्छिवशास्त्रम् । शिवशास्त्रापबुद्धि
सम्भवदत्विति शिवसङ्कल्पानन्तादयो व बुध्यन्ति । एतदुक्तं भवति ।
शिवशास्त्रन्नादरूपं शिवात् बिन्दुवक्त्राद्विनिक्रान्तः पुनश्शिवेनैव
स्थूला वर्णात्मनाच्छन्दसोपेतमुपचरितम् । वेदादि तथा नादरूपं
विनिष्क्रान्तमपि पुनः स्थूलवर्णात्मना च्छन्दसोपेतं पशु॥॥॥पठित
ब्रह्मादिभि स्वमायीय कार्यकरणैस्समभिव्यक्त स्वानुविहितमृत्
छक्तिकक्रिया शक्तिभिरुपचरितं पशुशास्त्रमिति शिवशास्त्रप्रथितन्तत्र
द्ववामदक्षिणगारूढभूत तन्त्रलक्षण श्रोतोन्तराणामपि [[८९९]]
शिवकृतत्वेपि सिद्धिप्रधानत्वात् । ईशानमुखे तरमुखोर्थत्वात् । ईशान
मुखोत्थं सिद्धान्तं कामिकादिकं सर्वोत्कृष्टं गारूढादिनी पुनस्तत्
पुरुषादि मूर्तिविशिष्टाधिष्ठित शिवसञ्ज्ञितात्मान्तर प्रणितानेति केचित्
गुरवः । नतु सद्योजातादि मुखोत्थत्वं कामिकादि कस्यापि श्रूयते । सत्यम् ।
ईशानमूर्तेरपि सद्योजातादि पञ्चवक्तृ त्रिपञ्चदृक्त्वादित्य दोषः । ननु
कामिकादौ वेदाश्व पुनस्सद्योजातादि मुखतः क्रमतसमुत्था श्रूयन्ते ।
सत्यम् । सद्योजातादि मूर्त्यधिष्ठित तदुपहित तत्
सञ्ज्ञितब्रंह्ममुखेभ्यश्च चतुर्भ्यस्समुत्थ इति । ईशानमुखोत्थत्वेन
ललितश्रुतिरस्ति यद्यपि तस्यापि पञ्चवन्त्रत्रिपञ्चदुक्त्वा तथा [[९००]]
व्याख्येयमिति च न किञ्चिदसमञ्जसम् । तदुक्तम् अत एव स्वच्छन्दे ।
साङ्ख्यं योगं पाञ्चरात्रं वेदश्चैव न निन्दयेत् ।
यतश्शिवोद्भवास्सर्वेत्वपवर्गफलप्रदा ॥ इति ।
ननु कामिकादिनी च सारकै स्वक्रियाशक्तिभिस्वानादात् समुत्थाय
पुनर्वागीन्द्रिय समुपबृंहिताभिसमुपरच्यन्ते । सत्यम् । इत्थं
साधकोपरचितेषु आध्यात्मिकेषु वर्णेषु
अङ्गारस्थानीयेष्वग्निस्थानीयाश्शिव कृत वर्णा आधिदैविका
स्वेस्वभिव्यक्तिः शिवशक्त्या सहाभिव्यक्ता साधकानां स्वस्वचिच्छक्तिं
समर्थयन्तस्सर्वशिवादिपदार्थानु शिवत्वाभिव्यक्त ये सन्दर्शयतीति
सर्वं(म)मञ्जसम् । यथा कथञ्चित् [[९०१]] उपाद्युपासित
ग्रुत्वादस्माभिरुच्चरित
शब्देष्वभिदयोपलब्धाश्शिवशास्त्रलक्षणाश्शब्दास्तु असर्वज्ञैरशक्त्य
स्वर च नापरत्वात् पारम्पर्येण गुरुसन्तत्या प्रतिलोमतस्सुचिन्तिततयास्सुचि
चारिता इमे शब्दास्सर्वज्ञलक्षणा कर्तृशक्तिरचिताः । सर्वार्थविषयत्वादिति
केवलव्यतिरेक्यनुमानाधारतया शिवज्ञानानुमापकाः शिवशक्ति
गमकाः तत शिव शा॥॥॥।कृष्टयमाह -
अथवा सद्भिरप्राप्तं श्रद्धयाशिवगोचरम् ।
अन्ये तु सज्जना याताः प्रकृत्याद्यां च गोचराः ॥
ततश्शिवगिराम्बोधो विबोधो नान्यथा गिरा ।
अथवा शिवगोचरं शिवविषयं विद्वादिकं सद्भिर्वक्ष्यमाण [[९०२]]
ऋष्यादिभिः शुद्धयादिज्ञा सया अप्राप्तमज्ञातं ततस्सज्जनायाताः
तद्विसदृश ऋष्यादि कृता शब्दाः प्रकृत्यार्थपगोचराः शिवकृतेभ्यः
योगारढ्या सिद्धान्तागम द्विशब्दशब्दितेभ्यः अपरत्व पूर्वपक्षत्वा
सामन्ये अति विलक्षणाः । तदुक्तं कामिके ।
शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतः ।
वेदाद्यपरविज्ञानं पशुपाशार्थदर्शकम् ॥
यथा विलक्षणञ्चक्षुः क्षपायाज्ञविलालयोः ।
तथा विलक्षणं ज्ञानम् एवमेतत् परापरम् ॥
पूर्वपक्षतया तानि कथितानि हि शम्भुना ।
हेयोपादेय वस्त्रानां निर्णये परमार्थतः ॥
तत् सर्वमथरीकृत्य शिवसिद्धान्तंरंरित । इति
[[९०३]]
रत्नत्रये च ।
सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे ।
आत्पस्तु शिवयेवैक शिवान्येत्व शिवामता ॥ इति
ततश्शिवगिरां शिववदनसमुत्थशब्दानां बोधः स्ववाक्यार्थज्ञानं
सपुनरन्यथा वक्ष्यमाणया गिरा नबोधः । विगतो भाधितो बोधः विबोधः
कुतो न बाध्यम् । परत्वादित्याह -
न चार्षं पौरुषे वाक्ये ऋषिभिर्दैविकन्तथा ।
न देवैर्ब्रह्मणो वाक्यं वैष्णवं पत्त(दा)जन्मना ॥
तथा रौद्रञ्च हरिणा न रुद्रेण शिवात्मकम् ।
बाध्यमूध्वोर्ध्व वैशिष्ट्यादधोधोबाध्यमूर्ध्वतः ॥
स्पष्टः । तथापि ना प्रामाण्यमित्याह -
शिवागम विरोधेन शास्त्रं सर्वं व्यवस्थितम् ।
[[९०४]]
नान्यशास्त्रविरोधेन तत्संवादतयार्थवा(ऽथवा) ॥
शिवशास्त्रं व्यवस्थाप्यं तद्व्याप्तं व्यापकं यतः ।
विरोधपादांशभ्रान्तौ शिवशास्त्रसमुत्सारितायां सर्वं रुद्रादि
प्रणीतं कपालादिकं शास्त्रशिवागमा विरोधेन शिवशास्त्रसंवादतया
अल्पार्थविषयत्वात् प्रत्यक्षादिवत् व्यवस्थितम् । प्रमाणीकृतम् । शिवशास्त्रन्तु
नान्यशास्त्रा विरोधेन । अथवा तत् संवादतया तदितर शास्त्रसम्मति
घटकोक्तितया व्यवस्थाप्यं प्रमाणी कर्तव्यम् । कुतः यतः
तच्छिवशास्त्रं तदितर शास्त्राधिगतानधिगतार्थगन्तृत्वात् व्यवस्थापकम् ।
स्वस्य तु वेदबाह्यत्व पाषण्डित्व दौरात्मक्लिप्ति प्रतिहन्त्र्या वैदिकन्तु पुरा
कृत्वा पशाच्छैवीं समाश्रयेत् । बुद्धितत्वे स्थिता बौद्धा [[९०५]]
गुणेष्वेवार्हता स्थिताः । इत्यादि वेदाद्यनुग्रहोक्त्या॥॥॥ दृगन्तर ॥॥॥॥ ततस्तत
दृगन्तराण्यपि स्वावयौ प्रमाण्यं नत्यजन्तीत्याह -
यस्य यस्य हि शास्त्रस्य यावती व्याप्तिरिष्यते ।
तावत्येव भवेद् विप्राः प्रामाण्यं तस्य तस्य च ॥
सुगमन्तत् तदवधिश्च बुद्धिपरीक्षायां दर्शित इत्यत्र न लिख्यते । ननु
यद्येवं शिवागमस्यापि स्वावयेरूर्ध्वं न प्रामाण्यं
व्याप्त्यसम्भवात् वेदादिवत् । सत्यम् । शिवागमानां स्वावयेरूर्ध्वं
स्वेतरागमदृष्टस्य वस्तुनश्शरविषाणवस्तुच्छत्वात् तत्राप्रामाण्यं
भूषणमेव । न च वेदाद्यवधेरूर्ध्वं शिवागम वस्तुनस्तुच्छत्वात्
वेदादेस्तत्र प्रामाण्यं भूषणमिति वाच्यम् । सद्बिन्द्वादेस्सुसिध्यत्वात् । (प्।
९०६) अथ शब्दप्रमाणं परीक्षार्थपत्तिमुपलक्ष्य परीक्ष्यति -
एवमागममाने तु कथिते शिष्टमुच्यते ।
तच्चान्यशास्त्रसंसिद्धं मोक्षतत्वोपदर्शनम् ॥
तस्माद्यदिपरं किञ्चिच्छिवतन्त्रेण बाधितम् ।
असर्वज्ञ प्रणीतत्वं गमयेत्तदसंशयम् ॥
प्रमाणमर्थापत्याख्यम् अन्यथा च निगद्यते ।
एवमित्थमागममाने कथिते शिष्टन्त च प्रमाणवर्तापत्याख्यमुच्यते ।
उदाहृयते कथं पद्यन्यशास्त्रसंसिद्धमोक्षतत्वोपदर्शनम् ।
शिवशास्त्रेतर वेदादि शास्त्रसम्बन्ध ब्रह्माद् वै तानि
लक्षणमोक्षस्वभावा विभाषणं तस्मात् तद् अद्वैताद्यभिभाषणात् । यदि
पुरं पुनरुपरत्युमुखं [[९०७]] यथा भवति यथावत् किञ्चित् शास्त्रं
वेदादिसंशयं शिवमन्त्रेण दृगन्तरानपह्नवनीयं शिवशास्त्रस्य
लक्षणमोक्षतत्वोपरत्ति भाषणालङ्कृतेन बाधितं
स्वानुग्रहार्थमद्वैतादि भाषाणां शोत्पारितभ्रान्तिकं स्वाद्वैतादि
भाषाणां शस्वबाध्यत्वान्यथानुपपत्तिभिसमुत्थार्थापत्यपरनाम
कल्पनया चिच्छक्त्यर्थक्रियया स्वस्या सर्वज्ञप्रणीतत्वं किञ्चिज्ञ स्वावधि
सर्वज्ञ रचितत्वं गमयेत् कल्पयेत् तदुपबृंहितप्रमितिं कारयेत् । अन्यथा च
निगम्यते । पुनस्तदन्यत्प्रकारेण चार्थापत्तिरुदाह्रियते । कथमित्यत आह -
दृश्यमानमसार्वज्ञं कल्पयेत्स्वोपपादकम् ।
पशुत्वाख्यं पशुत्वे व सर्वज्ञे शास्त्रतस्थिते ॥
[[९०८]]
तच्चानुमानतोभिन्नं तयोर्विषयभेदतः ।
शास्त्रतः बाधक लक्षणात् । स्वबाधकलक्षणार्थक्रियान्यथानुपपत्ति
समुत्थार्थापत्या स्वकर्तरि सर्वज्ञे सर्वज्ञत्वलक्षण शिवत्व समवेतिनि
शिवनाम्नि स्थिते । सत्यापातिते । अथवा शास्त्रालम्बितार्थापत्तिमनपेक्ष्य
स्वमुखोत्थागमसति स॥॥॥ज्ञे शिवे सिद्धवदि पुनस्सार्वज्ञ इति
पाठस्तदानीन्तु चैतन्यन्द्रक्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च
यतो मुह ॥॥॥॥ श्रूयते ॥॥॥॥॥॥॥॥। मृगेन्द्रादि तच्छास्त्रतः पुनरात्म
सुसार्वज्ञे सर्वज्ञत्वलक्षण शिवत्वे सति सदा स्थिते पुनरुद्धृते । शास्त्रतः
विविधवेदादिरूपात् बाध्यलक्षणात् स्वबाध्यत्वान्यथानुपपत्ति
समुत्थार्थापत्या सिद्धि [[९०९]] स्वकर्तृलक्षणे ष्वथवान्यथा भूतेषु
पशुष्वे दृश्यमानमसार्वज्ञं किञ्चिज्ञत्वं स्वान्यथानुपपत्ति
समुत्थापत्तिलक्षण स्वार्थक्रियोपकृत चिच्छक्त्या स्वोपपादकं स्वकारणं
पशुत्वाख्यां मलसञ्ज्ञितं कल्पयेत् । तदुपबृंहित प्रमितं कारयेत्
तच्चार्थापत्याख्यं प्रमाणमनुमानतो भिन्नन्नहि नैय्यायिकैः केवल
व्यतिरेक्यनुमानतया विवक्षितुं शक्यम् । तयोरनुमानार्थापत्यो
विषयभेदतः स्वफलभेदत्वात् लिङ्गलिङ्गिव्याप्ति स्मृति
समृथानुमितिरनुमानस्य फलः तद्विलम्बेन व्याप्ति स्मृत्यनवकाशतः
दृश्यमानार्थान्यथानुपपत्तितस्तद्धेत्यर्थक्लिप्तिरर्थापत्तेः फलमिति
स्वप्रमिति भेदत्वात् सत्यचिद्विलम्बेन व्याप्तिस्मृत्यवकाशत्व ॥॥॥।क्ष्मादथ
यथा कथञ्चिदनुमानान्तर्भावोक्तिश्चागमेषु । ननु नैय्यायिकै
रुपमानं पृथगुपवर्णितम् । सत्यम् । अत्र सिद्धान्ते
समानभावस्सामान्यं सादृश्यमेव जातिरिति । नागरिकस्तु कश्चित्
कस्माच्चिदारण्यकात् गोसदृशो गवयविति शृत्वा पुरा अनुभूत गोत्वात्
सामान्येन पुनस्सैवेयं गौरिति प्रत्यभिज्ञा प्रत्यक्षी कृत्य पुनस्सादृश्ये
सति किञ्चिद्विसदृशत्वात् गोविशेषः मनुष्य विशेष क्षत्रियवदित्यनुमितत्वात् न
पृथगूर्ध्ववर्णनम् इत्थं पाशपदार्थं सृष्टिक्रमतस्सप्रपञ्चं
परीक्ष्य तदुपसंहारक्रमः उच्यते -
एवं प्रमाणसिद्धानामर्थानां व्यत्ययेन तु ।
उपसंहारसृष्टव्यं कार्यकारणभावतः ॥
[[९११]]
व्यत्यैन प्रातिलोम्येनः । ननु किमर्थं कार्यकारणभावतः
कार्यभूतादेः पूर्वं कारणतन्मात्रादेः उपसंहृतिः
कार्यानसाशङ्क्यते । स्वकार्य व्याप्तित्वात् कारणस्य इत्याह -
नहि कार्योपसंहारादादौ कारणसंहृतिः ।
युक्ता तदन्तिमात् कार्यात् पृथिव्यादुपसंहृतिः ॥
कथं पुनः कार्योल्लेखिनीवेत्यत आह -
तन्मात्रेष्वेव भूतानि तन्मात्राण्यप्यहङ्कृतौ ।
इन्द्रियाणि मनोवापि सामतौ सा गुणेषु च ॥
ते गुणाः प्रकृतौ सपि रागाद्यन्तत्वपञ्चकम् ।
मायायां लयमायाति सातु नित्योपपादिता ॥
सासेति क्रमतः अहं कृति बुद्धिरिति च ज्ञेयम् । प्रकृति [[९१२]] रागविद्या
तत्वत्रयम् । कलाद्वारेण मायायां न साक्षा ॥॥॥॥॥। यम् अवित्यादि
कलापञ्चकञ्चुक वियुक्तत्वमेव पुरुषतत्वस्य विलय इति ज्ञेयम् । विन्दुपटल
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।
मायोपरि विशुद्धाध्वा बिन्दौ प्रलयमृच्छति ।
बिन्दुः कलादिशक्त्यात्मा शिवाधिष्ठितविग्रहः ॥
नित्यमास्ते शिवस्यास्य विषयात्मतयाऽग्रतः ।
पुनः प्रवर्तते विश्वं जगदारभ्यबिन्दुतः ॥
विशुद्धाध्वा लयभोगोधिकारतत्व सञ्ज्ञिति शिवशक्ति सदेशेश्वर
विद्यातत्वतात्विकलक्षणः अत्रापि कार्यकारणभाव इत्यनुषज्यताम् । कलादि
शक्त्यात्मा शान्त्यादिशक्ति [[९१३]] कलादिसामर्थ्यरूपा
विषयात्मतयेत्यनेन न वेदान्तिनामिव बाद्धैकदेशिनामिव ज्ञानस्य
निर्विषयत्वमिति पशुपटले स्पष्टयति । सन । शेषं सुगमम् । प्रलयप्रविस्तरो
भुवनपङ्क्ति प्रवितरश्च श्रीमतङ्गे । प्रलयपटल मायापटलादौ
श्रीमद्रामकण्ठरचित विवृत्ति समाविष्कृत ततो वधार्य इति विस्तरभीरुणा
तृण+++(तु न??)+++ विस्तीर्यते ।