पशुः पशुत्वसंयोगान् नमुक्तः पशुरुच्यते ।
यस्मात्स्वदृक्क्रियाशाली कलाहीनोप्यनीश्वरः ॥
व्यापकश्चिन्मयस्सूक्ष्मश्शिववत्संव्यवस्थितः ।
मायापरीक्षानन्तरं पटलान्ते अनुगृह्येत्यादिना ननु गृहीतः
पशुरिति सूचितह् पशुपदार्थः परीक्ष्यत इति पाटलिकस्सम्बन्धः ।
तन्त्रवस्तुसम्बन्धः पशुपदार्थात्मकः वाक्यात्मकस्त्वणु
नित्याद्यनेक विधः पशुत्वेन मलेन सह संयोगस्सम्बन्ध
आवार्यावारकलक्षण पशुत्व संयोगः नहि संयोगः संश्लेष
इति व्याख्येय द्वयोरप्यमूर्तत्वात् । तस्मात्
पशुत्वसंयोगाच्चतुर्थः पशुपदार्थः पशुरुच्यते तत्
पशुत्वान्मुक्तः । तस्मान्नपशुरुच्यते । पशुरिति न निगम्यते यस्मात्
स पतिपदार्थेन्तर्भूत [[२४८]] सजातीयतया शिववत्संव्यवस्थितः ।
कुतस्समुक्तो यतस्सुक्ष्मः मलादि पाशरहितत्वात्
स्थूलत्वाद्विदुरीकृतः । ननु सूक्ष्मत्वमस्तीहि परमाण्।वादीनां
न खलु हि शिव सदृशत्वम् । सत्यम् । स मुक्तश्चिन्मयः । ननु यद्यपि
स्तस्सूक्ष्मत्व चिन्मयत्वे पाञ्चरात्र दृष्टि सिद्धमुक्त इव यथा
कथञ्चिद्येनकेनचिदुपाधिनोपरुद्धव्याप्तिकस्स यदि स्यात् पुनः
कुतश्शिवसदृशत्वम् । सत्यम् । सिद्धान्तसिद्धस्समुक्तो व्यापकः न
यथा कथञ्चिद्येनचिदुपाधिनोपरुद्ध व्याप्तिकः । ननु यद्यस्त्यपि
तत्रिलक्षणत्वम् असतोनभिव्यक्तत्वाद्धेतो सतः पर्वतादेरनभिव्यक्ति
पूर्वाभिव्यक्त्यदर्शनात् । प्रागनभिव्यक्त तत् स्वभावे प्रमाणा
भावात् । पुनरसत्कार्यवाद दृशा [[२४९]] असदुत्पत्तित्वे
सत्कार्यवाददृशा वा सतोऽभिव्यक्तित्वे घटादीनामिवा नित्यत्व
प्रसङ्गाच्च । पर्यवसित विवाद वादनिर्मलत्वमात्रं मुक्तिरिति स्व
सम्प्रप॥।ंअलकारक दृष्ट्यानभिव्यक्त शिवत्वे कुतश्शिव
सदृशत्वम् । सत्यम् । समुक्तः कलाहीनोपि निर्द्धूत चिदभिव्यक्ति
निमित्त सूक्ष्मदेहोपि सुदृक् क्रियाशाली । स्वदृक् क्रिया समृद्धिः
सत्स्वशिवत्वाभिव्यक्तिमान् । अयमाशयः पशोः किञ्चिज्ञत्व
दर्शनात् । शिवस्य सर्वज्ञत्व श्रुतेस्तदुभय विलक्षणतया ननु
भूतज्ञान शक्तितया स पाषाणप्रख्यो भवति ।
असदुत्पत्तिरसम्भाव्येद्युत्तरत्र साधनीयत्वात्
सतोऽभिव्यक्तिस्सुसिध्यतीति । ननु सतः पर्वतादेरनभिव्यक्ति
पूर्विकाभिव्यक्तिरसम्भाव्येति कुतः कारकैस्सतोऽभिव्यक्तिः । (प्।
२५०) तदयुक्तम् । सतः प्रागनभिव्यक्तिः पुनः कारकवैय्यर्थ्य
प्रतिहन्त्री सदभिव्यक्तिश्च यथा भवति तथोत्तरत्र साधयामः ।
ननु तर्हि त्वददृशापि सतोऽभिव्यक्तस्योत्पन्ननाशत्व श्रुतेः
कथमत्र समाधिः । सत्यम् ।
द्विधाखल्वभिव्यक्तिरेकाभिस्वाकारान्तरा तिरस्कृत
प्रतिबन्धकान्तरान्धकारादि प्रतिबद्ध स्वकारानुपलब्धि
प्राप्तिमदलब्धार्थक्रियस्य घटादेः
पुनर्दीपादिकारकैस्तदुत्सारण मात्रेणोपलब्धि प्राप्तिमदर्थक्रिया
योजनात्मिका । अन्या तु मृत्स्वरूपाधिकारणरूप
स्वकारान्तरप्रतिबद्ध घटादि कार्या कारानुपलब्धि
प्राप्तिमदलब्धार्थ क्रियस्य वस्तुनः । पुनश्चक्रादिकारकैस्तत् (प्।
२५१) कारणाकारणे प्रोत्सारणेन कार्याकाररूपलब्धि
प्राप्तिमदर्थक्रियायोजनात्मिका अत्रैव विकृतिकलिताभिव्यक्तिविशेष
शाकल्याद्यवस्थासु तदनभिव्यक्ति विशेषेचोत्पत्ति शब्दो
नाशशब्दश्च ब्रह्मणविशेषे कण्ठादि शब्दरूपोपचर्यते । न
पुरोक्तघटादि विकृति विकलिताभिव्यक्तिविशेषे तदनभिव्यक्तिविशेषे च ।
तथापि वक्ष्यमाणनयेन क्वचिच्छरीराद्यपाधिकलित समलात्म
संवित्तेः विकृति विकलिताभिव्यक्तिविशेषे शरीराद्युपाधि विकलित
समलात्म संवित्तेरनभिव्यक्तिविशेषे च स
उत्पत्तिशब्दस्सनाशशब्दश्चोपचर्यते । न तु शरीराद्युपाधि
विकलितं मलात्मसंवित्तेर्विकृतिभुवोनभिव्यक्ति व्यक्त्यन्तर विहति
त्रय विकलित सर्वधाभिव्यक्ति [[२५२]] विशेषेत्रोपचर्यते । ननु
घटादेरन्धकारावरणनिवृत्तिरिव मलावरणनिवृत्तिः किं किल
शिवत्वाभिव्यक्तिः । तन्न पटलाद्यावरणनिवृत्ति क्रियया
चक्षुश्शक्तिस्तम्भन बीजवासना निवृत्तिद्वाराभिव्यक्ति
निमित्ताञ्जन सेवादिरूपस्वाङ्गविकलया नच चक्षुरादे
ग्राहकशक्तिदृष्टेत्यनेकान्तिकत्वात् । यथा पुनस्वाकारप्रोत्सारणं
विना सुपक्व सुशिक्षित वैद्यव्यापृति निर्वर्तितात्यन्तिकपटलनिवृत्तिमती
। तदनु पटलवासा निवर्तक स्वोद्बोधक तदङ्गाञ्जन सेवन क्रिया
सेविता पुनस्तदनपेक्षणी भूयो विलुप्ति विरतिमती नेत्रतेजोऽभिव्यक्तिः
। तथा पुनस्वाकारप्रोत्सारणं विना सुपक्व
सुशिक्षिताचार्यदीक्षाख्य शिवशक्त्योपबृंहित व्यापृति [[२५३]]
निवर्तितात्यन्तिक मलनिवृत्तिमती सती तदनु अधिकार मल बीज
मलभासना निवर्तक स्वोद्बोधक तदङ्ग विशेषक्रिया सेविता
पुनस्तदनपेक्षणी भूयोविलुप्ति विरतिमती वृत्तिपरिणति विवर्तारम्भ
विधुरनिरतिशय शिवत्व पराभिव्यक्तिः । ततस्सात्वभिव्यक्तिः
कारणरूपस्वाकारान्धकाराभ्यां भूयो दण्डचक्रादिकृत
दीपादिकृत विकृतिचलित विकृति विकलित घटाकाराभिव्यक्तीव मल
शिवत्व पराभिव्यक्तिभ्यां भूयः कलाकृत दीक्षाकृत
चिदभिव्यक्त्यपरशिवत्वाभिव्यक्तीव न बाध्येति । सर्वमनवद्यं
व्यक्ति स्वरूपत्वादभिव्यक्तेर्वक्त्यन्तरं व्यङ्ग्यत्वा भावात् ।
पूर्वमविसती शिवत्वाभिव्यक्तिः [[२५४]] सहकारिसन्निधौ तथा
तदभिव्यक्ति स्वभावा । यथा घटगुत्पदीपप्रकाशः पूर्वमपिसन्
घटविदारण कर्तृरूप सहकारिसन्निधौ तत् प्रकाश स्वभावो न
प्रकाशान्तर प्रकाश्य इत्यत कर्ममहिम्न्यभिवादे
किमभिव्यक्तिरप्यसती कार्यं पुनरुत पूर्वमविसत्यनभिव्यक्तिमती
सत्यभिव्यङ्ग्या यदि सत्यभिव्यङ्ग्या तदाभिव्यक्तेरभिव्यक्तिरपि ।
तथापि क्लिप्ति कलिता तथेति तत्र
तत्रेत्यनवस्थारोपरूपकुतार्किकविपलविकल्पस्सदुरापास्त इति । न
परिहृतिरस्यभिस्तर भीरुणात्र विस्तीर्यते । ननु पूर्वमुक्त सूक्ष्मत्व
चिन्मयत्व व्यापकत्व दृक्क्रिया शालित्वलक्षणचतुष्टये सत्यपि
मुक्तशिवे कर्तृत्वस्येश्वर [[२५५]] प्रयोज्य तयानादिसिद्धत्वात्
मुक्ताश्शिवप्रेर्य इति । तन्नीतिज्ञ दृशा शिव प्रेर्यत्वात् कथं
शिवशदृशत्वम् । सत्यम् । समुक्तोनीश्वरः अविद्यमानम्
ईश्वरप्रेरको यस्य स तथोक्तः । अयमाशयः अस्वातन्त्र्यमानादि
सिद्धमपि कदाचिन्निवर्तते मलादि निमित्तत्वात् कलादिवत् ।
तदनिवृत्तेरसावपि विद्येश्वरवत् । प्रयोज्यत्व निमित्ताधिकार
मलबद्धस्सन्नसम्पूर्णमनोरथत्वादमुक्त एवेति
शिववदित्युक्तत्वाच्छिवादाधिक्यमैक्यञ्च सुकरत्वेन
निराकरणीयं कथयन्तः क्रियेत्युक्तत्वात् स्वरूपावाप्तेरेव पर
निश्रेयसत्वात् कर्तृत्वस्यापि स्वरूपत्वात् ।
तदनवाप्तिमतामसम्पूर्णमनोरथतया सर्वज्ञत्वमात्रं
पठन्तश्चान्येपि [[२५६]] प्रतिक्षिप्ताः परमोक्षनिरासकारिकासु ।
शिवादाधिक्य पादादि निराकृतिस्सविस्तरेति । विस्तरभयान्नलिख्यते ।
अथ परीक्षार्थं विशेषलक्षणं वक्तुं विभजते -
पशवस्त्रिविधा ज्ञेयास्सकलः प्रल्याकलः ।
विज्ञानाकल इत्येषां श्रुणुध्वं लक्षणं क्रमात् ॥
अर्थस्सुव्यक्तः । क्रमतस्सकलं लक्षयति -
मलोपरुद्ध दृक्च्छक्तिस्तत् प्रसृत्यैकलादिमान् ।
भोगाय कर्मसम्बन्धस्सकलः परिपठ्यते ॥
मलोपरुद्ध दृक्च्छक्तिः क्रिया विनाभूत दृगित्यध्याहार्यम् । तत्
प्रसृत्यै तच्छक्त्यभिव्यक्त्यर्थं कलादिमान् । कलाशब्देन
सूक्ष्मदेह लक्षण त्रिंशत्तत्वमुच्यते । [[२५७]] आदिशब्देन
स्थूलदेहादिकं गृह्यते । भोगाय सुखदुःखमोहात्मवेदनाय
कर्मसम्बन्धः नामिश्रं परिणामत इति परस्परोपकारेण
परिपक्व भोजक सजातीय कर्मालम्बनात् समुत्थभाव
प्रत्ययभेदेन सुखदुःखमोहात्मनोपस्थितोपस्थातव्य
कर्मसम्बन्धस्सकलः परिपठ्यते । प्रलय केवलिनं लक्षयति -
प्राग्वन्निरुद्धदृक्शक्तिः कर्मपकात्कलोज्झितः ।
कर्मणैष्यत्कलायोग्यो यस्सच प्रलयाकलः ॥
प्राग्वन्मलेन निरुद्धं दृक्शक्तिः कर्मणां
पक्वानामुपभुक्तत्वाद्-अपरिपक्वस्य न भोगदान कलाधृति
निर्मात्रत्वमिति । तदर्थं कर्मपाकाद्धेतोर्महाप्रलये प्राप्ते
कलोज्झितः कलया सूक्ष्मदेहरूपया उज्झितः [[२५८]] मुक्तः
तथोक्तः कर्मणा तदवधिपक्वेनैष्यत्कलायोग्यः
सृष्ट्यारम्भकालागमनीय सूक्ष्मदेहानुषङ्गार्हः । यस्स च
प्रलयाकलः । विज्ञानकेवलिनं लक्षयति -
मलोपरुद्धशक्तित्वाच्छून्यकल्पस्वदृक्क्रियः ।
तृतीयं पठ्यते तन्त्रे नाम्ना विज्ञान केवलः ॥
शून्य कल्पेत्यसद्भूत सदृशेत्यर्थः । सुकरश्लोकार्थः ।
प्रातिलोम्येनैक द्वित्रिबन्धनः इति ज्ञेयाः । सकलस्तु द्विविधः
सूक्ष्मदेही स्थूलदेहीति चेति । पुनस्सुक्ष्मदेही च द्विविधम् ।
अप्राप्तबाह्यशरीरी प्रणष्टबाह्यशरीरी चेति ।
प्रणष्टबाह्यशरीरी च द्विविधः । सूक्ष्मदेही सन् मलकर्म
मायीय बन्धीसन् त्रिबन्धी च वक्ष्यमाणसन्यासादिषु
कुतश्चिदुपाया द्विकर्मीसन् वासनावशान्निर्द्धुत [[२५९]]
स्थूलदेहोप्यवष्टब्ध सूक्ष्मदेहित्वात् मलमायीय सम्बन्धिसन्
विज्ञानकैवल्यप्राप्त्यवधिद्विबन्धी चेति । स्थूलदेही च द्विविधः
मलकर्ममायीय बन्धिसन् त्रिबन्धी च
विज्ञानायोगसन्यासैर्भोगाद्वा कर्मणक्षयात् ।
संस्कारवशेनैव चक्रभ्रमवद्धृतशरीरत्वात् तद्वासना
वेदनमात्र भुक्तिमान् मलमायीय बन्धी सन् द्विबन्धी चेति । स एष
एव स्थूलदेह वतस्समनन्तरन्निरवशेष वासनात् सद्यो
विज्ञानकैवल्यं प्राप्तिमान् सावशेष वासनात् । विज्ञान कैवल्य
प्राप्त्यवधिप्रोक्त द्विबन्धी प्रणष्टबाह्यशरीरत्व प्राप्तिमांश्च
भवति त्रय स्थितिन्दर्शयति -
मायादावुदरेचान्ते क्रमेणैषां व्यवस्थितिः ।
[[२६०]]
अवस्थानञ्च बन्धेन लक्ष्यतेऽणोर्विभुत्वतः ॥
बन्धे नेति सकलस्य मायाकार्यकलानुबन्धेन प्रलय
केवलिनस्तदनुबन्ध योग्यकरकर्मानुबन्धेन विज्ञान
केवलिनस्तदुभय विधुरमलानुबन्धेन लक्ष्यते । तदुपचारबीजतो
दृश्यते । इतरपदार्थस्सुगमः । ऋषयः यद्येवं विज्ञानकेवलिनो
माया संस्पर्शिन्युक्तिरनुचितेत्याशङ्कयन्ति -
विज्ञानकेवलाणूनां बन्धस्तु मल एव हि ।
मलस्य व्यापकत्वेन मायान्ते संस्थितिः कथम् ॥
मायां प्रतीत्यद्याहार्यम् । सुगमश्लोकार्थः । ईश्वरः -
भद्रं विप्रा महाप्राज्ञाश्शुद्धाध्वा यः पुरोदितः ।
भोक्ष्यमाणतया तस्य भुक्तत्वेनेतरस्य च ॥
[[२६१]]
अर्थाद्व्यवस्थिता मध्ये प्रोक्ता विज्ञानकेवलाः ।
विज्ञानकेवलास्साक्षात्त एव मुनि पुङ्गवाः ॥
शुद्धाध्ववर्तिनः पश्चात् भविष्यन्ति शिवेच्छया ।
इतरस्या शुद्धाध्वनः अर्थाद् उक्त प्रयोजनात् । साद्ध
श्लोकेन्यपदार्थस्सुलभः । हे मुनिपुङ्गवाः । साक्षात् अथ सकलत्व
प्रलयाकलत्व द्विभावा व्यवहितोपरिशिवत्वैकभावा पिहितकैवल्य
स्वलक्षणात् त एव विज्ञानकेवलाः आगमसिद्धत्वात् । पुनः
केनाप्यप्रतिक्षेप्याः युक्ति सिद्धाश्च पशवः कर्ममायात्मिक
बन्धिता अपि केवलमलयुक्तास्सम्भवन्ति । तद्व्यतिरिक्तमलस्य
बन्धत्वेनाभ्युपगमात् । यो यत् बन्धव्यतिरिक्तो येषां बन्धस्स
तदा भावेपि तेषां बन्धसिद्धः निगलादिवदिति [[२६२]]
पश्चान्मलपरिपाके शिवेच्छया निरधिकरण शिवदीक्षया लब्धा
पारशिवत्वलक्षण स्वलक्षणापरशिव
स्वनामसामविहितमलमात्रयुक्तत्वविज्ञानकैवल्य पशुत्वलक्षण
स्व लक्षणविज्ञानकेवल स्वनामानश्शिव जाती याह्यति
मलपरिपाक वशात् सद्यं परमुक्तिमद्भ्योऽवशिष्टामलपरिपाक
मान्द्यात् शुद्धाध्ववर्तिनो भविष्यन्ति । तत्र वर्तिनां मलरहितत्वात्
न विज्ञानकैवल्य लक्षणमित्यपर शिवलक्षणात् पतय एव
पुनश्शिवदीक्षां विना न शुद्धवत्मप्रवेश इति भावः ।
अपरिपक्वमलास्तु दीक्षा शुद्धि विधूरत्वात् । स मलत्वान्मलमात्र
युक्तत्वं
विज्ञानकैवल्यलक्षणमित्युक्तत्वान्मायोपरिशुद्धविद्याथो
मलपरिपाकान्तं विज्ञानकैवल्यवन्तस्सन्तिष्ठन्ति । [[२६३]]
नियमयति -
अणोर्नियामकत्वेन मायावच्छुद्धवर्त्मनः ।
तद्वर्तिनो न सकलाः किन्तु विज्ञानकेवलाः ॥
अधिकारमलोपेताश्शिवेच्छानुमतस्सदा ।
अणोरात्मनः कार्यद्वारा प्रलयकैवल्यप्राप्ति पूर्वा
शुद्धकलाकलित सकलस्येति नियामकत्वेन मायावत् शुद्धवर्त्मन
इदमस्य विज्ञनकैवल्य प्राप्ति पूर्वदीक्षा लब्ध शुद्धकला कलिता
परशिवस्य नेतरस्येति नियामकत्वेन नियति कारकत्वेन तद्वर्तिनो
सङ्ख्यातास्सर्वेन सकलाः । प्रलयकैवल्य प्राप्तिपूर्वा
शुद्धकला कलिता । किन्तु विज्ञानकेवलः
शुद्धविद्याधस्तनस्थानवर्तिष्वसङ्ख्या तेषु विज्ञानकेवलेषु (प्।
२६४) पक्व मलास्ते दीक्षाकृत स्वापरशिवत्वाभिव्यक्ति
स्वापरशिवनाम स्वशुद्धकलाकलित शुद्धवर्त्मस्थितिभिः
पिहितकैवल्य पशुत्वलक्षण स्वलक्षणविज्ञानकेवल स्व नाम स्व
मल कलित शुद्ध विद्याधस्थिति क्लिप्तिमन्तः । नतु
विज्ञानकेवलास्तत्र स्थिता इति व्याख्येयः । तेषां मलमात्र युक्त
स्वलक्षणात् शुद्धवर्त्मवर्तीनां तु मलोत्तीर्णत्वात् । अधिकारमलो
भेताः मलसहकृत मायीय विपरीत
प्रतिपत्यात्मपुंसत्वमलवन्तस्सकला इव दृक्क्रिया
वारकानादिमलमायात्यन्त विच्छित्तेर्महामायायां मलरहित
वासना समुत्थ सृष्ट्यादि निर्माणभोगभुक्तिरक्ति लक्षणाधिकार
मलोपेताः महाप्रलये निश्शेषतः पारतन्त्र्याद्विनिर्मुक्ताः [[२६५]]
परमुक्तिं गमिष्यन्ति इति तदवधि सदासर्वदा शिवेच्छानुमताः
अनतिलङ्घित शिवशक्तितन्त्राः । यद्येवं मायामण्डलस्थनां
सकलानान्दीक्षया शुद्धाध्वभोगप्राप्त्यर्थन्तु गुरूकृतयोजना
व्यर्थेत्याशङ्क्य परिणत मलानामस्मदादीनामपि दीक्षया
कलातत्वान्त शुध्या सूक्ष्मदेह शुद्धि समनन्तरं
कर्मशुद्धेः प्राक् प्रलय कैवल्यं सिद्धमिति कृत्वा कर्मशुद्धि
समनन्तरं विज्ञानकैवल्य प्राप्ति पूर्वमनुपदमेव
तदङ्गात्यन्त मलक्षयकर्या क्रियया शुद्धाध्व प्राप्तिरपरिणत
मलानान्तद्विचितयातावर्था तया विज्ञानकैवल्यमात्र प्राप्तिरस्तीति
सूचयन् तत्सिद्धि दर्शयति -
[[२६६]]
विज्ञानकेवलानान्तु सिद्धौ युक्तिरिहोच्यते ।
कला तत्वान्तशोधिन्या दीक्षया ज्ञानतोपि वा ॥
योगेन भोगतो वाथ सन्यासाद्वा परिक्षये ।
कर्मणान्तु तदायत्त मायायाश्च परीक्षयात् ॥
मल एको विशिष्टस्यात् तस्माद्विज्ञान केवलाः ।
कलातत्वान्त शोधिन्या दीक्षया ज्ञानतोपि वा । कला पुरुष विवेके
कृत प्रायात्वान्मायापुरुषविवेकस्य मायापुरुषविवेकविषय
ज्ञानादपि वा योगेन प्रत्याहाराद्यङ्गोपकृतचित्त जयात्म माया
पुरुषविवेकफलेन वासन्यासाद् वा सर्वमेतदीश्वरायेति
ईश्वरार्पणलक्षणकर्म सन्यासाद् वा । अथ भोगतो वा ईश्वरार्पित
कर्मफलवेदनात्म भोगाद् वा कर्मणान्तु [[२६७]] परीक्षय
इत्यनुषङ्गः शेषं सुगमम् । वेदान्तसाङ्ख्य क्षपणसौगात
पाञ्चरात्रपादार्थिक दृष्त्यभ्यासजनित ज्ञानादिना भवतु
विज्ञानकैवल्यं किमेतैर्विशिष्टैरिति हृदिसमाशङ्क्यरागादीन्
तदभ्यासतो विविच्यापरिज्ञानान्नकर्मक्षय इति तद्
विज्ञानिनस्सकलत्वन् नमुञ्चतीत्याह -
बौद्धादिदृष्टिमुक्तानां कैवल्यमपि नेष्यते ।
यतस्तद्बुद्धितत्वोर्ध्वे कर्मणामपरिक्षयः ॥
स कला एव ते ज्ञेयाः कलायोगो यत स्थितः ।
वेदान्तविदादीनामपि प्रतिस्वावर्धुध्वोक्तिः क्रियतां
सुकरोक्षरार्थः । प्रलय केवल सिद्धिन्दर्शयति -
एवमेवाणवोयुक्ति सिद्धाः प्रलयकेवलाः ।
[[२६८]]
तत्वानामुपसंहारे प्रलयात्कर्मणोथवा ।
त्यक्तसूक्ष्मबहिर्देहा एष्यद्भोगनिवन्धनैः ॥
अपक्वैः कर्मभिर्युक्ता इष्यतां प्रलया कलाः ।
तत्वानां स्थूलसूक्ष्मरूपाणामुपसंहारे लये जाते अथवा
अथवेत्येकैकोक्त्या सिद्ध्यन्तीति भावः कर्मणस्तत्वस्थिति कारणतया
पक्वस्य प्रलयात् सुखादिलक्षणात् स्वपरिणते स्वकर्तृभुक्ति
पुरस्सरं क्षयात् त्यक्तेत्यनुषङ्गः स्पष्टस्तदितरपदार्थः ।
सकलसिद्धिन्दर्शयति -
सकलास्तु कलायोगात् सूक्ष्मा स्थूला च सा द्विधा ।
प्रतिपुङनियतन्तत्वं कलाद्यवनिपश्चिमम् ॥
स्वेच्छयैवानुगृह्णाति प्रलयाणूनपीश्वरः ।
[[२६९]]
प्रतिपुङनियतमसाधारणदेहात्मकन्तत्वं
सूक्ष्माकलाः । कलाद्यवनिपश्चिमं कपालीशादि कालाग्न्यन्त
साधारण भुवनात्मकन्तत्वं स्थूला कला आत्मान्तरैरपि
भोग्यत्वात् । साधारणासाधारणोक्तिमत्
भुवनजदेहादिकमप्यत्रान्तर्भूतम् । पूर्वार्धर्थस्पष्टः
तदानीं गुर्वधिकरणत्वायोगात् प्रलयाणु नपि विज्ञानाणुनिव
शिवस्वेच्छया निरधिकरण स्वशक्त्यैवानुगृह्णन्ति पाशविमुक्ति
शिवत्वाभिव्यक्ती भवतां स्यातामिति सङ्कल्पयति । ऋषयः -
अथ कर्मसमत्वेऽणोरनुग्रह इहेष्यते ।
कर्मसाम्यञ्च भोगेन कथमेषामनुग्रहः ॥
इह सकलविषये अणोरात्मनः कर्मसमत्वे पाकेन [[२७०]] भोग्यकाल
दानेन भाव्यम् । एषां प्रलयाकलानां तदसम्भवात् अनुग्रहः
कथमिष्यते । मल पाकमन्तरानुग्रहकारणं कर्मसाम्यमिति
केनोक्तं पूर्वापरोक्ति विरुद्धार्थ विधातृभिर्वक्तुं किलोचितमिदम् ।
मदुक्तिस्तन्तान्तरे यथा क्वचित् समृत्थापि मदभिप्रेतं विरुद्धं
ज्ञात्वार्थः क्रियतामिति सूचयन्नीश्वरः समासक्ते -
समत्वं कर्मणान्नात्र निमित्तन्तदनुग्रहे ।
परिपाको मलस्यैव किन्त्वनुग्रहकारणम् ॥
सुलभश्लोकार्थः । अन्यथा बाधास्तीत्याह -
किञ्चैष्यद्भोगहेतूनि सन्तियेषामनुग्रहे ।
नते शिवस्य विषयाः किन्तु पक्वा स्वकर्मणा ॥
[[२७१]]
सर्वत्रकर्मसाम्यस्य यद्यनुग्रह हेतुता ।
विज्ञानकेवलानान्तु भवत् कथमनुग्रहः ॥
किञ्चानुग्रहरूपकार्या व च्छिन्नतया हेतुत्वं वक्तव्यमिति
सर्वत्रानुग्रह हेतुता । कर्मसाम्यस्य यद्यस्ति
येषामेष्यत्भोगहेतुनि अपरिपक्वानि कर्माणि सन्ति नते प्रलयाकलाः ।
शिवस्यानुग्रहे विषयाः । किन्तु स्वकर्मणा पक्वाः परिपक्व
कर्माणास्सकलाविषया इति किल सम्पन्नन्तर्हि
पुनकर्मनिरपेक्षितत्वात् । विज्ञानकेवलानामनुग्रहः कथं
भवेत् न सम्भाव्यः कथञ्चिदपीत्यर्थः ।
विज्ञानाकलस्याविज्ञानाकलावस्था लक्षण स्वफलसूक्ष्म
स्वशरीरन्दुर्लक्ष्य कर्मणां साम्यं
शक्तिपातकारणमस्तीत्याहुः । [[२७२]] केचिदाचार्याः तदपि विज्ञान
केवलानान्तु भवेत् कथमनुग्रह इति । शिवाक्षेपोक्त्या निरस्तन्तथा हि
विज्ञानयोग सन्यासभोगानां प्रत्येकं प्रतिपुरुषं विज्ञान
कैवल्यैकचरितार्थानां पुनर्मिलितानामविरोधित्वेन
समविरोधान्योन्य सन्निपातसमत्वं कथं स्यात्
मायापुरुषविवेकलक्षणा द्वितीया
प्रतिभटविज्ञानैकचरितकैवल्यस्य विज्ञानकलान्यतमस्य वा
कर्मसमत्वं कथं स्यात् सकलविषये वा तदपेक्षास्ति किन्नेत्याह -
सकलानाञ्च सर्वत्र कर्मसाम्यन्नकारणम् ।
यतः कर्मसमत्वेपि तदन्येषान्तु कर्मणाम् ॥
अपाकेपरमेशाज्ञाऽविरुद्धान्य प्रदा स्थिता ।
[[२७३]]
कर्मणोप्यस्य साम्ये व पक्वे तदितरेपि च ॥
तं प्रत्येवैश्वरीशक्तिरुपसर्पति तच्छिदे ।
अनुग्रहे ततो नेष्टं तत् सामान्यमुनिपुङ्गवाः ॥
सकलानाञ्च सर्वत्र वर्तमानं
कर्मसाम्यन्नकारणन्नचानुग्रह निमित्तं श्रुतम् ।
अन्यार्थप्रदत्वानार्हतया क्वचित् कर्मसाम्ये पदोक्त श्रुतापि पुनः
काकतालिधन्यायमवलम्ब्येत्याशयः । अत एव अन्यार्थ
पदत्वानर्हतयात्र किरणे समेकर्मणि सञ्जाते कालान्तर
वशात्तदः । इत्यत्र भगवता रामकण्ठे न कालपाकवशादिति
कृत्वा मलपरिणत्यर्थतया व्याख्याय समेकर्मणीत्यत्र न
हृष्यत्युपकारेण न पाकारेण कुप्यति । यस्समस्सर्वत्र भूतेषु
जीवमुक्तस्स उच्यते । [[२७४]] इति श्रुत प्राकृत स्व
कर्मफललक्षणोपकारावकारकर्मणि समत्यर्थानन्तरमावाक्य
व्याख्यातम् । मृगेन्द्रेपि कर्मव्यक्ति द्वयं समित्यत्रावि तथा
व्याख्यातम् । कर्मसाम्यन्नकारणमित्यत्र हेतु दर्शयति । ततः
यस्मात् कारणात् कर्मसमत्वेपि केषाञ्चित् कर्माणां साम्येपि
तदन्येषान्तु कर्माणामपाके परमेशाज्ञा शिवशक्तिः ।
किमनुग्राहिका पतति नेत्याह । विरुद्धेत्यादि
विरुद्धातरोधाधिनिमोक्ष प्रतिबन्धिनी अन्य प्रदा मुक्तितरसभोग
साकल्यदात्री पुनरथ प्रलयकैवल्य दात्री स्थिता । अस्य पुरोक्तस्य
कर्मणोऽत्र जात्यैकवचनम् । साम्ये भोगदान कालसमत्वे तदितरेपि
च समस्तकर्मणि [[२७५]] पक्वेतं तत् कर्मणि प्रत्यैवैश्वरी
शक्तिस्तिरोधाननकत्रितच्छिदे तत् समस्तकर्मच्छेदाय
विज्ञानकैवल्य दानाय च उपसर्पति उपयाति सङ्कल्पयति । नहि
मुक्तये । हे मुनिपुङ्गवाः । तत्वोनुग्रहे कारणतत्वेन
कर्मसाम्यन्नेष्टं तदेव भूयो विविच्य दर्शयितुं माया पटले
परीक्षिता वशिष्टं कर्मस्वरूपं निरूपयति -
कर्मेहत्रिविधन्दृष्टा दृष्टजन्मोपभोग्यकम् ।
तथाऽनियतकालोपभोग्यञ्चेति समासतः ॥
लक्षणोक्त्याऽर्थसुगमनीयः । तत्र दृष्टभोग्यं कर्मदर्शयति -
आयुर्योगोगलुच्यादि सिद्धो मन्त्रप्रभावतः ।
तज्जन्मन्येव फलदो दृष्ट भोग्यन्तदुच्यते ॥
आयुर्वर्धनकरो योग आयुर्योगस्सतु गलुच्यादि [[२७६]] सिद्धः
अमृतवल्यादौषध बलेनाभ्यस्तः जडस्य स्वतः
प्रवृत्तिशून्यत्वान्मत्र प्रभावतः तदुद्दिश्य जप्तध्यान देवता
महिम्ना तज्जन्मन्येव फलदः शतायुः पुरुष इति
श्रुतिनियतिमतिक्रम्य स्वेच्छाकालीन तद्देहस्तिति कारकः तत्
कर्मदृष्टभोग्यमुच्यते । अदृष्टभोग्यन्दर्शयति -
स्वाराज्यावीचिभोग्यौयौ देहान्ते पुण्यपापयोः ।
अदृष्टं वेदनीयन् तत् कर्मोक्तं शिव दर्शने ॥
देहान्ते शरीरपाते पुण्यपापयोः फलरूपौ स्वाराज्यावीचिभोग्यौ
स्वर्गराज्यावीचि नरलक्षणभोग्यौयौ तत् सम्बन्धि तत् पुण्य
पापरूपं कर्म शिव दर्शने शिवशास्त्रे अदृष्टं वेदनीयं
भोग्यमुक्तम् । [[२७७]] अनीयतभोग्यं दर्शयति -
अश्वमेधो द्विजवधः कृतकालेन भोगदः ।
तयोस्समुच्चययोगादेकस्तु प्रबलः पुरा ॥
अन्योनियतकालस्याद्यवन्मध्येपि कर्मणाम् ।
अश्वमेधः केनचित् कृतः कालेन पाकेन भोगदः तस्य
स्वर्गप्राप्तिलक्षण भोगन्दातुमुद्युक्तः तेन द्विजद्विज वधोपि
कृतस्तदानीं कालेन भोगदः
नरकप्राप्तिलक्षणभोगन्दातुमुद्युक्तः तयोस्समुच्चया योगात् ।
समकाल भोगदाने ना योगात् । तत्र प्रबलस्तु एकः पुरा
प्रथममनीयतिव्यवहित नियन्तृशक्तिप्रेरितो भोगन्ददाति ।
अन्यस्तदितरः कर्मान्तदितरेषां मध्येपि यावत् प्रबलः प्रबलः
पुरा पुरा भोगन्ददाति । [[२७८]] तावदनियत कालस्यात् अविद्यमानो
नियतकालस्समभोगदानकालो यस्य स तथोक्तः समबलत्वे किमित्यत
आह -
द्वयोरैहिकयोस्तुल्य फलयोस्सम्भवेसति ।
क्लैब्या क्लैब्यात्मनोस्तत्र पतिता शक्तिरैश्वरी ॥
कर्मान्तरं समुच्चित्य बलादन्यतरस्य तु ।
तदातद्बलवद्भोग्यमन्यत्कालान्तरे भवेत् ॥
ऐहिकयेरस्मिन् लोके भवफलसम्बन्धिनोः तुल्यफलयोः समबल
स्वकार्ययो क्लैब्या क्लैव्यात्मनोः नपुंसकत्व पुंस्त्व स्वकार्य
स्वरूपयोर्विरुद्धकर्मणोः सम्भवे पाकेन फलजननं न
मुख्ये सति तत्रोभयत्र पतिता सङ्क्लिप्तिमती ऐश्वरी
शिवसम्बन्धिनीशक्तिः । [[२७९]] तत्रान्यतरस्य एकस्य सजातीयं
कर्मान्तरं बलात् ब्रह्मणापि दुस्तर
स्वसङ्कल्पलक्षणार्थक्रियया समुच्चित्य संयोज्य सहायीकृत्य तदा
बलवत्तत् कर्मभोग्यं विधत्ते अनियतमन्यत् नपुंसकत्वं वा
कालान्तरे भोग्यं भवेत् पराधो लोकप्राप्तिफलयोस्समत्वे
द्विपुरुषाकृष्टकामिन्यादौ राजक्रूरशक्तिवत्तत्र पतिता
शिवतिरोधान शक्तिरेव । तद्वयं विनाश्य पक्वं विरोधिलक्षण
विलक्षितं कर्मान्तरं भोग्यं करोतीत्याह -
तथामुष्मिकयोरश्व मेधद्विजवधात्मनोः ।
युगपत्सम्भवे शक्तिर्द्वयोरपि विनाशिनी ॥
अन्यत् कर्मसमं भोग्यं विधत्ते पुरुषस्य सा ।
[[२८०]]
द्विपुरुषाकृष्टकामिन्यां राजाज्ञेव
विरुद्धद्विकर्मविनाशिनी पक्वा विरुद्धान्य कर्मफलदात्री
द्विकर्माकृष्टपुरुषे पतन्ति असतीव वर्तिनिं नियतिं
पुनस्सञ्चोदयन्ति पुरुषं समुद्धृत्य कर्मान्तरफले नियमयति ।
अश्वमेध ब्रह्महत्तिलक्षणसमबलकर्म साम्यस्यापि
तिरोधशक्त्या स्वनाशफले चरितार्थत्वात् कथं
स्वचरितमुक्तिलक्षण फलन्तत् साम्यम् । अमुष्मिं भवा वा
मुष्मिकौ तयो रामुष्मिकयोः । सुबोध्य श्लोकार्थः ।
प्रबलप्रतिबद्धा नियतकालयो समत्वे स्वगतिन्दर्शयति -
तत्रानियतयोस्सद्यस्सम्भवे परिपक्वयोः ।
विरुद्धयोश्च सा शक्तिस्तन्नाशेनान्यभागदा ॥
[[२८१]]
तयोर्नाशस्तन्नाशस्तेन तन्नाशेनान्ये अनुषङ्गः ।
सुचरितव्य श्लोकार्थः । उपलक्षणञ्चैतत् सजातीयत्वेपि
स्वर्गब्रह्मलोक स्वफलयोः रौरवावीची स्वफलयोरपि साम्येपि
विरुद्धत्वादश्वमेध ब्रह्महत्योरिव विनाशिनीति । ननु
पश्चादनुष्ठितस्य पूर्वानुष्ठितेन समत्वं कथं स्यात् ।
तदयुक्तम् । कृष्यादिषु तथा विधस्य वेगेन पाकेन
समफलदानदर्शनात् अनन्वीश्वरशक्तिरविरुद्धत्वेपि किमिति न पतति
तदयुक्तम् । यथाह्यनन्त सुशिक्षितोप्यर्जुनादि धनुर्द्धरो न सदैव
शत्रुतो विनिर्गतं शराद्यायुध जातम् । स्वशरैश्चिनक्ति । अपितु यदा
स्वशरीरोपघाता या युष्यकर्मविरोधेन [[२८२]] तदुपस्थितं
भवति । तस्मिन्नेवकाले विरुद्धत्वादेवच्छिनक्ति । तथा विरोधे
भगवान् स्वशक्तिं प्रयुङक्त इति सर्वकर्मसमगतिन्दर्शयति -
यदान्यत्कर्मसर्वञ्च समन्तस्य विनाशिनी ।
तदा विज्ञानकैवल्यं पुंसस्स्यात्कर्मनाशतः ॥
समीभूत कर्मान्यत्सर्वं कर्म च समन्तस्य
समस्तकर्मणश्शिवशक्तिः रोधकरी विनाशिनी भवति । तदा ततः
कर्मनाशतो हेतोः पुंसो विज्ञानकैवल्यं स्यात् न मुक्तिः इत्थं
कर्मसाम्यस्य अनुग्रह शक्तिपात
हेतुत्वन्निषिध्यमलपाकस्येत्युपसंहरति -
कर्मनाशान्मलस्यापि विपाके सहकारिणः ।
[[२८३]]
पतत्युन्मीलिनीशक्तिस्तदनुग्रहरूपिणी ॥
ननु विकर्मिणां विज्ञानकेवलिनां नामिश्रं परिणमत इति
न्यायेन कथं मलस्य पाकः । सत्यम् ।
विज्ञानयोगसन्यासैर्भोगाद् वा कर्मणक्षये । तत् कर्मायत्त
देहादेः क्षयान्तत् भोक्तृता क्षयः । मलोपि पक्व षष्ठोस्मात्
सहकारि वशाद्विजाः ॥ इत्युक्तम् । विस्मृतिं किं स्मर्यतामित्याह । सेति
। सहकारिणः कर्मनाशादपि कर्मस्वफलसूक्ष्मदेहदिद्वारा
स्ववासनां मले कृत्वा प्रयाति प्रलयमिति श्रुतेः । मले
स्वफलाद्वारा स्वक्षयात् पूर्वम् । स्वनिहत स्ववासन
कर्मक्षयादपि मलस्य पाकेपि शब्दात् प्रलयाणूनां
कर्मास्तित्वेपि पौर्णाक सकलावस्था [[२८४]] भुक्तभोग स्वनिहित
वासना बलात् । स कलानाञ्च साक्षात्कर्मफलभोगमिश्रत्वात् पाके
तीव्रतरादि लक्षणे उन्मीलनी
मलपरिणतिमत्याश्चिच्छक्तेश्शिवपदावलोकनफलवती । यद्वा
अचिदनुग्रहविमुखी चिदनुग्रहोन्मुखी । अत एव तदनुग्रहरूपिणी ।
तच्छिन्मुक्ति व्यक्तिलक्षण स्वकार्यवती शक्तिः । तीव्रतर पाकादि
मलधर्मानुवर्तनात् क्लिप्त तीव्रतरादिमती पतति
संसारभीतिर्मुक्त्यासक्तिश्चास्य जायतामिति सङ्कल्पयति
कैश्चित्कर्मनाशाद्धेतोः पततीति व्याख्यातम् ।
सर्वबन्धक्षयकरीसती पतति न तदर्थमात्रं शक्तिः पततीति
सहकारिण इति पदस्य वैय्यथ्यादपि [[२८५]] तदसदिति स्फुरति । तत्र
सकलानामपि क्वचिदत्युत्कटमलपरिपाक वशात् । समस्ते कर्मणि
पक्वे पतति तत्र पतन मात्रात् । कर्मनाशेन तद्वासनामवलम्ब्य
शरीरस्थिति दीक्षादिकं प्रवर्तते । अत एव
सर्वबन्धक्षयरूपिण्यां सद्यो निर्वाणदीक्षायां तस्यामपि
शरीरं संस्कारवशाच्चक्र भ्रमवत् कियन्तं कालं तिष्ठन्तीति ।
मतङ्गे अशुद्धविद्यातत्वपटले । तदिदं प्रपञ्चितम् ।
क्वचिन्मलपाकमान्द्यात् कर्मण्यपरिपक्वेपि पतति । ननु अपरिपक्वस्य
कथन्नाशः । सत्यम् । मन्त्रसंस्कारात् पाकं प्राप्य विनश्यति ।
तदुक्तम् । नन्वपक्वानिकर्माणि भुज्यन्ते युगपत् कथम् ।
अपक्वान्यविकर्माणि मन्त्रशक्ति [[२८६]] प्रभावतः ॥ अकाल
पुष्पप्रसव न्यायात् प्राप्नोति पक्वताम् । अनेन देहेन युगपत् भुक्ते
प्राकाम्यवानिति । किरणेपि -
अनेकभविकं कर्मदग्धं बीजमिवाणुभिः ।
भविष्यदपि संरुद्धं येन दन्तद्धिभोग । इति ॥
सकलानां शक्ति पतनानुपदाज्जातन्दर्शयति -
तस्यां पतितमात्रायां मलस्याधो नियामिका ।
शक्तिं निवर्तते तस्यां निवृत्तायां महात्मनः ॥
वैराग्यं जायते क्षिप्रं संसाराद्दुःख सागरात् ।
दिदृक्षा जायतेश्शम्भो पादपङ्कजयोरपि ॥
कदाद्रक्ष्यामि देवेशं मोक्ष्येहं बन्धतः कदा ।
को वा दर्शयिता शम्भोरिति सञ्जायते मतिः ॥
[[२८७]]
एवं संसारतोभीत मनुगृह्णाति चेश्वरः ।
तस्यां शिवरागसंयुत शिवशक्तौ पतितमात्रायाम् अयोनियामिका
संसार स्थित्यच्युतिकरी । नतु चिच्छक्ति तिरस्कत्रिदीक्षया सेति
वक्ष्यमाणत्वान्मलस्य शक्तिमलस्य पोत् बलिनी तादृशी
भगवतश्शक्तिश्च निवर्तते । असतिव तिष्टति तस्यां निवृत्तायां
संसारा शक्तिकररागस्याप्यसत इव वर्तनात् महात्मनश्शक्तिपात
पवित्रि तस्य वैराग्येत्यनुषन्येश्वर इत्यन्तार्थस्सुकरत्वात् सुकर्तव्यः
। कथमनुग्रहातीत्यत आह -
तद्योग्यतानुसारेण करुणागर्भयादृशा ।
पुनाति साधिकारेण यं वापि परमेश्वरः ॥
[[२८८]]
परमेश्वरो कुर्वधिकरणश्शिवः करुणा गर्भया
घ्राणाश्रयागर्भया दृशा दृष्या तद्योग्यतानुसारेण
वैराग्याद्यनुरूपेण दृशावलोकनानन्तरकल्पितेन साधिकारेण
गुरुशुश्रूषाधिकारेण सह वर्तनेन नहि दीक्षा व्याख्या
प्रतिष्ठा मात्राधिकारेण सह वर्तनेनेति यं वापीत्युत्तरत्र उक्ति
विरोधात् यं वापि वर्णाश्रमेण निकृष्टमपि पुनाति शुध्यति ।
तदुक्तं मतङ्गे -
सर्वत्रानुग्राहकः प्रोक्तः पत्युद्धमोन्निवारितः ।
ब्रह्मादिस्थावरान्तस्य भूतवर्गस्य कृत्स्नशः ॥
निरपेक्ष्य करोत्याल अणोरात्मसमं बलमिति ।
योमव्याप्तिस्तवेपि । जाति नियमेन न युक्तं मुक्तिसुखं पूर्णतां
ददात्यपितु । सर्वेभ्यो भूतेभ्य सुखप्रदो [[२८९]] यो नमोस्तु तस्मै
त इति । दीक्षा सञ्ज्ञीतेयमित्याह -
ययानुग्रहरूपिण्या शक्तेर्गति निरोधिका ।
मलस्य क्षीयते शक्तिस्सा दीक्षा शाम्भवीक्रिया ॥
ययानुग्रहरूपिण्या चिदृष्यवलोकनादिरूपया
शक्तेरात्मनश्चिच्छक्तेर्गते सर्वविषयी कृतेर्निरोधिकादिरस्कत्रिगति
निरोधिका । मलस्यानन्तपुरुष शक्त्याद्यवृत्तिरूपशक्तीनां मध्ये
चिदनुग्रहरूप शिवशक्तिपात पवित्री तस्य सम्बन्धिनी शक्तिः
क्षीयते । ननु मलस्य वारकत्वरूपधर्मस्याग्ने
रूर्ध्वज्वलनात्मकस्ये व सहजत्वात् । तन्निवृत्यामलस्यापि क्षये
ह्येकमोक्षे सर्वमोक्षप्रसङ्गः । तन्न । [[२९०]]
कालिकादिभिरनैकान्तकत्वात् । कालिकाकम्बुकसम्बन्धिन्या सतां
मृतण्डुलावृतिलक्षणश्शक्तेर्विषय सम्बन्धिन्नाशक्तेश्च
क्षयान्नकालिकादीनामक्षयः मन्त्रदीक्षात्मना मलस्य
शक्तेरावारकत्व स्वभावस्याग्नेश्शक्तेर्दाहक स्वभावस्येव
क्षयो निवृत्तिलक्षणाऽन्यथा भाव क्रियते । ततस्तदानीं रूपान्तर
परिणतिर्भविष्यतीति न स्वस्वरूपा भावः ।
मलशक्तेरावारकत्वलक्षण स्वभावान्निवृत्तिलक्षण
स्वभावान्तरपरिणते स्वरूपत्वेपि आमयाद्विश्लिष्टपुरुष इतीव
शक्तिसंरोधादुभयत्र विभुत्वेन देशान्तर नयना सम्भवेपि
मलाद्विश्लिष्टस्स इति कथ्यते । यद्येवम् पुरुषस्यावार्यत्व लक्षण (प्।
२९१) निवृत्तिलक्षण स्वभावात् स्वभावान्तर परिणतिरस्तीति जडत्वा
विना भूत विकारिस्यात् । तन्न कालिकार्थ निवृत्यानतात्रस्य
कश्चिद्विकारो दृश्यते । यथा तथा पुरुषस्थानीयस्य विषयस्य
शक्तौ निवृत्तितायां न कदाचित् वर्णाकृत्यादि स्वरूपनाशो दृश्यते
। यथा तथा कतकवृक्षस्य फलं मेघजादि सहजकन्दुष्वभुक्त
एव जले प्रक्षिप्तकलुष शक्तेस्संरोधं विदधल्लक्ष्यते । ननु जलात्
किमपि स्वभावञ्जलेन्यस्मात् स्वभावान्तरं जला
स्वभावमादाया पत्यान्यत्र क्षिपेत् । कालुष्यमात्रमेव तेन
क्षीयते । यथा तथा चक्षुः पटलनिवृत्याञ्जन सेवादिना
पुनस्तच्चक्षुश्शक्त्युक्तं भकरतद्वासना [[२९२]] निवृत्या च
स्वभाव नाम स्वशक्ति विकृति विकलित सदभिव्यक्तिं विना न
स्वभावान्तरा पातनेन कश्चिद्विकारो दृश्यते । यथा तथात्मनि
मलसन्निधाना कृतत्वादावार्यत्वस्य सहज स्वभावत्वा भावात्
तन्निवृत्तिद्वारा सहज स्व सर्वज्ञत्वात्म शिवत्व विकृति विकलित
सदभिव्यक्ति करीति न वक्ष्यमाण दीक्षा विकारणी । तदुक्तं
भोगकारिकासु -
स्वरूपव्यक्तिलाभाच्च न विकारो न नाशितेति ।
ननु मलापेक्षमपि तदावार्यत्व पशुत्वापरोक्ति मदकतृत्वा पृथक्
भूताज्ञत्वस्याति सा मलस्याति शुद्धशिवत्वलक्षण सहज
स्वभावेन सहैकात्मवर्तित्वं विरुद्धत्वान्नोपपद्यते । तथा
क्षिपन्तश्च भगवता मतङ्गेन -
[[२९३]]
शिवत्वमति शुद्धं स्यात् पशुत्वमति सामलम् ।
अस्माद्विरोधादेकत्वं भगवन् गम्यते कथम् ॥
इति सहजस्वभावस्य निवर्तयितुमशक्यत्वान्नहिशिवत्व
निवर्तनेनाज्ञत्वस्य वृत्तित्वं यदिपुनश्शिवमज्ञानेन सह
विद्यमानन्तर्हि तत्राकिञ्चित् कर एव मलः यतो मलस्य शिवत्व
विघटनमेव किञ्चित् करत्वन्नेतरदुपलभ्यते । अथ शिवत्व निवर्तनेन
मलः किञ्चित्कर इत्युच्यते । तदयुक्तम् । सहज स्वभाव
विघटनत्वादात्मनोप्यभाव प्रसज्यते । अत्रोच्यते ।
यथाग्नेर्विरुद्धत्वमपि तोयं शीतलक्षण सहजस्वभावमग्निना
संयुक्तमेव स्वविरुद्धन्दाह लक्षणं कार्यं करोति । तथा
मलेन विरुद्धेन संयुक्तन्तच्छिवत्वं [[२९४]]
स्वविरुद्धमर्थविषया ज्ञानक्रियालक्षणकार्यं
स्वसन्निविष्टतया करोतीति नकदाचित् कथञ्चित् कस्यचित् सहजस्य
स्वभावस्यात्र भावः वस्त्वभाव प्रसङ्ग इति । तदुक्तं मतङ्गे -
विरुद्धमग्निनातोयं युक्तन्दहति तत्क्षणात् ।
अस्तित्वान्मुनिशार्दूल विरोधत्र न युज्यते ॥
तदुक्तञ्च सर्वज्ञानोत्तरे -
तामृस्यैव तु हेमत्वम् अन्तर्लिन यथा स्थितम् ।
अन्तर्लीनं तथा ज्ञेयं शिवत्वं पुद्गलस्य तु ॥ इति ।
ननु यथा शीतलक्षण स्वभावं शिवेनत्वं मलेन संयुक्तं
तद्विपरीतमज्ञत्वात् कर्तृत्वार्थ क्रियात्मा ज्ञानक्रियालक्षणं
स्वविरुद्धं कार्यं करोतीत्युक्ते सति [[२९५]] न विषमस्सदृष्टान्तः
यदि दाहज्ञानलक्षणमित्युक्तं तर्हि
दार्ष्टान्तिकेप्यज्ञानमित्युक्ते स विषम इत्यावारकलक्षणं
कार्यं करोतीति वक्तव्यम् । सत्यम् । यथा
शीतस्वभावञ्जलमग्निसम्बन्धात् । स्वविरुद्धा शीतलक्षण
कार्यकरं भुत्वाग्नेर्दाहस्य लक्षणे शरीरादि वस्तुनि तदा
स्वदाहलक्षणकार्यं कर्तुमवकाशन्ददातीत्युपचारात्
दाहलक्षणं कार्यं करोतीत्युच्यते । तथा सर्वार्थ दृक्
क्रियालक्षणस्वभावं शिवत्वं मलसम्बन्धात् स्वविरुद्धा
ज्ञानक्रियालक्षणकार्यकरं भूत्वा मलस्यावार्यलक्षणात्म
वस्तुनि स्वावृतिलक्षणं कार्यं
कर्तुमवकाशन्ददातीत्युपचारात्तदा वृतिलक्षण कार्यं
करोतीत्युच्यतामिति [[२९६]] न विषमस्सदृष्टान्तः सर्वज्ञत्व
सर्वकर्तृत्वलक्षणं शिवत्वं स्वत स्वात्मनि तद्विपरीतलक्षणं
शिवत्वात्यन्ताभावलक्षणमशिमज्ञत्वात् कतृत्वलक्षणं
मलविषयोपहितममले विषये व विद्यमानमिति भिन्नविषयत्वान्न
शिवत्व पशुत्वयोस्सहानवस्था लक्षणो विरोधः । भवतामपि
साङ्ख्यच्छायावलम्बिनं यदि शुद्धः पुरुषः कथन्तस्य
विपरीत प्रतिपत्तिरविद्या । अथ स्वात्मनि शुद्धत्वं विषयेतु विपरीत
प्रतिपत्तिरविद्येति भिन्नविषयत्वे नात्रविरोधः प्रतिह्रियते
भवद्भिर्यदुक्तम् । सर्वमालम्बने भ्रान्तन्नस्वात्मनि कथञ्चनेति
। तदितरत्रापि समनमनैकत्र पर्यनुयोगः । उभयत्र [[२९७]] दोष
परिहार समत्वात् । नैकः पर्यनुयोक्तव्यः । अलमनेन
विस्तरभीरुत्वात् प्रकृतप्रसक्तानुप्रसक्ताति प्रसृतप्रसङ्गेन
प्रकृतमनुसराम । सा शाम्भवी शिवशक्त्यात्मिका क्रिया
सर्वानुग्रहार्थं शाम्भव्यादि भेदभिन्ना दीक्षादान
क्षपणधर्मत्वाद् दीक्षा सञ्ज्ञिता गुरुशिष्यसम्बन्धेन
विनानुग्रहो न जाघटीतीति सम्बन्धोपि शिवेन विना न
जाघटितीत्याह -
अनुग्राह्यस्य विनये तथानुग्राहकस्य च ।
कारुण्ये स शिवः कर्ता तयोर्योगस्सुदुर्लभः ॥
तत्रानुग्राह्यस्य व्यञ्जनीय शिवत्व शिष्यस्य विशिष्टनयो विनयः ।
गुरु स पर्यात्मकः तस्मिन्विनये प्रेरको भूत्वा गुगुणा
तदनुग्राह्यलक्षण सम्बन्धं [[२९८]] करोति । अनुग्राहकस्य
तच्छिवत्वाव्यञ्जकगुरोः करुणैव कारुण्यं चतुर्वर्णादित्वात्
ष्यङप्रत्ययः तस्मिन्कारुण्ये च शब्दादनुग्रहेच्छायामपि
प्रेकको भूत्वा शिष्येण तदनुग्रहात् लक्षणसम्बन्धं करोति ।
अन्यथा शिवप्रेरणं विना तयोर्योगस्सम्बन्धः । अनुग्राह्य
अनुग्राहकलक्षणः सुदुर्लभः । दुःखेनापि लब्धुमशक्य ।
उपसंहरति -
एतैर्लक्ष्यैरविच्छिन्नैश्शक्तिपातो महात्मभिः ।
अनुमेयो न दीक्षैषा शक्तिपाता पवित्रितैः ॥
अन्ये श्रुत्यादि संसिद्धाश्शिवधर्माश्च देशिकैः ।
शिष्याणां शक्तिपातार्थं परीक्ष्याश्शिवशासने ॥
एतैर्लक्ष्मैरविच्छिन्नैः पुरोक्त वैराग्यादिभिश्चिन्नैः [[२९९]]
संवत्सरान्त॥॥।ग्नश्शक्तीत्यनुषज्य
सुकरत्वादितरपदार्थस्सुकरणीयः
शक्तिपातज्ञानार्थमित्यध्याहार्यम् । दीक्षालाभसमीपकाले
मतङ्गभरद्वाजादिभिः क्रियमाणत्वात् श्रुत्यादिसंसिद्ध
शिवधर्माणामपि परीक्ष्यत्वमसंशयम् । अनियतकालीनो
मलपरिपाको भोगहेतुकः तदविनाभूतश्शक्तिश्शक्तिपातः
तदविनाभूता दीक्षा तदविना भूता मुक्तिरिति भावः । अपरिणत
मले कृत दीक्षा व्यर्थेत्याह -
अभक्तमद्विजं क्रूरं निर्भयं वा क्रियाच्युतम् ।
दीक्षामदाज्ञाहन्त्यैषा इत्याज्ञा पारमेश्वरी ॥
क्रूरन्दयारहितन्निर्भयं शिवशास्त्रनिषिद्धकरणे भयरहितं
[[३००]]
अभक्तं शिवागम तद्विधि श्रद्धापूर्वं
शिवभक्तभक्तिरहितम् । भक्तिश्च
योग्यतावेशलक्षणज्ञानविशेषः । तदुक्तम् -
अन्योपि योग्यतावेश लक्षणाप्यत्र निष्ठता ।
भक्तित्वेन समाख्यातो विज्ञानावयवोप्यथ ॥ इति ।
अद्विजं विशेषदीक्षायामदत्तशुद्धद्विजत्वं तदेतत् विजत्वहीनः ।
ब्राह्मणोपि तदेतश्छुद्धद्विजं प्रतिशुद्ध विप्रादयोपि
शूद्रास्युरिति कामिकश्रुतेश्शूद्र इति तं दीक्षयित्वा गुरु
स्वात्मनः पुनर्दीक्षां समाचरेदिति । पुनः कामिकश्रुतेः
असच्छ्रूद्रस्यापि तत्र दत्त शुद्धद्विजत्व श्रुतेः । तदुक्तं
स्कन्दकालोत्तरे -
दहे द्वैशूद्रजातिन्तु अनलेनतु षण्मुख ।
[[३०१]]
सच्छुद्रत्वं योजयित्वा क्रिया वै षोडशं कुरु ।
साक्षाद्विप्रत्वमापन्ने पश्चाद्दीक्षां कुरुष्वथ ॥ इति ।
क्रियाच्युतम् । तदनन्तर कर्तव्य क्रिया सो गलितं मदाज्ञा मदीय
शक्तिरूपा दीक्षा आचार्यै लोभा ज्ञानादिभिः कृता हन्ति
शूद्राणामुपनयनादि वदनधिकारित्वात् निष्फला भवतीति यावत् ।
इति इत्थं पारमेश्वरी परमशिव सम्बन्धिनी
आज्ञाशक्तिस्तच्छिववदन समुत्थोक्त्युपब्रंहिता निर्गता मम
गुर्वनन्ताग्र इत्याशयः । ननु पुरैतद्विलक्षणन्दृष्ट्वा यं
शक्तिपात पवित्रित इति निश्चित्य कृत दीक्षे पुरुषे पुनस्समयोल्लङ्घनद्
यात्मकस्तिरोभावेन न भवेत् । दृस्यते चासौ ततो नानुग्रह [[३०२]]
हेतुश्शक्तिपातं सत्यम् । सा शक्तिः पक्वात्मनि पतन्ती सती
मलक्षयकारात्मावलोकनं कृत्वा विद्युद्वत् स्वव्यापारान्निवर्तते ।
कृतस्य पुनः करणा सम्भवादिति न्याय सिद्ध एवायमर्थः ।
दृष्टमपि समयोल्लङ्घनादि मोक्षप्राप्तिरसंशयमस्ति । तथाहि ।
सम्यक् दीक्षितोपि कदाचिद् दैवान्मानुष्याद् वा प्रति बलात् सर्वात्मा
सर्वात्मना वा तिरोहित कृतः प्रायश्चित्तो मोक्षं याति भूयो कृत
प्रायश्चित्त समयातिक्रमफलन्तत् प्रायश्चित्तलक्षण
दीक्षाफलविघ्नभूतं काम्यरूपफलमिवात्रैव
समयोर्ल्लङ्घना प्रोक्तं क्राम्यादत्वं शतं समा इति
उक्तप्रकारेण भूत्वा प्रायश्चित्तविशुद्धस्य
गतिश्शुद्धाप्रकीर्तितेति [[३०३]] श्रुतेर्दीक्षितस्य दीक्षादि
पूर्वशास्त्रादि संस्कारकनिहित बुध्यधिकरण
संस्कारसमुत्थायाः पाशनिवृत्ति पूर्वशिवत्वाभिव्यक्ति
लक्षणपुरुषाधिकरणसंस्कारहेतु भूतायाः
मन्त्रानुध्यानाद्यच्युतिकरबुध्याधिकरण वासनायाः योगात् ।
दीक्षा शिवयोग पदपठित शिवोहमभाभात्म संस्कारक
समुत्थस्संस्कारस्तुयः सतु शिवत्वाभिव्यक्तिलक्षण इति वैदिक
साङ्ख्ययोग संस्कारादिरिव न शरीर चित्ताद्यधिकरणः । किन्तु
वैतन्याधिकरण इति चैतन्याधिकरण दीक्षाफलं मोक्षं स
तिरोहितो लभते । ततस्तु दीक्षा स्वलक्षण सहिता स्वफलं न
व्यभिचरतीति न [[३०४]] किञ्चिदसमञ्जसम् । शक्तेः प्रत्यवाय
हेतुता वा किमिति नाशङ्कनीयम् । मन्दत्वोपचारेणेति मन्तव्यत्वात् ।
अनुग्रह शक्तिरेव तिरोभावात्मना तावति गच्छतीति शिवशास्त्रविदः
साङ्ख्यानामिव केवलं योगेन वा वेदान्त वादिनामिव केवलं
सन्यासेन वा जैमिनीयानामिव पौरुषक्रियया वा
स्वाभाविकमुक्तिरित्याशङ्कायामाह -
दीक्षैव मोचयेत्पाशान् शिवत्वञ्च ददात्यणोः ।
दानन्नामस्वशक्तेव या सा ज्ञान क्रियात्मिका ॥
न तु स्थानान्तरादानादप्युत्पत्तिः कदाचन ।
पूर्वार्थस्तु स्पष्टः असद्यो निर्वाणदीक्षा या असर्वात्मना मलादि
विच्छेद शिवत्वाभिव्यक्त्यात्मकः । [[३०५]] आरब्ध कार्य कर्म
भोगोपरोधेन भगवता योऽनुग्रहः कृतस्सोपि
तथैवोपदेशद्वारेण प्राचुर्याय कर्तव्यः ततस्तस्मिन् दीक्षया
परिशिष्टे तावत्यपि मलविच्छेदादौ हेतुतया प्रत्यहम् आम्नायेन
शिवत्वाभि व्यक्त्यर्थञ्च ज्ञानस्यप्यनु सन्धानद्वारा क्रिया
विनाभूतत्वात् । ज्ञानादय उपायाश्शिवागमोक्तिविशिष्टाः
परिकीर्तिताः न सर्व इति भावः अवशिष्टज्ञानस्य
हेतुत्वन्निराकरिष्यति च दीक्षया स्व शिवत्वे दत्ते भगवान् न शिव एव
स्यात् । यदाहुः -
निजाश्शक्तीरनन्ताय प्रयच्छच्चेत् सदाशिवः ।
द्राविष्टं शक्तिदारिद्र्यं भद्रं सं प्राप्नुयात्तत ॥ इति ।
तदर्थमेतद्दानान्नामेत्यादि दानं नाम दानशब्द [[३०६]]
वाच्यमात्रया ज्ञानक्रियात्मिका सा स्व शक्तेव
विज्ञानकेवलादीनां क्रमेणैक द्वित्रिलक्षण सकलबन्धनिवृत्या
स्वसक्तायास्सर्वज्ञत्वादिरूपायाः एवाभिव्यक्तिः पुंसां
शिवाच्छिवत्वस्य दानमुपचारादुच्यते । ननु नर्ते
प्रयोजनादिष्टमुख्यशब्दार्थलङ्घनम् । सत्यम् । न सक्ताचार्थः
सर्वदा आत्मनां स्वयमेव व्यज्यते । आवृतत्वात् । कालिकावृत
तात्रसक्तावत् नतु पुरुषस्वयमज्ञानान्निवर्तकस्सिद्धः अन्धः
पटलाच्छन्न चक्षुश्शक्तेरिव । अपितु ततस्सातिसयश्चक्षुर्वैद्य इवेति ।
इहापिश्वर एव मोक्षकर्ता तदिदं पतिपटलेपि प्रपञ्चितम् । नतु
ततस्तदानीमेव पाशुपतादीनामिव स्थानान्तरादानात् [[३०७]] न
शिवात्प्रतिग्रहात् न समुत्पत्ति वादिनामिवोत्पत्तिरपि परमोक्ष
निरासकारिकासु ।
अथोत्पत्ता व नित्यत्वमावेशेन स्वतन्त्रता ।
नोदाहरणसद्भावो गुणसङ्क्रान्ति साधने ॥
इत्यादिभिस्समुत्पत्ति सङ्क्रान्त्यावेशैक्यादि निराकृतिस्सविस्तरा । तत
एवा वधार्याः । वेदान्तैकदेशिभिस्वीकृत विशिष्टाद्वैतच्छाया
निपतद्भिश्शिवागमोक्ति विरतिमद्भिः कैश्चिच्छिव तादात्म्यमेव
मुक्तिरिति कृता हि विफलोक्तिः । तदुपलक्षणतया न
निरूपचरितशिवैक्यं शिवतादात्म्य शब्द शब्दितन्तस्य
निराक्रियमाणत्वात् । नतु शिवतादात्म्य शब्द
शब्दितश्शिवसंयोगः तदयुक्तम् । [[३०८]] अमूर्तत्वात् परमोक्ष
निरास कारिकास्वत्रापि च -
अमूर्तस्य च सङ्क्रान्तौ न लोका न परीक्षकाः ।
जडे जडस्य सङ्क्रान्तिर्युज्यते परिणामीनः ॥
इति श्रुतिः । मृगेन्द्र वृत्तौ च आमूर्तयोस्संयोगो न संश्लेषार्थ इति
व्याख्यातम् । ननु शिवतादात्म्य शब्द शब्दितश्शिव समवायः ।
तदयुक्तम् । समवाय सम्बन्धिनोः पदार्थयोः तार्किकाणामिव
नकिलाधाराधेयत्वे नातद्रूपत्वम् । किन्तु अपृथक् सिद्ध
तद्रूपत्वमेव तदन्यथा वक्तुमशक्यम् इति पाशपदार्थ
परीक्षायां भगवान्निराकरिष्यति । अस्तु तथा ततः किमिति न वाच्यम्
। समवायस्यातद्रूपत्वयोरनुपलब्धस्य तद्रूपयोः [[३०९]]
सदास्तित्वात् । शिवस्सर्वज्ञः पशुः किञ्चिज्ञः न
शिवस्सुखदुःखानुभविता पशुः तदनुभवितेत्यादिकमन्योन्य
विद्धम् । प्रत्यक्षश्रुति सिद्धम् । सर्वं विभज्यते । ननु शिव
तादात्म्य शिवशब्द शब्दितश्शिवव्यञ्जक व्यग्य भावमेव ।
तदयुक्तं प्रमाणपटले निराक्रियमाणत्वात् । ननु शिवतादात्म्य
शब्दशब्दितश्शिव व्यापक व्याप्यभावः । तदयुक्तं
सारदशायाम् । आशिरो लक्षणे काये धेयं संवित् चितेस्सदेति
मतङ्गश्रुतेः । धर्मिणि कलयैकदेशे चिद्धर्म
व्यक्तित्वेनोपचारबीजतयोच्यमानस्स इति नियामकमन्तरेण मुक्तौ
तदुक्तौ शिवस्यापि शिवान्तर व्याप्यत्वक्लिप्तिस्सयुक्तिकेत्यनवस्था (प्।
३१०) दुर्निवार्या । ननु शिवतादात्म्य शब्दशब्दिता शिवसमव्याप्तिः
। तदयुक्तम् । धर्ममात्रानुलिप्त तदुक्ति दुरुक्तेस्समपद
सहपठनं न जाघटितीति शिव समव्याप्तिश्शिवशक्ति सदृश पर
षट्गुणमय परशिवत्वपद पठित परनिरतिशय मुक्ति
समरसीभाव शिवसमरसी भावा विनाभूत
शक्तिसमरसीभावरूप स्वशक्ति सर्वधाभिव्यक्तिरित्यस्मद्दर्शना
पातनात् । विशिष्य तत्र तादात्म्य शब्दं शब्दित्वा किं
कृतमित्यपरिहार सा स्पदत्वात् । ननु शिव तादात्म्य शब्दशब्दितं
शिवसाङ्कर्यन्तदयुक्तं सर्वेषान्निरुप चरितैक्य प्रसङ्गात् स
वेदान्तवादी च विजयेत सर्वज्ञा [[३११]] सर्वज्ञ विभक्ति
विभञ्जनाच्च । भगवता रामकण्ठेन तदेतदोषमापात्य
साङ्कर्यन्निराकृतम् । ननु शिव तादात्म्य शब्दशब्दितं
शिवविषयीकरणसम्बन्धलक्षण शिव सायुज्यन् तदयुक्तम् ।
सर्वपदार्थ सक्तामात्र विषयीकरणात् । सर्वपदार्थ साधारण
सा युज्यात् । शिवमात्र विपक्षा य चेद स्मद्दर्शनमस्तु । ननु
शिवतादात्म्य शब्दशब्दितं न स्वतश्शिवत्वमिति शिवाविर्भावत
स्वस्मिन् शिव गुणाभिव्यक्तेः कुतश्चिदतिशयतश्शिवत्वं तदयुक्तम् ।
तथा त्वे शिवगुणसङ्क्रान्ति शिवावेश शिवाधिष्टातृत्व परकीय
त्रिपक्षच्छायायां पुनस्संसारदशयां वा सन्निपतेत् ।
अनियमनात् शिवस्या [[३१२]] न स्वतश्शिवत्वमित्यनवस्था च ।
स्वतोन्तर्लीनं शिवत्व दीक्षयाभिव्यज्यत इत्युक्तम् । सर्वज्ञानोत्तरे -
रससिद्धं यथा ताम्रं हेमत्वं प्रतिपद्यते ।
तथात्मा ज्ञानसम्बन्धश्शिवत्वं प्रतिपद्यत ॥
इति ततश्शिव प्रतिबिम्बादिकं दुरापास्तमित्युपरम्यते । ननु
शिवतादात्म्य शब्दशब्दितं शिवसादृश्यम् एव जातिरिति श्रुतेः ।
पुनश्शिव जातिरिति पर्यवसितम् । यद्येवं शिवलक्षण शिवशक्ति
सदृश परषट्गुणमय परशिवत्व पद पठित पर निरतिशय
स्वलक्षण स्वशक्ति सर्वधाभिव्यक्तिरिति अस्मद्दर्शनमेवेति सर्वं
समञ्जसम् । शिव सा युज्य शिव लय शिवगति शब्दानामपि
तदर्थत्वात् । तदुक्तं [[३१३]] चिन्त्यविश्व सादाख्ये -
सकले निष्कले चैव सर्वत्रैव समानमा ।
साव्रज्यमिति तत् प्रोक्तं सारूप्यं मूर्तितुल्यतेति ॥
मृगेन्द्रे -
अधिकारस्तु साम्म्राज्यं भोगो ह्लादो निजं परः ।
पाशातीतो महान्नित्यो लयस्तत्तुल्ययोगितेति ॥
निश्वासकारिकां सु-पशुभाद्यदातीत्यपतिभावेन तिष्ठति । तत्तस्य
गमनन्नाम सर्वगे गमनं कुतः ॥ उन्मनत्वं शिवत्वञ्च
प्रयातीत्युपचर्यते । सम्बन्धो गमनन्नाम सर्वगे गमनं कुत इति
॥
शुद्धविद्यामारभ्य गुणकारादशाद्या सुर्नादकोटेरथोमुन इति
मृगेन्द्र श्रुतितस्सुसिद्ध परशिवत्व [[३१४]] निरोधनादकोत्यधय
स्थूलतर स्थूलसूक्ष्मतरोपाध्युपाघ्राता पर षट्गुणमया
परशिवत्व व्यक्तिरित्यजानन्तस्समस्तोपाधि गलनसमनन्तरं
क्रियमाणेतिरोधान शक्तिशुद्धिसमनन्तरं व्यक्त्यन्तर
स्वविहतिक्षतीमती सर्वार्थज्ञान क्रियार्थक्रियाशक्तिरिति
ज्ञानशक्तिभेद सर्वज्ञतादि त्रिगुणक्रियाशक्तिभेद स्वतन्त्रतादि
त्रिगुणलक्षण स्वपरशिवत्वाभिव्यक्तिः खलुकर्तव्येति अविन्दन्तः ।
भोगो ह्लादो निजः पर इति । मृगेन्द्रादि श्रुतिसुसिद्धा
सैवश्शिवत्वाभिव्यक्तिश्शिवानन्दशिवभोगपरमसुखपरमाह्लाद्
अ परमरस परमसमृद्धि परमपरमपरिपूर्ति पदैः
पठितेत्यबुध्यन्तः पुनस्सर्वज्ञता तृप्तिरनादिबोध [[३१५]]
स्वतन्त्रता नित्यमलुप्तशक्तिः अनन्तशक्तिश्च निरामयात्मा
विशुद्धदेहस्सशिवत्वमेतीति सर्वज्ञानोत्तर श्रुति
सुसंसिद्धमष्टगुणमय सर्वज्ञत्व सर्वकर्तृत्वमयं
शिवत्वन्नान्येतीत्य कलयन्तः पुनस्सर्वज्ञत्व सर्वकर्तृत्वेस्तः ।
षाट्गुण्य शिवत्वे द्वे नस्तः पुनष्षात्गुण्यमस्ति शिवत्वन्नास्तीति
मातामेवन्ध्येतिवत् भ्रमन्तः पठन्तः परमुक्तौ
पुन्स्सर्वार्थसक्तामात्रनिर्विकल्पज्ञान-क्रियार्थक्रियत्वात् ।
षाट्गुण्यमयतां शक्तेरलक्षयन्तः षाट्गुण्यन्नादकोट्यधस्तन
भुवनस्थित्यपरमुक्ति समुत्थन्न परमुक्तौ तदिति विकुर्वन्तो
ब्रुवन्तः सर्वार्थगलितज्ञानक्रियेच्छां स्वचिच्छक्तिं शिवे
[[३१६]]
निमज्य स्वस्य न स्वतश्शिवत्वमिति शिवनिमज्जनात् समुत्थाति
शयतह् स्वस्मिन् शिवमये सति शिवानन्दानुभव शिवभोग इति
आवेशपक्षकोट्यन्तः प्रविशन्तः कथयन्ति केचित् ।
तेत्वाक्षेपन्नक्षमन्त इत्युपेक्ष्योपरम्यते । कथयन्ति च ते पुनः ।
गुणाभिव्यक्तिर्न सुखान्यतमेति अतो न पुरुषार्थ इति
तेऽस्माभिस्संसारदशायां प्रथितं किं सुखमिति पृच्छन्तः
किं ब्रूयुः । गत्वा दूरमपि सत्यम् अगतेश्चिच्छक्ति व्यक्त
भूमिभूत सत्वगुणाभिव्यक्तिरिति ब्रूयुः । अथ किमनेन स्वेष्टं
सिध्यति अहोबत न सिध्यति किं सिध्यति खल्वसर्वधा सर्वधा वा
संसृतौ मुक्तौ च औपाधिक स्वाभाविक स्वासर्वार्थ [[३२०]]
सर्वार्थ सन्निपतदर्थ क्रियाक स्वपशुत्व शिवत्वलक्षण
स्वचिच्छक्तिलक्षण स्वगुणाभिव्यक्तिस्सुखपदपठिता पुरुषार्थ इति ।
तदुक्तं भोगकारिकासु ईश्वरेच्छा समाविष्ट जगत् बीज परिच्युतेः ।
साधनैः साध्यते भोगो बुद्धिवृत्यनुरञ्जिनम् ॥ इति । किरणे -
सर्वज्ञस्सशिवो यद्वत् किञ्चिज्ञत्व विवर्जितः ।
शिवत्व व्यक्तिसम्पूर्णस्संसारी न पुनस्तत ॥ इति ॥
किरण एव परामृतसुख प्रदमित्यत्र शिवत्वाभिव्यक्तिरेव जाति
नियमेन नैतन्मुक्ति सुखं पूर्णतान्ददात्यपितु सर्वेभ्यो
भूतेभ्यस्सुप्रदायो नमोस्तु तस्मै ते । इति व्योमव्यापिस्तव श्रुतेः ।
पूर्णता शब्दशब्दित सुखमिति व्याख्यातम् । सैव
स्वशिवत्वाभिव्यक्ति [[३१८]] स्वशिवभोग स्वशिवानन्दतयानुभूयते
। तदुक्तं कामिके -
निजानन्द महाबोधौ यया मज्जेदनाकुलः ।
सामुक्तिस्सतु निर्वाणरतदेव परमं पदम् ॥
इति त्रिमलापगमे व्यक्त शिव सम्यत्व
लक्षणमात्मरूपञ्चिदानन्दमयं सायुज्यनामकमिति । अन्यत्र च
। नात्मच्छेदोपवर्गो न च पशु शिवयोरैक्यमत्रोपवर्गो नाविद्या
ग्रास हानिर्न च गुणविलयो नापि पाषाण मुक्तिः । यत्
बोधानन्दरूपन्त्रिमलविगमने व्यक्तमात्मस्वरूपन्तत् सायुज्ये न
वाच्य शिवसदृश विभुश्शैवतन्त्रोपवर्गः इति । ननु
मुक्ताश्शिवतुल्य ज्ञानक्रियाशक्तयः इत्युक्तम् । [[३१९]] यदि
क्रियाशक्तिस्सर्वकार्यकत्री तदा नेकेश्वरवादः । प्रसज्यते । यदि न
सर्वकार्यकत्री तदा कुतश्शिवश्शक्तिसदृशीयं सत्यम् । तावत्
सर्वकर्तृत्वं व्यक्तमत्येव । तदुक्तं मोक्षकारिकासु -
चिद्व्यक्त्या सर्वकर्तृत्वं सिद्धानामीश्वरो यथा ।
अन्यथा कर्तृता नस्याद् ईश्वरस्यापि सिद्धवदिति ॥
नह्येकांशेन चिद्व्यक्ति संयुक्तकाम् । तदुक्तन्तत्रैव -
नकर्तुशक्तेश्चिद्व्यक्तिरेकांशेन संयुक्तिका ।
कर्तृत्वस्य नचाभाव सादितत्वात्ततस्त्वसाविति ॥
व्यक्तापि यदि न कार्य कत्री तर्हि को विशेषः । तदुक्तन्तत्रैव -
मुक्तो व्यक्ता पशौ नेति विशेषः कस्तयोर्यदि ।
[[३२०]]
सर्वकार्याणिनो कुर्यात् सिद्धस्था सर्वकर्तृत्वेति । ज्ञेयकार्ये
च स्वार्थक्रिया प्रयोगभूमि प्राप्तिज्ञानक्रियाशक्त्यो व्यक्तिः । यदि
क्रियाशक्तिः कार्ये स्वर्थक्रिया सङ्कोचवती तदा न सर्वथा व्यक्ति
कृतीमती । तदुक्तं तत्रैव -
प्रतिवृत्तिस्सर्वनिष्पत्तौ व्यक्तिर्नान्या तु तद्गताः ।
ज्ञानं सर्वप्रकाशाय प्रवृत्तं व्यक्तिमुच्यते ॥ इति ।
तथापि मुक्ता स्वार्थनिष्टा स्वरूपव्यक्तिप्रयोजनमात्रे
विश्रान्तिमन्तः परार्धस्य शिवकरणकरणीय निर्वर्तनीयत्वात् । न
पृथक् करणीयमुद्दिश्य प्रपत्तिमन्तः । तदुक्तं मृगेन्द्रे -
न च सृष्टादि कुर्वन्ति स्वार्थनिष्टा हि ते यत इति ।
[[३२१]]
तथापि स्वकीय क्रिया शक्तेः । स्वार्थक्रियाप्रयोग
भूमिप्राप्ति व्यक्तिरित्यवर्जनीयत्वात् । जगत् सृष्ट्यर्थमिदमेवं
भूतभवत्वीति शिवे सङ्क्लिप्तिमति सति स्वसङ्कल्पस्समस्समुक्तिषु ते ।
तथापि रागद्वेषादि विरतेस्तद्दानपृथगाचरन्तो नवमिदमस्तु
पुराणमिदमस्त्विति शिवमतेरग्र प्रत्यग्रान्वग्रोन्नत्यवनति भिदा
भिन्न सचिह्न समुत्थां स्वमतिमनेकेश्वर वादास्पदामं
कुरयन्ति । तदुक्तं -
तस्मिन् सृष्ट्यादि सङ्कल्प समन्तेषां तदा भवेत् ।
नैव सङ्कल्प वैषम्यं तेषान्तद्धेत्व भावतः ॥ इति ।
तर्हि कथमुच्यते । यदा शिव इदमेवं भूतं भवत्विति [[३२२]]
सङ्कल्पयति । तदा अवर्जिनीयतया सह तथा भूतं भवत्विति
समुत्थसङ्कल्परूपां शिवसङ्कल्पादनग्रा प्रत्यग्रा ।
नन्वग्रानुन्नत्य नवनती मतीं शिवसङ्कल्पफलाद् अपृथक्
फलसिद्धिमतीं मतिं स्वासङ्कीर्ण परकीयमित्यनसन्धात्रीं
शिवादपृथगाचरन्तोनुसरन्ति । अत एव शिवमते स्वमते
रनग्रानुन्नतिमत्वान्न पृथक् जगत्कर्तारः । तदुक्तं
मोक्षकारिकासु -
रागद्वेषादि निर्मुक्तास्सर्वगोचरबुद्धयः ।
सिद्धास्ते त्वोनकामयी स तु भेदवद्भिस्समन्विताः ॥
अविभिन्नाधिकारास्ते शिवेणोक्तास्तु सूरिभिः ।
तेनेह सर्वकार्याणामुत्पत्तिर्न विरुध्यत इति ॥
[[३२३]]
तदुक्तञ्च सिद्धान्तदीपिकायाम् ।
अवर्जनीयसंसिद्धं मुक्तानां कृत्यपञ्चकम् ।
कृपया तु शिवह्यैव स्वार्थनिष्ठा हिते यतः ॥
न ते विश्वस्य कर्तारः कर्ता च शिवयेव हीति ।
ततः सकले निष्कले चैव सर्वत्रैव सता न ता ॥
सायुज्यमिति विन्त्य विश्वसादाख्य श्रुतेः । मौत्तिक सर्वत्रज्ञतादि
गुणानपि निश्वासकारिकासु । समर्थितस्सोन्वर्थोनुविधत्त इति न
विरुध्यते । अस्माभिस्सू॥।चित सिद्धान्त शिवाणौ तदिदं सविस्तरं
तत एवा वधार्यम् । अलमनुपासितगुरुभिः तपस्विजनमनः
खेदविवादेन । प्रकृतमनुसरामः । विज्ञानकेवलां मलस्य
तीव्रतरपाकात् परशिव [[३२४]] साम्यगतान् विहाय तीव्रादिपाक
तारतम्यमपेक्ष्य शिवतत्व सदाशिवतत्वात्मक भोगतत्वेश्वरतत्व
विद्यातत्वात्मकाधिकारतत्वे च योजयतीत्याह -
इच्छयैवानुगृह्यादौ शिवो विज्ञानकेवलान् ।
मलपाकमपेक्ष्यैव कांश्चिच्छुद्धाध्वगोचरे ॥
योजयत्यधिकारेषु कृत्वा दृक्क्रिययोत्कटान् ।
कांश्चिद्भोगो ह्वये तत्वे तत्वेऽन्यानीश्वराह्वये ॥
अन्यान्विद्याह्वये तत्वे सर्वज्ञान् बलशालिनः ।
सदाशिवगुणोपेता भोगाख्यन्तत्वमाश्रिताः ॥
मनोऽभिलषितान् भोगान् भुञ्जानो विविधानपि ।
पतिकृत्याधिकारेषु प्रवृत्ताः पत्युरिच्छया ॥
ये प्रात्पास्तत्वमीशानं विशेषेण क्रियाधिकाः ।
[[३२५]]
अधिकारगुणोपेता महान्तश्चक्रवर्तिनः ॥
अष्टावनन्तसूक्ष्माद्याः यथापूर्वं गुणाधिकाः ।
अतिसौन्दर्यलावण्या अक्षीणमनसस्सदा ॥
विद्या विद्याह्वयं प्राप्तास्सङ्ख्यायास्सप्तकोटयः ।
प्रशान्तकलुषास्सर्वे महात्मानोऽमितौजसः ॥
आदौ सृष्ट्यारम्भकाले इच्छया निरधिकरण स्वशक्त्या
दृक्क्रिययोत्कटान् समभिव्यक्त शक्तियुक्तान् सदाशिव समगुणेति
अधिकार समगुणेति चाध्याहार्यम् । प्रति कृत्याधिकारेषु
प्रणवादय इव मनोभिलषित भोगभुजोप्यनन्तादयः पत्युरिच्छया
मायान्तरितपञ्चशिवकृत्येषु प्रवृत्ता । अत एव क्रिययाधिकाः
मधुकोश पुटाकारेति श्रुतेरनन्तस्रोतोरूपी [[३२६]]
मायामण्डलाधिकारित्वात् । सूक्ष्मादनन्तः शिवोत्तमात् सूक्ष्म
एकनेत्रा च्छिवोत्तमाः । एकरुद्रादेकनेत्रः त्रिमूर्तेरेकरुद्रः
श्रीकण्ठात् त्रिमूर्तिः । शिखण्डिन श्रीकण्ठ इत्यधोधो कला या
न्यून कर्तृत्वात् । यथापूर्वं प्रथममनतिक्रम्यगुणाधिकाः ।
क्रियाशक्त्यधिकाः अक्षीणमनसः । अप्रतिहतशक्तयः । विद्याः
मन्त्राः । अत एव सर्वे त्रिप्रकारेण योजिताः । प्रशान्तकलुषाः ।
पाकपूर्वदीक्षया क्षपितमलाः । स्पष्टास्तदितर पदार्थाः ।
अनन्तो परमे तेषां महताञ्चक्रवर्तिनाः । विहितं सर्वकतृत्व
कारणं परमं पदमिति श्रुतेः । परमुक्तिरेषां महाप्रलयात्
पूर्वमप्यस्ति । किमस्तीत्याह -
[[३२७]]
एतेषां यस्य वैराग्यमुपजातं महात्मनः ।
किमेते नाधिकारेण श्रेयसः परिपन्धिना ॥
इति तं परमेशानो मलपाकमपेक्ष्य सः ।
स्वेच्छयैवानुगृह्णाति मुक्तिव्यक्त्यर्थयादृशा ॥
ततो मुक्त्यर्थमासन्नं कनिष्टं तत्पदे विभुः ।
नियुनक्त्यनुगृण्यान्यन्तत्पदे नियुनक्त्यपि ॥
एतेषां प्रणवसुदीत्पकारकसु शिवेशसूक्ष्मकालदशे
शाशुनां सदाशिवतत्ववर्तिनान्दशानां तदन्य
तद्वर्तितदुपरिवर्ति सहितानाम् अधिकारतत्वस्थ परमुक्तिगता
वशिष्टमन्त्रानन्तादि मन्त्रे शानाञ्च मध्ये यस्य महात्मनः ।
श्रेयसः परमप्रयोजनरूप स्वातन्त्र्याभिव्यक्तेः परिपन्थिना (प्।
३२८) विरोधिना एते नाविकारेण किं तां प्रति विफलप्राय इति वा यत् इति
वैराग्यमधिकारोपरत्वाञ्जातम् । समुद्भूतन्तदा स
परमेश्वरस्तं महात्मानं न बलादधिकाराय पञ्चकृत्य
लक्षण भोगलक्षणायनिरुणद्धि । किन्तु मलपाकमपेक्ष्य मलस्य
विद्यातत्वादयोत्यन्त विच्छिन्नत्वात् तद्वासना समुत्थाधिकार
मलक्षयौ मुख्यं ज्ञात्वा स्वेच्छया निरधिकरण स्वशक्त्यैव
मुक्तिव्यक्त्यर्थ यादृशा पाशात्यन्त विमुक्ति परशिवत्वाभिव्यक्ति
फलेन शक्तिकर्तव्या- वलोकनेनानुगृह्णाति तादृश मुक्तिव्यक्ती करोति
तदनुपदमेव भगवान् तत्पदे तदधिकारस्थाने
आसन्नमव्यवहितं कनिष्ठं साक्षादित्यर्थः । ततस्तस्मात् [[३२९]]
कनिष्ठत्व निबन्धनां मुक्त्यर्थन्तावदनुग्रह तन्नाम्ना सह तत्
सदृशगुणिकृत्या नियुक्ति सम्बन्धयति तत् पदेपि परमुक्तिं
गताधिकारस्थानं गतपुराधिकार स्थानेपि अन्यं परमुक्तिगतं
प्रति व्यवहितं तदधिकारस्थाना गतस्य साक्षात्
कनिष्ठमनुगृह्य नियुनक्ति । तत्पदेपि तथेत्येवमुत्कर्षक्रमेण
प्रगम्य प्रणवादीनां मध्ये अनन्तादीनां मध्ये मन्त्रः
तदन्येषां मध्ये वा अन्त्य कनिष्ठपदे आगमोपदेशस्य
पतिकृत्याधिकारस्य मायाचक्रस्याविच्छेदा
याण्वन्तरन्तदीशस्मगुणाभिधानं कृत्वा नियुनक्ति ।
शिखण्ड्यादेर्यदि वैराग्यमण्वन्तरमिति नहि कनिष्टक्रमयोजना ।
विद्यास्त्वनुग्रह [[३३०]] प्राप्त्यनुप्रदमेवात्यन्त
पापाकुलामिमां पितामह कृतां पिण्डसृष्टिमवलोक्यैव
विरक्ताः । नात्रात्यन्तोपहतसर्गे वयं भोगपालनात्म
कर्मधिकारमीश्वराधिष्ठमपि कर्तुं क्षमा इति निरूपितास्तथा
परमेश्वराज्ञावश्यं कर्तव्येति निश्चित्याचार्यान्तर
प्रयोज्यतानपेक्षण निरधिकरण शिवप्रेरनपूर्वं साक्षात्तत्
कर्तृतयैव तत्करणतया च स्ववीर्येण स्वानुग्रह
समनन्तरानुग्रहीतव्य विज्ञान केवलानां मलं परमुक्तौ
मन्त्रेश्वरत्वे च योग्य प्रलयाकलानां मलकर्मणी
ब्रह्मसृष्टिमेतां सकलसञ्ज्ञित स्थूलशरीर
सम्बन्धानामणूनां तत्कालमेव शक्तिपातेन संसृष्टां
मलकर्मभ्यां सहविमोच्यतान् शिवान् [[३३१]] कृत्वा
तस्माद्व्यापारादुपरताः परां मुक्तिं प्रवेष्टुमिश्वर
प्रसादोपेक्षण्यस्सत्यः ।
परमेश्वरचोदितेनानन्तेनधिकारार्थमेव धृताः
ततस्ताभिरनन्तेशः प्रष्टः हे
भगवन्नत्यन्तकुत्सितोप्ययमधिकारोस्माभिः पाशच्छेद
शिवत्वाभिव्यत्यात्मकत्वेन पशुनामेवेश्वरादिष्टत्वात् ।
कृतोऽधुना मोक्षानुष्ठान प्रवृत्तास्तत् किमर्थं वयन्धारिता इति
ततोनन्तेशः प्रत्युवाच । भवतीषु मध्याद्याः
प्रकृष्टमलपरिपाक युक्तत्वात् अधिकारोपरतास्ताः
परमेश्वराज्ञयैव मोक्षं यान्तु यास्तु
तद्विपरीतत्वादधिकाराभिलाषिण्यस्ता महाप्रलयं या
वत्तिष्ठन्त्विति । ततस्तास्सर्वभूतसुखप्रदो [[३३३]] हि
पतिस्सकथमस्मदादीनामनभिमते विषये प्रवर्तयति । नहीति
सन्तुष्टाः परस्परं कस्याः कुत्ररतीति समामन्त्र्य यास्त्वधिकार
कामिन्यस्त गुर्वधिकरण शिव करणीभूता । न तु पूर्वार्धस्येव
स्वतोनुग्रह कर्तृता चेति सप्तकोटिसङ्ख्या यास्सेनायाः अर्धेन
स्थिताः परमुक्तिं गताश्शिष्टाः सकलेष्वप्यनयोक्त्या निरधिकरण
शिवानुग्रहयोग्यास्सन्तीति गम्यताम् । आत्मा महाभूतात्मक इति
चार्वाकाः । प्रतिक्षणध्वंसित्वेन विज्ञान सन्तानात्मक इति
सौगताः नित्यो व्यापकोज्ञोबुद्धादि नवगुणक इति नैय्यायिकाः
स्वभाव निर्मलो निर्गुणो कर्ताचेति साङ्ख्याः । स्वातन्त्र्य
विघातकर्ममूल मोहाद्यष्टगुणक सङ्कोचि विकासधर्मीति (प्।
३३३) दिगम्बराः । ब्रह्मेश्वराकार्या नित्या व्यापक इति
क्रमेणपरिणत वेदान्तविदः पाञ्चरात्राश्च एक एव परमात्मा
तत्तद्विविध मनोपलक्षणोपाधिभेदनानेकया दृश्यत इति
मायावादिनः । अज्ञः कर्ता चेति जैमिनीयाः इत्येवं वादि वदन
समविषम समुत्थोक्तिभिरात्मा तद्धर्मसत्ता संशयालिम्भिताः ।
ऋषयः तावत् चार्वाकदृशा चोदयन्ति -
सत्यात्मनि च संसिद्धे प्राक् प्रोक्तं सकलं भवेत् ।
तत्सद्भावे ततः शम्भो प्रमाणमभिधीयताम् ॥
शम्भो हे भगवन् अत सान्तत्य गमन इति धातोः आत्यते सान्तत्येन
गम्यते ज्ञायत इत्यात्मेति दिक् कालानवच्छिन्नो नित्यो व्यापकश्चेति
त्वयोक्तः । [[३३४]] तत्वेन तस्मिन्नात्मनि संसिद्धे सति प्राक् प्रोक्तं
विद्यादि पदभेद योजनादिकं सकलं भवेत् । ततस्तत् सद्भावे
प्रमाणमभिधीयताम् । न तावत् प्रत्यक्षेण तत् सिद्धिः तस्य नित्य
व्यापकस्वभावस्य शरीर व्यतिरेकेणानुपलब्धेः ।
शरीराद्भहिरणुमात्रमप्यसम्पादनाच्च ।
नाप्यनुमानेनानुमेयत्वे देवदत्तादिवत् परत्व प्रसङ्गात् । यत्
किञ्चित् स्वयं प्रकाशते स एवात्मा तत् प्रकाशस्तु परः
स्वप्रकाशत्व तत् प्रकाश्यत्वाभ्यामेव स्वात्म परात्मनोर्भेद इति
विविक्ततया आत्मपरभावस्य प्रकाशमानस्यैव सङ्करो
नवस्थानञ्च स्यात् । तदुक्तम् ।
आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः । [[३३५]] पर आत्मा
तदानीं स्यात् स परो यस्तुमीयत ॥ इति । ततः कश्च तस्यानुमाता
ज्ञानञ्चेत् । स एवात्मा अनुमातृत्वेन तदासंवेदनादिति किमन्येन
नाप्यागमेन तस्यास्मान् प्रत्यसिद्धेः प्रत्यक्षानुमान
विरुद्धार्थेन प्रवृत्तिस्तस्येति चेति भावः । ईश्वरः । तर्हि नास्तीति
वात्मा कुतः प्रमाणा भावात् । संशय एव
युक्तस्ततश्चार्वाकाणामपि प्रत्यक्षमेव प्रमाणन्नानुमानादिति
प्रमाणाप्रमाणचिन्तान प्रत्यक्ष निश्चया
महाभूतवेदव्यवस्था चेत्यवर्जनीयमनुमानम् इति स्व दृशि स्व
संवेदन प्रत्यक्ष सिद्धस्वात्मनि दर्शनेन मेय विसदृश
परात्मानुमात्रतया परमात्मनामनुमितेरितर देहेषु
नैय्यायिकादि दृशा वा मेयत्वाभ्युपगतेस्तत्रानुमितिरिति [[३३६]]
अनुमानं प्रवर्तयति -
प्रवर्तमानो देहादिश्चेतनाधिष्ठितस्सदा ।
स्वतः प्रवृत्ति शून्यत्वाज्जडत्वेन घटादिवत् ॥
यस्तु प्रवर्तकस्सोयमात्मेति परिपठ्यते ।
प्रवर्तमानो गमनागमनादिलक्षण स्वार्थक्रियाकर्ता देहादिः ।
आदि शब्देन इन्द्रियादिकं गृह्यते चेतनाधिष्ठितः
प्रवृत्तिकरणकाले सदा चित्प्रेरितः प्रवर्तते । सेयं प्रतिज्ञा
जडत्वेन हेतुना सिद्धात् स्वतः प्रवृत्ति शून्यत्वात् । सोयं हेतुः
घटादिवत् यस्त्वित्यनुषज्य सुकरत्वात् श्ले॥ॠद्धार्थस्सुकर्तव्यः ।
वारि शेष्यानुमानतोपि तत्सिद्धिः तदनु प्रयोगक्रमः । मृगेन्द्रे -
[[३३७]]
कार्यं क्षित्यादि कर्ते च शस्तत्कर्तुन्नोपयुज्यते ।
न स्वार्थमप्यचिद्भावान्नानर्त्थं कर्तृगौरवात् ॥
पारिशेष्यात्परार्थन्तत् क्षेत्रज्ञस्सपरस्तयोः । इति ।
ऋषया देह व्यतिरिक्तात्मसिद्धिं प्रति प्रयुक्त स्वतः प्रवृत्ति
शून्यत्वलक्षण हेतोरसिद्धिं दर्शयति -
चैतन्य दर्शनाद्देहे नात्मचैतन्यको भवेत् ।
यद्यस्मिन् सति सन्दृष्टं तदिदन्तस्य कारणम् ।
देहे सति चैतन्य दर्शनादसति यदि तद्दर्शनात् स्वधर्मलक्षण
स्वकार्य चैतन्यविशिष्टकायः पुरुषस्सचेतनत्वात् । स्वतः
प्रवृतस्सपरोपीति । सतु हि नात्म चैतन्यको भवेत् ।
आत्मलक्षणचैतन्यं यस्य स तथोक्तः स्वप्रवृत्ति हेतुतया
स्वव्यतिरिक्तात्मलक्षणचैतन्यको [[३३८]] न स्यादित्यर्थः ।
दृष्टान्तरूपं दर्शयन्ति । यदौष्ण्यादिकं यस्मिन्वह्यातिके सति
सन्दृष्टं तदिदं वन्यादि तस्यौष्ण्यादेः कारणन्ननु घटस्यापि
भूतात्मकत्वात् किमिति न स चैतन्य कारणम् । तन्नेत्याहुः -
कारणत्वा विशिष्टोऽत्र देहश्चैतन्यसाधकः ।
शरीरघटयोर्योगात् सुरापूपाख्यकार्ययोः ॥
कारणङ्गुलपिष्टादिरपिशिष्टोऽपि दृश्यते ।
अपूपादसती पूर्वं मदशक्तिस्तदात्मनि ॥
तस्माद्भूतात्मकादेव देहाश्चैतन्य सम्भवः ।
तच्चैतन्यमधिष्ठातुं किमन्येनात्मनेश्वर ॥
भूतात्मकत्वेप्यत्र शरीरघटयोर्मध्ये कारणत्वा [[३३९]]
देहादेव चैतन्य सम्भवः । भूततत्कार्यघटाभ्याम्
असतश्चैतन्यस्य तदात्म देहादव्यतिरिक्ततया समुत्पत्तिरिति निश्चितं
फलितमाहुः । तदित्यादि तद्देहादव्यतिरिक्ततया समुत्पन्न
चैतन्यमधिष्ठातृद्देहप्रवृत्तिकर्तु हे ईश्वर ।
स्थूलोहमित्यादेश्शरीर एवाहमप्रत्ययस्य दृष्टत्वाच्च अहं
शरीरीति प्रत्ययस्य राहोश्शिर इति वदौपचारिकत्वात् स्वतः
प्रवृत्तिसिध्या त्वदुक्त हेतोरसिद्धेरप्रामाणिके नान्येन
व्यतिरिक्तेणाश्व विषाणतुल्ये नात्मना किं कार्यस्यान्यथा
सिद्धत्वात् कथञ्चित्सिद्धेपि किमपि प्रयोजनन्नास्तीति भावः ।
अतश्शरीरविनाशे दृष्टुरपि विनाशात् परलोकिनामभावात् परलोका
[[३४१]]
सिद्धिरित्युक्तं यावज्जीवं सुरवजीवेन्नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥ इति ।
सिद्धान्त दृशा ईश्वरः प्रतिक्षिपति -
केनोक्तं भिन्नकार्याणां वैचित्र्यन्नेति शक्तिभिः ।
विरुद्धात्कारणात्कार्यं विरुद्धन्नोपजायते ॥
विरुद्धमपि चैतन्यं जडाद्देहात्कथं भवेत् ।
भिन्नकार्याणां कारणमेकमपि शक्तिभिः कारणगतवैचित्र्य
जनकजन्य शक्तिः । न वैचित्र्यमिति केनोक्तं केनोक्तं केनेत्यनेन
तदुक्तिमतो भ्रान्तत्व सूचनापुरस्सरन्न सिद्धान्तशास्त्रोपदेष्ट्रेति
सूचितम् । तर्हित्वद्दृशा किमुच्यत इत्यत आह । विरुद्धात्
कारणाज्जलाभिदेः विरुद्धं कार्यमौष्ण्यादिकन्नोपजायते । (प्।
३४२) इत्थं किलमदुक्तिस्समुत्थेति भावः चैतन्यमपि जलं
प्रत्यौष्ण्यमिव विरुद्धजडाद्देहात्तद्वत् कथं भवेत् ।
नकथञ्चिदपि स्यादित्यर्थः । युक्त्यन्तरमुद्धृत्य निराकरोति -
किञ्च यस्य तु यो धर्मस्तन्नाशाद्धर्मिनाशनम् ।
विरोधिगुणसद्भावादथस्यादन्यथा द्विजाः ॥
देह सत्यपि चैतन्यं मृतेकिमिति नेष्यते ।
हे द्विजाः । किञ्च इतोपि यस्य हिमाग्न्यादेः यो धर्मः
शीतदाहप्रकाशादिकः
तन्नाशात्तद्धर्मक्षयाद्धर्मिनाशनमसंशयन्दृष्टम् । ननु
ताम्रकालिकादीनाभावारकत्वादि लक्षणधर्मक्षयेपि न क्षयो
दृष्टः सत्यम् । तदर्थमेतत् । अथ यद्वापि विरुद्धगुणयोः
परस्परोपमर्दने नैव [[३४३]] स्वात्मलाभात् यथा
कालिकाकम्बुकादिषु पुनरावारकत्व निवृत्यादि
लक्षणधर्मस्यावारकत्वाद्युपमर्दने नैव स्वात्मलाभः । तथा
देहे व्य चिल्लक्षणगुणोपमर्दने नैव चिल्लक्षणगुणस्य
स्वात्मलाभः कथनीयः । ततः काहानिरिति न वाच्यम् ।
विरोधिगुणसद्भावात् तच्चिल्लक्षणविरुद्धगुण लाभात्
तद्धर्मिदेहोन्यथा स्यात् । आवारिकत्व निवृत्तिलक्षणरूपान्तर
परिणतिमान् कालिकाकम्बुकादिरिव सर्वात्मना चिल्लक्षणरूपान्तर
परिणतिमान् भवेत् । न कदाचित् तथा दृश्यते । ननु धर्मना
शाद्धर्मिनाशने स्माकं काक्षति नास्ति किं क्षतिरस्तीत्याह । मृते
पञ्चतां गते देहता दृशि सत्यपि [[३४४]] हिमस्य शितमिवोक्तं
चैतन्यं किमिति नेष्यते । कथन्नाभ्युपगम्यते । न च
तदानीमचिल्लक्षणगुणाविर्-भूत्युपमर्दितं
सच्चैतन्यन्नोपलभ्यत इति वाच्यम् । तदचिल्लक्षण
गुणाविर्भूतोर्ज्जीवावस्थायामपि सत्वात् । ननु मृतशरीरेपि
प्राणाद्यात्मकस्य वायोरूष्मरूपस्य तेजसोप्युपगमात् ।
जीवावस्थायामिव शरीरारम्भकभूत भूताभावात् । तदा न
चेतनत्वमिति नानैकान्तिकत्वं कर्तुमशक्यम् । नैवम् । गतासवोऽपि
हि केचन चलत् सन्धयस्सोष्माणश्च कियन्तमपि कालमुपलभ्यन्ते ।
तत्सद्भावेपि न चित्सद्भाव इति । ननु परिणाम वैशिष्ट्यात्
शिवावस्थायामपि सूक्ष्मतरसंवेदनमस्ति तन्न दैहिक
परिणामवैशिष्ट्याच्चितस्तदनु [[३४५]] विधायित्वन्न
जाघटीतीत्यनुपदमेव सयुक्तिकोक्तिर्विनिगम्यते । यदुक्तञ्च । देहे सति
चिद्दृश्यते नह्यसतीति । तदिदमयुक्तमस्मन् प्रत्यसिद्धेः तदिदानीं
ह्यालोकादि सन्निधौ सत् घटादिवत्तद्देहाभि व्यग्यतया तत्र
चैतन्यं पुरा तदेव सिध्यति न तत् कार्यम् इत्थम् सर्वत्र व्यापकत्वे
हि । नचात्मनस्तत्र तत्रापि पुरा अभावस्सम्भाव्यत इत्यालोकादिना
घटादेरिव पुरा सत्वं सिद्धमेव तदेतत्परीक्षोत्तरत्रापि भविष्यति
। ननु कुतोस्य घटवदैन्द्रियकानुपलब्धिः तदयुक्तम् । येन रूपेण
तत्सिद्धन्ते नैव रूपेण स्वसंवेदनात्मना तत्रात्मापि
सम्भाव्यते । नत्वत्यन्ता सिद्धानेन्द्रियालम्बनेन इन्द्रियादि [[३४६]]
वदिन्द्रियानुपलभ्य स्वभावत्वात् । अथ प्राक् समत्वमस्य कुतो
निश्चितं संशय एव । सत्यम् । बालानां हिताहित स्मरणा विना
भाविना आकुञ्चन प्रसारणादिनानुमातव्यतया जन्मनः
पूर्वमपि द्रष्टृ सिद्धिः तत प्रत्युत -
यद्भाव यदभावाभ्यां चेष्टाचेष्टे भजेत्तनुः ।
तच्चैतन्यमिति प्रोक्तं व्यतिरिक्तन्तु देहतः ॥
तनुदेहे यद्भाव यदभावाभ्यां स्वन्तः
कार्यकरणलक्षणव्यञ्जक योगवियोगाभ्यां स्वस्मिन्
यच्छक्त्यभिव्यक्त्यनभिव्यक्तिभ्यां चेष्टा चेष्ट आकुञ्चन
प्रसारणभ्रमणगमनागमनादि तदभावलक्षणे भजेत् । वहेत् ।
तच्चैतन्यमात्मा स्वार्थेष्यन्त्रत्विति [[३४७]]
अयोगान्ययोगव्यवच्छेदेन देहतो व्यतिरिक्तमन्यदिति प्रोक्तम् ।
यद्वन्ह्युपचया पचयानुकुर्वदौष्ण्यमिव यौवनस्था
विरभोजनलङ्घनादि हेतुकदेहसम्बन्ध्युपचया
पचयानुकुर्वद्विज्ञानमेव देहात्मकमिति स्वल्पकायानामपि
महामतित्व दर्शनेपि पठतान्तदनुकुर्वत्तद्बौद्धमित्यविन्दतां
भवतामभिमतन्तदिदमयुक्तमित्याह -
किञ्चबाल्ये च वार्धक्ये यौवने च विभेदतः ।
शरीरस्यानुसन्धानं कथं बाल्ये कृतस्य च ॥
सतावदनुसन्धत्ते प्राग्भुक्ता सेयमङ्गना ।
इति तस्माच्छरीरात्म वादोऽध्यक्षनिराकृतः ॥
तस्मात्स्थूलोहमित्यादि ज्ञेयोराहोश्शिरो यथा ।
[[३४८]]
किञ्च देहो ममेत्यदि प्रत्ययोऽस्त्येव पुष्कलः ॥
शरीरस्य बालाद्यवस्थासु विभेदतः । विशेषेण भिदातः ।
ज्ञानस्य तदनुकुर्वतोपि भिदास्तीति बाल्ये कृतस्य
यौवनावस्थायाञ्च शब्दात् यौवने कृतस्य
वृद्धावस्थायान्दृश्यमानमनुसन्धानम् ।
स्मरणमनुभवितुरव्यतिरिक्त समात्मना विना देवदत्तानुभूतं
पुत्रेणेव कथं भवेत् । कथञ्चिदपि नस्यादित्यर्थः ।
तदनुसन्धानानयन्दर्शयति । यस्मात् सलङ्घित यौवनदशः
तावत् क्रमेण सेयमङ्गना प्राक् भुक्ता मयापुरा
समालिङ्घितेत्यनुसन्धत्ते । प्रत्यभिजानाति । तस्मादयं
शरीरात्मवादः अध्यक्षनिराकृतः तदेतत् प्रत्यभिज्ञान
प्रत्यक्षनिरस्तः । [[३४९]] तस्मात् प्रत्यक्ष निराकृतत्वात्
स्थूलोहमित्यादि प्रत्ययः राहोश्शिर इति यथा तथा ज्ञेयः ।
शिरोन्तरा राहुरनुपलब्धोपि यथा राह्वारोपणोक्तिस्तथाहमन्तरा
स्थूलोनुपलब्धोपि स स्वसन्निविष्ट स्व व्यतिरिक्त शरीरवर्ति
स्थूलभावास्तस्मिन्नारोप्यते । किञ्च स्थूलोहमित्यादि
प्रत्ययविरुद्धेन मम देह इत्यादि विवेकलक्षणः पुष्कलोति
प्रसिद्धः प्रत्ययोसेत्येव ततस्थूलोहमित्यादि रविवेकेनेत्यत्र का
विचारणेत्यर्थः तदनेन भोग्यतयान्तस्पर्शनेन शूलाद्यात्मना
बहिश्च मृदुकर्कशादि भेदेन बुध्याध्यवस्तितस्य
शरीरस्यानुसन्धान
द्वारानुसन्धातुरात्मनस्तच्छरीराकारबुद्धिप्रकाशानुसन्धा
यानुसन्धातृरूपं [[३५०]] अनुसन्धान स्वार्थक्रियं शरीरात्
भिन्नं परसंवित्ति शक्तिरित्युक्तं वेद्यत्वे स्वात्मनि क्रियाविरोधात् ।
स्वप्रत्यग्ररूप स्वानुभूतिलक्षणानु सन्धातरि प्रतिभासमानं
सदित्थं स्वसंवित्प्रत्यक्ष सिद्धमेव । अत एव लोकायतान्
प्रत्यनुमानस्य प्रामाण्य प्रदर्शनार्थमनुमानं
प्रवर्तितन्नतत् स्वसंवेदन प्रत्यक्ष साक्षात् कृतात्म
साधनायेत्यनुमानानुमेयत्वे ह्यात्मनः परत्व प्रसङ्ग इत्येतत्
कुतर्ककुविकल्पो दूरापास्तः । तदुक्तं दृष्टस्य केन संवादो येन
तस्यास्तिमानतेति । तदित्थं भोग्यत्व सिद्धेश्शरीरस्याङ्गुल्यग्रेण
स्वाग्र स्पर्शवन्न भोक्तृत्व सिद्धिः नैय्यायिकादि भूमिकया
बुध्यादिवप्यात्म बुद्धिन्त्यजन्त्वित्याह -
[[३५१]]
बुध्यादीनान्नचात्मत्वं यत् कार्यात्सिद्धिरात्मनः ।
तदन्यकार्य हेतुत्वात् तेषां सिद्धिर्यतस्थिता ॥
अत्रापि तेषां हेतुत्वे विश्वमप्येकमिष्यताम् ।
बुध्यादीनान्नचात्मत्वं ततो यन्तो यत् कार्यात् यत्
स्वपरग्राहकत्वलक्षण कार्यादात्मनस्सिद्धिस्थिता ।
तदन्यकार्यहेतुत्वात् तत् स्वपरग्राहकत्व लक्षणकार्य
व्यतिरिक्तग्राह्याध्यवसायादि दर्शनीय कार्य हेतुत्वात् तेषां
बुध्यादीनां स्थिता निश्चिता । अत्रापि
स्वपरग्राहकत्वलक्षणकार्येपि तेषां हेतुत्वे कार्यभेदेन
नेकतत्व परिकल्पना भग्नेति समस्तकार्य निर्वहणमेकेनालमिति
विचित्र स्वस्वकार्यान्यथानुपपत्या सिद्धं विश्वमपि विचित्ररूपं
[[३५२]]
कलादिक्षित्यन्तं वक्ष्यमाणमपि जगदेकमीष्यताम् ।
तदित्थं कर्तृकार्यस्यान्यथा सिद्धत्वादिन्द्रिय चैतनिका
मनश्चैतनिका प्रमाणचैतनिकाश्चार्वाकभेदे तदृष्ट्यनु वा
स्थिता दर्पणशास्त्रादिवन्दिय षट्कस्य करणत्व सिद्धेः कर्त्रा विना
न प्रवृत्तिरिति वायोः अचेतनत्वेन स्वतः प्रवृत्तिः पटले निरस्तेति पटले
अहङ्कार चैतनिकाहङ्कार ग्राहकाध्यवसाय कार्यान्तरात्
सिध्यतीति वक्ष्यमाणत्वात् बौद्धज्ञान चैतनिका बौद्धाश्व
संवेदन स्थिररूपस्यात्मनः प्रकाशनात्तस्य पुनः
पूर्वानुभूतस्मृत्यन्यथानुपपत्ति सिद्धिरस्तीति पादार्थिकास्तु
निबुध्यादि गुणतया सः जजित् गुणतयोत्तरत्रात्म [[३५३]]
समुत्थर्तव्य इति परिणत वेदान्तिनः पाञ्चरात्राः
क्षपणकाश्चोत्तरत्रात्म व्यापकस्समर्थितव्य इति ।
साङ्ख्यास्त्वात्मनस्समलपक्व अ कर्तृत्वेस्त इति जैमिनीयाः
पुरुषत्वमौपाधिकमुत्तरत्र यथा भवति तथा विष्क्रियत इति
पुनरस्त्र निरस्तप्राया इति । ऋषयः । कुतर्क कुविकल्प कुदृष्टित्वाद्
ऐकात्मवादं ख्यातु मनुबध्नन्ति ।
आत्मानुभवः प्रोक्ता बहुत्वं केन गम्यते ।
नाध्यक्षगम्यन्ता वन्नानुमाविषयन्ततः ॥
भेदस्य मेय धर्मत्वान्मातामेयः कथं भवेत् ।
आत्मनस्सकलाकलभेदेन बहवः त्वया प्रोक्त आत्मनं
स्वसंवेदन प्रत्यक्षसिद्धत्वं यद्यस्त्यपि [[३५३]] तत् बहुत्वं केन
प्रमाणेन गम्यते । तावत्
क्रमतस्तन्नाध्यक्षगम्यन्नप्रत्यक्षगोचरं स्वसंवेदने
स्वेतस्संवेदना सम्भवात् ततः व्याप्तेः प्रत्यक्षपूर्वत्वात्
नानुमाविषयं नह्यनुमनगोचरम् । अथ तत् गम्यं वस्तुभेदस्य
परस्परं विसदृशलक्षणस्य मेयधर्मत्वात् मात्रमानभ्यां
विभिन्नमेय वस्तु गुणत्वात् मातरि तद्भेद सिध्यर्थं
मेयत्वमसंशयं वक्तव्यमिति स माता स्वत्मनि क्रियाविरोधात्
मेयः कथं भवेत् । न कथञ्चिदपि स्यादिति भावः
साङ्कुर्यानवस्था प्रसङ्गाच्च । तदुक्तं प्रकाशते । संविदेका
तदन्यस्तु प्रकाश्यते । प्रकाश्यञ्च भवेत् । कर्मतच्च कर्त्रा
विनाकथमिति । दर्शितञ्च चार्वाकमतोद्देशे । ननु [[३५५]] यद्येव न
केवलं मातर्य भेदस्सिध्यति । किन्तु भेदस्य मेयधर्मत्वादिति
युष्मत्प्रयुक्तहेतोरपि मातृवन्मेय व्यतिरिक्तत्व तुल्यत्वात्
भेदगुणकत्व वैधुर्ये मात्र मानयोस्सा कार्यं स्यादिति । कथं
मातुर्भिदातस्तमान साधनन्ततस्तन्मातुर्भिदातस्तन्मान
साधनान्यथानुपपत्या भेदस्सिध्यात्मनि
मातृमाननिष्ठत्वममेयतो भेदस्य मायापटले
मायापरीक्षातस्सिद्धम् उपरिष्टाच्च सिध्यति च तन्नेत्याहुः । न
हेतुसाधना भावोप्यात्म भेदोपपादकः ।
सोवाधिकात्मधर्मस्य भेदात्सोपाधिकान्तरे शिहतु
साधनभावोपि मातुर्भेदतया मानसाधनान्यथानुपपत्तिरपि
नात्मभेदोपपादकः । नहि स्वाभाविकात्मभेदसाधनन्तर्हि
तदनुपपत्तिः किं साधने पर्यवस्यतीत्यत आहुः ।
सोपाधिकात्मधर्मस्य शरीराद्युपाध्युपहितात्म तदुपाधि कृत
सुखादि धर्मस्य तस्मिन्नात्मन्येव सोपाधिकान्तरे
शरीरान्तरेद्युपाध्युपहिते सति भेदात् तदौपाधिकात्म
भेदसाधनोपक्षीणेति भावः । तदेवोदाहरन्ति -
यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते ।
न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवा सुखादिभिः ॥
तस्मादेकात्म भावेस्मिन् परिहारो विधीयताम् ।
यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते ।
तदन्ये सर्वे कलशोदञ्चन घटमठाकाशा
जलाद्युपाद्यन्तरोपहितास्तत्रस्थ रजो धूमादिभिर्न सम्प्रयुज्यते ।
[[३५७]]
तद्वदुपाद्युपहितभिदाकाराकाशवत् एकस्मिन्
शरीरोपाद्युपहित जीवे सुखादिभिर्युते । सति
शरीरान्तरदुःखसुखान्तरादुपाध्युपहिता जीवान्तरास्तत्रस्थ
सुखादिभिर्नयुज्यत इति परमात्मै कोपि॥॥। द्विविध
मनोलक्षणोपाध्युपहितभिदाक स्वभावान्तरानु विधायि
यथावदवगतोभ्युदयाय भवन्ति । मनसां संसारधर्म
सुखदुःखादिभिर्योगस्सतु हि सूर्य इवाम्भः प्रतिबिम्ब
भेदोपाधिभिरभिन्नोपि भिन्न इव प्रतिभाति ततस्तत्र हि बन्ध
मोक्षभिदादिकं वस्तुतोस्तीति न व्यवह्रियते । ततश्च
द्वैतप्रतिभासस्य द्विचन्द्रज्ञानवत् भ्रान्तत्वं सुसिद्धमेव ।
तथा चाह तत्र भगवान् भर्तृहरिः ।
[[३५८]]
यथा विशुद्धमाकाशन्तिमिरोपपुतोजनः ।
सङ्कीर्णामिवमात्राभिश्चित्राभिरभिमन्यते ॥
तथेदममृतं ब्रह्म निर्विकारमविद्यया ।
कलुषित्वमिवापन्नं भेदरूपे प्रवर्तत ॥ इति ।
तस्मात्तदेव तस्मिन्वेदान्त विदभिमतेस्मिन् नेकात्मभावे
परमानन्दाद्यनेक तदागमगीतगुणस्वरूपे परमात्मैकसिद्धौ
परिहारो निरासोभिधीयताम् । क्रियताम् । ईश्वरस्थन्निरासरूप
कथनं स्ववदनात् समुत्थापयति -
आत्मानो बहवो जन्म मरणादि विभेदतः ।
जन्मनाशादयो धर्मा दृश्यन्ते भिन्नवस्तुषु ॥
ततस्तु जन्मनाशाद्या आत्मनो भेदकास्थिताः ।
[[३५९]]
आत्मनो बहुवचनोक्ति साध्य फलन्नव्यभिचरति ।
साधनमिति कृत्वोक्ता बहवः । प्रतिज्ञा जन्ममरणादिविभेदतः
आदिशब्देन सुखदुःखेच्छादिकं गृह्यते । हेतुः भिन्नवस्तुषु
जन्मनाशादयो दृश्यन्ते । यथा देहेन्द्रियादिष्वित्यध्याहृत्य
दृष्टान्तोक्तिः । तथा चैत इत्युपनयमध्या हृत्य तत इत्यनुषज्य
श्लोकार्धार्थस्सुकरत्वात् सुकर्त व्यस्तन्निगमनम् । दृष्टान्तीकृत
देहेन्द्रियादिषु दृश्यते जन्मनाशादयो न तदन्येष्वित्याशङ्क्य
सहजवैतन्यन्दर्शनात् । तदयुक्तमित्यत आह -
न देहस्यैव जन्माद्या देहाद्यैस्सह चात्मनाम् ।
देहादेर्यदिजन्मादि नस्याच्चैतन्य दर्शनम् ॥
[[३६०]]
तदहजीत बालानामपि चैतन्यमिष्यते ।
चैतन्ये नापि युक्तस्सन् देहादिरूपजायते ॥
जन्मादि भेदवन्तोऽतो देहाश्चिद्भेदसाधकाः ।
सुबोध्यस्सूत्रार्थः । पराशयामाशङ्क्य निराकरोति । -
चैतन्यस्येह नित्यस्य कथं जन्मेति चेन्मतिः ।
अत्यल्पमिदमेते चानित्यदेहेन्द्रियादयः ॥
इदं मननम् अत्यल्पमिति स्थूलविषयमिति भावः । ततो नित्य
देहेन्द्रियादीनामिव जन्मात्मनामिति भावः । सुलभ श्लोकार्थः ।
अथ कथं जन्ममरणमागच्छतान्नित्यत्वन्नास्तीति वा
कुतस्सदाकिल सत्वस्यैव नित्यत्वात् सदासत्वं वा तथा विध
शरीरादेः कुत इत्याशङ्कायां तत् सिध्यर्थं
पुनस्सत्कार्यवादिनां चत्वारः [[३६१]] पक्षाः केचिच्छक्ति
समाहारात्मकं कारणं शक्तय एव व्यक्तिभूताः
कार्यव्यपदेशं भजन्त्य इति भाषन्ते । यदाहुः -
शक्तिमात्रसमूहस्य भावस्य परिणामतः ।
कदाचिद्व्यज्यते काचिच्छक्तिः काचित्प्रलीयत ॥ इति ।
तद परेत्वभिव्यक्ति भावानान्नरूपान्तर परावृत्तिः । अपितु
उपलभ्यमानतैव सैव जन्म कथ्यत इत्याहुः । तदितरे
पुनस्सन्निवेश विशेषमात्रं कारणस्य कार्यं हेम्नः
कटककेयुरादिवदिति कथयन्ति । तदन्ये क्रमविचित्र स्वभावत्वात्
भावाः क्रमेणानन्तमवस्था-विशेषमनुभवन्तो जन्मादि
व्यपदेशं भजन्तीत्यभ्युपगतवन्तः तदेतच्चतुष्पक्षेषु
समनयोक्तिं सन्दर्शयति । नासतो विद्यते भावो नाभावो विद्यते
सतः ।
[[३६२]]
तस्मादेकात्मवादोयं कल्पितोमूडचेतनैः ॥
असतश्शशविषाणादेर्नभावः । नहि किलविद्यमानत्वं यद्येवं
स्तः पर्वतादेरिव कृतत्वमस्तीति कृतस्य करणायोगात् अकिञ्चित् करतया
कारकाणां वैय्यर्थ्यं स्यात् । सत्यम् । सत्कार्यवाद चतुष्पक्षेषु
तावद्वितीय त्रितीय पक्षयोः क्षीरदध्यादिषु रूपान्तर
परावृत्तिदर्शनात् । न तथा त्व रूपान्तरा परावृत्तिरिति तत्र
पुनर्माधुर्याल्लतादिरसाद्यन्यथा त्व दर्शनान्न तथा त्व
सन्निवेश इत्यव्यापकत्वात् । कारणिक लक्षणस्य प्रथमपक्ष
स्वीकारेण मृगेन्द्रे ।
तदा धाराणि कार्याणि शक्तिरूपाणि संहृतौ ।
विकृतौ व्यक्तिरूपाणि व्याप्रियन्तेर्थ सिद्धय इति ॥
[[३६३]]
श्रुतेः । कारणलक्षण कार्यशक्तय एव व्यक्तिभूताः कार्य
शब्दैश्शब्द्यन्ते । पुनश्चतुर्थपक्षस्वीकारेण श्रीमन्मतङ्गे
प्रादुर्भवति यद्यस्मत् तदेवात्मनामादरात् । साधयेन्
मुनिशार्दूल स्थानमप्यविचारत इति श्रुतेः । कारण
क्षीराद्याधारकुण्डादौ क्षीरन्नष्टमन्यत्र वा गता ।
दध्यादित्व सदेवोत्पन्नम् अत कुतश्चिदागतं भवतीति नहि
प्रत्यक्षेण प्रतीयते किन्तु तदेव तथा तथान्यथात्वेन क्रमविचित्र
स्वभावत्वाद्वस्त्वेकं कारणलक्षणं
कार्यलक्षणमनन्तमवस्था विशेषमनुविधातीति कारणं कार्य
शब्दैर्वा कथ्यते । कारणस्य शक्तिसमाहारात्मकत्वात्
मायाशक्तिरूपत्वात् शक्तेः शक्यन्तरकल्पनायामनवस्था
प्रसङ्गात् । कार्यमेव [[३६४]] शक्तिमदिति तत् कार्यशक्ति
समाहारात्मकत्वात् माया शक्तिमती स्वकार्यशक्ति स्वाङ्गत्वात्
स्वकार्यं प्रत्यङ्गिनीति च गम्यते । ततः कारणमिदमस्येति
स्वावच्छेदकानभिव्यक्तकार्यशक्तिलक्षण कारणा कारणे
तच्छक्त्यव्यतिरिक्तत्वात् कारणेन वा प्रतिबन्ध तत् कारणाकार
स्वशक्तिव्यक्तिलक्षण कार्याकारः शक्त्यात्मना
सत्यामप्यभिव्यक्तौ कारक सान्निध्यभिव्यक्त स्वभावेति
शिवत्वाभिव्यक्ति परीक्षायां लेशतः कथञ्चित्परीक्षितेति जनक
शक्तिमत् भिर्निमित्त कर्तृतत्सहकर्तृभूतैः कारकैः कारणाकार
प्रोत्सारणेन कार्याकारलक्षणान् यथा त्व करणे न क्रियत
इत्यभिव्यक्त्यस्तित्वात् तदेव जननमिति न कारक [[३६५]] वैय्यर्थम् ।
तदुक्तं मृगेन्द्रे । तद्व्यक्तिर्जननन्नाम तकारक समाश्रयात् । तेन
तन्तु गताकारं पटकारापरोधकम् ॥ वैमादिनापनीयात पटः
व्यक्ति प्रकाश्यत ॥ इति । जन्यशक्तिर्नियामिकेत्यनेन
शक्तिश्शक्तिमन्तन्नवभिव्यभिचरति । ततः रत्नत्रयादौ ।
परिणामो हि वस्तूनां पूर्वावस्था परिच्युतेः ।
तदवस्थ हि वस्त्येकं पूर्वं क्षीरन्ततो दधि ॥
पश्चात् तक्रन्तथा माया विचित्रपरिणामतः । इति ।
श्रुतेः क्षीरादिरूपकमेव वस्तुक्रमेण पृथक् सिद्ध दधि
नवनीताद्यनेकैक स्वभाववदित्यनभिव्यक्त दध्यादि स्वरूपं
क्षीरम् । तथा हि व्यक्तं सत् दध्यादि भूमिकया कार्यकाले
पुनरनभिव्यक्त स्वशक्तिरूप [[३६६]] क्षीरस्वरूपं दध्यादि च
भूमिकया कारणकाले वर्तत इति समवैति स्वधर्मान्वयेन
कार्यमित्युपादान कारणमसमवायि कारणशब्दशब्दितं स्यात् ।
नतु परिणामपक्षेस्मिन् असमुत्पन्न कार्यकालमात्रे कार्येण सह
कारणस्य नैय्यायिकादि गीतवदयुत सिद्धत्वादिना समवायि
कारणमुपपद्यते । आविर्भावतिरोभावौ जन्मना शब्द शब्दितौ ।
जन्मनाशोपचारितौ ततः कार्यस्य कारणावच्छेदकत्वात् । अन्यथा
नवच्छन्नायां वन्ध्यायामपि सन्तति स्यादिति
प्रागपिकार्यास्तत्वसिद्धिः । ततः शरीरादिरूपकार्या कारस्य स्व
प्रतिबन्धक कारणाकार प्रोत्सारणेनन्यथा त्व करणेनाभिव्यक्तिः
। पुनः कारणाकारस्य [[३६७]] कार्याकार प्रोत्सारणेनान्यथा त्व
करणे न शक्तिलक्षणा पातनं जन्म च नाशश्चेति क्रमतः
कथ्यते । तथात्मनोपि सूक्ष्मदेहानुषङ्गिते सति स्थूलदेहे तत्र
कलादिभि स्वप्रतिबन्धक स्वचिदावारकत्व लक्षण
मलप्रोत्सारणेनेश्वरेणान्यथा त्व कारणे नावारकत्वनिवृत्ति
लक्षणैक स्वभावत्वात् मले स्वनिवृत्तिलक्षणस्य
रूपान्तरापातनेन तल्लक्षणरूपान्तर परिणतेस्तस्याश्च
स्वेतरमलनिष्ठ स्वसन्निविष्ठत्वात् स्वचिदविकृति मदभिव्यक्तिः ।
पुनस्थूलदेहे पातेत्वसतीष्विवा व तिष्ठतीषु
सूक्ष्मदेहाङ्गभूतकलादि कलासु स्वाप्रतिबन्धकावारकत्व
निवृत्तिलक्षणमलस्वरूप प्रोत्सारणेनेश्वरेणान्यथा त्व
करणेनावारकत्वनिवृत्तिलक्षणैक स्वभावत्वात् । [[३६८]] मले
स्वावारकत्वलक्षण स्वरूपान्तरापातनेन
तल्लक्षणरूपान्तरपरिणतेस्तस्याश्च स्वेतरमलनिष्ठ
स्वसन्निविष्टत्वात् स्व चिदविकृतिमदनभिव्यक्तिश्च जन्म च नाशश्चेति
क्रमतः कथ्यते । ज्ञानचक्षुर्युतानां ज्ञानस्यैव ज्ञेयार्थ
सत्तामात्र व्यापकत्वात् । नहि कारणकाले स्वशक्त्यात्मना
स्थितकार्यस्य कार्यकाले तच्छक्ति व्यक्त्यात्मना स्थितकारणस्य
पुनरात्मन स्वचिच्छक्त्यभिव्यक्त्यनभिव्यक्ति लक्षण विविध स्थिते
श्चास्मदाद्यैन्द्रियक प्रत्यक्षानुपल
सत्वादसिद्धिर्दिव्यचक्षुस्सिद्ध सत्ताकत्वात् । पुनर्महामया
मायाद्युपादन परमापरमकारण बुन्दमेव स्व स्व जन्य
शक्त्यात्मकम् । न तु शिवादि निमित्तकारण [[३६९]] शिवादि
सहकारिभूतमलादि सहकारि कारणबिन्दं शिवसहकारि भूत
शिवशक्त्यादि जनकशक्तिमत्तदिति जन्या परमाम्नः कार्यस्य
शिवादौ शक्त्यात्मना स्थित्यनुपपत्तेः । ततश्शरीरादिषु तु
स्वाकारान्य॥।ऽ पतन तिरस्कृत विकृतिमच्छक्ति व्यक्त्यात्म स्थितेः ।
तत्रोपचारतोह्यनित्यशब्दः प्रथितः प्रवर्तत इति सर्वं समञ्जसम् ।
तस्माज्जन्ममरणादि विभिदया विभिन्नात्मसिद्धेः ।
तत्वसम्भ्रहादौ । असकृत् प्रथगुपलब्धाः पुरुषो स्तेनापि
नत्वैक्यमिति श्रुतेः असकृत् पृथक् स्वस्वानुभूति सिद्धेश्च
अयमेकात्मवादः मूडचेतनैः अज्ञैः हिरण्यगर्भ प्रभृतिभिः
कल्पितो मिथ्यापातितः । ननु तेपि सर्वज्ञाः सत्यं स्वावधे
स्वोर्ध्वं न [[३७०]] जानन्तीत्यदोषः । तदयुक्तम् ।
सुगतो यदि सर्वज्ञः कपिलो नेति काभ्रमा ।
अथो भावपि सर्वज्ञौमिति भेदस्तयोः कथम् ॥
इति प्रोक्तरीत्या निरस्त कुतार्किक कुविकल्पा अपि ऋषयः तच्छास्त्रवासना
वशगाः पुनस्सञ्चोदयन्ति -
अथाकाशं यथा कुम्भकलशोदञ्चनादिषु ।
एकमेवस्थितन्तद्वद् देहेष्वात्मापि संस्थितः ।
उदञ्चनं सच्छिद्र नासिका स्पष्टश्लोकार्थः । ईश्वरः -
तच्चैकरूपमाकाशं नैवञ्चैतन्यमिष्यते ।
भोक्तुमिच्छायदैकस्य गन्तुमिच्छापरस्य च ॥
तदैवमस्माच्चैतन्यं भिन्नरूपमिति स्थितम् ।
यद्यभिन्नन्तु सर्वेषां भोक्तुमिच्छैकदा भवेत् ॥
[[३७१]]
सर्वत्र कलशोदञ्च नादिषु स्थितं तच्चाकाशं
स्वशब्दलक्षणैकरूपकार्यद्वारा एकरूपमनुमीयते ।
एवमेकरूपञ्चैतन्यन्नेष्यते । कुत इत्यत आह भोक्तुमित्यादि । यदा
स्मिन्काले तदा तस्मिन्काले एवमित्थम् अस्मात् । इच्चहा भेदात् एकदा
एककाले स्पष्टस्तदितरपदार्थः । ऋषयः -
सोपाधिकात्मधर्मस्य भेदादिति न नुदितम् ।
नन्वस्माभिः सोपाधिकात्मधर्मस्य भेदादित्युक्तम् । अयमाशयः
। इच्छा मनोवृत्तिः तदिच्छा भेदा मनोभेदसाधने पर्यवस्यति ।
मनसां हि संसारधर्म इत्युक्तत्वादिति । तदयुक्तम् । इच्छाया
भोग्यसङ्क्लिप्तिलक्षण स्वनिष्ठसमुद्यम चित्स्वरूपत्वात् तस्यास्त्व
चैतनसमवाया योगात् । [[३७२]] मनोभिव्यक्त चिच्छक्ति वृत्तिरिच्छेति
निश्चितत्वात् । ततो न मनसामिति निश्रेयस हेतुतया शास्त्राणां
प्रवृत्तेरात्मनामेव बन्धमोक्षावभ्युपगन्तव्यम् । अन्यथा
स्यादेकमेवा द्वितीयं ब्रह्मैव सत्यन्ततस्तत् ज्ञानमेव मुक्ते
साधनमितीदम् उच्यमानं मातामेवन्ध्येतीवत् । तदुक्तं
मोक्षकारिकासु -
एकत्वदर्शनं मुक्तेस्साधनं स्त्वात्मबाधितम् ।
मोच्यमोचककतॄणां ना भेदो साधतो भवेत् ॥ इति ।
एव मुक्तावभ्युपशतायाम् एक मोक्षे सर्वमोक्षप्रसङ्ग
परिहारार्थमात्मभेदोभ्युपगन्तव्यम् । भोगेस्य वेदना
पुंसस्सुखदुःखादि लक्षणेति श्रुतेः । तस्य वैचित्र्य दर्शनात् तत्
समवेतिनां भेदसिद्धिरिति [[३७३]] नात्यैक्ये व्यक्त्येक्य
भ्रान्तिन्त्यजत । किञ्च स्वसंवित्सिद्धं वस्तुनः सत्यम् ।
स्वेतरावेद्यत्वात् । यत् स्वेतरावेद्यं तत् स्वसंवित्सिद्धं सत्यं
ब्रह्मवत् । नच ततः किमिति वाच्यम् । आत्मनां स्वात्म प्रत्येकं
परात्मानुमात्रतया परात्मभ्यो भिन्न एव स्वसंविदि प्रतिभासते ।
यदि स्वानुभूति सिद्धमप्यसत्यम् । अथ यदि पुनः स्वानुभूतिस्सत्या
तदा सा ब्रह्माद्वैतप्रतिहन्त्रीति विलीनामसत्यां वा विभाव्यते ।
तर्हित्वद्दृशि श्रुतीनामपि परमार्थतोऽसत्यत्वाच्छशविषाण लिखित
भूरि वा सत्यक्लिप्ति क्लिप्तर्निष्प्रमाण द्विचन्द्रादिवत् । ब्रह्माप्य
सत्यमित्यान्ध्यमजगत् भवेत् । अथ यथा कथञ्चिद् वा तदभेद
सिद्धिर्यद्यस्ति सर्वमेवेदं ब्रह्मेति कः कस्य किं कुर्याद्
इत्यसङ्गतम् । [[३७४]] किञ्च विविकत ब्रह्मज्ञानाद्यदि
ब्रह्मणस्सदा सर्वथा शरीरत्वा व च्छिन्नत्व सर्वशरीरा
नवच्छिन्नत्वं जातन्तर्हि भ्रान्तिर्गमिष्यति । यदि यदा कदाचिद्यथा
कथञ्चिद्ये नकेनाप्य व च्छिद्यते । तत्र शरीरादिष्वेकत्र चिदावासो
भावति । नखल्वेकात्म भाष्यं पठतां भ्रान्ति रहित स्वात्मनः
कदाचिदपि निरवशेषं गमिष्यति । ईश्वरः । पुरा स्व वदन
समुक्तोक्तिभिः सहसर्वमिदं हृदि निधायाह -
अणोरभेद संसिद्धे तथा वक्तव्यमग्रजाः ।
युक्तिभिस्साधिते भेदे नासिद्धिस्विकृतिश्शुभा ॥
अत एव घटाकाशे रजोधूमादिभिर्युते ।
नसर्वे सम्प्रयुज्यन्ते तथेत्येतं न भूषणम् ॥
[[३७५]]
हे अग्रजाः । अणोरात्मनो अभेदे स्वाभाविकधर्मरूपहेतुभि
संसिद्धे दृश्यमानभेदव्यवहार परिहारार्थं तथा सोपाधिक
धर्मादिदमिति वक्तव्यम् । युक्तिभिरात्मसुनिविष्टस्वाभाविकभेद
लक्षण स्वसंविद्धर्मरूपाभिर्भेदे साधिते तत्रासिद्धि
स्विकृतिर्णशुभा । अत इत्यादि श्लोकार्थ स्पष्टः असिद्धिं पौर्विक तत्
प्रयुक्त हेतौ दर्शयति -
भेदस्य मेय धर्मत्वादिति यच्चोदितं पुरा ।
स च हेतुरसिद्धोऽत्र मेयामेयार्थयोर्युतः ॥
भेदोप्युभयनिष्ठस्यान्नापि मातुरमेयता ।
शिवस्य मेया सत्वात्मानो न चेत् सर्वज्ञताक्षतिः ॥
ज्ञाताचायन्नतु ज्ञप्ति मात्रोऽर्थग्राहको यतः ।
[[३७६]]
अत्राभेदसिद्धौ भेदस्य मेयधर्मत्वादिति प्रयुज्य
यच्चोदितं पुरा येन हेतुनाशकितं स च हेतुः मेया
मेयार्थयोर्युतस्सन्नसिद्धः । केवलं मेयार्थरूपपक्षनिष्ठत्वा
सिध्या स्वरूपासिद्धो भवति । अथ किमित्यत आह । भेदोपीति
मात्रमेययोर्विवेके क्रियमाणे तदन्यथानुपपत्या भेदेपि
परस्परं विसदृशलक्षणमपि परिच्छेदकतयोभयनिष्ठस्यात् ।
किञ्च मातुरमेयतापि न कुतः यतः शिवश्येत्यनुषज्य सुकरोर्थः ।
नैय्यायिकदृशेदमुक्तम् । अयमाशयः । अमेयार्थे मेय तया
त्वमितिस्सर्वज्ञस्यापि शिवस्य न दूषणं भूषणमेव ।
मेयतयामितेर्मेयार्थ सक्तामात्र व्यापकत्वात् । यथा शिवः
स्वात्मानं मेय विसदृशतया [[३७७]] स्वेतरानुसन्धात्र
मात्रतया साक्षात् करोति । तथा तान् मेय विसदृशतया कथञ्चित्
स्फुरण स्फुरित तया सुलक्षित स्वसादृश्य निबन्धनतया
स्वचिच्छक्त्या साक्षात्करोतीति चिन्नात्र मे ब्रह्म नहि सर्वज्ञतादि
गुणकं तेषामौपाधिकत्वात् । तदेतच्छायया शङ्कितञ्च
रत्नत्रये कार्योपाधि वशत् शक्तिसञ्ज्ञास्यादपि चित् घर्नेतुशक्तिः
परापेक्षा वस्तुतोस्तीति । केचनेति । ततस्तस्य सर्वज्ञताक्षतिर्नेष्ट
विधातेति पराशयं हृदि समाशङ्क्य निराकरोति ज्ञातेत्यादिना ।
अयं शिवः च शब्दस्समुच्चयार्थः । आत्मा च स्वतोज्ञाता
स्वसंविल्लक्षणोपि परसंवित् समवेति सन् परिसंवेत्ता न तु ज्ञप्त
मात्रः नहि स्वपरविषय [[३७८]] विरह चिद्रूपः परसंविद्विधुर
स्वसंविद्रूप इत्यपि हीनवाच्यम् । स्वसंविदित्यत्र स्वपदसमर्थिता
स्वसंवेद्या परापेक्षणी संवित्तिः कथ्यते । संवित्पदसमर्थिता तु
परानपेक्षिणी स्वपद समर्थित परसंवित्यपेक्षिणी
(स्वपदसमर्थित परसंवित्यपेक्षिणी) स्वपदसमर्थित परसंवित्तेः
प्रत्यग्रूप स्वलक्षिणी संवित्तिः कथ्यते । स्वसंवेद्येत्यत्रापि
स्वपदसमर्थिता परानपेक्षिणी स्वसंवित्तिः कथ्यते । संवेद्या
पदसमर्थिता तु परापेक्षिणी परसंवित्तिः कथ्यते ।
परसंवित्तिरित्यत्र पर पद समर्थिता स्वेतर चितचित्पदार्थः कथ्यन्ते
। संवित्तिः पदसमर्थिता परसंवित्तिः कथ्यते । इत्थं तत्र
कयाचिदन्तरा काचिन्नसिसिध्यति । [[३७९]] कुतो ज्ञाता यतः अर्थ
ग्राहकः सदा पदार्थवेत्ता लक्ष्यते । तदुक्तं मृगेन्द्रे -
सर्वज्ञस्सर्वकर्तृत्वात् साधनाङ्गफलैस्सह ।
योयज्जानाति कुरुते स तदेवेति स्वस्थितम् ॥ इति ।
ऋषयः -
ज्ञप्त्यात्मैवायमुद्दिष्टो ज्ञातृत्वं महतो मतम् ।
महानध्यवसायात्मा तन्त्रेप्यसिम्महेश्वरः ॥
हे महेश्वर ! अयमस्माभिः परमात्मसञ्ज्ञित शिवाद्वयीति जीवः
। ज्ञप्त्यात्मोद्दृष्टः तदुक्तं सूतसंहितायां -
आण्वश्चिद्रूपतो भेदञ्चितो नास्त्येव सर्वदेति ।
ज्ञातृत्वं स्वपरसंवेतृ त्वं महतो मतेर्मतितमिष्टम् ।
अस्मिञ्चैव तन्त्रेपि महान् बुद्धिरध्यवसायात्मा ग्राह्य [[२८०]]
परामर्शरूपः इति श्रुतमिति शेषः । ईश्वरः -
सर्वे ज्ञातार एवे ह दृश्यन्ते प्राणिनस्सदा ।
न बौद्धमेतत् ज्ञातृत्वं युक्तन्तस्या जडत्वतः ॥
सर्वे वेद विद्रशात् नादिमुक्तपरमात्मा अद्वैयीतिनः अस्मदृशा
तदनद्वैतिनः प्राणिनः इह लोके ज्ञातार एव स्वचित् स्वेतर जितचित्
संवेत्तार एव सदा दृश्यते । ननु न निबध्नमिति मतेरेवास्तु
ज्ञातृत्वं तन्न । एतत् नानार्थ परसंवेदनतयानुभूयमानं
ज्ञातृत्वं न बौद्धम् । न बुद्धि समवेति युक्तं
तस्याबुद्धेर्जडत्वतः । कथं पुनर्जडात्मनि चित्समवेतित्व
न्यायवादिभिर्गीयते । तदुक्तं गुणाव्यतिरिक्त तद्रूपतयोत्तरत्र
गुणिनस्साधनीयत्वात् । बाधान्तरमाह -
[[३८१]]
किञ्च बुध्यादिभिज्ञानं व्यज्यतेत्र सदैव हि ।
किञ्चानुभूयते ह्यात्मा स्वपरात्म प्रकाशकः ॥
परप्रकाशकत्वञ्च नित्यन्नित्यगुणो यतः ।
किञ्च इतोपि न चिन्मात्रेण सिध्यति । यतो बुध्यादिभि स्वकार्य
प्रकाशादि द्वारा ज्ञानं ज्ञातृकत्वोत्थं मत्र देहे
सदैवैह्यभिव्यज्यते । ततः काक्षतिरितिति न वाच्यम् । यद्व्यञ्जकं न
तद्व्यमिति बिन्दुपटले परीक्षितत्वात् । किञ्चात्मस्य परात्म
प्रकाशकोहि सदा अविलुप्त स्वपरविषय वेदनात्मको ह्यनुभूयते ।
यद् वा व्यञ्जक निरपेक्षत्वात् स्वयं प्रकाशो भूत्वा परत्र
सूर्यकान्तलक्षणाग्नौ स्वशक्ति सदृशीं स्वपरप्रकाशिनीं
शक्तिं प्रकाशयन् स्वपरप्रकाश सूर्य इव यथा शिवो व्यञ्जक (प्।
३८२) निरपेक्षत्वात् स्वयं प्रकाशो भूत्वा परत्र
पाशमात्रमुक्तमुक्ते स्वशक्ति सदृशीं स्वपरप्रकाशिनीं शक्तिं
प्रकाशयन् स्वप्ररप्रकाशः । तथा मुक्तशिवशक्ति कृतमल
शक्त्यान्तिक विच्छित्ति चिच्छक्ति सर्वथाभिव्यक्ति समनन्तरं न
पशुशक्तिरिव पुनः पुनस्सापेक्षिणीति शक्ते व्यञ्जकनिरपेक्षत्वात् ।
शिवोभूत्वा शिव इव स्वयं प्रकाशः परत्र भविष्यति पाशमात्र
मुक्तमुक्तान्तरे न प्रतिबन्ध स्वस्येत्यवर्जनीयतया शिवमतिं
प्रत्यनवनत्यनुन्नतितया समुत्थ स्वमति शिवा
पृथगाचरिताधिकारः शिव सम स्वशक्तिसदृशी स्वशक्तितरां स्व
परप्रकाशिनीं शक्तिं शिवा पृथक् प्रकाशयन् शिव इव स्व पर
प्रकाशोनुभूयते । [[३८३]] पृथक् न प्रसारिणी स्वमतिरिति शिवमतिं
प्रत्यनुन्नत्य वनति स्वमतित्वान्न जगत् कर्तेति चानुभूयते ।
अथापरमुक्तः पुनराचार्यश्च स्वमतसंस्कार
पूर्वशास्त्रोपदेशद्वारा सापेक्ष शक्ति यथा तथा स्वानुरूपं
परचिच्छक्तिमप्रबोधयन् स्व पर प्रकाशोऽनुभूयते । ननु
प्रपरप्रकाशस्य विलोपिनीयत्व दर्शनात् कथमात्म स्वरूपत्वम् ।
मैवम् । स्वप्रकाशवत् परप्रकाशत्वञ्च नित्यं यतो नित्यगुणः
सदास्तिकवस्तुधर्मः । अयमाशयः । विविधं विज्ञानम्
अध्यवसायात्मकञ्चेति । तत्र प्रथमोद्दिष्ट परामर्शात्मकन्तु
ज्ञायतेनेनेति ज्ञानमिति प्रकाशभूता नाध्यवसायाभिव्यञ्जक-
तया सु निगदितबुद्धिप्रकाशोह्य नित्यः । [[३८४]] तदपेक्षया हि
घटज्ञानात् पटज्ञानं विलक्षणमित्यादिकन्तदपरन्तु
तदभिव्यक्त तदध्यवसितार्थविषयं भूत्वा पुनस्तदनुसन्धातृ
सक्त द्विपल्पाध्यावसितं परोन्मुख चिद्रूपन्तस्मिन् बौद्धे विलुप्तेपि
विलुप्तायामपि दीप दीप्तौ नेत्रपरोन्मुखतेज इवाविलुप्य स्थित्वा
पुनस्तत् सहकारि सन्निधौ सदा प्रकाशते । ननु आरोपित
बुद्धिज्ञातृत्वं भ्रान्त्या स्वरूपमिव लक्ष्यते । तन्नेत्याह -
ज्ञातृत्वन्नैतदध्यास कृतं भवितुमर्हति ।
अन्यत्र दृष्टधर्माणामन्यत्राध्यास इष्यते ॥
आत्मेतरस्य ज्ञातृत्वा सिद्धेर्नाध्यास इष्यते ।
एतत् ज्ञातृत्वं परप्रकाशः नाध्यासकृतं [[३८५]] नारोपितं
भवितुमर्हति । यतः अन्यत्र सर्पादौ दृष्टधर्माणां वार्द्धक्य
दैर्यादीनामन्यत्र रज्वादौ अध्यास आरोप इष्यते । ततः किमिति न
वाच्यम् । क्वापीत्यनुषज्य सुकरोर्थः तदिदं स्वानुभूत्या
अनुभूयते । नहि स्वात्मनि भ्रान्तिरस्ति । तदुक्तं सर्वमालम्बने ।
भ्रान्तन्नस्वात्मनि कथञ्च नेति । तस्यां भ्रान्तित्वे त्वद्दृशापि
स्वानुभूति सिद्धब्रह्मणोप्यसत्यत्व प्रसङ्ग इति सर्वं
शशविषाणकल्पं स्यात् । ननु स्वानुभूतिरसत्योपाधि समुत्था
ब्रह्मसिद्धिं कृत्वा विलीय असती स्यात् । अयुक्तमेतत् । यतस्तर्हि तथा
ब्रह्मापि विलीय असत् स्यात् । नास्तीति कुतः निष्प्रमाणत्वात् । अथ यदा
ब्रह्मणो सिद्धिः कल्प्यते । तदा पुनः [[३८६]] तत्
सिद्धयेनुभूतिस्समुत्थीयते । यद्येवं ब्रह्मापि तदा समुत्थीयत इति
ब्रह्मस्वेवमज्जननिमज्जन स्वपरिभूतेर्नान्तं पश्यति तत स्वेतर स
विद्धिलक्षण ज्ञातृत्वं स्वेतर ज्ञातृलक्षण स्वाभाविक
स्वसंवित्ति समुत्था स्वानुभूति सिद्धमिति न ज्ञप्तिमात्रौ
शिवात्मनौ । ननु शिवज्ञातृत्वं ज्ञेय सापेक्षत्वात् । ज्ञेयोपाधि
समुत्थन्नस्वाभाविकम् । तदयुक्तम् । ज्ञाप्तिमात्रं ब्रह्मेति
पठन्तो भवन्तोपि ज्ञप्तिः केति केनचित् पृष्टाः किं ब्रूयुः । वयन्तु
ज्ञानमिति ब्रूमः । अहोबततर्हि तस्येति तेन भूयो भवन्तः पृष्टाः
पुनः किं ब्रूयुः । न च निर्विषयज्ञानमिति इगत्यन्तरमिति पुनः
किञ्चानुभूयते । ह्यात्मा स्वरूपात्मप्रकाशक इति श्रुतिं
सम्पूज्य स्वस्य स्वेतरस्येति [[३८७]] च भवद्भिस्सुत्तरन्दीयताम् ।
अन्यथा सिद्धिमाशङ्क्य निरस्यति -
अथ चित्प्रतिबिम्बेन बुध्या देहोधृतो भवेत् ।
तर्हि चित् प्रतिबिम्बेन बुध्यादिरपि चिद्भवेत् ॥
न चेतनो यतो बुद्धौ चिद्रूपः प्रतिबिम्बितः ।
अथ यदि नहि बुद्धेर्नैसर्गिकं ज्ञातृत्वम् । किन्तु जले चन्द्रमस इव
बुद्धौ चित्प्रतिबिम्बेन बुध्या सुखदुःखवेदनाभिस्सह देहो धृतो
भवेत् । नहि किलात्मना तर्हि बुध्यादिरपि चित्प्रतिबिम्बेन चित् भवेत् ।
समानधर्मिण्येव प्रतिबिम्ब दर्शनात् । अथवा चिद्रूप आत्मान
चेतनो भवेत् । यतो बुद्धौ चिद्रूपरहितायां प्रतिबिम्बितः ततो
नात्मेत्यात्मान्तर कल्पनाया मनवस्था स्यात् । [[३८८]] अत्र
नियतिकेत्याह -
न चायं प्रतिबिम्बोपि चिद्रूपस्यात्मनो मतः ।
जडे जडस्य सङ्क्रान्ति युज्यते परिणामिनः ॥
बुध्यदेः प्रतिबिम्बोपि नस्याद् आत्मन्यसम्भवात् ।
अन्योन्य ध्यासवादोयं कुदृष्टि परिकल्पितः ॥
परिणतिमिताद चिद्व्याप्तित्वादचिति नहि चिदचिति नहि चितः चिति नह्यचितं
प्रतिबिम्ब इत्यर्थः । अयमन्योन्य ॥॥ स वादः चित्प्रतिबिम्म्बेन मतौ
चिदारोपः तत्प्रतिबुद्धि प्रतिबिम्बेन चिति ज्ञातृत्वा रूपः क्रियत इति
परस्परारोपोक्तिः कुदृष्टि परिकल्पितः असर्वज्ञप्रणत शास्त्रक्लिप्ति
कलिता सुकोस्थदितरा पदार्थः । ननु कस्तूरिकामोदादिभिः
पदादेरिव सम्पक्रसङ्क्रान्तिः [[३८९]] प्रतिबिम्बस्तु न तथेति किमत्र
सङ्क्रान्ति शब्देस्समुच्चरितः । सत्यम् । समक्रान्तेरपि परिणति
मदचिद्व्याप्त सादृश्यात् तदुक्ति पुरस्कृत दुरुक्ति परिहारार्थं
सङ्क्रान्ति शब्देन प्रतिबिम्बः प्रतिबिम्बशब्देन सङ्क्रान्तिर्वा
समभिधीयत इति समधिगम्यते । भोगकारिकासु च । भोग्ये भोग
प्रदो च्छाया यथा चन्द्रमसो जल इत्यत्र प्रतिबिम्बार्थप्रदे भोगो
बुद्धिवृत्यनुरञ्जनमित्यत्र सङ्क्रान्त्यर्थ प्रदे सति । प्रथमोक्तिस्तु
बुद्धि प्रकाशे । भोग्य भोक्तृत्व सम्बन्धितया
विशिष्टस्वरूपाभिव्यक्तिमात्रे दृष्टान्तदर्शनी । द्वितीयोक्तिस्तु तद्
विषयीकरणमात्रार्थप्रदेति गुरवः । आत्मा
स्वशरीरमयस्कान्तवदसंस्पर्श्य स्वसङ्कल्प क्रियार्थ
क्रियाविशिष्ट [[३९०]] शक्ति सम्बन्धलक्षणसन्निधिमात्रेण
स्पन्दयति शिवोपि विश्वन्तथेत्युक्तञ्च उत्तरत्रापि यथावसरं
स्पष्टः ब्रूमः । तदनेन मलादिभिस्संयोगोक्तिश्च तत्र तत्र
सम्बन्धमात्रार्थप्रदेति सयुक्तिकलिता । किञ्च तदित
दर्पणस्थानीय बुद्धिप्रतिबिम्बितश्शिवः । पुरुषश्च सुपरिज्ञायत
इति केचित् सेश्वरसाङ्ख्यदृष्ट्यनुवासितास्तेपि प्रतिक्षिप्ताः । ननु
व्यक्ताव्यक्तज्ञ सम्बुद्धिस्सिद्धिरिति श्रुतेः कथन्नपुरुषस्सबुद्धि
बोधप्रकाश्यः । सत्यम् । नहि प्रकाश्यतया किन्तु व्यक्ताव्यक्तविषये
हि बुद्धि बोधये तत् प्रकाशकतयात्यन्ताविविक्तः पुरुषस्वयं
प्रकाशते । नित्यगुणिनस्तदव्यतिरिक्ततद्रूपगुणत्वात् । ज्ञातृत्वस्य
तन्नित्यमित्यत्याह -
[[३९१]]
ज्ञातृत्वमपि तन्नित्यं धर्मत्वान्नित्यवस्तुनः ।
नानित्यधर्मधर्मीस्यान् नित्य-आत्मामुनीश्वराः ॥
अर्थस्सुव्यक्तः नैकदेशवर्तित्वञ्चेत्याह -
तच्चेहविभुधर्मत्वान् न च काचित् कमिष्यते ।
नित्यत्वमपि तेनात्मा स्थितस्सर्वर्थ दृक् क्रियः ॥
तच्च ज्ञातृत्वमपि क्वाचित्कमैकदेशिकन्नेष्यते । तस्य
विभुधर्मत्वात् । नित्यत्वमपि क्वाचित्कवस्तुनि न सम्भवतीति शेषः ।
तेनात्मा स्थितस्सर्वार्थ दृक् क्रियः । मुक्तेरमुक्तेः क्रमतो
व्यक्ताव्यक्त शिवतायुत स्थितः । अन्यथा बाधास्तीति च प्रदर्शयन्
विषयापेक्षत्वमौपाधिकमिति वदतां वादस्सोपहास इति सूचयन्
नैसर्गिकस्वरूपतया सुषुप्त्याद्यवस्थासु चान्तर [[३९२]]
विषयाद्यपेक्षत्वञ्चाह ।
ज्ञातृत्वमपि यद्यस्य क्वाचित्कं विभुता कुतः ।
धर्मिणो यावती व्याप्तिस्तावद्धर्मस्य च स्थितिः ॥
यथा पट स्थितं शौक्ल्यं पटं व्याप्याखिलं स्थितम् ।
स्थितं व्याप्यैवमात्मानं ज्ञातृत्वमपि सर्वदा ॥
न च निर्विषयं ज्ञानं परापेक्षं स्वरूपतः ।
यदिज्ञातृत्वमपि धर्मरूपमपि क्वाचित्कन्तद्धर्मलक्षण
स्वलक्षणस्यास्यात्मनो धर्मिणो विभुता कुत इत्यन्वयः ।
ज्ञानन्धर्मलक्षणन् न च निर्विषं स्वरूपतः अनुपाधितः
धर्मिलक्षणं ज्ञानं स्वापेक्षितमिव परापेक्षं
विषयापेक्षन्तदेव शक्तिः । पुनस्तदेव स्वापेक्षं सच्छक्तिमानिति
प्रमाणपटले स्पष्ट इष्यामः । स्पष्टस्तदितरपदार्थः । [[३९३]]
तदित्थं स्वच्छाया कुक्षिनिक्षिप्ताधुनिक शैवैकदेशिकमत
वेदान्तवादिमत निराकृतौ सत्यां प्रासङ्गिकदिकम्बर
पाञ्चरात्र दृशा ऋषयश्चोदयन्ति -
व्यापकत्वे ह्यणोस्सिद्धे धर्मव्यापकता भवेत् ।
अन्यत्रानुपलब्धस्य देहाद्व्यापकता कुतः ॥
देहादन्यत्रेत्यनुषङ्गः । सुव्यक्त श्लोकार्थः । ईश्वरः । अविभुत्व
सिद्धये प्रयुक्ताद् देहादन्यत्रानुपलब्धेरिति होतोर्विभुत्व साधन
हेतु नैवासिद्धिं प्रदर्शयति -
न देह परिमाणत्वमणूनामुपपद्यते ।
तस्माद्देहादतोऽन्यत्र स्थितार्थ ग्रहकत्वतः ॥
ध्रुवमहञ्जानामीति तत्र स्थितार्थवेतृत्वात् हेत्वन्तरं [[३९४]]
प्रयुनक्ति -
किञ्चाभिव्यञ्जको यत्र यत्र देहेन्द्रियादिकम् ।
तत्र सर्वत्र तत् कार्य दृष्टेर्व्यापकतात्मनः ॥
किञ्च यथा यत्र प्रमाणताल्वोष्ठ पुटयोगादिकमभिव्यञ्जकः ।
तत्र स्थूलध्वन्यात्म स्वकार्यदृष्टेराकाशस्य व्यापकता तथा
यत्र देहेन्द्रियादिकमभिव्यञ्जकः । तत्र सर्वत्र तत् कार्य
दृष्टेस्तदात्मर्थक्रियालक्षणचिदभिव्यक्ति दर्शनात् ।
व्यापकताम्ननस्सिध्यति युक्त्यन्तरेण पुनस्समुद्धरति -
व्यापको यममूर्तत्वाद् यथा व्योमततस्तथा ।
तद्धर्मभूतज्ञानञ्च व्यापकं विषयोन्मुखम् ॥
व्योमेत्यन्तार्थ स्पष्टः तथा चायमित्युपनयमध्याहृत्य [[३९५]]
ततस्तथेति निगमनरूपानुषङ्गः मध्यमदीपकता
पुनस्ततस्ततस्तस्मादमूर्तत्वात्तथात्मेव तद्धर्मभूतं
विषयोन्मुखं ज्ञानञ्च व्यापकमिति विवेकः । नन्वाकाशस्य
स्वकार्यावधिका हि व्यापकता । सत्यम् । अत्रापि मेयार्थ
मात्रवेदनमस्य कार्यमिति तदवधि का सा साध्यतामिदानीं
मलावरुद्धत्वान्न दृश्यत इत्यनुपदमेव वक्ष्यतीति
नह्यसमञ्जसम् । अथवा व्योमशब्देन बिन्दुश्शिवो वा विवक्षितः ।
चिद्रूपत्वाद्यथेश्वर इति इति वा विभुत्व सिद्धिः । ननु एकेन व्याप्ते
जगति तदितरस्यावस्थानन्न सङ्गच्छते । पुनः कर्मसंस्कारश्च
स्यात् । तदयुक्तम् । शीतधूमालोकादिभिरनैकान्तिकत्वात्
चिकीर्षाभिदावताम् अमूर्तानां कर्मसाङ्कर्यं यथा न भवति
तथा [[३९६]] असंस्पृश्या व स्थानं चोपपद्यत इति न काचित् क्षतिः
प्रासङ्गिकदिगम्बरान् पराकृत्य वेदान्त विन्निराकृतिमुपसंहरति -
यन्नित्यरूपं विज्ञानं तच्च निर्विषयात्मकम् ।
पक्षाऽध्यक्ष निरस्तोयं स्व पर ग्राहकत्वतः ॥
अणोः प्रत्यक्षसिद्धत्वान्नानुमाध्यक्षबाधिका ।
नेह ग्राहकता बुद्धेस्साधितत्वाज्जडत्वतः ॥
यन्नित्यरूपं विज्ञानं यद्विशेषेण विषयं ज्ञायत इति
विज्ञानम् । तच्च मातामेवन्ध्येति वन्निर्विषयात्मक मित्युक्तोयं
पक्षो वेदान्त चित्परिगृहीतः । अणोरात्मन स्वपरग्राहकत्वतः
विषयसंवेदनलक्षण स्वसंवेदनलक्षण धुरन्धरतदितर
लक्षण विधुरस्वरूपतया [[३९७]] स्वानुभूति लक्षणेन
प्रत्यक्षेण प्रत्यात्मसिद्धत्वात् । कामिकेपि । तदुक्तं स्व पर ज्ञातृ
भावत इति । अत्रायमर्थः । चिद्रूपमात्मनोरूपं दृक्क्रियागुण
लक्षितमिति पराख्याया मुक्तत्वात् । स्ववेदने चिद्रूपमात्रं
प्रमता स्वग्राहकत्वं प्रमाणं परवेदने चिद्रूपसहजं स्व
ग्राहकत्वं प्रमता परग्राहकत्वं प्रमाणमित्यध्यक्ष निरस्तः
प्रत्यक्ष प्रतिक्षिप्तः पाशाद्विमुक्तावाधिके अनादि पाशकदत्थितत्व
वासना भास वशात् स्तम्भित शक्तिके तुर्यके पौरुषिक फले तदेतत्
ज्ञप्तिमात्र तयोपासनीयः । ततश्शिवत्वेनेति शिव शास्त्र विदः ।
तदुक्तं सिद्धान्तसारावल्याम् । तुर्यकन्देहाक्षो परतौ
स्वचिन्मतिरथातीतं शिवत्वोदय इति । स्वच्छन्देपि -
[[३९८]]
पाशावलोकनन्त्यक्त्वा स्वरूपालोनं हि यत् ।
आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरथोन्यथा ॥
सर्वज्ञादि गुणार्था व्यापकान् भावयेद्यदा ।
शिवव्याप्तिर्भवेदेषा चैतन्ये हेतुरूपिणीति ॥
ननु सर्वज्ञतादिकमीश्वर समावस्थाजन्यत्वात् सोपाधिकम् ।
तदयुक्तं नपरन्तत्र न तत्र व्यक्तम् । सर्वथेति किन्तुस्थूलं
सविकल्पं व्यक्तन्तद्व्यक्त्यन्तरबाधितव्यमिति स्वीकृतत्वात् । ननु
चिन्मात्रात्मसिद्धामनुमानमस्ति । तदयुक्तम् । यतो
नानुमाध्यक्षबाधिका । नानुमानं प्रत्यक्षबाधकं
परसंवेतृतया स्वानुभूति प्रत्यक्षसिद्धसत्ता कस्यनानुमानदि
बाधास्ति कथञ्चिदपि । यदाहुः -
[[३९९]]
अनुभूतौ प्रमाणानां परिनिष्ठा समाव्यते ।
स्वतस्तयैव या ज्ञप्तिः किन्तत्रान्यैः प्रमान्तरैरिति ॥
नेहेत्याद्यर्थस्सुबोध्यः । ननु विविक्ततया स्वसंवेदन लक्षण
परसंवेतृव्यतिरिक्ततया परसंवेदनं सुवेद्यन्नेत्याह -
किञ्चैतद्ग्राहकत्वञ्च न भेदादात्मनां स्थितम् ।
स्वरूपन्तु ततस्तेषां ग्राहकत्वेन संस्थितेः ॥
किञ्च पुनरात्मना मुक्तलक्षण किन्तत् वेक्त्राणामेतत् ग्राहकत्वं
परसंवेदन न भेदात् स्थितं किनु ततस्तेषां स्वरूपं यमो
ग्राहकत्वेन वेतृभावेना पृथक् सिद्धतया तत् परोन्मुख
संविदस्संस्थितेः । तथानुभूयत इत्याशयः ।
तदुदाहृतोपसंहरति -
[[४००]]
नह्यंशेन पदार्थानां विचारश्शोभते क्वचित् ।
अग्निशक्तिं विना कीदृगिति चिन्ता न कुत्रचित् ॥
स्व परग्राहकस्तस्मात् सर्वदात्मव्यवस्थितः ।
अर्थस्सुव्यक्तः । अयमाशयः । अग्नेर्दाह प्रकाशलक्षणशक्तिं
विनाग्निः कीदृगीदृगिति यथा न भवति हि चिन्ता पर्यालोचना
तथात्मनो दृक्क्रियालक्षणशक्तं विनात्मा कीदृगीदृगिति न भवति
हि यैव हि परसंवित्तिश्शक्तिरूपा परस्वघटित प्रकाशदीपदीप्तिवत्
। सैवहि स्वसंवित्तिस्सती स्वसंवित्ति सिद्धा । शक्तिमदात्मनोरूपमित्य
पृथक् सिद्धत्वात् पशुपदार्थान्तभूत तयोदिष्टममलं
परिक्षितुन्तमुपक्षिपति -
[[४०१]]
तद्वत्स्वतोमिसर्वज्ञाः किञ्चिज्ञत्वन्तु कारणात् ।
निरुद्धं येन सार्वज्ञं समलं परिपठ्यते ॥
यथा शिवसर्वज्ञस्तद्वत् स्वता उपार्युपमर्दन कर्तृ नैसर्गिकतया
अमीह्यात्मनस्सर्वज्ञास्सर्वस्यार्थ तस्या नारतत्वेन
सत्तामात्रतया स्वसंवेद्य परसंवित्समवेति नस्सन्त स्वनुभूति
वृत्तिलक्षण स्वसंवेत्तारः । तदुक्तं रत्नत्रये ।
परसंविस्वरूपायाश्शक्तेरसति बन्धने ।
परमात्रं प्रकाशे त मुक्ताणूनामनारतः ॥
ततो विमुक्तास्सर्वज्ञा नतु चिन्मात्रवेदिनः ।
यो यदा वर्तते भावो भूतो भावी च तत्तदा ॥
यथार्थ स्थिति गृह्णाति स्व संवेद्या चिदव्ययेति ।
[[४०२]]
तर्हि कथमिदानीं भोग्यतया किञ्चिज्ञत्वं दृश्यते ।
सत्यम् । किञ्चिज्ञत्वन्त्वधुना ज्ञेयत्वावच्छिन्न ज्ञेयव्याप्ति
विधुरभोग्यतया वेदनन्तु कारणात् । कलोपबृंहितबलवत्
स्वविरुद्धवस्त्वन्तर निमित्तान्नस्वत इत्यनुमीयते ।
निरुद्धमित्याद्यर्थ स्पष्टः मलिनीकरोति । ज्ञान
क्रियाच्छादमयतीति मलः सर्वज्ञस्येदं सार्वज्ञं
सर्वज्ञत्वमित्यर्थः । समलस्तु यथावत् ब्रह्मज्ञान विरोधिगुण इति
वेदान्त विदः तानु प्रतिक्षिपति -
तच्चद्रव्यं यतः कर्म निवर्त्यं पटलादिवत् ।
किञ्च द्रव्यं मलोऽनेकशक्तिमत्वाद्यथा नलः ॥
तच्च मलसुज्ञीतवस्तु च द्रव्यं यतः कर्मनिवर्त्यं [[४०३]]
दीक्षात्मक्रिया प्रोत्सारित व्यवन्तस्माद्धेतोः पटलादिवत्
पटलादिकन्तु चक्षुर्वैद्य व्यापारादिना निवर्त्यं भूत्वा नहि
द्रव्यत्वं व्यभिचरति । ननु समदृशाज्ञान मात्रनिवर्त्यमिति
हेतुरसिद्धोयम् । पुनरतः प्रतिबन्धकत्वे सति द्रव्यत्वात् कर्म
निवर्त्यं कर्मनिवर्त्यत्वाद्द्रव्यमितीतरेतराश्रयता च । सत्यम् । अत
एव तदसिद्धि निरसनार्थं हेत्वन्तरं प्रयुनक्ति । किञ्च इतोपि मलो
द्रव्यमनेक शक्तिमत्वात् अनन्त पुरुषचिच्छक्ति
तिरस्करनान्यथानुपपत्या पुनरेकमोक्ष सर्वमोक्षा
दर्शनाद्धेतोः स्वाधिकारान्तापगन्तरिस्तं मले मलस्यनेकत्व
सत्यप्य चैतन्ये सत्यमनेकत्वादनित्यमित्यादिकत्व सिद्धेः । स मलः
कारण मृग्य [[४०४]] इत्यनवस्था स्यात् । यदि सतु निर्हेतुकः
पुनर्मुक्तानपि रुणद्धि । तदुक्तं मृगेन्द्रे ।
तदनादि समर्वाग्वा तद्धेतुस्ततसोन्यथा ।
रुणद्धिमुक्तानेवचेन्मोक्ष यत्नस्ततो मृषेति ॥
तदेतदन्यथानुपपत्तेश्च सिद्धं ह्यनन्त स्वाधिकारान्तापगतृ
स्वभेदशक्तित्वम् । यथा नलः अनलस्य हि अनन्ते बोध्य शोष्य दाह्य
प्रकाश्य विषयस्वान्तर्भेदभिन्नशक्तिकश्शक्तिकार्य
द्वारापगम्यते । सोनलोद्रव्यञ्च तासां मलशक्तीनां
चिदनुग्राहार्थं तत्परिणामार्थं
रोधकत्वलक्षणधर्मानुवर्तनात् । शिवशक्तिरपि चिदनुग्रहार्थः
अचिदनुग्रहप्रवृत्तापि तिरोधायिकेति पाशतयोपचर्यते । सैव
यदेनाशमन्त्रलिङ्ग [[४०५]] समुद्धेशान्या शक्त्या स्वकृत
पाकमलानां कैवल्याभिमुखं करोति । तदाचिदनुग्राहिका
भूत्वा तिष्ठति । तदुक्तं मृगेन्द्रे ।
तासां महेश्वरीशक्तिस्सर्वानुग्राहिका शिवा ।
धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥
परिणमयन्तीताश्चरोधान्तं कार्कचिद्विषा ।
यदोन्मीलनमायक्ते तदानुग्राहकोच्युत ॥
इति स्वीकृत्य विकल्प्य दूषयति -
तदिहाज्ञानमात्रञ्चेत् ज्ञानाभावः किमज्ञता ।
अन्यथा प्रतिभासो वा गतिरन्या न विद्यते ॥
अज्ञान शब्दशब्दितं ज्ञानाभाव विपरीतज्ञान तद्वितयं
नान्यदित्यर्थः । स्पष्टं पदार्थः । ततः काक्षतिरित्यत आह -
[[४०६]]
ज्ञानाभावो न चाज्ञानं तस्या किञ्चित्करत्वतः ।
नह्यभावो घटस्यैह जलमाहरति क्वचित् ॥
ज्ञानस्य प्रागभावश्चेत् ज्ञानोत्पत्तिः प्रसज्यते ।
तत्र ज्ञानाभाव ज्ञानप्रध्वंसलक्षणमज्ञानम् । नच
सार्वज्ञतिरस्कतृ तस्येत्यादि क्वचिदित्यन्तार्थ स्पष्टः । पुनरत्र यः
प्रध्वंसलक्षणस्सोर्थक्रिया विरतिलक्षणज्ञानौपाधिक
धर्मभूत ज्ञानानभिव्यक्तिः । शक्त्यात्मना स्थितिरिति सैव
मलार्थक्रियेष्टा कृष्टफलमिति । अर्थक्रियाफलार्थ
क्रियावतोरभेददोष च स्यात् । यदि ततोभिदास्ति तुच्छत्वात्तस्य
तन्निवर्तकज्ञानादेरफक्व प्रसङ्गः पुनस्यात् ज्ञानस्य
प्रागभावश्चेत् [[४०७]] अज्ञानशब्दवाच्यं ज्ञानस्य रागभाव
लक्षणं यत्तदेव यदि सार्वज्ञ तिरस्कर्तृ तर्हि प्रागभावः
प्रध्वंसाभाव पश्चिमकौटिकी कार्यशक्त्यात्मनास्थितिरिति
आकाशपरीक्षायां परीक्षितयत्वात् तस्य ज्ञानं प्रतिकारणत्वात् ।
तस्मात् ज्ञानोत्पत्तिः प्रसज्यते । अन्त्यताभावान्योन्या
भावौत्वत्राप्रसक्तौ हीत्युपेक्षितौ द्वितीय पक्षं प्रतिपक्षिपति -
नाप्येतदन्यथा ज्ञानन्तस्याज्ञप्यनुदया स्वतः ।
शुक्तिका रजतज्ञानं न भवेत् पटलं विना ॥
अन्यथा ज्ञानमनात्मन्याभिमनाद्यन्यथा लक्षमज्ञानमपि
नैतत् । सार्वज्ञ तिरस्कृतस्यापि बुध्यविवक्ततया
सुख्यहन्दुःख्यहञ्चैश्चे?त्यादि विपर्ययरूपस्यापि [[४०८]]
अन्यचिच्छक्तिरस्कृदन्तरा तथा स्वतोनुदयात् । यथा चक्षच्छदकं
पटलं विना सादृश्योपाधिमात्रजनित सम्यक्
ज्ञाननिवर्त्यमानाद् अज्ञानादन्यत् सम्यक् ज्ञनमात्रा निवर्त्यं
शुक्तिका रजतज्ञानं न भवेत् । तदुक्तं रत्नत्रये ।
सा तु संविदविज्ञाता तैस्तैर्भावैर्विवर्तते ।
मलोपरुद्ध दृक् शक्तेर्नरस्येवोडुराट् पाशोः ॥ इति ।
ततस्तदज्ञानोदयनिमित्तं वस्तुज्ञाना निवर्त्यं भवितुमर्हति ।
आत्मकरणच्छदकत्वात्तिमिरवदिति क्रियानिवर्त्यत्वात् सिद्धं
द्रव्यत्वं ज्ञानादिकम् उपायभूतं सद्योनिर्वाण स बीज
दीक्षितमात्रे तदङ्गत्वेनानुष्ठे यतया न सर्वविषयमिति पु इव
सूचिस्तरितम् । [[४०९]] पुनर्विकल्प्य निरस्यति ।
किञ्चैतदन्यथा ज्ञानमगन्तुकमथेतरत् ।
आगन्तुकञ्चेच्चिच्छक्ति बाधका न कदाचन ॥
किञ्चैतत् सार्वज्ञ तिरस्कतृत्वेन उत्तमज्ञानमागन्तुकमादिसिद्धं
किमथेतरत् । नित्यसिद्धं किन्तत्र निमित्तमनपेक्षागन्तुकञ्चेत् । तदा
विच्छक्तिः पाशाभिभाविका शक्तिसिद्धानान्दृक्क्रियाभिधेत्यादि
श्रुति विरोधे न तु कदाचन तस्य बाधिका पुनः पुनप्रयातीति
तच्चिन्मुक्तिरपि भवति हि गजस्नान तुल्या चिच्छक्ते स बाधकनेत्यपि
सुकरार्थ पाठः । यद्यनादिसिद्धं तदादोषानीकं
समापतेदित्याह -
यद्यनागन्तुकन्तर्हि नान्यथा ज्ञानमेव तत् ।
[[४१०]]
अनित्यमेव तत् ज्ञेयं रजतज्ञानवद्द्विजाः ॥
यत्र विपरीतत्वं तत्रानित्यत्वमिति व्याप्तेः स्पष्टश्लोकार्थः ।
तदसत्यपि तिरस्करणकार्ये तु न प्रसक्तमित्याह -
किञ्चैतदन्यथा ज्ञानन्नसम्यक् ज्ञानबाधकम् ।
न दृष्टं शुक्तिका ज्ञानं रजतज्ञान बाधितम् ॥
शुक्तिकायामिदं रजतमिति भ्रान्तिज्ञान समजन्तरन्नेदं रजतं
शुक्तिकेतियमिति समुत्थातव्यम् । सम्यक् ज्ञानन्नपुनः प्राक् स्वलाभ
इति नतद्रजतज्ञानबाधितं बाधकमिति पाठे बहुब्रीहिः स्पष्टः
पदार्थः नह्यनादि सिद्धत्वात्तत् बाधकमिति वाच्यम् ।
भ्रान्तेरनित्यत्व व्याप्तत्वेनोक्तत्वाद्यदनादि सिद्धन्तथापि
प्रवाहतया नादि कालवर्ति दीपस्य तादृगन्धकार इव [[४११]] न
बाधकः । किन्तु विपर्यासेन ज्ञानबाध्यमित्याह -
अथ चेन्नित्यसिद्धस्तु तयोस्सम्बन्ध उच्यते ।
तथापि बाधकन्नैतत् ज्ञानस्येहान्यथात्मकम् ॥
प्रत्युतज्ञानबाध्यं स्यान् नित्यमप्यन्यथात्मकम् ।
चिरकालस्थितो दीपश्चिरकाल तमोपहः ॥
अथ चेत् यद्यपि गिरिमपि शिरसाभिन्द्यादितिवत् सम्भावनार्थः
सुकरोक्षरार्थः । उपसंहरति -
तस्माद् येनात्मनो ज्ञानं बलिना वस्तुना सदा ।
विरुद्धे नैव बाध्यं स्यात् तन्मलाख्यमितीष्यताम् ॥
स्पष्टः । तत् सक्तासंशयविच्छेदकं हेतुं केवलव्यतिरेकिणं
प्रयुनक्ति ।
आत्मामलावृतस्सर्वज्ञत्वे किञ्चिज्ञतायतः ।
[[४१२]]
न किञ्चिज्ञस्तु यस्सोयं मलेनापि न संवृतः ॥
यथा शिवस्तथा चायं मले नैव समावृतः ॥
हेतुरूपे सतीति दृश्यत इति चाध्याहार्यम् । केवलव्यतिरेकिण्यपि न
तथा चायमिति व्यतिरेक व्याप्ति द्वारान्वय व्याप्तौ बुद्धेः
पर्यवसितत्वात् उपनयस्तथेत्यादि । तथा चायं सर्वज्ञत्वे सति
किञ्चिज्ञो यन्तदनुपदवर्तिनिगमनरूपे तस्मादित्यध्याहार्यम् ।
स्पष्टन्तदितरत् । पुनस्तद्रूपं हेत्वन्तरं प्रयुनक्ति ।
किञ्चायं मलिनो नो चेत् सक्तिर्भोगे कथं भवेत् ।
यदि सा निर्मलेऽपि स्यान् मुक्तात्मस्वपि सा भवेत् ॥
मलिनो मलकदथितः । भोगे भोग्ये सक्तिरभिलाषः इतरं सुकरम् ।
अयमत्र प्रयोगः । आत्मा मलावृतः [[४१३]] भोगा सक्तित्वात् । न
यस्तथा न स तथा शिवो यथेति । साङ्ख्याशयेनान्यथा
सिद्धिमाशङ्क्य परिहरति -
रागोस्ति कारणं सक्तेरिति चेत् किम्मलेन तु ।
सत्यं रागोऽस्ति तद्धेतुर्न सकिञ्चित् करोऽमले ॥
अमलेऽपि सचेत्सक्त्यै स्यान् मुक्तेप्यविशेषतः ।
नहि मुक्तश्शिवो वापि भोगासक्तः कदाचन ॥
रागोबौद्धो वक्ष्यमाणः प्रत्यर्थमासक्तिकरः । न
मायीयस्ससमवयनीयोपि नह्युधृतो न दृगन्तर सिद्ध इति इति चेन्मले
नतु किमित्याशयः । अमले सरागो न किञ्चित्करः नयत्किञ्चित् स्वार्थ
क्रिया विधाता । तदुक्तं स्वायं भुवे ।
कर्मशुद्धि शिवत्वानि तेषसत्सु भवन्त्यमी ।
[[४१४]]
त्रयोर्थास्सर्वजगतो भोगभोक्तृत्वमुक्तये ॥ इति ।
अत्र शिवत्व शब्देन शिवशक्तिरुच्यते । मुक्तिशब्देन पाशविमोचन
शिवत्वाभि व्यक्तिद्वयमुच्यते । तदन्यत्सुगमम् ।
निरपेक्षरागशक्तिकरो वा भवतु । सतु मलो नो चत् ।
कथञ्चिच्छक्तिन्तिरस्करोतीत्याह -
किञ्चायं प्रत्ययात्मोक्ता रागोबौद्धो यतस्ततः ।
बुद्धिश्च प्रकृतेस्सिद्धा तस्मादेष विनश्वरः ॥
चिच्छक्तेर्नित्यसिद्धायास्सम्भवेद्भाधकः कथम् ।
आसक्ति हेतुत्वेन नात्राक्तोयं रागम् । यतः प्रत्ययात्मा
भोग्यदशामापन्ने प्रत्ययरूपत्वेनोपस्थितः । ततः बौद्धः ।
बुद्धिश्च प्रकृतेस्सिद्धोत्पन्ना तस्मात् तत् गुणत्वादेष रागो
विनश्वरः । नित्य सिद्धायाश्चिच्छक्तेस्तदुपसंहतकालेपि [[४१५]]
कस्यचित्तिरस्कृतिमत्याः कथं बाधकः सम्भवेत् । न कथञ्चिदपि
स्यात् कर्मैव स्वापेप्यस्तीत्यावरणत्वेन क्लिप्ति कलितं किं मलेनेति
क्षपणकाः । तदयुक्तमित्याह -
कर्मणापि नच ज्ञान बाधस्सम्भवति द्विजाः ।
साध्यत्वात्कर्मणः पुंसस्साधकत्वेन संस्थितेः ॥
सुव्यक्त श्लोकार्थः । अयमाशयः । आवरण निवृत्तिद्वारा
चिदभिव्यक्तिकारककलादियोगाद् अनन्तरं कर्मपुरुषयोस्साध्य
साधक सम्बन्धादिति । इतोपि नहीत्याह -
किञ्च भोगैकहेतुस्तत् कथं भोगस्य बाधकम् ।
[[४१६]]
यतो ज्ञानात्मको भोगो नहि तेन तदावृतिः ॥
किञ्च तत् कर्मभोगैकहेतुः साक्षाद्धेतुतया सुखदुःखाकारेण
परिणतत्वात् भागा द्वितीय हेतुः । भोगस्य बाधकन्तिरस्कर्तृ कथं
कथञ्चिदपि न स्यात् । ननु नह्यस्माभिर्भोगतिरस्करणं कर्मण
उच्यते । किन्तु चिच्छक्ति तिरस्करणम् । सत्यम् । तदर्थमेतत् यतः कारणात्
भोगोज्ञानात्मकः कर्मज सुखदुःखानुभूतिलक्षण चिद्रूपः ।
ततस्तेन कर्मणा तदावृतिः । तच्चिच्छक्ति कर्तव्यज्ञानतिरस्कृतिः । नहि
क्रियते । पुनस्तत्र युक्तिं वितनोति -
धर्माधर्मात्मकं कर्म तौ च बौद्धौ व्यवस्थितौ ।
व्याप्त्यभावात्तयोरूर्ध्वं बन्धकौ सर्वतः कथम् ॥
[[४१७]]
सुगमम् । पराशयं परिज्ञातुमेतत् बुध्यादेः
प्रकृतेरूर्ध्वमपि सूक्ष्मदेह सुनिविष्टतया मायायाञ्च
शक्त्यात्मना प्रलये स्ववासनालक्षणकर्मणा सह प्रगमत्वात् ।
स्वकीय दृशातु विज्ञानकेवलविषये कथमित्याशयः पुनरपि -
किञ्च भोगप्रसक्तौ तौ व्याप्रिये ते कथं वृतौ ।
अन्यत्रापि प्रवृत्तस्य यद्यप्यत्रापि हेतुता ॥
अनेकतत्वसङ्क्लिप्तिः कार्यभेदाद्विहन्यते ।
तस्मान् नकर्मचिच्छक्तेर्बाधकं सव्यवस्थितम् ॥
किञ्च तौ धर्माधर्मौ भोगप्रसक्तौ अधर्मस्यापि दुःखमोह
वेदनहेतुत्वात् सुखदुःखमोहवेदनलक्षण भोगफलचरितार्थ
क्रियौ ततौ कथयन्नियमनम् । [[४१८]] विनावृत्तौ चिच्छक्ति तिरस्कृतौ
व्याप्रयेते । सव्यापारौ भवतः अन्यत्रापि भोगादिलक्षणकार्येपि
प्रवृत्तस्य कर्मादेरत्रापि चिच्छक्ति तिरस्कृतौ च । यद्यपि हेतुता
समस्तमेकेनालमिति कार्यभेदात् कर्तृत्व व्यञ्चनादि
कर्तव्यभिदाया अनेकतत्वसङ्क्लिप्तिः बहुकलादि तत्वकल्पना
विहन्यते क्षति कलिता क्रियते । तस्मादित्यादि सुगमम् ।
चिदभिव्यक्तिकरं कर्मस्वार्थक्रियाविरुद्ध चिदनभिव्यक्तिकरं
नहीति माया परीक्षायां मलार्थक्रिया कर्त्री नेति परीक्षितत्वात् न
माया चेति । सुस्टुक्तोपसंहरति -
किञ्चाभिव्यञ्जकं कर्म चिच्छक्तेर्बाधकं कथम् ।
मायापि बाधिका नस्यादित्युक्तन्तन्निरूपणे ॥
[[४१९]]
मल एवं समुद्दिष्टः पुंसां सार्वज्ञबाधकः ।
स्पष्टोक्षरार्थः । माया कार्य द्वारा बाधिकेति चेत् । प्रलय
कैवल्यावस्था यान्तदभावे बन्धमुक्तयोरविशेषेण सर्वेषु
सर्वज्ञत्वं सन्निपतेत् कार्यद्वारेदानीं ज्ञत्व प्रकाशिका
स्वरूपेण च ना प्रकाशिकेत्यादिभि सुचर्चिताः । तथा कुत्रापि
कथञ्चित् परीक्ष्यते । यदि स्वरूपेण बाधिका एकत्वान्तस्या दीक्षात
स्वनिरोधनैकमोक्षे सर्वमोक्षप्रसङ्गः । अनेकत्वे तस्या आचैतन्ये
सत्यनैकत्वादनित्यत्वं स्वसंसिद्धमिति प्रलय कैवल्यावस्थायां
बन्धमुक्तयोरविशेषप्रसङ्ग सहसमुत्थानवस्था प्रसङ्गस्यात् ।
ननु मलस्य भवद्भिः क्लिप्त इव प्रतिपुत्रन्तस्याः कार्यजनिका (प्।
४२०) शक्तयो भविष्यन्तु । तदयुक्तम् । शक्तेश्शक्त्यन्तरा योगात्
शक्त्यवस्थैव कारणम् । व्यक्त्यवस्थैव कार्यमिति कार्य
शक्त्यात्मकत्वात् । कार्यशक्तय एव तस्याश्शक्तय उपचर्यन्ते । नतु
तस्याः कार्यजनिता का शक्तय इति सत्कार्यवादे प्रपञ्चित
निमित्यलमिति विस्तरेण । प्रकृतिरेव तमो लक्षणेति न पञ्चसर्वात्मा
विपर्ययेण युक्ता मल इति साङ्ख्यदृष्ट्यनुवासिताः । प्रकृति
मलवादिनः मायामलवादिनां पाशुपतदीनामिदानीं कृत
निरासेन समनीतेर्निरस्ताः ततः तत् पारन्त्र्यं बन्धत्वं तस्मिन्नित्ये
चिदादिवत् । मुक्तिसाधनसन्दोहो व्यर्थोऽलमनयाधियेति । मृगेन्द्र
श्रुतेः । आस्वतन्त्र्यादिकं [[४२१]] न स्वाभाविकमिति मलौपाधिकं
सिद्धमिति ततोपि मलसिद्धिः । तथा हि आत्मानः केनचित् बन्धेन
बद्धाः अस्वातन्त्र्य दर्शनात् । मेषादि पशुवत् । मलशब्दे वाच्यानि
तु सप्तेत्याह -
मलोपि सप्तधाज्ञेयो मोहश्चापि मदस्तथा ।
रागोऽन्यश्च विषादाख्यस्तापश्शोषश्च सप्तमम् ॥
वैचिन्त्यमपि सर्वेषां मलिनानां प्रकीर्तितम् ।
लक्षणपरीक्षोक्तिभ्यां परिज्ञेयोऽस्यार्थः । ननु मतङ्गे उद्दिष्ट
सहर्षणाख्य मलोत्र किमिति नोद्दिष्टः पुनरत्रचोद्दिष्टस्सतापाख्य
मलस्तत्र किमिति न उद्दिष्टः । सत्यन्तत्र विषादेन्तर्भूततया
त्रवैचित्र्येन्तर्भूततयेत्यविरोधः लक्षणपरीक्षे विदधा [[४२२]]
मोहो नाममलः पुंसां सहजोऽनादिमानिह ।
योनिष्षण्णां मदादीनां प्रधानत्वाद्विजोत्तमाः ॥
यस्मिन् सत्यात्मनो मोहो जानतोप्यङ्गनादिषु ।
समोह इति विख्यातो वर्ज्यावर्ज्या विभागतः ॥
इह सप्तसु मध्ये मोहानाममलः पुंसामनादिमान् सहजो
अनाद्यावार्यावारकलक्षण सम्बन्धी । हे द्विजोत्तमाः । ततः
प्रधानत्वात् षण्णां मदादीनां योनिः बुद्धि संस्कृति
लक्षणोपादानात् उत्पत्तौ कर्तृ सहकारी । तदभावे हि
परिणतमलानां दीक्षितानां मायागर्भादि कार्यादीनां
मायीय बन्ध सद्भावेपि मदादयो न भवन्ति । ततस्ते किल स्वोत्पत्तौ
सहजमलसहकारित्वात् । यद्यपि बुध्युपसंहृतौ कारणरूप (प्।
४२३) तत् बुद्धिसंस्कारत्वे नावस्थितास्सन्तस्वतोबुद्धिधर्मत्वेन
सत्वादि लक्षणबुद्धिसंस्कृतिरूपकर्मोपादान धर्मज्ञानादि
भोग्य दशात्म सुखदुःखमोहाकारसिध्यादि प्रत्ययरूपत्वेन
वक्ष्यमाणरूपवत् रूपविशेषाः सहजशब्दशब्दिताः ।
कलाद्युत्पत्तौ तेषान्निमित्तत्वेन मलगुणतुल्यत्वां मलगुणत्वेन
चोपचर्यते । यथा दृक् रोधात्मके मोहशब्दशब्दितान्धकारे सती
दीपः प्रकाशलक्षणोपि मोहशब्दशब्दितो नीलोत्पलादौ रक्तोत्पलादि
विपरीतप्रकाशको भवन्ती । तथा यस्मिन् सत्यात्मनो जानतोपि कलादि
व्यक्त चित् सन् वर्ज्यन्तदवर्ज्यमिदमितीति बुध्यतोपि पुम्बोधव्यक्ति
भूमिभूतबाध्यप्रकाशलक्षणो [[४२६]] वर्ज्यावर्ज्य
विभागतोङ्गनादिषु मायीयो मोहो नित्यशुध्य सुखानात्मसु
तद्विपरीतप्रकाशको भवन्ती । तदुक्तं मायाशक्तिर्विभुर्नित्या
देहिनां परिमोहिका । मोहस्तु विषयासक्तिर्यथा संह्रियते शुभेति ॥
सतु ज्ञत्वकर्तृत्व निरोधात्मको मलरूपो मोहविख्यातः । मायीय
मोहापि मलरूप मोहनिमित्त सापेक्षक इति स्पष्टी कृतं मदादि
स्वरूपमाह -
प्राप्तामापि स्त्रियं येन स्तौतिनस्याः पराङ्गाः ।
दिव्याङ्गनेयमेवेति समदः परिपठ्यते ॥
तदभावे विषण्णत्वं बाष्पलोचनता यतः ।
सविषादो मलो नाम प्राणिनामति दुःखदः ॥
[[४२५]]
ततस्तापो भवेदन्तः प्रलापात्माऽति विस्तरः ।
स ताप इति विख्यातो मलश्शोषो भवेत्ततः ॥
स्तब्धात्मा तु यदा यस्मान् मलोतीव सुदुस्तरः ।
एष बन्धुरियं भार्या मृष्टञ्चेदं धनं मही ॥
कृतार्थो महतो यद् वा कस्त्रातामामकस्य च ।
कुडुम्बस्यैवमाद्यातु चिन्ता येन नृणां भवेत् ॥
नानामतिकरस्सोयं मलोवैचित्र्यसञ्ज्ञकः ।
सप्तैते सहजाः प्रोक्ता मलामलवतान्नृणाम् ॥
तदभावे स्त्रिया भावे स्तब्धात्मा शुष्कदेहतः ।
मृष्टं परिपूर्णितम् । मृष्टमिति सामान्यत्वात् सर्वत्र योजनीयम् ।
एष इत्यादि वैचित्र्य लक्षणम् । रागलक्षणोक्तिस्तु लेखक भ्रमात्
पतिता वास्तु हि [[४२६]] तादृश्या म॥॥या मत्य॥॥जं नमात्र कर इति
नोक्तो वेदञ्चिन्त्यम् । स्पष्टस्तदितर पदार्थः । ननु दृक् शक्ति
निरोधात्मक मलधर्मरूपमोहस्यास्तु सहजत्वं मलगुणत्वञ्च
कथं बुद्धिधर्मत्वान्मायीय मोहे न सहमदादि
नामित्याशङ्क्याह -
मलेसति कलादीनां यथा सम्बन्ध इष्यते ।
एवमेष्वपि सत्स्वेव बन्धयन्ति कलादयः ॥
एते मलवतां पुंसां धर्मास्सप्तसहोदिताः ।
यथा दृक् निरोधात्मके मले सति कलादीनां भोगार्थं
पुम्भिस्सम्बन्ध इष्यते । एवमेष्वपि मायीय मोहेन सह मायीय
मदादिष्वपि बुद्धि प्रलयेपिकारणरूप तद्बुद्धिसंस्कृति रूपत्वात् ।
स स्वेव [[४२७]] कलादयः पुंसोबन्धयन्ति । ततो मलवतां
पुंसाम् एते स्वान्तः कृत प्राकृतमोह मलधर्मरूपमोहे न सह
मदादयस्सप्तधर्मा मल स्वभावास्सहोदितास्सहजाः कथ्यन्ते ।
मलपदार्थं स्वीकृत्य ऋषयस्तत् कर्तव्यसक्ता
संशयवन्तश्शङ्कयन्ति -
जडेनाजडरूपस्य तिरस्कारो न युज्यते ।
आवृत्तिश्च न युक्तास्य व्यापकत्वेन हेतुना ॥
जडेन मलाख्येनाजडरूपस्यात्मस्य रूपस्य तिरस्कार
आवृतिर्नयुज्यते । आवृतिस्सास्ति यद्यपि अजडस्यात्मस्वरूपस्य
व्यापकत्वेन हेतुना व्यापकत्वादिति प्रयोक्तव्याद्धेतोः आवृतिश्च न
युक्ता । ईश्वरः । प्रथमपक्षे परिहृतिं विधत्ते -
[[४२८]]
अनादिकालसंरुडां मलाख्याद्वासितादणोः ।
अजडापितिरोभूता शक्तिर्नित्या जडात्मना ॥
आगन्तुकघटिता किल विस्तारितेयं क्लिप्तिः । अनादिकाल
संरूडादनागन्तुक तिरस्कर्तृतिरस्कार्यलक्षण सम्बन्ध कृतात्
मलाख्याद्वासितात् वासनाद्धेतोः मलाख्यादित्यनेन
द्रव्यत्वसिद्धेः स्वतः केनचिदाहित वासनाभूत्वा नात्मनि
गुणत्वेन स्थितिः । तथा त्वे विकारित्वमापतेदिति सूचित अणोरात्मनो
नित्या शक्तिः अजडापि जडात्मना मलेनतिरोभूतेति युष्मत्कृत
विक्लिप्तिस्सैषात्रा संस्पर्शनी । तत्र हेतुं प्रयुनक्ति -
किञ्चाजडं जडे नैव बाध्यते नाजडेन तु ।
स्वजातीयत्वतो हेतोरणूनामीश्वरो यथा ॥
[[४२९]]
यथाभिभूतगन्धस्य निम्बत्वक्चन्दनस्य च ।
किञ्चाजडं चित् जडेन बाध्यते तिरोधीयते ।
नाजडेन न चिदन्तरेण तिरोधानशक्तिरपि मलशक्ति स्वप्रकटन
द्वारेत्युक्तत्वात् । सेयं प्रतिज्ञा कुतस्सजातीयत्वत्वो हेतोः
चिदेकजातीयत्वादिति हेतोः । यथाणूनामात्मनामीश्वरस्सजातीयो न
निरपेक्षस्तिरस्कर्ता । यथाभिभूतगन्धस्य विजातीय जलादिना
तिरोभूत सुरभेश्चन्दस्य निम्बत्वक् न भूयस्सुरभिन्तिरस्करोति ।
किन्त्वौपाधिकनिस्सुरभित्वन्निरस्य सुरभित्वं व्यञ्जयति ।
यतश्चिदचिदन्तरेण नास्ति हि तृतीयं वस्तु ।
ततश्चितश्चित्तिरस्करणन्नेति साधितञ्च । तिरस्करणीया च
चिच्छक्तियर्दिनजडे [[४३०]] नतर्हि केन तिरस्कृयत इति निर्बन्धयति ।
किञ्चाजडं जडानो चेत् बाध्यं तत् केन बाध्यते ।
अजडं च जडं वापि द्वयं वस्तु विनिश्चितम् ॥
सुगमम् । चिच्छक्त्यन्तरेण न चिच्छक्तिस्तिरस्क्रियत इति ।
पुनरूपोद्बलयित्वोपसंहरति -
आत्मानात्मान्तराद्बाध्यो विनाशद्बाधकात्मनः ।
तन्नाशमन्तरायस्मान्मुक्तिर्नस्याच्चिदात्मनः ॥
जडे नैवाजडन्तस्मात् बाध्यमभ्युपगम्यताम् ।
सुगमम् । मलशक्तेरावारकत्वलक्षणरूपान्तरान्यथात्व लक्षण
निवृत्तिमय रूपान्तरपरिणति रूपावारकत्व लक्षणरूपान्तर
तिरोभूतिमय नाशं विना न मुक्तिरिति [[४३१]] यथोक्तन्तथा ।
तिरस्कत्रात्मशक्तेस्तद्रूपजडत्वाविनाभूत नाशं बिना
तिरस्कार्यात्मानो न कदाचन मुक्तिरित्याशयः । ननु
तिरस्कर्त्रात्मशक्तेर्नाशो न रूपान्तरान्यथा त्वरूपान्तर परिणति
रूपतिरोभूतिलक्षणः किन्तु स्वेतर स्वतिरस्कारकात्मान्तरशक्ति कृत
तिरोभूति रूपः । तदयुक्तम् । तत् तिरस्कारकात्मान्तरशक्तेरपि
तथेत्यनवस्था दुर्निरस्यति गर्हितार्थत्वात् । ऋषयः द्वितीयपक्षं
पुनस्समुद्धरति -
अनादिरपि सम्बन्धः प्रोक्तो यदि मलात्मनोः ।
मलात्किं क्रियते तत्र शक्तेरावरणन्तु वा ॥
अप्रकाशी कृतिर्वापि तत्राद्यस्तु न शोभते ।
तस्याश्चाभिन्नरूपत्वाद् आत्मनोऽपि प्रसङ्गतः ॥
[[४३२]]
मलात्मनोः प्रोक्तस्सम्बन्ध आवार्यावारकलक्षणो
नादिर्यद्यपि तत्रात्मनि मलात् किं क्रियते । न यत् किञ्चिदपि तत्र
बभञ्जेत्याशयः । शक्तेरावरणं वा अपितु अप्रकाशी कृतिर्वा ।
तत्राद्यस्तु न शोभते । तस्याश्शक्तेरभिन्नरूपत्वाद् आत्मनोपि
व्यापकस्य परिमितवस्तु व्याप्तावृतेः प्रसङ्गतः । न
द्वितीयोपीत्याह -
नाप्यप्रकाशीकरणं विनाशित्वप्रसङ्गतः ।
प्रकाशस्याप्रकाशोपि विनाशान्नावशिष्यते ॥
तत्सर्वं कथयेशान सन्देहो स्माकमीश्वर ।
नाप्यप्रकाशीकरणं विनाशित्व प्रसङ्गतः । कुतः प्रकाशस्य
चन्द्रिकादेस्सूर्य किरणादिना प्रकाशोऽपि [[४३३]]
विनाशान्नावशिष्यते । सत्कार्यदृशा स्वस्वभावस्य
स्वस्वरूपान्तरेण तिरोभूतिरेव विनाशित्वेन स्वीकृतेति परकीयेन
स्वस्वभाव तिरोभूतिरपि तत्तुल्यत्वेन तत्वेनोपचर्यत इत्याशयः ।
तदित्याद्यर्थ स्पष्टः ईश्वरः तदनुभाषणपुरस्सरं परिहरति -
नचावृत्तिर्मलेनेष्टा चिच्छक्तेर्व्यापकत्वतः ।
नाप्यप्रकाशीकरणं किन्तु कार्या प्रवर्तनम् ॥
कार्याप्रवर्तनम् । ताञ्चिच्छक्तिमतिरोहिताम् । कथञ्चिद्वशीकृत्य
तच्चिच्छक्तेः कार्ये स्वार्थक्रियालक्षणज्ञानक्रियात्मके
तयोरप्रवर्तनमस्ववशीकरणमज्ञत्वा कर्तृत्वात्म
स्वविरुद्धकार्य कारणं क्रियत इत्युत्तर श्लोकानुषङ्गः ।
स्पष्टस्तदितरपदार्थः । [[४३४]] तदुदाहरति -
क्रियतेऽग्नि गताशक्तिर्मन्त्रशक्तितिरोहिता ।
नैवस्फोटकरी सद्यः प्रज्वलत्यपि पावके ॥
अतिरोहितभावोऽपि मलेनैव स्वशक्तिभिः ।
तिरोहितो हि कार्येषु नचामुस्सम्प्रवर्तते ॥
यथा दाहप्रकाशैकलक्षणैक शक्तिमति पावके प्रज्वलत्यपि
अतिरस्कृत तथाभूतशक्तिमति सत्यपि साग्निगता शक्तिर्मन्त्रशक्ति
तिरोहिता मन्त्रशक्ते स्वरूपानन्यथा त्व वशात् पुनरस्व वशीकृत
स्वदाहलक्षणकार्यवति सद्यस्तत् कालमनतिक्रम्य नैव स्फोटकरी
तथा अणुरात्माज्ञानक्रियालक्षणैक शक्तिमान् अतिरोहितभावोपि
अतिरस्कृत तथाभूत शक्तिरपि [[४३५]] मलेनैव स्वशक्तिभि
स्वसन्निधिमात्राभिरसंस्पर्शनीभिः । तिरोहित स्वरूपान्यथात्वेन
वशीकृतशक्तिः कार्येषु वेदनादिषु न सम्प्रवर्तते ।
उपलक्षणञ्चैतत् । तदीय शक्तिस्तिरोहिता वशीकृता ह्यस्ववशीकृत
स्वदृक्क्रियात्मिका कार्यवती कार्येषु तद्वेदनादिषु न सम्प्रवर्तते
तद्विरुद्धमज्ञत्वा कर्तृत्वात्मकं कार्यविधत्ते नतु
कारणवैकल्यं विनाकार्यन्नजायत इति शक्तिपरीक्षायां
वक्ष्यमाणत्वात् स्वरूपानन्यथा कृति लक्षणशक्तिवशीकृति
पुरस्सरं कार्यं तिरस्कृतमिति यावत् । ऋषयः ।
कार्यमन्तराशक्तिकेत्याहुः -
दृक्क्रियारूपिणी शक्तिः कथिता परमेश्वर ।
[[४३६]]
ते च विज्ञेय कर्तव्य विरहेन कदाचन ॥
नहि यस्मात्परं कार्यं ज्ञत्वकर्तृत्वरूपतः ।
हे परमेश्वर ! पुराशक्तिः दृक्क्रियारूपिणी नान्यलक्षणवतीति
कथिता लक्षिता । ते च शक्तिलक्षणात्मिके दृक्क्रिये च विज्ञेय कर्तव्य
विरहे सति शक्त्यर्थ क्रियारूपवेदनकारणतिरोभूतौ
सत्यान्नकदाचन । न कदाचिद्विजृम्भेते ततः कुतः । यस्मात् ज्ञत्व
कर्तृत्वरूपतः ज्ञानक्रियालक्षण स्वलक्षणतः नहि शक्तेः
परमन्यत्कार्यं वेदनकरणलक्षणार्थक्रियातः काक्षतिरित्यत
आहुः -
शक्तिकार्ये तिरोधानं मलेन कथितं कथम् ।
शक्तिर्नार्थान्तरं यस्मात् कार्यन्तद्वदशङ्कर ॥
[[४३७]]
हे शङ्करकानोहानिरिति कथमुच्यते । यस्माच्छक्तिः
कार्यमेव शक्तिलक्षणमित्युक्तहेतोः शक्तिः कार्यं
प्रतिनार्थान्तरम् । किन्तु कार्यं प्रोक्तार्थक्रियाशक्तेरिति पाठे
कार्यं नार्थान्तरमिति व्याख्या सुकरातत्तस्मात् कारणात् शक्तौ
नेति स्वरूपानन्यथात्वेन शक्तिं वशीकृत्य कार्ये अर्थक्रियायां
मले तिरोधानं कथितं कथं वद कथयस्व । ईश्वरः परिहरति -
शक्तिरेव न कर्तव्यं शक्तिदृक्क्रिययोर्यतः ।
अविभागस्य भागोक्तौ तद्विभाग उपाधितः ॥
प्रत्यर्थमपि सम्बन्धस्तत् कार्यमितरन्तु यत् ।
परार्थमात्रसंवित्ति रूपन्तच्छक्ति सञ्ज्ञितम् ॥
सहजन्तस्य सञ्ज्ञेयं तन्मलेन निरुध्यते ।
[[४३८]]
तस्मिन्निरुद्धे तत्कार्यं प्रत्यर्थं वेदनात्मकम् ॥
न जायते ततः कार्यतिरोधानं मलास्थितम् ।
यतः पदार्थेत्यादि वक्ष्यमाणनयेन शक्तिरेव न कर्तव्यं न
ज्ञानक्रियारूपार्थक्रियायतश्शक्ति दृक्क्रियायोश्शक्तिलक्षण
शक्त्यर्थ क्रिययोरविभागस्या भेदस्य भोगोक्तौ भिदोक्तौ
सत्यान्तद्विभागस्तद्भेद उपाधितः ज्ञ्यकार्यात्मोपाधितः क्लिप्तिः ।
कलितः यतो यत् प्रत्यर्थं सम्बन्धः अर्थं प्रत्यर्थं
प्रतिवेदनन्तत् कार्यमपि सैषार्थक्रियापीतरं तच्छक्ति
साक्षात्कार्यादन्यात् शक्त्यर्थक्रियात्मज्ञानक्रिया
सहजार्थक्रियाः । तदुक्तं मृगेन्द्रे ।
शिवशक्ति परीक्षायान्तदेकं विषयानत्यात् भेदानत्यं प्रवर्तते ।
[[४३९]]
कर्तृत्वं तदभिन्नत्वात् तद्वदेवोपचारतः ॥ इति ।
यतः यत् परार्थमात्र संवित्तिरूपं स्वेतर शिवादि पदार्थ
त्वावच्छिन्नपदार्थ सत्तामात्र संविल्लनन्तत्च्छक्ति सञ्ज्ञितं
शक्त्यभीहतम् । तदुक्तञ्च । पुरा शिवशक्तिपरीक्षायाम् । अनयो
ज्ञानयोहेर्तुरविशोत्मिकाचिति शक्तिरुक्तेति । तस्य स्वसंविलक्षणात्म
सहजशक्त्यभिहित शिवत्वापरसञ्ज्ञित परसंवित्तिद्रूपस्य । तत्
स्वार्थक्रियारूपलक्षणकस्वेतरविषयमात्र विषयीकरण
लक्षणं ज्ञेयम् । क्रिया विभागरूपज्ञानार्थक्रिया न शक्तिरेव
कर्तव्यमित्युक्ता । अग्निशक्तेर्दाहाद्यपृथक् सिद्धप्राकाशार्थ क्रिये
व सहजं स्वलक्षणमपि न लक्ष्यमेव [[४४०]] लक्षणन्नभिन्नञ्च
तदिति चिन्तामण्यादेः कामप्रदानार्थक्रियेव वृती परिणति
विवर्तविधुरतया अपृथक् प्रथित सिद्धिमती । सैषार्थक्रिया तदुक्तं
रत्नत्रये । शिवशक्ति परीक्षायाम् ।
इच्छाकार्यमनिच्छापि कुर्वाणेच्छा चिदव्यया ।
ज्ञानमज्ञानरूपै व मक्रियापि क्रियान्तथेति ॥
तत् ज्ञेयं सहजोक्तलक्षण शक्त्यर्थक्रियामलेन निरुध्यते
आमूर्तिमतोर्मलात्मनोर्नसंयोग इति प्रथितानुमिते पुनरसंस्पृश्य
स्वसन्निधिमात्रेण स्वरूपानन्यथात्वेन शक्तिं कथञ्चिद्
वशीकृत्य स्ववशी क्रियते । तस्मिन्निरुद्धे तस्याम् आत्मसहजशक्ति
सहजशक्त्यार्थक्रियायां तिरोभूतायान्तत् कार्यन्तच्छक्ति [[४४१]]
अर्थ क्रिया सहजार्थक्रिया प्रत्यर्थं वेदनात्मकम् । अर्थं
प्रत्यर्थं प्रति करणा पृथक् सिद्धवेदनात्मिका । नच्चायते न
स्ववश्या भवति । ततः मन्त्रशक्त्याग्नि शक्ते
सत्यामप्यविलुप्तिमत्यां स्वलक्षण स्वदाहादिकार्य तिरस्करणमिव
मलात् स्वशक्त्याचिच्छक्तेः कार्य तिरोधानमुक्तलक्षणार्थक्रिया
तिरस्करणं स्थितम् । ऋषयस्वीकृत्य पुनश्चोदयन्ति -
विषयाभिमुखी प्राक्ता शक्तिर्मलनिरोधतः ।
विषयाभिमुखीनोचेत् स्थितिमस्या वदेश्वर ॥
हे ईश्वर शक्तिर्विषयाभिमुखी ज्ञेयकार्यपदार्थक्रिया
लक्षणस्वार्थक्रिया कर्त्री प्रोक्ता सा तु मलनिरोधतः । [[४४२]]
मलवशीकरणात् विषयाभिमुखी अविलुप्त स्वसहजत्वात् स्वावश्य
मलवश्या विलुप्तस्वार्थक्रियतया तदर्थक्रिया कर्त्री नो चेत् । न
भवति यदि अस्याश्शक्ते स्थितं वद कथयस्व । ईश्वरः -
यथा चक्षुस्तमो बन्धात् सत्वरूपमपि स्फुटम् ।
विषयाभिमुखञ्चापि सुनिष्टं व्यवतिष्ठते ॥
एवञ्चिच्छक्तिरप्येषा मलशक्त्या विदूषिता ।
स्वनिष्ठा विषयज्ञानकार्यकत्री व्यवस्थिता ॥
यथा चक्षुः उपलक्षणत्वा चक्षुग्राहक शक्तिविषयामुखञ्चापि
विषयग्रहणरूपस्वार्थक्रियाभिपितमो बन्धात्ति निरवशीकारात्
स्पुटं सत्वरूपमपि [[४४३]] स्व सद्भावलक्षण स्वार्थक्रियापि यद्
वा प्रकाशरूपापि स्वनिष्ठम् अस्व वशीकृत स्वार्थक्रिया
व्यवतिष्ठते । एवन् तद्वत् । एषा चिच्छक्तिरपि मलशक्त्या विदूषिता ।
वशीकृत ज्ञानक्रियालक्षण स्वार्थक्रिया स्वनिष्ठासङ्कोच
विकासादिक विधुरवतीति सदस्ववशीकृत स्वार्थक्रियावती
विषयज्ञानकार्या कर्त्री जडस्पन्दक्रिया हेतुत्वात् । क्रियाशब्देनापि
शब्दितविषयज्ञानलक्षणस्वार्थक्रिया विधात्र्यपि स्व विरुद्धा
ज्ञात्वा कर्तृत्वात्मकार्यकरी व्यवस्थिता । उपसंहरति -
मल एवं समुद्दिष्टः पुंसां सार्वज्ञबाधकः ।
अनेनैवाभियुक्तत्वात् पशुत्वेन सहास्य च ॥
[[४४४]]
गणना चोदिता चैव पशुत्वेवं विबोधितः ।
मल एव पुंसां सार्वज्ञबाधकः । नह्यज्ञानादिकम् अनेन मले
नैवा वियुक्तत्वाद् अवियोगित्वात् तेन विनात्रशब्दशब्दिते पशुशब्द
प्रत्ययोगात् अस्य पदार्थस्य पशुत्वेन मलेन सह पशुरिति गणना
षट्पदाथैकसङ्ख्या च शब्दादुद्देशलक्षणोक्ति पूर्वपरीक्षा च
चोदिता विचारिता । एवं मुक्तप्रकारेण पशुर्विबोधितः परीक्षितः ।
श्रीशार्लिवाटिपुरनिवासि ज्ञानप्रकाशाचार्य विरचितायां
श्रीमत्पौष्करज्ञानपादवृत्तौ चतुर्थः पटलः ॥
॥ हरिः ॐ ॥