५ पाश-पटलः

अथ पाशाः पुरोद्दिष्टाश्श्रूयन्तां मुनिपुङ्गवाः ।
कला विद्या च रागश्च कलो नियतिरेव च ॥

पञ्चैतानि च तत्वानि मायेयानि द्विजोत्तमाः ।

अथ पशुपदार्थपरीक्षानन्तरं पाशैः पाश्यः पशुरिति च पशुशब्द
प्रवृत्ते । पटलान्ते पशुशब्दसूचिताः पुरोद्दिष्टाः पाशाः परीक्ष्यन्ते । हे
मुनि पुङ्ङ्गवाः । परीक्षोक्तिः घटनियास्ते भवद्भिश्रूयन्तामिति
वाटलीकस्सम्बन्धः । पदार्थात्मकस्तु पाशपदार्थलक्षणः
वाक्यात्मकस्तु कलाद्यवनिपश्चिमनित्याद्यनेकविधः
कलादीक्षितिपर्यन्तेत्युक्त मायीय प्राकृत तात्विक संहतौ सकला प्रमुखानि
[[४४६]]
पञ्चसाक्षात् परम्परया च मायोत्पन्नानीति तात्पर्यम् ।
सुगममितरत् । तत्र कलार्थक्रिया दर्शयति -

मलान् सर्वान् मनाग्भित्वा चैतन्य प्रसरात्मनः ।
चैतन्य व्यञ्जिकाह्यत्र कलामलनिवर्तनात् ॥

तत्र पञ्चसु मध्ये कला दीपवददीप्तिमती । रोगशक्त्यभिव्यञ्जक स्वान्तरित
विषम वातादिदोष शक्तिकमपत्यमिव साक्षाद्यदि शिवशक्ति
चिच्छक्तेर्मुक्तिकरीति स्वान्तरित कलयित्र्यभिहित शिवशक्त्य इष्ठतानन्त शक्तिका
चैतन्या प्रसरात्मनः । महाप्रलयोपसंहृत कलादित्वात् स्वशक्ति कर्तव्या
नभिव्यक्तिमदात्मनः पक्वकर्मवशात् [[४४७]] पुनस्तदभिव्यक्ति योग्यस्य
प्रलये केवलिनः जात्यपेक्षैकोक्तिः ननु वच्छिन्न मलकर्म शुद्धाधिकारि
बृन्दं विहाय प्रकृर्त्यूधवर्तिनः प्रलयाकला इति श्रुतिः क्वचित् सत्यम् ।
अशुद्धिमन्तः कर्मिणः कलायोगिन सकला अपि माया नतानु प्रत्ययोवर्तिना
इवाति मोहयन्तीत्युपसृष्टिमतीयं श्रुतिः । सर्वान्मलान्मलेस्यैकत्वा तदीयाः
प्रतिपुरुषं भिन्नशक्तय उच्यन्ते । तदुक्तं मृगेन्द्रे । किन्तु
तच्छक्तयोनेकायुगपन्मुक्यदर्शनादिति । ताः मनागसर्वधाभित्वा क्षिप्त्वा
तासामावृत्ति निवृत्तिलक्षणत्वात् । तथा वृतिलक्षणान्यथा कृत्वा मल
निवर्तनात् । तन्मलशक्तिनिवृत्ति [[४४८]] लक्षणा पातनात् । चैतन्य व्यञ्जिका
चित्समर्थयित्री इदं हि चैतन्यमित्याह -

चैतन्यज्ञत्व कर्तृत्व रूपन्तद्बलमात्मनः ।
कलया व्यज्यते तत् तु तस्यैव हि तिरस्कृतम् ॥

तच्च चैतन्यमात्मनो बलज्ञानक्रियात्मिका । ज्ञातृ कर्तृलक्षण कर्तृशक्तिः
तदुक्तं मृगेन्द्रे ।

कर्तृशक्तिरणोन्नित्य बिहिचेश्वर शक्तिवत् ।
तमच्छन्नतयार्थेष्ठ नाभाति निरनुग्रहेति ॥

तत् बलः ज्ञत्व कर्तृत्व रूपं ज्ञानक्रियालक्षण स्व कर्तव्य सहज
स्वलक्षणपुरा च विस्तारितम् । तत् तु कलया व्यज्यते । किञ्चित् स्ववशीकृत
स्वकार्यं क्रियते । तस्यैव हि तिरस्कृतं कार्यमित्यध्याहार्यम् । यद् वा
कार्यप्रवृत्तिलक्षणतिरस्कृति [[४४९]] भावेत्तः ननु श्रीमृगेन्द्रादिषु । कला
कर्तृशक्ति व्यञ्जिका विद्यदृक्शक्ति व्यञ्जिकेति श्रूयते । सत्यम् । स्व स्व
कर्तव्यत्वेन सहैकत्वा च्छक्तेर्नैकांशेन व्यक्तिः सयुक्तिका । किन्तु वैद्य
वृत्या समुत्पाटि पटलद्वारोपोद्बलित प्रकाशैदक्षणैककर्तव्यैक
चक्षुश्शक्तिः पुनरञ्जन सेवादिनेव कलावृत्या समुत्पाटित
मलशक्तिद्वारोपोद्बलितज्ञानक्रियैक लक्षणैक कर्तव्यैक ज्ञातृकर्तृ
लक्षणकर्तृशक्तिः पुनस्सुपरीक्षितव्य विद्ययाविष्पष्टं सुदर्शितविषय
क्रिया द्वैति ज्ञानलक्षणस्वार्थक्रियां लभत इति न किञ्चिदसमञ्जसम् ।
बलञ्चैक देशतः कलावृत्या व्यज्यत इत्याह -

[[४५०]]
सर्वात्मना कलानैतच्चैतन्यं व्यञ्ज्ययत्यणोः ।
किन्तु कर्माणुसारेण कलावृत्यैकदेशतः ॥

सुगतं व्यापारक्रमेण प्राथमिका कलेत्याह -

ततश्चायं कलाबन्धः पुंसां प्राथमिक स्थितः ।
यतः कलां विना तेषां रूपान्तन्नतु सिध्यति ॥

ततश्चायं कलाबन्धः पुंसां प्राथमिक स्थितः ।

कुतः यतः कलां विना सृष्ट्यनुक्रमेण दानकालनियत्यनुषङ्गितानामपि
तेषां पुंसां तत् ज्ञानकर्तृलक्षणैक स्वलक्षण स्वसंवित् स्वचिह्न
कर्तृरूपं न तु सिध्यति । ननु ज्ञानक्रियैक लक्षणैक स्वलक्षणस्वैक
कर्तव्यैककारणरूप मलात् स्वकर्तव्य तिरोधानद्वारा न सिध्य तु
काक्षतिरनैक कर्तृरूपस्येत्यत आह -

[[४५१]]
ततस्तच्छून्य कल्पं स्याच्चैतन्य प्रसरं विना ।
ग्राहकत्वेन तत्सिद्धेर्न च तद्गहणं विना ॥

यतो ग्राहकत्वेन स्वेतरसंवित्तिलक्षण स्वकारणकर्तव्यज्ञानक्रिया कर्तृ
भूतेन तत् स्वकरणभूत स्वसंवेद्य स्वेतरसंवित्तिरिति प्रथितशक्त्यतिहित
नैसर्गिक स्वगुणसमवेतिना शक्तिमत् शब्दाभिहित स्वसंविल्लक्षणरूपेण तत्
सिद्धेः । तत् पुङ्कर्तृरूपेण सिद्धेः ग्रहणं विनास्वेतरसंवित्ति
शक्तिलक्षणकरणं विना तद्व्यक्तिमन्तरा तत् कतृरूपौ च न सदिव वर्तते ।
ततस्तस्मात् कारणात् व्यञ्जकभूतां कलां विना चैतन्यप्रसरं विना
स्वेतरसंवित्ति व्यक्त स्वार्थक्रियामन्तरा तत् पुंस्वसविलक्षण कर्तृरूपं
शुन्यकल्पं स्यात् । [[४५२]] असत् । सदृशं भवेत् । पुरोक्तञ्च परसंवित्ति
स्वसंवित्तिस्सती स्वसंवित्ति सिद्धेति । तदनेन तु । नतु शक्तिः परापेक्षा
वस्तुतोस्तीत्युक्तवन्तस्सदा बिन्द्वादि विषयास्तित्वमजानन्तः प्रतिक्षिप्ताः
उपसंहरति -

ग्रहणा भावतस्तस्य ग्राहकश्शुन्यवत्स्थितः ।
तन्निवृत्यर्थमादौ तु मायातो जायते कलाः ॥

तस्य कर्तु ग्रहणा भावतः । स्वकार्यवेदन कृत्यानभिव्यक्ति द्वारा
शक्तिलक्षणकरणानभिव्यक्तितः । स ग्राहकः । कर्ता स्वयमतिरोहितोपि
शून्यवत् स्थितः । अनभि व्यक्तिमत् स्वरूप वा निवस्थितवान् तन्निवृत्यर्थं
समर्थितकरणघटनद्वारा तत् कार्तृरूपा सदिवस्थिति विघटन निमित्तकला तु
प्रत्यनुक्रमेणादौ सर्गारम्भे [[४५६]] पुरुषयोः कर्मनिमित्त
भोग्यभोक्तृत्वकसम्बन्धात् शिवशक्त्यधिष्ठितानन्तशक्तिक्षोभतो मायातो
जायते । ततः कर्मादीनां सुखादिफलजननमात्र चरितार्थत्वात् कर्तृरूपा
सदिवस्थिति विघटनार्थक्रियान्यथानुपपत्तितः । प्रथमतोनुक्रमेण शनै
स्वपुरुषस्वरूपाविविक्तं यथा भवति । तथा सर्वान्य कारकप्रवृत्ति निवृत्ति
हेतु भूतत्वात् । नैसर्गिकचिल्लक्षण कर्तृशक्ति व्यक्ति कत्री सति तद्वारा कर्तृ
सहकॢप्ति संस्पर्शिनी कर्तृरूपकृतिमती कलक्षेव इति धातोः कलयति मलं
क्षिपति इति सिद्धव्युत्पत्तिका । स्वमलालिङ्गितपुरुषा कला कर्तृकारकमुच्यते
तदुक्तम् । मृगेन्द्रे ।

[[४५४]]
इत्येतदुभयं विप्र सम्भूयानन्यवत्स्थितम् ।
भोगक्रियाविधौ जन्तोर्निजगुः कतृकारिकम् ॥ इति ।

नहि विद्यादिकमिव करणकारकम् । विद्याविदार्थक्रियां विदर्शयति -

ततो विद्या कलातत्वादभूद्भोगर्थमात्मनः ।
कलया कर्तृभूतस्य बुद्धिलक्षणकर्मणः ॥

आलोकने यत् करनं सा विद्या शिवशासने ।

ततः कलातत्व जन्मसमनन्तरं विद्यानन्तक्षुब्धात् कला तत्वात् आत्मनो
भोगार्थं सुखदुःखमोहात्म त्रिविधवेदननिमित्तमभूत् । विद्यार्थ
क्रियां विविच्यन्दर्शयति । कलयेत्यादि । कलयोक्तप्रकारेण कर्तृभूतस्य ज्ञातृ
कर्तृलक्षणज्ञानक्रियार्थ क्रिया कर्तृभूतस्य [[४५५]]
बुद्धिलक्षणकर्मणः । बहिष्ठस्त्र्यादि विषयोपरक्ति निमित्त
समुत्थान्तस्सुखादिरूपस्य आलोकने । स्ववृत्तिव्यक्त स्ववृत्यविविक्त दृक्क्रियार्थ
क्रियाकरणभूतशक्ति निर्वर्तनीयभोगलक्षणज्ञानार्थक्रियायां यत्
करणं करणाविविक्तं भूत्वा करणकारकं सा विद्यते अनयेति सिद्ध
व्युत्पत्तिकावेदन समर्थनार्थक्रियान्यथानुपपती समुत्थार्थापत्ति सिद्धा
विद्या । इत्थं कुलालादि घटादि कर्तृशक्ति संरम्भ शब्दशब्दनीय
क्रियार्थक्रियायां कलास्पदाहङ्कारः करणमिति वक्ष्यामः । ननु बुद्धि ।
ज्ञानशक्तिव्यञ्जकेति बुद्धिविज्ञानव्यञ्जनार्थक्रियायां
विद्याक्लिप्तिनानार्थकी । तदयुक्तम् । तथात्वे काविलानामपि [[४५६]] व्यञ्जके
मनसिक्लिप्ते बुद्धि क्लिप्तिन् न यदि तादृशी तर्हि पुनः कृदृशी स्यात् । ननु
व्यञ्जकक्लिप्त्युपरिव्यञ्जकक्लिप्तिन्न नैरर्थकी किन्तु करणक्लिप्त्युपरिकरण
क्लिप्तिर्दौष्टिकी । तदयुक्तम् । इन्द्रियलक्षणं करणस्यावयोस्सिद्धमनेलक्षण
करण सापेक्षित्वात् । ननु भोग इति प्रथितसुखदुःखमोहसंवेदनसाधनैक
बुध्यर्थक्रियायां विद्याक्लिप्ति व्यर्था । तदयुक्तम् । अश्वेन पथादीपिकया
यतीतिवत् भोगसाधनैक बुध्यर्थ क्रियायां भोगेऽर्थस्सर्व॥।ट्वामिति
श्रुतेरस्मद्दृष्ट्यविरुद्ध युष्मद्दृष्ट्यापीन्द्रिय क्लिप्त्यानैकान्तिकत्वात् । अथ
भोगसाधनार्थक्रियासाम्येपि विविधरूपादि ज्ञानसाधनविविधार्थ (प्।
४५७) क्रियत्वात् विविधेन्द्रिय क्लिप्तिः । यद्येवं विद्या बुध्योर्भोगसाधनार्थ
क्रिया साम्येपि विशदृशलक्षणार्थक्रियत्वं विद्यते ।
बुद्ध्र्बहिरन्तरनुक्रमेण करणकर्मतास्तित्वादित्याह -

बुद्धिर्हि कर्मग्राह्यत्वाद् आत्मनो घटकुड्यवत् ।
ग्राह्यं करणसापेक्षं दृष्टं रूपादिकं यथा ॥

बुद्धिर्हि कर्मबाह्य विषयाध्यवसाय स्मृति प्रतिभादि प्रकाशहीनतया च
सुखाद्यन्वित स्मृक्चन्दनवनितादि बाह्यविषयसाध्यवसायः स्मृतिः
प्रतिभेति त्रिविधबोधद्वारा स्वात्मन्निज्योदिष्टोमक्रियादिजनित स्वगुणभूत
संस्कृतिलक्षण कर्मोपादानज सत्वादिलक्षण धर्मज्ञानादीनां
भोग्यदशात्मना [[४५८]] प्रत्ययरूपेणोद्भूत
सत्वादिकत्वतस्सुखदुःखमोहाकारपरिणतिमत्तया च भोग्यतया ग्राह्यत्वात्
। वेद्यत्वात् । तदुक्तं तत्वसङ्ग्रहे । बुद्धिर्विषयकारा सुखादिरूपा समासतो
भोग्यं भोग्ये भोगो भोक्तुश्चिद्व्यक्तिर्भोग्य निर्भासेति । यत्र
ग्राह्यन्तत्कर्मपट कुड्यवत् पुन बुद्धिर्न कलोपकृत कर्तृमात्र सापेक्षा ।
किन्तु करणोपकत्री सती करणसञ्ज्ञित विद्योपकृतचिच्छक्तिलक्षणकरण
सापेक्षा च स्यात् । कर्मत्वात् ग्राह्य सत्कर्म यत् तत् करणसापेक्षन्दृष्टम् ।
यथा करणोपकर्तृ सत्करणसञ्ज्ञितचक्षुरादिन्द्रियोपकृत
चिच्छक्तिलक्षणकरण सापेक्षं रूपादिकं यत् करणं बुद्धिबोध
क्रियायां साद्येति विद्यासिद्धिः । फलितमाह -

[[४५९]]
ततस्तच्चक्षुराद्यैश्च क्रमेणार्थे विनिश्चिते ।
बुध्यन्तैर्निश्चितार्थैस्तां पुमान् संवेत्ति विद्यया ॥

बिम्बितविषत उत्तरीतेरनुपदमेव वक्ष्यमाणनयेन च चक्षुराद्यैः
करणभूतैः क्रमोणार्थे विनिश्चिते । बुध्यन्तैस्तैर्निश्चितार्थैस्सहतां
प्रतिबिम्बितविषयतया तो भोग्यतया समुत्थभाव प्रत्ययोद्भूतगुणात्म
सुखादि परिणति मती मतिं विद्यया विद्योपकृत चिच्छक्त्या पुमान् संवेत्ति ।
तदुक्तं तत्व प्रकाशिकायाम् । बुद्धिर्यदास्य भोग्या सुखादिरूपा तदा
भवेत् । करणं विद्येयं करणं स्यात् । विषय ग्रहणे पुनर्बुद्धिरिति
कलोद्बलनमात्रा चिच्छक्तिर्नकरणमित्याह -

[[४६०]]
चिच्छक्तिः करणं बुध्या लोचनेनेह केवला ।
विद्या सम्मिश्रिता किन्तु विद्यैव करणं ततः ॥

बुद्धिञ्चिच्छक्तिरेवेह यदि पश्येत केवला ।
तदा संवेदनं भोगरूपन्नस्यात्कदाचन ॥

तस्या विवेकरूपत्वाद् अविवेकः कथन्तथा ।
तस्माद्भोगस्य संवित्तौ विद्याकरणमात्मनः ॥

भोगस्येति कर्मव्युत्पत्या भोग्यस्य सुखादेरिति यावत् बुध्यपि
विक्तचिच्छक्तेर्भोगाभिहित वेदनार्थक्रियेदानीं दृश्यते । मुक्तौ सास्तीति तु न
श्रूयते । ननिर्हेतु मतीयमिति पिण्डितार्थ स्पष्टः पदार्थः ।
चिच्छक्तेरविवेकरूपवेदनप्रकारञ्च रत्नत्रये । तत्र
चित्स्वाभिसम्बन्धबुद्धितत्वा विवेकतः ।

[[४६१]]
आरोप्यात्मनि तद्वृत्ति विकारानविकारिणी ॥

जन्मादी ननु जातेति नष्टेति विविधेति च ।
स सुखेति स दुःखेति स्वात्मानन्दर्शयत्यणोः ॥ इति ।

इत्तोपि विद्या सिद्धिरित्याह -

किञ्चाक्षवस्तु संयोगाद् यो बोधो निर्विकल्पकः ।
स च विद्यात्मको ज्ञेया बुद्धेस्तत्रा प्रवृत्तितः ॥

किञ्च बुध्यविविक्तसंवेदनं विनापि अक्षार्थसंयोगान्
मनोधिष्टितेन्द्रियार्थ संयोगाद् यच्छिच्छक्तौ व्यक्तो निर्विकल्पको बोधः ।
निर्विकल्पकं ज्ञानं स च विद्यात्मको ज्ञेयः तन्निर्विकल्पज्ञानञ्च
विद्याव्यक्तचिच्छक्तिकर्तव्यं ज्ञेयं कुतः बुद्धेस्तत्रा प्रवृत्तितः ।
बाधामनुषज्य तर्कयति -

[[४६२]]
तस्यास्तत्रापि हेतुत्वे सोपिस्यान्निश्चयात्मकः ।
तद्विनिश्चय रूपोयं बोधस्त्वालोचनात्मकः ॥

तस्या बुद्धेस्तत्रापि इन्द्रियार्थ बोधेपि हेतुत्वे तु तद्विनिश्चयरूपः तदर्थ
विगतपरामर्शलक्षणो यमालोचनात्मकः । अवलोकन रूपमात्रो बोधः स
इतः पश्चात् भाव्यमानो निश्चयात्मकः । परामर्शरूपो भोधिपि स्यात् ।
बुद्धिर्विद्योपबृंहिताक्षार्थबोधोव्यभिचरति व्यभिचरन्ति चाक्षा
विद्योपबृंहित बुध्यर्थबोधे तथा हि स चिच्छक्तिक रागसहभूतं
वक्ष्यमाणनयसिद्धं मनस्ववृत्ति व्यक्त स्ववृत्युपहित स्ववृत्यविविक्त
क्रियाशक्तिलक्षणेच्छाशक्ति दृक्क्रियार्थक्रियया सङ्कल्पैकाग्रतेच्छा
त्रिशब्दशब्दित स्ववृत्याकलोद्बलितकर्तृ [[४६३]] चिच्छक्तिकं पुरुषं
विनिष्कृष्येन्द्रियमार्गेण प्रेरयितत्वा तदिन्द्रियमर्थेन सहसंयोजयति ।
तदुक्तं सर्वज्ञानोत्तरे ।

प्रकाशं मनसायुक्त इन्द्रियैस्सहयुज्यते ।
इन्द्रियाणि ततोर्थेषु नित्यमेव प्रवर्तत ॥ इति ।

मतङ्गे च ।

सङ्कल्पे न सरागेण स्पुरद्वीर्येण वेगवत् ।
विनिष्कृष्याक्षमार्गेण प्रेरयित्वा तदिन्द्रियम् ॥

अर्थेन सहसंयोज्य सरागच्च निवर्तत । इति ।

तदनु हि ज्ञानेन्द्रियं स्ववृत्तिव्यत्त स्ववृत्युपहृत स्ववृत्यविविक्त ज्ञानशक्ति
निर्विकल्पालोचन लक्षणार्थक्रियया विद्योपहित स्ववृत्या पुरुषं
विषयमालोचयति । [[४६४]] तदनु हि । राग स्ववृत्तिव्यक्त स्ववृत्युपहित
स्ववृत्यविविक्त क्रियाशक्तिलक्षणेच्छाशक्तिः दृक्क्रियार्थक्रियया
अभिलाषनाम स्ववृत्यावक्ष्यमाणमनोवृत्तिसमनन्तरं यथाहं
कारिकगर्ववृत्या किं विषयोयं बोधयति परामर्शयोग्यस्सम्पद्यते । तथा
निर्विकल्पपुरुष सहभूतबोधमाकर्षयति । तदुक्तं स्वायम्भुवे ।

कलोद्बलितचैतन्यो विद्यादर्शीत गोचरः ।
रागेणरञ्जितश्चायं बुध्यादि करणैस्तदः ॥ इति ।

तदनु हि । पुरुषेण तं निर्विकल्पबोध विषयाध्यवसाय चिकीर्षया मनः ।
पुनश्चोदितं काकसाक्षिपं मनश्चारो बहिरन्तः प्रवर्तनादिति वक्ष्यमाण
नयेनो [[४६५]] भयप्रचारमपि बहिः प्रचारेण तेन च बहके न युक्तं प्रोक्त
सङ्कल्पाख्य स्ववृत्या पुनस्तदिन्द्रियं सम्यगधिष्ठाय मनः
परीक्षायां वक्ष्यमाणविकल्पाख्य स्ववृत्या बहुष्वालोचितेषु विकल्प्येक
पदार्थं विषयीकृत्य पुनः प्रोक्त सङ्कल्पाख्य स्ववृत्या
पूर्वानुभूत्यानुगुण्येन अमीयधर्मवनिता या येव नान्यस्य सृगोदेरिति स
सन्देहं पुरुषं सङ्कल्पयति अनुस्मारयति एकाग्रयति निर्वत्यमानः पुन
स्वान्तः प्रचारणेन सङ्कल्पाख्य स्ववृत्या किं विषयोयं बोधः तदहं
परिच्छेत्स्यामीत्याहं कारिकं ग्राहक परामरिशन्तदेकनिष्ठं विदधाति ।
तदनु हि । अहङ्कार स्ववृत्तिव्यक्त स्ववृत्युपहित स्ववृत्यविविक्त [[४६६]]
स्वधोमुखज्ञानशक्त्यर्थक्रियया ग्राहकाध्यवसायाभिमान
ग्राहकपरामर्श गर्व नाम बृन्द स्ववृत्या किं विषयोयं बोधः तदहं
परिच्छेत्स्यामीति पुरुषमहं कारयति । तदनु हि । मनः पुनस्वान्तः
प्रचारेण । सङ्कल्पाख्य स्ववृत्या निस्सन्देहं सेयं वनितेति बौद्धं
ग्राह्य परामर्शन्तदेकनिष्ठं विदधाति । तदनु हि । बुद्धि स्ववृत्तिव्यक्ति
स्ववृत्युपहित स्ववृत्यविविक्त विषयोन्मुखज्ञानशक्ति
स्वनिष्ठसमुद्यमात्मज्ञानार्थ क्रियया ग्राह्याध्यवसाय
ग्राह्यपरामर्श निश्चय व्यवसाधनाम बृन्द स्ववृत्या वासनागोचर
प्राप्तविषयाभिमानात्मिकया शब्दोल्लिखितया पूर्वदृष्टाकार ग्रह
पटीयस्या स्वोर्थराग प्रत्यर्थाभिलाषार्थक्रिया [[४६७]] समुत्थापि कया
नानावयव नानागुणसादृश्य लक्षणजातिस्पुरण स्वलक्षण तदक्ष
निर्विकल्पार्थ बोधमवलम्ब्येयं वनितेति निस्सन्देहं पुरुषम्
अध्यवसाययति वक्ष्यति । तथा मनः परीक्षायाम् ।

क्रमेणैवार्थसंवित्तिः पूर्वमालोचनात्मिका ।
सन्देहरूपिणीपश्चाद् अभिमानात्मिका ततः ॥

व्यवसायात्मिका पश्चात् क्रमेणैवं व्यवस्थितेति । तदनु हि । तदित्थन्तदेतत् सृक्
चन्दनवनितादि दर्शन स्पर्शनाद्येकतम समुत्थाद्यवसायात् । अथवा
दर्शनानुदर्शन दर्शनानुस्पर्शन स्पर्शनानुस्पर्शन स्पर्शनानु
दर्शनादि सन्तति समुत्थाध्यवसाय सन्ततेर्वा । यदा प्रतिबिम्बित
विषयाकृतिमती [[४६८]] मतिर्भवति । तदानीन्नामिश्रं परिणमत इति न्यायेन
जनकन्द्यारकं भोग्यमध्यात्मादिति साधनमिति । मृगेन्द्रे कर्मलक्षण
श्रुतेश्च ईश्वरादि सापेक्षभोजकसजातीयकम् । मालबनात् । भोग्य पुराहित
कर्म सस्कृते समुत्थबौद्धपौर्वगुणभूतभावाधिवासनायास्समुत्थ
बौद्ध पौर्वगुणभूत प्रत्ययात् समुत्थबाद्धाधुनिकविषयित सुखादिरूप
मनोहङ्कारवृत्ति पुराघ्राते विषयिनिबुध्यन्त स्वसात्विकाध्यवसाय
स्वप्रकाशे सुखादिलक्षणभोग्य निर्भास वेदनात्मभोगलक्षण
स्वार्थक्रियां स्वां स्वसंवृत्तिलिङ्गिनः शक्तिमतः पुंसः परसंवित्ति
लिङ्गिनी चिच्छक्तिः । यद्यपि सुखाद्यसंस्पर्शिनी [[४६९]] विद्योपहित
स्वनिष्ठसमुद्यति मती सति ससुखेति सदुःखेति तावदनुभावयति । इदं मनः
कर्तव्यमिदमहङ्कार कार्यमिदं बुद्धिकरणीयमिति विविक्तानुभूतिरपि
विद्याकृत व्यक्तिमतीत्याह -

अभिमाने तु सङ्कल्पे निश्चये वेदनन्तु यत् ।
अहङ्कारमनोबुद्धि कार्ये तदपि विद्यया ॥

सुगमं सौगात दृष्ट्यनुवासितत्वात् बुद्धिबोधहेतुः । किं
कथञ्चिच्चिदन्तरं कल्पयित्वा क्लिप्त तच्चिद्बोध व्यञ्जिका विद्येत्येतत् । कल्पना
गौरवसमाविष्कृति मदुक्त्येति न वाच्यमित्याह -

बुध्यादयो जडत्वेन न बोधस्य तु हेतवः ।
विद्या कलुषिता तस्माच्चिछक्तिर्बोधिकात्मनः ॥

[[४७०]]
सुलभः । पुनरिदमिव स्पष्टयति -

किन्तु बुध्यादयोऽन्येभ्यो रविवत् सम्प्रकाशकाः ।
बोधात्मकप्रकाशे तु नतेषामपि हेतुता ॥

किन्तु जन्यत्वमस्ती । यद्यपि बुध्यादय इन्द्रियान्ताः अन्येभ्यस्तम्भ
कुम्भाभ्यः रविवत् सम्प्रकाशकाः । स्वपरात्म प्रकाशकाः । त्वपि यद्यपि
तेषां बोधात्मकप्रकाशे चिद्रूप स्वपरप्रकाशे यदि भवत्यपि
व्यञ्जकतया सहजस्वलक्षणस्वार्थक्रियाफलतया न हेतुता । चिद्व्यक्ति
भूमि भूत चिदित्युपचरित जडरूपप्रकाशेस्तीत्याशयः । ननु
बुद्धेर्दीपवद्रपि वद्वा स्वपरप्रकाशत्वात् स्वविषयबोधकरणीये
करणत्वमस्तु किं सिद्धा या विद्या या तदुक्तम् । [[४७१]]
दीपप्रकाशोपबृंहित चक्षुर्वत् बुद्धिप्रकाशोपबृंहित विद्या सिद्धिः ।
दर्शितञ्च पूर्वं भोगकारिकासु च । कृतेह्याक्षेप समाधाने ।

प्रदीपवन्मतिस्तस्या स्वपरात्मप्रकाशिका ।
विद्यादे करणं पुंसो विद्याया किं करिष्यति ॥

प्रदीपः करणं पुंसां स्तम्भाद्यर्थोपलब्धिषु ।

दीपोपलब्ध॥॥क्षुश्च बुद्धावप्येवमिष्यताम् ॥ इति । उपसंहरति -

भोगस्वीकरणे विद्या संविदः करणं ततः ।
कलावृत्तिं विना तस्याः नानयोः कार्यसङ्करः ॥

कलातोऽन्तरं विद्या द्वितीयो बद्ध आत्मनः ।
कलाविद्याह्वयौ बद्धौ कर्तुरेवोपकारकौ ॥

[[४७२]]
भूत्यत इति कर्मव्युत्पत्या भोगस्सुखादि भोगस्वीकरणे
सुखादिलक्षणबुद्धिविषय संवेदने संविदः स्वसंविल्लक्षणात्मनः
एतस्यावृत्तिरिति शेषः कर्तृसंस्पर्शिनी कलावृत्तिः करणसंस्पर्शिनी
विद्यावृत्तिरिति स्वस्ववृत्तिलक्षणकार्य साङ्कर्यन्नास्तीत्याशयः ।
उपकारत्वमनुमतस्साक्षात् परम्परयेति मन्तव्यम् । स्पष्टन्तदितरपदार्थः
। रागार्थक्रियामाविष्करोति -

प्रवृत्तस्य प्रसक्त्यर्थमपि रागः प्रवर्तते ।
भोगाभावादसक्तस्य भुञ्जानस्य मलीमसान् ॥

भोगानतृप्ते तस्यातः कर्तुरेवोपकारिता ।

प्रवृत्तस्य भोगक्रियां कर्तुं तत्वद्वय समर्थितोद्य तस्य भोगाभावात् । सृक्
चन्दनवनितादि भोग्यासम्भवात् । [[४७३]] तत् सन्निध्य सम्भावाद् वा ।
असक्तस्य नभिलषितस्य प्रसक्त्यर्थम् अभिलाषनिमित्तं मलीमसान् अति
कलङ्कसङ्कुलादिति विरतिकरान् भोगान् भोग्यान् भूकानस्या तृप्तेस्तदविरति
हेतोः रागोपि रजते नेनेति करणव्युत्पत्ति सिद्धः प्रवर्तते कलातत्याज्जात स्वार्थ
रञ्जनार्थक्रियां करोति । तदुक्तं मृगेन्द्रे ।

तदभिव्यक्त दृक्च्छक्तिन्दृष्टार्थोप्यविवासितः ।
नैतितज्जनकं रागं तस्मादेव सृजत्प्रभुः ॥

सतेन रञ्जितो भोग्यं मलीमसमषिस्पृहन् ।
आदत्तेन चतुर्भुञ्जानो विरागमधिगच्छतीति ॥

तत्रैव तर्हि द्वेषस्यापि तत्वान्तरत्व उस्त्वीत्याक्षिप्य [[४७४]] तस्य रागार्थक्रिया
विशेषत्वान्नेति सविस्तरं परीहृतन्ततो व धार्यम् । अतः कारणात् कर्तुः
पुरुषस्यैव भोगार्थन् तस्य रागस्योपकारितोपकृतिस्सिद्धेति शेषः । परीक्षोपरि
भविष्यति । कालनियति वृत्तिन्दर्शयति -

कालः प्रवृत्तमेवाणुं कलयत्यात्म वृत्तिभिः ।
नियतिश्च तथा कर्मफले नियमयत्यणुम् ॥

तस्मान्नियति कालौ च स्थितौ कर्तुपकारकौ ।

सूक्ष्मदेहाङ्गभूत स्वान्तरित कलयित्र्यभिहित
शिवशक्त्यधिष्ठितानन्तशक्तिकः । कलयति प्रेरयतीति व्युत्पत्ति सिद्धः कालः
रागादिकञ्चुकत्रयजनितभोगसंवित्तिर्न्नियति नियतमणुं
प्रलयान्तमात्मशक्तिभिः [[४७५]] बहिर्भूत स्वत्रुटि लवनिमेषमुहूर्तादि
कार्यकलाभिः कलयत्याक्षिपति नियमतीति व्युत्पत्तिसिद्धा नियतिश्च यथा न
साङ्कर्यं तथाणुं कर्मफले नियमयति । विपर्या सस्वीकारे निरूणधि ।
तस्मादित्यादि सुगमम् । ननु अवस्यन्तवत् भोगस्तत् साधनानि च भोक्तुः
कर्माशनानि तदपेक्षां विना भोगवैचित्र्यानुपपत्तेः तस्यैव हि
नियामकत्वं किमित्यसिद्धया नियत्या तथा चोक्तम् । यस्माच्च येन च यथा च
यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा
च तदा च तच्च तावच्च तत्र च विधातृवशादुपैतीति ॥ तदयुक्तं पुमर्थः
कर्ममात्र निबन्धन इति शरीरेन्द्रियादेरप्यानर्थक्य प्रसङ्गात् । [[४७६]] अथ
देहादि सापेक्ष कर्मपुमर्थसाधकम् । तर्हि नियति सापेक्षमत्र भवत्वित्याह -

आसामञ्जस्य रोधेन कर्मणोप्युपकारिता ।
नियतिस्तद्वत् कालोपि कलाभोग्ये यदात्मनः ॥

आसामञ्जस्य रोधेन चातुर्वेद्यमितीतिवत् । स्वार्थेष्यज्ञ स्वजातीयकर्मफल
विपर्या सनिरासेन स्वकर्तृ स्वफलस्य कर्त्रन्तर स्वीकारनिरासेन
कर्त्रन्तरकर्मफलस्य स्वकर्तु स्वीकारनिरासेन वा कर्मोविभुक्तिकर्तारं
प्रत्युपकारिता । नियति सापेक्षोपकृतिस्सिद्धा न तु कर्मणा आसामञ्जस्य
रोधेन नियते रूपकारितेति व्याख्येयम् । नियतेन्नियतिरियमस्येति कर्म व्यवहि
नियन्त्र्यभिहित शिवशक्ति [[४७७]] प्रणुन्नानन्तरशक्ति क्लिप्ति लक्षणनियमनं
समालिङ्ग्य समुत्थत्वात् । मृगेन्द्रेपीत्थं कृते ह्याक्षेपसमाधाने ।

भोगार्थ सर्वतत्वानां सोपि कर्मनिबन्धनः ।
कर्मैवास्तु शरीरादि ततस्सर्वमपार्थकम् ॥

अथ देहाद्रिं सापेक्षं तत् पुमर्थ प्रसाधकम् ।
ततो नियति सापेक्षमस्तुकर्मनियामकम् ॥ इति ।

इदमेव सर्वकलादि तात्विकवृत्तिनिबन्धनतया कर्माक्षेपे समाधानम् ।
यथात्मनः कलाभोग्यसुखादिके स्वीकारकृतौ कर्तृनन्यस्थिति मत्तया
कर्तृकारकं तद्वत् तथा निव्यतिः कर्तृकारकम् । कालोपितद्वत् कर्तृकारकं
रागतत्वं परीक्षितुं पुनस्समुद्धरति -

[[४७८]]
अथाणोः कलितस्यैव विद्यया कलयापि च ।
कलातो जायते रागस्सद्यः पुंसां प्रवृत्तये ॥

अनिच्छन्नहि भुञ्जानो दृश्यते क्वचिदप्यणुः ।
रागद्भोगेषु सक्तत्वात् भोग्यं भोक्तुमतोऽर्हति ॥

स्पष्टोक्षरार्थः । ऋषयः -

स तु बुद्धिगतो रागः किमन्यत्रापि चेष्यते ।
अलमेकेन चेद्वाभ्यां किमत्र कथयेश्वर ॥

यस्सक्ति स्वकार्य सतुह्यवैराग्यं शब्दशब्दितो बुद्धिगतो रागः ।
सरागश्चान्यत्रापि सक्तिव्यतिरिक्त कर्तव्येपि किमिष्यते । अपि च
शब्दस्सगलोरस्समुद्धृति समुच्चरितस्तु नेति । प्रतिषेधोक्तिमुद्धारयति । अत्र
सक्तौ चेद्यदीष्यते । तर्ह्येके नालं द्वाभ्यां किं कथयेश्वर । ईश्वरः -

[[४७९]]
योयं बुद्धिगतो रागस्सम्प्रोक्तः प्रत्ययात्मकः ।
सस्यादनेन रक्तस्य नारक्तस्य कदाचन ॥

मलोपि सक्तौ तस्यादिरित्युक्तस्तस्मिन्निरूपणे । योयं बुद्धिगतो रागो यदि
प्रत्यय दशामनापन्नः कार्यकरः । तदावसानारूपत्वात्
वासनावस्थायामपि कार्यकरत्वे बुद्धेरनन्तवासनायोगे न पुंसो
युगपद्विरुद्धानन्त प्रतिपत्ति वैश सप्रसङ्गात् प्रत्ययात्मकस्सम्प्रोक्तः
भोग्यदशां प्राप्यकार्यकरो भूत्वा पुङप्रत्यय व्यञ्जकत्वात् प्रत्यय
शब्दशब्दितः प्रत्यया विविक्तस्स्वरूपः समुदितः सोनेन कलोत्पन्नेन रागेण
रक्तस्याभिलषितस्य स्यात् कार्यकरो भवेत् । [[४८०]] न कदाचन तेनारक्तस्य
बुद्धिगतरागस्य भोग्य विशेषत्वाद्वक्ष्यमाणनयेन
वीतरागाभावप्रसङ्गात् । अथ मुक्ते विरक्तिं किं करिष्यति । नहि मलोपि तस्य
पुंसस्सक्तौ रक्तौ तन्निरूपणे तं मलपरीक्षायामादिः करणमित्युक्तः
परीक्षितः । ततस्समले रक्तिकर इति न विपर्यासः । फलितमाह -

तस्मादनेन रागेण विद्यया कलुषीकृता ।
चिछक्तिरिच्छारूपैव सती बुद्धिगतेन च ॥

रागेण सह सम्पृक्ता विषयं विषयं प्रति ।
भिन्नाविशिष्टरूपस्यादन्या सामान्य रूपिणी ॥

तत्र ग्राहकनिष्ठोयं रागो बौद्धात्प्र्ठङ्मतः ।

तस्मादुक्तकारणात् कलाभिव्यक्त्या ज्ञानक्रियार्थक्रिया [[४८१]] ज्ञातृ
कर्तृलक्षण कर्तुः शक्तिः विद्यया कलुषीकृता समर्थी कृता विविक्ता विषय
गोचर समर्थज्ञानार्थ क्रिया सती ज्ञानशक्ती सञ्ज्ञिता अनेन माये येन
रागेण सहसम्पृक्ता सन्निधिमात्र वशीकृताभिलषितासति इच्छारूपैव
कलाभिव्यक्त क्रियार्थ क्रियामात्रविवक्षया क्रियाशक्ति सैवरागकृतरक्तिमती
तदौपाधिक स्वक्रियार्थ क्रियाविभूर्तदृक्क्रिया लक्षणेच्छार्थक्रियावती सति
। इच्छाशक्तिसञ्ज्ञिता इयमेवेच्छाशक्तिर्मनसन्निधिमतीति दृक्क्रिया
लक्षणसङ्कल्पार्थक्रिया समुद्धिति मती च भवति सैषेच्छार्थक्रिया
समुद्धीतिमत्वेव बुद्धिगतेन च रागेण सह पुनस्सम्प्रक्तासती इच्छारूपा
[[४८२]]
विषयं विषयं प्रतिभिन्ना सृगियञ्चदनमिदं वनितेयं
वाराप्तव्यमिति । प्रत्यर्थगत स्वेच्छार्थक्रिया वती सति विशिष्टरूपा स्यात्
सृगिच्छेयञ्चन्दनेच्छेयं वनिते च्छेयमिति व्यावृत्त स्वार्थक्रियेच्छा
लक्षणा भवेत् । अन्या मायेय ग्राहकनिष्ठरागकृत साधारण
विषयमात्रेच्छार्थक्रियावती सति सामान्यरूपिणी अन्या वृत्त
स्वेच्छालक्षणार्थक्रिया स्यात् तत्रेत्याद्यर्थस्पष्टः पुनः
पराशयमाशङ्क्य परिहरति -

भावना त्रिगुणात्मत्वादिष्यते सुखरूपिता ।
तस्मादेव प्रवृत्तस्यात् किमनेनेति चेन्मतिः ॥

तन्नैषाञ्च विशेषेण भावानां सर्वजन्तुषु ।
[[४८३]]
रञ्जका सुरतो वीतरागाभावः प्रसज्यते ॥

भावानां वनितादि बहिर्भूतपदार्थानां तस्मादेव सुखलक्षण
रागादेव । स्पष्टस्तदितर पदार्थः । ऋषयः -

रागो ग्राहकनिष्टश्चेत् कलादिरिव सर्वदा ।
भुक्तभोगस्य च तदा रागस्तद्विषयो सकृत् ॥

विरज्यते कथं पश्चात् भुक्तभोगस्तु मानवः ।

कलादिरिव रागसर्वदा ग्राहकनिष्ठश्चेत् तदा भुक्तभोगस्य च
भुक्तस्त्रियादिकस्यापि असकृत् तदा तद्विषयः तत् स्त्र्यादि गोचरो भवेदिति शेषः ।
स तु भुक्तभोगो भुक्तस्त्र्यादिको मानवः पश्चात् भुक्तिसमनन्तरमेव
कथं विरज्यते विरतियुक्तः क्रियते । ईश्वरः -

[[४८४]]
रागोपि द्विविधो वासनात्मा च प्रत्ययात्मकः ।
तत्र संवेदनात्मायो रागो विषयसंस्थितः ॥

विषयत्यागाच्च तत् यागे विरक्तः पुरुषो भवेत् ।
नमाये यस्य रागस्याप्य भावाद् वा सनात्मनः ॥

रागोपि द्विविधः तत्रैको कलाद्वारा मायाजन्यत्वाद् वा सनात्मा अतिसूक्ष्मः
तदितरः प्रत्ययात्मकः स्थूलो बौद्धः । तत्र तयोर्मध्ये वेदनात्मा
संवेदनव्यक्तिभूमित्वात् संवेदनलक्षणत्वेनोपचरितः । बौद्धः विषय
संस्थितः । स्त्र्यादि प्रतिविषयकतः यत्र विषये यदा स्थितः । तत्र तदा
तद्विपरीत कर्मव्यक्तवैराग्यगुणतो विषयान्तररक्तेश्च विषयत्यागात् तत् (प्।
४८५) स्त्र्यादि विषयो परतेः तत् यागे च विषय त्यागद्वारा तद् विषय
रागानभिव्यक्तौ च पुरुषो विरक्तस्तद्विषयरक्तिरहितो भवेत् । न माये यस्य
वासनात्मनो रागस्याप्य भावात् । स विरक्तः यदि स रागस्सन तिष्ठते ।
कुतस्स न रक्तिकर इत्यत आह -

बौद्धेन सति रागोस्मिन् वा सनात्मा प्रवर्तकः ।
ग्राह्याभावे यथा नेत्रं सदकिञ्चित्करम् भवेत् ॥

अस्मिन् प्रलयलक्षणे बौद्धे रागे असति सति वासनात्म मायेय रागः । यथा
ग्राह्या भावे स्वोचितरूपसन्निध्यभावे नेत्रं सदकिञ्चित्करं भवेत् । सदपि
न स्वग्रहण कियाकर्तृ तथा सन्नपि प्रवर्तकः । न स्वरक्तिक्रिया कर्ता असति
मायेय रागे बौद्धोरपि इत्थमित्युदाहृत्य [[४८६]] माया जरागं प्रसाध्य
पुनः सुपाधकतत्वे । कार्म्या मायेय रागं परं स्वीकारयति -

एवं बौद्धोपि रागेस्मिन् स्याद् असत्यप्रवर्तकः ।
विद्या मनोपिविषयो नग्राह्योऽसति चक्षुषि ॥

रागोऽतो वासनात्मायं संस्थितो ग्राहकात्मनः ।
यदि तस्याप्यभावेन वैराग्यं विषयेष्वणोः ॥

अन्यत्रविषये पश्चात् मक्तो नस्यात्कदाचन ।
रज्यते चायमन्यत्र वासनात्म तत स्थितः ॥

स्पष्टोक्षरार्थः एतद्युक्तं भवति च । बहिष्ठस्त्र्यादि भोग्यभोजको भोगोत्र
गतरागप्रनुन्नो बौधो रागः बौद्धरागे स्त्रयाद्युपरक्ते प्रत्ययात्मनि
भोग्येर्थमात्राभिलाषार्थक्रिया कर्तृ भोक्तृगतरागो मायाजो भोजकं प्रति
। [[४८७]] न च कर्मैव रञ्जकमस्त्वीति वाच्यम् । निरपेक्षस्य तस्य नियति
परीक्षायां निषिद्धत्वात् । भङ्ग्यन्तरेण । ऋषयः पुनश्चोदयन्ति -

यद्येवं वासनात्मा तु स्थिरो रागो महेश्वर ।
वीतरागः कथं सद्यः पुमान् सम्पद्यते वद ॥

वासनात्मा रागस्तु यद्येवमैकवैषयिक वैराग्ये जाते
विषयान्तररक्त्यन्यथानुपपत्ति सिद्धश्चेत् स्थिरः । प्रलयान्तस्थायी । तर्हि
पुमान् सद्यः अत्यभिलषित लब्धस्त्र्यादिकोपि सुशीघ्रं वीतरागोपिगत
प्रपञ्चित रागस्सम्पद्यते समुद्भवति । कथं, वद महेश्वर । ईश्वरः -

ईश्वर प्रणिधानेन दीक्षया क्षपितेन वा ।
[[४८८]]
रागो निवर्तते पुंसस्सर्वधानैकदेशतः ॥

वीतरागस्य नाभावस्तस्माद् एव मुनीश्वराः ।

वाऽत्र समुच्चयार्थः नैह्यन्य तमे नेति पतत्युन्मलिनीशक्तिश्शिवरागेण
संयुक्तेति श्रुतेर्दीक्षायाः पूर्वमपि शिवरागार्थक्रिया दर्शनात्
क्रमतश्शक्तिपातेन च दीक्षया चेश्वर प्रणिधानेन निरन्तर शिवध्याने च
क्षपिते नाप्रकाशेन रागः पुंसस्सर्वात्मना निवर्तते असन्निव न स्वार्थ
क्रियां क्वापि करोति नैकदेशतः पुरोक्तवन्नैकविषयदेशान् निवर्तते । नत्व
चिदसन्निवार्थक्रियामकुर्वन् क्वचिद्विषयान्तरे स्वशक्ति क्रियां करोति ।
मन्दपाके तु नस्सर्वधा एकदेशत इति व्याख्येयम् । तस्मदेव [[४८९]]
ग्राहकनिष्ठरागनिवृत्तिकारणाद् एव वीतरागस्य न भावः वीतरागाभाव
प्रसङ्गोत्र न प्रसज्यत इत्यर्थः । स वीतरागः केनापि क्वापि किन्नरञ्जनीय
स्यात् । सरञ्जनीय स्याद् इत्याह -

तन्निवृत्यविनाभाव सम्बन्धा च्छुद्धगोचरः ।
रागश्रेयस्यणूं न? सद्यः संयोजयति नाद्भुतम् ॥

तन्निवृत्यविनाभाव सम्बन्धात् तत्स्त्यादि रक्तिकररागनिवृत्ति साहचर्य
नियमात् शुद्धगोचरः शुद्धशिवादिपदार्थ सक्तिस्वार्थक्रियाकर्ता
महामायेयः परदेहवर्तिरागः श्रेयस्करत्वात् श्रेयसि शिवरक्तौ सद्य
स्वप्रकाश समनन्तरमेवाणून् शक्तिपातं समारभ्य
स्वेतररागनिवर्त्यनुक्रमज स्वप्रकाशानुगुण्येन [[४९०]] संयोजयति
सम्बन्धं करोति नाद्भुतं नह्याश्चर्यं शिवमुद्दिश्याचार्यान्वेषणादि
दर्शनात् । वह्यशुद्धदेहं सम्बन्धिषु स शुद्धरागः प्रकाशको न
भवन्तीति वाच्यम् । शुद्धविद्या पशुत्व शिवत्व विविक्तिकरी सती महामाया
पुरुषविवेककरी च सति शिवबोधकरी च सती सुदीक्षितेषु अनुग्रह
शक्त्युपबृंहिता प्रकाशिका भवतीत्यशुद्धविद्या पटले मतङ्गे
सुसर्चितत्वात् । नाद द्वारा पुरावर्तिनी शुद्धविद्यैव स्वविद्यालक्षण
रागलक्षण द्वितत्वधर्माभ्यां शिवे न प्रकाशितेति गम्यते । दर्शितं ह्यत्र
च मन्त्रपरीक्षायाम् । न च मायेय रागश्शिवरागत्वेन निवर्तत इति वाच्यम् ।
तन्निवृत्यविनेत्यादि सदुक्त्या समञ्जसत्वात् । [[४९१]] मतङ्गेपि मायेय
रागादस्यान्यत्व दर्शकसदुक्ति श्रूयते ।

रागो न्योपि परस्सूक्ष्मो विशिष्टो स्मात् तदात्मकात् ।
येन निश्रेयसे पुंसां प्रवृत्तिरुपजायते ॥

दृश्यते च विरक्तानां नराणां बन्धगोचरात् ।
आचार्यान्वेषणे योगी शिवमुद्दिश्य सादरम् ॥

प्रवर्तते प्रहृष्टात्मा शिवरागानुरञ्जितम् ।
तस्माद्धेतुः परो रागा माया जालापनुत्तये ॥ इति ।

जिज्ञासा चोपजायत इति च मातङ्गी सेयं मुक्तिरेव शिवरागविषया
कलाविद्या रागादीनि महामाया पुरुषविवेक शिववस्त्वव बोधन
रञ्जनादिषु कारकत्वेन शुद्धाध्वनि सन्तीति मतङ्गाद्युक्तमित्यत्र
मृगेन्द्रवृत्ति दीपिकायाम् अविराग परीक्षायामभिप्रेता । [[४९२]] शिवादि
शुद्धवस्तु रक्ति करत्वात् । शिवरागसञ्ज्ञित इत्युक्त्वोपसंहृत्य ।
कर्त्रपकर्तृतया कालं परीक्षितुमुपक्षिपति -

शिवरागो यमाख्यातो मलस्यापि क्षयावहः ।
एवं रागस्समासेन वर्णितः काल उच्यते ॥

मलस्यापि क्षयावहः मलविवेकेच्छाकरद्वारा तत् क्षयकरः । अपि
शब्दान्मायाजालापनुत्तये च स्यात् । स्पष्टन्तदितर पदार्थः उपक्षिप्तं
समुद्धरति -

अथ कालः क्रमात् प्राप्तः सङ्क्षेपेणाधुनोच्यते ।
कलादिभिस्त्रिभिस्तत्वैः प्रवृत्तं पुरुषन्ततः ॥

लवत्रुट्यादिभिः कालः कलयत्यात्मवृत्तिभिः ।
ताश्च भौवन देहोर्थमेव यस्मात् क्रियास्तदा ॥

[[४९३]]
अथ रागपरीक्षानन्तरं क्रमाद्व्यापृत्यनुक्रमपुरस्सरोद्देश
क्रमात् । प्रवृत्तमाविर्भूत स्वार्थक्रियां ताश्च कालवृत्तयश्च यद्यपि
कलादिकन्तु कर्त्रययुक्तप्रवृत्तम् । भौवन देहोर्थमेव भुवनज शरीख्यक्त
संवित्तिकमेव पुरुषं कलयन्ति । तस्मात् तदा तदानीं तत् कलन नैमित्तिक
जन्मस्थिति मरणभुक्त्यादयः क्रियामलक्ष्यन्ते । तदुक्तं मृगेन्द्रे ।

इति प्रवृत्तिकरणैः कार्यारूढैस्स भौवनैः ।
भोगभूमिषु नाभुङ्क्ते भोगान् कालानुवर्तिन ॥ इति ।

स्पष्टस्थदितर पदार्थः । किञ्च -

अतीत वर्तमानैष्यद्वृत्तीनां कारणन्तु यत् ।
सकाल इति मन्तव्यो भोग्यार्थोत्पादकोनृणाम् ॥

[[४९४]]
अतीत वर्तमानैष्यत् वृत्तीनां भूतभविष्यत् वर्तमानलक्षण
बहिर्भूतकुसुमादि भोग्यवस्तुत्पत्ति स्थिति नाशनिमित्तकार्याणां यत्
कारणं सस्वोक्त कार्यद्वारा नृणां
भोग्यार्थोत्पादकस्सूक्ष्मदेहाङ्गव्यतिरिक्त बहिर्भूतः काल इति मन्तव्यः ।
तदेव प्रपञ्चयति -

नाकाले जायते कश्चित् नाकाले क्रियतेपि च ।
चक्रादिवद्घटोत्पत्तौ तस्मात् कालः प्रवर्तकः ॥

स्पष्टः । सयुक्तिकं पुनस्पष्टयति -

घटस्सञ्जायमानोयं जातो नेतः पुराक्वचित् ।
सति मृद्दण्डचक्रादौ कुम्भकर्तरि सत्यपि ॥

इतः पुरा क्वचित् । न जातः नोत्पन्नः । तत्र स्वाविलम्बोत्पत्तौ यत्कारणं स
पदार्थानां प्रवर्तकः । [[४९५]] प्रेरकः कालः न कर्मेत्याशङ्कनीयम् ।
यतस्तत्कालसापेक्षन्निरपेक्षमित्याह -

काले तु सति जायेरन् सर्वे भावाश्च सर्वदा ।
न कर्मकारणन्तत्र तद्धिकाले प्रवर्तकम् ॥

सुलभः ऋषयस्तार्किकदृष्ट्याक्षिपन्ति -

काल एको विभुर्नित्य इष्यते कैश्चिदीश्वर ।
तथा किमिति नेष्टोऽत्र भगवान्वक्तुमर्हसि ॥

व्यक्तोक्षरार्थः । ईश्वरस्समाधानं विदधाति -

काल एको यदीक्ष्येत क्रियातो नातिरिच्यते ।
यस्मात् स्वतः क्रियायास्तु नास्त्यतीतादि रूपता ॥

तस्या एव यदीक्ष्येत सैवकालः प्रसज्यते ।

काल एको यदीक्ष्येत यदि दृश्येता क्रियातः सत्वादीनां [[४९६]] प्रकाश
प्रवृत्ति नियमयति प्रवृत्युन्नत्यवनतिलक्षण सृष्टि स्थिति संहारादि
स्वनिमित्तभूतायास्सकालो नातिरिच्यते । न विभज्यते । तस्माद् यस्मात् क्रियाया
एवातीतादिरूपिता । कालस्य तु तदुपधिकृतक्लिप्तिमती सेति कुतार्किककुमति विहति
विधात्र्या शिवशास्त्र दृष्ट्या स्वतोनुपाधितः । क्रियायाः
नास्त्यतीतादिरूपताः प्रत्युत तस्या कालोपाधि कृतेत्याशयः परगति विहतये
बाधकतर्ककटक महीरूहमङ्कुरयति । तस्या इत्यादि तस्याः क्रियाया एव
स्वतोतीतादि रूपतायदीक्ष्येत तर्हि किमान्तर क्लिप्त्या सैव क्रियैव कालः
प्रसज्यते । कालार्थ कियाकरी कालशब्दशब्दितव्यत्वेन युज्यते । उपसंहरति -

[[४९७]]
ततश्च वर्तमानादि पदार्थानां मुनीश्वराः ।
वर्तमानादि रूपैस्तु कालैर्भिन्नैर्व्यवस्थितिः ॥

ततश्च नैकः कालोयं किन्त्वनन्तात्मवृत्तिकः ।

अनन्तात्मवृत्तयः पुरोक्तः त्रद्यादयः स्पष्टस्तदितरपदार्थः । ऋषयस्तथेति
स्वकृतिं सूचयन्तः तत्रानभ्युपगम्य वा विष्कुर्वन्ति ।

एष्योतीतश्च यौ कालौ प्रतीयेते महेश्वर ।
वर्तमानक्षणो मध्ये नेष्यते तदसम्भवात् ॥

वर्तमानक्षणो वर्तमानकालः सुगमम् ॥ ईश्वरः । यावति काले
घटादेरर्थक्रिया लक्ष्यते तावानपि हि वर्तमानः काल इत्याह -

अतीतकाले मृत्पिण्डरूपः कुम्भोप्यवस्थितः ।
[[४९८]]
शकलात्मैष्यति तदा कुम्भोनार्थक्रियार्थिभिः ॥

आनीयते तयोर्मध्ये वर्तमानस्स इष्यताम् ।

एष्यति भविष्यति कालेशकलात्मा व्यवस्थित इत्यत्र चानुषङ्गः । तदा यदा
घटस्यातीत भविष्यत् कावृत्त मृत्पिण्डकपालमाला
स्वरूपस्थितिस्तदनीमर्थक्रियार्थिभि स्वजलाहरणादि क्रिया
निर्वर्तनेश्चूभिस्तदर्थन्नानियते नोपादीयते तयोर्मध्ये इति अतीत भविष्यत्
कालयोः मध्य इति स्पष्टस्तदितर पदार्थः । तदेव स्पष्टयति -

द्वाभ्यां सकिल भासाभ्यां भावानां वरणात्मकः ।
वर्तमानस्त्रितीयोऽन्यो भागो भाव प्रकाशतः ॥

द्वाभ्यामतीतैष्यदभिहिताभ्यां भागाभ्यां पूर्वापरकोटि [[४९९]]
व्यवच्छिन्नाभ्यां योऽन्यः भावनां पदार्थानां वरणात्मकः ।
वरणमादानमात्मा स्वरूपत्वेनोपचरितः । स्वकार्यं यस्य स तथोक्तः
भावप्रकाशकः । पदार्थार्थ क्रिया विष्कारकः । तृतीयो भागस्साधारण
कालसम्भवः । सकिल वर्तमानः कालः कालस्य ह्यस्त्वनेकत्वमनित्यत्व
सिद्धौ किमायातमित्यतो नित्यत्वमाचैतन्ये सत्यनेकत्वरूपान्वय
व्यतिरेकिणोनुमानतः प्रसाध्यनित्यत्वे परप्रयुक्तविभुत्वहेतोरसिद्धिञ्च स्व
साध्यरूपहेतुत्वे नैव साधयति -

जडत्वे सत्यनेकत्वान्ननित्योयं यथा घटः ।
अनित्यस्य स्वतस्तस्य विभुत्वं विनिवारितम् ॥

अर्थस्सुलभः । नाकाले जायते कश्चिदिति समुत्थोक्तिमनु [[५००]]
सृत्यानवस्थामाशङ्क्य परिहरति -

अथ कालेयमुत्पाद्यमानः कालेन वेति चेत् ।
न कालापेक्षयोत्पत्तिः कालस्यापि व्यवस्थिता ॥

किन्तूत्पत्तिः पदार्थानां कल्प्यते कालयोगतः ।

तत्वानामुत्पत्तौ शिवशक्ति नियामिकेति न काल इति तत्वत्वात् कालस्यापि न
कालापेक्षयोत्पत्तिव्यवस्थिता । किन्तूत्पत्ति पदार्थानां तात्विकानां
कालयोगतः कल्प्यते नियम्यते । सुगमन्तदितरत् । कालव्यवहिता सत्य व्यवहिता
सती च शिवेच्छाशक्तिः कार्यमव्यभिचरन्ती कारणं कालः ।
तात्विकमात्रमव्यभिचरन् कारणमिति प्रागुक्तोक्तिमप्रति नव्यभिचार इत्याह -

शिवकालानवच्छिन्नो मायातस्स्वीय शक्तितः ।
[[५०१]]
उत्पादयति विश्वं सङ्कल्पादुत्पादकक्रमात् ॥

विश्वं कालादिकम् । इतोन्यार्थः स्पष्टः ऋषयो

तादृशन्ता दृशमिवापात्य दूषणमुद्भिन्दन्ति ।
अनित्यः काल उद्दिष्टस्तत् कथं नित्यतात्मनाम् ॥

नित्य कालानुवर्तित्वं नित्यत्वन्तद्वदेश्वर ।

यस्मात् कालः किलेतः पूर्वसूत्रसमर्थितहेतुना नित्य उद्दिष्टस्सावितः ।
यस्मात् पुनर्नित्यत्व मुत्पत्ति विनाश शून्यत्वन्नित्यकालानुवर्तित्वमुत्पत्ति
विनाशशून्य काला व च्छिन्नत्वमतत्तस्मान्नित्य काला सत्वद्वारा
तदवच्छिन्नत्वा सम्भवात् । आत्मनान्नित्यता कथं वदेश्वर । ईश्वरः -

काला व च्छेदशून्यत्वान् नित्यत्वं कालवर्जितम् ।
[[५०२]]
नहि कालस्य नित्यत्वं कालवस्त्वनवस्थितेः ॥

आत्मनां पूर्वापरकोटिद्वय विरहतया कालावच्छेद शून्यत्वान् नित्यत्वं
कालवर्जितम् । कालातीतम् । तदुक्तं मृगेन्द्रे स नित्यं कालनवच्छेदाद्
वैतत्वान् नप्रदेशकमिति । नन्वस्त्वीदृक्कालस्य नित्यत्वं तदयुक्तमित्याह । नहि
कालस्य नित्यत्वं कालावच्चेद शून्यत्वमित्युक्तत्वात् कालान्तरसिद्धेस्तत्रापि
नित्यत्व स्वीकारे कालानवच्छिन्नत्वन्तदिति कालवस्त्वनवस्थितेः । ननु तर्हि
कालावच्छिन्नत्वमनित्यत्वमित्यनवस्थितेः । न चानित्यत्वं कालस्य
तदयुक्तमस्माकं कालसापेक्षनिरपेक्ष कलयित्र्यभिहित
शिवशक्त्यवच्छिन्नत्वमिति पौर्वत्रिकसूक्तिसुगम्यत्वात् । ऋषयो बिन्दु [[५०३]]
पटले अत्रापि कालमुखानि सन्तीत्युक्तम् । विस्मरन्तश्शङ्कयन्ति -

मायातत्वादधोभागे कालोऽयं प्रतिपादितः ।
शुद्धाध्वसृष्टिसंहारस्थित्यादि नियमः कथम् ॥

ईश्वरः -

शुद्धाध्वनि विशुद्धस्तु कालोऽस्तीति पुरोदितः ।
तेन काले न तत्रस्थाः कल्प्यन्ते शिवशक्तितः ॥

आक्षेपादि समाधानान्तार्थ स्पष्टः । ऋषयः पुनः काल स्वनियमकार्यं
कथं व्यभिचरति पदेत्याहुः -

मायोर्थत्वेन कालस्य विनाशित्वं व्यवस्थितम् ।
कथं महार्थसंहार नियमः कालतो भवेत् ॥

कालस्य शुद्धाशुद्धात्मनः मायोर्थत्वेन शुद्धाशुद्ध [[५०४]]
मायोत्पन्नत्वेन विनाशित्वं व्यवस्थितम् । महासंहारार्थं मतङ्गे
प्रलयपटले । प्रोक्तप्रकारेण श्रैकण्ठात् कालात् सृष्टिस्थितिनियम इव
पुनर्महासृष्ट्यर्थ महार्थसंहारनियमः स्वावस्याप्युपलक्षणत्वात् । स
महासंहृति स्वापकल्पना कालस्यापि तदोपसंहृतत्वात् कालतः कथं
भवेत् । ईश्वरः -

तदसत् प्रलयस्यास्य नियमो नतु कालतः ।
किन्तु भोगेषु खिन्नानां विश्रान्त्यर्थं महेश्वरः ॥

स्वेच्छयैवोपसंहारे नियमं विदधाति सः ।
ततः क्रियोपसंहारे कालापेक्षा न सम्मता ॥

यदुक्तं प्रलये नियतिः कथमिति तदसत् । कालव्यवहिता व्यवहिता सति
कलयित्र्यभिहितशक्ति [[५०५]] स्वकर्तव्यकरीति सदक्ति समर्थितत्वात् । तद्यथा ।
अस्य महतः प्रलयस्य नियमो नतु कालतः । किन्तु भोगेषु खिन्नानाम्
अदुःखितानामविश्रात्यर्थं सोद्यः कालव्यवहितो नियतिकरो महेश्वरः ।
स्वेच्छयैवेच्छाकर्तव्यघटितकलयित्र्यभिहित स्वशक्त्यैव उपसंहारे स
महाप्रलय स्वापे स सृष्टिस्थितौ यावान् तावन्तं कालमवधिनियम
कल्पनं विदधाति करोति । ततः प्रोक्तकारणात् । क्रिया स्वकर्तव्येच्छा
लक्षणक्रियावती शक्ति उपसंहारे कालापेक्षा सती न सम्मता । अत एव किल
स्वापेपि शिवस्य सूक्ष्मकृत्य पञ्चकमस्तीत्याह -

प्रलयेप्यनुगृह्णाति सृजत्यवतिहन्ति च ।
[[५०६]]
तिरोदधाति भगवान्नकालापेक्षया सदा ॥

भगवान् स्वसमवेत स्थूलसृष्ट्यादि स्वकर्तव्यतिरस्कृतिकक्रिया शक्तिका ।
प्रलयेपि स प्रलये स्वापेपि साक्षात् जनन्या सृजति मायाशक्तिं
भविष्यद्वक्त्यर्हां विधत्ते । अवति व्यक्तिसमनन्तरं यद्यथा
स्थीयतान्तद्वस्तु तथा भविष्यति स्थित्यर्हं पश्यति । हन्ति च कर्माणि पाचयन्
पक्वकर्म भविष्यत् फलदानविरति समनन्तर तद्वस्तु भविष्यत्
संहारार्थार्हमाधक्ते तिरोदधाति भविष्यत् भोगेष्वच्युत्याहान् पशु ननु
सन्धत्ते । अनुगृह्णाति स्वानुग्रह शक्त्यात्युत् कटपक्व मलात्मसु
मलशक्तेरावारकत्वान्यथात्व कृति [[५०७]] पुरस्कृतिक निवृत्ति
लक्षणापातनं कृत्वा शिवत्वमाविष्करोति । तदुक्तञ्च मृगेन्द्रे ।
स्वापेऽपीत्यादि नायमनुग्रहविवेकः स महासंहारान्त समहासृष्टिमूल
स्वापकालेनुग्रहीतास्सद्यश्शिवत्व पराभिव्यक्तिमन्तश्शिव साम्यलक्षण
परमुक्तिं यान्ति । स प्रथम समध्यम महासंहार कालेनुगृहीताः
मलपाक वैलक्षण्यात् केचित् सद्यः परमुक्ता भवन्ति ।
केचित्वधिकारवदनुग्रहानुगृहीता रुद्राणवस्सन्तस्सृष्टौ उच्यमानायां
भविष्यत्यामधिकारिणो भवितारः सृष्टिकालेनुगृहीताः सद्यश्शिव समपर
मुक्तिभाजो भवन्ति । मलपाकमान्द्यनिबन्धन
स्वाधिकारानुग्रहानुगृहीताः । परापर [[५०८]] विद्याविद्येश्वर
कृत्यधिकारिणो भोगिनो भुवन निवासिनञ्च भवन्ति । स्वाप संहारकाल
सन्धौ स्वापसृष्टिकालसन्धौ चानुगृहीतास्सद्यश्शिवा भवन्ति । स्थितिकाले
कदाचित् कथञ्चित् केचिदत्युत्कटमलपरिपाकनिबन्धननिरधिकरण
शिवानुग्रहानुग्रहीताः परमुक्तिभाजो भवन्ति । तदितरे मलपाकवैचित्र्यात्
उत्तममध्यमाधमः भक्त्यादि निबन्धन तदनु विहित साधारशदीक्षया
दीक्षिताः शिवादि शुद्धविद्यान्तपदभाजो माया यो
परमन्त्रेश्वरपदभाजञ्च पञ्चाष्टकरुद्रपदभाजश्च भवति । अथ
त्रिमुक्ति मध्येर्द्वयोर्मुक्त्याश्च्युतिरस्ति । तथा हि लोकधर्मिण्यां यथा (प्।
५०९) सम्भवकला शुध्या स्वमतभुवनभर्तनियोजिता स्वस्थित्ययः ।
कर्मक्षयात् नाथोगतिरित्यत्युत्कटमलपरिपाके भुवने भुवने गुरव इति श्रुतेः
। पुनस्वभुवनगुरुभिर्दीक्षितास्सद्यश्शिवा भवन्ति । मलपरिपाकवैलक्षिण्ये
तत्रापि यथा पाकन्दीक्षिताः स्वस्थिति च्युत्या स्वोपरिपदलक्षणमुक्तिः
प्राप्त्या यथाक्रमम् । यथा स्वं स्वाधस्थानात् च्युतिमन्तस्युः तस्यामपि
लोकधर्मिण्यां पापमात्रशुद्धौ यथोचित मूर्द्धायच्युति यथा तथा
पुनर्दीक्षा योग्य स्वस्थित्यथ स्वस्थित्यूर्ध्व द्विगति मन्तस्युः सति
किञ्चिदुन्मिषति मलपाके समयदीक्षायां विशेषदीक्षायाश्च दीक्षिताः
रौद्रे । [[५१०]] अशुद्धाध्वनि स्वोचितपदेः ऐश्वरे मिश्राध्वनिस्वोचित
पदयोजिता स्वस्थित्यर्थं कर्मसम्भवात् स्वस्थानात् दीक्षायोग्याथ
च्युतिमन्तस्युः । तत्र वा च्युति पूर्वाथ स्वस्थिति मति भुवने वा मल
पाकेत्युत्कटे स्वभुवनगुरुभिर्दीक्षितास्सद्यश्शिवा भवन्ति । वैलक्षिण्ये
मलपाके स्वभुवन गुरुभिः स्वभुवनोपरित नभुवनगुरुभिस्थच्युतिपूर्व
स्वस्थिति मदधस्तन भुवनगुरुभिर्वा स्वस्वाधः कर्मक्षयपूर्वं यथा
स्वं यथाक्रमं सोपरिपदे योजिता । एकदैकभुवनगुरुभिरेकप्रयोगेण
शुद्धाध्वनि वा योजिता स्वपूर्वस्थानाच्युति मन्तस्युः पुनश्शिवतुल्याश्शिव
सा युज्याः शान्त्यतीत शान्त्यपृष्ठस्थाः [[५११]] शिव सा रूपाः
शान्तिनिलाश्शिवसामीप्याश्च ज्ञानकेवलिनः विद्यानिलयाश्शिव सालोक्या
योगकेवलिनः प्रतिष्ठा निलयाः शिव सान्निध्याः शक्तिकेवलिनः निवृत्ति
सदाशिव द्विभुवनर्निलया काम्या मूर्तिकेवलिनः ईश्वर विद्या द्वितत्व
भुवननिलया रुद्राः । लोकधर्मिणमारोप्यमते भुवनभर्तरिति श्रुतेः
मायाभः कपालीशादि कालाग्न्यन्तेषु स्वमतभुवनभर्तरि लोकधर्मिण्यादि
दीक्षा योजिताः शरीरस्थित्यवधि स्वमतभुवनभर्तृतुल्य पराक्र्मानु
सन्निहित स्वात्मनः । शरीरपाते तत् स्वमतभुवनभर्तृसमदिव्यदेहतुल्य
पराक्रमास्तत् स्वमतभुवनभर्तृ सा युज्याः । तदुक्तन्निश्वासे ।

[[५१२]]
विष्णु सायुज्यमाप्नोति विष्णु तुल्य पराक्रम । इति । स्वमतभुवन
भर्तृमूर्ति ध्यानोत्कर्षात्म योगिनस्तत् भुवन स्वमतभुवन भर्तृ सा
रूप्याः । स्वमतभुवनभर्तृ समाराधनक्रिया तत् परास्तत् स्वमतभुवन
भर्तृ समीप्याः स्वमत भर्तुद्देशचरितचर्याः तत् स्वमतभुवनभर्तृ
सालोक्याः यत स्थिता विव प्रलयेप्युक्तरीत्या कृत्य पञ्चककरोतस्सदासर्वस्मिन्
शिवकलिलयित्र्यभिहित शक्तिलक्षणकालेपि तत् क्रियाशक्तिश्शिवो मायोर्थ
कालापेक्षया करोतीति नियमो नः पूर्वोक्ति मनुस्मृत्य ऋषयः पुनश्चोदयन्ति -

वर्तमानादयः काला ये पूर्वं प्रतिपादिताः ।
न युक्ति युक्तास्ते यस्माद्वर्तमाने घटे सति ॥

[[५१३]]
घटस्यातीततापि स्यात् अस्यैव प्रागभावता ।
तस्मादेकक्षणस्यास्य कथमत्र निरूप्यताम् ॥

वर्तमानादयः काला ये पूर्वं प्रतिपादिताः । वर्तमानादि
रूपैस्त्वित्यादिना प्रतिपदार्थं सुसच्चिताः । तेन युक्ति युक्ताः तस्माद् यस्मात्
एकस्मिन् घटे वर्तमाने स्वमृदाकारातिरस्कृत स्वघटाकारे सत्यस्यैव
घटस्यातीत तापि स्यात् । कपालाकृति तिरस्कृत स्वाकृति स्यात् । पुनरस्यैव
प्रागभावता । स्वमृदाकार तिरस्कृत स्वघटाकृति वृत्तिस्यात् एकक्षणस्य
एककाल व्यक्तस्यास्य घटस्य वर्तमानादयः कालाः कथमत्र प्रग्ने
निरूप्यतां परीक्ष्यताम् । अशक्य मित्याशयः । ईश्वरः -

[[५१४]]
वर्तमानक्षणे सर्वभावोत्पत्तिर्ननाशनम् ।
नाशोपि सर्ववस्तूनामतीते काल एव च ॥

इत्येवन्नियमो नस्यादेतदेवो भयं यतः ।
वर्तते नाश एकस्य तदैवान्यस्य चोदयः ॥

अन्यस्तु शक्तिरूपेण वर्तते चैष्यदात्मकः ।
तस्मादेकक्षणे वर्तमानादिस्सर्ववस्तुषु ॥

वर्तमाने क्षणे एकपदार्थ क्रियाविष्कर्तरि वर्तमाने काले सर्वभावोत्पत्तिः ।
जन्यत्वावच्छिन्न सर्वपदार्थोत्पत्तिः । तदा तेषान्न नाशनम् । अतीते काल एव
सर्ववस्तूनां कार्यत्वावच्छिन्नानामपि नाशः तदा तेषां नोत्पत्तिः
इत्येवन्नियमः एकदा प्रतिपदार्थमकालत्रयापातनसमर्थं कल्पनं
नस्यात् । यतः [[५१५]] एकदेवो भयम् एकक्षणे एकस्य घटस्य नाशोतीत
काल॥॥टो वर्तते भवति । तदैव तस्मिन् क्षण एवान्यस्य घटस्य चोदयः
वर्तमानकालघटितोत्पत्तिः वर्तते इति कथमुभयोक्तिरित्यत आह । अन्यस्तु
घटश्च तदैव एष्यदात्मदो भविष्यत् कालघटितश्शक्तिरूपेण स्वकारण
मृद्रूपेण वर्तते तिष्ठति तस्मादेककाले प्रतिपदार्थं कालत्रयापातना
नवकाशात् । एकक्षणे एकेस्मिन्काले सर्ववस्तुषु विरुद्ध स्वस्वार्थक्रिया
सिद्धेरेकदैकत्र स्थित्यनुपपत्तेरेकदैकैकत्र एकैको भूत्वा वर्तमानादि
वर्तमानादयः काला वर्तन्ते । तदेव स्पष्टयति -

[[५१६]]
क्रियाभिरेव भिद्यन्ते पदार्था स्वानुसारतः ।
तस्मात् प्रतिपदार्थञ्च वर्तमानादयो नहि ॥

पदार्था स्वानुसारतः । स्वोचितेः क्रमतः । स्वनिमित्त वर्तमान भूत
भविष्यत्काल प्रदर्शन स्वार्थक्रियायुक्ति तद्विरति तद्योगोत्पादन स्थिति
लक्षणादिभिः क्रियाभिरेव सदाभिद्यन्ते । तस्मात् प्रतिपदार्थमेकैकस्य
कालस्य लक्ष्यत्वात् नहि प्रतिपदार्थञ्च वर्तमानादयः त्रयः
कालास्तथैकैककाललक्षक प्रोक्त क्रियालोकव्यवहृता दृश्यन्त इत्याह -

प्रयोगश्च तथा लोके घटस्सम्प्रति वर्तते ।
विनश्यति तिलेतैलमस्तीति मुनि पुङ्गवाः ॥

[[५१७]]
लोके प्रयोगश्च व्यवहारश्च तथा दृश्यत इति शेषः कथं
सम्प्रत्यस्मिन् क्षणे घटो वर्तते । स्वजलाहरणात्मक्रियया युज्यते पटो
विनश्यति । स्वाच्छादनात्मक्रिया विरतियुक्तः क्रियते । तिले तैलमस्ति स्वोष्ण्या हृति
प्रभृति क्रियोत्पतनयोग्यं भवतीति । कालं सुपरीक्षितमुपसंहृत्य
परीक्षितुन्नियतिमुद्दिष्टक्रम स्वगति मतिं समुद्धरति -

एवं कालस्समासेन युष्माकं प्रतिपादितः ।
समासेनाथ नियतिं शृणुध्वं मुनि पुङ्गवाः ॥

समासेन बुद्धि सौकर्य विषयमहार्थप्रदसङ्क्षेपेण नियतिन्नियति
परीक्षोक्तिं सुकरन्तदितरत् । परीक्षामारभते -

[[५१८]]
भोगो याभिप्रवृत्तस्य कला विद्यादि वृत्तिभिः ।
कर्माणामार्जितानान्तु फलोपहरणे सति ॥

तद्विनाशे प्रवृत्तेयन्नियतिश्शिवशासने ।

काल कलनात्मवृत्तेर्नियति वृत्ति पुरस्सरत्वात् । तदुक्तं मृगेन्द्रे ।
कलयन्नासमुत्थानात् नियत्या नियतमिति । कला विद्यादि वृत्तिभिः कलाविद्यादि
देवान्त व्यञ्जनात्म स्ववृत्ति व्यक्त स्ववृत्युपहित स्वप्रत्यविविक्त
स्वकीयत्वोपचरित चिच्छक्त्यर्थ क्रियालक्षण क्रियाज्ञानेच्छात्म कृतिभिः
भोगाय भोगक्रिया क्रितये अभिवृत्तस्य भोग्यभिमुखगति मतः स्वार्जितानां
कर्मणान्तु फलं सुखदुःखमोहात्म
भोग्यलक्षणन्तस्योपहरणमन्येना हरणन्तस्मिन् [[५१९]] फलोपहरणे सति
तद्विनाशे तदन्यापहृति विहति निमित्तमियन्नियतिः प्रवृत्ता मायातस्समुत्पतिता
शिवशासने समीर्यते । फलपरापहृति हन्त्रीत्युक्त्वा तत्र चोचितिमतः पुंसो
नियतिस्सुनियति करीत्याह -

नतद्वन्नियमेनापि मलमायाख्यकर्मणाम् ।
प्रवृत्ता किन्तु तद्युक्त पुरुषस्यैव हि द्विजाः ॥

हे द्विजाः । तद्वतान्नियमः तद्वन्नियमः न तस्मिन् तद्वन्नियमे केवलं
मलादिभिस्तेषामन्यतमेन वा । विविक्तात्मनियमे नियति प्रवृत्ताः नापि
मलमायाख्य कर्मणान्नियमे तेषामचेतनत्वात् परफलापहरण
स्वफलास्वादन कर्तृत्वा भावात् । किन्तु स्वकर्मफले तद्युक्त पुरुषस्य (प्।
५२०) तत्रिबन्धी पुरुषोक्ति मतस्सकलविशेषस्य नियमे प्रवृत्ता । यद् वा तद्वत्
कर्मफलवन्मलमायाख्य कर्मणां प्रतिपुरुषनियमे नियतिर्न प्रवृत्ता ।
नियत्यभावेपि स्वतस्तेषान्नियमदर्शनात् । कलादीनाञ्च स्वस्वकारक
शक्तिरेव नियन्त्रीति प्रथितत्वात् नतन्नियमेपि प्रवृत्ता ।
नियमनन्तस्यास्सदृष्टान्तं सविस्तारयति -

अपि भोगे स्वनिच्छन्तं नियोजयति सा बलात् ।
स्वार्जितेष्वेव नेहान्यैरार्नितेषु कदाचन ॥

यदि सा न भवेदन्ये भुञ्जीतन्नार्जितं परैः ।
राजाज्ञामन्तरायद्वत् भुञ्जते दस्यवः परैः ॥

आर्जितानि तथैवे यमसामञ्जस्य नाशिका ।
[[५२१]]
अनया नियतं तच्च यच्चरीरेन्द्रियादिकम् ।

असामञ्जस्य नाशिकाः फलविपर्यासस्य हन्त्रीदस्यवश्चोराः न सुखादि
लक्षणमात्रम् अनया नियत्या । किन्तु यच्छरीरेन्द्रियादिकन्तच्च मनुष्य
देवादेर्विलक्षणशरीरं सर्पस्य शब्दग्रहणार्थक्रियञ्चक्षुः मार्जारस्य
दिवारात्रार्थक्रियञ्चक्षुः गजस्य पराव्र्त्तजिह्वेत्यादि लक्षणकर्मफलञ्च
नियतं शरीरशब्देन स्थूलदेहो विवक्षितः । इन्द्रिय शब्देन इन्द्र्यस्थन
साकल्य वैकल्य नैमित्तिकेन्द्रियशक्ति साकल्य वैकल्य लक्षणकर्मफलमुच्यते ।
शेषं सुगमम् । अत एव न च नियतिः स्वनियमनमपि किं
करोतीत्याशङ्कनीयम् । कालपरीतोक्तिमनुसृत्य प्रतिपुरुषन्नियति [[५२२]] नियमे
कर्मव्यवहिता नियन्त्री शिवशक्तिरिति सुगमत्वाच्च । यद्येवं
साक्षाच्छिवशक्त्या नियमनं भवतु किमान्तर क्लिप्तिमत्या
नियत्येत्याशङ्क्य परिहरति ।

अथ चेच्छाङ्करी शक्तिर्या सैव स्यान्नियामिका ।
सत्यन्न सा स्वतः किन्तु नियति व्यवधानतः ॥

तत्सबन्धाद्विमुच्येरन् सैव चेन्नियतिर्यदि ।

यथा वातादिकम् अपथ्य व्यवधानेन विपरीतरोगे शक्तिकरम् । तथा
शाङ्करीशक्तिः नियति व्यवधानतः । नियमनद्वारा विपरीत प्रतिपत्ति जनिका ।
तदित्यादिना साज्ञात् यदि सर्वज्ञतादि व्यञ्जकेत्युक्ता । स्पष्टस्तदितर
पदार्थः कलाद्याक्षेप समाधाने चेत्थं मन्तव्यम् । कर्मन स्वतो
नियामकमित्यत्रानुमान [[५२३]] वाक्यं प्रयुङक्ते -

न कर्म स्वफलं पुंसां सम्बन्धयितु मर्हति ।
कर्मत्वात् कृषिवत्तस्मात् नेहकर्मनियामकम् ॥

राजाज्ञामन्तराक्षेत्र निहितकृष्यादि संस्कारवत् ।

शिवनियन्त्र्यभिहितशक्ति प्रनुन्न नियतिमन्तरा स्वफलं सुखादिलक्षणं
सम्बन्धयितुन्नार्हतीत्यर्थः । पूर्वत्र कर्मणोप्युपकारितेत्यत्र
मृगेन्द्रोक्तिभिस्सुपरीक्षितमवलोक्या व गन्तव्यम् । अनुस्ण्ट्य दृष्टान्ते
वैषम्यमाशङ्कन्ते ऋषयः -

अन्यैरपि कृतं कर्म कृष्याद्यं तत् फलन्तु यत् ।
तत् कर्मकर्त्रा नव्याप्तं दृश्यन्ते क्वचिदीश्वर ॥

सति यद्यपि राजाञा दृष्टान्तो विषमस्ततः ।
[[५२४]]
यत् कृष्याद्यं कर्मस्वेनकृत्रमपराजाज्ञा सती यद्यपीश्वर ।
तत्पलं क्वचिदन्यै व्याप्तन्तत् कर्मकर्त्रा न व्याप्तन्दृश्यते । ततो दृष्टान्तो
विषमः । ईश्वरः -

ते च प्रयोज्य कर्तारो भुञ्जते कृषिजं फलम् ।
कृषिकर्तार आज्ञाता एव कर्मप्रकुर्वते ॥

यथाऽध्वर्यु कृतोर्यागो यजमानफलावहः ।
तस्मात् ते प्यत्र कर्तारस्ततो न प्रोक्तदूषणम् ॥

प्रयोजककर्तृभि परकीयं फलं भुज्यते । सत्यम् । तैराज्ञाता एव कृषि
कर्तारः प्रयोज्य कर्तृतया कर्मकृषिं प्रकुर्वते । ततः प्रयोजकान् प्रतिफलं
परकीयन्न किन्नकिलेति निदर्शयति । यथोक्त्यादिना स्पष्टम् । प्रयोजकत्व
विधुरचोरा धर्मप्रवृत्त [[५२५]] बलवत्तरादिभिर्यद्यपि राजाज्ञा सति
व्यात्पन्दृश्यत इति पुनर्वैषम्यमाक्षिप्य समाधत्ते -

पक्षपात विनिर्मुक्ता राजाज्ञा यत्र विद्यते ।
तत्रावश्यन्तु तत्कत्रा व्याप्तं तत् कृषिजं फलम् ॥

सुकरोक्षरार्थः । यद्वेत्याह -

किञ्चादृष्टात्मकं कर्म विद्यते बलवत्तरम् ।
फलन्तदनुसारेण भुञ्जते ते मुनीश्वराः ॥

तस्मान्नियति तत्वन्तु पुंसां भोग्य नियामक ।

किञ्च पुंसां बलवत्तरम् । हे मुनीश्वराः । अस्ववशं कर्म
पुनस्तददृष्टात्मकम् । स्वदृष्टिगोचर विधुरं विद्यते । ते पुमांसः
फलन्धर्मस्य सुखात्मकं स्वर्गादिलक्षणम् । अधर्मस्य
दुःखमोहात्मकं नरकादि [[५२६]] लक्षणन्तस्यानुसारः तदनुसारः तेन
तदनुसारेण भुञ्जते । न स्वयं विदित्वा हृत्य भुञ्जते ।
तस्मान्नियन्त्र्यभिहित शिवशक्ति प्रनुन्नानन्ते शशक्त्युपबृंहितन्नियति
तत्वन्तु पुंसां भोग्यनियामकम् । नेतरस्येदमस्येति कर्मज सुखादिलक्षण
भोग्यनियति करम् । किञ्च यद्वा दृष्टफलबल दृष्टकृति क्लिप्तिरबलेति नीतेः
कुम्भकारकृति समुत्थघटादेरिव दृष्टकृति कृषिज
फलस्यान्योन्याहरणमुपपद्यते पुनर्बलवत्तरमदृष्टं यत् कर्म विद्यते ।
हे मुनीश्वराः । फलन्तदनुसारेण भुञ्जते । तस्मादिति वार्थस्समर्थनीयः ।
कलादि पञ्चतत्व परीक्षा समाप्ता ॥

[[५२७]]

पुंस्तत्व-पटलः ।

शृणुध्वमथ पुंस्तत्वं यथावन्मुनि पुङ्गवाः ।
पञ्चकञ्चुकसंयुक्तः प्रकृतिं भोक्तुमुद्युतः ॥

अविद्यादि समायुक्तः पुरुषः परिकीर्तितः ।

अथ पञ्चैतानि च तत्वानि मायेयानीत्युक्त पञ्चतत्व परीक्षानन्तमसा
वशिष्टपाशपदार्थं पुंस्तत्वं यथावत् स्वलक्षणविलक्षण
हानोपादानोक्तिमन्तरा पठितानन्तर पटला पृथक् भूतिमति पटलान्तरे
परीक्ष्यते । तत् परीक्षोक्तिं मुनिपुङ्गवाः शृणुध्वन्त्रिविधपशुमध्येयः
पञ्चकञ्चुक संयुक्तः स्वसामर्थ्य समर्थनात् । कञ्चकत्वेनोपचरितम् ।
कलादि अविद्यादि समायुक्तः बुद्धिद्वारा प्राकृत विपरीत प्रतिपत्तिरविद्या ।
यदाह [[५२८]] भगवान्पतञ्जलिः । अनित्या शुचिदुःखा नात्मसुनित्य शुचि
सुखात्म प्रतिपत्तिरविद्येति । पुंस्त्वमलशब्दशब्दिते यं किल दीक्षा
शुद्धिमतीत्यौत्तर त्रिकोक्तिमती भविष्यति । आदि शब्दतो स्मितादि गृह्यते ।
सुखादिलक्षणबुध्यादि द्वारा प्रकृतिं भोक्तुमुद्यतः सपशुः पुरुषः
परिकीर्तितः पुरुष॥।ट्वमिति सुपरीक्षितः । अविद्यादि कलादि विवर्जितत्वान्न
विज्ञानप्रलयकेवलौ पुरुषसञ्ज्ञां लभेताम् । माया गर्भाधिकारि
श्रीकण्ठप्रमुखानं कलाद्यवश्या विद्याद्य कलुषितानां कलाद्य
विद्यादि निमित्तपुरुषाख्या भावात् । तदितर तद्वश्य सकलस्तदपि युक्तो
लभेदित्याह -

[[५२९]]
न विज्ञानकलस्तेन नापि प्रलयकेवलः ।
पुरुषाख्यं लभेद्यस्मान् नाविद्यादि विवर्जितः ॥

तस्मात्सकल एवाणुर्लभते पुरुषाह्वयम् ।

सुकर श्लोकार्थः । कलादिकञ्चाविद्यादि चामिलित्वा न निमित्तमित्याह -

कलादि पञ्चकस्यैव यदि पुंस्त्वे निमित्तता ।
तदा प्रकृति भोक्तृत्वन्नस्यात् ज्ञानाकले यथा ॥

पुंस्त्वे पुरुषभावे भोक्तृत्वे सुखादि वेदनकर्तृत्वे कलादिपञ्चकस्यैव
केवलस्या विद्यादि सहकृतिमन्तरा यदि निमित्तदा तदा तर्हि यथा ज्ञान काले
विज्ञान केवले अविद्याद्यसम्भवात् प्रकृति भोक्तृत्वन्नस्यात् तथैतस्मिन् सकले
प्रकृति भोक्तृत्वं [[५३०]] प्रकृति सुखदुःखद्विपरीतवेदना लक्षण भोग
क्रिया कर्तृत्वन्नस्यात् । ननु श्रीकण्ठादीनां विपरीतप्रतिपत्य भावेपि
कथमिदं भोक्तृत्वम् । तदयुक्तम् । शुद्धाध्ववर्तिनामिवैतत्
सुखदुःखमोहविवर्जित स्वेच्छानुवृत्तादि सुखभोक्तृत्वात् तदुक्तं कलायोगेपि
नोवश्याः कलानां पशुसङ्घवदिति । कलादि (कलादि) निरपेक्षा विद्यादेरपि ।
तथेत्याह -

तथाऽविद्यादिमात्रस्य नापि पुंस्त्वे निमित्तता ।
कलाद्यभावे कर्तृत्वा भावाद्भोक्ता कथं भवेत् ॥

यथा ज्ञानाकलदृष्टान्ताङ्गिना अविद्याद्यसम्भवलक्षणहेतुना कलादि
मात्रस्य न निमित्तता । तथा ज्ञानाकल दृष्टान्ताङ्गिना कलाद्यसम्भव
लक्षणहेतुना [[५३१]] अविद्यादि मात्रस्यापि न पुंस्त्वे निमित्तता । ततः
कुतस्तदसम्भवः कलाद्यभावे कर्तृत्वा भावात्
चिच्छक्त्यर्थक्रियालक्षणज्ञान क्रियेच्छात्म स्वार्थक्रियानभिव्यक्तेः
वेदनार्थक्रिया नास्तीति भोक्ता सुखदुःखमोहाध्यवसाये प्रतिभास
स्वशक्तिकरणवेदनार्थक्रिया कर्ता कथं भवेत् । कथञ्चिदपि नस्यात्
परस्परं सापेक्षन्तदुभयन्निमित्तमित्युपसंहरति -

प्राकृतोयस्त्वविद्यादिः पुंसां पुंस्त्वमल स्मृतः ।
तदाक्रान्तः कलाद्याड्यः पुरुषस्तेन सम्मतः ॥

पुंस्त्वे भोक्तृत्वे स्वकलुषिततया चिच्छक्ति विपरीतवेदनात्म भोगक्रिया
कर्तृत्वे निमित्तं मलिनीकरोति [[५३२]] चित् सुखादि विवर्तादिकं पुंस्त्वं करोतीति
। सिद्धव्युत्पत्तिकम् । पुंस्त्व मलः । अस्यैव पुरुषतत्वाख्यस्यैव
मायातस्समुत्पत्ति श्रुतिः । नतद्युक्त चेतनात्मनः । स्पष्टोक्षरार्थः । ऋषयः
पुरुषस्य निरवयव चित्वात् न किलभुवनाधारत्वमिति पुनः क्रियापादे
त्रिभुवनदीक्षा शोध्यत्वेन कथमुदितमिति शङ्कन्ते -

दीक्षायान्तु पुरापुंसि भुवनान्युदितानि हि ।
कथमत्रस्थितिस्तेषां छिन्धिसन्देहजन्तमः ॥

स देह जायत इति । सन्देहजन्तमोज्ञानं छिन्धिश्छेदनं कुरु । सुगममितरत् ।
ईश्वरः -

यत्र लक्षणया वृत्या भुवनस्थितिरीरिता ।
[[५३३]]
ततस्तत्प्रान्तवर्तिन्यां प्रकृतावेव कल्प्यताम् ॥

गङ्गायां ग्राम इत्युक्ते तत् तटः कल्प्यते यथा ।

प्रान्तवर्तिन्यां समीपस्थितिमत्यां प्राधानाक्रान्तपुरुषभुवनस्थितिः
कल्प्यतां कलाक्रान्त पुरुषभुवनस्थिते रागतत्वे तदधो भागक्लिप्तित्वात्
तदुक्तं मृगेन्द्रे ।

आधारे कारणे कार्ये समीपे चोपकारके ।
धर्माद्यनु कृतौ चेति लक्षणां सूरयोजगुरुरिति ॥

इतरन्तु सुकरम् । ननु प्रकृतेरपि सूक्ष्मत्वात् न किल भुवनाधारत्वम् । सत्यम् ।
तत्र च हि लक्षणव्यावृत्या तत् कार्यगुणमस्तक इति भावः ऋषयस्तत्व
शब्दशब्दितत्व साधारणात् । कीदृशी शुद्धिर्भिदया [[५३४]] पुंस इति
पुनराक्षिपन्ति -

कलादिपञ्चतत्वानां शुद्धिर्भेदेन चोदिता ।
प्रकृतेरपि यद्योगात् पुरुषस्सम्मतस्त्विह ॥

तस्य शुद्धिर्विभेदेन कीदृशी संशयस्ततः ।

कलादिपञ्चतत्वानां प्रकृतेरपीतस्ततो भेदेन शुद्धिश्चोदिता । क्लिप्तिकृता । यत्
योगाद् यत् कलादिसम्बन्धात् यत् प्रकृतिजा विद्यादि सम्बन्धात् इह शिवशास्त्रे
पशुः पुष्णाति प्रकृतिमिति सिद्धव्युत्पत्तिकः पुरुषस्सम्मतः समभ्युपगतः
तस्य पुरुषस्य शुद्धिर्विभेदेन कीदृशी ततो स्माकं संशयः तन्न
युक्तिर्यथा भवति तथा वदेश्वरेत्यध्याहारः । ईश्वरः -

[[५३५]]
नेह पुंस्तत्वसंशुद्धिर्भेदेन कथिता द्विजाः ।
तस्मात्प्रकृति तत्वात् तु श्रीकण्ठभुवनात्मकात् ॥

यत् तत्वे तत्वविच्छित्यै युञ्ज्यादुद्धृत्य पुद्गलम् ।
तस्मिन् पुंस्त्वमलेच्छिन्नेनाणोः पुंस्तत्वरूपता ।

अथ भौवन दीक्षायां शुद्धिस्तद् भुवनात्मनः ॥ इह शिवशास्त्रे पुनरथ
भुवनदीक्षायां वा पुंस्तत्वसंशुद्धिर्भेदेन प्रकृति भुवन
शुध्यात्मना न कथिता । तस्मात् कारणात् प्रकृति तत्वात् ।
श्रीकण्ठभुवनस्यात्र गुणमस्तकस्थ प्रकृत्यग्रजत्वात्
श्रीकण्ठभुवनात्मकात् । पुद्गलमात्मानमुद्धृत्य यत् तत्वे कलाक्रान्त
पुरुषाख्ये तत्वविच्छित्वै प्रकृतिबन्धकत्व विच्छेदाय युञ्ज्यात् तस्मिन्
पुंस्तत्वे [[५३६]] पुंस्त्व मलेच्छिन्नेनाणोः पुंस्तत्वरूपता । न
प्रधानाक्रान्तपुरुष तत्वरूपता । प्रकृतितत्वविच्छित्ते स्थूलपुंस्त्व
मलविच्छेदात्मकात् । तत्वदीक्षायान् तत् प्रकृतितत्वशुध्या
प्रकृत्याक्रान्तपुरुषतत्वस्य शुद्धिः कलाक्रान्तपुरुषतत्वस्य रागतत्व
शुध्या सूक्ष्मपुंस्त्व मलविच्छेदात्मिकया शुद्धिरिति गम्यते । अथ भौवन
दीक्षायां भुवनदीक्षायां तत् भुवनात्मनः । प्राकृत श्रीकण्ठ
भुवनात्मनः । अथ रागतत्वस्थ श्रीकण्ठभुवनात्मनो वा पुंस्तत्व
भुवनस्य शुद्धिः पुरुषतत्वस्य थूला विद्यादि समायुक्तः
प्रधानाक्रान्तपुरुषः । प्रकृत्यतिक्रान्त कलादिपञ्चकञ्चुक सूक्ष्मा
विद्यादि [[५३७]] युक्तः कलाक्रान्तपुरुष इति द्वैविध्यस्य बुद्धिपरीक्षायां
वक्ष्यमाणत्वात् अयमर्थः । श्रीकण्ठस्तु मध्यमप्रलये गुणनिलय
विष्णुना सह सह भुवनस्थः । प्रकृतिलीनसूक्ष्मदेहमात्रयुक्तपुरुष
बुन्दमधिष्ठाय पुरुषसञ्ज्ञां लभते । सतु सर्वेन्द्रिय
सर्वतनुरित्याख्याञ्च लभते ।

श्रीकण्ठस्तत् कृता वासः प्रधानादवतीर्य तु ।
द्विधा विभज्य स्वं वीर्यं रुद्राणां स्थितये विभुः ॥ इति

श्रुतेः । मध्यम स्वसृष्टौ अव्यक्तप्रकृति भुवनस्थः व्यक्तगुण
भुवनस्थश्च व्यक्ताव्यक्त सञ्ज्ञितश्च प्रतीयते । तत्र प्रकृति भुवनशुध्या
प्राधानाक्रान्तपुरुषस्य तदधिष्ठातुः पुरुषाख्य रुद्रस्य च प्रेर्य (प्।
५३८) प्रेरकता विच्छित्ति लक्षणशुद्धिः पुनस्स तु मध्यमप्रलयोनुक्रमतः ।
प्रकृत्यग्रज स्वभुवनस्याप्युपसंहृतत्वात् तदानीमेवा स्ववीर्यं विभज्य
सदा वा रागभुवनादयः रागतत्व स्वपुरुषभुवनस्थः प्रतीयत इति श्रुतेः
। तदुक्तम् ।

तत्रैव पुरुषो ज्ञेयः प्रधानग्रहपालक । इति ।

तद्रागभुवनशुध्या कलाक्रान्तपुरुषस्य तदधिष्ठातुः पुरुषाख्य
रुद्रस्य च प्रेर्यप्रेरकता विच्छित्तिलक्षण शुद्धिः । न च तत्वात्तत्वान्तरवत्
स्वस्मिंस्थाने स्थितम् । किन्तु स्वकर्मानुसारेण प्रतिभुवनं संसरदेव
पुंस्तत्वं यद्येवं प्रकृत्यधस्तनभुवनेषु दृश्यत्वात् । कथं प्राकृता
विध्यादेः पुंस्त्व मलस्य [[५३९]] शुद्धिः प्रकृतिभुवनोद्धृति
मात्रानुगतिमतीति ऋषयस्समाशङ्कन्ते ।

योयं पुंस्त्वमलः पूवमविद्याद्यात्मको मतः ।
कलाग्न्यादिषु सर्वेषु स्थानेष्वपि च विद्यते ॥

कलाग्निभुवने नैष मलो विच्छिद्यते कुतः ।

सुगमम् । ईश्वरोधस्तन भुवनोद्धृत्या च यथा शुद्धि सम्भूति तथा
शोद्यते । प्रकृतिभुवनोद्धृत्यैव प्राकृतस्थूलपुंस्त्वमलस्य निरवशेष
विच्छित्तिः क्रियते । नेतरोद्धृत्येति सहेतुकमुत्वोपसंहरति -

तत्रापिच्छिद्यते पुंस्त्वमलस्थूलस्समततः ।
प्रकृतावेव सोऽत्यन्तं छिद्यते नापरत्र च ॥

अत एव प्रकृत्यूर्ध्व गणना पुरुषस्य तु ।
[[५४०]]
एवं पुरुष आख्यातः प्रकृत्या लिङ्गितस्सदा ॥

आलिङ्गिनमत्र भोग्यभोक्तृत्व सम्बन्धः । स्पष्टोक्षरार्थः । प्रकृति
परीक्षामारभते -

अथ प्रकृतितत्वन्तु क्रमा या तन्निरूप्यते ।
तच्च मायोद्भवं यस्मात् कलातस्थूलताङ्गतम् ॥

अथ विभुत्वेपि प्रकृत्यापादित पुंस्त्वात् तदुपरि कृत क्लिप्तिक पुरुषतत्व
परीक्षानन्तरं क्रमायातं प्रकृति तत्वन्निरूप्यते । परीक्ष्यते । तच्च प्रकृति
तत्वञ्च यस्मात् कालतोनन्तक्षुब्धायाः साक्षान्मायोत्पत्तिमत्या विद्याराग
समजन्म समनन्तरं स्थूलतां गतं व्यक्तिस्वरूपतामगमत् । तस्मात्
स्वापे स्वकारणमायाकारशक्त्यात्म स्वकारणकलाकार शक्तिरूपेण
स्थित्वा [[५४१]] सृष्टौ कलाशक्त्यात्म कलात्म स्वशक्त्यात्मना मायोद्भवम् ।
तदपि कार्यलक्षणहेतुना साधयति -

गुणादिक्षितिपर्यन्तं तत्वजातं यतो भवेत् ।
तदव्यक्तमिति प्रोक्तं क्षोभ्यं श्रीकण्ठविक्रमैः ॥

श्रीकण्ठविक्रमैः गुणमध्यस्थ गुणमस्थकस्थ रागाधस्तन भुवनस्थ
गुणप्रकृतिरागत्रिभुवननिलय श्रीकण्ठ शक्तिभिः साधारणमव्यक्तं
क्षोभ्यांस्वोचितकार्ये प्रवर्तते । नह्यसाधारणमव्यक्तं तदनन्तेश
शक्तिक्षुब्धं स्वोचितकार्यप्रवर्तत इति वक्ष्यामः व्यक्तसमगुणलक्षणा
प्रकृतिः कारणन्तत् कार्यं व्यक्तविषमगुणलक्षणम् । बध्यादिकमिति
साङ्ख्याः तत् साङ्ख्यभूमिकया ऋषयस्समाक्षिपन्ति -

गुणा एव समावस्थां प्राप्ताः प्रकृतिरुच्यते ।
तत्कथम् तदुपादानं प्रकृतिः प्रतिपाद्यते ॥

सुगमम् । तदयुक्तमस्माभिर्गुणसञ्ज्ञितन्तदा चैतन्ये
सत्यनेकत्वादनित्यमिति स्वकारणमपि भक्तगुणलक्षणाभिप्रेरिताम् । प्रकृतिं
ज्ञापयन्तीत्याह । ईश्वरः -

न गुणानां समावस्था प्रकृतिश्शिवशासने ।
अचेतनत्वे नेकत्वात् गुणानां मुनिपुङ्गवाः ॥

इष्टं कारणपूर्वत्वं तत् तु प्रकृतिसञ्ज्ञितम् ।
सुकरम् । ऋषयः । अर्थक्रियया किलार्थभीदासदृशार्थक्रियत्वात् गुणतः
प्रकृतिरथवेतरमायादिकं वा नभिव्यत इति । सञ्चोदयन्ति -

[[५४३]]
क्रिया प्रकाशनिष्टात्मा रजादिगुण ईरितः ।
प्रकृतेरपि ताद्रूप्यात् गुणेभ्योनातिरिच्यते ॥

मायादिनाञ्च ताद्रूप्यात् गुणात्मत्वं व्यवस्थितम् ।

प्रकाशो बुद्धिप्रमुखकार्याभिव्यञ्जकत्वादि बुध्यादि स्वकार्यद्वारा दृक्
शक्त्यभिव्यञ्जकत्वञ्च । क्रिया अर्थक्रियायुक्त स्वकार्यधरणादि ।
अहङ्कारादि स्वकार्यद्वारा क्रियाशक्ति व्यक्तिकारकत्वञ्च निष्ठानि निवृत्ति
स्वकार्योपसंहारकत्वादि बुद्धिद्वारा विपरीतप्रतिपत्ति जनकत्वञ्च ।
क्रमेणैते सत्वादीनां वृत्तयः क्रियात्मा स्वलक्षणं कार्यं यस्य स
क्रियात्मेति व्युत्पत्तेरात्मशब्दः प्रत्येकमनुसन्धेयः रजादिति छान्दसत्वात्
ताद्रूप्यात् स्वोचित स्वकार्याभिव्यञ्जककत्वलक्षणप्रकाशादि [[५४०]]
स्वरूपत्वात् नातिरिच्यते । नभिद्यते गुणात्मकत्वं गुणाभिन्नत्वम् ।
सुकरमितरत् । कार्यगुणा हि कारणगुणानुरूपा भवन्तीति शास्त्रविदो वदन्ति ।
न कार्यस्वरूपं कारणस्वरूपं व्याप्नोतीति च न गुणात्मत्वं
मायादेरिति गुणात्मतया न प्रकाशादि स्वरूपत्वं किन्तु स्वतस्सिद्धं
गुणस्य उक्तरीत्या मायादिस्वरूपतया प्रकाशादिस्वरूपत्वन्न
स्वतस्सिद्धमित्यादि पठितगर्भितोक्त्या ईश्वरः परिहरति -

न गुणात्मत्वतस्तेषां प्रकाशाद्यात्मता स्थिता ।
किन्तु स्वभावसिद्धा सा तत् कार्यत्वाद्गुणेष्वपि ॥

प्रकाशाद्यात्मता सिद्धा नगुणात्मतया द्विजाः ।

स्पष्टः ऋषयः प्रकृतेः कार्य जननन्नकर्तृ सापेक्षम् । [[५४५]] किन्तु स्वत इति
साङ्ख्यभूमिकया पुनश्शङ्कन्ते -

कार्यस्य जननं सत्वात् प्रवृत्तिरजसा स्थिता ।
निवृत्तिस्तमसा सिद्धा श्रीकण्ठापेक्षिता कुतः ॥

कार्यस्य सिद्धान्तलक्षणयुष्मद्दृष्ट्या गुणादेरपि
साङ्ख्यलक्षणास्मद्दृष्ट्या मोहादे स्वकारणात्
अविभक्तविभक्तगुणलक्षणप्रकृतिसञ्ज्ञितात् जननं प्रकाशोभिव्यक्तिः
सृष्टिः स्वकारणे विद्यमानात् सत्वात् सत्वगुणतो जायत इति स्थितम् । प्रवृत्ति
स्वार्थक्रिया स्वकारणे विद्यमानेन रजसा रजो गुणेन भवतीति स्थिता निश्चिता
। निवृत्तिः निष्ठा स्वस्वोपसंहृतिः स्वकारणे विद्यमानेन तमसा तमोगुणेन
[[५४६]]
सिद्धा । तस्य जननाद्यर्थं स्व स्वकारणक्षोभादिनिमित्तं कुतः
कस्मात् कारणात् प्रकृतेः श्रीकण्ठापेक्षिता श्रीकण्ठापेक्षापति
पटलेप्यचेतनस्य न स्वतः प्रवृत्तिरिति साधितमवीतो नरोच इति सा
विफलेत्याशयः । ईश्वरः परिहरति -

अचेतनत्वेऽनेकत्वात् गुणाः कर्यमुदाहृतम् ।
स्वकीय जननाद्यास्तु किं गुणान्तरहेतुकाः ॥

न चान्येत्वनवस्थाऽत्र जनन्याद्यात्मिका हिते ।
जनन्याद्यास्ततः कर्तृ सापेक्षा एव संस्थिताः ॥

अस्तु हि महदादेर्जननाद्यं स्वकारणस्य साङ्ख्यदृशा प्रकृति सञ्ज्ञां
शिवसिद्धान्तदृशा गुणसञ्ज्ञां भजतः । प्रोक्त
व्यक्तसमत्रिगुणलक्षणत्वात् युष्माभिः [[५४७]] प्रकृति सञ्ज्ञिताः गुणाः
अचेतनत्वे सत्यनेक(क)त्वाद्धेतोस्सिद्धव्याप्तिकात् कार्यमुदाहृतं
कार्यलक्षणविधेयापेक्षिणी नपुंसकोक्तिः ततस्वव्यापिजनन्याद्या(ः)
सिद्धा इति स्वकीय जननाद्या सतु आदिशब्देन प्रवृत्ति निवृत्तिरपि गृह्यते
गुणान्तरहेतुकाः किं गुणेतरहेतुकाः । किन्तत्र यदि गुणान्तरहेतुकाः न
चान्येन गुणजनकेतरगुणाः तु यदि सन्त्यत्र क्लिप्तौ भवतीह्यनवस्था कुतः
ततः यतस्तेवगुणजनकेतरगुणाश्च जननाद्यात्मका हि । फलितमाह । तत इति
स्वजननादिषु गुणान्तरा भावतो गुणविलक्षणकारणान्तरसिद्धेः तस्य
स्वतः प्रवृत्तिक्लिप्तिरशक्येति कार्यलक्षणा व च्छिन्न कार्यस्य जननाद्याः (प्।
५४८) कर्तृ सापेक्षाः शिवादि ब्रह्मान्तविधातृ सापेक्षा एव स्थिताः
मायायाश्शक्तिरूपत्वात् प्रकृते व्यक्तिरूपत्वेपि सूक्ष्मत्वात् । तत्र पठित
भुवनेशैस्सहभुवनानि तत्र स्थितानि । किन्तु तत्
प्रकृतिमस्तकस्थानीत्युक्त्वोपसंहरति -

प्रकृता व कृताद्यास्तु मायायामिव संस्थिताः ।
गुणतत्वे स्थितिस्तेषां मायेयानां कलात्मनि ॥

एवं प्रकृति तत्वन्तु समासादुपवर्णितम् ।

प्रकृता व कृताद्यास्तु अकृतप्रमुखभुवनेशास्संस्थिताः मायायामिव
गहनेशप्रमुहाः तेषाम् अकृतादीनां गुणतत्वे स्थितिः मायेयानां
कलोर्ध्वायो द्विषट् कपालीशानन्तादि गहने शान्ता द्वादशग्रन्धीशा (प्।
५४९) विग्रहेशानाद्या अष्टावाह्यत्र विंशति भुवनेश भुवनानां
कालभुवनसमदेशवर्तिनां नियतेरविकलेति ग्राह्यत्वात् कलात्मनि तत्वे प्रान्त
स्थितिः । तदुक्तं मृगेन्द्रे ।

माययामपिपठ्यन्ते गहनेशादयोधिपाः ।

तत्वशुद्धिश्च दीक्षायां सर्वन्तत् कृतिमस्तक इति । एवमित्यादि सुगमम् ।
गुणतत्वपरीक्षामारभते -

अथ प्रकृतितत्वात् तु गुणतत्वमजायत ।
सत्वादयस्समावस्थां प्राप्तास्तत्वं गुणात्मकम् ॥

व्यक्तविभक्तमिलितसमसत्वादि गुणाः गुणाभिहितन्तत्वमिति गर्भितार्थः
स्पष्टः पदार्थः सृष्ट्यारम्भकाले निरधिकरण शिवानुगृहीतो
रागाधोभागप्रकृत्यग्रगुणान्तर्निलयस्सर्वरुद्राग्रनायक [[५५०]]
श्रीकण्ठो भुवनात्मगुणतत्वव्यक्त्यर्थं साधारणतत्वलक्षण
प्रकृतिक्षोभक इत्याह -

क्षोभकोत्र महातेजा श्रीकण्ठोऽनन्तविक्रमः ।
प्रबुद्धः परमेशान शक्तिसम्पर्कमात्रतः ॥

प्रबुध्य सर्वत्रव्यक्तचिच्छक्ति अनन्तविक्रमः । अनन्तस्यैव अन्तरहितो वा
विक्रमो विक्रमार्थक्रिया युतक्रियाशक्तिर्यस्य स तथोक्तः तदितरत् तु सुकरम् ।
सत्वादिगुणवृत्तयो बुद्धिद्वारा किलप्राणिनान् दृश्यन्ते । न साक्षादिति
किमान्तरक्लिप्त्या प्रकृत्यैवालमित्याशङ्क्य
बुद्धिलक्षणकार्यान्यथानुपपत्या गुणतत्वसिद्धिरित्याह -

[[५५१]]
सत्वं रजस्तमश्चेति गुणाः प्रकृतिसम्भवाः ।
बुध्यादेस्त्रिगुणात्मत्वादव्यक्तादगुणात्मनः ॥

असम्भवोदयत्वेन गुणात्मत्वमिहेष्यताम् ।

बुध्यादेः क्षित्यन्तस्य त्रिगुणात्मत्वात् व्यक्त दृश्य विषमगुणलक्षणत्वात्
अगुणात्मनः अनभिव्यक्तगुणशक्तिलक्षणात् अव्यक्तात् प्रकृतेः असम्भवः
अविद्यमानः उदयः अभिव्यक्तिर्यस्य सो सम्भवोदयः तत्वेना
सम्भवोदयत्वेनान्यथानुपपत्या गुणात्मत्वं गुणजन्य तदात्मत्वमिह
बुध्यादेरिष्यताम् । तर्हि बुध्यादेर्गुणात्मत्वात् प्रकृतेर्नोत्पत्तिरित्युक्तम् । तथा
ततस्तल्लक्षणत्वात् गुणतत्वव्यापिनोत्पत्तिः यद्यस्ति समनय दृशा प्रकृतेरेव
बुद्धिप्रमुखस्यापीत्यन्यतोपपात्तिमाशङ्कन्ते । [[५५२]] ऋषयः -

प्रकृतेर्गुणतत्वस्य यथेहोत्पत्तिरिष्यते ।
एवं बुध्यादितत्वानां प्रकृतेर्नेष्यते कुतः ॥

इह शिवशास्त्रे कारणमिति पदमध्याहार्यम् ।

सुकरश्लोकार्थः । ईश्वरः -

अत एव गुणात्मत्वं गुणतत्वस्य नेष्यते ।
गुणस्यापि गुणात्मत्वे प्यनवस्था प्रसज्यते ॥

अत एव गुणात्मत्वेन बुध्यादिवत् । प्रकृतेरुत्पत्यसम्भवात् । गुणतत्वस्य
गुणात्मबुध्यादिकार्यकारणस्य गुणात्मत्वं गुणस्वरूपत्वं नेष्यते ।
किन्तु तत् केवलं समावस्थां प्राप्तविभक्तमिलितगुणा एव यथा केवलं
मृदिति मृदात्मघटकार्यमृत्कारणस्य [[५५३]] मृदात्मत्वन्नेष्यते ।
गुणस्यापि गुणात्मत्वेपि मृदोमृदात्मत्वे मृदन्तरक्लिप्त्या यथा तथा
गुणान्तर क्लिप्त्यानवस्था प्रसज्यते । प्रकृतिगुणयो स्वभावतोभिदानेत्युक्त्वा
चोपसंहरति -

प्रकृतेर्गुणतत्वन्तु भिद्यते नच वस्तुतः ।
सैवक्रिया विभक्ता तु श्रीकण्ठेन महात्मना ॥

तस्माद्बुध्यादि तत्वानि गुणादेवोदितानि तु ।

गुणात्मत्वात् बुध्यादेस्तत्कार्यतया कर्तृसापेक्षितया प्रकृत्यभिन्नतया
गुणतत्वसिद्धिरिति गर्भितार्थः स्पष्टः पदार्थयद्येवं सत्कार्यवाददृशा
कारणमेव कार्यात्मना विभक्तमिति कारणं प्रतिसर्वस्य न वस्तुतोभिदा ।
सत्यम् । शक्तिव्यक्तात्मनास्तिहिभेदोपि [[५५४]] अतः किलबुध्यादेरपि
तथात्वेपिह्यत्र नात्यन्तभिदेत्याशय इति भावेन भिदामाह -

अव्यक्तगुणसाम्यन्तु प्रधानं परिपठ्यते ।
विभक्तगुणसाम्यन्तु गुणतत्वमिदोदितम् ॥

विभक्तगुणवैषम्यं तत्वं बुध्यादिकं द्विजाः ।

एकमेव स्वावस्यार्थक्रियाभेदेन भिद्यत इति गर्भितार्थः । तदुक्तं मतङ्गे

लोकसंव्यवहारार्थं मृदस्थाल्यादयो यथा ।
वस्तुनश्चाप्यभेदेपि व्यक्तिभेदात् पृथक् पृथक् ॥ इति ।

स्पष्टः पदार्थः । सत्वगुणार्थक्रियां दर्शयति -

स्थैर्यं धैर्यं तथा दाक्ष्यं मार्दवं लघुताऽपि च ।
सन्तोषमार्जवं शौचं व्यवसायक्षमा स्मृतिः ॥

[[५५५]]
सैहित्यं परमौत्सुक्यं दान्ति शान्तिर्दया परा ।
सत्वस्य वृत्तयः प्रोक्ता रजसश्चाथकथ्यते ॥

स्थैर्यं प्रतिज्ञात स्वकर्तव्यनिर्वहनोन्मुख्यादि । धैर्यमप्रकाशत्वम् ।
दाक्ष्यं क्षिप्रकारित्वम् । मार्दवं मृदुता । लघुता शीघ्रोत्थान गमनादि
समर्थता । सन्तोषं प्रीतिः । छान्दसत्वान्नपुंसकोक्तिः । आर्जवमकौटिल्यं
शौचम् । मृदङ्गोभिश्शुद्धिः व्यवसायो निश्चयः । क्षमा स्वप्रतिकूल
परकृति सहिष्णुत्वम् । स्मृतिः विस्मृतार्थ सुशीघ्रस्मरणम् । सौहित्यम् ।
सुहितता । परमोत्सुक्यम् । उत्कृष्टपदार्थानुरञ्जनम् । दान्तिर्बहिरिन्द्रिय
निग्रहः । शान्तिरन्तरिन्द्रिय निग्रहः । परा । दया [[५५६]] परानुग्रहोत्कृष्ट
चिन्ता । एतास्सत्वस्य वृत्तयः प्रोक्ताः । अथ रजसः रजोगुणस्य च वृत्तिः कथ्यते ।
कथमित्याह -

शौर्यं क्रौर्यं महोत्साहस्साभिमानस्सकल्कता ।
दार्ड्यञ्च निर्दयत्वञ्च भोगो डम्भो रजोगुणाः ॥

शौर्यं युद्धे अपराङ्मुखत्वं क्रौर्यम् अचिन्त्यपरानिष्ठकारित्वम् ।
महोत्साहो महोद्योगः साभिमानस्सर्वगर्वः । सकल्कता । स वैरत्वं
दार्ड्यम् । स्वधनुरादि निश्चलधृति परगदादि प्रहरणभरणादि निर्दयत्वम्
। परनिग्रह चिन्ता । भोगोत्र भुज्यतेनेनेति करणव्युत्पत्तिकत्वात्
भोगलक्षणसंवित्ति निष्पादनक्रिया डम्भव
स्वस्मिन्नविद्यमानमहिमोक्त्या [[५५७]] परकीयपदार्थग्रहणादि । एते रजो
गुणाः प्रोक्ता इति पौर्विकानुषङ्गः । अथ तमोर्थक्रियास्सन्दर्शयति -

अरतिर्मन्दतादैन्यं पैशून्यं गुरुता तथा ।
निद्राधिक्यं मदालस्यं निरोधो मूढता च याः ॥

तमसो वृत्तयः प्रोक्ता विभिन्नास्सर्वजन्तुषु ।
एवं सङ्क्षेपतो विप्रा गुणतत्वमुदाहृतम् ॥

अरतिरप्रीतिः । मन्दता । शनैस्वकृति कर्तृत्वम् । दैन्यम् । ओदना दानाद्यर्थं
दातुः पुरस्तादनुदात्तोक्त्या विष्करणम् । पैशुन्यन्निग्रहकर्तुः पुरस्तात्
परदृष्टकृत्यादि सूचकत्वं गुरुताशीग्रोत्थानगति क्रिया सामर्थ्यं
निद्राधिक्यम् । निद्रोद्रेकः । [[५५८]] मदालस्यम् । एकवद्भावः मदः अनुचित
कृति प्रवर्तकविकृति शेषः आलस्यम् । उचितकृत्यनुद्योगः । तथैव
सत्वरजसोवृत्तयश्च । एवमित्याद्युपसंहाराद्धार्थस्सुकरः । अथ
बुधितत्वपरीक्षामारभते -

गुणतत्वात्पराबुद्धिरभवन्मुनिपुङ्गवाः ।
रजस्तमोभ्यान्यग्भूता वृत्तिस्सत्वेन चोत्कटाः ॥

सा बुद्धिरुदिता तन्त्रे विषयाध्यवसायिनी ।

यस्या वृत्तिः अर्थक्रिया रजस्तमोभ्यान्यत् भूतान्यूनभूतकर्तव्या । सत्वेन
चोत्कटा अधिकभूतकरणीया सा तन्त्रे शिव दर्शने । अध्यवसायिनी
विषयपरामर्श स्वकर्तव्यवती बुद्धिरुदिता [[५५९]] बुद्धिशब्दशब्दिता ।
पूर्वार्धार्थस्तु स्पष्टः । ननु बुद्धेः कर्तव्या चिच्छक्तिकर्तव्य
ज्ञानव्यक्तिरित्युक्तम् । सोध्यवसायः किन्नेत्याह -

बोधोऽत्र द्विविधो भावो व्यवसायात्मकस्तथा ।
आद्योऽनध्यवसायात्मा व्यवसायात्मकस्तु यः ॥

सा बुद्धिरितरस्वात्मस्वभावो ग्राहकात्मनः ।

बोधो द्विविधः भावस्तथा व्यवसायात्मकः । तत्राद्योऽनध्यवसायात्मा
शब्दानुल्लिखित निर्विकल्पावभासः तत्र पुनर्यस्तु व्यवसायात्मकः । बहिः
सृक् चन्दनवनितादि बुध्यन्तस्सुखादि परामर्शलक्षणद्व्यध्यवसायः । सा
स्वाभिव्यक्तस्वौपाधिक स्वविक्लिप्ति भूमिमदात्मबोधा विविक्ताः । बुद्धिः
लक्षणया बुद्धिवृत्तिः । [[६०]] इतरस्तु अनध्यवसायात्मा ग्राहकात्मन
आत्मस्वभावः स्वभावशब्देन शक्तिरुच्यते । तत्रापि लक्षणया चिच्छक्ति
कर्तव्यज्ञानमुच्यते । अत एव विलुप्तायामपि दीपदीप्तौ सदा अविलुत्पतया
भासमान नेत्रतेज इव विलुप्तेपि बुद्धिप्रकाशे सदा अविलुप्ततया भासते
ह्यात्मबोधः । तथा चोत्तरत्र वक्ष्यति बोधव्यक्ति भूमित्वात् बुद्धिप्रकाशोपि
बोध इत्युपचर्यते । पुरा च प्रपञ्चितं पशुपरीक्षायां बहिः कर्मज
संस्काराधरत्वेन च पारिशेष्यतोनुमानतो बुद्धिं सादयितुं पुरा तत्
संस्कृतिस्वरूपन्निरूपयति -

किञ्च प्रपातटाकादि क्रियाः क्लिप्ता फलार्थिभिः ।
[[५६१]]
समनन्तरमेवेह नयच्छन्ति फलानि तु ॥

आमुष्मिकत्वात् किन्तूर्ध्वं विनष्टा अपि ताः क्रियाः ।
फलकालानु वृत्तित्वात् संस्कारोऽपूर्वसञ्ज्ञितः ॥

कल्प्यते नसपुंसस्यात् विकारित्वेन हेतुना ।
कृष्यादेरपि संस्कारो नपुंसिपरिदृश्यते ॥

किञ्च अध्यवसाय कार्यहेतुना विना इतोपि बुद्धिसिद्धिः कुतः फलार्थिभि
स्वकार्य भोग्यलक्षणफलेच्छुभिः । कर्तृभिः करणभूतकाय
वाङ्मनोभिः प्रपातटाकादि क्रियाः प्रपाशाला क्रियन्त इति सिद्धव्युत्पत्तिक
तत्पलदातृ लक्षण शिवसहकारिभूत बहिर्व्यावृत्तिलक्षण स्थूलकर्माणि
क्लिप्तिः कृतानि ताः क्रियाः तानिकर्माणि समनन्तरमेव अनुष्ठितोत्तरक्षण (प्।
५६२) एव इह लोके फलानि न यच्छन्ति । किन्तु आमुष्मिकत्वात् विनष्टा अपि अनुष्ठित
क्षणध्वंसिन्योपि ऊर्ध्वम् उपरिलोकान्तरे अकालान्तरे दृश्यैहिक
फलविलक्षणस्वर्गादि फलानि यच्चन्ति । ततः किमिति न वाच्यम् ।
फलकालानुवर्तित्वात् जनकानां जन्य जननकाल निरन्तरानु विधायित्वात् नहि
दण्डस्वयन्नष्टो जन्यघटजननकाले स्वजन्यघटञ्जनयति । अतस्तत्
क्रियाजनितोतः क्रियत इति सिद्धव्युत्पत्तिकः सूक्ष्मकर्मशब्दशब्दितः ।
तदुक्तं मृगेन्द्रे ।

कर्मव्यापारजन्यत्वाद् अदृष्टं सूक्ष्मगावत । इति

फलकालानुविधायी स चापूर्वसञ्ज्ञितसंस्कारः [[५६३]] कल्प्यते स
च्छास्त्रज्ञैरर्थापत्ति लक्षणानुमानतोनुमीयते । नैय्यायिकादि दृगन्तर
कुक्लिप्ति कलितस्सपुंसि न जातस्थितस्यात् । नेति केनेयं कृता स्थिती
कृतिस्संस्कारस्य विनश्वस्त्व सहसिद्ध व्याप्तिक विकृति सहसिद्धव्याप्तिकत्वात्
पुंसितु संस्कृतिर्यद्यभविष्यत् विकृतिरपि तत्र तर्ह्यभविष्यत् न यदि सापि नहीति
बाधक तर्कभूमिकेन विकारित्वेन हेतुना सातु स्थिति कृतिः । अतः किल
कृष्यादेरपि संस्कारो न पुंसि परिदृश्यते न स्वकार्यद्वारानुमीयते । किन्तु
क्षेत्रे तर्हि क्षेत्रनिदर्शननिदर्शितसंस्कृति भूमिभूतं किमित्यत आह -

कुर्वन्ति यत्र संस्कारं क्रियास्साष्टगुणा मतिः ।
[[५६४]]
एवं ज्ञानादि संस्कारोप्यूह्यतां मुनिपुङ्गवाः ॥

क्रियाः प्रोक्तः प्रपातटाकादि का यत्र उपादाअनात्मनि संस्कारं
पूर्वाख्यं वासनां कुर्वन्ति जनयन्ति । साष्टगुणामतिः । तत्
संस्कारलक्षणकर्मण स्वपाकविशेषात्मना समुत्थवक्ष्यमाण
धर्माद्यष्टगुणा बुद्धिः । ननु अत्रिभव्यां बुद्धमन्यगुणत्वेन ।
समुत्थकर्मणामव्यविभुत्वात् दाक्षिणात्यस्य स्वकर्तुः काश्यां काश्मीरे
वा समुत्पन्न भोग्यागमनीय फलन्तैस्सह सम्बन्धा भावात्
कथञ्जनयन्ति । बालभाषितमेतत् सर्वस्वकार्यव्यापककर्माश्रय माया
द्वारा सम्बन्धस्य सुलभत्वात् । एवमित्थं ज्ञानादि संस्कारोप्यूह्यतां
स्त्रीप्रमुखपदाथानु भवादि ननित संस्कारोपि बुद्धा इति विचिन्त्यतां (प्।
५६५) तत् बलादेव हि स्वप्नस्मृति प्रतिभादावसत्यप्यर्थोल्लेखो दृश्यते ।
मतिरष्टगुणेत्युक्तं केते गुणा इत्याकाङ्क्षायां तान् तत्र
सलक्षणपरीक्षां कर्तुं समुद्दिशति -

धर्मो ज्ञानञ्च वैराग्यम् ऐश्वर्यं बुद्धिवृत्तयः ।
त्रयोत्र धर्ममुख्यास्तु सात्विकाः परिकीर्तिताः ॥

रागस्तु राजसश्शिष्टास्तामसाः परिकीर्तिताः ।

धर्मो ज्ञानञ्च वैराग्यम् ऐश्वर्यञ्च शब्दात् । अधर्मो
ज्ञानमवैराग्यमनैश्वर्यञ्च बुद्धिवृत्तयः । स्वोपादान प्रत्यय वर्गेण
सह रूपसञ्ज्ञिताः । ते कीदृशः । अत्राष्टसुमध्ये त्रयोधर्ममुख्यास्तु
सात्विका । सत्वगुणमयसंस्कारलक्षणकर्मणस्समुत्थाः परिकीर्तिताः । (प्।
५६६) रागस्तु अवैराग्यन्तु राजसः । राजोगुणमयसंस्कारलक्षण
कर्मणस्समुत्थः परिकीर्तिताः । शिष्टाः अधर्मा ज्ञानैश्वर्यानैश्वर्या
सञ्ज्ञिताश्चत्वारः तामसाः तमोगुणमयसंस्कारलक्षण
कर्मस्समुत्थः परिकीर्तिताः । ननु मृगेन्द्रादौह्यैश्वर्यं सत्वमयमिति
प्रोक्तम् । सत्यम् । तस्य मोहप्रीतिकरत्वात् । अत्र उभय स्वरूपोक्तिरिति
समधिगम्यते । अतः किलसत्वमुत्पादयेत् । बौद्धमैश्वर्यमिति पुनरैस्वर्य
मदमोहेनेति च वक्ष्यति इमे उक्तप्रकारेण कर्मोपादानजाः । तथा हि ये
धर्माधर्मा ज्योतिष्टो मब्रह्महत्यादयः आम्नाय सिद्धाः काय
वाङ्मनस्समवेत तत् परिस्पन्दक्षणिकलक्षणां प्रागनुष्ठिताः बुद्धौ
स्वाहितसंस्कार इव तया गुणत्वेन [[५६७]] स्व स्थिति क्लिप्तिमतः
यावन्नपरिपाकं प्राप्तानामिश्रं परिणमत इति तु परस्परोपकारेण
परिपक्वा स्थिता स्थितिकाले भोक्तुं सुखदुःखमोहात्मना
समुपस्थितास्तेषां विपाकविशेषरूपाः प्रत्ययद्वारोद्भूतगुणतया
सुखदुःखमोहाकारा स्वोत्थप्रत्ययैस्सहसुखदुःखमोहद्वारा
साक्षाद्भोग्याः कथ्यन्ते । तदुक्तं भोगकारिकासु ।

मोहदुःखसुखाकारो रूपाख्यस्तत् भवेत् द्विधा ।
बौद्धो बोधः ॥॥॥भोग्यं मायादि च तदर्थतः ॥

धर्मादि त्रयं रागो धर्मादि च चतुष्टयम् ।
तमोरजस्सत्वमयं रूपन्तत् कर्मजं मतौ ॥ इति

धर्मादीनां भावशब्दशब्दितव्यत्वे हे उक्तिस्समाविष्क्रियते -

[[५६८]]
एते धर्मादयश्चाष्टौ भावयन्ति यतस्ततः ।
लिङ्गं भावास्समुद्दिष्टाः वर्ण्यन्ते ते क्रमेण तु ॥

एते धर्मादयो यतोनुष्ठिता । आत्मादेल्लिङ्गं चिह्नं भावयन्ति
स्वानुष्टातुः । पृथक् पृथक् स्वोत्थाधिवासनात स्वगुणि लक्षणं
बुद्धिमधिवासयन्ती । ततो भावास्समुद्दिष्टा । यदाहुः गावयन्ति
यतोल्लिङ्गं तेन भावाः प्रकीर्तिआः । इति ते भावाः क्रमेण तु वर्ण्यन्ते ।
धर्मादीनामनुष्ठितानां भावरूपत्वन्दर्शयितुमज्ञानादि-
भ्यस्तावद्धर्मस्यानुष्ठान भेद सिद्धये विभज्य स्वकीय
स्वरूपन्निरूपयति -

धर्मश्च द्विविधस्तत्र यमश्च नियमस्त्विति ।
[[५६९]]
चित्तस्य संयमस्तत्र सयमः परिपठ्यते ॥

अशास्त्रीया क्रिया त्यागात् शास्त्रीयेष्वपि कर्मसु ।
नियमः पठ्यते शास्त्रे योयमिन्द्रिय संयमः ॥

तत्र भावाष्टसुमध्ये धर्मः द्विविधः यमश्च नियमश्चेति । तत्र यम
नियमयोर्मध्ये यश्चित्तस्य मनसस्संयमस्सन्न्धृतिः संयमः
परिपठ्यते । आशास्त्रीय क्रिया त्यागात् शास्त्रनिषिद्धक्रोधादि क्रियाविवर्जनात्
शास्त्रीयेषु कर्मस्वपि वक्ष्यमाणा क्रोधादिषु च योयमिन्द्रिय संयमः ।
अनुष्ठानाय सन्धरणं शास्त्रेषु शैव प्रमुखेषु नियमः परिपठ्यते ।
अत एवै तत् साधनेधिवासनात्मना सत्वेनापूरितस्यात एव निवृत्त तमसो
महत्तत्वस्य ईषदृजः प्रवर्तते । तद्युक्तं [[५७०]] पुरुषं तदेश्वरो
नियुङ्क्तेः । पुनर्यमनियमौ च विभजति -

यमः पञ्चविधोऽहिंसा सत्यमस्तेयमेव च ।
ब्रह्मचर्यमकल्कत्वं यम एवन्तु पञ्चधा ॥

अक्रोधो गुरुशुश्रूषा शौचं सन्तोषमेव च ।
आर्जवञ्चेति नियमः पञ्चधा परिकीर्तितः ॥

यमो हिंसादयः पञ्चनियमो क्रोधादयः पञ्चः । स्पष्टोक्षरार्थः । तत्र
गुरुशुश्रूषेत्युपलक्षणमन्येषान्देवपूजादीनान्नित्यनैमित्तिक
काम्यादीनां कर्मणाञ्च तथैतत् परिग्रहोक्तिरुत्तरत्र भविष्यति । क्रमतो
लक्षयति । गुढपदार्थमात्र गमिकात्र विप्रतिस्पष्टत्वात् ।

परेषु दुःखानुत्पादोऽहिंसाद्रोहशतैरपि ।
सा नहिंसेति विज्ञेया या हिंसा शास्त्रचोदिता ॥

[[५७१]]
या शास्त्रचोदिता शास्त्र क्लिप्ता याज्ञीय पशुवधलक्षणा हि सा सा न
हिंसेति विज्ञेया । सत्यलक्षणम् ।

आपदो भीतितो वापि न तथ्यं सत्यमुच्यते ।
असत्यमपि तत् सत्यं गुरुदेव प्रयोजनम् ॥

नातथ्यसत्यं सत्यमुच्यते । गुरुदेवेत्युपलक्षणं गो ब्राह्मणादीनाम्
अस्तेय लक्षणम् -

अदत्ता स्वीकृति सत्या गो वित्तस्या न्यायजस्य च ।
श्रुतस्य परिदृष्टस्य तृणीकारोप्य चोरता ॥

ब्रह्मचर्यलक्षणम् -

कर्मणा मनसा वाचा श्रवणाद्दर्शनादपि ।
मातृवन्मन्यते नित्यं प्रार्थयन्तिमपि स्त्रियम् ॥

तदेव ब्रह्मचर्यं स्यात् शेषा वृतं विडम्बकाः ।

[[५७२]]
ब्रह्मचर्यं गृहस्थस्य श्रौताध्वनि विधानतः । शेषा अन्ये
भावावृतविडम्बकावृताभिनयमात्रा इत्यर्थः । अकल्कता लक्षणम् -

स्वच्छता समता प्रीतिरपकारशतैरपि ।
कालुष्यन्नोत्सहेद्वैरं सेयमुक्ताप्यकल्कता ॥

एवं पञ्चयमा प्रोक्ता यतीनां सुशिवात्मनाम् ।

कालुष्यमित्यप्रसिद्ध पदबोधनमित्याकलय्यवैरमित्युक्तम् । सुशिवात्मनां
शुद्धबुद्धिप्रकाश्य व्यक्तशुद्धशक्तीनां यतीनां योगीनान्नियमे
अक्रोधगुरुशुश्रूषा लक्षणम् -

नित्यं प्रध्वस्तकालुष्यो न कोपस्ताडनादपि ।
देवानां शिवशक्तानां पित्रोरपि गुरोरपि ॥

[[५७३]]
आज्ञानुपालनन्नित्यं काम्यन्नैमित्यकर्मणाम् ।
दानोपवासतीर्थानां श्रुताध्ययनयोरपि ॥

श्रद्धया करणं पुंसां शुश्रूषा परिकीर्तिआ ।

ताम्यनादपीत्यन्तमक्रोधलक्षणं ज्ञेयम् । सौचसन्तोषद्वयलक्षणम् ।

गात्र प्रक्षालनं शौचं मृदं भोभ्यामुदाहृतम् ।
सन्तोषमुदितन्तन्त्रे लाभालाभे समामतिः ॥

आर्जवल्लक्षणमुक्त्वोपसंहरति -

जानन्नपि च विप्रेन्द्रा जडवन्मूकवत् तथा ।
निवृत्तः परपीडायां श्रद्दधानश्च भावितः ॥

आर्जवन्तस्य तत् प्रोक्तं नियमस्त्वितिपञ्चधा ।

हे विप्रेन्द्राः जानन्नपि च पीडाकृति निपातलक्षवश्योयमिति । [[५७४]]
सुबुध्यन्नपि शृण्वन्नपि जडवत् अबुध्यन्निव तथा मूकवत् मूकस्य
बधिरत्वमपि सिद्धेः अशृण्वन्निव अष्टसुमध्ये येन भावेन भावितः ।
परपीडायान्निवृत्तः परोपकारे श्रद्दधानश्च तस्य तत् स्वभावः आर्जवं
प्रोक्तमिति नियमस्तु पञ्चधा । यदा धर्मानुष्टानेन किञ्चिदप्यनवशिष्ट
निवृत्तरजस्कं प्रध्वस्ततमश्च सत्वं बुद्धौ भवति तदा तथा
भूतबुद्धियुक्तपुरुषं भगवान् क्रममनतिक्रम्य ज्ञानाभ्यासे नियोजयति
ततस्तत् भिदामुदीरयन् तस्य सिद्धिशब्दशब्दितव्यत्वे हेतुं समाह -

ज्ञानं पञ्चात्मकं यत्तद्गुणाव्यक्तनृगोचरम् ।
तस्मात् कैवल्यसंसिद्धिरिति तत् सिद्धिरुच्यते ॥

[[५७५]]
यत् ज्ञानं गुणाव्यक्त नृगोचरं प्रकृतिगुणपुरुषविषयम् । तत्
ज्ञानं गुणस्य त्रिविधलक्षणत्वात् तत्र निपतितन्त्रिविधमिति प्रकृतिगुणत्रय
पुरुषविवेकरूपं भूत्वा पञ्चात्मकम् । पञ्चाधिकरणं
पञ्चावयवं भवति तस्मात् गुणाव्यक्तज्ञ विज्ञानात् साङ्ख्यानां
कैवल्य सिद्धिरित्यथ पुनस्सिधान्तदृशा ते पि न स्वतः केवलतां विन्दन्ति । किन्तु
सकलत्वन्नमुञ्चन्तीति साङ्ख्यज्ञानादे स्वभोग्यदशापत्ति
लक्षणरागानुलिप्तधर्मवैराग्यैश्वर्य सम्पूरित स्वोपादान
स्वप्रकर्षावस्था रूपसिद्धिस्सिध्यतीति सिद्धिहेतुत्वात् तत् ज्ञानं सिद्धिरुच्यते ।
सिद्धिशब्देन व्यवह्रियते सोक्तलक्षणा सिद्धिरपि पृथक् पृथक् ज्ञानलक्षण
[[५७६]]
भावतोप्यासतोधिवासना लक्षणा सत्यशीतिभितया समुक्तिष्ठत
इत्याह -

अशीति सङ्ख्यया सा च सङ्क्षेपात्परिकीर्तिता ।
भूततन्मात्रकाक्षाणि मनोऽहङ्कार बुद्धयः ॥

गुणाव्यक्तनराश्चैव प्राप्य स्थानानिवासिनाम् ।
तत्र तरात्मबुध्यैव गम्यन्ते सिद्धयस्ततः ।

ननु पुरुषतत्वं वासो ज्ञानलक्षणाभावोत्थ वारानैषामस्तीति वासिनः
तेषां वासिनां यतः पुरुषतत्वप्रमुखभूतान्तानि मोक्षत्वेन प्राप्य
स्थानानि । ततः तत्र तत्र भूतादिषु आत्मबुध्यैव स्वात्मप्रत्यये नैव
विचित्रतया स्वहेतुभूतज्ञानाधिवासनात् सिन्यसिद्धयो गम्यन्ते ज्ञायन्ते ।
भावाधिवासनात्मसिद्धि विचित्रतान्दर्शयन् [[५७७]] प्रोक्तन्तत्
सिद्धस्थानाभिदं क्रमतो विविच्य दर्शयति -

चार्वाकभूतसंसिद्धा यतो देहात्मवादिनः ।
ज्योतिश्शास्त्र विदस्तद्वत् प्राप्यं तारापुरं यतः ॥

कौलायासात्मवादेन विनाशित्वात् तु भौतिका ।

देहात्मवादः पशुपटले दशितः ज्योतिश्शास्त्रविदस्तु अनादिरेव पुरुषस्य
कार्यकरणसम्बन्धः । अनादेर्विनाशायोगात् मुक्तिस्तु लब्धप्रकृष्टतर
कार्यकरणतारकापुरनिवसतिहीति वदन्ति । आग्नेयसौरवादिनोग्न्यादि साम्यं
मुक्तिरिति कथयन्ति । न कदाचिदनीदृशञ्जगदिति वदन्तः कर्ममीमांसकाः
स्वानुविहितसुकर्मणा स्वर्गप्राप्तिरेव पुरुषार्थ इति [[५७८]] पठन्ति । कौलास्तु
घटचटकन्यायेन शरीरे परमाणुरूपश्वसात्मात्मवादाः देह
तारादिपुरपरमाणु स्वासानां भूतजन्यतत्वात् । ते पञ्चवादिनोन्येपि
मुक्तावात्मच्छेदमभ्युपगच्छन्तः तस्य शरीरधर्मत्वात् प्रदीपनिर्वाण
वादिनश्च भूतात्मस्वरूपभावेन भाविता भूतसंसिद्धाः तन्मात्र
मुक्तानाह -

भूताण्डकारणं ब्रह्मेत्याहुस्मार्तास्ततश्च ते ।
ज्ञेयास्तन्मात्रसंसिद्धाश्चक्षुरादीन्द्रियं परे ॥

चेतनं मन्यमानास्तत् सिद्धा मुनिषु केचन ।

स्मार्ता भूताण्डकारणं परम्ब्रह्मज्ञानेन
प्राप्तव्यन्नान्यदसम्भवादित्याह भूतकारणत्वन्तन्मात्रेषु
युक्तिभिस्सङ्क्लिप्तमिति ते तन्मात्रसिद्धा ज्ञेयाः मुनिषु परे [[५७९]] केचन
चार्वाकभेदाः इन्द्रियचैतनिका इन्द्रियलक्षणादर्थादन्यदात्मवस्तुनास्तीति
चक्षुरादीन्द्रियं चेतनमात्मानं मन्यमानास्तेनेन ज्ञानेन भावितास्तत्
सिद्धा इन्द्रिय सिद्धाः अन्तःकरणचैतनिकेषु बुद्धिसिद्धानाह -

बौद्धास्तु बुद्धिसंइसिद्धा ज्ञानवृत्यात्मवादिनः ।
तद्वन्याय विदोबुद्धि वृत्तिधर्मात्मवादिनः ॥

उपलक्षणञ्चैतत् येन्तः करणचैतनिकेषु मनश्चैतनिकाः पुनरिन्द्रियाणां
प्रवृत्तौ वापि कारणन्तत् ब्रह्मपरन्तस्मात् जगत्सर्वं प्रवर्तत इति प्राहुः
तेनेन ज्ञानेन भाविताः मनस्सिद्धाः तस्यैवेन्द्रिय नियन्त्रित्वात् येहि तत्र
निरूपाख्याहं प्रत्यय प्रभवमेव [[५८०]] ब्रह्मज्ञानात् प्राप्तव्यमिति
प्राहुः । तेनेन ज्ञानेन भाविताः अहङ्कारसिद्धाः ये तत्र बौद्धास्तु
ज्ञानवृत्यात्मवादिनः पुनरध्यवसायादि भेदभिन्नं सन्तत्या
समुत्थातव्य ज्ञानमेव क्येशवासनायोगात् संसारहेतुः । न तु ततो
व्यतिरिक्तमन्यदात्मादिकं वस्त्वस्तीत्यात्मस्वरूपक्लिप्तिमन्तः तेनेन
ज्ञानवृत्यात्मज्ञानेन सुभावित स्वात्मनः तस्य बुद्धिधर्मत्वात्
बुद्धिसंसिद्धः येपि न्यायविदः तार्किकाः बुद्धिवृत्तिधर्मात्मवादिनः ।
बुद्धिसुखदुःखेच्छा द्वेषप्रयत्नधर्माधर्मसंस्कारलक्षण
नवसिद्धान्तसिद्धबुद्धिवृत्तिगुणगुण्यात्मस्वरूप कुत्सितक्लिप्तिं कुर्वन्तो
गुणगुण्यभिदामबुध्यन्तस्तदात्म नवगुणात्यन्ता भावलक्षण [[५८१]]
कुड्यवदचित्व कुमोक्षकुभाषिणः तेपि हितद्वदनेरज्ञानेन सुभावित
स्वात्मनः बुद्धिसंसिद्धाः गुणसिद्धानाह -

स्याद् वादिनस्त्वनेकान्तमात्मानं पर्युपासते ।
गुणानाञ्चलवृत्तित्वात् गुणसिद्धास्तु ते पुनः ॥

स्याद्वादिनस्तु स्याद्दस्तिस्यान्नास्तीत्यादि सत्पभङ्ग्या सदसद्वादिनः
आत्मानं स्व स्वरूपमनेकान्तं सदसच्चलवृत्तिरूपं पर्युपासते ।
भावयन्ति गुणानाञ्चलवृत्तित्वात् चलञ्चलञ्च गुनवृत्तमिति पातञ्जलोक्त
नयेन गुणा एव तदा भाव्यन्त इति तेन भावेन ते तु पुनः
क्षपणकास्सत्वसम्भोगवादिनश्च गुणसिद्धा ।
विशिष्यतामसञ्जिनभक्तानामिति क्वचित् प्रकृतिपुरुषतत्वद्वयलक्षण [[५८२]]
स्वमोक्षसिद्धानाह -

प्राकृताः पाञ्चरात्राश्च मन्यन्ते प्रकृतिं हरिम् ।
प्रधानाक्रान्तपुंसिद्धा वेदान्तज्ञाः प्रकीर्तिताः ॥

पुरुषस्सर्व इत्येवं मन्यन्ते परिणामिनः ।

साङ्ख्याः पुरुषसंसिद्धाः कलाक्रान्तस्स च स्मृतः ॥

ये प्रकृतिं हरिं मन्यन्ते । यदाहुः -

भगवान्वासुदेवोसौ गुणेभ्यः प्रकृतिः परा ।
अव्यक्तन्नित्यमित्याहुस्तं परोस्मान्नविद्यते ॥ इति

ते पाञ्चरात्राश्च प्रकृता प्रकृतिसिद्धाः ये चिदचिदात्मना परिणामिनस्सर्वे
स्वविकारत्वात् ब्रह्मेत्यपिचाभिहितः पुरुषः इत्येवं मन्यन्ते । ते
वेदान्तज्ञाश्च ब्रह्मणः परिणति भाषिणः । प्रधानाक्रान्त
पुंसिद्धालोष्टवत् [[५८३]] प्रकृतिप्रलय स्वभावत्वात् प्रकृतिजा विद्यादि
पुंस्त्वमलकलुषित प्रकृतिप्रान्त सुक्लिप्त पुम्भुवनसिद्धाः साङ्ख्याः
प्रकृतेन पातञ्जलाश्च पुरुषसंसिद्धा । स च पुरुषः न तु प्रकृति प्रलयः
प्राकृतस्थूल पुंस्त्व मलकलुषितः साङ्ख्यानां भावस्य विविक्तप्रकृति
पुरुषत्वात् । किन्तु कलाक्रान्तः कलादेरपि पुरुषत्वे हेतुत्वस्य
पुम्परीक्षायामुक्तत्वात् । पुनस्सूक्ष्मदेहद्वारा प्रकृतिगुणबुध्यादीनां
प्रकृतेरूर्ध्वमपि व्याप्तिरस्तीति सूक्ष्मपुंस्त्व मलकलुषितः
रागाधोभागस्थ रागसमुत्थ पुम्भुवनसिद्धस्सकलस्मृतः विज्ञानकेवलो
द्विविधः । प्रकृतिपुरुषविज्ञानसिद्धो मायापुरुषविज्ञान सिद्धश्चेति । तत्र
प्रथमस्साङ्ख्य [[५८४]] विज्ञानसिद्धस्स इत्थं परीक्षितस्सकलो भवति ।
द्वितीयस्तु शैवविज्ञान सिद्धस्वतस्समायोक्तीर्णत्वविकलत्वाभ्यां
विज्ञानकेवलः कदाचित् कथञ्चित् स्वमलपरिपाकाद् दीक्षितश्शुद्धाध्वनि
शुद्धसकलस्तदत्युत्कटात् मुक्तो वा भवति । मायावादिनोपि ब्रह्मभावं
हित्वा ब्रह्माहमितितुर्यपदात्मस्वरूपभावभाविताः
कलाक्रान्तपुरुषसंसिद्धाः ज्ञेयाः । तदुक्तम् । वेदान्तज्ञाश्च
साङ्ख्याश्च योगिनः पुरुषे स्थिताः । ननु साङ्ख्यैरष्टौ सिद्धयः प्रोक्ताः
स्वसिद्धिभ्यो व्यतिरिक्तसिद्धान्त सिद्धवेदान्तादि सिद्धयः कथितसिद्धि
विलक्षणवक्ष्यमाणसिद्धान्तसिद्धितुष्टिविलक्षणतुष्टयः कथिताः । सत्यम् ।
तथात्वे त्रिंशत्तत्वावधिमुख्यशक्त्यपेक्षया [[५८५]] साङ्ख्यानां
सिद्धयोपि तुष्टयस्युरिति न कोपि विरोधः । उपसंहरति -

दशैवं सिद्धयः प्रोक्ता दर्शनान्तरभेदतः ।
एषा मुक्तिः पराकाष्टा आश्रमस्यायमन्तिमः ॥

इति निश्चित्य सन्तुष्टास्तेषान्तास्सिद्धयः पराः ।
तन्त्रेऽस्मिन् नपराः प्रोक्ता यावत् तत्वं लयाह्वयम् ॥

दर्शनान्तरभेदतः शास्त्रान्तरभिदातः । एवं भूत तन्मात्रेन्द्रिय
मनोहङ्कारबुद्धिगुणप्रकृति प्रधानाक्रान्तपुरुष कलाक्रान्तपुरुष
स्वरूपा विविक्त स्वात्मभावनात्मिकास्सिद्धयो दशप्रोक्ताः । ते च दशविषय
सिद्धिमन्तो वादिनां स्वस्वाभिमतां सिद्धिमेषा मुक्तिः परा सूक्ष्मा
काष्ठा निरतिशया [[५८६]] आश्रमस्य विविधवादि क्लिप्तमुक्तिभूमेः
अयमाश्रमः मुक्तिभूमिः अन्तिम उन्नतिमती इति निश्चित्य सन्तुष्टास्तेषान्
तास्सिद्धयः पराः । उत्कृष्टाः अस्माकन्तु नहीत्याह । अस्मिन्नित्यादि अस्मिन्
कामिकादि प्रभेदतया शिववदनसमुत्थे तन्त्रे । नहि केवलमेतावन्मात्राः
लयाह्वयन्तत्वं यावत् । तावत् शुद्धमिश्रद्व्यध्वप्राप्तिरूपाः
परापरसञ्ज्ञिताः वक्ष्यमाणपौराणिकप्रमुख क्लिप्तिमत्यः अशुद्धाध्व
प्राप्तिरूपाः अपरसञ्ज्ञिताः प्रोक्तसाङ्ख्यप्रमुख
क्लिप्तिमत्यस्सिद्धयस्सर्वालयश्शिवसदृशलक्षणान्मुक्तिं प्रत्यपराप्रोक्ताः
प्रोक्तश्च प्रतिपदार्थपरीक्षायां योजितालयतत्वे ये [[५८७]] ते
मुक्तानापरत्र च ॥ इति । दशैकैकाष्टधाभित्वाशीति सङ्ख्या भवन्तीत्याह -

एताश्चोपाधिभेदेन भिद्यन्ते पुनरष्टधा ।
प्राक्संस्कारवशे नोह रूपं ज्ञानं प्रवर्तते ॥

सैका दुःखत्रयेणस्यात् सिद्धिर्विनिहितस्य यत् ।
तद्विघातत्रयात् ज्ञानत्रयन्तिस्रस्तु सिद्धयः ॥

सुहृदामुपदेशेन तच्चैकासिद्धिरिष्यते ।
स्वयं वा शास्त्रमालोच्य गुरुतोऽध्ययनात्तु वा ॥

यत् ज्ञानद्वितयं पुंसस्तत्सिद्धिद्वयमिष्यते ।
दानादि कर्मभिर्भाव्यो यस्सैकासिद्धिरुच्यते ॥

अभिस्सिद्धिभिरष्टाभिर्भिद्यन्ते दशसिद्धयः ।
मिलित्वाऽशीति सङ्ख्यातास्सिद्धयस्तास्समासतः ॥

[[५८८]]
एता दशोपाधि भेदेनोपादानात्मनि ज्ञानलक्षणबुद्धिभावे
स्वोत्थाननिमित्तभेदेन पुनरष्टधा भिद्यन्ते । कथं प्राक्संस्कारवशेन
प्रक्भूतजन्मविहित विशिष्टधर्मनिहितसंस्काराति विपाकेन
उपदेशनपेक्षयोहरूपं ज्ञानं ततस्संस्कारतस्समुद्भिन्नाधिवासना-
लक्षणं स्वयमूहात्मकं ज्ञानं प्रवर्तते । सम्यक्तिष्ठते ।
स्वप्रकर्षावस्थायासैका साधकानां सिद्धिस्यात् । विधेयापेक्षयास्त्र्युक्तिः
तत् संस्काराति विपक्वनिमित्त तदुहाद्ययोग्यस्यापि साधकस्य ।
आध्यात्मिकाधिदैविकादि भौतिकात्मना दुःखत्रयेण विनिहतस्याभितपतस्य
तद्विघात तत्र यात् तत्रिदुःखविघात त्रयाध्योतोः यत् तदूहात्मकं [[५८९]]
ज्ञानत्रयञ्जातं तस्य प्रकर्षावस्ह्ता रूपास्तिस्रस्तु सिद्धयः ।
सुहृतामुपदेशेन कल्याणमित्रोपदेशेन यत् ज्ञानं
समुत्थन्तत्रैकासिद्धिरिष्यते । यो ज्ञानलक्षणभावो
दानादिकर्मभिर्भाव्यः सेत्यनुषङ्गः । स्पष्टस्तदितरपदार्थः । कलादि
रागान्तसिद्धां कथं नगण्यन्तेऽत्रेत्याकाङ्क्षायामाह -

इत ऊर्ध्वं कलादौ ये परकाष्ठाभिमानिनः ।
न तेपि सिद्धा गण्यन्ते बुद्धिसिद्धेरुपक्रमात् ॥

ये कलादौ पराष्ठाभिमानिनः इतः परतरन्नास्तीति सूक्ष्मनिरतिशय
मुक्त्यभिमानिनः मायागर्भाधिकरीश्वर प्रणीत दृष्टि
सम्प्रदायिनिस्तदनुविधायिनश्च ते सिद्धा अप्यत्र बुद्धिसिद्धेरुपक्रमात् ।
बुद्धिसिद्धि [[५९०]] परीक्षारम्भाद्धेतोः नगण्यन्ते ते च शैवमनुचरन्त्या
व्यासक्लिप्तिमत्या शैव पौराणिकदीक्षया दीक्षिताः रागसिद्धाः
सोमसिद्धान्तिनः । विद्या सिद्धाः कलोत्थ कलाप्रान्तस्थ माया भुवनस्थ
रुद्रप्रणीतकापालशास्त्र किप्तिमत्या दीक्षया दीक्षिताः कापालाः कला
सिद्धाः । तथा कलोत्थकलाप्रान्तस्थ मायाभुवनस्थ प्रोक्तेतर रुद्रप्रणीत
पाशुपतादि शास्त्रक्लिप्तिमत्या दीक्षया दीक्षिताः पाशुपताः समुत्पत्ति
साम्यवादिनश्चावेशसाम्यवादिनश्च माया सिद्धा(ः) शुद्धविद्योत्थ
भुवनस्थ रुद्रप्रणीतशास्त्रक्लिप्तिमत्या दीक्षया दीक्षिताः
महावृताश्शुद्धविद्या सिद्धाः ईश्वरोत्थ भुवनस्थ
रुद्रप्रणीतशास्त्रक्लिप्तिमत्या दीक्षया [[५९१]] दीक्षिताश्शिवप्रयोज्य कर्तृत्व
वादिनः प्रवाहेश्वरवादिनश्च ईश्वरसिद्धाः शिवसमवादिनः सदाशिव
सिद्धाः शक्त्युक्तभुवनस्था । अपरमुक्तान्यतम शिव कृत शुद्ध
शाक्तशास्त्रकिप्तिमत्या दीक्षया दीक्षिताश्शक्ति सिद्धाः निवृत्यादि
कलाव्यष्ट्यधिष्ठात्र सद्योजातादि मृत्वधिष्ठिता परमुक्तान्यतम
चतुश्शिव कृत गारूडदक्षिणवामभूततन्त्रक्लिप्तिमत्या दीक्षया दीक्षिताः
निवृत्यादि चतुष्कला सिद्धाः साक्षात् शिवेशान पञ्चमुखोत्थ सिद्धान्त तत्र
क्लिप्तिमत्या दीक्षया दीक्षितास्तु मलपाकवैचित्र्य कृताभिलाषवैचित्र्यात्
शान्त्यतीतकलादि कालाग्न्यन्तसिद्धाः । पुनस्तदतीत परमुक्ताश्च [[५९२]]
भूत्वा दीक्षा तदनन्तरकरणीयानुष्ठानानुक्रमतस्तदुचित
साररूपादयस्सायुज्यश्चस्युः बुद्धिप्रकाशलक्षणसिद्धिसिद्धैस्सह
गणना हेतुक बुद्धिसिध्या विविक्त चित्प्रकाश्यत्वं कालादीनां नास्ति
किन्नेत्याह -

नहि विद्या कलादीनां दर्शनं सम्भवेत् द्विजाः ।
पुरुषोपरि यत् तत्वं शिवतन्त्रैकगोचरम् ॥

पुंसान्तन्निष्ठतानस्याद् विशेषानुग्रहादृते ।
तस्मादनुक्रमाच्छक्तिः पतिता बोधयत्यणून् ॥

हे द्विजाः । विद्या कलेश्शुद्धाः शुद्धलक्षणे प्रातिलोम्येनानुलोमेन च
आदीनि येषां शुद्धाशुद्धलक्षणेश्वरादीनान्तानि विद्या कलादीनि तेषां
विद्या कलादीनान्दर्शनम् । [[५९३]] बुद्धौ साङ्ख्य प्रमुख
शास्त्राध्ययन समुत्थं ज्ञानं विषयित्वेन नहि सम्भवेत् । कुतः
पुरुषोपरियत् तत्वं तच्छिवतन्त्रैक गोचरम् ।
शिवशास्त्रमात्रसमुत्थज्ञानविषयं मायागर्भाधिकारीश्वर प्रणीत
तन्त्रतः मलपुरुषविवेकाभावेपि कलादिपुरुषविवेकस्सम्भवतीति तेपि
शिवशब्दशब्दिताः । तर्हि शिवशास्त्रस्यापि बुद्धिसंस्कारकत्वात् तत् संस्कृत ।
बुद्धि समुत्थ सिद्धिगोचरं भवतु । तदयुक्तं पुंसां विशेषानुग्रहादृते
। शिवशास्त्रोदित वै शिष्य शिवदीक्षां विना तन्निष्ठता तच्छिव
शास्त्राध्ययनाधिकारिता न स्यात् । तस्मात्कारणादनुक्रमात् तत् तत् पद
प्राप्ति योग्य तदनुरूप [[५९४]] दीक्षा क्रियायोजनबोधन वैचित्र्य
लभ्यानुसारेण शक्तिः शिवसम्बन्धिनी पतिता । दीक्षादिद्वाराणून् बोधयति
विद्या कलादिकपदार्थां ज्ञापयति । अस्तुतर्हि दीक्षा पूर्वाभ्यस्त शिव
शास्त्रतस्समुत्थ विशुद्धसंस्कृतिलक्षणाणु चिद्व्यञ्जकसिद्धिमती
बुद्धिर्बोधिकेत्याशङ्कायान्तदयुक्तमित्याह -

शिवदीक्षादिनोद्भूतममलं सर्वतोमुखम् ।
शिवत्वोन्मीलितं ज्ञानं शिवशक्त्यात्मकं भवेत् ॥

श्रेयः प्रकाशकं शैवे न तु बुद्धिः प्रकाशिकाः ।

शिवशास्त्रमपि दीक्षायामनिर्वर्त्य बौद्धानध्यवसाय स्वफलत्वात् पुंस
स्वगुणलक्षणं ज्ञानमनध्यवसाय स्वरूपं यत् तन्न साक्षात्
शिवशास्त्रस्य फलमिति [[५९५]] शिवत्वाभिव्यक्तिलक्षणसंस्कारविलक्षण
संस्कारत्वे पुंसः पुनर्जन्मत्व प्रसङ्गाच्च । परम्परया
शिवत्वाभिव्यक्तिलक्षणसंस्कार संस्कारकमिति । नतु तच्छात्रं साक्षात्
पुरुषसंस्कारकम् । किन्तु सयुक्तिकं साक्षात् बुद्धिसंस्कारकम् । तदुक्तं
मतङ्गे ।

तद्वक्त्राम्बुजनिक्रान्तैर्ज्ञानोत्गारमरीचिभिः ।
जगत् प्रदीपकैश्शुद्धैस्तत् प्रसादोपसर्पिभिः ॥

बुद्धावधिष्ठितैर्विप्र दृश्यते नान्यथा क्वचित् । इति

अत्र दृश्यत इति मायाः ततस्तुर्हि दीक्षया स्वनिर्वत्यबन्धनिर्वर्तनद्वारा
नान्यथात्व सुलभस्वरूपशिवत्वाभिव्यक्ति लक्षणतया
समुत्थसंस्कृतिमतः [[५९६]] पुंसः स्वाभ्यस्त शिवशास्त्रसमुत्थ
संस्कृतिकबुद्धौ विराजमाना शिवशक्तिः बोधिका नतु बुद्धिः । तथा हि
मनोबुध्याश्शिवं प्रत्यप्रगमेपि मणेख्यापकत्वेपि मणिप्रभेव
मनोबुद्धिप्रभापि क्लिप्ताकृतिमतिसकले शिवे लक्षे निपतेदिति च बुद्धौ शिव दृक्
शक्तिः अनुग्रहकृतिमती शुद्धविद्योपब्रंहिता विराजमाना
बुद्धिशुद्धविद्याद्यप्रगमस्थाने निरालम्बने साक्षादिति तत्र यत्
किञ्चिन्निरनुपबृंहिता प्रकाशिकेति पुनस्सालम्बनेति बुध्यहङ्कार विविक्तं
यथा भवति तथा सर्वत्र पुंशक्तिज्ञानार्थक्रिया प्रकाशिका बोधिका
भवति । तदुक्तं मतङ्गे ।

[[५९७]]
किन्तु बुद्धौ यदा पुंसो ज्ञानशक्तिर्विराजते ।
स्ववीर्यकिरणोपेतं तदा पुंसः प्रवर्तत ॥ इति ।

ततश्शैव दीक्षिते । प्रोक्तरीत्या शिवदीक्षादिनोद्भूतं समभिव्यक्तं
शिवशक्त्यात्मकं प्रोक्तरिते शिवत्व पराभिव्यक्त्यवधिक शिवशक्तिव्यञ्जक
व्यङ्ग्यसम्बन्धलक्षणम् । अत एवामलमत एव सर्वतोमुखमुपाध्युत्थ
प्रेरक प्रेर्यतादि शिव स्वविशदृशत्वमनना विवेकभिदुरोदय तया शिव
लक्षण (शिव)शिवत्वसदृश मलौपाधिकपशुलक्षणपशुत्व विशदृश
स्वलक्षण स्वशिवत्व विवेकरूप शिवमलादि सर्वपदार्थसदृश विशदृश
स्वविवेकात्मकम् । तदुक्तं मोक्षकारिकासु ।

[[५९८]]
शिवात् शक्ति दीधित्या समर्थीकृत चिद्दृशा ।
शिवं शक्त्यादिभिस्सार्धं पश्यत्यात्म गतावृतिरिति ॥

अत एव शिवत्वोन्मीलितम् । शिवशक्त्यधिष्ठितया ध्यानजपोपेत
लक्षणसगर्भकुम्भकप्राणायामक्रियार्थ क्रियापूर्विकया स्वकीय
क्रियाशक्त्या समुच्चरिततत्वग्रन्धिभेदक स्त्र(हुं)गुं फढिति
स्मृतक्षुरिकास्त्रानुस्यूत प्रासादमन्त्रकलास्वौकारकलालङ्कृते
परमजाग्रावस्थेस्सन्निहितब्रह्मणि हृदये तत्वलक्षणस्वरूप तत्वरूप
पुरस्कृतक्लिप्तिकं यथा तथा (चिदचिद)चिदचितां मिथो विलक्षणतया यथा
स्वं क्रियमाण स्वस्वलक्षणपरीक्षा स्वरूपतत्वदर्शन समनन्तरं न
साक्षाद्विलय इति जडत्वादिलक्षणतत्वात्म स्वेतरात्मनि स्वात्माभिमान (प्।
५९९) त्यागस्वरूपं यथा तथा । यथा स्वं क्षुरिकास्त्रच्छिन्नग्रन्धि
स्वकारणविलया चिन्तनालक्षणेनतत्वशुद्धशब्दशब्दितेन
शिवशास्त्राध्ययनात् बुध्यङ्कुरितसंस्कारबलात् समुत्थेन प्रकृत्याक्रान्त
पुंस्त्वोपाध्यनुपहितकलाक्रान्त पुंस्त्वोपाध्युपहित विविक्तपृथिवी प्रभृति
प्रकृतिपुरुषविवेकेन स्वात्मना रागसिद्धि हेतुकर्मभूत्वा पुनस्तासु
कलासूकरकलालङ्कृते परमस्वप्नावस्थे सन्निहितरमाप्तौ कण्ठेनुक्रमिक
रागादिपुरुषविवेकात्म स्वात्मना विद्यादिसिद्धिहेतुकं भूत्वा पुनः
कण्ठाग्रे वक्ष्यमाणतालुनि चैकद्विक्रमिककला प्रलयकैवल्यकर्म
मायापुरुषविवेकेन स्वात्मना विज्ञानकैवल्य सिद्धिहेतुकं भूत्वा [[६००]]
पुनस्तासु कलासु मकारकलालङ्कृते परमसुषुप्त्येवस्थे सन्निहितरुद्रे तालुनि
मलोपहि तपलक्षणग्रस्त मलसमुल्लङ्घनकरणाविष्करणीयात्मलक्षण
स्वरूपात्मरूप पुरस्कृतकिप्तिकं यथा तथा मलोपहिता ज्ञत्वा कर्तृत्व
रूपपशुलक्षण मलसमुल्लङ्घनकरणा विष्करणीयोपर्युपाध्युपहित
शिवत्वोवस्था ज्ञत्वकर्तृत्व रूपात्मलक्षणयोर्मिथो विलक्षणतया यथा
स्वङ्क्रियमाण स्वस्वलक्षणपरीक्षा स्वरूपात्मदर्शन समनन्तरं
पशुलक्षणमलात्म स्वेतरात्मनि । अज्ञोहमकर्ताहं भूयो माययः
किञ्चिज्ञोहं किञ्चित् कर्ताहमिति पशुबोधात्म स्वात्माभिमान त्याग
स्वरूपेणात्मशुद्धि शब्दशब्दितेन स्व निमित्तात् परमतुर्यावस्थातस्-
समुत्थातव्योपाध्युपहित [[६०१]] स्वरूपोपहितं यथा तथा शिवोहमिति
किञ्चिदाभास शिवबोधोपबृंहितेन मलपुरुषविवेकेन स्वात्मना
मलाद्विमुक्ति स्थूलनादोपबृंहित विद्येश्वरतत्व तदुत्थ स्थूलाधिकार
मलाङ्कुरिता स्वातन्त्र्यलक्षण पशुत्वोपहित स्वोन्मीलन समनन्तर समुत्थ
स्थूल शिवत्वोपहित स्वरूपप्रतिभाससिद्धिहेतुकं भूत्वा पुनस्तासु कलासु
बिन्दुकलालङ्कृते परमतुर्यावस्थे सन्निहितेश्वरे भ्रूमध्ये निर्मल
जाग्रोदयवति अस्वतन्त्रोहमिति पशुबोध किञ्चिदवनति शिवोहमिति शिवबोध
किञ्चिदुन्नत्युपबृंहितेन सस्वकार्यकलाप विद्येश्वरतत्वात्म विवेकेन
स्वात्मना स्वोपाधिभिस्सह स्थूल शिवत्व [[६०२]] गलितौ झटिति समुत्थ
सूक्ष्मनादोपबृंहित सदाशिवशक्ति शिवतत्वतदुत्थ सूक्ष्माधिकार
मलाङ्कुरिता स्वातन्त्र्यलक्षण पशुत्वोपहित स्वोन्मीलन समनन्तरसमुत्थ
सूक्ष्मशिवत्वोपहितस्वरूप प्रतिभाससिद्धिहेतुकं भूत्वा ।
ईशानतीत्यशान्तान्तन्तत्वं सदाशिवं स्मृतमिति मृगेन्द्रश्रुतेः । पुनस्तासु
कलासु स्वावधिस्वायस्सञ्जातार्द्धचन्द्रादि चतुष्कलालङ्कृते पुनस्वोर्ध्वं
द्वादशान्तादधोमुखत्वेन स्वक्लिप्तिं महामाया शक्तेरधस्सञ्जात
व्यापिनौ समनान्तरित व्योमरूपादि चतुष्कला शक्त्यादि महामाया
मयीभव दुन्मनान्त चतुष्कलालङ्कृते परमतुर्यातीतावस्थे
सन्निहितशक्त्यन्त समष्टिमदनाश्रितान्तव्यष्टिमदीशानान्त [[६०३]]
पञ्चभूतिमय भूयस्समुल्लङ्घिताय स्वभुवनोपाधिकसूक्ष्मतरनाद-
शिखानुवर्ति स्वव्याप्तसमनाकलाक महामाया मयीभवदुन्मना
कलाकक्रिमिकानाहत शिवी भवत् परशिवी भवत् केवलम् ईशानमूर्तिमय
सदाशिवे ब्रह्मरन्ध्रे निर्मलस्वप्नोदयवति । स स्वकार्यकलाप सदाशिवशक्ति
शिवतत्वात्मविवेकेन स्वात्मना स्वोपाधिभिः सहसविकल्पसर्वज्ञतादि
गुणमयसूक्ष्मशिवत्वगलितौ झटित्यस्वातन्त्र्यलक्षण पशुबोधमिलित
शिवबोधगलितौ महामायात्मिकायां शक्तौ निलीय महामायात्मनिमन्त्रे
स शिवमन्त्रिणि च सर्वसितासिताध्व व्यापिनिसति निर्मल सुषुप्त्यवस्थातस्ति
रोधशक्त्या प्राणात् झघटिति समुत्थ [[६०४]] स्वावशहेतुकं भूत्वा
पुनर्महामयालङ्कृते स्वसर्वोपाधिं समुल्लङ्घ्य शिवब्रह्मानाहत
त्रिशब्दप्रमुखशब्दशब्दित महामायां समग्रं समीक्ष्य समालिङ्ग्य
शान्त्यतीतकलाकार स्वाकार शिवतत्वाकार स्वाकारा । ॥॥॥॥याकार
स्वाकारानाहत परशिवाकार स्वाकारनिराकार स्वाकारतया वा ।
अथाधस्समुल्लघित स्वसर्वोपाधिं प्रत्यग्रं समीक्ष्य क्लिप्त स्वाकाररक्त
गुरुरक्त गुरुरक्त स्वानन्दधृङ्नृत्तधवलेशान त्रिधाकार स्वाकर
स्वमूर्ततया वा ध्यात सन्निहितेशान मूर्तिमति
द्वादशाङ्गुलस्यान्तस्याधः पदे निर्मलसुषुप्त्युदयावति ।

तन्वङ्ग्या सह गन्तव्यं मध्यदेशं विपश्चिता ।
मध्यदेशमनप्राप्य त्यनेत्ताञ्चञ्चलां स्त्रियम् ॥ इति ।

[[६०५]]
सर्वज्ञानोत्तर श्रुतेः । महामायात्मिकां स्त्रियं
द्वादशान्तादधोमुखित्व स्वक्लिप्तिमत्या निर्मलसुषुप्त्यवस्थात्मिकया
तिरोधशक्त्या सहविवेकमनन क्रियापाटवेन विधून्वन् । समुक्षिप्य स्वलीन
मन्त्रात्मिकां महामायां पुनस्सशिवमन्त्रिणि व्याप्य शिवानुग्रहशक्ति
मात्रोपकारवात्र स्थिति मति सति तत्र द्वादशाङ्गुलस्यान्ते तुर्यं स्वचिन्मतिरिति
श्रुति निगदितात्म व्याप्त्यपरनामनिर्मलतुर्योदयवति आणवमलोपहित
पशुभावगलनादि मायिकारमलोपहित पशुभावगलनान्ति पुरस्कृतात्म
शुद्धिमदात्मनश्च परशिव भावानुकारिणीय शिवपराभिव्यक्तेश्च
मध्ये समुत्थ सर्वग स्वपरप्रकाश परभावभास परमात्मनि
शिवलक्षणस्वरूप शिवरूप [[६०६]] पुरस्कृतक्लिप्तिकं यथा तथात्म
परमात्मनोश्शिवपरमात्मनोरपि मिथो विलक्षणतया यथा स्वक्रियमाण
स्वस्वलक्षण परीक्षास्वरूप शिवदर्शनसमनन्तरं
पाशवलोकनन्त्यक्त्वा स्वरूपालोकनं हि यत् ।

आत्मव्याप्तिर्भवेदेषा शिव व्याप्तिरथोन्यथा ।
सर्वज्ञादिगुणायेत्थाद् व्यापकान् भावयेद्यदा ॥

शिवव्याप्तिर्भवेदेषा चैतन्ये हेतु रूपिणीति ।

परव्याप्तिस्तयोर्मध्ये सर्वगादि गुणात्मिकेति ।

ललितभेद स्वच्छन्द श्रुतेः ।

शिवमेव स्वयं भाव्य स्वयमेव शिवं भवेत् ।
समरसीभावयोगेन तत् समाधिरिहोच्यत ॥ इति ।

स्कन्दकालोत्तर श्रुतेश्चात्म परमात्म व्याप्ति ताद्रूप्य [[६०७]] त्याग शिव
व्याप्ति समुल्लिखितेन व्यवहित नैर्मल्यविवक्षितादिमुक्तिदशा विष्करणीय
स्वसर्वज्ञतादि गुणशिवतादात्म्य लक्षणसाक्षान्
नैर्मल्यविवक्षितानादिमुक्ति दशाविस्कृत स्वसर्वज्ञतादिगुण शिवतुल्यरूप
शिवतुल्यजातिलक्षण द्विशिव सम्बन्धसमुत्थ शुद्धाद्वैत
विशिष्टाद्वैतैकवैषयिकेन नैर्विकल्प्य नैरालम्ब्य नैदिध्यासन्य नैश्चल्येन
शिवसमाधि शिवयोग शिवव्याप्ति त्रिनामगीयमानेन दण्डित्वस्य स्वेतर
दण्डगतिं कृत्वा देवदत्तोहम् इति वत् पशुत्वस्य स्वेतरमलगतिं कृत्वा
शिवोहमिति प्रत्यभिज्ञानलक्षण शिवोहं भावात्म स्वात्मना
गुरुमुखादृतेदुरुपलभ्येन ।

[[६०८]]
तत् पदन्तु शिकारश्च वाकारन्त्वं पदं भवेत् ।
असिशब्दो यकारश्च महावाक्य स्वरूपकमिति ॥

श्रुतेश्शिवायेति जप्ते शुद्धे पञ्चाक्षरेपि त्रिवर्णत्रिपादानुक्रमिक
शिवोहमस्मीति पर्यवसितमता येनोपायेन ।

उल्काहस्तो यथा कश्चिद् द्रव्यमालोक्यतां त्यजेत् ।
ज्ञानेन ज्ञेयमालोक्य पश्चात् ज्ञानं परित्यजेदिति ॥

त्रिशति श्रुतेः । उपेयम् अतीतं शिवोत्वोदय इति श्रुतेः । निर्मल तुर्यातीत
स्वलक्षणस्वोदयम् । साक्षान्नैर्मल्य मात्रमनपेक्ष्य तथाभूत शिव
शिवत्व सदृशं शिवादि पदार्थसत्तामात्रावभासक पराग्रूप
परसंवित्तिलक्षणज्ञानशक्तिभेदनिर्विकल्पनिरूपाधिकं सर्वज्ञतादि
त्रिगुणवर्जनीय स॥॥ड्धि शिवा पृथगाचरित [[६०९]] कृत्य क्रियाशक्तिभेद
स्वतन्त्रतादि त्रिगुणमयं परं शिवत्वमुन्मीलितम् । सोपाधिकस्थूलसूक्ष्म
शिवत्वा सर्वधा कृतिमच्युतिमदभिव्यक्ति विलक्षण सर्वधाकृतिमच्युति
विरतिमच्छिवानन्द शिवभोग परमात्रतसुख परापरिपूर्ति पदादिपद
पठिते निरति॥॥।पुनश्शिवशक्तिनिरपेक्ष पराभिव्यक्तिमयं
व्यक्तमप्रत्यग्रूप स्वसंवित् स्वस्वरूपवृत्तिमय स्वानुभूतौ स्फुरिततया
सर्वधा साक्षात् कृतम् । तदैव यद्यप्य ग्राह्यश्शिवः प्रमाणपटले
विस्पष्टं विवेचनीय नयेन ग्राह्यवै सादृश्य पुरस्फुरणं यथा भवति
तथा कथञ्चित् स्फुरित गृहीतृलक्षणशिवत्वैक स्वभाव स्वसादृश्य
निबन्धनेन [[६०९]] पुनस्साक्षात् कृत शिवञ्च भवति । तदिदम् उभय
शिवत्वं तदुन्मीलनोपायभूतं शिवत्वोन्मीलितं ज्ञानम् । स्वचिच्छक्त्यर्थ
क्रियाभूतम् । श्रेयः प्रकाशकं प्रोक्तक्रमेण रागाद्युपेयानुसन्धात्र ।
अतो समदर्शन सिद्धिरपि न बुद्धिधर्म वक्तव्येति । नतु बुद्धिश्रेयः
प्रकाशिका । शिवत्वोन्मीलितमित्यादिकमियदिदमति गुह्यन्तस्तदीयता विभज्य
भूयोथवा पाठकैर्भाषान्तरैर्वा न लिख्यतां पुनरनार्हाय न
दीयताम् । पुंसस्सत्वयुक्तायां बुद्धौ रजः पा॥।योगेन
भगवान्वैराग्यमनुजानाति ततस्तत्प्रवृत्ति समनन्तरन्निमित्तभेदात्
सिद्धिभेदवत् । तस्मादेकतमा ज्ञानात् वैराग्यमुपजायत इति ।
श्रीमत्पराख्य श्रुतेः लोकायताद्यन्यतम [[६११]] ज्ञाननिमित्तसमुत्थ
वैराग्यनिमित्तभेदात् धर्मादिचतुष्टय सम्प्रक्ता धर्मादि त्रितयोत्पन्न
तुष्टिभेद कथ्यते ।

अथ वैराग्यभेदोपि सङ्क्षेपेणाधुनोच्यते ।
व्याध्यादि पीडितस्यास्य स्वदेहेपि विरागता ॥

सन्तुष्टस्सर्वकार्येषु निस्पृहत्वाज्जुगुप्सति ।
आध्यात्मिकादि दुःखेभ्यो वैराग्यन्नियतं भवेत् ॥

आर्जने रक्षणे चोरभरणे द्रविणस्य यत् ।
दुःखन्तन्मन्यमानस्य वैराग्यं सहसा भवेत् ॥

स्निग्धा द्वियुज्यमानस्सन्नृते दुःखेन पीडितः ।
दुःखस्य कारणं स्नेहः इति मत्वा विरज्यति ॥

कामुकस्तु स्त्रियां दृष्ट्वा किञ्चिद्वैराग्यकारणम् ।
[[६१२]]
सद्यो वैराग्यमायाति श्रेयसः प्राप्तिकारणम् ॥

सत्यन्नोद्धृयते देहः पानीयादौ न चान्यथा ।
एकाहस्याप्यपायेन ग्लानिं बन्धाति तत् क्षणात् ॥

दुष्पूरोयमतोहेतो वैराग्यमुपजायते ।
क्वचित् प्रतिग्रहादिभ्यो वैराग्यमुपगच्छति ॥

अकस्माज्जायते कश्चिद् विरक्तः पुण्यवैभवात् ।
इत्येवन्तुष्टयः प्रोक्ता दशधा शिवशासने ॥

अत्रैवान्तर्हितास्सर्वास्तुष्टयोऽन्या द्विजोत्तमाः ।

व्याध्यादि युक्त प्राणिदर्शनादात्मानमधिकृत्य वर्तत
इत्याध्यात्मभूतसुखहेतु भूतानुकूलमनः प्रसाद तत् प्रतिकूलोद्वेगादि
प्रभवत्वात् । देवमधिकृत्य वर्तत इति अधिदेव भूतसुख [[६१३]]
हेतुभूतानुकूल वातवर्षातपादि तत् प्रतिकूल
प्रचण्डमारुतातिवृष्ट्यत्यातपादि प्रभवत्वात् । भूतमधिकृत्य वर्तत इति
अधिभूत भूत सुखहेतु भूतानुकूलस्त्र्यादिभोग तत् प्रतिकूलसिंह
व्याग्राद्यभिभव प्रभवत्वात् आद्यात्मिकादि दैविकाधिभौतिकानि दुःखानि
तेभ्य आध्यात्मिकाधि दैविकाधि भौतिकदुःखेभ्यः धनार्जनादेः स्निग्ध
वियोगजरोदनादेः स्त्रिगमनादेरशुध्यादेः प्रतिग्रहात् अकारणेन पुरार्जित
पुण्यमहिम्ना । स्वतो विरागाच्चेति । दशभ्यो वैराग्यनिमित्तेभ्यः क्रमेण
जुगुप्साध्यात्मिक्याधिदैविक्याधि भौतिकिनि स्वाप्ररोदिका विडम्बाक्षपिका
वैखानसा कामोद्भावा चेति दशतुष्टयो [[६१४]] वैराग्य साधनभेदात्
भिन्ना भवन्तीत्यर्थः । तुष्टिश्च ज्ञानविशेषा । तदुक्तं मृगेन्द्रे ।

पुम्प्रकृत्यादि विषया बुद्धिर्या सिद्धिरत्र सा ।
तुष्टिर्नुरकृतार्थस्य कृतार्थोस्मीति यामतिः ॥ इति ।

ततस्साप्यात्म विषयत्वेन परम्परया मोक्षहेतुर्भवत्येव । यदाहुः ।

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानह ।
समुत्थस्सर्वपापेभ्यो याति ब्रह्म सनातनम् ॥ इति ।

सापि तुष्टिस्सिद्धिवत् प्रोक्त दर्शनभेदेन भूतादि प्रकृत्यन्ततत्व तद्विविक्त
पुरुषप्रोक्तक्रमिकज्ञानयुक्त चार्वाकादि साङ्ख्यान्तानां प्रत्येक
दशविधा सपुंस्तत्वप्रकृत्यादि प्रापकत्वेन प्रवृत्ता शतसङ्ख्या भवति
इत्याह -

[[६१५]]
एताश्च भूताद्यव्यक्त तत्वानां प्रापकत्वतः ।
सम्भूय शतसङ्ख्यास्तु तुष्टयश्शिवशासने ॥

स्पष्टः । अथ रजस्तमसोर्यदासत्वन्तादात्म्यापत्या भवति । तथा बुद्धिं
भगवानैश्वर्य समुत्पादन स्वकर्तव्ये योजयति । तदपि सङ्क्षिप्त स्वभिदया
परीक्ष्यत इत्याह -

अथैश्वर्य विभेदोपि लक्ष्यते लेशतोऽधुना ।
बुध्यात्मनो विभागेन स्थितमैश्वरमष्टधा ॥

बुध्यात्मनो बुद्धिगुणस्य विभागेनेत्यनुषङ्गः । कस्येदमित्यत आह -

धमिणोज्ञाननिष्टस्य विरागेच्छोश्च धीमतः ।
सत्वमुत्पादयेद्बौद्धमणोरैश्वर्यमिच्छया ॥

[[६१६]]
धर्मिणः प्रोक्ता हिंसादिमतः ज्ञाननिष्ठस्य भूतादि
ज्ञानानामेकतमज्ञानयुक्तस्य विरागेच्छोः प्रोक्तवैराग्याणामन्यतम
वैराग्यरागयुक्तस्यात एव धीमत साधकस्याणोरात्मनः इच्छया इन्द्रियादि
निरपेक्षनिमित्तभूत शिवसङ्क्लिप्त्या साधकसङ्कल्पेन वा
रजस्तमस्तादात्म्यापत्तिमत् सत्वमैश्वर्यमणिमादिकमुत्पादयेत् । विभज्य
तल्लक्षयति ।

अणिमा परमाण्वादेरपिसुक्ष्मतरा स्थितिः ।
लघिमा शीघ्रवेगित्वं पङ्कादावप्यमज्जनम् ॥

महिमा प्राप्य च स्थानं बृहद्देहेन्द्रियादिभिः ।

इन्द्रिय शब्देन इन्द्रियस्थानं विवक्षितम् । अथात्र गुणत्रयस्य
कुत्रोपयोगोत्रेत्याह -

[[६१७]]
त्रितयं कार्यतस्सिद्धमैश्वर्यमणिमादिकम् ।
प्राप्त्यादयो गुणाः पञ्चयोगिनः करणात्मजाः ॥

त्रितयमणिमादित्रयं कार्यतः । परम्परया साधारणबुद्धिकार्य
बाह्यभुवनज शरीरात् सिद्धम् ऐश्वर्यं भोग्यदशामापन्ने
यथानुरूपन्धर्मादिभावान्तरा श्रितम् । शरीरादि शक्त्यात्मनास्थीयत इति
तच्छक्तिभूत्वा व्यक्तं प्राप्त्यादधोगुणाः । पञ्चयोगिनस्साधकस्य
करणात्मजाः । साक्षात्परम्परया चा साधारणा
बौद्धाहङ्काराद्यन्तःकरण बहिःकरण शक्तयोभूत्वा व्यक्त्याः
प्राप्त्यादीन् पञ्चलक्षयति -

मनसाऽभीष्टसंसिद्धिः प्राप्तिर्नामगुणालयः ।
निर्मायस्त्रीसहस्राणि क्रीडाप्राकाम्यमाशुया ॥
[[६१८]]
आज्ञाविधानं ब्रह्मादौ तत्पूजा चेशितामता ।
वशीकृतिर्वशित्वं स्याज्जगन्निर्माणमेव च ॥

भुञ्जानस्यास्य कर्माद्यैरबाधो वशितामता ।

अधिकारोत्कर्षापकर्षतो स्याप्युत्कर्षापकर्ष
स्वभिदधैकैकमश्वर्यमष्टधा भूत्वा चतुष्षष्टिसङ्ख्यं
भवतीत्याह -

पिशाचानां यथोद्दिष्टमणिमादिगुणाष्टकम् ।
रक्षसां द्विगुणं ज्ञेयं यक्षाणान्त्रिगुणं भवेत् ॥

चतुर्गुणन्तु गान्धर्वमैन्द्रं पञ्चगुणं भवेत् ।
सोमानां षट्गुणं सप्तगुणं स्यात् तु प्रजापतेः ॥

चतुष्षष्टिगुणं बौद्धमैश्वर्यं ब्रह्मणस्स्मृतम् ।
ततस्समासादैश्वर्यञ्चतुष्षष्टिगुणं मतम् ॥

[[६१९]]
एते च पिशाचादि पितामहान्ता देवास्साङ्ख्यादि दृष्टा
ब्रह्माण्डान्तर्वर्तिनो न तु बुद्धितत्व वर्तिनः तत्तदूर्ध्ववर्तिनामपि
भुवनेश्वराणां यथा स्वं भुवनेषु । चतुष्षष्टिगुणन्तदिति ज्ञेयम् ।
मायागर्भाधिकरिणान्तु श्रीकण्ठादीनान्न बौद्धम् । अपितु ज्ञानक्रिया
शक्त्यात्मकमेव अधर्मोधिकारि हेतुभेदेनोच्यते ।

ततस्त्वैश्वर्य मोहेन विषयेष्वभि सञ्ज्ञिताः ।
चलन्ति क्षीणकर्माणः शुचीजां श्रीमतां गृहे ॥

ततोऽधर्मेण युज्यन्ते भोगनिद्रा मदाकुलाः ।

ततस्तदैश्वर प्राप्त्यनन्तरमैश्वर्यमोहेन मुक्तः परतरः कश्चिन्नहीति
अज्ञानलक्षणेन विषयेषु स्त्र्यादिष्वधर्मेणाभि सञ्ज्ञिताः ।
अभिसंसक्ताः ततः [[६२०]] क्षीणकर्माणः प्रतिहत शुभकर्मिणः
देवराज्यादेर्नहुष ययाति प्रभृतिवत् । स्वोचितैश्वर्याच्चलन्ति परिच्युतिं यान्ति
कर्मभूमिरिर्यं ब्रह्मन्नित्यादि श्रुतेस्तत्र न च कर्मार्जनमिति वाच्यम् ।
श्रुतिस्साफलबाहुल्यार्थ परेत्यपीन्द्रादीनां सुकृतदुष्कृत कृति श्रुतेः ये
पुनस्सावधिनैश्वर्यादिना युक्तास्ते तस्मिन् काललक्षणे अवयवौ प्राप्ते
क्षीणकर्माणः तस्मात् स्थानात् चलन्ति तेपि पुनरधर्मफलं न नहुषादिवत्
भुञ्जते तैरधर्मस्य तत्रानुष्टितत्वात् केवलं शुभकर्मशेषेण शुचीनां
श्रीमतां गृहे । प्राप्त जनभोगाः तदिदमुक्तम् ।

शुचीनां श्रीमतां गेहे योगमृष्टोभिजयत इति ।

[[६२१]]
ततोनन्तरं भोगनिद्राः मदाकुलाः इतोपि मत्तश्च न
परतरन्नपरश्चेति । भोगविषया ज्ञानविशकलितविधिनिषेध चेतसः ।
प्रध्वस्तसत्व किञ्चिदृजस्समीरित तमोधिकवृद्धि समृद्धबुद्धि
समुत्थेनाधर्मेणा युज्यते । सो धर्मोपि प्रागुक्ता हिंसाद्यात्मधर्म
विपर्ययात्मना दशधाभीद्यत इत्याह -

हिंसायामपि चौर्ये वा मिथ्या कथन एव वा ।
गुर्वङ्गनाभिगमने अपकार प्रतीकृतौ ॥

क्रोधे नित्यादि लोपे वाऽशौचेवाऽतोष एव वा ।
अनार्जवे च सततं प्रवर्तन्तेऽन्धदृष्टयः ॥

अधर्मवृत्तयस्त्वोक्ता दशसङ्ख्यास्तु पूर्ववत् ।

उपसर्गस्य घन्त्रमनुष्ये बहुलमिति प्रतिवर्णस्य [[६२२]] दीर्घः
अन्धदृष्टयः तमः कलुषित ज्ञानिनः अथाधर्मप्रवृत्तं पशुं
भगवान् पञ्चपर्वात्मना प्रध्वस्त सत्वरजः
केवलतमोभूतबुद्धिसमुत्थेन धर्मादिचतुष्टयानुलिप्ता धर्मादित्रयः
समुत्थ स्वप्रकर्षावस्था विपर्यय स्वलक्षणज्ञानेन योजयतीत्याह -

अथाधर्म प्रवृत्तन्तमणुमज्ञान सन्ततौ ।
नियुनक्तिमहेशानो यथा मूढो न पश्यति ॥

हिताहितमिति शेषः । पञ्चपर्ववत्वन्निवेदयति -

तमो मोहो महामोहस्तामिस्रञ्चान्धपूर्वकम् ।
तामिश्रमिति पञ्चैवं मता अज्ञानवृत्तयः ॥

अन्धपूर्वकन्तामिश्रमन्धतामिस्रम् । क्रमतो लक्षयति -

अनात्मन्यात्मभावोयस्समतः परिकीर्तितम् ।
[[६२३]]
भूताद्यव्यक्तपर्यन्तन्तत्वदर्शन भेदतः ॥

दशधा तम उद्दिष्टं मोहस्त्वष्टविधो मतः ।
अणिमादिषु लब्धेषु परत्वप्रतिपत्तितः ॥

दिव्यादिव्यविभेदेन शब्दादिषु दशस्वपि ।
परताध्यवसायो यो महामोहः प्रकीर्तीतः ॥

शब्दादीनां दशानाञ्च दिव्यादिव्यविभेदतः ।
अणिमाध्यष्टकस्यापि वैकल्यात्साधनेऽथवा ॥

प्राप्ताजान्नाशतस्तापो यस्तामिस्रं प्रकीर्तितम् ।
शब्दादावणिमादौ तु भुज्यमाने परेण तु ॥

तत् सुखाहरणे पूर्वन्तामिस्रञ्चान्धपूर्वकम् ।
ततश्चाज्ञानभेदो यं चतुष्षष्टिविधो मतः ॥

योरात्मनि शरीरादौ आत्मभावः अस्मिन् शरीरे परित्यक्तेहमेव [[६२४]]
नास्तीत्यात्मविषय विपर्यय लक्षणा ज्ञानं सतत्तमः प्रोक्तम् । तत्तमः
पुनर्भूता व्यक्त पर्यन्ततत्वदर्शन भेदतः । प्रोक्त चार्वाकादि दृष्टि
समुत्थ भूतादि प्रकृतिपर्यन्त तत्वज्ञान प्रकर्षावस्थात्मसिद्धिभिदया
सुलक्षित तद्बुद्धि शक्त्यभिहित सिध्यभाअवरूपबुध्यशक्त्यभिहित
सिध्यभावरूप बुशक्त्यभिहितासिद्धिभिः तमः कार्यत्वात्
तामसिभिर्दशयोद्दिष्टमपरत्व प्रतिपत्तितः । इतः परं सुखन्नास्तीति
विपर्ययलक्षणा ज्ञानात् दिव्यमस्मदादीनामदृष्टम् । अनुश्रविकम् ।
पारलौकिकम् । शब्दादि पञ्चकन्दिव्यं दृष्टमैहलौकिकम् । तेन
दिव्यादिव्यविभेदेन दृष्टानुश्रविकविभिदया परताध्यवसायः परत्व
विपर्ययमति [[६२५]] साधने धर्मादौ वैकल्यात् । साङ्गत्व सफलत्व
समाप्तिविहतेः । अथवा सादनसाकल्यात् प्राप्तानान्नहुषादिवन्नाशतः
परेणबलवता योगिना योगसामर्थ्यात् तत् सुखाहरणे
तच्छब्दाद्यष्टादशनिमित्त समुत्थसुखसंहृतौ ।
पूर्वन्तावात्मकन्तामिश्रञ्चान्धपूर्वकमन्धतामिश्रम् । दशविधा
सिध्युपाधिना तमो दशविधम् अणिमाध्युपाधिना मोहाष्टविधः ।
शब्दाद्युपाधिना महामोहो दशविधः तामिस्रञ्चान्धतामिस्रञ्च ।
शब्दादि दशणिमाद्यष्टा लाभलब्धनाशबलवद्योगिहरणोपाधिना
प्रत्येकमष्टादसविधमित्यज्ञानभिदा चतुष्षष्टिविधाः स्वकार्य
तुष्टिद्वारा वैराग्याभिदामाह -

[[६२६]]
अवैराग्यञ्च शतधा तुष्टीनां व्यत्ययात्मतः ।
न जुगुप्सादयस्सर्व पदार्थेषु तदानृणाम् ॥

तुष्टीनां वैराग्यनिमित्त समुत्थानां व्यत्ययः अभावः अनभिव्यक्त
शक्त्यात्मस्थितिः आत्मा स्वरूपं यस्या तुष्टिलक्षणकार्यस्य तत् तथोक्तन्ततः
व्यत्ययात्मतः । अवैराग्यं रागः ईषदृजस्समीरित तमोददृक्तबुद्धि
समुत्थः यदा शतधाभिद्यत इति शेषः तदा सर्वपदार्थेषु ।
स्वाभावरूपाह्यजुगुप्सादयो तुष्टय इति जुगुप्सादय उक्त ॥॥॥ विध
दशतुष्टयो न नस्युः । ततस्तु ह्यविकसितसत्वसमुत्थ रजस्तमसि मतौ
तन्निमित्ततो नैश्वर्यं स्वस्वभिदया समुद्भवतीत्याह -

अष्टभेदमनैश्वर्यमैश्वर्य व्यत्ययात्मकम् ।
[[६२७]]
तच्चाशक्त्या भवेत् सा च षट्सप्तत्यधिकं शतम् ॥

ऐश्वर्य व्यत्यात्मकम् अणिमाद्यनभिव्यक्ति स्वरूपस्थिति रूपाभाव
रूपमनैश्वर्यमष्टभेदं भूत्वा भवतीति शेषः ।
तच्चानैश्वर्यमणिमादेश्शरीरादि शक्त्यात्मनोक्तत्वात् अशक्त्या भवेत् ।
अणिमादि शक्त्यनभिव्यक्तिरूप स्वरूप स्थिति रूपाभाव
स्वकार्यात्मनाष्टधा स्यात् सा च रागानुलिप्ता धर्मादित्रयसमुत्था
शक्तिष्षट्सप्तत्यधिकं शतम् । नन्वियत्सङ्ख्यास्सर्वाः
किमनैश्वर्याभिदानेत्याह -

अज्ञाना तुष्टिरूपत्वात् चतुष्षष्ट्युत्तरं शतम् ।
बुध्यशक्तिस्तु दुष्टस्य करणस्यार्कसङ्ख्यया ॥

अशक्तिरेवं सङ्क्षेपात् षट्सत्पत्यधिकं शतम् ।

[[६२८]]
अज्ञानतुष्टिरूपत्वात् चतुष्षष्टिभीदा ज्ञानशतभिदा
वैराग्यनिमित्ता सिध्यतुष्टिरूपत्वात् बुध्यशक्तिः चतुष्षष्ट्युत्तरं शतम्
अतो बुध्यशक्तिः प्रोक्तरीतेः अज्ञानवैराग्य प्रकर्षावस्थाभिदारूपिणीति ।
नतु साङ्ख्यानामिवानैश्वर्य प्रकर्षावस्थाभिदारूपिणी ।
तस्यानैश्वर्यस्य शरीराक्षमनोहङ्काराशक्त्यात्म न समर्थीयमानत्वात्
। ततः दृष्टस्य विकलशक्तेः करणस्याक्षमनोहङ्कारात्मनः या
अनैश्वर्यात्मिकात्व शक्तिः सार्कसङ्ख्यया द्वादशगणनया भवति ।
अशक्तिश्शरीरा शक्तिव्यतिरिक्ता एवं प्रोक्तानुक्रमेणाहत्य षट्सत्पत्यधिकं
शतम् । ततस्त्रिविधशरीराशक्तिदशविधेन्द्रिया शक्तीन्द्रियोपाध्युपहित
दशविध [[६२९]] मनोहङ्कारा शक्त्यात्मनानैश्वर्यन्त्रयोविंशति
सङ्ख्यं भवति । एवं प्रतिभावं स प्रत्ययभिदा
गणनामुक्त्वोपसंहरति -

इत्य धर्मादयोभावास्संस्थिता वासनात्मना ।
क्रमेण प्रत्ययात्मानः प्रोक्तास्तद्वृत्ति भेदतः ॥

प्रत्याययन्तिक्षेत्रज्ञं तेन ते प्रत्ययास्मृताः ।

बुद्धावित्यध्याहार्यः । तद्वृत्तिभेदतः तद्धर्मादि व्यापारभेदतः ।
पुराभावपरीक्षारम्भे ह्यात्मरूपादिकं भावयन्तीति भावनात्म
व्यापृतिकत्वात् भावाः प्रोक्ताः अधुनात्र प्रत्ययशब्दप्रवृत्त व्यापृति
भिदाकेत्यत आह । प्रेत्यादि येन ते धर्मादयः प्रकर्षभावनात्म
प्रत्यायन व्यापृतिकाः मनो लक्षणेन्द्रिय [[६३०]] तत् गोचरार्थ सम्बन्ध
समुत्थाध्यवसायेनोर्थिताः क्षेत्रज्ञं प्रत्याययन्ति सार्वकालं
पुंविषयं प्रत्ययमुत्पादयन्ति । तेन प्रत्यया स्मृताः । तथोपचरिताः ।
तदुक्तं मृगेन्द्रे च ।

इति बुद्धिप्रकाशोयं भावप्रत्ययलक्षणः ।
बोध इत्युच्यते बोध व्यक्तिभूमितया पशोरिति ॥

भावप्रत्ययबृन्दं मिलित्वा कति सङ्ख्यमित्यतस्तदुक्त्वोपसंहरति -

धर्मो दशविधो ज्ञानमशीतिश्शतसङ्ख्यया ।
विरागोऽष्टाष्टधैश्वर्यमधर्मो दशधा मतः ॥

अज्ञानन्तु चतुष्षष्टिरवैराग्यं शतं भवेत् ।
अष्टसङ्ख्यमनैश्वर्यं षट्त्रिंशच्च चतुश्शतम् ॥

[[६३१]]
अणिमाध्यभावलक्षणमात्र विवक्षया नैश्वर्यमष्टविधमिति
कृत्वा धर्माध्यनैश्वर्यान्तभाव प्रत्ययवृन्दं गणितं सत् स
षट्त्रिंशत् चतुश्शतं स्यादिति यावत् । पुनः पूर्वं
परीक्षिताभिरशक्तिभिस्सह द्वादशाधिक षट्छतं स्यादित्युक्त्वोपसंहरति -

षट्सप्तत्यधिकाऽशक्तिस्सङ्ख्यया शतधा मता ।
सम्भूतवृत्तयो बुद्धेष्षट्छतं द्वादशाधिकम् ॥

एवं सङ्क्षेपतः प्रोक्ता बुद्धिर्भावाष्टकात्मिका ।

ननु (बु)बुध्यशक्तिनामुक्ता ज्ञानोन्नति
रूपानात्मन्यात्मभावात्मनानन्तर पठिता सिध्यभिदातः
पुनरवैराग्योन्नति रूपा तुष्ट्याभिदातश्च कथमनैश्वर्योन्नतिरूपा
शक्तीनामिव न भिदेति षट्सत्पत्यधिकाशतया शक्तिः । [[६३२]] सत्यम् । यथा
कथञ्चिदशक्तेरसिध्याद्युन्नतिरूपभीदास्तीति न प्रोक्तगणनाथाः काचित्
क्षतिः कस्मिंश्चित् भावे धर्मादौ क्षीणेन्यो भावस्तथाभूत एवोन्नति
मायातीति च क्रमिदं पुंसां दुःखकरन्दुस्तरमित्याह -

अष्टारेऽस्मिन्महाचक्रे पर्यटन्ति पुनः पुनः ।
पुद्गलास्ते न तेषान्तु नान्तं पश्यन्ति पुद्गलाः ॥

पर्यटन्ति तत्र स्वचिदभिव्यक्तिभिरञ्चन्ति तेषां भावानाम्
अन्तन्तरणायावनतिन्नपश्यन्ति । अथाहङ्कारपरीक्षामारते -

अत ऊध्वमहङ्कारतत्वं सङ्क्षिप्य वर्ण्यते ।
प्रत्यात्मनियतं तच्च प्रसिद्धमहमात्मकम् ॥

[[६३३]]
मनः पूर्वमधस्तत्वं यत एवोपजायते ।

अतः बुद्धितत्वपरीक्षा समाप्तेः वर्ण्यत इत्यन्त स्पष्टः यत एवोपादानात्
मनः पूर्वं मन(ः) पूर्वमादि यस्य श्रोत्रः देस्तत्तथोक्तम् ।
अथस्तत्वमुपजायते । तदहं कृन्नामतत्वं तच्च बुध्यादिवत्
प्रत्ययात्मनियतं कुतः यतस्तदहमात्मकम् । स्वयमचिदप्यात्मीय
परोन्मुख स्थिरज्ञानशक्ति वृत्तिलक्षण परोहोपबृंहिततया स्व समुद्भूति
स्वसन्नष्टिकत्वरूपा स्थिरत्वाभ्यामिदमिदमिति ग्राह्यपरामर्श स्ववृत्तित्वा
बुद्धिरिवेदमहं कृत्तत्वम् अचिदप्यात्मीय स्वयोन्मुख स्थिरज्ञानशक्ति
वृत्तिलक्षण स्वानुभूत्युपबृंहिततया स्वसमुद्भूति स्वसन्नष्टिकत्वरूपा
स्थिरत्वाभ्यामहमहमिति ग्राहक [[६३४]] परामर्शप्रत्यय लक्षणकृत
स्वप्रत्यात्मनियति यथा तथा स्वावच्छेदक स्वानुमापक प्रत्यात्मनियत
गर्वसञ्ज्ञित प्रत्यक्षस्ववृत्तिकं प्रसिद्धम् । तद्वृत्तिद्वारा सम्यगनुमितम्
उपलक्षणञ्चैतत् शरीरधारण परनामवायुजीवनायप्रवर्तक संरम्भ
सञ्ज्ञित प्रयत्नात्मक्रियाशक्त्युपबृंहित स्ववृत्तिकञ्चेति । तदुक्तं मृगेन्द्रे
। संरम्भाद्यस्य चेष्टन्ते शारीरः पञवायव इति । प्राणादेश्चेष्टा च
सूक्ष्मदेहोर्ध्वायः प्रणयना मृगेन्द्रादौ । सुपरिज्ञेयन्तत् । ऋषयः ।
आहङ्कारिकत्वेनोक्तस्य बुद्धिकार्यवैलक्षण्य दर्शनात् । कथं
कथनन्तत्वान्तरस्येत्याशङ्कन्ते ।

प्रत्ययोयोऽहमात्मात्र व्यवसायात्मको यतः ।
[[६३५]]
बुद्धेरेव ततो भूयात् किमनेन वदेश्वर ॥

योधुनोक्तोहमात्मा प्रत्ययस्सतु हीयतो व्यवसायात्मकः निश्चय स्वरूपः
बुद्धिकार्यस्यैव तथात्वात् बुद्धेरेव सततो भूयात् अनेनाहङ्काराख्येन
किं वदेश्वर न किमपि प्रयोजनम् । ईश्वरः । वैलक्षिण्यमस्तीत्याह -

विषयाद्यवसायोयः प्रत्यर्थं भेदतस्थितः ।
अयमित्यात्मकस्सर्वो बुद्धिशब्देन गण्यते ॥

यो विषयाध्यवसायो ग्राह्य परामर्शः सः पुनः प्रत्यर्थं भेदतस्थितः ।
परस्परविलक्षणघटपटाद्यर्थं प्रत्यर्थं प्रतिभिदातस्सुनिश्चितः ।
किञ्च यः पुनस्सर्वोयमित्यात्मकः । अयमित्याकारः स बुद्धिशब्देन [[६३६]]
गण्यते । बुद्धिशब्द सः कृतः कार्यशब्देन स्मर्यते । अतः किं
कृतमहङ्कारकार्यभिदानिरुक्तौत्वित्यत आह -

अहमात्मैकरूपस्तु सर्वदा संव्यवस्थितः ।
ग्राहकव्यवसायात्मा बुद्धेरेषकथं भवेत् ॥

एषास्माभिरहङ्कारिकत्वेन विवक्षितः । अहमात्मा बौद्धत्वेन
विवक्षितायामित्यतो विलक्षणभूताहमित्याकारः पुनस्त्वेषः घटमहं
वेद्मि पटमहं वेद्मीति विषयभेदकृत भेद निश्चय वैलक्षण्येन
स्वयमहमित्येकरूपः सदृशलक्षणः पुनस्त्वेषग्राहकव्यवसायात्मा
ग्राह्यनिश्चय वैलक्षण्येन ग्राहकनिश्चयरूपः एषः कथं बुद्धेः
कार्यं भवेत् । न कथञ्चिदपि स्यात् कार्यभेद सिद्धेरैकतात्विक
कल्पनायाम् अनेकतत्वकल्पनाभाव [[६३७]] प्रसङ्गान्नैक्यं
कारणस्येत्याह -

विषयाभिमुखी बुद्धिरहं विषयसङ्ग्रहः ।
ऐक्यं कथन्तयोर्विप्राः कथ्यतेऽत्यन्तभिन्नयोः ॥

बुद्धिरुक्तरीत्या विषयाभिमुखी आभिमुख्येन ग्राह्यलक्षणविषय
ग्रहणपटीयसी । अहङ्कारस्तु अहं विषयसङ्ग्रहः । ग्राह्यलक्षणविषय
मुखतया तदपराभिमुख्ये नाहमिति ग्राहकलक्षणतया स्थितविषय
सङ्ग्रहः विषयसङ्ग्रहणं यस्य स तथोक्तः ततस्तयोरत्यन्तभिन्नयोरति
विलक्षण स्वकार्यवतोरैक्यं कथं विप्राः न कथञ्चिदपि स्यात् । ऋअषयः ।
कार्यस्याधुनैकरूपत्वोक्तिं संसृत्य पुराश्रित प्रत्यात्मनियतकारण-
भिदोक्तिमन्त सहमानास्समाक्षिपन्ति -

[[६३८]]
अहं कृदेकमेष्टव्यं सर्वेषामहमात्मनः ।
प्रत्ययस्योदयात् तत् किं प्रत्यात्मनियतं भवेत् ॥

सर्वेषाञ्जनानामविशेषेणाहमात्मनः प्रत्ययस्योदयात् अनुत्वैकात्म
सिद्धिस्तिष्ठतु । तावदहं कृदेकमेष्टव्यं तदेकत्वान्नानात्मापि न भवति
चेति प्रत्यात्मनियतं भवेत् किन्नहीत्यर्थः । ईश्वरः परिहरति -

इदमित्येव सर्वत्र धीस्तावदुपजायते ।
नैतावता तदेकत्वं वाच्यं प्रत्यक्षबाधतः ॥

किञ्च सर्वेषु कुम्भेषु कुम्भ इत्येव जायते ।
सर्वेषां प्रत्ययो वापि कुम्भैक्यं नप्रदृश्यते ॥

प्रत्यात्मनियत बुद्धिसाधनद्वारा तथाहङ्कारस्साध्यत इति तावच्छब्दः
आत्मार्थः सर्वेषां सर्वत्रपदार्थेषु [[६३९]] इदमित्येव धिः (धीः) बुद्धि
कर्तव्यप्रकाश उपजायते । एतावता इदमित्युपजायत इति तस्याः बुद्धेरेकत्वं
तदेकत्वन्न प्रत्यात्मनियतताविधुरत्वन्नभवति कुतः प्रत्यक्षबाधतः
एकदैकस्य इदमुत्पलमित्थन्यस्येदं पत्ममिति स्वाधारबुद्धिप्रत्यात्मनियति
कर्तुः प्रत्ययस्य प्रत्यात्मनियति प्रत्यक्षबाधायाः किञ्च बुद्धि
प्रकाशैक्यं नास्त्यपि सर्वेषां प्रत्ययः बुध्यध्यवसायः सर्वेषु
कुम्भेषु अविशेषेण कुम्भ इत्येव जायते । वापि यद्यपि कुम्भैक्यं
प्रकाश्यैक्यन्न प्रदृश्यते । इति सिद्ध प्रत्यात्मनियतबुद्धि
निदर्शनवदनुमानेन साधयति -

प्रत्यात्मनियतोहं कृत गच्छामिति च वर्तते ।
[[६४०]]
एकस्यान्यस्य पश्यामीत्येवं बुध्यादयस्तदा ॥

अन्यथैकप्रकारोहम् इति स्यादुभयोरपि ।
अहङ्कारः पृथक् सर्व जनीन इति बुध्यताम् ॥

अहमिति सदृशवृत्तोप्यहङ्कृत् प्रत्यात्मनियतः यदैकस्याहं गच्छामीति
वर्तते । तदान्यस्य प्रत्यात्मनियतिं स्वान्यथानुपपत्ति सिद्धां स्वदर्शन
द्वारा स्वाधारस्य विदर्शयन् प्रत्ययः अहं पश्यामीति च वर्तते यत् तत्
एवमित्थमिदमिति सदृशवृत्ता अपि बुध्यादयः एकदेकस्येदमुत्पलमित्यन्यस्य
इदं पद्ममिति प्रत्ययान्यथानुपपत्ति सिद्धप्रत्यात्मनियतयः । अन्यथा
यद्यहं कृतः प्रत्यात्मनियतिर्नस्यात् । अहमिति अहं पश्याम्यहं
पश्यामीत्येकप्रकार स्वप्रत्ययस्सदो भयोरपि [[६४१]] स्यात् । न दृश्यते च ।
ततोहङ्कारः पृथक् सर्वजनीनस्सर्वजनभाव इति बुध्यताम् । बधक
तर्कोक्त्या पुनरगतिं कृत्वा स्वीकारयति -

यद्यभिन्नमहं कृत्स्या देवदत्तेप्यहं मतिः ।
अन्यस्याप्युपजायेत नात्मैकत्वन्तस्थितम् ॥

सद्यभिन्नमहं कृत्स्यात् तदा देवदत्तेपि समुत्थाहं मतिः ।
सदैकदान्यस्यापि जायते । न दृश्यते च यतस्ततोहङ्कारस्य नात्मैकत्वं न
आत्मस्वरूप एको यस्य स नात्मैकः तत्वन्नात्मैकत्वम् । स्थितन्निश्चितम् । अथ च
पुनस्तत इति कृत्वा कुम्भः कुम्भ इति समुत्थेपि प्रत्यये विषयिनि कुम्भलक्षण
विषयैक्यन्नस्थितम् । यथा तथाहमहमिति समुत्थेपि प्रत्यये विषयिनि
नात्मैकत्वं [[६४२]] आत्मनामहं शब्दशब्दित तत् प्रत्ययविषय
भूतानामेकत्वमद्वैतत्वमात्मैकत्वमनस्थितं न निश्चितं स
चाहङ्कारः क्रमतस्त्रैगुण्य त्रिस्कन्धात्मना स्वकार्यद्वारानुमित्त इत्याह -

स च त्रिविध उद्दिष्टः प्रथमस्तत्र तैजसः ।
वैकारिको द्वितीयस्या तथा भूतादिकः परः ॥

स्पष्टः । केवल सत्वादिकत्वे तु नामिश्रं परिणमत इति सुनीतितः
स्वकार्यानुपपत्तिरिति ईश्वर स्वहृदि समाशङ्क्य समाधिं करोति -

सत्वेनोत्कृष्टभागोयस्सतेजस इहोच्यते ।
वैकृतो रजसोत्कृस्टो भूतादिस्तमसाधिकः ॥

सुकरः । इत्थमुक्तञ्च मृगेन्द्रे ।

[[६४३]]
एकैकश्रुतिरेतेषां प्रीत्याधिक्य निबन्धनेति ।
तैजसस्तावचिच्छक्तेस्समनांसि ज्ञानेन्द्रियाणि समुत्पाद्योत्तरत्र परीक्षितव्य
सङ्कल्पवृत्तिं ज्ञानवृत्तिञ्च व्यनक्ति । वैकृतं कर्मेन्द्रियाणि समुत्पाद्य
क्रियां व्यनक्ति । भूतादिः तन्मात्राणि तद्वारा भूतानीन्द्रियाधाराणि च
समुत्पाद्येन्द्रियचेष्टां करोतीति सूचयन् क्रमतस्तदुत्पत्तिं समाह -

तैजसादप्यहङ्कारात्मनोबुद्धीन्द्रियाणि च ।
पञ्चकर्मेन्द्रियाणिस्युरहङ्कारात् तु वैकृतात् ॥

अहङ्कारात् तु भूतादेः जाता तन्मात्रसंहतिः ।

स्पष्टः । तत्र मनः परीक्षामारभते -

यस्सङ्कल्पविकल्पात्मा प्रत्ययोऽन्तर्गतो नृणाम् ।
[[६४४]]
स नाहं कारिको नापि बौद्धो व्यापारभेदतः ॥

स तु मानस एवेष्टस्तन्त्रेस्मिन्मुक्तिसागरे ।

यस्सङ्कल्पः अमीधर्मं घटस्य नान्यस्येति वक्ष्यमाणानुस्मृतिः विकल्पः
वक्ष्यमाणं बहुष्वालोचितेष्वेकस्य विषयीकरणन्तौ आत्मा स्वरूपं यस्य
ससङ्कल्पविकल्पात्मा अन्तर्गतः प्रत्ययः चिच्छक्तिकर्तव्यन्दृक् क्रियात्मकं
बहिरन्तःकरण प्रवर्तकं समासतोवधानमेकाग्रता नाहङ्कारिकः न
बौद्धः कुतः व्यापारभेदः बुध्यहङ्कारयो ग्राह्यग्राहकपरामर्श
ज्ञानवृत्तिकत्वात् तद्विलक्षण दृक्क्रिया स्वरूपावधानलक्षणार्थ
क्रियाभिदातः । किन्तु सर्वमत स्वमत मुक्तिः प्रदर्शकत्वात् मुक्तिसागरे स्मिन्
तन्त्रे मानसः मनोव्यक्त [[६४५]] एवेष्टः मन स्ववृत्ति भूतावधान
द्वारानुमीयत इत्यर्थः । अवधानेन विना बहिः करणान्तःकरण
प्रवृत्यन्यथानुपपत्या मनस्सिद्धमित्याह -

चक्षुषा लोचितेह्यर्थे तमर्थं बुद्धिगोचरः ।
विदधातीह यद्विप्रास्तन्मनः परिपठ्यते ॥

अन्यथा लोचिते कुम्भे पटेपिस्याद्विनिश्चयः ।

स्वतः प्रवृत्ति शुन्यत्वा स्वावधान प्रवृत्तेन चक्षुषा आलोचित इत्यादि पठ्यत
इत्यन्तस्पष्टः । तत्र विदधातीत्यत्र स्वावधानेनाहङ्कार वृत्येक निष्ठत्व
विधन पूर्वमित्यध्याहार्यं ग्राहकपरामर्शं विना । ग्राह्य
परामर्शानुपपत्तेः इह तत्वेष्वित्यर्थः । अन्यथा मनोवधाना नवहितयोः
ग्राहक ग्राह्यात्म वस्तुनोः [[६४६]] परामर्शौ न समुद्भवतः यदि
स्यात्कथञ्चित् तद्विना तत् समुद्भूतिः एकदालोचिते कुम्भेपि पटेपि
दृश्यमानक्रम निश्चयं विना समान कालीनो निश्चय स्यात् इत्थं
वाच्याध्यवसायान्यथानुपपत्ति सिद्धकल्पविकल्पभूतं पुनः
वाचकाध्यवसायान्यथानुपपत्ति सिद्धसङ्कल्प विकल्पभूतं सदनुमीयत
इत्याह -

किञ्च सा स्नादिमत्पिण्डे गोशब्दमनुभूय यत् ।
भूयस्तत् सदृशे दृष्टे गो शब्दोच्चारहेतुकम् ॥

तन्मनः कथ्यते तन्त्रे विकल्पप्रत्ययात्मकम् ।

किञ्च सास्नादिमत्पिण्डे बुध्यधिष्टान द्वारा गोशब्दमनुभूय
गोशब्दोच्चार हेतुकत्वादित्यन्वयः । अन्यथा असम्भवे मनोवधाने तत्र गो
नामोच्चारणन्नसमुत्तिष्ठते । [[६४७]] यदि कथञ्चित् स्यात् अश्व इत्यपि वा तत्र
स्यात् । विकल्पेत्यत्र सङ्कल्पेति चाध्याहार्यम् । परतममाशङ्क्य निराकरोति ।

केचिन्मनोऽणुमिच्छन्ति क्रमेणार्थ विराजनात् ।
महच्चेत्सर्वदा सर्वपदार्था व गतिर्भवेत् ॥

तदसत्कर्मवशतः क्रमात् ज्ञानोदयो नृणाम् ।
सामग्र्यपेक्षतश्चापि तमसापि भवादपि ॥

केचिन्नैय्यायिकादयः मनोणमिच्छन्ति कुतः क्रमेणार्थविराजनात् ।
विराजनं ज्ञानं चेत् न क्रमात् ज्ञानं किन्तु सर्वदा सर्वपदार्था व
गतिः । युगपत् ज्ञानं भवेत् । इति यत् । तदसत् कर्मवशतः कर्मनिबन्धनं
क्रमज्ञानन्नाणुत्वनिबन्धन मित्यन्यथा [[६४८]] सिद्धत्वात् । किञ्च
सामग्र्यपेक्षितश्चापि तत् तत् ज्ञानाभिव्यञ्जकसाधनसन्दोहः
निबन्धनमित्यन्यथा सिद्धत्वात् । तमसापि भवादपि
मनसस्सात्विकत्वोक्तिर्नमिश्रं परिणमत इत्युक्तत्वाद् वृत्याधिक्य निबन्धनेति
तामसत्वस्यापि सिद्धेः कदाचित् तमसाभिभूत स्वसत्वादपि तदनभिभूति
मन्मनो योगिनस्तन्मनोति दूरस्थितार्थं गृण्हातीत्यन्यथा सिद्धत्वादपि ।
परमत बाधकानुमानं प्रयुङ्क्ते -

मनोऽणुचेदणुद्रव्यग्राहकं सर्वदा भवेत् ।
यावति ग्राहकव्याप्तिस्तावद्ग्राह्यञ्च गृह्यते ॥

दीपेन ग्रहणं यद्वन्नतथा दित्यरश्मितः ।

मनोणुचेत् सर्वदाणुद्रव्यका ग्राहकं भवेत् । स्वव्याप्त्यव्याप्त [[६४९]]
पर्वतादि ग्राहकन्नभवेत् । ग्राहकत्वात् । यावती ग्राहक
व्याप्तिस्त(अ)वत्तद्व्याप्ति व्याप्त ग्राह्यञ्च ग्राहकेण गृह्यते । च शब्दात्
ग्राहकञ्च तद्व्यापकमात्रेण गृह्यते । न स्व व्याप्त्यव्याप्तं
यद्वद्यथादित्यरम्मितः सूर्यकिरणेनुग्रहणं न दीपेन सूर्यकिरण
व्याप्तग्राह्ये दीपव्याप्तेरगम इति । तथा तद्वन्मनसुव्याप्त्य व्याप्त
ग्राहकन्नभवेत् । पराशयमाशङ्क्य निराकृत्य उपसंहरति -

अल्पार्थ ग्राहकत्वेन मनोऽल्पमिति चेन्मतिः ।
तदसन्महतोप्यल्प ग्रहणं परिदृश्यते ॥

महदेव मनस्तत्वं प्रत्यात्मनियतञ्च यत् ।

इयता महदर्थग्रहणात् मनो महतित्युक्तं भवति । तुल्यसुनितितः । [[६५०]]
अल्पार्थ ग्राहकत्वेन मनोल्पमति चेन्मति । छवतां तदसत् कृतं यतः
महतोपि जाल सूर्यमरीच्यादेः अल्पग्राहकं त्रसरेण्वादि ग्रहणं
परिदृश्यते । उभयत्र महतेस्य व्याप्तित्वां न तस्येति यदि यस्मात् कारणात्
मनः बुध्यादिवत् तत्वम् । प्रत्यात्मनियतञ्च तस्मान् महदेव । अन्यथा
ऋषयः पुनश्चोदयन्ति -

मनोऽहङ्कृद्धियस्तिस्रस्संहतार्थार्थनिश्चयात् ।
केचिदाहुः क्रमेणेति कोनयस्वीकृतस्त्वया ॥

हे ईश्वर । केचिद् वा दिनः मनोहङ्कृद्धियस्तिस्रः सेन्द्रिया संहतार्थः मिलित
प्रयोजनं स चासावर्थ निश्चयश्च संहतार्थार्थ निश्चयः तस्मात्
संहतार्थार्थ निश्चयाद्धेतोः अपृथक्सिद्धव्यापार निमित्तमाहुः । [[६५१]]
केचित् क्रमेणाहुः इति तयोर्मध्ये को नय स्वीकृतः त्वया कः
पक्षस्त्वयाभ्युपगतः । ईश्वरः । इन्द्रियादि चतुष्टय व्यापारेषु क्रमतः
प्रत्यक्ष पृथक् सिद्धेषु चिन्ते धर्मयुक्तेत्याह -

क्रमेणेवार्थसंवित्तिः पूर्वमालोचनात्मिका ।
सन्देहरूपिणीपश्चादभिमानात्मिका ततः ॥

व्यवसाम्निका पश्चात् क्रमेणैवं व्यवस्थिता ।

मनस्सङ्कलस्य सन्देहरूपत्वात् ग्राहकनिश्चयस्याभिमानात्मकत्वात्
तद्रूपिणीत्युक्तम् । आलोचनात्मिका निर्विकल्पार्थ ज्ञानमात्ररूपिणी ।
व्यवसायात्मिकानामादि विशिष्टतदर्थनिश्चयरूपिणी । व्यवस्थिता ।
सुनिश्चिता । पूर्वं विद्यापरीक्षायां क्रमार्थसंवित्तिः -

[[६५२]]
प्रदर्शितेति वगवानुपरि च वक्ष्यतीति । च नात्रविस्तरः विवृत्तिः क्रियते ।
अन्तर पशराशयान्तरमाशङ्क्य निराकरोति -

ननु सर्वत्रबोधानु वृत्तेर्धीस्सर्वगेति चेत् ।
तदसत्परसंवित्तिस्सा हि बुद्धिर्जडोदिता ॥

ननु सर्वत्र इन्द्रियाद्व्यर्थक्रिया लोचनादिषु बोधानुवृत्तेः ज्ञानानु
विधानात् अथवा काश्यां काश्मीरे वा गतवानपि तत्र तत्र
बोधानुवृत्तेरियं गङ्गेत्यादि ज्ञानानुविधानात् बुद्धिरस्तीह्यत्र न भवति
यत्र हि नदृश्येत । दृश्यते च हि ज्ञानानुवृत्तिः । ततस्तत् ज्ञानानुविहितासती धि
बुद्धिः सर्वगा व्यापिनीति चेत्तदसत् पशुपटले सा बोधानुविहिता व्यापिनी
स्वसंविदि [[६५३]] शक्तिमति समवेतिनि परसंवित्तिस्वेतरस्संवित्तिश्शक्तिह्युदिता
बुद्धिस्तत्र जडोदिता नहि बोधानुवृत्यनुविहिता सती सर्वागा व्यञ्जिका
बुद्धिरिति । व्यङ्ग्ये सर्वगे बोधेर्व्यञ्जक सम्बन्धिनी । व्यञ्जकगत
विकल्पादिकं तदविविक्त तयानु भूयत इति पुरा दर्शितम् । भगवानुत्तरत्र हि
च वक्ष्यति प्रासङ्गिकक्रमज्ञान परीक्षया सहमः परीक्षां समाप्य
क्रमिकां सोद्देशलक्षणां बुद्धीन्द्रिय परीक्षामारभते -

ततः क्रमेण नेत्राद्याः पर्याप्ताभाव निश्चये ।
एवं प्रासाधिते चान्तः करणत्रितयोऽधुना ॥

बुद्धीन्द्रियाणि कथ्यन्ते श्रोत्रं त्वक्चक्षुरेव च ।
जिह्वाघ्राणञ्च पञ्चेति सुप्रसिद्धानि तानि च ॥

[[६५४]]
प्रत्यक्षविषयत्वेन तेषां सिद्धेर्नयुक्तयः ।
कथ्यन्ते तान्यहङ्कारादुपजातानि सात्विकात् ॥

प्रत्यक्षवस्तुनोनुमानोक्ति विना कथं सुप्रसिद्धत्वम् । सत्यम् ।
तेषामिन्द्रियाणां प्रत्यक्षं शाब्दिकं विषयम् । एषान्तानि
प्रत्यक्षविषयाणि तत्वं प्रत्यक्षविषयत्वं तत् ग्रहणकरणत्वं तेन
प्रत्यक्षविषयत्वेन प्रत्यक्षविषयग्रहणकरणभावेन शब्दादि ज्ञानानि
कैश्चित् करणैर्विज्ञम्भितव्यानि क्रियात्वात् चिदि क्रियावत् । क्रियात्र चिच्छक्ति
व्यापारः तत्वादित्यर्थः स्वधिकर साध्यमिति च भगवान् प्रमाण पटले
वक्ष्यति व्यापारः फलमिष्यत इति इत्येकेनानुमानेन निस्सन्दिग्धतया सिद्धेः
युक्तयः । अनुमानान्तराणि कथ्यन्ते । [[६५५]] ऋषयः कथमहङ्कार
कार्यत्वमिन्द्रियाणां भूतकार्यत्वेन
नैय्यायिकादिभिगीतत्वादित्यनुमानं प्रयुज्याशङ्कन्ते ।

यदभिव्यञ्जकं यस्य सजातीयं हि तस्य तत् ।
तथाऽभिभूतगन्धस्य निम्बत्वक्चन्दनस्य च ॥

शब्दाभिव्यञ्जकं श्रोतृमाकाशात्मकमेव तत् ।
त्वगादेश्चैवमुन्नेयमाहङ्कारिकताकथम् ॥

श्रोतृमाकाशस्वरूपम् आकाशगुणाभिव्यञ्जकत्वात् यदित्यनुषज्य
तदित्यन्तमवयवत्रयं विवेचनीयम् । अभिभूतगन्धस्य जलादि
प्रतिरोधद्रव्य सेवधानभिव्यक्तगन्धस्य चन्दनस्य निबत्वगभिव्यञ्जकं
वृक्षत्वेन सजातीयञ्च । ईश्वरः परिहरति -

[[६५६]]
भौतिकत्वेन मूर्तत्वमिन्द्रियाणां घटादिवत् ।
ग्राह्यत्वञ्चेन्द्रियैरन्यैरवस्थानं न कुत्रचित् ॥

अस्तु तावद्भौतिकत्वम् । यत्र भौतिकत्वं तत्र मूर्तत्वं घटादिवदिति सिद्ध
व्याप्तिकेन भौतिकत्वेन हेतुनेन्द्रियाणां मूर्तत्वं घटादिवत् सिद्धम् । न
चेष्टापङ्क्तिः यत्र भौतिकनमित्तिक मूर्तत्वं तत्रेन्द्रियैर्ग्रह्यत्वं
घटादिवदिति सिद्धव्याप्तिकेन तादृङ्मूर्तत्वेन हेतुनान्यै
इन्द्रियैरिन्द्रियाणां ग्राह्यत्वन्तु सिद्धम् । न तत्रापीष्टापत्तिः तदिन्द्रिय
ग्राहकेन्द्रियाणामपि तुल्यसुनीतितस्तादृङ्-इन्द्रियान्तरैग्राह्यत्वञ्च
सिद्धमित्यनवस्थायान्नकुत्रचिदवस्थानं तद्येतानभौतिकत्वम् अन्यथापि
परस्यागतीं कृत्वा स्वेष्टं पुनस्वीकारयति -

[[६५७]]
किञ्च मूर्तोपरोधेन मूर्तानां क्रमणन्नहि ।
स्फटिकान्तर्गतं वस्तु न ग्रहीयात् तु लोचनम् ॥

पानीयान्तर्गतं वापि तस्माच्चक्षुर्न तैजसम् ।

किञ्च पुनरपि मूर्तानां वस्तूनां मूर्तोपरोधेन तदन्तस्वगतिं
प्रतिमूर्तिवस्तुनिरोधेन नहि क्रमणम् । नकिलन्तदन्तर्गतिः । न च तदस्तु ततो नः
काक्षतिरिति वाच्यम् । अप्राप्तग्रहणा सत्वस्योभयवादि सिद्धत्वात् स्फटिकेत्यादि
मूर्तत्वन्निषिध्यति । पानीयेत्यादि जलप्रवेशात् । शान्तं स्यादिति
तेजसत्वन्निषिध्यति । प्रसङ्गतो प्राप्तं गृह्णन्तीति लोकायतादिवादि भूमिकया
शङ्कन्ते ऋषयः -

[[६५८]]
यद्येवं सति कुड्यान्तर्निहितस्यापि वस्तुनः ।
ग्रहणं स्यदमूर्तत्वे नाहङ्कारोद्भवत्वतः ॥

अहङ्कारो भवत्वतः हेतोः सिद्धेनामूर्तत्वेन हेतुना यद्येवंसति
मूर्तान्तर्गमने सिद्धेसति लोचनं यत्रामूर्तत्वम् । तत्र
मूत्रान्तर्गन्तृत्वमिति व्याप्तेः कुड्यान्तर्निहितस्यापि वस्तुनः । ग्रहीतुः
ग्रहणं करणं स्यात् । तदिदं परिहृत्य यदुक्तम् । भौतिकत्व नियतौ विषय
नियतिरिति तदप्यसदित्याह -

तदसत्तामसत्वेन कुड्यान्तर्गतिरोधतः ।
व्यग्यव्यञ्जकयोर्यत् तु सजातियत्वमीरितम् ॥

तदप्यचारुयत्कर्म जात्यो विषयतत्वतः ।
रूपैकविषयन्नातस्तैजसत्वञ्च हीयते ॥

[[६५९]]
तथात्वे तदपीष्टार्थ ग्रहणन्नोपपद्यते ।

यत् स्यादित्युक्तं तदसत् तमः प्रोत्सार्य सिद्धाञ्जनोक्तेजितशक्ति दृष्टीनां
कुड्यान्तर्गतेस्तदन्तर्निहितग्राहकशक्तेरपि दृश्यत्वात् । यत्र ह्यविशिष्टवस्तु
शक्त्यमूर्तत्वन्तत्र सात्विकमूर्त द्रव्यमात्रान्तर्गन् तृत्रमित्यवच्छिन्नत्वाद्
व्याप्तेः कुड्यादेस्तामसत्वेन चक्षुषः कुड्यान्तर्गतिरोधतः । तत्
तदतर्गतवस्तुनः ग्रहणन्नस्यात् । अन्यथाह्यप्राप्यग्रहणं
वदतामप्यतिप्रसङ्गो शक्त्यापलाप इति वक्ष्यति । व्यञ्जक व्यङ्ग्ययोर्यत् तु
साजातीयत्वमीरितम् । तदप्यचारु यद्यस्मात्कारणात् भूते तयोः
कर्मजात्योरुपलक्षणत्वात् भूतान्तररूपगुणानाञ्च दृश्विषयत्वतः ।
तच्चक्षुर्निरूपैकविषयन्न [[६६०]] तैजसा रूपमात्रविषयम् । अतः
एकभूतगुणद्विषयीकरण नियतेरभावात् तस्य तैजसत्वञ्च हीयते । तथात्वेपि
तत्वन्नहीयत इति । दृशस्तैजसत्वे । तदपीष्टार्थग्रहणं तद् दृगपीष्टकर्म
जातीतरभूतगुणग्रहणन्नोपपद्यते । न चाहङ्कारिकत्वा विशेषेन किलै
तेषां विषयनियति नियतस्वभावभेद इति वाच्यम् । उत्पत्ति भेदादिषु
विकाराणां गुलखण्डशर्करादीनमिव भविष्यतीति गोलकाद्येवेन्द्रियं
तदप्राप्यार्थग्राहकं प्रकाशकमिति प्रलपन्ति ये तान् प्रतिक्षिपति -

नाप्राप्तग्रहणं दृष्टं यत् किञ्चिद् व्यवधानतः ।
प्राप्तमेवेन्द्रियं सर्वं गृह्णातित्वग्यथेन्द्रियम् ॥

मध्यमदीपकत्वात् तथात्व इत्यादि व्याख्यात श्लोकार्थं [[६६१]]
पुनरनुषज्यताम् । तथा त्वे इन्द्रियाणां गोलकादि देहाङ्गत्वे चक्षुरादेः
प्राप्त्यार्थग्रहणन्नसम्भवतीत्यपीष्टार्थग्रहणम् ।
आवयोरभिमतध्युपाद्यर्थग्रहणन्नोपपद्यते । न तस्यार्थः प्राप्येति
वाच्यम् । सर्वं श्रोतृदिकमिन्द्रियं प्राप्तमेव स्व संयुक्तार्थमेव गृह्णाति
बाह्येन्द्रियत्वात् । यथा त्वगिन्द्रियन्तत्तथा दृष्टम् । तदपि तदितरदपीन्द्रियं
यत् किञ्चिद् व्यवधानतः । अप्राप्तग्रहणं सन्नदृष्टम् । पुनः परमते
दूषणमुद्धरति -

किञ्च मूकाद्यनुत्पत्तिर्देहाङ्गत्वे प्रसज्यते ।
घ्राणाद्यवयवोपेतो मूकादिः परिदृश्यते ॥

किञ्च भूयोपि देहां गत्वे मूकाद्यनुत्पत्तिः प्रसज्यते कुतस्ततो यतो
घ्राणाद्यवयवोपेत इन्द्रियत्वेन [[६६२]] त्वदभिमतानवद्य
घ्राणाद्यवयवसहितो मूकादिः परिदृश्यते तस्येन्द्रियत्वे । न च दृश्येत
पर्यवसितार्थमाह -

ततो व्यापकमेवेष्टं चक्षुर्दूरार्थदर्शने ।
श्रोत्रादीनि क्रमोक्तानि तद्ग्राह्याः पञ्च च क्रमात् ॥

यतो देहाङ्गतः पृथक् प्राप्य प्रकाशकतया सिद्धानीन्द्रियाणि ततो
दूरार्थदर्शने तावति चक्षुर्व्यापकमेवेष्टम् । परीक्षारम्भे श्रोत्रादीनि
क्रमोक्तानि क्रमात् तत् ग्राह्याश्च शब्दस्पर्शो रूपो रसो गन्धश्चेति
पञ्चक्रमः कथमित्यत आह -

भूतपञ्चकसम्बन्ध शब्दानां ग्राहिका श्रुतिः ।
ततोऽवशिष्टभूतेषु स्पर्शत्वग्ग्राह्य इष्यते ॥

[[६६३]]
एवमन्येषु विज्ञेयं तद्ग्राह्याः पञ्च च क्रमात् ।
श्रोतृत्वग्लोचनादीनां क्रमेणोत्पत्तिरीरिता ॥

श्रुति श्रोत्रम् । ननु आश्रयादन्यत्र उपलब्धेः आकाशैकगुणशब्द इति
वैशेष्यकादिभिर्गीयते । तदयुक्तम् । इह भेर्यामयमिति । आश्रय एव शब्द
श्रूयत इति प्रत्यक्षागम बाधितत्वाद्धेतोः कालात्ययाप दिष्टत्वात् । ननु
कदाचित् कर्णमूलेपि शब्दसंविद्भवति । सत्यन्नैतावताकाशमात्र
गुणसिध्यति यतः घ्राणमूलेपि गन्धसंविद्भवतीति व्यभिचारात् । ननु
सूक्ष्म स्वगणियुक्तो गन्धः घ्राणमूलं गमिष्यति यद्येवं शब्दश्च
तादृक् गमनन्नहि निजहातीति किमिति नत्वं ब्रूहि । भेरिशब्द एव
सन्तन्त्याश्रोतृमागत [[६६४]] इति वक्ष्यति तत आकाशात् अवशिष्टभूतेषु
स्पर्शः गुणतया त्वग्ग्राह्यः एवन्ततो वशिष्टभूतेष्ववशिष्टभूतयो
रवशिष्टभूत इति कृत्वा तत् तत् गुणतयान्येषु रूपादिषु चक्षुरादि क्रम
ग्राह्यत्वं ज्ञेयम् । एवमेवमति पुनरनुषज्य पञ्च च क्रमात् ग्राह्याः
ज्ञेयाः श्रोत्रेत्याद्युपसंहारः युक्तिरस्तिह्यत्रेति । ऋषयः पुनः
प्रत्यवस्थिताः -

ननु गोलकमेवेष्टं चक्षुः कैश्चित् सहेतुकम् ।
सान्तरग्रहणाच्छाखा चन्द्रयोर्युगपत्स्थितेः ॥

स्थूलार्थग्रहणाच्चैव तथा किमिति नेष्यते ।

कैश्चिल्लोकायतादिभिः ननु चक्षुः अप्राप्य प्रकाशकन्तादृक् स्वभावे
सहेतुकं गोलकमेवेष्टं कस्सहेतुरित्यत आह । [[६६५]] अन्तरेण व्यवधानेन
सह वर्तत इति सान्तरं स्फटिकान्तर्गतं वस्तु तत् ग्रहणात् सान्तरग्रहणाच्च
शाखा चन्द्रयोर्युगपत् स्थितेः । सम समयोवलम्भाच्च । स्थूलार्थ
ग्रहणाच्चैव तथा किमिति नेष्यते । अयमाशयः इन्द्रियस्य प्राप्य
प्रकाशकत्वे व्यवधानलक्षण स्फटिकादि व्यवहितस्य लिप्यदेः प्राप्य
प्रकांशा न भवति । शाखा चन्द्रयोरपि परस्परमतिदूरस्थित्वात् ॥॥। समय
प्राप्य प्रकाशकत्वन्नसम्भवति स्थूलार्थस्यापि
पर्वतादेरनेकप्रदेशत्वात् तथेति दृष्यमान समानकालीन ग्रहणन्नस्यादिति
अमूर्तस्य स्वच्छमूर्तद्रव्यान्तर्गमनमस्तीन्द्रियवस्तुनः नह्यप्राप्य
प्रकाशकत्वञ्चेति साधितत्वात् सान्तरग्रहणमन्यथा सिद्धमिति । [[६६६]]
परिहरति ईश्वरः -

गोलकादिन्द्रियत्वेन सान्तरग्रहणं मतम् ।
व्याप्तमेव हि गृह्येत ग्राहको दीपवन्मतः ॥

गोलकस्य तद व्याप्त्या चाक्षुष्यं दूरवारितम् ।

भवद्भिः इन्द्रियत्वेन गोलकादि सान्तरग्रहणं मतम् । यतः ग्राहको
दीपवन्मतः । ततः ग्राहकेण स्वेन व्याप्तमेव हि गृह्येत गोलकस्य गमना
सम्भवात् । तद व्याप्त्या सान्तरवस्त्व प्राप्त्या चाक्षुष्यन्तत् ग्राहकत्वं
दूरवारितम् । स्थूलार्थ ग्रहणञ्चान्यथा सिद्धमित्याह -

प्रध्वर्थग्रहणं यत् तद् व्यापकत्वेन युज्यते ।
न चेत् गोलकमात्रस्य भावस्य ग्रहणं भवेत् ॥

न चेत् । यदि न व्यापिकादृष्टिः । गोलकमात्रस्य गोलक [[६६७]] सदृश परिणति
मतः भावस्य पदार्थस्य ग्रहणं भवेत् । द्वितीय
चोद्यस्यैककालग्रहणमभ्युपगम्य परिहृतिञ्चोक्त्वा स्वमति
गतिञ्चाविष्करोति -

एककाले तु शाखेद्वो ग्रहणं व्यापकत्वतः ।
वस्तुस्थित्या तु शाखेद्वोर्ग्रहणं नैककालजम् ॥

अशुत्वे नाभिमानन्तत् सहस्रदलभेदवत् ।

वस्तु स्थित्या स्वभावतः । सहस्रदलभेदवत् पद्मदलसहस्रं मया सूच्या
युगपत् भिन्नमितिवत् । व्यापकत्वञ्च गोलकप्रदेशादृतेन सम्भाव्यमिति
व्यापकत्वेन तु दृशस्सयुक्तिकदूरार्थग्राहित्वन्नास्तिहीति ऋषयश्शङ्कन्ते ।

ननु गोलकमेवेष्टम् आधारत्वेन चक्षुषः ।
[[६६८]]
यत्रैवाधारसद्भावस्तत्राधेयो व्यवस्थितः ॥

व्यापकत्वेन या सत्ता सात्वकिञ्चित्करी मता ।
व्यापकोपि यथा जीवो व्योमदेशेन बोधकः ॥

कथं पुनर्दविष्ठार्थं प्राप्य गृह्णातिलोचनम् ।

ननु अस्ति हि शङ्कनीयम् । अधुना तु उक्तरीत्या चक्षुष आधारत्वे नैव
गोलकमेवेष्टं यत्र प्रदेशे आधारसद्भावः कालशाद्याधारासितत्वं
तत्र प्रदेशे आधेयो नवनीतादिको व्यवस्थितः । ननु अस्माभिर्व्यापकत्वेन तत्र
स्थित्यस्तित्वं विवक्षितन्तदयुक्तम् । व्यापकत्वेन या सक्ता अस्ति ता सात्व
किञ्चित्करी । अस्वार्थक्रियाकर्त्रिमता । अक्लिप्तिमतीयमिति नोच्यताम् । यथा जीवः
शरीराधारी व्योमदेशे स्वाधारभूत [[६६९]] स्वव्यक्तिभूमिभूत
व्यक्त्यात्मशरीरा प्रगमस्थले शक्तिरूपमायाप्रदेशेन बोधकः । न
स्वज्ञानलक्षणक्रियाकर्ता । लोचनं पुनः कथं केन प्रकारेण
दविष्टार्थम् अभिमतादि दूरितध्रुवाद्यर्थं प्राप्यगृह्णाति । न
कथञ्चिदपि स्यात् । ईश्वरः परिहरति -

तदसत्तैजसत्वेन गोलकस्य बहिर्गतम् ।
दीपवत् तत् कृता स्थानं चक्षुर्गृह्णाति नाद्भुतम् ॥

दीपेनोपकृतं चक्षुस्तमसीवार्थसञ्चयम् ।

यदुक्तञ्जीवदृष्टान्तेन व्यप्तेस्सत्ता अकिञ्चित् करीति । तददीपेन स्वाधारवर्ति
सन्तिषु तार्थ व्याप्ति ग्रहणवतानैकान्ति कत्वात् तदसत् तैजसत्वेन सात्विकत्वेन
स्वकीयप्रकाशेनोपकृतश्चक्षुर्दीपवत् । गोलकस्य [[६७०]] बहिर्गतम् । पुनस्तत्
कृता स्थानं गोलकी कृत स्वाधारन्तमसि दीपेनोपकृतञ्चक्षुरिव
दूरस्थितमप्यर्थसञ्चयं प्राप्य गृह्णाति नाद्भुतम् । उपसंहरति -

ततो गन्धादिनोक्तेन प्रसङ्गो दूरवारितः ।
चक्षुराधारभूतस्य गोलकस्या प्रवर्तितः ॥

ततः तैजसत्वेन बहिर्गमनार्थप्राप्ति ग्रहणस्योक्तत्वात् भौतिकत्वे मूर्तत्वात्
तद सम्भव इति गन्धादिना यथाभिभूतगन्धेत्यादिनोक्तेन प्रबन्धेन यः
प्रसङ्गः भौतिकत्व साधन परस्सदूरवारितः । पुनश्चक्षुराधार
भूतस्य अप्रवृत्तितः बहिरप्रसरणात् । ननु गोलकमित्यादिना यः प्रसङ्गः
चक्षुषो गोलकत्व साधनपरस्स च दूरवारितः । ऋषयः बाधाविष्कृति
कर्तृतया तर्कयन्ति -

[[६७१]]
ननु नायन तेजोभिर्निस्सृतैर्मीलितेपि च ।
अर्थो गृह्येत तन्नाशु विनाशान्मीलनोत्तरम् ॥

घटान्तस्तस्य दीपस्य प्रभा इव पिधानतः ।

नन्विति पराशङ्का । चक्षुरुन्मीलन समनन्तरमेव विनिसृतै गोलकाद्विनिर्गत्य
ध्युवाद्यर्थं गतैः नायन तेजोभिः चक्षुषी उन्मीलते सति मीलिते सत्यपि अर्थो
गृह्येत । कथन्नगृह्यते । तन्नेति सिद्धान्तः । पिधनतः ।
घटाच्छेदनाद्धेतोः घटन्तस्थस्य दीपस्य प्रभा इव मीलनोत्तरम् ।
चक्षुश्चदपिधान समनन्तरं चक्षुस्तेजसामाशु विनाशात् स्वमतं
परदूषणपरिहृति द्वारा प्रसाध्य परकीयं प्रतिक्षिपति -

[[६७२]]
दृशोर्गोलकमात्रत्वे ह्यप्राप्त ग्रहणं भवेत् ।
यद्यप्राप्तञ्च गृह्णीयात् तदा स्याद् व्यवधानतः ॥

तस्माद् व्यापकमेष्टव्यं चक्षुर्दूरार्थदर्शने ।

हीत्यनेन बहिरप्रसरणादित्य ध्याहृत्यानुषज्यताम् । यद्य प्राप्तञ्च
गृह्णीयात् तदा तदानीं कुड्यादे व्यवधानतो प्राप्तञ्च गृह्णीयाद् इत्यति
प्रसङ्गस्यात् । सुकरस्तदितर पदार्थः स्वमतेति प्रसङ्गमाशङ्क्य परिहरति

एवं सतित्वगादेश्च गत्वार्थग्रहणं भवेत् ।
इति चेत्तन्न वाय्वादि भूताधिष्ठान गोचरम् ॥

गत्वार्थग्रहणन्नैषां किन्तु प्राप्तार्थमापकाः ।

एवं सति चक्षुषि अर्थ स्थिति प्रदेशं प्रगम्य सत्यर्थग्राहके त्वगादेश्च
तथा गत्वार्थग्रहणं भवेत् । [[६७३]] इति चेत् । इति यदि मति । तन्न तदयुक्तम् ।
एषान्तु गादीनाम् । वाय्वादि भूताधिष्ठान गोचरम् । वाय्वादि
चतुर्भूताधिकरण स्पर्शादिविषयं गत्वा प्राप्यनार्थग्रहणन्नविषय
ग्रहणम् । किन्तु स्वयं गत्वा प्राप्तार्थमापकाः । स्वव्यक्त
चिच्छक्तिर्व्यक्त्यविविक्त स्ववृत्तिकाः । स्वसमीपसमागतविषय वेदका ऋपयोऽत्र
बाधास्तीत्याहुः -

नेत्रवच्छ्रवणं गत्वा नगृह्णाति यदि ध्वनिम् ।
दिग्देशोपहितश्शब्दः कथमत्रोपगृह्यते ॥

दिग्देशोपहितः । दक्षिणदिग्ययं श्रूयते । पुनरुत्तरदिश्ययमिति दिक्
प्रदेशोपाधिमान् । ईश्वर स्पष्टार्थ पदग्रन्धेन परिहरति ।

तदसद्वेगतश्शब्दस्सन्तत्या श्रोत्रमागतः ।
[[६७४]]
बाणादि पातवत्सद्यो दिग्देशाननुमापयेत् ॥

तथा प्रागनुभूत्यैव भेर्याद्यनुमितिश्च या ।

सन्तत्या वीचीतरङ्गसुनीत्या दूरस्थितकेतकी कुसुमगन्धादिरपि वायु
व्यपनीतसूक्ष्म तद वयवारूड आगत इति ज्ञेयम् । येत्यत्र सा
भवतीत्यध्याहार्यम् । प्राप्य प्रकाशकत्वमुपसंहृत्येन्द्रियस्यनैकत्वमिति
च वदति -

गृह्णन्ति प्राप्तमेवार्थमिन्द्रियाणीत्यतस्थितिः ।
नैकमिन्द्रियमेवेष्टं चक्षुरूपाद्यवेदनात् ॥

अत उक्तरीतेः स्थितिः निश्चयः चक्षुरूपेत्यत्र षष्ठीसमासः ।
रूपादीनामन्यतम वेदनादित्यर्थः । चक्षुव्यतिरिक्तेन्द्रियोषु च समानीतिः ।
बहिरन्तः करणानामैक्यच्छेत्रकार्यवैषम्यम् अन्तःकरणानाञ्च
परस्परं [[६७५]] किञ्चिद् वैषम्यमस्तीत्याह -

भूतभाविभवत्काल भाविभावेषु भावितैः ।
अभिमानानुसन्धान निश्चयैः करणत्रयम् ॥

त्रि(दि)क्कालविषयं बाह्यं वर्तमानैकगोचरम् ।

भूतभाविभवत्काल भाविभावेषु । अतीतभविष्यद्वर्त्मानकाल
समुद्भवपदार्थेषु भावितैः व्यक्तिकृतैः । अभिमानानुसन्धान निश्चयैः
ग्राहकाध्यवसाय ग्राहकग्राह्यावधान ग्राह्याध्यवसायैः
कार्यलिङ्गत्रयैः दिक्कालविषयन्दूरनिकटान्तरदेशीय त्रिकालिनार्थगोचरम् ।
अहङ्कारमनो बुद्धि लक्षणं करणत्रयम् । अनुमयन्ते तथा हि बुद्धिः
प्राक्तनानुभव समाहितसंस्कारद्वारेण तत् तया स्मर्यमाणमतीतम् । (प्।
६७६) पुनरनुभव सामर्थ्येन चेदन्तया निर्दिश्यमानं वर्तमानं
पुनरनागतञ्चाविनाभूतोन्नतमेघादि लिङ्गदर्शनाद्
वृष्ट्यादिकमात्मनस्तच्छिच्छक्ति व्यक्तिभूमितया प्रदर्शयन्ति ।
त्रिकालविषया संवेद्यते । अहङ्कारोपि दृष्टो मया दृश्यते । मया दृष्टव्यं
मयेति त्रिकालग्राह्योन्मुख दृक्शक्तिलक्षणात्मरूप
परामर्शात्मपदपठित स्वोन्मुख दृक्शक्ति व्यक्तिभूमितया
कुर्वन्नेवानुभूयते । मनस्तु चिच्छक्ति दृक्क्रिया व्यक्तिभूमितया
त्रिकालविषयावधानम् । बुध्यहङ्कारयोर्व्यक्त्यनुगुणमुत्पादयतीति त्रिकाल
विषयं कथ्यते । किमेवं बहिष्करणन्नेत्याह । बाह्यं करणं
वर्तमानैकगोचरमिति । अन्धादेर्बुध्यादौ सत्यपि बहिरूपादि ज्ञाना भावात्
। तत्र ह्यान्तरं [[६७७]] करणं बहिः करणसापेक्षमित्याह -

अन्तरं बाह्यसापेक्षं बहिरर्थावलोकने ।
आन्तरे सति बुध्यादौ रूपाद्यनवभासनात् ॥

स्पष्टः अज्ञातपदार्थे कृतिर्ननिवर्तनीया ततः कर्मेन्द्रियाणि स्वनिरपेक्ष
ज्ञानेन्द्रिय सापेक्षाणीत्याह -

कर्मेन्द्रियाणि सार्थानि धीन्द्रियोपकृतानि चेत् ।
अज्ञाते करणायोगान्नैवं बुद्धिन्द्रियाणि तु ॥

सार्थानि स्वनिवृत्त स्वार्थक्रियाणि । कर्मेन्द्रियाणां सोद्देशलक्षणपरीक्षा
क्रियते ।

कर्मेन्द्रियाणि वाक्पादौ पाणिगुह्यागुदानि च ।
ज्ञानेन्द्रियाणां ज्ञातृत्व हेतुत्वात् कृत्ययोगतः ॥

तदर्थमेष्टव्यानीह पञ्चकर्मेन्द्रियाणि तु ।

[[६७८]]
ज्ञातृत्व हेतुत्वात् दृक्च्छक्ति व्यञ्जकत्वात् कृत्ययोगतः । क्रिया योगा
दर्शनात् तदर्थं क्रिया निमित्तम् । शेषं सुगमम् । कर्मकिमत्र जडस्पन्द
क्रियानेत्याह -

कर्मात्र समवेताया क्रियाऽसक्ता हि पुद्गले ।
तदभिव्यञ्जकं यत् तत् कर्मेन्द्रियमिति स्मृतम् ॥

क्रियासक्ता क्रियाशक्तिः । अन्यथा सिद्धमाशङ्क्य परिहरति -

नात्रबुद्धिन्द्रियाण्येव तदभिव्यञ्जकानि तु ।
विरुद्धव्यङ्ग्यभेदेन बुद्धीन्द्रियबहुत्ववत् ॥

कार्यभितया किलतत्वभिदा सङ्क्लिप्तिः । ततः विरुद्धव्यङ्ग्यभेदेन
बुद्धीन्द्रिय कर्तव्यज्ञानशक्तिवृत्तिलक्षण व्यङ्ग्यक्रियाशक्तिवृत्तिलक्षण
दृश्य कर्तव्याभिदयान्येन्यविलक्षण व्यङ्ग्यरूपादिज्ञान कर्तव्यभिदया
बुद्धीन्द्रिय [[६७९]] बहुत्ववत् । चक्षुरिदन्तच्छ्रोत्रं त्वगिन्द्रियमिति व्यञ्जक
बुद्धीन्द्रिय पृथक्सिद्धिरिव बुद्धीन्द्रियमिदं कर्मेन्द्रियमिदमिति ।
पृथक्सिद्धिरित्यत्र इन्द्रियेषु मध्ये त्व बुद्धीन्द्रियाणि न तदभिव्यञ्जकानि न
तत् क्रियाशक्तिभिव्यञ्जकानि । ननु साङ्ख्यादिभिः महदाद्यात्मप्रकृतेरेव
कर्तृत्वं पुंसः कर्तृत्वा परनामक्रियाशक्तिर्नेष्यत इति
कुतस्तदभिव्यञ्जकत्वेनेन्द्रियान्तरसिद्धिरित्याशङ्क्य परिहरति -

नेष्टं यद्यात्मसामर्थ्यं गमनादि क्रियाकरम् ।
मृतदेहेपि कर्तृत्वं प्रसक्तं केन वार्यते ॥

कतृत्वमप्यणोरेव नजडस्य घटे यथा ।

नास्माभिः क्रियावेशैः कर्तृत्वेन स्वीकृतः । किन्तु तद्धेतु [[६८०]] भूतमिति
गमनादि क्रियाकरं गमनादि जडस्पन्दक्रिया हेतु भूतः ।
स्वयमस्पन्दरूपं कर्तृत्वमस्ति हि न तत् । कथञ्चित् शारीरं भवति । न
यद्यात्म सामर्थ्यमिष्टम् । तर्हि मृत देहेपि । स्व गमनादि स्पन्दक्रियाकरम् ।
कर्तृत्वं प्रसक्तम् । केन वार्यते । ननु प्राणवाय्वादि वियोगाद्वियुक्तन्तदिति तत्
तत्र न दृश्यते । तदयुक्तम् । कर्तृत्वमप्यणोरात्मन एव न जडस्यापि नासहैव
शब्दयोगान्ययोग व्यवच्छेदः परः चिद्व्यक्तित्वात् । यत्र कर्तृत्वन्न भवति
तत्र चिद्व्यक्तित्वन्न भवति । यथा घटे भोगस्यापि क्रियात्वात् । स भोगः कर्तृ
विनाभूत इत्यात्मनो भोक्त्रभिमानमपि पुनर्व्यर्त्थं स्यात् । अन्यथा
सिद्धिमाशङ्क्य पुनः परिहरति -

[[६८१]]
न चित्सन्निधिमात्रेण कर्तृत्वं जडवस्तुनः ।
कुम्भादेश्चाविशेषेण कर्तृत्वं सन्निधेस्सदा ॥

चितो व्यापकत्वात् । शरीरस्येव कुम्भादेश्च सन्निधेरविशेषेण सदा कर्तृत्वं
भवतीति शेषः । ज्ञानक्रिया लक्षणैक स्वभावशक्तिमानात्मैवेति । तथा
सा शक्तिस्सदा सक्त्यप्यौपाधिक्य सतीव स्थितिमितीन्द्रिय द्विवर्णलक्षण
करणैर्लक्ष्यत इत्याह -

ज्ञानक्रियात्मशक्तिर्या सा पुद्गलसमाश्रिता ।
सैवसंलक्ष्यते शक्तिर्बुद्धिकर्मेन्द्रियात्मकैः ॥

सुगमम् । इदमेवेन्द्रिय फलमित्याह -

अनेककालसंरुद्धमात्मानन्तमसोषितम् ।
विवेकात् कुर्वतेऽर्थज्ञन्तदिन्द्रिय फलद्विजाः ॥

[[६८२]]
अनेकः अमितः कालः यस्य सोनेककालः । अनादिरिति यावत् ।
तेनानेककालेन मलेन संरुद्धः वशीकृत शक्तिः तथेति
तमनेककालसंरुद्धम् । अत एव तत्र सा मलोपाध्युपहित दृक्क्रिया
शक्त्यानर्थक्रियालक्षणाज्ञत्व कर्तृत्वरूपा ज्ञानेन उषितं वासनीकृतम् ।
अनर्थक्यमात्मानं विवेकात् मलमेकदेश विदार्य सदभिव्यङ्ग्यज्ञानो
ज्ञानोदयात् अर्थज्ञं कुर्वत इति यत् । हे द्विजाः । तदिन्द्रियफलन्नतु
नैय्यायिकादीनामिव वा सदुत्पादनं विकारित्वादि प्रसङ्गात् ।
उपलक्षणञ्चैतत् क्रियोदयात् कर्तारञ्चेति । बुध्यादीनामपि ज्ञत्वकर्तृत्व
व्यञ्जकत्वेनोक्तत्वात् पुनस्संहतफलं किमित्याशङ्कायां पूर्वं
क्रमेणैवार्थेत्यादिना परीक्षितत्वात् । अविक्रमिकमित्याह -

[[६८३]]
मनोऽवधानसंयुक्त चिच्छक्त्युपकृतः पुमान् ।
आलोचयति बाह्यार्थं करणैश्चक्षुरदिभिः ॥

तदा सञ्जायते ज्ञानं विकल्पविधुरं पुरा ।
एवमालोचितेह्यर्थे विकल्पस्यादनन्तरम् ॥

बहुष्वालोचितेष्वेक पदार्थविषयी कृतिः ।
आलोचितस्य मनसा विकल्पः परिपठ्यते ॥

नोचेद्युगपदुत्पत्ति ज्ञानानां केन वार्यते ।
आलोचनन्तु व्यापारचक्षुरादेश्च केवलः ॥

केवले कल्पितेऽर्थेस्मिन् सङ्कल्पो मनसा भवेत् ।
स च पूर्वानु भूत्यानु गुण्याद्धर्मविनिश्चयः ॥

अमीधर्माघटस्यैव नान्यस्येत्यनुसंस्मृतिः ।
[[६८४]]
मनसा स्वीकृतार्थस्य येन ग्राहकसङ्गतिः ॥

अहङ्कारस्समुद्दिष्टस्सोभिमानात्मको मतः ।
सनोचेद्ग्राहकोनात्मा तस्यान्यैश्चाविशेषतः ॥

अहङ्कृदन्तर्भोगार्थस्सर्वत्रापि प्रवर्तकः ।
बुद्धिः प्रवर्तते पश्चाद् विषयाध्यवसायिनी ॥

मनस्सङ्कल्पितस्यैक निष्ठत्वेनानुरोधतः ।
निश्चीयाध्यवसायात्मा बुद्धिरेवैषकेवलः ॥

काकाक्षिवन्मनश्चारो बहिरन्तः प्रवर्तनात् ।
मनस्वीकृत एवार्थे बुध्यहङ्कारयोर्गतिः ॥

आलोचनादि बुध्यन्तैः करणैरर्थनिश्चयः ।

मन इत्यतः पूर्वं रागसहभावेति । चिच्छक्तीत्यतः पूर्वं विद्या विद्या
कलुषितेति चाध्याहार्यम् ।

[[६८५]]
चक्षुरादित्यत्रादिशब्देन बहिःकरणमात्रं विवक्षितम् । ननु विकल्पः
बुद्धिवृत्तिर्हि । सत्यम् । अत एव मनोविकल्पस्य वैषम्यन्दर्शयति ।
बहुष्वित्यादिना विषयीकृतमिति पाठे भावेक्तः । आलोचितस्य भवेक्तः ।
आलोचितस्य मनोधिष्ठितेन्द्रियस्य समुत्थनिर्विकल्पज्ञानचिच्छक्त्यर्थ
क्रियायाः मनसा विकल्प इत्यनुषङ्गः । नो चेत् नयदीदृशमान सविकल्पः ।
ज्ञानानामुत्तरभाविरूपाधिविषय बुध्यध्यवसायलक्षणानाम् । ननु
चक्षुरादीनां भवत्वयं विकल्पः । किं मनसा तन्नेत्याह ।
आलोचनमित्यनेन आलोचन मात्रोप क्षीणा नित्यर्थः केवले कल्पित इत्यतः
पूर्वं बहुष्वालोचितेषु मनसा स्वविकपेनेति भूयोनुषज्यताम् । स च सः
कल्पश्च । [[६८६]] निश्चयः किं बुद्धेरिव नेत्याह । अमीत्यादिना अनुसंस्मृतिः
। स सन्देहमेकाग्रतया विषयीकरणं ग्राहकसङ्गतिः ।
ग्राहकाध्यवसायः । अन्यैर्निर्विकल्पबोधयुक्तैः भोगार्थः भोगहेतुः
मनस्सङ्कल्पितस्य अहमिति स सन्देहं मनोपहितस्यानुरोधतः अवहितग्राहक
मनस्सङ्कल्पानुसारतः । एक निष्ठत्वेन निस्सन्देहमहमित्यहङ्कारवृत्ति
विषयीकृतत्वेन पुनर्मनस्सङ्कल्पितस्य अयमिति स सन्देह मनोपहितस्य ।
अनुरोधतः अमीधर्मा घटस्यैव नान्यस्येत्यवहितग्राह्य
मनस्सङ्कल्पानुसारतः । एक निष्ठत्वेन अयमिति बुद्धिवृत्ति विषयीकृतत्वेन
बुद्धिः ग्राह्यं विषयं निश्चियैष केवलोध्यवसायात्मा एव तदिदं विद्या
परीक्षायां [[६८७]] विविच्य सुविस्तरितमिति तदवलोकनेनात्रार्थविवेकः कर्तव्य
इति अति विस्तरभिरुणानप्रतिपदगमिका विवृत्तिः कृता । बहिरन्तःकरण
प्रेरकत्वादुभयप्रचारं मन इत्याह काकेत्यादिना न स्वीकृते
मनस्सङ्कल्पितेर्थे ग्राह्यग्राहकलक्षणे एतदुक्तं भवति । मनस्सङ्कल्प
विकल्प स्ववृत्तिकमुभयप्रचारि सत् द्विधाधिकारि तच्चित्तमिति ते बहिः प्रचारेण
बहिरिन्द्रियं प्रचोदयति बहिस्त्र्यादिविषयमेकं सङ्गृह्य सङ्कल्पयति । अन्तः
प्रचारेणाहङ्कारबुद्धिलक्षणमन्तःकरणं पुन स्व स्व विषये प्रचोदयति
। बहिस्त्र्यादि विषयाध्यवसायद्वारान्तस्समुत्थबौद्धसुखादिविषयं
विकल्प्य सङ्कल्पबुध्यध्यवसाय सममिश्रितविद्या कलुषित [[६८८]] चिच्छक्तिं
बुध्यहङ्कारचोदन द्वारा विनिवेदयति । पुनश्शिवाशिव रागोपबृंहितं
शुद्धाशुद्धविषयञ्च भवति । तदुक्तं मतङ्गे । द्वेकोटिमनसस्सिद्ध इति ।
आलोचनशब्देन करणव्युत्पत्तिकं चक्षुरादि शब्दितम् अर्थनिश्चयः
प्रोक्तक्रमेण भवतीत्यर्थः । सुखदुःखानुभवादिकं नह्यात्मनः । किन्तु
स्वतोन्तःकरणस्येति । ब्रुवतां मायावादि प्रमुखकुतार्किकाणां
भूमिकया ऋषयः कुविक्लिप्तिं कुर्वन्ति -

यद्यत् ज्ञानं भवेत्सर्वं न तच्छिच्छक्ति सम्भवम् ।
तत् सर्वं बौद्धमेष्टव्यं विनाशित्वेन हेतुना ॥

चिच्छक्तेरविकृति तस्समुत्थज्ञानस्य विनाशानुपपत्तेः यद्यत् ज्ञानं भवेत् ।
तत्सर्वन्नचिच्छक्तिसम्भवम् । [[६८९]] किन्तु ज्ञानमिदं बौद्धं
ज्ञानत्वेसति विनाशित्वात् न यद्बौद्धन्नतत् ज्ञानत्वेसति विनाशि यथा
ब्राह्मं ज्ञानमिति विनाशित्वेन हेतुना बौद्धमेवेष्टव्यम् । इत्थमन्यथा
सिद्धत्वात् । न तु तदिन्द्रिय फलमित्यादि स्फुटोक्तिस्सयुक्तिकेति पूर्वपक्षः ।
ईश्वरः -

तन्नबुद्धेर्जडत्वेन ज्ञानोत्पादकता कुतः ।
अभिव्यञ्जकसम्बन्धात् कादाचित्कतयाचितः ॥

क्षणिकत्वन्तु नित्या या अपि सद्योऽनुभूयते ।
यावद् दीपस्थितस्तावत् पदार्थानां प्रकाशकः ॥

यदुक्तं बौद्धमिति तन्न । बुद्धेर्जडत्वेन पुनस्तदीय सात्विकप्रकाशनस्य
ज्ञानाभिव्यञ्जकत्वेन ज्ञायते । नेन इति ज्ञानमिति
सिद्धकरणव्युत्पत्तिकत्वं सूक्तमिति कुतोत् [[६९०]] ज्ञानोत्पादकता ज्ञायत इति
ज्ञानमिति । सिद्धभाव व्युत्पत्तिकदचिदुत्पादकता न भवति हि । किन्तु
चिच्छक्तेरेव ननु नहि शाक्तञ्चेदिदमनित्यं कथमिदमित्थं
नित्यमनुभूयते । सत्यम् । अभिव्यञ्जकसम्बन्धात् अभिव्यञ्जक
विविधसमुत्पत्ति विलुप्तिकक्षणिकत्वोपलक्षितानित्यत्व प्रथितबौद्धप्रकाश
सम्बन्धात् चितश्शाक्तज्ञप्तेः । कदाचित् क घटः कदाचित् पट इति तद विविक्त
व्यग्यतया भवा कदाचित् कतक्तया कदाचित् क तया नित्यया अपि सद्यः पौर्विकौ
तरिकबौद्धौ प्रकाशश्येष संश्लोषसमनन्तरम् । क्षणिकत्वं
क्षणिकत्वोपलक्षिता नित्यत्वं सदिवानुभूयते । तथा हि । यथा यावत् कालं
दीप स्थितः तत्कालं पदार्थानां घटादीनां तत्
ग्राहकानाञ्चक्षुषां [[६९१]] वा प्रकाशकः व्यञ्जकः । यथा तद् दीपस्य
विलुप्तिः तदा तदभिव्यग्यस्य घटादे स्वरूपसत्वेन स्वतस्सतस्सन्तमसे
सन्निहिते अनभिव्यक्तिः । अभावोक्तिमती । तथाऽत्रापि यावत्कालं बुद्धि वृत्ति
स्थिता तावत्कालं शाक्तज्ञानानां व्यञ्जिका । यदा तद् बुद्धिवृत्तेर्विलुप्तिः
तदा तदभिर्व्यग्यस्य शाक्तस्य स्वरूपसत्वेन स्वतस्सतस्सन्तमसे
मलसञ्ज्ञिते सन्निहिते अनभिव्यक्तिः अभावोक्तिमती ततस्त्व
विशिष्टस्यानुपलम्भस्यान्यथा भूताभि व्यञ्जका भावसिद्धस्य
व्यञ्जकलाभ समनन्तर व्यभिचारित्वात् । न हि तदनुपलब्धिमदर्थाभाव
साध्येत्र हेतुकम् । ननूक्तरीत्या घटोयं
घटोयमित्यक्षणिकायाश्शाक्तधियोस्तु । क्षणिकेनाभूतिः [[६९२]] घटोयं
घटोयमित्यसकृत् समुत्था शाक्तधियः क्षणिकत्वानुभूतिरनुपचरितिमतीव
लक्ष्यते । तदयुक्तमित्याह -

धारावाहिकधीश्चापि क्षणिकेवानुभूयते ।
अभिव्यञ्जकहेतूनां सन्तत्यैव प्रवृत्तितः ॥

अत एव हि भावानां क्षणिकत्वेन संविदः ।
क्षणिकत्वं ब्रुवाणानाम् आशापीडा निवारिता ॥

अभिव्यञ्जकहेतूनां प्रकाशकबौद्धप्रकाशभूत निमित्तानां
सन्तत्यैव धारावाह वृत्यैव प्रवृत्तितः । समुत्थितेः स्वयमनध्यवसाय
लक्षणापि सविक्लिप्तिकसन्तति समुत्थक्षणिकोपलक्षिता नित्यबुद्धि
वृत्युपाध्युपहितेन विकल्पेन धारारूपेण वहतीति धारावाहिका [[६९३]] सा
च धीश्च तथेति सा च धारावाहिकधीश्चापि क्षणिकेवानुभूयते । ततः
क्षणिकेवावभासते । इती दृश विवेक विधुरास्सौगताः प्रतिक्षिप्ता इत्यत आह ।
अत इति अतश्शीघ्र विनाशित्वेन क्षणीका इवाभासनादेव हि भावानां
व्यञ्जकभूत पदार्थानाम् अनित्यत्वोपलक्षयितुः क्षणिकत्वात् । संविदः
गृही तृरूप संवेदनस्य क्षणिकत्वं ब्रुवाणानान्तदुक्तिश्च मृगेन्द्रे ।

चिद्व्यञ्जकस्य कर्मादेः क्षणिकत्वान्मुहुर्मुहुः ।
व्यज्यते जायमाने व क्षणिकेति मता परैरिति ॥

आशा पीडा आशानिमित्त समुत्थचित्तव्याकुलता निवारिता । संविदः
क्षणिकत्वोक्ति निबन्धनत्वेनोक्त वस्तुनां [[६९४]] संविदश्च किमिति न
क्षणिकत्वमिति ऋषयः सौगत भूमिकया शङ्कन्ते ।

सत्वेन क्षणिका भावा नेष्यन्ते किमितीश्वर ।
अर्थक्रिया कारिता हि सत्ता साक्षणिकेषु च ॥

हे ईश्वर । यत् सत् तत् क्षणिकम् । यथा जलधरपटल इति सिद्धव्याप्तिकेन सत्वेन
हेतुना भावास्सत्वसंविदः पदार्थाः किमिति कुतः क्षणिका नेष्यन्ते ।
सत्वं वा किमिति न विचारः क्रियताम् । सत्ताचार्थ क्रियाकारिता सा च
क्षणिकेषु संविदादिषु यदर्थ क्रियाकारि तत् क्षणिकमिति पर्यवसितमिति
भावः । ननु कुतो यन्नियमस्पष्टः इत्यत इत्याहुः -

क्रमाक्रमविभागाभ्यां स्थिरेषु तदयोगतः ।
[[६९५]]
विलम्बकारणायोगात् तथा स्थैर्यक्षतेरपि ॥

अलंस्वतस्समर्थस्य सहकारि शतैरपि ।
अर्थक्रिया करत्वेन क्षणिकत्वं व्यवस्थितम् ॥

स्थिरेष्वक्षणिकेषु क्रमाक्रमविभागाभ्यां क्रमयौगपद्याभ्यान् तद
योगः । अर्थ क्रियानुपपत्तेः तथा हि स्थिरस्य संविदादेः केनचिदनाथे याति
शयत्वेन स्वतस्समर्थस्य विषयवेदनादि नैसर्गिकैक स्वभावस्य सहकारि
शतैरप्यलमिति विलम्बकारणा योगात् विलम्बनिमित्ता भावात् ।
संविदादिपदार्थस्तु कालान्तरनिर्वर्तनीयामर्थक्रियान्तदानीम् एव किन्न
कुर्यात् । यदि दुर्लभसहकारि सन्निधित्वात् तर्हि किञ्चित् करतया
तैराभितातिशयत्वात् स्वभावान्तर [[६९६]] परिणतिमत्वेन स्थैर्यक्षतेः न
क्रमिकार्थक्रियेति । न च युगपदर्थस्य क्रिया चाक्षणिकस्य सत्यान्तस्याम
भूत्वा भाविन्यां युगपदर्थक्रियायां ज्ञानादेः प्रत्यर्थभेदे सति
सद्यस्समुत्थविविधस्वभावान्तरात् अथ यदि नित्या सति सहजसमुत्था
युगपदर्थक्रिया तर्हि कदाचिदपि न विरतिमती स्यात् यदिस्यद् विरतिमती तदा सा
अनित्य स्वभावास्ती विनश्वरीति तद्विरति स्वभावान्तरा योगात् । तथा स्थैर्य
क्षतेरप्यक्षणिकस्य न युगपदर्थक्रिया च न स्याद् इत्यन्यथानुपपत्तिमता
अर्थक्रिया करत्वेन क्षणिकत्वं संविदादेर्व्यवस्थितम् । निश्चितम् । अयं
भावः । पूर्वं पूर्वोऽर्थ क्रियाकर्तृध्वस्तोन्यस्तु [[६९७]] ह्यपूर्वोर्थ
क्रिया कर्ता समुत्पद्यते इति क्षणिकस्य न हि तदनुपपत्तिरिति ईश्वरोत्यन्त कुदृष्टि
क्लिप्ति समुत्थ भ्रान्तिमिमाच्छेत्तुमुपचक्र मे ।

क्षणिकत्वे पदार्थानां कार्यकारणताक्षतिः ।
कार्यं कारणरूपेण भवेत् कारणतां व्रजेत् ॥

वर्तमाना घटत्वेन मृत्पिण्डः कुम्भतां व्रजेत् ।
अतः क्षणद्वयस्थायि कार्योत्पातौ तु कारणम् ॥

तावत् सत्वादि हेतुः स्वपरप्रकाशा क्षणिकात्मन स्वसंवेदन प्रत्यक्ष
सिद्धत्वात् । घटादि कोप्यक्षणिकः समुपलब्ध इति कालात्ययापदिष्ट स्यात् ।
विरुद्धश्चायमक्षणिकेन व्याप्तत्वादसिद्धश्चायं व्याप्तिर्गृहीतृ
प्रमाणा भावात् । ननु अस्या असिध्यादि निरसन [[६९८]] विधाता
विवादाध्यासितं विश्वं क्षणिकम् अक्षणिकत्वेर्थक्रियानुपपत्तेरिति हेतुरस्ति ।
तदयुक्तम् । भवद्भिः क्वचित् किञ्चिदभ्यक्षणिकमनभ्युपगतमिति
सोयञ्चाश्रया सिद्धः सन्तु चाक्षणिकाः पदार्थाः पदार्थानां
क्षणिकत्वे स्वोत्पत्तिलक्षणध्वंसित्वे कारणलक्षण स्वतदुत्तरक्षणिक
स्वकार्ययोः कार्यकारणता क्षतिः । तथा हि सिद्ध सत्कार्य दृशा कार्यं
घटाभिधानः अतीतक्षणिकं सत् अनभिव्यक्तिमदपि सत्कारणरूपेण अतीत
क्षणिकमृत्पिण्डा कृत्या भवत्कारणता मृत्वं व्रजेत् । मृत्पिण्डः
कारणक्लिप्तिमान् ॥॥॥॥॥॥॥॥॥ न क्षणिकस्सन् पुनरपि व्यक्तिमानपि सन्वर्तमान
घटत्वेन वर्तमानक्षणिक [[६९९]] कार्यरूपेण भवन् कुम्भतां
कार्यतां व्रजेत् । अतः कारणकाले कार्यस्य कार्यकालेस्ति कारणस्यास्तित्वात्
कारणं कार्योत्पत्तौ तु न क्षणिकम् । किन्तु क्षणद्वय स्थायी । ननु
कार्यक्षणे तदात्मना कारणास्तित्व क्लिप्तिः किमर्था समैकक्षणमात्र
स्थित्या जन्यजनकं भवतु । तदयुक्तमित्याह -

तयोरर्थान्तरत्वेन तदुत्पत्तौ तु कारणम् ।
अन्यथा समकालोपि भावः कस्मान्नकारणम् ॥

द्वयोरर्थान्तरत्वेन कालभेदः कथं तयोः ।

तयोः कार्यकारणयोः तदुत्पत्तौ जन्य शक्त्यात्मकारणस्य कार्यक्षण
समभिव्यक्ता असत्कार्यवादिनामप्यवर्जनीयं समनय सिद्धं
सान्तरत्वं [[७००]] वाच्यम् । नहि तत्रानन्यतरा भावान्तरत्वेन भवत्विति ।
कार्यभावान्तरत्वेन कारणं कार्यसक्तानवच्छिन्नस्य कारणत्वा योगात् ।
नहि कारणा भावान्तरत्वेन च कारणमिदमस्मादुत्पन्नमिति
बुध्यगोचरत्वात् । असतोनुपादानत्वाच्च । कित्वर्थेन अतीतक्षणसदनभिव्यक्त
कार्यात्मकं कारणं वर्तमानक्षणसदभिव्यक्त कारणात्मकं
कार्यमिति स्वसद्भावेन । अन्तरं पौर्वा पर्याद्यतुल्य स्व स्वलक्षण विवेकः
तत्वेनार्थान्तरत्वेन कारणम् । अन्यथा यदि नैरन्तर्येण तर्हि व्यक्त्यात्मकं
कारणकालीनं कार्यमस्तीति समकालो विभावः घटादिकः स्वं
प्रतिकस्मान्नकारणम् । नैरन्तर्ये अनन्यथात्व [[७०१]] अन्यथा त्व
स्थितित्वान्नकार्यसिद्धिरिति कार्यत्वेन विवक्षितस्यैक्य नित्यत्व सिद्धिरिति भावः ।
फलितमाह । द्वयोः कारण कार्ययोः उक्तरीत्या अर्थान्तरत्वे क्षणद्वय
स्थायित्व सिद्धे सति तयोः कालभेदः अतीतं कारणक्षणं वर्तमानं
कार्यक्षणमिति लक्षणः कथन्नसुलभ इत्यर्थः । यदुक्तं
क्षणिकस्थार्थक्रियानुपपत्तिरिति । तत्र समाधिं कर्तुमारभते -

कारणस्य कुतस्त्योवा विशेषस्सहकारितः ।
कुतो वा घटनिष्पत्तिस्तन्तुभ्यो न भवेद्विजाः ॥

कार्यकारण भावेऽत स्थिरेष्वेव व्यवस्थितः ।

कारणस्य मृत्संविदादेः सहकारितः । दण्डेन्द्रियादेर्विशेषः ।
पूर्वस्वभावोपमर्दने न कश्चित् समुत्थातिशयः [[७०२]] कुतस्त्यः
किन्निमित्तं भवः । सविशेषत्व शक्त्युपमर्दनेन समुत्था स्वार्थक्रिया
निर्वर्तनक्षमशक्तिरित्यर्थक्रियार्थमिति चेत्तर्हि
सहकारिभिस्सद्यस्समुत्थापितस्सविशेष इति मृदां किं विशिष्टत्वमिति
कुतस्तन्तुभ्यो घटनिष्पत्तिर्न भवेत् । अतस्सहकारिणां सहकृतिमात्रन्न
स्वभावान्तराधानेन परस्परोपकृतिरिति तैरजाहितान्ति शयत्वात् स्थिरेष्वेव
कार्यकारणभावो व्यवस्थितः । न क्षणिकत्वे विवक्षितेषु तर्हि अर्थक्रिया कृति
विलम्बः कथमित्यत आह -

अर्थक्रिया करत्वञ्च स्थायिनां क्रमशस्थितम् ।
समर्थस्य सदाकार्य करत्वनियमो न च

[[७०३]]
अर्थक्रिया करत्वञ्च स्थायिनामक्षणिकानां क्रमशस्थितम् ।
समर्थस्य सहकारिभिरनाधेयतिशयस्य न सदाकार्यकरत्व नियमः
सहकारि सन्निधौ क्रमयौगपद्याभ्यां तदनाहित कार्यकरणनैसर्गिकैक
विशिष्ट स्वभावस्स-इत्युपगमात् । तदेव निदर्शयति -

अग्निर्दाहसमर्थोपि स्फोटेऽङ्गुलिमपेक्षते ।
क्रमाक्रमविकल्पाभ्यां दूराशाक्षणिकत्वधीः ॥

अग्निर्दाहसमर्थोपि दाहप्रकाशनैसर्गिकैकस्वभावोपि स्फोटे
स्वनिवर्तनीयार्थक्रियालक्षणदाहे दाह्यमङ्गुलिन्तादृशप्रकाशे च
प्रकाश्यं घटादिकं चापेक्षते । न युगपच्चार्थक्रिया विरोधः
दाहप्रकाशैरूपैकशक्तिकस्य दीपस्य वर्तिदाहतै लक्षण [[७०४]]
सर्वैकग्रहपदार्थज्ञापनाद्यर्थक्रिया युगपन्निर्वर्तन दर्शनात् क्रमेण
च दृश्यते वर्तितैलांश दाहक्षपणग्रहान्तरपदार्थ
ज्ञापनाद्यर्थक्रिया तथा संविदस्सहकारि सन्निधौ तदनाहित तद्विशिष्ट
नैसर्गिकैक ज्ञानक्रियारूप स्वभाव सिद्धेः क्रिमिकैकयुगपदनेक ज्ञेय
कार्यविषय ज्ञानक्रियात्म स्वार्थक्रिया निर्वर्तनमुपपद्यते । तथा हि सहि
देवदत्तस्तम्भकुम्भादीन् क्रमेण च युगपच्च क्रियानन्य
ज्ञानार्थक्रियस्सम्पश्यति । ज्ञानानन्यक्रियार्थक्रियः पुनः क्रमिकस्नान
पूज-लवन-पचन-पात्रोपयोजन-भोजन-क्षालनादिकान् यागपद्यभारवहन
गमनतृणस्पर्शन भुजविक्षेपण भक्षण [[७०५]] कथा कथनादिकांश्च
करोति । ततः क्रमाक्रम विकल्पाभ्यां या क्षणिकत्वधीस्सा दुराशा
दुःखेनाप्यभिलषितुमयोग्याः पुनः क्षणिकत्वे क्षतिरस्यापीत्याह -

किञ्च प्रागनुभूता या धीस्सेयमुपजायते ।
क्षणिकत्वे कुतस्तस्याः प्रत्यभिज्ञा हि जायते ॥

बाल्ये इदानीमीदृक् पितृकोहमिति याधीः प्रागनुभूता पुरा विषय
सन्निविष्टया स्वसंविदि प्रतिभासीभूता सा हि सार्धक्ये तदा तादृक्
पितृकोहम् इदानीमीदृङ्नवक्तोहमिति इयं प्रत्यभिज्ञा भुन्त्वोपजायते ।
तस्याः प्रागनुभूता याधियः क्षणिकत्वे निर्हेतुकेति ।
पुनर्देवदत्तानुभूतन्न पुत्रस्मरतीति च कुतः प्रत्यभिज्ञा हि जायते । ननु
स्थिरात्म वादिभिरनुभव [[७०६]] स्मरणयोर्भेदोप्यभ्युपगतः । सत्यम् ।
तदभ्युपगति इतिरभिव्यञ्जकबुद्धिप्रकाशापेक्षयेति
वस्तुतस्त्वनुभवितृसमत्र तद्रूपतच्छिच्छक्तिबुद्धिप्रत्युपब्रंहित सहजत
वृत्तिलक्षणानुभूति स्मृतयो नभिद्यन्ते । अव्यतिरिक्ता ज्ञेया इति
क्षणिकत्वमभ्युपगम्यापि ब्रूम इत्याह -

क्षणिकत्वं पदार्थानाम् अथवास्तु जडात्मनाम् ।
कारणत्रयमात्रं यत् सर्वकार्येषुकल्पते ॥

बिन्द्वादयोपि ये भावास्समानपरिणामिनः ।

अथवा यद् वा जडात्मनां पदार्थानां क्षणिकतमस्तु तदपि नहि
त्वदभिमतं कार्यकारणता क्षतिकरं क्षणिकत्वम् । किन्तु यत् क्षणिकत्वं
सर्वकार्येषु कार्यकारणता [[७०७]] क्षतीत्युक्तदोषविहितये श्रीमतङ्गादौ -

निमित्तकारणन्त्वीशोह्युपादानन्तु शक्तयः ।
समवायि तथा माया कार्यमेतत् जगत् सदेति ॥

उक्तप्रकारेणेशादि लक्षणं निमित्तम् । उपादीयतेनेनेस्मिन्नित्युपादानशब्द
शब्दित मायादि लक्षणं समवायि उपादीयते नेनेत्यत्युपादानशब्द शब्दित
शक्त्यादिलक्षणं शुद्धाध्वन्यधिकारकमलेश्वर सेवात्मकं
कर्मादिलक्षणम् अशुद्धाध्वन्याणवमलाश्व मेयादि कर्मादि
लक्षणञ्च सहकारीति तदीदृक्त्वा व च्छिन्नं कारणत्रयमात्रं कल्पते
साधयति । तद्धिक्षणिकत्वमस्तीत्युक्तं स्वनुरूपमनित्यत्वमिति पर्यवसितमिति
यावत् अत एव हि विद्युदादौ विद्यमानं क्षणिकत्वमपि [[७०८]] कारणं
कल्पते । विद्युदपि हि पुन स्वकार्यं रूपोपलब्धि व्यक्ति प्रमृतिं करोति । ननु
नैय्यायिकैः क्लिप्तं पृथगसमवायि कारणं भवद्भिस्तथा तत् क्लिप्ति
कलितं किन्नक्रियते । सत्यम् । समवायिकारणमप्यस्माकन्नद्रव्यम् । किन्तु
तच्छक्तिरिति वक्ष्यमाणत्वात् । असमवायिकरणस्य समवायिकारणं प्रतीको
विशेषः । तस्य कान्यथानुपपत्ति सिद्धिर्वेति किमर्था क्लिप्तिः । ननु जडेति
साधारणोक्ति समुत्था तत्र नास्ति किन्नित्यं वस्त्वस्तीति परिहरति । नित्या ये
भावाः पदार्थाः बिन्द्वादयो हि बिन्दुमलमायाख्या अपि
समानपरिणामिनः समानेन साधारणेन सर्वात्मना विनैकदेशेन
परिणामिनः कारणस्वभावाच्चलन्तः कार्यात्मका स्थिताः । मलस्तु
स्वशक्तिद्वारा वारकत्व [[७०९]] स्वरूप सत्वान्यथा त्व लक्षण
निवृत्यात्मना परिणमते । एवञ्जडवस्तूनां स्वस्वानुरूपं प्रकारान्तर
प्रक्लिप्तिमत् क्षणिकत्वमस्तीति तदुपाधिकलितं क्षणिकत्वं ज्ञानस्य न स्वत
इत्युक्त्वोपसंहरति -

ज्ञानमेव स्थिरन्नित्यं जडवर्गस्य दीपकम् ।
तस्य क्षणिकता ज्ञेया वस्तूनां क्षणिकत्वतः ॥

स्पष्टः नैरात्म्यं ब्रुवत् सुसनगतेषु ऋषयः ।

पुनशून्य वादिकयाक्षिपन्ति -

सत्सु बाह्येषु भावेषु धियस्थैर्यं भवेदपि ।
असत्सूपाध्यभेदेन धियः क्षणिकता स्वतः ॥

बाह्येषु भावेष सत्सु धियोपि ज्ञानस्यापि प्रोक्तरीत्या स्थैर्यं भवेत् ।
ज्ञानस्य उपाद्यभेदेन स्वोपाधिभूत [[७१०]] पदार्थाभिदया
पदार्थेष्वसत्सुधियः । क्षणिकता नह्युपाधिकीः किन्तु स्वतः नैसर्गिकतया
सिद्धा । कथं भिदेत्यत आहुः -

बुद्धिरेव हि बाह्यार्थ रूपेण प्रतिभासते ।
भेदोपलम्भा भावाच्च सहैव प्रतिभासनात् ॥

विषयत्वञ्च न ज्ञानाद्युज्यतेऽर्थान्तरस्य तु ।
अर्थान्तरत्वे तत् ज्ञानं कथन्तस्य भवेदिह ॥

बुद्धिरेव हि संविदेव किल बाह्यार्थरूपेणा प्रतिभासते । ननु नहि संवित्
नीलाद्यर्थरूपेण प्रतिभासते । किन्तु तद्विलक्षण नीलादि ज्ञानरूपेण
प्रतिभासते । तदुक्तं सहैव प्रतिभासनात् । भेदोपलम्भाभावाच्च ।
ज्ञानात् संविदि समुत्थनीलादि वेदनात् । अर्थो न वस्तुना [[७११]] अन्तरं
विविक्ततया यस्य तत् तथेति तस्यार्थान्तरस्य नीलादेर्न विषयत्वम् ।
नीलज्ञानमेव नीलमिति यावत् । तदुक्तं सहोपलम्भनीयमाद भेदोनील
तद्धियोः भेदश्च भ्रान्तिविज्ञानैर्दृश्यते दा विवाद्वय इति । (नीलादि) नीलादि
ज्ञानानां मध्ये तस्य नीलादि विषयस्यार्थान्तरत्वे संविदितर
सन्निविष्टत्वे तत् ज्ञानन्नीलाद्यर्थान्तरं नीलादि ज्ञानन्तदपि संविदितरत्
स्यादिति । इह संविदि कथन्तद्रूपेण भवेत् । नहीति समुदाहरति ।

यदन्यस्य स्वरूपन्तु कथमन्यस्य सम्भवेत् ।
नहि कुम्भगतं रूपं भवेद्रूपं पटस्य च ॥

स्पष्टः । उपसंहरति -

ततस्संविदि यद्रूपं संविदो रूपमेव तत् ।
[[७१२]]
न संविद्रूपयोर्भेदो विषयज्ञानयोर्वद ॥

ततः उक्तरीतेः संविदि यद्रूपं विषयविषयि द्वयाद्वयं भुत्वा समुत्थं
प्रतिभासते । तत् संविदोरूपं नान्यत् । तदुक्तम् । अन्यश्चेत् संविदेनीलं न तत्
भासेत संविदीति । एवमाकारभेदानुपलम्भाद् विषयज्ञानयोस्
संविद्रूपयोर्न भेदः बदसोस्तिचेत् ब्रूहि इति पूर्वपक्षः । ईश्वरः -

तदसत् संविदर्थेन भिद्यते न तयापि सः ।
तद् भेदको न चेदर्थस्संविद्भेदः कथं भवेत् ॥

यदुक्तन्न भेद इति तदसत् । संविद्विविधकुसुमोपाध्यनुवर्तनेन सूत्रमिव
अर्थेन विविधनीलाद्युपाध्यनुवर्तनेन भिद्यते । भिदावतीवोपचर्यते । सोर्थः
संविद्विविधकुसुमोपाद्यनुवर्तनेन सूत्रमिव [[७१३]] अर्थेन विविध
नीलाद्युपाध्यनुवर्तनेनभिद्यते । भीदावतीवोपचर्यते । सोर्थः संविद्विविध
नीलाद्याकारस्थितिमतीति तदव्यतिरिक्त विविधभिदावानिति मतिभ्रान्तेः
प्रत्यक्षोन्मूलनात् अनुवर्तनीय त्वाच्च तया संविदा न भिद्यते ।
तदित्यादिस्पष्टः । ननुमास्त्वनुवर्तनेन किन्तु स्वदोभिदा भवतु
तदयुक्तमित्याह -

भवेन्नहि स्वतो भेद एकस्याघटसंविदः ।
भेदानन्त्य प्रसङ्गेन भेदकोऽर्थोधियो मतः ॥

स्वतो भेदो नहि भवेत् कुतोयन् नियम स्पष्टः । एकस्या घटसंविदः । अयं
घट इति एक क्षणिकैकघटरूप स्थितिमत्याः तत् क्षणे क्वस्थीयमान
इत्यविचिन्त्य [[७१४]] तदितर घटपटशकटलक्षणे नापि तस्या स्थितिरविहतिमतीति
भेदानन्त्यप्रसङ्गेन ततोर्थोधियो भेदको मतः ज्ञानन्तु व्यवस्थापकं
सत् प्रतितन्नहि स्वस्य स्वयं व्यवस्थापकं स्वात्मनि क्रियाविरोधात्
व्यवस्थाप्यस्सन् व्यतिरिक्त प्रतितोर्थस्सिद्धः तेनोपाधिभूतेनेदं भिद्यन्ते ।
निदर्शनेनेदमेव स्पष्टयति ।

किञ्चैकस्य पदार्थस्य नानारूपपरिग्रहः ।
उपाधिमन्तरान्यासात् संविदस्फटिकस्य च ॥

स्पष्टः । उपसंहरति -

ततोऽर्थक्षणिकत्वेन क्षणिकत्वन्नसंविदः ।
प्रसङ्गानु प्रसङ्गेन बौद्धवादोपि वर्णितः ॥

[[७१५]]
स्पष्टः । प्रकृतान्तन्मात्र परीक्षामनुसृत्य तानि कार्यद्वारा
साधयति -

तन्मात्राण्यपि वर्ण्यन्ते क्रमात् प्राप्तानि सम्प्रति ।
बाह्येन्द्रियपरिच्छेद्य गुणत्वाद्भूतसंहरतिः ॥

प्रत्यक्षत्वेऽस्मदादीनां स्थिता कारणपूर्विका ।
यत् तत्र कारणं विप्रास्सा तु तन्मात्रसंहरतिः ॥

भूतसंहरतिः कारणपूर्विका स्थिता प्रतिज्ञा अस्मदादीनां प्रत्यक्षत्वे
बाह्ये त्यनुषज्य हेतु ज्ञेयः । इतोपि तन्मात्रसिद्धिरित्याह -

विशेषवत्वा च्छब्दादेस्ते च सामान्यपूर्विकाः ।
यत् तत्रापि च सामान्यं तन्मात्रमिति भावयेत् ॥

आकाशादि भूतगुणभूतस्य शब्दादेः विशेषवत्वात् । [[७१६]] व्यक्तिमत्वात्
ते च शब्दादयः सामान्यपूर्विकाः । अनभिव्यक्तगुणकारणकाः । तत्रापि
तद्विशेषसिद्धौ यत् सामान्यम् अनभिव्यक्तन्तत्तावन्मात्रं
शब्दादिमात्रमिति अथवा तावन्मात्रं भूतप्रकृति रूपमात्रमिति ।
सम्यव्युत्पत्तिकन्तन्मात्रमिति भावयेत् । तावन् मात्रक्रमं समुद्धरति -

एकद्वित्रिचतुष्पञ्च गुणास्तन्मात्रसंहरतिः ।
अत एव हि भूतानाम् अभिप्रायो गुणैः क्रमात् ॥

स्थैल्य सौक्ष्म्यकृतो भेदो भूततन्मात्रयोरिह ।

अनभिव्यक्त शब्दगुणतन्मात्रं शब्दतन्मात्रम् । अनभिव्यक्त
शब्दस्पर्शगुणमात्रं स्पर्शतन्मात्रम् । अनभिव्यक्त
शब्दस्पर्शधर्मरूपमात्रं रूपतन्मात्रम् । अनभिव्यक्त
शब्दस्पर्शरूपगुणमात्रं रसतन्मात्रम् अनभिव्यक्त [[७१७]]
शब्दस्पर्शरूपरसगन्धगुणमात्रं गन्धतन्मात्रम् । अत एव हि कारण
गुणानु विधायिनः । कार्यगुणा इति न्याया सिद्धिभूतानामाकाशमारभ्य
क्रमात् गुणैरभिव्यक्तशब्दादिभिरभिप्रायो गुणना अभियोगो गुणैरिति
पाठान्तरं समगुणत्वे पीत्वध्याशृत्य स्थौल्येत्यनुषज्यमानेर्थस्सुकरः
। तदुक्तं मतङ्गे । तन्मात्राणि अहकटवं माहभूतानि लेपपदिति ।
सूक्ष्मत्वञ्च कार्यद्वारानुमितमिति भावः । सोचितभूतादेरिव
अस्मदाद्यप्रत्यक्षत्वात् तदेतत् तन्मात्रभूतसंहतेः कार्य शब्दशब्दिताया
स्वार्थक्रिया चक्षुरादि करणधरणमिति प्रथितम् ।
गुणगुणिनोराधाराधेयत्वाक्लिप्ति कर्तृभूत मायादि भूमिकया
ऋषयश्चोदयन्ति -

[[७१८]]
शब्दादिमात्रन्तन्मात्रमित्युक्तञ्च निराश्रयम् ।
शब्दादीनां गुणत्वेन कुतोऽस्य गुणिहेतुता ॥

स्पष्टः । ईश्वरः । गुणाश्रयत्वं न गुणित्वं किन्त्वस्माकं सौगतानामिव
सङ्गतगुणात्मत्वमेव । तन्मातेपि तदस्तिहीति परिहरति -

न गुणीकश्चिदर्थोस्ति जडो गुणसमाश्रयः ।
गुणा एवानुभूयन्ते गुणिसञ्ज्ञाश्च सङ्गताः ॥

सङ्गतास्सन्ते गुणिसञ्ज्ञाश्चस्युरिशेषः । गुणेतरवस्तु क्वापि किमपि नहीति
स्पष्टयति -

विश्वं गुणात्मकं शान्तघोरमूढात्मकं यतः ।
तथा प्रवृत्तिनियम प्रकाशार्थत्व हेतुना ॥

मोह दुःखसुखात्मत्वादपि नार्थान्तरन्ततः ।

[[७१९]]
यतः विश्वं शान्तं सत्वमयम् । घोरं रजोमयं मूढात्मकं
तमोमयम् । ततः तथा प्रवृत्तिनियम प्रकाशार्थत्वहेतुना उक्तप्रकारेण
राजसप्रयत्न तामसनिरोध सात्विकज्ञाननिमित्तत्व हेतुनापि तथा
सात्विकाद्यात्मत्व लक्षणमोहदुःखसुखात्मत्वादपि गुणात्मकं
नार्थान्तरम् । षडङ्गुलियं स्वादु रसा सुगन्धासु कर्कशब्दा
स्पर्शसुमर्मरशब्दा स्वापि रूपिणीत्थे कोहि गुणेतरो गुणिगृह्यते स तु
व्यतिरिक्ते सति हि कथं न स्यादिति ऋषय यस्त्वोक्तिं पुनस्सुसमुद्धरन्ति ।

दर्श स्पर्शनाभ्यान्तु नन्वेको विषयी कृतः ।
पदार्थस्तत् कथन् नस्याद् गुणीकश्चित् ततोऽपरः ॥

उपलक्षणञ्चैतत् श्रोत्रादीनां स्पष्टः । ईश्वरः । [[७२०]] परिहरति -

तदसच्चक्षुरादीनां रूपादिग्रहणं स्थितम् ।
तत् कथन्तैस्ततोन्यस्य वस्तुनो युज्यते ग्रहः ॥

पूर्वार्धार्थ स्पष्टः तत् तस्मात् तैश्चक्षुरादिभिः ततः चक्षुर्ग्राह्य
वर्णरूपचक्षुत्वगिन्द्रियग्राह्य संस्थानरूप द्विरूपादि गुणतः । अन्यस्य
व्यतिरिक्तस्य वस्तुनो गुणिनः ग्रहः ग्रहणं कथं युज्यते । ननु कथन्तर्हि
स्वादुरस्वति षट्गुलीति सत्यम् । वनं सुखतीरमितिवत् विशिष्टैक देशे
प्रतिपादनमिति न किञ्चिदसमञ्जसम् । ननु भूयग्रहोस्तिहि नेत्याह -

इन्द्रियं ग्राहकं वस्तु गुणयोरिह चेन्मतिः ।
तन्नरूपैकनिष्ठत्वाच्चक्षुस्तैजसमिन्द्रियम् ॥

[[७२१]]
इत्यादि वदतश्चक्षुरध्यात्मं हि प्रसज्यते ।

आश्रयाश्रयित्वेन इन्द्रियं वस्तु गुणयोर्ग्राहकमिति मतिश्चेत् । तन्न । तदुक्तम् ।
चक्षुरिन्द्रियन्तेजसं रूपैकनिष्टत्वात् । रूपगुणमात्र ग्राहकात् इत्यादि
वदतः इति प्रमुख व्याप्तिमद्धेतु व्यवहारतः । भवतः नैय्यायिक स
भूमिकस्य व्या॥॥॥॥।वृत्या चक्षुस्वेष्ट स्वीकृति । विहति विधातृ सदधि भूता
परनामविषयरूपगुणान्वयित्वं विना अध्यात्मं हि विषयि हि अहमित्यात्म
विषयीभूताहङ्कारगुणान्वयि हि प्रसज्यते । अभ्युपगम्यापि पुनरागतिः
क्रियतेत्याह -

यद् वा भवतु तद्रव्यं प्रकाशादि क्रियाकरम् ।
यदिस्यान्नगुणेभ्योन्यन्नोचेत्तद्वस्तु कीदृशम् ॥

[[७२२]]
वैचित्र्यात्परिणामस्य गुणा एव गुणोगुणी ।

यद् वा गुणव्यतिरिक्तं भवतु तत् गुणेतरद्रव्यं प्रकाशप्रवृत्ति
नियमार्थक्रिया कर्तृ वा न वा । तत्र यदि प्रकाशादि क्रियाकं स्यात् न
गुणेभ्योन्यत् नोचेत् नयति प्रकाशादि त्रिक्रिया कर्तृ तद्वस्तु कीदृशम् ।
निष्प्रमाणं शशविषाणतुल्यम् । तुच्छमित्यर्थः । अतस्सत्वादिको गुण एव
स्वकीयस्य परिमाणस्य वैचित्र्यात् गुणः । भाव प्रत्ययादि रूपः गुणी तत्
तदर्थक्रियोचित स्वपरिणामगुणरूपेण सङ्गत्य बुध्यादि रूपश्च ऋषयः ।
पुनः गुण एव गुणोगुणीत्युक्तमस्तु । तन्मात्राणान्तु एकद्वित्रीत्यादिना स्व
स्वामित्वे ॥॥। गुणवतीत्युक्तम् । कथं गुणाव्यतिरिक्तत्वे स्व
स्वामित्वमित्याक्षिपन्ति । [[७२३]]

शब्दादि गुणवन्तीह तन्मात्राण्युदितानि हि ।
किन्ते शब्दादयो भिन्ना स्वाश्रयेभ्यो न वा वद ॥

स्पष्टः । ईश्वरस्तु विशिष्टैकदेशमात्र विवक्षोपचरितं स्वस्वामित्वमित्याह -

तत् तद्गुणा विभागस्तु क्रमात् तन्मात्रपञ्चकम् ।
शब्दादेरविभागो यो गन्धतन्मात्रमीरितम् ॥

रसान्तरस्याविभागोऽन्यद्रूपान्तस्यान्यदिष्यते ।
स्पर्शान्तस्या परन्तीव्रं शब्दादेश्शब्दमात्रकम् ॥

अविभागोनभिव्यक्तिस्सती अन्यतिरिक्तिः । गन्धतन्मात्रादि शब्दशब्दिता ।
स्पर्शगन्धतन्मात्रादि क्रमिकाशब्दमारभ्य गन्धान्ता रसान्ता रूपान्ता
स्पर्शान्ता [[७२४]] तीव्रादि शब्दा समीरिता । पदक्रमेणानुसन्धेया । ननु
शब्दोपरिगुणा न सन्ति । ततः कथमेकस्य सङ्गतिः । सत्यम् । अत एव सूत्रकृता
तीर्वशब्दादेरित्युक्तम् । अतस्सगुणिगुणरूपी । न हि तद्व्यतिरिक्त इत्याह -

अनेन हि प्रकारेण गुणसङ्गस्समीरितः ।
आश्रयाश्रयि भावोऽतस्तन्मात्रगुणयोर्न च ॥

स्पष्टः ऋषयस्तार्किकया भूमिकया तन्मात्रसाधनकार्यहेतोरनन्यथा
सिद्धिं समुत्क्षिपन्ति -

पृथ्व्यादिकारणत्वेन प्रोक्ता तन्मात्रसंहतिः ।
परिमाणविवक्षातः परमाणुः कथन्न वा ॥

परिमाण विवक्षातः समदृष्टित्वात् परमाणुरेवो भयवादि सिद्धो
जगत्कारणं भवतु किं सिद्धया तन्मात्र [[७२५]] सङ्गत्ये इत्यर्थः ।
ईश्वरः परिहरति ।

कारणं जगतो नाणुर्विभुक्त्वात् घटादिवत् ।
सतिमृत्वेयवियान्यः पार्थिवस्सघटो यथा ॥

य वियान् परमाणुश्च तस्माद्भौतिक इष्यताम् । अणुर्जगतो न कारं
(कारणं) अविभुक्त्वात् मूर्तत्वात् घटादिवत् । किञ्च भूतकारणत्वे नोक्तः ।
प्रत्युत भूतकार्य भवतीत्याह । पृथिवी कारणत्वेन भवदभिमतः
परमाणुं पार्थिवः प्रतिज्ञासति मृत्वेयवीयसत्वात् हेतुः यस्सति मृत्वेय
वीर्यान् कनिष्ठपरिमितिमान् स पार्थिवः यथा घटः दृष्टान्तः
परमाणुश्च यवीयान् उपनयः । अस्मात् पार्थिव इति भौतिक इष्यताम् ।
निगमनं ननु कालात्ययापदिष्टोयं हेतुः ये हेतो प्रयोगकालः [[७२६]]
तमतीत्या॥।डिष्टो यतः । अस्मदागमसिद्धान् परमाणून् पक्षधर्मित्वेन
कुर्वतः । कस्याप्यसमदागमपरमाणु सिध्य विलम्बसिद्धि
मत्तन्नित्यत्वाद्युभ्युपगमोवश्यं भावीतिह्यस्मदागमेन भावितं
भवतस्साध्यमपार्थिवत्वा नित्यत्वादि कर्म तदयुक्तम् ।
परमाणूनामस्मदागमे अध्व प्रमाण श्रुतिभिस्सुसिद्धत्वात् ।
युष्मदागमाभ्युपगमा सिद्धेः तदुक्तं श्रीमत्स्वतन्त्रे ।

अष्टानां परमाणूनां समवायो यदा भवेत् ।
त्रिसरेणुस्तदाख्यातस्तत् पद्मरज उच्यते ॥

इति परमाणुषु । धर्मिषु आवयोरागमसिद्धे ष्वनित्यत्वञ्च नित्यत्वञ्च
साधयतोरस्मदागम युष्मदागमयोर्नहेतुरस्मदीयो युष्मदीयो वा
कालात्ययापदिष्टश्शक्यः [[७२७]] प्रतिपादयितुं तत्र पुनतरागमसिद्धे तु
धर्मिणि स दोष स्थित एव । न च परमाणूनामागम सिद्धत्व मे॥॥॥ंआनेन
भवद्भिस्साधितत्वात् जलपरमाण्वादौचाप्यत्वादौ साध्ये । अपरत्वादिक्ये
सति इति हेत्वनुप्रयोगः स कारणत्वं साधयन्तं कार्यत्व हेतुं साध्यं
कृत्वा तत् सिद्धौ हेत्वन्तरं प्रयुनक्ति -

ये मूर्ता ये च विश्लिष्टा मूर्तात् कुम्भादि वस्तुनः ।
ते कार्याण्येव दृश्यन्ते ग्रीवाद्यवयवा यथा ॥

परमाणवः कार्याणि मूर्तत्वात् मूर्ताद्विश्लिष्टत्वाच्च ये मूर्ता ये च
मूर्ताद्विश्लिष्टा ध्वस्ते । तस्मिन् शिथिलीभूतास्ते कार्याण्येव दृश्यते । यथा
मूर्तात् कुम्भादि वस्तुनः स्वस्ते तस्मिन् ग्रीवाद्यवयवाः तथावैते [[७२८]]
परमाणवोपि दग्धेग्निना सतीन्धने मूर्ते पार्थिव
परमाण्वादिभिसुनीरन्ध्रीकृतेः । ततस्त्रिसरेणुरूपेण पुनस्वरूपेण च
विशिष्टास्समुत्पतन्ति । तस्मात् ते तथेत्यन्तिमम् अध्याहृत्यनिगमनं ज्ञेयम् ।
ननु मूर्तत्वेपि विश्लिष्टत्वेपि निरवयवत्वान्नकार्याणीत्याशङ्क्य कार्यत्व
साधन सिध्यर्थ सा वयवान् साधयति ।

किञ्चाणवस्सा वयवाः परेषां स्थिति दर्शनात् ।
नहि धर्मस्थितिर्दृष्टाऽदृष्टे धर्मिणि कुत्रचित् ॥

तन्नावयवमात्राणोर्न हि युक्ता कदाचन ।

किञ्च इतोपि तावत् कार्यत्वं सिध्यति । परमाणवस्सा वयवाः परेषां
स्वेतरपदार्थानां मध्ये स्थिति दर्शनात् ॥॥॥॥। य यत्व दृष्टे
निरवयवाणां तेषामायेयत्वस्य [[७२९]] पूर्वमेवाश्रयाश्रयिभावो
तस्तन्मात्रगुणयोर्नचेति निषिद्धत्व॥॥। चिद्दृष्टे असिद्धे धर्मिणी धर्मस्थितिः
परं प्रत्यवयवन्मात्रा स्व निरवयस्थितिः । न हि दृष्टाः तत् त समां न
स्थिरवयवन्मात्रा तदिति पुनरत्र ॥॥॥।ऽ धृत्यानुषज्यमिति तस्मात्
कदाचनाणोर्निरवयवयोगिता सतीद्व्यणुकादि कारणत्वेन अवयवमात्रा
स्थितिर्नीतिज्ञोक्ता नयुक्ता हि अपित्वित्यत आह -

स्थिर्या परमाणूनां सूक्ष्मावयवयोगिता ।
साधयेत् तादृशानान्तु कार्यत्वं घटवत् स्थितम् ॥

परमाणूनां या स्थितिः सूक्ष्मत्वावयवयोगिता । सा तु तादृशानां
स्वतस्सिद्ध सावयवानां घटवत् स्थितं [[७३०]] कार्यत्वं साधयेत् ।
ऋषयः अनुमानेन कालात्यया पदिष्टताम् असञ्जयन्ति -

वनुधर्मिपरिच्छेदमानेन परमाणवः ।
विगता वयवा एव तत् कथं कथ्यतेऽन्यथा ॥

परमाणवः धर्मि परिच्छेदमानेन त्वदभिमता वयववित्व साध्य
धर्मिरूपपरमाणु साधनानुमानेन द्व्यणुकन्निरवयव
द्रव्यारब्धमहं मध्यमपरिमाणविधुरत्वे सति कार्यत्वाद् इत्यस्मत्
प्रयुक्तिमता विगतावयवा विगतत्वदभिमत सा वयवत्वादि साध्य धर्मिण
एव कथं भवतान्यथा कथ्यते । ईश्वरः ।

तन्न पूर्वादि दिग्भागैस्संयोगाद्देश भेदतः ।
सांशत्वं परमाणूनां प्रसक्तं केन वार्यते ॥

[[७३१]]
तन्न । भवद्भिर्यदुक्तं तमयक्तनैह्यस्मत् प्रयुक्त प्रयुज्यमानाना
मनुमानानामुपजीवकत्वन्ततः कालात्ययापदिष्टता च युष्मद्धर्मि
परिच्छेदमानप्रयोगकालात् । रागे वा गमानेनास्मि(स्म)दीयेन सांसत्वादि
साध्यधमिणः परमाणुस्सिद्धिरस्तीत्युक्तत्वात् । ततस्तदैव सिद्धात् पूर्वादि
दिक्भागै स्वप्रेदेशौपाधिक दिक्प्रदेशैस्संयोगात् परमाणूनान्देश
भेदतः स्वाभाविक स्वप्रदेशभिदातः । प्रसक्तं सांशत्वं केनवार्यते ।
पराशयमाणू(नु)द्य दुषयति -

एकस्मिन्नेव देशे चेत् संयोगोस्तु तदा तदा ।
नहि स्वतो दिशां भेदो भेदकोपाधिमन्तरा ॥

निरंशयत्वसिध्यर्थं दिक्प्रदेशै सयोगतभितदा
परमाणूनामेकस्मिन्नेव [[७३२]] देशेचेत् । तदादिशां स्वत समुत्थ
प्रदेशत्वात् भेद स्वतस्यात् युष्माकमपि भेदकोपाधिमन्तरा नहि दिशाः
भेदः नानाप्रकारभुवनप्रदेशोपाधि समुत्थभेद इव दिशां
परमाणुप्रदेशोपाधि समुत्थभेदस्सिद्धः निरंशत्वमभ्युपगम्यापि
ब्रूम इत्याह ॥

किञ्च कार्यसमुत्पत्ति निरंशत्वेन युज्यते ।
संयुक्तदेशादधिको देशस्तेषां न यद्भवेत् ॥

किञ्चास्तु निरंशत्वं किमर्थमिदं क्लिप्तं यदि परमकारणत्व
सिध्यर्थन्तदेव तत्वद्दृशि निरर्थकम् । निरंशत्वे कार्यसमुत्पत्तिस्तुन्दिलसुरत
न्यायेन न युज्यते । कुतः यद्यस्मात् तावद्व्यणुककार्यं प्रति [[७३३]] द्वौ
द्वौ भूत्वा संयोगिषु परमाणुषु तेषां समान मान जल लवणवत्
संयुक्त देशादधिको देशो स्वकीय प्रदेशो न भवेत् यदि भवेत्
सांशत्वमनुक्त्वा सिध्यति न यदि परमाणोस्सांशत्वं परमाणुद्व्यणुक
लक्षण कारण कार्ययोर्ण(र्न)कश्चिद्विशेष इति पृथिव्यादेर्मूर्तित्वात्
मूर्ताता लक्षण तद्विलक्षणा तन्मात्रा न कारणन्तदनुरूपत्वात् अणुरेवेति
शङ्कन्ते ऋषयः -

नन्वमूर्ता हि तन्मात्रा कुतोऽस्यामूर्तहेतुता ।
ततो मूर्तिः पृथिव्यादि स्वानुरूपं स्वकारणम् ॥

अनुमापयतीत्यत्र मूर्तास्ते हेतवोऽणवः ।

स्पष्टः । ईश्वरः -

तदसन्मूर्तिमत्कार्यं यथा कुम्भ पटादिकम् ।
[[७३४]]
एते च मूर्तिमत्वेन कार्यपक्षे प्रतिष्ठिताः ॥

अमूर्ताश्चेद् विवादोऽयन्नामन्येव कृतो भवेत् ।

यदुक्तम् । मूर्तस्य स्वानुरूपत्वान्मूर्ताणुः कारणमिति । तदसत् अनवस्थिते
तथा हि यत् मूर्तिमत् तत् कार्यं यथेत्यनुषङ्गः एते च परमाणवश्चेति
विवेकः । इत्थं कार्यत्वसिद्धेः क्लित्प तत्तत्कारणेपि तथा तथाविक्लिप्तौ
सिद्धानवस्थितिः । एतद्दोषपरिहृतये परमाणवो मूर्ताश्चेत् । तर्ह्येकत्र
युष्मादिभिः परमाणुरित्यस्माभिः तन्मात्रेति नामन्येव विवादेयं कृतो
भवेत् । ननु तन्मात्रा या अपि भूतापेक्षया अमूर्तत्वं प्रकृत्याद्यपेक्षया
किल मूर्तत्वम् । सत्यम् । अत एव न तत्र परमकारणत्व क्लिप्तिः तर्हि कुत्रेत्यत
आह -

[[७३५]]
माया तु परमाऽमूर्ता नित्याऽनित्यस्य कारणम् ।
एकाऽनेकविभागढ्या वस्तुरूपाऽशिवात्मिका ॥

अनेकविभागाढ्या अपरिमितकार्यशक्ति खचिता । स्वपटल एवेयं सुपरीक्षिता ।
माया च मूर्तिनी उपादानत्वात् तन्तुवदिति व्याप्ति बलदृष्ट्या । ऋषयः
पुनश्शङ्कन्ते -

नन्वमूर्ततया तस्या मूर्तकारणता कुतः ।
मूर्तमेव हि मूर्तस्य कारणं परिदृश्यते ॥

स्पष्टः । ईश्वरः ।

तन्न सा वयवानान्तु हेतुत्व परिदर्शनात् ।
तत् पक्षे परमाणूनां सांशत्वं केन वार्यते ॥

तन्न । तदयुक्तम् । अस्तु मूर्तत्वमनिष्टमापादितम् ।

[[७३६]]
अस्माभिरनपह्नवनीयम् । तत् पक्षे मूर्ताणुपक्षे युष्माकं मध्ये
केन सा वयवानान्तु हेतुत्व दर्शनात् । उपादानत्व व्याप्तेः
परमाणवस्सावयवा उपादानत्वात् । तन्तुवदिति परमाणूनां सिद्धं
शां शत्वं वार्यते । ननूपादानत्वेपि परमकारणत्वेन विवक्षितत्वात् ।
परमाणूनान्नकिल सावयवत्वम् । यद्येवं परमकारणत्वेन विवक्षितत्वात्
मायाया अपि न किल मूर्तत्वमिति समो हि समाधिः । ननु तर्हि
परमकारणद्वयसिद्धिः तदयुक्तम् । कार्यत्वेन अमूर्तत्वस्य
व्याप्त्यदर्शनात् । मूर्तत्वस्य व्याप्ति दर्शनात् मूर्तत्वात्
परमाणूनामानित्यत्वेनानवस्थितेः । परमकारणत्वा सिद्धिः । ननु
सभागत्वं कार्यत्वं व्याप्तन्नमूर्तत्वन्तदयुक्तमित्याह -

[[७३४]]
सभागत्वमहेतुश्चेन्मूर्तत्वञ्च तथेष्यते ।
भागवत्वं पदार्थानां व्याप्तं कार्यतयेति चेत् ॥

मूर्तत्वञ्च तथाव्याप्तन्नाधिक्यमुभयत्र च ।

परमाणुष्वस्मदनभिमतं सभागत्वमेव कार्यत्व सिद्धौ हेतुः
मूर्तत्वमहेतुश्चेत् सभागत्वञ्च तथेष्यते । यद् वा कार्योत्पत्तौ
युष्माभिस्सभागत्वमहेतुरकारणमिष्यत इति चेत् । अस्माभिः मूर्तत्वञ्च
तथा अहेतुरिष्यत इति वान्वयः । नह्युभयोरन्यतरस्य कार्यत्व सिद्धौ व्याप्ति
॥॥ लमस्तीति वाच्यमित्याह । भागवत्वमित्यादि स्पष्टश्चेदम् । सभागत्वं वा
सतु हेतुः परमाणुषु तन्नेति न वाच्यमित्याह -

[[७३८]]
परमाणोर्निरंशत्वममूर्तन्नहि विद्यते ।
तथा विधाणवो लोके नेष्यन्ते तत्ववेदिभिः ॥

मूर्तत्वं स भागत्व व्याप्तमित्यर्थः तत्ववेदिभिः । सा गतादिभिः
स्पष्टस्तदितरपदार्थः परमाणुषु वृत्ता चैतन्ये सत्यनेकत्वलक्षणहेतुः स
भागत्वलक्षणहेतुश्च कार्यत्वा विनाभूतमनित्यत्वं साधयेदित्याह -

किञ्चानेकत्वमेतेषां सभागत्वञ्च साधयेत् ।
अनेकं यज्जडं वस्तु वस्त्वसत्तद्घटादिवत् ॥

पूर्वार्धे त्वनित्यमित्यध्याहार्यम् । वस्त्वसद्वस्तु भूतं
सदसदनित्यत्वमित्यर्थः सुकरस्तदितराक्षरार्थः । ननु जातिभिर्व्यभिचारः ।
तदयुक्तम् । अस्माकं सादृश्यमे जातिः । न व्यक्ति व्यतिरिक्तमिति [[७३९]] तस्य
व्यक्ति सहोत्पत्तेर्जातीनां पक्ष कुक्षिनिक्षिप्तत्वात् । विलक्षण स्वलक्षणोक्त्या
कार्यकारणविविक्तिं कृत्वोपसंहरति -

तस्मादमूर्तमेकं यत्तदनेकस्य कारणम् ।
अनित्यमाश्रितं सांशमनेकं कार्यमिष्यते ॥

विपरीतमतो हेतुरित्युक्तं शिव दर्शने ।
ततो न परमाणूनां हेतुत्वं युक्तिभिर्मतम् ॥

तस्मात् यत् नित्यममूर्तं विभागी एकं तदनेकस्य परं कारणमिष्यते ।
यदनित्यमाश्रितं मूर्तं सांशमनेकं तदेकस्य कार्यमिष्यते ।
शिवदर्शने । अतः कार्याद्धेतोः कारणं विपरीतं विलक्षणमित्युक्तम् ।
हेतुत्वं परमकारणत्वम् । तत इत्यादि स्पष्टः । नन्वमूर्तन्नचलत्य [[७४०]]
क्रियत्वात् । आत्मवदिति । कथमचलदमूर्तं कारणं कार्यमुत्पादयति ।
सत्यम् । न स्वतः किन्तु कार्यशक्ति सम्हारात्मकत्वात् कारणस्य कार्यशक्ति
व्यक्त्यात्मना चलतीति समाधीयते । शब्दतन्मात्रादि क्रमतस्तन्मात्र
पञ्चकात् आकाशप्रमुखभूतानि भवन्तीत्याह -

महाभूतानि जायन्ते क्रमात् तन्मात्रपञ्चकात् ।
आकाशं पवनस्तेजस्तोयं भूरिति सञ्ज्ञया ॥

सुकरम् । तत्राकाशस्य सलक्षणपरीक्षा क्रियते ।

गमागमादि व्यापारो यस्मिन् सति नृणां भवेत् ।
तद्धेतु भूतमाकाशमिष्यतां मुनि पुङ्गवाः ॥

यस्मिन् नवकाशेसति नृणां गमागमादि व्यापारो भवेत् । [[७४१]] आदि
शब्देनाकुञ्चन प्रसरणादि हेतु मुनिपुङ्गवाः । यत् तत् हेतुभूतं
तदवकाशलक्षणम् । आत्मादिवत् स्वदेशेन्यस्यावकाशं प्रयच्छतीति ।
आमूर्तमिति यावत् । तदाकाशमिष्यताम् । व्यतिरेकमुखतश्च साधयति -

नोचेत्तदवकाशाख्यं विचरेयुः क्वजन्तवः ।
नहि भूम्यन्तरादृष्टौ प्राणिनान्तु गमागमौ ॥

तस्मादाकाशमेष्टव्यमवकाशस्य कारणम् ।

यथा नहि भूम्यन्तरा भौमीन्धृतिं विना तथा बाह्य
साधारणाकाशीयमवकाशं विना न गमागमौस्त इत्यर्थः ।
उपलक्षणञ्चैतत् सूक्ष्मदेहस्तम् असाधारणम् सतदिन्द्रियं यत् ते
स्थूलदेहस्थं समस्तनाड्यन्तराकाशं [[७४२]] साधारणासाधारणं
सत् प्राणवाय्वादीनामवकाशन्ददातीति । सुकरन्तदितरम् ।
नन्विदमवकाशदानमस्तीति आत्मादीनामपि तुल्यत्वात् कुतस्साधारणार्थ
क्रियया विशिष्ट्याकाशस्य सिद्धिरित्याशङ्क्य विशिष्टार्थक्रियया साधयति ।

किञ्च तीव्रादयश्शब्दा गुण्यपेक्षा गुणत्वतः ।
गुणी चाकाशमित्युक्तं तच्च नॄणामतीन्द्रियम् ॥

तीव्रादयः प्रतिश्रक्त्व लक्षणाः आदि ग्रहणां मन्दादिः घट घटादि
शब्दस्य पृथिव्यादिरिव प्रतिश्रुक् शब्दस्योत्पादनार्थक्रियान्यथा पत्या
पारिशेष्येणाकाशं सिद्धन्नान्यत् ।
स्वपरग्रहकत्वाद्यर्थक्रियान्तरान्यथानुपपत्यात्तिसिद्धत्वाद्
आत्मादीनामन्यथानेकपदार्थ क्लिप्तिक्षतिं [[७४३]] कथन्न समापतेत् ।
स्पष्टः पदार्थः । अतीन्द्रियं
शब्दाश्रयतयानुमातव्यमित्युक्तमसहमाना जैमिनीय भूमिकया
समाक्षिपन्ति -

ननु प्रत्यक्षमाकाशमुत्पतद्योगदर्शनात् ।
अनक्षञ्चेन्नदृश्येत पक्षिणो दिवियद्गतिः ॥

ननु वृक्षादिभ्यो वियोगेन दूरादाकाशदेशात् उत्पततः पक्षिणो
योगदर्शनात् । अपराकाशदेश संयोग प्रत्यक्षात् संयोग प्रत्यक्षस्य
द्विसम्बन्धि प्रत्यक्षपूर्वत्वात् । प्रत्यक्षमवकाशरूपानतिरिक्तम्
आकाशः । अनेत्यादि स्पष्टः । यथाह मण्डनः ।

कथं गम्येत पयसो नियता परदेशतः ।
पततोक्षनिवृत्तश्चेद् विहायो देशसङ्गम ॥ इति ।

[[७४४]]
ईश्वरः -

एवञ्चेन्मूर्तमाकाशं स्पर्शादि गुणयोगतः ।
इत्यादिगुणतः पृथ्वी सा धर्म्येणाति शोभते ॥

अन्यस्य कार्येणान्यस्य स्वरूपपरिनिश्चये ।
आलोकेन हि संयोगे संयोगो दृश्यते तयोः ॥

एवञ्चेदित्थं यदि अन्यस्य कार्येण संयोगात्मनान्यस्य कार्यलक्षणस्य
स्वरूपपरिनिश्चये प्रत्यक्षत्वादिधर्मं परिच्छेदे सति आकाशे तत्र
ह्यविद्यमानं पार्थिवादि स्पर्शगुणमापात्य स्पर्शगुणयोगतः
मूर्तमाकाशं पृथिव्यादिवदित्यादि वदतः पृथिवी सा धर्म्येणाकाशमति
शोभते । आकाशेतरस्य कार्येणेत्युक्तं तर्हि कस्येदं कार्यमयः पक्षिणा
संयोगः आलोकेन हि सर्वञ्जगद्व्यापिना [[७४५]] पक्षिणसंयोगे
तयोस्संयोगो दृश्यते साक्षात्क्रियते । ननु लोके नीलं व्योमेति कथं प्रत्यक्ष
प्रतीतिः सा असतीत्याह -

नीलं व्योमेति तन् मिथ्या दूरत्वादि निबन्धनात् ।
व्योमा नक्षं दविष्ठत्वाद् यथा तन्मात्रसंहतिः ॥

नीलं व्योमेति यत् ज्ञानं तद्दूरत्वादि निबन्धनात् । विशीर्णा
चक्षुस्तेजोतीदूरत्वादिकारणात् । आरोपिताकाशत्वा लोके चक्षुस्तमे विज्ञं
भणलक्षणन्नीलाभासरूपं स मिथ्याविपरीतविषयम् । अतीन्द्रियत्वे हेतुं
प्रयुनक्ति । व्योमेत्यादि व्योम आकाशम् अनक्षम् । अतीन्द्रियम् । दविष्ठत्वात्
सूक्ष्मतं याति दूरस्थत्वात् यथा तन्मात्रसंहतिः यद्येवं मास्तु पक्षि
संयोदिकम् । अवकाशमेवावस्तु [[७४६]] भूतमाकाशमस्त्वित्याशयेन
क्षपणकादि भूमिकया ऋषयः पुनस्समाक्षिपन्ति -

व्योमाह्वयः कृतः कश्चित् भावोनास्त्यवकाशतः ।
अवकाशश्च पृथ्व्यादेरभावात्मक एव सः ॥

इत्याहुरपरे तत्र समाधानं विधीयताम् । व्योमाह्वयः आकाशाभिधानः
कृतो यः कश्चित् पदार्थस्सभावो नास्ति कुतः अवकाशतः
अवकाशानतिरिक्तत्वात् यतोवकाश एव आकाशमित्यस्मदभिमतम् ।
अथावकाशश्चेदभावोस्ति किम् अस्ति हि यतस्सोवकाशश्च
पृथ्व्यादेरभावात्मक एव इतीत्यादि स्पष्टः मूर्तद्रव्याभाव एवाकाशमिति
पर्यवसति । ईश्वरः । यो व्योम इत्युक्तस्सोवकाशो न कथञ्चिदप्यभाव
पदार्थ [[७४७]] क्लिप्तिद्धृति कृतिमानित्याशयेन तदर्थोक्तिं समाविष्करोति -

अभावो भावधर्मस्तु तथा भावोपि तद्गतः ।
यद्यभावो न तद्धर्मो घटाभावः पटस्य च ॥

अभावः नास्तिता । भावधर्मः स्व स्व प्रतियोगिलक्षणपदार्थधर्मः ।
तथा भावोपि अस्तितापि तद्गतः पदार्थः गतः अभावो न यदि तद्धर्मः स्व
प्रतियोगिलक्षण पदार्थधर्मो न चेत् । घटाभावः पटस्यास्तितायुक्तस्य च
स्यादित्यसङ्कर क्षतिस्यात् । पराशयमनूद्य दूषयति -

अभावोऽयं पदार्थस्य धर्मश्चेच्छशशृङ्गवत् ।
सर्वदाऽनुपलम्भस्याद् इति चैतदचोदनम् ॥

[[७४८]]
अयमभावः पदार्थस्य त्वद्दृशि धर्मश्चेत् सर्वदा कालत्रयेपि
असत्वेन शशशृङ्गवत् तद्वतः पदार्थस्यानुपलम्भस्यात् नतु पलब्धि
गोचरत्वमभवेत् इति च भवतामत्रचोदनम् । अनाक्षेपः कुतो यन्नियमस्पष्ट
इत्यपि न वायमित्याह -

अभावोऽनुपलब्धिर्हि सा च कार्यसमाश्रिता ।
तद्धेतोः कार्यभूता सा तामसोद्रेकतस्थिता ॥

अभावोयन्नकिलास्मदृशि शशशृङ्ग वदत्यान्ताभाव इवासत्वं वस्तुनः
येनोक्त दोषस्यात् । किन्तु अभावोयमनुपलब्धिर्हि आयुर्घृतमितिवत् तदनुपलब्धि
शब्देन तद्धेतु भूतार्थक्रिया विरतिमती स्वनिरुद्धकार्या कृतिम॥॥। ः
पदार्थस्य शक्त्याकृति स्थिति [[७४९]] लक्षणाः व्यक्त्यात्मना विप्रकृष्ट स्थिति
लक्षणा वा । पुनस्थिरोभूतिः । प्रोच्यते अन्यानुपलब्धि ज्ञानाभावः स च
ज्ञानधर्म इति न किल प्रोक्तरितेः ज्ञानव्यतिरिक्त वस्त्वभावस्यात् ।
अनुपलब्धिः केत्युक्ते पुनरनुपलब्धिरित्यनवस्था च स्यात् । सा च शक्त्या कृति
स्थितिश्च प्रागभाव प्रध्वंसलक्षणा कार्यसमाश्रिता कार्य शक्त्यकृति
स्थितिस्सती तद्धेतोः कार्यशक्ति समूहात्मकार्यकारणस्य तामसोद्रेकतः
तमोगुणसम्बन्धाधिक्येन कार्यभूता कार्यशक्त्याकृति स्थिति भूता स्थिता
। तदुक्तं मतङ्गे ।

ईषदुन्मीलितं सत्वं प्रवृत्तिरजसस्मृतम् ।
संहारस्तमसोवृत्तं यतस्तस्मान्नविद्यते ॥ इति

अत्रपि निवृत्तिस्तम ॥॥ड्धेत्युक्तम् । पर्यवसितमाह -

[[७५०]]
अभावाश्शक्त्यवस्थातो भावः कार्यात्मना स्थितिः ।
भावाभावौ न चैकत्र भावानान्ते न सम्मतौ ॥

अतो यस्मात् कारणात् समुत्थकार्याकृतिमतः पदार्थस्य पुनश्शक्त्यवस्था
शक्त्याकृति तिरस्कृतकार्या कृत्यन्यथाभूति लक्षणशक्त्याकृति स्थितिः ।
अभावः कार्यात्मना तच्छक्ति व्यक्त्यात्मना स्थिति भावः प्रोच्यते तेन
भावानां पदार्थानां भावाभावौ न चैकत्र स्वेतरत्र कुत्रचिदपि
स्वस्मिन्नप्येककाले वा न सम्मतौ । अस्तु प्रकृते किमायातमित्याह -

मूर्ताभावोप्यभावत्वान्मूर्तेष्वेव व्यवस्थितः ।
तत् कथन्तदभावोयम् आकाशो न भवेद् इह ॥

यो यस्य धर्मस्तस्ये ह युक्ता तद् धर्मिणी स्थितिः ।
अवकाशः पुनस्सोयं व्यापी सर्वत्र दृश्यते ॥

[[७५१]]
प्रागभाव प्रध्वंसलक्षणो भावस्तत् प्रतियोगिधर्म इति साधितः
नहि धर्मः धर्मिणं व्यतिक्रम्य व्याप्नोति । मूर्ता द्रव्याभावोवकाश
इत्युक्तं भवद्भिः मूर्तमतिक्रम्य सनव्याप्नोतीति न मूर्ताभावोवकाश
इत्यर्थः । स्पष्टः पदार्थः । तथास्तु तथापि तत्र न निरुक्तिः क्रियत इत्याह -

मूर्ताभावोयमाकाश इति पक्षे निरूप्यताम् ।
न तावत् प्रागभावोयं भावोत्पत्तेरनन्तरम् ॥

तस्य नाशोवकाशस्य नाशाद्भावस्थितिः क्ववैः ।
नावकाशं विना क्वापि भावानान्दृश्यते स्थितिः ॥

मूर्ताभावोयमाकाश इति पक्षे निरूप्यताम् । निरुक्ति क्रियताम् ।
अभावश्चतुविधः । तत्र मूर्तद्रव्यत्रैकालिकाभावस्या प्रसक्तत्वात् ।
अयमवकाशस्तावत् क्रमतः [[७५२]] न मूर्तस्य प्रागभावः तस्य
प्रागभाव रूपस्यावकाशस्य भावोत्पत्तेरनन्तरं
मुर्तपदार्थोत्पत्तेरविलम्बतः न स्यात् । नाशादवकाशो नास्तीति भावस्थितिः
मूर्तपदार्थस्थितिः । क्व कुत्र वैनस्याद्धि नेत्यादि स्पष्टः नेतराभाव
द्वयमपीत्याह -

न चेतरेतराभावो मूर्तस्यापि प्रसङ्गतः ।
न च प्रध्वंससञ्ज्ञोयं प्रागवस्थित्ययोगतः ॥

क्वापि स्थितानां भावानां प्रध्वंसश्चोपपद्यते ।

अयमकाशः न चेतरेतराभावः कुतः तस्य मूर्तामूर्तप्रतियोगित्वात् ।
अमूर्तस्यापि इतरेतराभावः स्सोवकाशस्सपुनराकाश इति अवसिद्धान्त॥॥डात्
प्रसङ्गतः । अयमवकाशः । न च प्रध्वंसं ज्ञोभावः तस्योत्पन्नत्वात्
तदुत्पत्तेः [[७५३]] प्रागवकाशो नास्तीति । मूर्तपदार्थानां काप्यवस्थित्य
योगतः भावानां मूर्तपदार्थानां स्थितानान्ध्वंसश्चोपपद्यते । नहि
स्थितेः पूर्वं केषांश्चिध्वंसस्तत्र तदात्मन्याकाशोक्तिमत्यवकाशे
केषाञ्चित् स्थितिरिति वाच्यम् । स्थितेः प्राक्तद्दर्शनात् । इत्थं
परमतन्निरस्योपसंहरति -

ततः प्रागेव संसिद्धमाकाशं हि द्विजर्षभाः ।
तच्च शब्दगुणं ज्ञेयं स्वकार्यस्य गुणान्वयात् ॥

अवकाश हेतुत्वे नेत्यध्याहृत्य प्रागित्यनुषज्यतां स्वकार्यस्यावकाशस्य
गुणान्वयात् । प्रति शृक् शब्दगुणानुविधायित्वात् सुकरस्तदितराक्षरार्थः ।
विरुद्धलक्षणोपलम्भात् शब्दो न गुण इति ऋषयश्शङ्कन्ते ।

[[७५४]]
तीव्रादि धर्मोपेतत्वात् शब्दोद्रव्यन्न किं भवेत् ।
अयावद्रव्यभावित्वाद्व्यक्तेरन्यत्रचाश्रयात् ॥

त्रिषु हेतुषु मध्ये प्रथमे गुणस्य गुणादृष्टेरित्याशयः । द्वितीये
जलेनाग्निना वा सेविते भेर्यादौ तस्मिन् सत्यपि क्रमतस्तीव्रतीव्रतरौ
मन्दमन्दतरौ शब्दौ न स्तः । पुनरतिजेलनसेविते च द्वारोपि न सन्ति ।
गुणत्वेग्नेरौष्ट्यादेरिव न गुणिनः प्राक् नाश इत्याशयः तृतीये आश्रयात् ।
भेर्यादेरन्यत्र श्रोतृ देशे व्यक्तेश्च प्रकाशनाच्च गुणत्वे गुणिनि परित्यज्य
न गतिरिति भावः युक्तिभिराभिशब्दो द्रव्यन्न किं भवेत् । स्याद् एवेत्यर्थः
ईश्वरः परिहरति -

तन्नानैकान्तिको हेतुः गन्धादेश्च तथात्वतः ।
[[७५५]]
गन्धादिरपि तीव्रादिर्दृष्टोऽथापि गुणस्मृतः ॥

यदुक्तं युक्ति त्रिरुक्त्या द्रव्यमिति तन्न तदयुक्तम् । गन्धादेश्च अपि संवाद
गुणभूतस्य तथात्वतः । युक्तित्रय व्याप्तितः । त्रिविधो हेतुरनैकान्तितः । यतः
। प्रथमहेतोरनैकान्तिकत्वं प्रदर्शयति ॥ गन्धेत्यादिना गन्धादिरपि
तीव्रादि दृष्टः तीव्रादिभिर्धर्मैस्सह दृष्टस्सतथोक्तः । अथापि यद्यपि न
द्रव्यं किन्तु गुणस्मृतः । यदि गन्धादेः गुणिना विना भूतत्वेन तीव्रादि
तर्हि तदुभयत्र समानं द्वितीयस्य तद्दर्शयति -

गुणान्तरेपि तुल्यास्यात् अयावद्द्रव्य भाविता ।
वारिस्थेजसोरूपं न किञ्चिदुपलभ्यते ॥

स्पष्टः यद्यत्रानुत्भूतत्वेन वर्तत इति परिहारः सतत्रापीति [[७५६]] तुल्यम् ।
त्रितीयस्यानैकान्तिकत्वं गन्धस्य ग्र्हाणदेशाभिव्यक्तितः प्रसिद्धं
प्रदर्शित प्रायमित्युपेक्षितम् । ननु गन्धस्य सूक्ष्मद्रव्य सहितस्य
घ्राणदेशागमनं कल्प्यते । यद्येवं शब्दस्यापि तथा नेतिको वदेत्
शब्दोनभिव्यक्तत्वेन वर्तत इत्ययावद्रव्य भावित्वमसम्भवमित्याह -

अभिव्यञ्जक सम्बन्धात् कदाचित् कतयाऽथवा ।
व्यक्तिश्चान्यत्र सन्तत्या अतितस्य पुनर्ध्वनेः ॥

अभिव्यञ्जक ताल्वोष्ठ पुटादि व्यावृतेः कादाचित् कतयाभिव्यञ्जक
संयोगादस्यापि सतः कादाचित् कतयाभिव्यक्तः । अथवेति तृतीयस्य
होतोरसिद्धत्वम् इत्थं व्यक्तस्य व्यक्तिसमनन्तरं
पुनरतीतस्यानभिव्यक्तस्य ध्वनेः । [[७५७]] अन्यत्र श्रोत्रादेशे व्यक्तिश्च
व्यञ्जकान्तरानुकूवाय्वादिभिस्सन्तत्या वीचीतरङ्ग कदम्ब
मुकुलनीतिभ्यां प्रतिक्रियते । इत्थं प्रति प्रसक्तां शङ्कान्निरस्य
पुनरूपसंहरति -

ततश्चगुण एवेष्टो गुणिव्योमाह्वयस्य तु ।
गुणानां संहतिर्द्रव्यं विश्लेषो गुणसञ्ज्ञितः ॥

नावकाशाद् दिशां भेदस्तथैव व्यवहारतः ।

पूर्वोक्तं स्मारयति । गुणानामित्यादिना । विश्लेषो विशिष्टैकदेशः ।
सञ्ज्ञित इत्यन्तस्पष्टः कथमित्यत आह नेत्यादिना । यथावकाशदाकाश
कार्यैकदिशोदिशां पूर्वादीनां व्यवहारतः । मूर्तिद्रव्यौपाधिक
विशिष्टैकदेश प्रतिपादनात् भेद इति न वस्तुतो भेदोस्ति [[७५८]] तथैव शब्द इति
साधारणोक्ति श्रुतितः । अर्थभेदं विन्दन्तश्शङ्कन्ते । ऋषयः -

नन्वाकाशगुणश्शब्दः कथ्यते कथमीश्वर ।
पुरा बैन्दव एवोक्तो वैश्वर्यादि विभेदतः ॥

पुरा बिन्दुपटले स्पष्टोक्षरार्थः । ईश्वरः । वाचका भेदार्धाङ्गीकृतौ
सत्यशब्दं प्रयुज्य परिहरति -

सत्यं ध्वन्यात्मकः कश्चित् ध्वनिर्वर्णात्मकोमतः ।
आकाशाज्जायमानोसौ ध्वनिरूपस्सकेवलः ॥

नोपादानन्तु वर्णानां बैन्दवोऽवर्णकारणम् ।

तत्रापि शब्द इत्युक्तम् । सत्यम् । तत्रात्रच वाचक साधारणोपि वाच्य
विलक्षणमस्ति तर्हि कश्चिध्वनिः शब्द इति शब्दार्थकः ध्वन्यात्मकः
अनक्षरात्मानर्थज्ञान [[७५९]] प्रदापि स्पष्टरूपं कश्चिध्वन्यार्था
प्रदस्सुविस्पष्टतया पश्यन्त्यादि द्वारा वर्णात्मकः असौ प्रथमो
प्रागुक्तश्शब्द इति शब्दार्थः । आकाशाज्जायमानस्सकेवलो
ध्वनिरूपस्सवर्णानान्नोपदानन्तु किन्तु बैन्दव शब्द इति शब्दार्थः ।
नादसञ्ज्ञितः । आकाशियध्वनिर्नवर्णाकारणमित्यत्र हेतुमाह -

व्योमातीततयावर्णा न व्योमध्वनि सम्भवाः ।
यद्यस्मादतिरिक्तन्तन्नतत्कारणकं यथा ॥

पृथ्वीन्द्रियादि भावानां तस्माद् उक्त प्रसङ्गतः ।
व्योमातीता हि ते वर्णा शुद्धाध्वादौ व्यवस्थिताः ॥

तदभिव्यञ्जकं व्योम व्यग्यावर्णा व्यवस्थिताः ।

स्वकीय द्वनि द्वारेति मन्तव्यमतिरिक्तमतीतं वर्णास्सित [[७६०]]
सितासिताध्वत्रयं व्याप्नुवन्ति । न व्योमध्वनिः । ततः पृथ्वीन्यूनवृत्तित्वात्
यथेन्द्रियादीनान्तथा नोपादानं किन्तु
नादोपादानाद्वर्णाभिव्यञ्जकस्सध्वनिर्भवतीति पर्यवसितार्थस्पष्टः ।
तदुक्तम् । आकाश वायु प्रभवश्शरीरात् समुच्चरन्वक्तुमुपैति नादः ।
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यस्सशब्द ॥ इति । बिन्दुपटले
यद्व्यञ्जकं नतव्यग्यमित्युक्तञ्च प्रमाणपटले । आकाशन्तु वर्णानाम्
आधिभौतिकलिविरेरवा कारणमिति वक्ष्यामः प्रसक्त
प्रसङ्गान्नादपरीक्षां प्रकटयितुं सलक्षणोक्तिकन्तं समुद्धरति -

वर्णानामविभागो यो नादस्सोऽर्थस्य वाचकः ।
आकारादि क्षकारान्त वर्णाः पञ्चाशदेव तु ॥

[[७६१]]
तैरेव खचितं वाक्यं पदभावेन लक्षितम् ।

वर्णानामविभागः । अनभिव्यक्तिमयशक्ति समूहोयोर्थस्य वाच्यस्य
वाचकः । बुद्धिजनकः । नैय्यायिकादि दृशा वर्णास्सन्तु पदवाक्ये वा
स्याताम् । किमनेनात्यसिद्धे नेत्यतस्तत् प्रतिक्षेप लघ्वर्थमकारेत्यादि
लक्षितमित्यन्तन्तत्रिलक्षणमुक्तम् । अस्तु ततः काक्षतिरित्यत आह -

वर्णैरेव तु वाक्यार्थो न च वाक्याह्वयादपि ।
क्रमेणैव स्थितिस्तेषां क्रमेणैवार्थवेदनात् ॥

वर्णेरेव तु क्रमतः पदवाक्यभावं गतैः न च वाक्यार्थस्सम्पद्यते ।
कुतस्तदित्येतदर्थं क्रमेणेत्यादि वेदनादित्यन्तं क्रमिक स्थितिमदेकैक
वर्णेन क्रमिकैकार्थ [[७६२]] वेदन प्रसङ्गस्यादिति भावः । न च
वर्णव्यतिरेकेणासतः कस्माच्चित् वाक्या ह्वयात् पदाह्वयदपि । क्रमिकोच्चरिति
च्युतिमन्तस्सङ्केतक्लिप्ति ग्रहविभक्ता वर्णा एव पदवाक्य पदसमुच्चरिता
इत्याशयः । तदेव बाधकतर्कोक्त्या स्पष्टयति -

नवर्णव्यतिरेकेण श्रवणं पद वाक्ययोः ।
अस्ति चेदुपलभ्येत ककाराकार बाह्यतः ॥

त्वं केत्यत्रेत्यध्याहार्यं स्पष्टोक्षरार्थः । पुनरुपोद्बलयति ।
उच्चारानन्तरं ध्वस्ताः पौर्वापर्य क्रमात् स्थिताः ।
अन्योन्यमपि तेऽदृष्टा वर्णानार्थस्य वाचकाः ॥

वर्णेभ्यो ह्यविशिष्टत्वान्नपदं वाक्यमेव च ।

अदृष्टा इति नोपकारकास्सुकरस्तदितराक्षरार्थः । [[७६३]] अयमाशयः ।
गौरित्यत्र विसर्जनीयोपलम्भोगकारौकारौ नोपलभ्यते इति तेषां
युगपदभावान्नोपलभ्यमान विसर्जनीयैकात् । खुरकम्बलक्षणार्थ
चिद्व्यक्तिर्भवति यदि भवति अश्वः पुरुष इत्यादावपि स्यात् ततश्च न वर्णा
वाचकाः तदनतिरिक्तत्वात् पदवाक्ये च न वाचकेस्त इत्याशयः बिन्दुपटले
बुध्यध्यवसायोपि न निरपेक्षार्थवाचक इति साधितः । स्फोटोपि नार्थ
वाचक इति तन्त्रोत्पत्तिपटले साधयिष्यति । परिशेषान्नादोर्थवाचक इत्याह -

ततो वर्णैरभिव्यक्तो नादस्यादर्थवाचकः ।
पदात्मा जायते नादो वर्णैरेव पदस्थितेः ॥

वाक्यात्मकस्तदङ्गेभ्यः पदेभ्य उपजायते ।

[[७६४]]
ततोन्यथानुपपत्या वर्णैर्वक्तृ समुच्चरितैर्वक्तृगत नादोत्पन्नै
श्रोतृ गतैरभिव्यक्तस्तच्छ्रोतृलक्षणार्थ प्रतिवक्तृ गतो नादोर्थवाचकस्यात् ।
इत्थं श्रुति द्वारान्तर्वक्तृ समुच्चरितवर्णास्फालनात्
प्रतिवक्तरिह्यन्तर्नादस्समुज्वलन् - अश्रोतृ विषय बुध्यनुसन्निहित
मध्यमात्मवर्णात्मा भूत्वा वर्णैरेवपद स्थितेः । पदात्मा जायते ।
वक्तरितु वक्ष्यमाण नयेन नाद स्वयं समुज्वलन् वैखर्यात्मा पदात्म
वाक्यात्मा च जायते । वाक्येत्यादि स्पष्टः । ननु गौरित्यत्रमास्तु
केवलाद्विसर्जनीयादर्थबुद्धिः पुरोत्भूत गकारौकारजनित संस्कारयुक्तात्
ततोर्थ बुद्धिरस्तु वर्णानां क्षणविध्वंसित्वेपि न तत् संस्कारनाशः । (प्।
७६५) कालान्तरे स्मृति दर्शनादिति गौतमीयाशयमाशङ्क्यतिरस्करोति -

पूर्ववर्णोत्थसंस्कार संस्कृतोऽर्णस्तु पश्चिमः ।
अर्थानां वाचको भूयाद् इति चेत्तन्न शोभते ॥

स्पष्टः । कुतो न शोभते इत्यत आह -

यथा वर्णाः पुरा ज्ञाताः क्रमेणैव तथा पुनः ।
समावहन्ति संस्कारान् ते तथा स्मृति बोधकाः ॥

वर्णा यथा पुनरानुभूतास्तथा ते बुद्धौ संस्कारान् कुर्वन्ति पुनस्तैस्ते
तथा स्मर्यन्ते नार्थ इत्यर्थः । यदाहुः संस्काराः खलु यद्वस्तुरूप
प्रख्या विभाविताः । विज्ञानहेतवस्तत्र ततोर्थेधीर्न कल्प्यत इति । ननु मास्तु
संस्कारसहित विसर्जनीयादर्थबुद्धिः । किन्तु संस्कृति [[७६६]] निमित्त समुत्थ
स्मृति स्मर्यमाण गकारौकारानुभूत्यनु भूयमान विसर्जनीयात्म पदात्
स्यात् । खुरकम्बललक्षणार्थबुद्धिः । तदयुक्तम् । स्मर्यमाण
दीपादीनामर्थ प्रकाशा योगात् । स्वाशयं समुद्धृत्य स्थापयति ।

विशेषाधान सामर्थ्या योगादनुभवस्य च ।
न तेभ्योऽर्थमतिः काचित् युगपत् स्थित्ययोगतः ॥

ततस्थूलैस्तथा वर्णैर्व्यक्तो नादस्तु वाचकः ।

वर्णानामनुभवस्य संस्काराधाने सामर्थ्यमिति विशेषाधान
सामर्थ्या योगात् । तदाहित संस्कारात् । वर्णमतिर्नान्येति । युगपत्
स्थित्ययोगतश्च तेभ्यो वर्णेभ्यः न कदाचिदर्थमति स्याद् इति शेषः । तत
इत्यादि स्पष्टः यद्येवं वक्तृच्चरितवर्णव्यक्तनादेन प्रतिपत्तुरन्तरर्थ (प्।
७६७) प्रतिपत्ति स्यात् । कथं वक्तुरन्तरर्थप्रतिपत्तिः ययाविना तस्य वक्तुः
प्रतिपत्तारं प्रति न बोधनाशक्तिरुपपद्यत इत्याशङ्क्य तत् परिहारोक्त्यैव
वर्णानां व्यभिचारित्वमाविष्कृत्य वाचकत्वमिति नहीति सूचयन्नाह -

किञ्चार्थ बोधका वर्णा दृश्यन्ते क्वचिदेव तु ।
क्वचिदन्तस्फुरन्नादो बोधको न सदैव ते ॥

अश्रोत्र विषयत्वेन नादो नार्थस्य वाचकः ।

किञ्च तु सदा न हि वर्णव्यक्तस्सन्नादो वाचक इत्यस्माभिरुच्यते । किन्तु वर्णा
वक्ट्र् समुच्चरितास्सन्तस्सङ्गम्यत्व चित् श्रोतरि प्रतिवक्तरि ननिदानमभिव्यज्य
तद्वारार्थ बोधकाः । क्वचित् वक्तरि बोधयितरि नरिनादोन्त
स्फुरन्वक्त्रन्तरोच्चरित वर्णास्फालनं विना [[७६८]] स्वयमन्तस्सञ्जल्प
पश्यन्त्यात्मनाज्वलन् बुध्यनुसन्निहितमध्यमात्मा अन्तर्वाचकन्निर्माय
श्रोतरि प्रतिपत्यर्थं वैखर्यात्मवर्णात्मना स्वोच्चारार्थं केवलं
स्वार्थजिज्ञासौ तथा मध्यमत्मना भवन् स्वार्थं वार्थस्य बोधकः ।
तदुक्तन्नाद कारिकासु । सा प्रतिपुरुषं भिन्ना वाक्शक्तिर्वाचिका स्थितेति । ततः
वाचक जात निर्मायान्तकिलैकदैकदेति । वक्तरि बोधयितरि नरि केवलं स्वार्थ
जिज्ञासौ स्व नादव्यक्त्यर्थं वक्त्रन्तरोच्चरितवर्णश्रुत्यनपेक्षितत्वात् ।
सदैव ते वर्णा नार्थस्य वाचकाः । श्रोतरि प्रतिपत्तरि नरित्यर्थप्रतिपत्यर्थ
स्व नाद व्यक्त्यर्थवक्तृच्चरितवर्णा श्रुत्यपेक्षित्वात् । वक्तृगतो नाद
श्रोतुरश्रोतृ विषयत्वेन स्वस्य स्वरूपात्मको [[७६९]] वा भूत्वा नार्थस्य
वाचकः । किन्तु वर्णात्मको भूत्वा बहि श्रोतृमुपगत्य श्रोतरं प्रतिश्रोतृ
नादमभिव्यज्य तद्वारार्थवाचक इति श्रोतृ नादोपियो वर्णामनपेक्ष्या
नभिव्यक्तस्सस्वयं समुज्वलन्नार्थस्य वाचक इति च नादस्सदैव नार्थस्य
वाचकः । ऋषयो व्यक्ति सदुक्तिमसहमानाविचोदयन्ति -

ननुवर्णैः क्रमान्नादो व्यज्यते क्रमतेऽथवा ।
क्रमाच्चेदर्थ एवास्तु वर्णैः किं कल्पितान्तरात् ॥

क्वचिद्वर्णसन्ताडनादभिव्यक्तिमति नादेस्यात् तत्रार्थ वाचकत्वमित्युक्तं
तदर्थं स किं पुनः क्रमाद्वर्णै व्यज्यते । अक्रमतोथवा यद्य
क्रमतस्तैस्सव्यज्यते । बहुभिः समस्तैः किं व्यस्तेनैकेन वा नतत्राद्यः
क्षणविध्वंसित्वेन [[७७०]] वर्णानां संहतिर्न सञ्जा घटीतीति त्वदुक्तेरपि
समुत्थत्वात् । तथात्वेपि क्रमत्वादर्थान्तर वाचक स्यात् । न द्वितीयोपि
गौरित्यत्र गोवय गगनादि विरुद्धानन्तप्रतिपत्ति वैशसप्रसङ्गात् ।
युष्माभिरपि वर्णाभिव्यक्त स्फोटोर्थवाचक इति वदन्तं वैय्याकरणम्
प्रतिह्येवं विक्लिप्ति पुरस्कृतिमतीतिरस्कृतिः कृता । अथानेक वर्णैः क्रमाच्चेत्
किं कल्पितान्तरात् नादाख्यात् वर्णौरेवार्थो बुध्यनुसन्निहितोस्तु । ईश्वरः -

तन्नार्थवाचका वर्णा व्यञ्जका न कदाचन ।
नादस्तु व्यज्यते वर्णैः कथं स्यात् समदूषणम् ॥

यथा खलु व्यञ्जकाश्च क्रादय स्वव्यङ्ग्यस्य
कस्यचिदर्थक्रियात्वाज्जलाहरणस्य न तज्जलाहृति कर्तारः [[७७१]] नादस्तु
क्रमेणानेकैर्वर्णैर्व्यज्यते । युष्मात् प्रत्यप्यस्माभिः कलित विक्लिप्ति स्थिति मति
कस्मिंश्चिद्विवादास्पदे समदूषणमस्माकं मात्रं कथं स्यात् ।
यदाहुः -

यत्रस्याद् उभयो दोषः परिहारोपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण ॥ इति ।

स्वविकल्पा स्वदामा विसकृत्य समत्वं समुद्धृत्य सन्निधपयति -

चक्रादयो घटोत्पत्तौ व्याप्रियन्ते क्रमेण च ।
एवं वर्णाः क्रमस्थाश्च नादस्य व्यञ्जका मताः ॥

घटव्यक्तौ च चोद्योऽयं समानत्वान्नदूषणम् ।

व्याप्रियन्ते स व्यापारा भवन्ति चोद्यः घटव्यक्तौ चक्रादयः । किं क्रमतो
वेति विकल्पः शेषं सुगमम् । ऋषयः [[७७२]] पुनरन्यथा व्रथ विक्लिप्तिं
विदधाति -

ननु ज्ञातोयऽयमर्थस्य वाचकोऽज्ञात एव वा ।
अज्ञातश्चेदशेषोपि स्यादशेषार्थ वाचकः ॥

ज्ञातश्चेत् तेन सम्बन्धा ग्रहणात् पूर्ववद् भवेत् ।

नन्वयन्नादस्सर्वैरर्थज्ञजनै ज्ञातोर्थस्य वाचकः ।

किमज्ञात एव वा तत्राज्ञातश्चेत् अज्ञातमपीन्द्रियादि वस्तु शक्त्यैव
कारकत्वात् । स्वार्थक्रियां करोति हि । वाचकस्तु स्वं ज्ञात्वा स्वशक्तिग्रह
विकलितस्य ज्ञापकत्वान्नकरोति हि । स्वार्थक्रियामिति नेन्द्रियादि वदिति
दुरुपलभ्य वाचक शक्तित्वात् अयमस्य वाचक इति अनियतेः अशेषोपि वाचकः ।
असामञ्जस्ये नाशेषार्थ वाचकत्वस्यात् ज्ञातश्चेत् तेनादेनार्थस्य
सम्बन्धा ग्रहणात् [[७७३]] परसङ्केतेन सहविवेकपूर्वं ज्ञाप्य
ज्ञापकलक्षण वाच्य वाचक शक्तिग्रहा तिलं पटचिदनुदयात् । अयमेव
सम्बन्ध इति तन्त्रोत्पत्तिपटले वक्ष्यति ।

भूमावर्थो मुखे शब्दस्समवायो न संस्थितः ।

प्रत्येय प्रत्ययाख्यस्तु सम्बन्धोत्तर पूर्वकमिति । पूर्ववत् भवेत् । अशेषोपि
अशेषार्थवाचकस्यात् । ईश्वरः परिहरति -

तदसद्व्यवधानेन वर्णानां हेतु भावतः ।
नादस्तु कल्प्यते येन क्रमेणार्थमतिर्भवेत् ॥

इत्थं विकल्प्य यदुक्तम् । तदसत् । येन क्रमेणार्थ मतिर्भवेत् । स नादस्तु न
साक्षात् श्रुतो ज्ञातो गृहीतसम्बन्ध इत्युच्यते । किन्तु साक्षाच्छ्रुतज्ञात
वर्णानां [[७७४]] हेतु भावतः । उपादानत्वतः । तेषां व्यवधानेन
द्वारा कल्प्यतेऽनुमीयते ॥॥। गृहीत वाचकस्यादित्यत आह -

सम्बन्धग्रहणादिस्तु वर्णैरेव व्यवस्थितः ।
स्याद्वाचकोऽश्रुतोप्येवं युक्तस्तद्धेतु भावतः ॥

नादस्य साक्षाच्छ्रुति समुत्थध्य गोचरत्वात् । साक्षान्न नादनेति सम्बन्ध
ग्रहणादिस्तु वाच्येर्थे पुरेश्वरक्लिप्त सङ्केतस्मृति द्वारा सङ्केतसहभूत
तदर्थवाचकशक्ति परिछेदस्तु वर्णैरेव नादो श्रुतोपि पूर्ववर्ण संस्कार
समुत्थ स्मृत्यन्त्य वर्णानुभूतिभ्यां व्यवस्थितः । नादो श्रोतोपि
साक्षाच्छ्रुति समुत्थध्य गोचरदुरुपलभ्य सम्बन्धोपि तद्धेतु भावतः ।
साक्षा श्रुति समुत्थधी गोचरोपलब्धसम्बन्ध सम्बन्ध
वर्णोपादानत्वतः । [[७७५]] समुपलब्ध सम्बन्धोन्तस्समुज्वलन् वाचको
युक्तस्याद् एव तस्य पश्यन्त्यात्मना निर्विकल्पज्ञान समुत्थापकत्वात् । न तत्र
जाति विपक्षेति व्यक्तौ हि शक्तिः मध्यमात्मना तु शैवे खुरकम्बलादि
लक्षण नाना॥॥॥॥ सादृश्यमेव जातिरिति व्यक्त्यनतिरिक्त जात्यनुसन्धातृ
सविकल्पज्ञान समुत्थापकत्वात् जात्यनतिरिक्त व्यक्तौ तस्य नादस्य शक्तिरिति
गौतमीय जैमिनीय दृक्भ्यां वाचकशक्तिः किं व्यक्तौ किमथ जातौ
पुनराकृतौ क्लिप्तिमतीति न विकल्पावकाशः कथन्तत्रस्थस्येतस्समुपलब्धिरिति
हृदि समाशङ्क्याह -

कार्येष्वपि च हेतुत्वं कारणस्यैव युज्यते ।
[[७७६]]
सर्वेषामपि भावानां शक्तिः कारणमिष्यते ॥

यथा कार्यासुक्षणोत्पत्ति क्षणविध्वंसिनीषु ज्वालासु गृहीतक्रमिक
पाकशक्तिः कारणस्य वा कावधिस्थिरस्य वह्नेर्युज्यते । तथा कार्येष्वपि च
क्षणोत्पत्ति क्षण विध्वंसिषु वर्णलक्षणेष्वपि च हेतुत्वं गृहीत क्रमिक
वाचकशक्तिः कारणस्यार्थ बुध्यवधिस्थिरस्य नादलक्षणस्यैव युज्यते
सम्बुध्यते कुतस्ततः । यतस्सर्वेषामपि भावानां कार्याणां
कारणन्नखलुव्यतिरिक्तम् । किन्तु कार्यानन्त्यानुषङ्गिणी शक्तिः सामर्थ्यं
कारणमिष्यते । ननु यद्येवं केवलं वर्णशक्तिरेव नाद इति
पर्यवसितन्ततश्शक्तेश्शक्त्यभावाच्छक्त्यात्मनादस्य कथं वाक्शक्तिरिति
मनसिसमाकलय्य परिहरति -

[[७७७]]
यन्मूलकारणन्तत् तु शक्त्यनीकसमाकुलम् ।
तत् कार्याणामनेकेषां पृथक् शक्त्या फलं भवेत् ॥

स्वयन्न परमकारणमिति वाक् शक्तिलक्षण स्वशक्तिमय परमकारण
महामाया व्यक्त्यात्मना अनभिव्यक्त वर्णशक्त्यात्मना च स्थित इति
नादोनुकेवलं शक्त्यात्मना किन्तु शक्ति व्यक्त्यात्माय(थ) मूलकारणं
परमकारणन्तत् तु महामायाख्यं मायाख्यं वा शक्त्यनीक
समाकुलम् । प्रत्यर्थं विभिन्नार्थक्रियाधिकार कृतयेभिव्यक्ताः
पुनस्तद्विरतयेन हि व्यक्ता याश्शक्तयस्तदनभिव्यक्त कार्यशक्ति
बृन्दखचितम् । केवलमनभिव्यक्त कार्यशक्त्यात्मकमिति यावत् । इत्थं पृथक्
[[७७८]]
कार्यशक्त्यनीक समाकुलत्वात् कारणस्य कार्याणां स्वस्वोचितशक्ति
व्यक्त्यात्मना प्रतिकार्यं पृथक् शक्त्या फलम् । स्वस्वोचितार्थ क्रिया कृति
क्षमा कृतिर्भवेत् । अनिच्छद्भिस्तार्किक प्रभृतिभिरपि न
खल्विदमुपेक्षणीयमित्याह -

अन्यथा निम्भबीजाच्च पारिजातोत्भवो भवेत् ।
प्रत्यर्थं सा च भिन्नैव कार्यभेदो न गम्यते ॥

अन्यथा यदि नहि कार्य शक्त्यनीक समाकुलं कारणम् ।

किन्तु व्यतिरिक्तं तत् ततः प्रागभावत्वात् कार्यमसदत्पद्यत इत्युच्यते ।
तदेत्यध्याहृत्य निम्बेत्यनुषज्य सुकरत्वात् श्लोकार्थस्सुकर्तव्यः । ननु हि
कार्यप्रागभावो सद्रूपः असतोवच्छेदकत्वा योगात् । किन्तु [[७७९]] कश्चित् तत्
तत् कार्याणां तत् तत् कारणा वच्छेदकत्वलक्षण कारणात्मविशेषः
यद्येवं कारणे कार्याणां प्रागभावः कार्याणां शक्त्यात्मना स्थिति
लक्षणतिरोभूतिरिति तावत् पर्यवसितमिति अस्मद्दर्शनमेव कार्य नियति क्षति
विहतये विशेषोस्तीत्युक्तिरपि तावच्छक्तौ पर्यवस्यतीति नैय्यायिक भूमिकत्वात्
ऋषयस्तदसहमानाश्शङ्कन्ते -

नन्वर्थव्यतिरेकेण शक्तिर्नैवोपलभ्यते ।

ननु कार्य पदार्थः कारणात्म स्वशक्तेर्व्यक्त्यात्मक इत्युक्तं व्यक्तापि
शक्तिः अर्थ व्यतिरेकेण शक्तिमत् । भेदेन नैवोपलभ्यते । ईश्वरः ।
सत्यशब्दं प्रयुज्या । अन्त्यादि पदार्थे शक्ति स्व दृश्यमान दाह
प्रकाशादिस्था [[२८०]] पृथक् सिद्धार्थक्रिया सामान्यरूपिणीति न भिदया
प्रत्यक्षो पलब्धिरित्यर्थाङ्गीकारेण परिहरति -

सत्यन्नगृह्यतां शक्तिरर्थवत्या तु कल्प्यते ।
प्रथमं स्फोटकृद्वह्निस्सहसाङ्गुलिसङ्गमे ॥

स एवं मन्त्रसामर्थ्यात् स्फोटोत् पादाय नेष्यते ।
निवार्यमाण स्फोटोयं कारणान्तर कल्पकः ॥

यत् तत्र कारणं शक्तिर्गृह्यतां वह्निमन्तरा ।

यदुक्तिन्नशक्तिमतश्शक्तेः प्रत्यक्षभिदोपलब्धिरिति तत् सत्यम् । शक्ते स्वा
पृथक् सिद्धस्वार्थक्रिया संहति लक्षणलक्ष्य सम्बन्धिन्या स्व
प्रत्यग्रूपशक्तिमदपृथक्सिद्धेः पशुपरीक्षायां नह्यंशेन
पदार्थानां विचारश्शेभते । क्वचित् अग्निशक्तिं विना कीदृगिति [[२६१]] चिन्ता न
कुत्रचित् इत्युक्तत्वाच्च । अद्वैतत्वाद्वस्तुतश्शक्तिग्रहण पुरस्कृतिमन्तरा शक्तिमत्
ग्रहणमप्यशक्यमिति शक्ति पृथक् सिद्धार्थक्रिया साक्षाद्वकारद्वारा तद
पृथक् सिद्धतया कथञ्चित् साक्षात् क्रियमाणा शक्तिः शक्तिमत्
पृथक्सिद्धतयाथ शक्त्यर्थक्रिया पृथक्सिद्धतया वा
प्रत्यक्षतोनुगृह्यताम् । किन्तु अर्थापत्या तु अर्थक्रियाः
कस्याश्चिदन्यथानुपपत्ति समुत्थार्था पातनलक्षणनुमानात् । यद्यपि
वस्तुतस्सैषा शक्तिश्शक्ति शक्तिमद्वैतीभूति क्षतीमती यद्यपि
शक्तिमदपृथक्सिद्धिमती । पृथक्सिद्धितया कल्प्यते गम्यते ।
तामेवार्थापत्तिमाविष्करोति । प्रथमेत्यादिना । प्रथमं मन्त्रप्रयोगात् ।
पूर्वमङ्गुलिसङ्गमे सहसा सङ्गम [[७८२]] समनन्तरं स्फोटकृत्
दाहकारको वह्निः दृष्टः स एव पुनः प्रज्वलन्नपि । मन्त्र प्रयुक्ते मन्त्रे
मन्त्रसामर्थ्यात् मन्त्रशक्ति निमित् ततः । स्फोटोत्पादा॥॥॥ यदाह कृत
येनेष्यते । निवार्यमाण स्फोटोयम् इयम्मन्त्र तिरस्कार्य पुरा साक्षात् कृत
दाहलक्षण स्वलक्षणार्थक्रिया कारणान्तर कल्पकः । स्व स्यानाविष्कृतिः
कस्यचिद् वह्नीतर कारणस्य विलम्बेनेति वह्नीतर स्वबीजगमिका यत् तत्रेत्यादि
स्पष्टः । अन्यथा सिद्धिमाशङ्क्य परिहरति -

मन्त्राभाव विशिष्टोग्निः हेतुश्चेत् स्फोटकर्मणि ।
प्रतिमन्त्रप्रयोगोपि नैव जायेत सोङ्गुलेः ॥

सति प्रथम मन्त्रेपि स्फोटकार्यं प्रजायते ।
[[७८३]]
तर्हि द्वितीयमन्त्रस्य सद्भावोप्यस्तु कारणम् ॥

स्फोटकर्मणि दाह क्रियायां स्फोट तिरस्कृतये मन्त्रस्य प्रयोगात् पूर्वम्
अथ तस्य प्रयोज्योपसंहृतौ वा मन्त्राभाव विशिष्टोग्नि हेतुश्चेत्
स्फोटलक्षणकृति तिरस्कृति कृन्मन्त्रकृति तिरस्कृतये प्रतिमन्त्र प्रयोगेपि देवता
लक्षणस्य नोच्चरित प्रध्वंसितेति । नहि प्रथममन्त्र नास्तिता चेति
सस्फोटोङ्गुलेर्नैव जायेत । प्रत्युतसति प्रथममन्त्रेपि स्फोटकार्यं
व्यभिचारक्षति विहति विधात्रपिभूय प्रजायते । यद्यस्त्यपि व्यभिचारिणी वह्नि
लक्षणकार्ये तृणादिकारणक्लिप्तिरिव क्वचिद्व्याप्ति कलिता सती साध्वीं यं
क्लिप्तिः । तर्हि द्वितीयमन्त्र विशिष्टाग्नेरपि स्फटे क्वचिद्व्यापित् [[७८४]] दर्शनात्
अन्यतर ग्रहणे विशिष्य किन्नियामकमिति च अननुगमप्रसङ्ग
समुत्थभीत्योत्तेजक द्वितयमन्त्रा भाव विशिष्ट प्रथममन्त्राभावः
कारणमितीत्थमुक्तेपि विशेषणोक्तेजका भावाभावः क इति निर्बन्धेन
पुनरुत्तेजकलक्षण द्वितीयमन्त्र इति च पर्यवसितत्वात् । द्वितीय मन्त्रस्य
सद्भावोस्तु कारणम् । ननु द्वितीय मन्त्रस्य सद्भाव स कारणत्व क्लिप्तौ
काक्षतिरस्माकम् । अत्रोच्यते ।

सति प्रथममन्त्रे तु द्वितीये नाणुनाऽधुना ।
क्रियते कथमाद्यस्य मन्त्रस्य प्रति बन्धनम् ॥

तत् कार्यस्य विनाशस्तत् प्रागभाव विधिस्तु वा ।
स्व शक्तयोपकारोवा क्रियते परिचिन्त्यते ॥

[[७८५]]
स्फोटकार्य तिरस्कर्तुराद्यस्य मन्त्रस्य पुनस्फोटोक्ते जनार्थं
प्रयुक्तेन द्वितीयेनाणुना मन्त्रेणाधुना प्रतिबन्धनं कथं क्रियत् । तत्
कार्यस्य तत् प्रथममन्त्र कर्तव्य स्फोटतिरस्कृतेः विनाशः । तिरोभूतिर्वा तत्
प्रगभावविधिस्तु वा तदर्थक्रिया विरति व्याप्तिकशक्त्यात्मस्थितिस्तु वा ।
स्वरूपतिरोभूतिर्वेति यावत् वह्निं प्रति वह्निप्रतिबन्धक प्रतिबन्धिकया
कथाचित् कृत्या विना स्वसक्तयोपकारः । सहकारो वा क्रियते ।
परिचिन्त्यतेनुपदमेव परीक्ष्यते । कथमित्यत आह -

न तावत् प्रतिबन्धोपि प्रागभावविधिस्तथा ।
मन्त्रस्य क्रियते तस्य स्वरूपेण व्यवस्थितेः ॥

[[७८६]]
प्रतिबन्धो ॥॥॥॥। प्रागभावविधि क्रियते । कुतः तथार्थस्य न
शब्दमात्रं हि देवतेति प्रथमस्य मन्त्रस्य वाच्यलक्षणस्य स्वरूपेणार्थ
॥॥॥ व्यवस्थितेः नैह्यन्तं पक्षोपीत्याह -

स्वसत्तयोपकारित्वमपिनैवा प्रदर्शनात् ।
सामग्र्यन्तर्गतं यत् तत् किञ्चित् कृत्वोपकारकम् ॥

दृश्यते तेन हेतुत्वं नास्त्यकिञ्चित्करस्य तु ।

सामग्रिकारणानिकन्तदन्तर्गतञ्चक्रादिकं किञ्चित् मृद्भ्रमणादिकं
सहकृतिं कृत्वोपकारकं सहकारकम् । नह्य किञ्चित् कृत्वेत्यर्थः सुगमम् ।
अथ पुनः कथञ्चिदपीत्याह -

किन्तु सत्वोपकारित्वे सर्वदा स्यादवस्थितिः ।
[[७८७]]
द्वितीयस्य कुतः पूर्वं मन्त्र एव सतीष्यते ॥

कुतो वा नेष्यते पूर्वमन्त्रे त्वसति पश्चिमः ।

किन्तु अपि च द्वितीयमन्त्रस्य सत्वोपकारित्वे सर्वदोपकारित्वे नावस्थितस्यात् । नहि
तथा दृश्यते । यदि हि तथा कुतः स पश्चिमो द्वितीयो मन्त्रः पूर्वमन्त्रै
सत्येवोपकारित्वे नेष्यते कुतो वा पूर्वमन्त्रे त्वसति य मन्त्र सापेक्षा तस्य
द्वितीयमन्त्रस्य किञ्चित्करत्व सिद्धित्याशय य स्वीकर्तव्यः विनाशः इत्युक्तं
प्रथमपक्षयेवेत्याह -

ततश्चाद्यमनोः कार्या विरोधी व्याप्ति भावतः ।
विरोधित्वञ्च कार्यस्य प्रतिबन्धो न चेतरत् ॥

ततः द्वितीय तृतीयपक्षानुपपत्तेः द्वितीयमन्त्रः [[७८८]] ॥। द्यमानो
प्रथममन्त्रस्य व्याप्तभावतः । कार्यविरोधी आशेय स्फोटकार्य तिरस्कृति
लक्षणकार्यतिरोभूति कर्ता । व्याप्तभावं विदर्शयति । कार्यस्य
विरोधित्वञ्च कार्यतिरोभूतिश्च करणस्य प्रतिबन्धः कारणस्य तिरोभूतिः ।
नचेतरत् नान्यत् । कुत इत्यत आह -

न तु कारणवैकल्यं विना कार्यन्न जायते ।
नान्यङ्गुल्योर्हि वैकल्यं विकलाशक्तिरेव सा ॥

नाद्यमन्त्रस्य सत्ता या बाधायुक्ता कदाचन ।
कालान्तरेपि सक्ता या बाधकत्वप्रसङ्गतः ॥

कारणवैकल्यं कारणरोधं विना अन्तकार्यन्नतु न जायते नतु तिरो भवति
प्रथममन्त्रतः स्फोटकार्ये [[७८९]] कारणतयोः अन्यङ्गुल्यो वैकल्यं न न
तिरोभूतिर्हि दृश्यत्वात् द्वितीयमन्त्रतः । पुनस्फोटोते(त्ते)जनार्थम्
अद्यमन्त्रस्य सत्ताया व्यक्तितास्तिताया बाधातिरस्कृतिः । न युक्ता कुतः
कालान्तरेपि द्वितीयमन्त्रोपसंहारसमन्तर समयेपि दृश्यमाना या
व्यक्तिसक्ता या बाधकत्व प्रसङ्गतः । किन्तु यत् तिरोभूतितस्फोटातिकार्य
तिरोभूतिः सा कारणभूता विकलापि गता तिरोहिता कला । दा(ता)साङ्गुल्यादौ
दाहादिकार्यक्षमाभिमुखस्वरूपो यस्यस्सा तथोक्ता शक्तिरेव । नन्वयं
विषयाभिमुखस्वरूपः स्वन्तस्सुनिहितमुखस्वरूपात्मवह्ने स्वावतिरिक्त
स्वरूपः । सत्यम् । सैव तस्य शक्तिरिति सर्वं समञ्जसम् । ॥॥ च तिरोधानञ्च
शक्ते [[७९०]] किमाप्रतिः किमप्रकाशः तत्र प्रथमं स्वीकृतौ
तदव्यतिरिक्तत्वाच्छक्तिमतो तत्वप्रसङ्गः । द्वितीयस्वीकृतौ सत्कार्य दृशा
सदप्रकाशोपि विनाशान्न विशिष्यत इति विनाशित्व सिद्धिरित्यादि कुविकल्पो
क्रियतां चिच्छक्ति परीक्षायां शक्ते स्वकार्ये स्वरूपान्यथा कृतिमन्तरा
वशीकृति लक्षणा अप्रवृत्तिस्तिरोधानमिति परिहृतत्वात् फलि॥॥॥ पसंहरति -

ततश्शक्तिरशेषार्थ वर्तिनी गम्यतामिति ।
शब्दस्फोटप्रसङ्गेन भावस्फोटोपि वर्णितः ॥

स्फोटयति ज्ञापयति कारयति ज्ञेयं कार्यञ्चेतिः ।

स्फोटः शक्तिः शब्दः स्फोटः वाक्शक्तिः भावस्फोटः तदितरा
शेषपदार्थशक्तिशेषं सुगमम् । एवमाकाशं [[७९१]] प्रपञ्चं
परीक्षाक्रमप्राप्तं वा स्वादिभूत चतुष्टयं परीक्षितुं
प्रतिज्ञायोद्दिशति -

वाय्वादीनां समुत्पत्तिः क्रमेणैवाभिधीयते ।
वायुरग्निस्तथा तोयं पृथ्वीत्येत चतुष्टयम् ॥

स्पष्टः तत्र वायु स्वघटनादि कार्यात् सिध्यतीत्याह -

अनिलस्पर्श तन्मात्रादभवद्यू(द्व्यू)हनात्मकम् ।
उक्षेपणादि व्यापार हेतुत्वे नोपकारकः ॥

व्यूहनमवयवघटनं घटाद्यवयव घटनमपि कुलालाद्यन्तश्शरीर
प्राणा वायुव्या प्रतितसिध्यति । उपलक्षणञ्चैतत् । यदाहुः । स्पर्शशब्द
धृतिकं पलिङ्गो वायुरिति उक्षेपण उत्थानम् अग्रहात् गमनमादि गृह्यते
पुनः कार्यभिदया दशयाभिद्यत इत्याह -

[[७९२]]
दशधा वर्तमानोऽन्तश्शरीरे सर्वजन्तुषु ।
प्राणापानसमानादि व्यानोदानादिसञ्ज्ञया ॥

अहङ्कारिक सण्डरम्भ वृत्तिः प्रनुन्नहा प्राणः सूक्ष्मदेहो
ध्वाधोनयन स्ववृत्तिमान् प्राणाधिरूदा हि मतिः पुरुषाणामूहं
मार्गयमाणा अन्धेव भ्रमतीति विमर्शात्म स्ववृत्तिमांश्च अपानोरेत
साद्यपनयन स्ववृत्तिमान् समानः अन्नपानसमसमर्पण स्ववृत्तिमान्
व्यानः । ननु विनमन स्ववृत्तिमान् । उदानः अहङ्कारिक वागेन्द्रिय
कसङ्रम्भ वचनवृत्ति सचिवः प्राणवृत्तिनिबन्धन
विरहाकाशध्वन्यभिव्यङ्ग्य स्थूलशब्दोच्चार स्ववृत्तिमात् । तदुक्तम् ।
आकाशवायु प्रभवश्शरीरात् समुच्चारन्वक्तमुपैतिनादः । [[७९३]]
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यस्सशब्द ॥ इति ।
प्राणादयस्तु बाह्यदेहाङ्गभूतां सूक्ष्मदेहभूतं वायुं
कारणधारण स्ववृत्तित्वेन वक्ष्यामः । अथाग्नि पचना कार्यात् सिध्यतित्याह -

अनिलो रूपतन्मात्रा जायते पत्ति लक्षणः ।
स च त्रेधा स्थितो लोके गार्हपत्यादि सञ्ज्ञया ॥

अतोऽन्य एव शैवाग्निस्ततो बिन्दूदरान्तरे ।
यद्यदश्नाति लोकोयं तदनेनैव पच्यते ॥

अत्तोन्तरनलोत्यन्तं प्राणिनामुपकारकः ।

अतः दिव्यौदरियभौ मकारज दक्षिणाहवनिय गार्हपत्यादि भेदभिन्नात्
तन्मात्रजात् । दीक्षितैराराध्यश्शिवाग्निः अन्यः अति शुद्ध इति यावत् ततो
बिन्दुदरान्तरे । [[७९४]] समुद्भूत इति शेषः महामायोपाधिक वागीश
वागीश्वर नाम शिवशक्ति नैमित्तिकस्सतु बिन्दूपादान इति यावत् ।
अवष्टम्भधृतिलक्षण कृति द्वयाक्तोय क्षमा तत्वद्वय सिद्धिरित्याह -

अभवद्रस तन्मात्रात् तोयं सङ्ग्रहणक्रियम् ।
तोये नैव प्रतिष्ठास्य स्थिता लोकस्य वस्तुनः ॥

स्वतोधूल्यात्मकत्वेन पृथ्वीचानेन वैदृढा ।
पृथ्वी गन्धतन्मात्रादभवद्धारणक्रिया ॥

स्पष्टः कैश्चिद्वैदिकैकदेशिभिराकाशादप्येव ॥॥॥॥॥॥ ते । कारणगुणा एव
कार्यगुणा कृतिमन्तस्सन्तोभिव्यक्तिमायान्तीति नीतिज्ञ दृष्टेः तद्
विरोधेनाधोयः । तदभिमताकाशादि कारणेषु [[७९५]] क्वाप्यविद्यमान
गुणादिशय दर्शनात् । तदयुक्तमित्युक्त्वोपसंहरति -

नाकाशाज्जायते वायुर्नवायोरग्निसम्भवः ।
नाग्नेरापस्ततः पृथ्वी धर्मातिशय दर्शनात् ॥

कारणद्गुणसङ्क्रान्तिर्युक्ता कार्येषु न स्वतः ।
व्योम्नः पञ्चगुणत्वं स्यात् तथासृष्टिक्रमो यदि ॥

तन्मात्रपञ्चकाज्जातं ततो सोमादि पञ्चकम् ।

स्पष्टोक्षरार्थः तदेतत्तन्मात्रभूतदशकं करणैराविश्य योनितो
योन्यन्तर गमन तत् करण धरणलक्षणचेष्टां कार्यत इति कार्यशब्द
शब्दितम् । करणचेष्टा च तत् कार्यधृतिमन्तरा दुर्लभेति पुनः करणधार
शब्दशब्दितञ्च भवति । तदुक्तं तत्वसङ्ग्रहे ।

[[७९६]]
एतत् कार्यन्दशधा करणैराविश्य कार्यते चेष्टाम् ।
अविभुत्वात् करणानि तु कार्यमधिष्ठाय चेष्टन्त ॥ इति ।

माया साधारणा सति । स्वकार्यद्वारा मोहिनी कलादि जननी कलादि स्वकार्या
पूरकत्वेन समस्तसूक्ष्मदेहव्यापिनी । शक्त्यात्मत्वे नामूर्तत्वान्
नभौवना॥॥॥। वेशवतीति न साक्षादिति स्वकलाद्वारेति स्वकार्यः सतकस्थ
गहनेशादि भुवनस्कन्धात्मिका च स्यात् कलाप्रतिपुरुषं भिदया
सूक्ष्मदेहस्था असाधारणात्मिका सती तादृशी विद्यारागप्रकृति
जनकाधारकपूरक स्कन्धात्मिकाज्ञानक्रियात्मिकात्म चिच्छक्तिव्यञ्जन
वृत्ति स्कन्धात्मिका । पुनस्साधारणात्मिका सति तादृश विद्यारागप्रकृति
स्वोभयरूपदेहादि प्रकृतिभूत [[७९७]] भुवन जनकाधारक पूरक
स्कन्धात्मिका च स्यात् । विद्यारागौ प्रतिपुरुषं भिदया सूक्ष्मदेहस्था व
साधारणात्मकौ सन्तौ तावत् ज्ञानेच्छाद्विशक्ति व्यञ्जनर्वक्ति
स्कन्धात्मकौ । पुनस्साधारणात्मकौ सन्तौ स्वोभयरूप देहादि प्रकृति
भूतभुवन जनकाधारक पुरस्कन्धात्मकौ च स्याताम् । कालनियत्यौ
प्रतिपुरुषं भिदया सूक्ष्मदेहस्थे असाधारणात्मिके सत्यौ कलननियमन्
वृत्तिस्कन्धात्मिके पुनस्साधारणात्मिके सत्यौ स्वोभयरूपदेहादि
प्रकृतिभूतभुवन जनकाधारक पुरक स्कन्धत्मिके च स्याताम् । पुरुषः
कलाद्यविद्या द्याक्रान्त भोक्त्रात्मकः । पुनः रागा योजन प्रकृत्यग्रज
स्वभुवनक्लिप्तिमांश्च स्यात् । प्रकृतिः प्रतिपुरुषमभिदया [[७९८]]
सूक्ष्मदेहस्था असाधारणात्मिका सती तादृशगुणत्रय जनकाधारक
पूरकस्कन्धात्मिका पुनस्साधारणात्मिका सति तादृश गुणद्वारा गुणा
मस्तकस्थ स्वोभयरूपदेहादि प्रकृतिभूत भुवन जनकाधारकपूरक
स्कन्धात्मिका च स्यात् । गुणतत्वं प्रतिपुरुषं भिदया
सूक्ष्मदेहस्थमसाधारणात्मकं सत् सत्वादिमयमसत्तादृश विषंअ
गुणमय बुद्धि जनकाधारकपूरक त्रिस्कन्ध स्कन्धात्मिकम् । प्रकाशादि
वृत्ति त्रिस्कन्ध स्कन्धात्मकम् । पुनस्साधारणं सत् तादृश विषम
त्रिगुणमय बुद्धि स्वोभयरूप देहादि प्रकृतिभूतभुवन जनकाधारक
पूरक त्रिस्कन्द स्कन्धात्मकञ्च स्यात् । बुद्धि प्रतिपुरुषमभिदया
सूक्ष्मदेहस्था असाधारणा सती विषमत्रिगुणमयी तादृशाहङ्कार
जनकाधारका पूरक स्कन्धात्मिका । बाह्यस्त्र्याद्यन्त सुखादि
विषयाध्यवसाय स्मृति प्रतिभाभाव प्रत्यय भेदभिन्नबोधवृत्तिभिः
पुनर्भावमध्यपठितो वैराग्यनामरागेच्छा प्रत्या च प्रत्यर्थं
शब्दोल्लखित ज्ञानशक्तीच्छाशक्ति व्यञ्जक स्कन्धात्मिका भावप्रत्यय
जनकस्कन्धात्मिका च । पुनस्साधारणा सति विषमत्रिगुण
मयितादृशाहङ्कार स्वोभयरूपदेहादि प्रकृतिभूतभुवन जनकाधारण
पूरण स्कन्धात्मिका च स्यात् । अहङ्कारः प्रकृतिपुरुषं भिदया
सूक्ष्मदेहस्थ देहस्थो साधारणात्मिकस्सन् विषम त्रिगुणमयः
तादृशसमनस्कन्ध बुद्धिन्द्रिय [[८००]] कर्मेन्द्रिय तन्मात्र
वर्गजनकाधारका पूरकत्रिस्कन्ध स्कन्धात्मकः । स्वगर्वसंरम्भ
वृत्तिभ्यान्तावत् स्वधोन्मुख ज्ञानशक्ति क्रियाशक्ति व्यञ्जक स्कन्धात्मकः
। पुनस्साधारणस्सन् विषमत्रिगुणमयः तादृश स्वगर्भितमनः प्रमुख
षोडशतत्वस्वोभयरूप देहादि प्रकृतिभूति भुवन जनकाधारका पूरक
स्कन्धात्मिकश्च स्यात् । मनोज्ञानेन्द्रियादि कर्मेन्द्रियाणि च
सूक्ष्मदेहस्थान्य साधारणानि सन्ति । तावदिच्छाशक्ति व्यञ्जन
ज्ञानशक्ति व्यञ्जन क्रियाशक्ति व्यञ्जनवृत्ति स्कन्धात्मिकानिस्युः ।
तन्मात्राणि सूक्ष्मदेहस्थान्य साधारणानि सन्ति । तादृश स्वानुरूप
भूत जनकाधारका पूरक स्कन्धात्मिकानि करणाधृति वृत्ति [[८०१]]
स्कन्धात्मिकानि च स्युः । पुनर्मन आदि तन्मात्रान्तानि साधारणानि सन्ति
क्वचित् पृथक् सूक्ष्मत्वेन स्वतोन भुवनात्मकत्वमिति क्वचिदप्रथगहङ्कार
गर्भे पठितभुवनस्कन्धात्मिकानि स्युः । तदुक्तं ज्ञानरत्नावल्याम् ।
गन्धाति मन सन्तानां भुवनाधारतान च । इति । भूतादि
सूक्ष्मदेहस्थान्यसाधारणानि सन्ति करणवृत्ति स्कन्धात्मकानि
पुनस्साधारणानि सन्ति धृत्यादिं वृत्तिमन्ति ब्रह्माण्डान्तबहि स्थूल
सूक्ष्मात्मना स्वतादृश साधारणा साधारणोपचय वृत्तिमद्देहादि
प्रकृतिभूत भुवनजनकाधारका पूरक स्कन्धात्मिकानि च स्युः ।
तत्रासाधारण कलादिक्षित्यन्त तत्वान्य विभुत्वेपि प्रतिपुरुषं
पिशाचादिवदस्मदादि प्रत्यक्षानुपलभ्य [[८०२]] सूक्ष्मदेहात्मना
स्वभुवनादयो व्याप्तिक साधारणक्षित्यादि कलान्तत्वज
कालाग्न्यादिकपालीशान्त भुवनानि भुवनज शरीर स्थित्या व्याप्नुवन्ति ।
भविष्यत् भोगादसत्यादि निमित्त मलशक्ति सञ्चितकर्मतदुद्भविष्यत्
सृष्टिसमुत्थ सूक्ष्मदेहानां दीक्षाया शुद्धिरिति पुनरारब्धकार्य
कर्मभोगोपरोधेन दीक्षायां सद्योनिर्वाणदा क्रियाम् अक्षपित वर्तमान
तत्रि निरङ्कुरित वासना शुद्धिः प्रत्यहङ्कार्येति पूजार्थञ्च वर्तमान
सूक्ष्मदेहशुद्धिः कार्या । स्थूलदेहादिनी तु न सूक्ष्मदेहात्म
कलाद्युपादानानि । किन्त्वा पुरकैस्तैस्थूलदेह वर्तभिर्युत स्थूलसाधारण
भूतादिकलान्तभौवन विकारोपादानानि । महाप्रलयान्ते [[८०३]]
असाधारणकलादि क्षित्यन्ततत्वानि सर्वसाधारणकलादिक्षित्यन्ततत्वात्विक
भुवन भौवनशरीरादीनीचानुन्तकर्तृकाणिः । प्रकृतेरथस्तु भौवन
शरीराणि साक्षाद्वा ब्रह्मद्वारेण वेति गम्यते । मध्यमप्रलयान्ते
प्रकृतेरधस्विमस्तकस्थ प्रकृतिभुवना गुणादिक्षित्यन्त साधारणा तत्व
तात्विकानि । श्रीकण्ठकर्तृकाणि प्रकृतिरधः कालाग्न्यन्त भौवन
शरीरादीनि गुणनिलय ब्रह्माण्डान्तं निलय द्विब्रह्मकर्तृकाणि
पुनरसाधारणकलादिनी च प्रकृतिपुरुष भौवनशरीरान्तस्थादि वाहिक
देहस्थ बुद्धिसमुकर्मसंस्कार विपाकविशेष धर्मप्रमुख बुन्दानि च
भुवनज शरीराणि च उपलक्षित स्वकारण साधारणकलादिकपुराणि च (प्।
८०४) शिवसदनसमुत्थ निरूपमशास्त्रे तावत् तत्वभावभूतभुवन
शब्दादि तानिस्युः । सूक्ष्मदेहात्मकलादितत्वबृन्दं भिन्नजातीयमप्येक
फलन्दीपाङ्गवस्तुवदिति । मृगेन्द्र श्रुते भोगौकफलं पुनः
कर्मोपभोगं कुरुते । वैचित्रञ्चन्दनादय इति रत्नत्रये श्रुतेः भोगवैचित्र्ये
कार्ये कर्मणः कलादि सापेक्षित्वात् । कर्मत् कलादि वैचित्र्य निबन्धनम् ।
कलादिकन्तु भोगवैचित्र्य निबन्धन इति । भोगवैचित्र्यान्यथा अनुपपत्या स्व
वैचित्र्य निबन्धनकर्मणा सह प्रतिपुरुषन्नियतमसाधारणञ्च । मलस्तु
स्वतस्साधारणः स्वशक्ति द्वारा प्रतिपुरुषन्नियत इत्यसाधारणश्च । अनादि
मुक्तादि मुक्तापरमुक्त शिवानुसाधारण [[८०५]] लक्षणं शिवत्वम् । स्वेतर
पशुपाशपदार्थाभ्यां व्यावर्तयति । अनादिमुक्तादि शिवानाम्
अन्यतममसाधारणमनादि तत्वादिनामन्यतमलक्षणं स्वतादिय
पदार्थाभ्यां स्वेतर पशुपदार्थाभ्याञ्च व्यावर्तयति । विज्ञानकल
प्रलयाकल शकलपशून् साधारणलक्षण पशुत्वा स्वेतरपति पाश
पदार्थाभ्यां व्यावर्तयति । पुन विज्ञान कलादीनामन्यतमम्
असाधारणं विज्ञान कलादीनामन्यतमलक्षणं स्वजातीय
पदार्थाभ्यां स्वेतर पाशपतिपदार्थाभ्याञ्च व्यावर्तयति ।
मलकर्ममाया पाशान् साधारणलक्षणपाशत्वं स्वेतर पतिपशु
पदार्थाभ्यां व्यावर्तयति । मलादीनामन्यतममसाधारण
मलत्वादीनामन्यतमलक्षणं स्वजातीय [[८०६]] पदार्थाभ्यां स्वेतर
पतिपशुपदार्थाभ्याञ्च व्यावर्तयति । तदीयता तदित्थं विवेचनीयम् ।

श्रीशालिवाटिपुर निवासि ज्ञानप्रकाशाचार्य विरचितायां श्रीमत्पौष्कर
ज्ञानपादवृत्तौ पञ्चमः पटलः ।

शुभमस्तु श्रीकान्तिमत्यम्बा समेत श्रीशालिवाटीश्वरस्वामी सहायम् ।
कृष्णन् स्वहस्तलिखितम् । हरिः ॐ ॥

हरिः ॐ