अथ माया क्रमायाता समासादुपवर्ण्यते ।
मयत्यस्माज्जगद्विश्वं मायातेन समीरिता ॥
अथ कुण्डलिनी पदार्थपरीक्षानन्तरम् क्रमायाता
उद्देशक्रममनतिक्रम्या परीक्ष्य तत्वेनागता माया समासात् सङ्क्षेपात् ।
उपवर्ण्यते परीक्षित इति पाटलिकस्सम्बन्धः पूर्वपटलान्ते सूचितः । तन्त्र
वस्तुसम्बन्धो मायापदार्थात्मकः । वक्यात्मकस्तु माया
विनात्रेत्याद्यनेकविधः । अस्मात् पदार्थात् विश्वं विचित्ररूपञ्जगत् । मयति
विकरोति तेन हेतुना माया समीरिता मयेति समुदिता ।
शक्तिविद्यात्मनामातियातीति मायेति च क्वचित् । कामिके तु । अन्यथा
भानहेतुत्वाद् इयं माये कीर्त्यतेत्यन्वक् स्थिता पुनः परीक्षोक्ति माविष्करोति -
[[१९४]]
नित्यैकाव्यापिनीवस्तु रूपाकर्माश्रया शिवा ।
साधारणी च सर्वेषां सकलानां मुनीश्वराः ॥
यागादि क्रियास्समनुष्ठितक्षण विध्वंसित्वात् । स्वर्गा हेतुत्वेन पुरुष
संस्कारित्वे विकारित्व जडत्वप्रसङ्गात् । बुद्धौ तत् क्रिया जनिता
पूर्वाख्यसंस्कारलक्षणम् कर्माभ्युपगन्तव्यम् । बुद्धेः प्रलये
पुनरुपसंहृतकार्यात्मकारणरूपत्वेन स्थितेस्सामाया
आश्रयाश्रयिद्वारा कर्माश्रया । तत् सुखदुःख मोहात्मकर्माश्रयत्वाद्
धेतोरशिवा अशुद्धा । नन्ववस्तुरूपत्वेन वेदान्त विदुदितायाः
कथमाश्रयत्वं तदयुक्तमियं वस्तु रूपैव तथोत्तरत्र साधनीया
जगत्कारणत्वेन न्याय विदुदित परमाणवस्सन्ति तदयुक्तमियमेका ।
आचैतन्ये सत्यनेकत्वान्मूर्तत्वाद् वारनित्यत्वे [[१९८]] नानावस्था
प्रसङ्गतः परमाणूनां परमकारणत्वायोगात् । मूर्तत्वादिति हेतोः
कालाप्यया पदिष्टत्वन्नाशङ्कनीयम् । अस्मदागमे
परमाणूनामनित्यत्वेन सिद्धेः । अत एव नित्या नाशरहिता । एकत्वत
स्वकार्या व्यापकत्वे कारणत्वा योगात् । व्यापिनी व्याप्त स्वकार्या अत एव
सर्वेषां सकलानां स्वकार्यद्वारा भिन्नापि साधारणी सामान्या तां
पुनस्साधयति -
प्रलये लीनदेहस्य कर्मिणोऽणोरह मुखे ।
देहादेः कारणम्माया सूक्ष्मस्थूलात्मकस्य तु ॥
कलादीक्षिति पर्यन्तमविभक्ति पुरस्सरम् ।
विभक्तत्वाद्यथा बीजे स्कन्धपर्णफलादिकम् ॥
प्रलये लीनदेहस्य दीक्षा शोधितकर्मिणस्तदसम्भवात् ।
[[१९६]]
कर्मिणः प्रलयकेवलिनः अणोरहन्मुखे सर्गारम्भकाले तदनन्तरं
वा सकलत्व प्राप्तेः पूर्वमपूर्वं सूक्ष्मस्थूलात्मकस्य देहादेस्तु
अयोगान्ययोग व्यवच्छेदेन कारणमुपादान लक्षणम् माया । आदिशब्देन
साक्षात् परम्परया च कपालीशादि कालाग्न्यन्त भुवनात्म साधारणत्वं
गृह्यते । सत्कार्य वददृशा प्रलये अनभिव्यक्त कलादिस्वरूपत्वान्मायाया
अविभक्ति पुरस्सरं कलादिविभागानभिव्यक्ति पूर्वं यथा भवति तथा ।
सर्गे कलादि क्षितिपर्यन्तं यथा भवति तथा तत्र विभक्तत्वाद्विकृतीकृतत्वात् ।
यथा अनभिव्यक्तस्कन्धपर्णफलादि लक्षणेन्यग्रोधादे बीजे
स्कन्धपर्णफलादिकं यथा भवति तथा विभक्तत्वात् तत् कारणमिति शेषः ।
सर्वथा न दृष्टान्तः वायुना विकृतीकृतत्वं [[१९७]] महोदधेरिवैक
देशतोनन्तेशेन कलाद्यात्मना विकृती कृतत्वात् । यदि सर्वथा
तर्ह्यनित्यत्वादनवस्था प्रसङ्गः मृगेन्द्रे । कर्तृ साधन कार्यत्व हेतुना तत्
कार्यात्मोपादानरूपत्वे नानेकोक्तिभिस्साधिता तत एवावधार्यं
साङ्ख्यादयः प्रकृतिरेव जगदुपादानमित्याहुः । तदयुक्तमित्याह -
न च गौणमुपादानन्त्रिगुणानां विभागतः ।
गुणा विभागरूपा तु प्रकृतिर्न दृगन्तरे ॥
गुणा विभागरूपा सा सिद्धान्ते प्रतिपादिता ।
दर्शनान्तरदृष्टातः तया न समचर्चिता ॥
गुणानां समूहस्साम्यं गौणं गुणतत्वं साङ्ख्यादिभिः
प्रकृतिरित्युक्तम् । न चोपादानं त्रिगुणानां सत्वादीनां [[१९८]] विभागतः
आचैतन्ये सत्यनेकत्वादनित्यत्वे घटादीनामिव कारणपूर्वकत्वान्न
परमकारणत्वमिति भावः । तर्हि अविभागरूपा प्रकृतिरस्तु तदयुक्तम् ।
दृगन्तरे साङ्ख्यादि शास्त्रे गुणा विभागरूपात् प्रकृतिर्न प्रतिपादिता ।
गुणविभागरूपा सा प्रकृतिस्सिद्धान्ते प्रतिपादिता । अतः कारणात् सां
सिद्धान्त सिद्धप्रकृतिः । दर्शान्तरे शस्त्रान्तरे सिद्धा दृष्टि ज्ञप्ति
स्वविषयत्वेन यस्यास्सा दर्शनान्तर दृष्टिस्तया दर्शनान्तर दृष्ट्या
प्रकृत्या न समासती चच्चिता न समसच्चिता न समतर्किता तर्हि सिद्धान्त
सिद्धा सा प्रकृतिः परमकारणं स्तुतिनाशङ्कनीयं प्रतिलिङ्गशरीरं
प्रतिस्रोतोभिन्नतया स्थूलतया च यत्र परमकारणत्व [[१९९]] संवादयित्र
सूक्ष्मभाव परनिरतिशयत्वं सा मयेत्युच्यतेत्याह -
तन्मात्राणिपृथिव्यादेस्सूक्ष्माण्येभ्यस्त्वहङ्कृतिः ।
तस्यास्सूक्ष्मतराबुद्धिस्तस्याः प्रकृतिरेव च ॥
तस्याः कलादि वर्गश्च माया सूक्ष्मतरा ततः ।
यत्र सौक्ष्म्यपराकाष्ठ स मायेत्यभिधीयते ॥
सुकरस्सूत्रार्थः । ऋषिभिश्चोदितो अवस्तुरूपप्रतिभाषणपरान् मायावादिनो
निराकर्तु मायासिद्धान्ते वस्तुरूपा कार्यजनकत्वाद् वस्तुरूपा नह्यवस्तुज
वस्तुदर्शनमिति प्रकृतसिध्यार्थाञ्चिन्तमाविष्करोति -
मायैषा वस्तुरूपैव कलादिजननी यतः ।
[[२००]]
कलादिरिह वस्त्वात्म वस्त्वात्मानह्यवस्तुजः ।
स्पष्टस्तु श्लोकार्थः । एवन्तेन समुद्भेदित चित्ता ऋषयो माया साधक कलादि
कार्यरूपप्रपञ्चे वस्तुत्वं न सम्भवतीति चोदयन्ति ।
नहि प्रपञ्चो वस्त्वात्मा प्रमाणानामभावतः ।
प्रमेया भावतस्तद्वत् सम्बन्धा भावतोपि च ॥
अर्थस्तुत्तरत्रोक्त्या सुकरी भविष्यति । तदेव विविच्य दर्शयन्ति -
प्रपञ्चोयं प्रमात्रादि भेदात्मा नाक्षगोचरः ।
यतः प्रत्यक्षमर्थानां विधातृ न निषेधकम् ॥
निषेधमन्तरा भेदो न समस्ति कदाचन ।
तस्मात्प्रपञ्च सद्भावे प्रत्यक्षन्न तु साधकम् ॥
[[२०१]]
प्रमात्रा निभेदात्मा आदि शब्देन प्रमाण प्रमेय
प्रमितयोऽधिशंयन्ते । अयं प्रपञ्चः न चतुष्टय व्यतिरिक्तं किञ्चिदस्तीति
भावः । नाक्षगोचरः नतावत् प्रत्यक्षविषयः यतः प्रत्यक्षमर्थानां
मेय लक्षणानां विधात्र इदमित्यस्तित्व मात्रग्रहणव्यापारलक्षणम्
अर्थशक्तिजन्यं निर्विकपकमिति यावत् ननिषेधकम् । नहि नायं घटः पट इति
इतरेतराभावग्रहणव्यापारलक्षणं निर्विकपकत्वात् स विकल्पस्य
देशकालाद्यपेक्षत्वात् नार्थ सामर्थ्य जन्यत्वमिति नास्माभिः
प्रमाणत्वेन स्वीकृतम् । तथात्वेपि तदव्यर्थे स प्रकारकतयायं घट इति
समुत्थविधात्र नेतरेतराभावग्रहीत्रसन्निवेद्धृ निषेधु प्रत्यक्षस्य
प्रमाणत्वेन अस्माभिः [[२०१]] अनभ्युपगमात् । नचास्तु किमनेनेति वाच्यम् ।
निषेधमन्तरा तदितरेतरा भावग्रहणं विनाभेदग्रहणा सम्भवात् ।
कदाचन भेदः । प्रमात्रादिगतः । न समस्ति न सम्भवति । यस्मादन्योन्य
भावग्रहणासमर्थद्वारा भेदग्रहणा समर्थत्वात् । प्रपञ्चसद्भावे
प्रत्यक्षन्न तु साधकं न प्रमाणम् । अनमानागमगोचत्वमपि निराकुर्वन्ति -
व्याप्तेस्तत् पूर्वकत्वेन नानुमानमपि प्रमा ।
प्रत्यक्षादि विरुद्धार्थे नागमस्य प्रमाणता ॥
गृहीत व्याप्तिकत्वादनुमानस्य व्याप्तेस्साध्य साहचर्य नियमस्य तत्
पूर्वकत्वेन प्रत्यक्षग्राह्यत्वेन प्रत्यक्षस्य निर्विकल्पकत्वाल्लिङ्गादि भेदा
गोचरत्वे नानुमानमपि न प्रमा न प्रमाणम् । याचकशक्तिग्रहस्यापि (प्।
२०३) प्रत्यक्षमूलकत्वात् प्रत्यक्षादिविरुद्धार्थे इह भूतले घटो नास्तीत्यादि
निषिद्धार्थे नागक्रमस्य प्रमाणता । सिद्धान्त दृशोपमानादीनान्
तृष्वन्तर्भूतत्वान् ननिराक्रियन्ते । इत्थं प्रपञ्चा वस्तुत्वसाधकं
प्रमाणाभावं प्रसाद्य तल्लक्षणप्रमेय तदुभयसम्बन्धा भावन्तु
साधयन्ति । तस्मात् प्रमेयाभावोपि प्रमाणा भावत स्थितः ।
अनुमानं प्रमेयञ्च सम्बन्धो तुर्लभस्तयोः ।
व्यक्तोत्रार्थ परीक्षान्विन्वन्ति ।
नतावत् ज्ञानघटयोर्योगस्तादात्म्यलक्षणः ।
ज्ञानस्याभ्यन्तरत्वेन घटश्चाभ्यन्तरो भवेत् ॥
नोत् पाद्योपादकात्मापि स्वप्ने व्यर्थस्तु सम्भवेत् ।
एवं प्रपञ्चा वस्तुत्वे वस्तुमाया कथं भवेत् ॥
[[२०४]]
ज्ञानघटयोश्चिच्छक्तिरेव प्रमाणमिति साध्यमानत्वात् ।
प्रमाणप्रमेयलक्षणयोर्योगस्सम्बन्धः । नतावत्तादात्म्यलक्षणः ।
तावच्छब्दः क्रमार्थः न समवायलक्षणः
ज्ञानस्याभ्यन्तरत्वेनान्तर्व्यक्तानुभवसिद्धत्वेन घटश्च
बहिस्सिद्धस्समवायान्यथानुपपत्या घटादिकस्सम्भवेत् । जाग्रेप्यतीता
नागतविषयज्ञानन्नसम्भवतीत्याशयः । एवमित्यादि श्लोकार्थे
नोपसंहृतम् । ईश्वरः - सविकल्पकमप्य प्रमितिं विपक्षितुम्
अशत्यमित्याकलय्य परिहरति -
अस्तिप्रमाणं सद्भावे प्रपञ्चस्य पुरातनम् ।
प्रत्यक्षन्तावदर्थानां प्रमाणं भेदगोचरम् ॥
प्रपञ्चस्य सद्भावे तावत् पुरातनं प्रथमं प्रत्यक्षं प्रमाणम् ।
[[२०८]]
अर्थानां भेदगोचरं प्रमाणमस्ति तत्र तावत् सविकल्पप्रमितिं
प्रत्यक्षप्रमाणं व्यापृतिं विविच्य दर्शयति -
स्थाणुर्वा पुरुषोवेति सन्देहे स्थाणुरेव सः ।
पुरुषोनेति भेदात्मा दृश्यते प्रत्ययोऽक्षतः ॥
अक्षतः प्रत्यक्षप्रमाणात् स्थाणुर्वा पुरुषोवेति सन्देहे स्थाणुरेव सः ।
पुरुषोनेति भेदात्मा भेदो विसदृशत्वमात्मा स्वरूपं स्वविषयत्वेन यस्य
स तथोक्तः भेदगोचरपूर्व इत्यर्थः प्रत्ययः प्रमाणफलरूपं
ज्ञानमितरेतरा भावग्रहणरूपतया दृश्यतेऽनुभूयते नेतरेतरा
भावग्रहणपूर्वं निषेधकं भवेत् । अन्यथा पयोर्थिं
पावकमप्यनुयाचेत् अर्थसामर्थ्यजनित निर्विकल्पकस्य प्रत्यक्षत्वम् । नहि
नाम जात्यादि विषयस्येत्युपन्यस्तं प्रतिक्षिपति -
[[२०६]]
भ्रान्तोयं सविकल्पत्वात् रज्जुवन्नेष्यतामिति ।
सर्वेषां सर्वदाकुम्भं कुम्भ-एवेक्ष्यते यतः ॥
नैवं रज्जुः कदाचित् तु यतस्सर्पायते नृणाम् ।
मालायते तदन्येषां नैवं कुम्भपटादयः ॥
अयं पट इत्यादि प्रत्ययोयं भ्रान्तः अतद्रूपार्थबलम्बि सविकल्पत्वात्
रज्जुवत् । रज्वादिषु सर्पादि प्रतिभा स वदिति पुनरेवं प्रकारेण
न्येष्यतान्नमन्यताम् । यतस्सर्वेषां सर्वदा कुम्भः कुम्भ एवेक्ष्यते ।
कुम्भोयं कुम्भोयमितीक्ष्यते । एवं रज्जुर्न समीक्ष्यते यतः कारणात्
कदाचिनृणां सर्पायते सर्प इवा चरति । सर्प इव भासत इत्यर्थः ।
तदन्येषान्नराणां मालायते मले वा चरति । निवृत्ततिमिरादिके रज्जुरूपेण
लक्ष्यते न बाधितत्वात् । सोयमवभासः [[२०८]] तिमिरादि दोषकृतो भ्रान्त एव
कालान्तर देशान्तरयोरपि विशेषा दर्शनात् । कुम्भोयमित्यादि समुत्थ
कुम्भाद्य व भासस्यापाधितत्वात् कुम्भपटादयः । नैवं नान्यथा
समीक्ष्यन्ते । सादृश्येत्विदं बुध्यविवेकाध्यवसायात्मकमज्ञानं
सम्पद्यते । विरुद्धधर्मतया त्रका समानता तत् रूपेण चित् कथं विवर्तत
इत्याह -
किञ्चा हि रज्जुसाम्येन भ्रान्तिरत्रोपपद्यते ।
चितोघटादिरूपेण प्रतीतौ का समानता ॥
सुकरश्लोकार्थः । ननु आत्म संवित्स्वरूप सुखादिरूपेण विवर्तते । सत्यम् ।
अज्ञानं द्विविधं ह्येकं प्राक्तनानुभूतवस्तुसादृश्यजन्यम् । अरजते
रजतमित्यादिकम् । द्वितीयन्तु काचकामलादिदोषद्रव्यजन्यं पीतश्शङ्खं
[[२०८]]
इत्यादिकं ततस्संविदि विसदृश्यामपि ससुखेति सदुःखेति सुखादि
विवर्तनम् अद्वैत प्रतिहन्त्रसदज्ञानजनक मलाद्युपाध्यनुषङ्गित्वादिति न
किञ्चिदसमञ्जसम् । सविकल्पकस्य भेदात्मन्विकल्पत्वात् न
प्रामाण्यमित्युक्तम् । यत्तदयुक्तमित्यनैकान्तिकत्वं
प्रदर्शयन्निर्विकल्पकस्यभिदाग्रहणन्नास्तित्वोक्तिं प्रतिवादि वचसि
समुत्थां प्रतिक्षिपति । निर्विकल्पार्थबोधेपि भेदात्मा प्रत्यय स्थितः ।
अन्यतोत्तरविज्ञानं व्यवृत्तन्नोपजायते ॥
अगृहीतार्थ भेदस्य तन्नामादि विशेषतः ।
निर्विकल्पार्थबोधेपि निर्विकल्प प्रत्यक्षप्रमाण चिच्छक्ति समुत्थ
सामान्यार्थज्ञाने च भेदात्मा शब्दानुल्लेखनेन नामजात्याद्यस्पृष्ट्वा
अतिसूक्ष्मार्थ शक्तिमात्रावलम्बनेन [[२०९]]
शिवादीनामार्थस्यार्थान्तरेभ्यो व्यावृत्तरूपभेदविषयः प्रत्ययः
व्यापारः नानावयवा नानागुणसादृश्यलक्षण जाति स्फुरण
विकल्पाविकल्पनिर्विकल्पप्रत्यर्थवेदनं स्थितः निश्चितम् अन्यथा अगृहीतार्थ
भेदस्य पुरुषस्य शब्दादि सापेक्षस्य तस्यार्थस्य नामादि विशेषतः
तन्नामादि विशेषः । ततस्तन्नामादि विशेषतः परेभ्यो व्यवृत्तं स्वतो
विलक्षण स्वलक्षण तदर्थविषयमुत्तरविज्ञानं सविकल्पकं नोपजायते ।
कार्यस्य कारणगुणान्वयात् सत्कार्य पादाभ्युपगमाच्च ततस्सविकल्पत्वात्
अप्रामाण्यम् इत्युक्ते समनयदृशा वस्तुभेदाविकल्प
निर्विकल्पकस्याप्यप्रामाण्या पातनात् । अबाधितत्वाद्धेतोस्सविकल्पक
निर्विकल्पकयोः प्रामाण्यमभुपगन्तव्यम् । यदाहुः -
अस्तिह्यालोचनज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादि विज्ञान शदृशं शुद्धवस्तुजम् ।
ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यथा ।
बुध्यावसीयते सापि प्रत्यक्षत्वेन सम्मतेति ॥
प्रकारान्तरतः प्रपञ्चसिद्धिं दर्शयति -
किञ्च येन प्रमाणेन प्रपञ्चाभाव उच्यते ।
तत्प्रमाणं प्रमाणं वा नवेति परिचिन्त्यताम् ॥
प्रमाणञ्चेत् प्रपञ्चोस्ति तत्तदन्तर्गतं यतः ।
यद्यत्प्रमाणं सुतरां भावरूपं जगद्भवेत् ॥
किञ्च इतोपि प्रपञ्चाभावः स विदैत्व येन प्रमाणे नोच्यते तत् प्रमाणं
प्रमाण वा सत्वभूतं किन्नवा सत्यभूतं किमितीत्थं [[२११]]
परिचिन्त्यतां प्रमाणञ्चेद्यति सत्यभूतन्तर्हि प्रपञ्चोस्तियत तत्
प्रमाणमागमादि अद्वैतसिद्धौ प्रमाणाभावात् स्वप्नवत् अद्वयित
प्रतिहन्तृभिः पदवाक्यादि लक्षणैः स्वाङ्गैस्सह तदन्तर्गतम् । तदितं
रत्नत्रये सविस्तरं तत एवावधार्यम् । यद्य प्रमाणं यद्यसत्यभूतं
तदाद्वैयित सिद्धौ प्रमाणा भावात् । स्वप्न दृष्टवदद्वितीय सत्य
ब्रह्ममात्र सिद्धिरिति सुतराञ्जगत् भावरूपं भवेत् । तदुक्तञ्च
मोक्षकारिकासु -
भेदे सति प्रमाणानां प्रवृत्तिर्नान्यथा मता ।
क्लिप्तः किमिति विद्वद्भिरभेदो निष्प्रमाणकः ॥ इति ।
ननु यद्यसद विसदिवा भास्य श्रुत्यादिकं श्रुत्यादिकं भवतु सदद्वयित
सधकम् । तदयुक्तम् । सद्रूपायां सविदिनां [[२१२]] सतां
भासनमुपपद्यते । शशविषाणादिनामसतां तद्दर्शनात् । कथं तर्हि
शुक्तिकादौ रजदाद्यवभासः सत्यम् । सतु नतावदाकारः । संविदो
विकारित्वात् नह्यसक्ता लम्बनः असतां भासान्न सम्भाव्यमित्युक्तत्वात् ।
नापि विपरीतार्थः तेन रूपेणासतोर्थस्य तद्रूपेणावभासनायोगात् । किन्तु
तत् भ्रमकारकदेशकालविशेषावष्टम्भेन
शुक्तिकादेस्सतोरजतादेरिवावभासः स्वपेनव्यानन्त वासनायोगात् ।
बुद्धेरसत्यर्थेपि स्मृतिद्वारा तत् तत् सदर्था कारत्वात्
नह्यवित्तालम्बनोवभासः सम्बन्धोपि न दुर्लभः स विषय
विषयीभावस्सुलक्तोपसंहृत्य मायायाः परमकारणतया
कर्मणस्थित्यन्यथानुपपत्या च नित्यत्वं साधयति -
[[२१३]]
सम्बन्धो ज्ञानघटयोः ज्ञाप्यज्ञापकलक्षणः ।
एवं वस्त्वात्मकं विश्वं भवेत्कथमवस्तुजम् ॥
तस्मद्वस्त्वात्मिकामाया स्थिता विश्वस्य कारिणी ।
नित्यैषाऽशेषकार्याणां कारणत्वाद्यदन्यथा ॥
नतन्नित्यं यथा तन्तुस्तस्मान्मायाप्यनश्वरी ।
अनित्यैषा यदीष्येत कर्मणां कुत्रसंस्थितिः ॥
न बिन्दुः कर्मणां स्थानं बिन्दुः कर्मोत्तरोयतः ।
नचात्मनि स्थितिस्तेषां यस्मादात्मा जडो भवेत् ॥
सुकरो क्षरार्थः । अनेन मायायाः कुण्डलिनी जन्यत्वं प्रवदन्तः शैवैक
देशिनः प्रतिक्षिप्ताः साङ्ख्याश्चायया केचित् रागद्वेषादि वासनात्मक
प्रकृतिस्वभावविशेष एव कर्मनहि तत्र बुद्धौ पुरुषस्य
कर्तृत्वाद्यनभ्युपगमात् [[२१४]] प्रकृतीतर कर्तृ समुद्भावित
संस्कृतिलक्षणं सत्पुरुषकर्तृकं कर्मेति कथयन्ति । तदपरे तदितरदिति तत्र
सन्दिहानाः ऋषयः प्रश्नयन्ति -
कानि तानीह कर्माणि किन्तैरत्र प्रयोजनम् ।
प्राकृतान्येव तान्याहुरन्यानीति तथाऽपरे ॥
तत्सर्वं कथयेशान सन्देहास्माकमीश्वर ।
प्राकृतानि प्रकृति स्वभाव लक्षणानि । स्पष्टोत्रार्थः
ईश्वरस्तदितरदित्युक्तोनुग्रहरूपं भाषणं विनिर्गमयति -
अविशिष्टे तु भोक्तृत्वे भुञ्जते दिवि केचन ।
केचनावीचिमुख्येषु नस्यादेतदहेतुकम् ॥
यत्तत्र हेतुः कर्मेति मन्तव्यन्मुनिपुङ्गवाः ।
भोक्तृत्वे कला विद्या रागः प्रकृताविद्यादि कलित कलुषिता [[२१५]] विवेकज्ञान
भोगक्रिया कर्तृत्वे अविशिष्टे साधारणी भूतेः तु शब्दोपि शब्दार्थः केचन
केचिददिविस्वाराज्ये सुखात्मकभोगं भुञ्जते केचन अवीचिमुख्येषु
अवीचिप्रमुखेषु नरेषु दुःखात्मकभोगं भुञ्जते । एतं
विपर्यस्तमहेतुकमकारणकं नस्यान्नसम्भवेत् । यत् तत्र विपर्यासे हेतुस्तत्
कर्मेति मन्तव्यं चिन्तनीयम् । अदृष्टफलविपर्यासेन तदस्तित्वं प्रसाध्य
दृष्टफलविपर्यासेनापि साधयति -
उभयोः कृषिसाम्ये तु कश्चिद्धान्या नियच्छति ।
न किञ्चिदपरस्तस्य कर्मकारणकं द्विजाः ॥
सुलभश्लोकार्थः । प्राकृतत्वन्निराकरोति । नचात्र प्रकृति हेतुर्भोग्यत्वेन
विरोधतः यत् भोग्यं भोजकन्नैतत्तस्मात् [[२१६]] कर्मान्वदिष्यताम् अत्र
भोगवैचित्र्ये प्रकृति स्वभावः । न च हेतुः न भोजकत्वे न निमित्तभोग्यत्वेन
बुध्यात्मना भोग्य स्वभावेन विरोधतः विरुद्धत्वात् ।यस्माद्यत्
भोग्यन्नैतत् भोजकन्नतत् भोजयितृ यथा चन्दनादिकन्तस्मात् कर्मप्रकृति
स्वभावादन्यत् विसदृशलक्षणं पुरुषकर्तृकं सत् बुद्धौ गुणत्वेन
स्थितविष्यतां स्वीक्रियताम् । तदुक्तं मतङ्गे -
कर्मणः कारणं कर्ता स पुमान तत्र कीर्तितः ।
भोग्यस्य कारणं कर्म भोगो बन्धस्य कारणमिति ॥
पराशयमाशङ्क्य निराकरोति -
प्रकृतेः परिणामो यो भौध्यो भावाष्टिकात्मिकः ।
सस्यात्कर्मात्मकोन्यस्तु भोग्यस्यादिति चेन्मतिः ॥
[[२१७]]
तदप्यसारं भावानां प्रत्ययात्मतया ततः ।
प्रत्ययास्ते च विविधा दृश्यन्तेऽणुषु सर्वदा ॥
न समास्तत्र केनापि हेतुना भाव्यमग्रजाः ।
न च स्वयं स्ववैचित्र्ये हेतवस्त्वनवस्थितेः ॥
प्रकृतेः बौद्धो बुद्धिगुणास्त्वेन स्थितः । भावाष्टकात्मकः
धर्मादिलक्षणः यः परिणामस्सकर्मात्मकः कर्मलक्षणस्यात् प्रकृतेरिति
परमतानुसारेण परम परया वा साक्षात् समतानुसारेण तु बहिः
क्रियाभिः स्वाहित संस्कारलक्षणं स्वगुण विभिन्न बुद्धिविकृतत्वेन
कर्मोपादनत्वाद्धर्मादेः अन्यस्तु स्रक् चन्दनवनितादि लक्षणः
भोग्यस्यादिति चेन्मतिः यदि बुद्धिरस्ति तदपि तन्मनन मप्यसारन्नार्थवत्
भावानां प्रत्ययात्मतया ततस्तथापि [[२१८]] तथास्त्वितिन वाच्यम् । यतस्ते
च भावानां स्थूलरूपं भाग्यावस्थात्मकाः प्रत्ययाः अणुषु ।
सकलात्म सुसर्वदान समा दृश्यन्ते । किन्तु विविधा नानाप्रकारा दृश्यन्ते ।
हे अग्रजाः । तत्र वैचित्र्यरूपकार्ये केनापि हेतुना भाव्यम् । यत् किञ्चित्
कारनं भवितुमर्हति । स्वयन्निमित्तान्तरमनपेक्ष्य स्ववैचित्र्येन च हेतवः
कुतो नव स्थितेः ततो विचित्रं विचित्रात् विचित्रान्तरस्ततोपि तथेत्य नवस्थानात् ।
इतोपीत्याह -
किञ्चैते सर्वसामान्याः पुंसोनिष्कर्मकानपि ।
मायाविचित्रसंसृष्टौ भवेयुः कारणं कथम् ॥
किञ्च तिष्ठतु स्ववैचित्र्य विषया लोचना निष्कर्मकान् पुंसोपि
प्रतिकर्मान्तरालम्भना भावात् । एते प्रत्ययाः [[२१९]] सर्वसामान्याः
सर्वसाधारणाः । मायाविचित्रसंहृष्टौ कारणं वेदाः प्रमाणमितिवत्
लिङ्गवचनव्यत्ययः कथं भवेयुः । न कथञ्चिदपीत्यर्थः ।
पराशयान्तरमाशङ्क्य निराकरोति -
प्रकृतेः परिणमेयञ्चित्रस्वाभाविकस्तु चेत् ।
अस्तु स्वाभाविकश्चित्रः परिणामः प्रधानजः ॥
विचित्रपरिणामो यन्नहि स्वाभाविकस्य तु ।
अयं प्रकृतेश्चित्रः परिणाम स्वभाकस्तु चेत् । साक्षात् प्रधानजश्चित्रः
परिणामः मन्मते गुणोपि त्वन्मते बुध्यात्मकः स्वाभाविकोस्तु । तस्य
स्वाभाविकस्य प्रतिपुरुषं विचित्रस्य बुध्यात्मकस्य नहि विचित्रः परिणाम्य
न हि विविधभावः प्रत्ययाद्यात्मायं स दृश्यते च । [[२२०]] यदि हि सोपि न
नैमित्तिकस्यात् । तदानिरपेक्षत्वात् अनवस्थितिस्समापतेत् । अस्त्वित्यभ्युपगम्यापि
पराकरोमीत्याह -
अस्य प्रवृत्तिस्वाभाव्ये निवृत्तिस्तत् क्रिया कथम् ।
प्रवृत्तिश्च निवृत्तिश्च विरुद्धेह्येकधर्मिणी ॥
अस्य प्रधानस्य प्रवृत्तिस्वाभाव्ये विचित्रपरिणाम भवनात्म प्रवर्त्तनस्य
स्वतस्सिद्धत्वे निवृत्तिस्तद्विलीनलक्षणा । तत् क्रिया कथम् । प्रवृत्तिश्च निवृत्तिश्च
द्वे विरुद्धे स्वतस्सिद्धविरोधलक्षणे तथो धर्मिणिन न न भवतः यथेति
निदर्शयति -
अग्नेः प्रकाशस्वाभाव्यो ना प्रकाशोपि तत् कृतः ।
प्रवृत्तिश्च निवृत्तिश्च न स्वतः किन्तु कारणात् ॥
[[२२१]]
यदत्र कारणं कर्म तस्मान्नाकस्मिकञ्जगत् ।
अप्रकाशः प्रकाशान्त तान तत् कृतः न स्वभावः कृतः किन्तु उपाधिकृत
इत्यर्थः । ना कस्मिन्नाकरणिकं न कारणान्तरनिरपेक्षमित्यर्थः इतर
पदार्थस्पष्टः । तथापि प्रवृत्ति निवृत्योरसमानकालवृत्तित्वे नैक
धर्मित्वमस्त्वित्याशङ्कायामाह -
किञ्चयोयत्स्वभावस्तु धर्मस्सोस्य सदा भवेत् ।
अग्निः प्रकाशमानोपि यथा दाहं करोत्यपि ॥
तदेवं प्रकृतेस्यातां प्रवृत्ति विनिवर्तने ।
किञ्चोक्तं विनापि यत् स्वभावोधोधर्मस्सोस्य धर्मिणस्सदा भवेत् । यथाग्नि
प्रकाशमानोपि प्रकाशन् सन्नपि दाहमपि करोति
तत्तस्मात्कारणादेवमित्थम् एककाले [[२२२]] प्रकृतेः प्रवृत्ति निवर्तने द्वे
स्याताम् । नदृश्यते तस्मात् द्वितीयं सपेक्ष्यमित्यर्थः । ऋषयः ।
विरुद्धयोरेकधर्मित्वमस्तीति चोदयन्ति -
अष्टौधर्मादयो भावाः विरुद्धास्तु परस्परम् ।
गुणास्सत्वादयश्चैवमेककारणकाः कथम् ॥
अर्थः परिहारोक्त्या सुकरी भविष्यति । ईश्वरः -
न विरुद्धास्तु धर्माद्या यतस्ते प्रत्ययात्मकाः ।
ज्ञानभावोत्रनाज्ञानम् अन्यथा ज्ञानमेव तत् ॥
भावशब्देन कथ्यमानाधर्माद्याः परस्परन्तु उत्तरत्रोक्त्या न विरुद्धाः
तदेव दर्शयति । यतस्ते भावाः प्रत्ययात्मकाः भोग्यदशामापन्नेषु
सिध्यादि प्रकाशरूपाः उत्तरत्रबुद्धिपरीक्षायां विविधपरीक्षोक्तिमन्तः ।
[[२२३]]
ततः नवीति पूर्वानुषङ्गः । अविरोधप्रकाशत्वं दर्शयति । अत्र
धर्मादिमध्ये पठितमज्ञानं ज्ञानाभावः न बौद्धमसिध्य न
ध्यवसायात्मकं पौरुषमज्ञत्वं वा किन्तु तदन्यथा ज्ञानमेव ।
चिच्छक्ते स्वतो भ्रान्तेरसम्भवात् । येन बुद्धिगुणेनानुषङ्गेण संशय
विपर्ययवेदनम् । सम्पद्यते तदत्र तमोलक्षणकर्मोपादानजम्
अज्ञानमित्युच्यते । फलितमाह -
तस्मात् ज्ञानविशेषास्ते सर्वे धर्मादय स्थिताः ।
न विशेषास्तु सामान्याद्विरुद्धाहि कदाचन ॥
विशेषास्तु अन्यथात्वादि विशेष युक्ताः । सामान्यात् ज्ञानत्वसाधारणात्
कदाचन कदाचिदपि न विरुद्धा हि । पूर्वार्थस्तु स्पष्टः । भावः विरोधं
परिहृत्यगुणविरोधश्चिद्व्यञ्जकत्व साधारणान्येति ।
यदज्ञानञ्चिच्छक्त्यनर्थक्रियारूपं [[२२४]] पुरा ज्ञानाभाव इत्युक्तं
तत् तमोगुणो पादान कार्यान्न भवतीति च वदति -
न वेहसत्वतमसी विरुद्धेस्तः कदाचन ।
यथावत् बोधकं सत्वमन्यथा बोधकन्तमः ॥
बोधकत्वा विशेषान्न विरोध इति चोदितम् ।
न कदाचित्तमः कार्यमज्ञानन्तु मलाद्यतः ॥
यतः यस्मात्कारणात् चिच्छक्त्यनर्थक्रियालक्षणं पौरुषमज्ञानञ्च
तद्वारा कर्तव्यसत्वोपादान कार्यसिद्ध्यध्यवसायानभिव्यक्ति
लक्षणमसिद्धिरनध्यवसाय इत्युक्तन्तमोनिमित्तजं बौद्धा ज्ञानं
माअद्धेतोर्जातम् । ततस्संशय विपर्यलक्षणान्यथा
ज्ञानात्मकमज्ञानन्तमोलक्षणकर्मोपादानजमिति न काचित् क्षतिः ।
सुकरस्तदितराक्षरार्थः । [[२२५]] उपसंहरति -
ततो न कुत्रचित् किञ्चित् स्वभावेन विरुद्धयोः ।
कार्ययोः करणन्तस्माद्विरोधः कारणान्तरात् ॥
कारणान्तच्च कर्मैव तदपीश्वरचोदितम् ।
ततस्वभाववादोयं भ्रान्ति मूल इति स्थितः ॥
ततः पुरोक्तकारणात् कुत्रचित् क्वचिदपित्यध्याहार्यम् । स्वभावेन विरुद्धयोः
कार्ययोः किञ्चिदेकं कारणन्नभवति । तस्मादुक्तरीत्यास्वतो
सम्भवाद्विरोधः प्रकृतेः प्रवृत्तित्व निवृत्तित्व लक्षणः कारणान्तरात् । तच्च
सहकारिलक्षणं कारणं कर्मैव अयमाशयः । शक्तिरूपत्वेन
मायावद्विचित्ररूपरहित तद्धेतु कारण कृत विचित्रोक्तिमत् भोजक सजातीय
कर्मान्तरालम्बनात् । [[२२६]] प्रकृति स्वभावादन्यस्मात् बुद्धौ गुणत्वेन
पुरुषकर्तृक बहिर्यागादि क्रियाजनित संस्कारलक्षणात् कार्यद्वारा भोग्य
लक्षणकर्मण उपादानात् सत्वरजस्तमोमयं भोक्तुमुद्भूत सत्वादिकत्वेन
सुखाद्यात्मना परिणतत्वात् । सुखदुःखमोहात्मकं साक्षात् भोग्यं
भावप्रत्यय विन्दतावत् जातं तदन्वयतस्तदर्थत्वात् भोगाधि करणत्वात्
परम्परया भोग्यन्तत्वभुवनशरीरादिकन्तु कर्मणैव सहकारिणा
मायाख्यादुपादानात् । साक्षात्परम्परया चोत्पन्नमिति कर्मलक्षणन्तु
जनकन्धारकं बोग्यमध्यात्मादिति साधनम् । तत् सत्या
नृतयोनित्वाद्धर्माधर्मस्वरूपकमित्यादिना मृगेन्द्रादौ विविच्य
कृतन्तदपि कर्म ईश्वर चोदितं प्रेरितं प्रवर्तते । [[२२७]] ईश्वर सिद्धौ
जडस्य स्वतः प्रवृत्तिर्नेति निराकृतत्वात् । सात्विकान् सुखात्मिकां प्रीतिञ्च
तज्जातीयेषु भोग्येषु धरणं करोतीतिधर्मः सात्विकान् प्रीतिञ्च न धरणं
करोतीति वा पुनरसात्विकान् तामसान् राजसांश्च दुःखात्मिकामप्रीतिञ्च
तज्जातीयेषु भोग्येषु धरणं करोतीति वा अधर्मः तदुभयात्मकं कर्म
प्रतिपुरुषमनुष्ठेय विचित्रत्वादनेकप्रत्ययात्मनोपभोग्यमनन्तमेव तदपि
न तत्वान्तरं धर्मादि भावाष्टकभेद स्वविकारप्रकृति संस्कार
रूपत्वात् । तेन विना प्रकृते बन्धत्वा योगात् । ततस्तस्मात् कारणात् प्रकृति
स्वभावादेव वैचित्र्यञ्जगत् इत्ययं स्वभाववादः भ्रान्ति मूल इति स्थितः ।
बुद्धिगतान्यथा ज्ञाननिमित्त इति [[२२८]] निश्चितः न मायाव्यतिरिक्तो मल
उपादान कारणात् । कार्यस्योत्पत्तेरिति हेतूक्तिं प्रकुर्वन्तो व्यतिरिक्तव्यतिरिक्त
मलव्यापृतित्वेन वक्ष्यमाण चिच्छक्ति तिरस्कृतिर्मायाव्यापृतिरिति
तद्धेतुर्नित्यश्शब्दः काकस्य काष्ण्यादिति व द्व्यधिकरणा सिद्ध
इत्यबुध्यन्तो मायामलवादिनः पाशुपतः प्रमुखाः प्रलपन्ति ।
ततस्तदुक्तिन्तिरस्करोति -
न च माया मलस्तस्मात् यतः कार्या प्रकाशिकाः ।
कार्या प्रकाशिकं यत्तु स्वात्मनाजनकन्नतत् ॥
यथा प्रकाशकौ दृष्टौ वह्नि दीपा उभावपि ।
न दीपकारणं वह्निः क्वचिदप्यप्रकाशकः ॥
माया न च मलः न च मलव्यापारलक्षण चिच्छक्ति तिरस्कृकरी । [[२२९]]
सेयं प्रतिज्ञायतः कारणात् कार्यात् कलादि द्वारा प्रकाशिका ।
चिच्छक्त्यभिव्यञ्जिका । तस्माद्व्यञ्जकत्वात् । सोयं हेतुः यत्तु कार्यात्
प्रकाशकमभिव्यञ्जकन्तत् स्वात्मना स्वरूपेण
नाजनकन्नानभिव्यञ्जकन्नतिरस्कर्तुः यथेत्यादि प्रकाशक इत्यन्तश्लोकार्थ
स्पष्टस्सोयन्दृष्टान्तः । यद्यप्यस्तितितस्कर्तृत्वं मायायाः कार्यद्वारापि
नानुपपत्तेश्चिच्छक्त्यप्रकाशक कार्यजनकत्वमसम्भावनीयम् । यदि
कार्यद्वारा तथा तस्य सम्भावनीयं तिरस्कर्तृत्वं स्यात् । तदा तस्यां
सत्याम् । प्रलयोपसंहृत कार्यायां सर्वेषां सर्वज्ञत्व प्रसङ्गः । ननु
विरुद्धकारणान्तरानुविधानाद्विरुद्धलक्षणप्रवर्तननिवर्तनवतीति । तथा
अप्रकाशककारणान्तरानुविधानात् । [[२३०]] स्वरूपेण भवत्वप्रकाशिका ।
तन्न मलेन विना अप्रकाशक कारणान्तरा भावात् । यदिस्यादपि स्वरूपेण न
सम्भवतीत्याह -
न च मायास्वरूपेण पुंसां कार्यकरी स्थिता ।
कार्यैरणूपकारित्वात् यदित्थन्तन्नचात्मना ॥
यथा तन्तुस्वकार्येण पटनैव न चात्मना ।
अणूपकारित्वादित्यन्त प्रतिज्ञा हेतुरूप वाक्यार्थ स्पष्टः । यत् यद्वस्तु
इत्थं स्वकार्यद्वारात्मोपकारकन्तत् न चात्मना तत् स्वरूपेण न
चोपकारकम् । यथा तन्तु स्वकार्येण पटैनैवाच्छादनकार्यलक्षण
कार्यकरः । न चात्मना नच स्वरूपेण सोयन्दृष्टान्तः ततो यथा मन्दाग्नि
तायां सुसत्यां क्षीरं श्लेष्मादि दोष हेतुर्भवति । तथा व्यतिरिक्त मले (प्।
२३१) सति माया अनात्मन्यात्माभिमानरूपमोहादि दोषहेतुः कार्यद्वारा
भवति । न तु साक्षात् प्रलयकेवलिषु तद्दर्शनात् सिंहावलोकन परिचरणया
पुनः कर्मस्वरूपन्निरूपयति -
एकस्मिन् भुज्यमाने तु कर्मण्यन्यदुपस्थितम् ।
बाधकं प्रबलन्तच्चेदविरोधे समुच्चयः ॥
एकस्मिन् कर्मणि भुज्यमाने अन्यत्कर्मणि भुज्यमाने अन्यत्कर्मभुज्यमानं
सदुपस्थितं प्राप्तन्तत् प्रबलञ्चेद्विरोधे बाधकं स्यात् । नानाशङ्कमिति
व्याख्येयम् । किन्तु प्रथमं भुज्यत इत्यर्थः अविरोधे समुच्चयः ।
समानकाले प्रबलञ्चाप्रबलञ्च भुज्यत इति द्वन्द्व स्यात् । तदेव विष्पष्टयति -
[[२३२]]
भुज्यमाने तु मानुष्ये शुनोयोनिर्यदा भवेत् ।
बाधिका प्रबलास्याच्चेन्मानुष्यस्य द्विजोत्तमाः ।
अविरुद्धादथ प्राप्तिर्यदि तत्र समुच्चयः ।
यदा यस्मिन् काले मानुष्ये मनुष्यत्व फलस्वरूपिणी कर्मणि भुज्यमाने
भोक्तुं योग्ये शुनोयोनि स्वजन्मफललक्षणमिति यावत् भुज्यमानासती भवेत्
। हे द्विजोत्तमाः तदासतु प्रबलाचेत् मानुष्यस्य बाधिकास्यात् प्रथमं
भोग्यास्यात् । अथ तत्र तयोरविरुद्धान्मानुष्यत्व ब्रह्मणत्वादि लक्षणा यदि
प्राप्ति तत्र तयोस्समुच्चयः समानकाल भोग्यत्व लक्षणद्वन्द्वो भवेत् । क्वचित्
समबलस्यापि बाधकं भवतीत्याह -
आरब्धमप्यनारब्धं बलेन तु समं यदि ।
[[२३३]]
आरब्धमेव भोग्यं स्यात् द्रोधयित्र्या निरोधनात् ॥
आरब्ध फलित देवशरीरादि फललक्षणमनारब्धं पलितव्यं
मनुष्यशरीरादि फललक्षणन्तदनारब्धस्य तीव्रवेगेन पाकेन
तद्वितयमपि बलेन समं यदि रोधयित्र्यसमानाभिधान शिवशक्ति
प्रेरितयानन्तशक्त्या निरोधनारब्धे निरुद्धे सत्यारब्धमेव भोग्यं स्यात् ।
तस्मिन् भुक्ते कालान्तरे तदपि स्यात् । यद्यारब्धमपि कर्मयदालघुर्भवति
तदा बलात्तीवृवेगेनानारब्धेन विरुद्धेन निरुध्यते । यथा नहुषस्याति
सुखदेवशरीरतिरस्कारादति दुःखदाजगरशरीरप्राप्तिः अनारब्ध समबल
समारम्भे युगपद्विरोधेन भोगानुपपत्तेश्शिवशक्तिस्तत्र
नाशहेतुर्भवतीत्याह -
[[२३४]]
विरुद्धयोर्यदारम्भे कर्मणोस्समयोर्बलात् ।
तदैव शक्तिपातेन नाश एव तयोर्भवेत् ॥
सुलभो श्लोकार्थः कर्मणामात्मन्यवस्थानं
वदन्त्यन्यायवादिनन्निराकरोति ।
न चात्मनिस्तितिस्तेषां कर्मणामुपपद्यते ।
कृष्यादिवत् प्रधानस्य संस्कारोत्पादकत्वतः ॥
मायायामेव नान्यस्मिन् संस्थितानिद्विजर्षभाः ।
हे द्विजर्षभाः । तेषामुक्तलक्षणानां कर्मणान्नचात्मनि स्थितिरुपपद्यते
। प्रधानस्य प्रकृति कार्यस्य बुद्धेरिति यावत् । संस्कारोत्पादकत्वतः
कृष्यादिवत् पुरुषकर्तृकस्य कृष्यादेः क्षेत्रादि संस्कारोत्पादकत्वात् कत्तरि
पुरुषेन स्थितिर्यथा तथेत्यर्थः । किञ्चाचेतनत्वं [[२३५]]
प्रसङ्गाच्चात्मनः । न चास्माकमात्मनोचित्वात् । तत्रा चितिकार्यकरणेन
चिदुत्पत्तेरिष्टापत्तिरिति वाच्यम् । तस्याश्चितस्सादात्मस्वरूपत्वेनान्तरत्र
साधनीयत्वात् । ततोऽनुष्ठित प्रध्वंसित्वात् । क्रियाया
स्वजनितसंस्काररूपतया बुद्धिगुणत्वेन परमकारणलक्षणया
मायायामेव प्रलये बिन्दुलक्षण स्वोपादानकारणात्म स्वगुणिना सह
स्थितानि नान्यस्मिन् पुनस्सृष्टौ कलादिक्षत्यन्त भुक्ति निमित्तम् तत् कर्माणि
मायातस्वसामर्थ्यं निमित्तीकृत्य समुत्थां प्रतिपुरुषं भिनां कलां
पुनस्वसामर्थ्य निमित्तिकृत्य तदुत्थान्तादृशीं प्रकृतिञ्च समाशृत्य
पुरस्वसामर्थ्यं निमित्तीकृत्य गुणद्वारा तदुत्थान्तादृशिं बुद्धिं स
मतिषुन्तितत्व [[२३६]] सृष्टेरनन्तरं भुवनसृष्टिरिति सूचयन् पुरोक्तनादात्म
परदेहानुबन्धस्य तदनन्तरञ्चिद्व्यञ्जकसूक्ष्मदेहात्मतत्वबन्धो
भवति । तदनु भुवनात्मजशरीरात्मस्थूलबन्धो भवति । तद्वर्तिनोपि
सकलत्वं प्राप्ता गुर्वधिकरणेन शिवेनानुग्राह्या इत्याह -
मायातोद्विविधा सृष्टिः स्थूला सूक्ष्मात्मिकेत्यपि ।
दृक्शक्तिव्यञ्जिका सूक्ष्मा स्थिता तत्वात्मनात्मनि ॥
स्थूला भुवनरूपेण शरीराद्यात्मना स्थिताः ।
सूक्ष्माः कलादयः पूर्वं स्थूलाबध्नन्त्यणूंस्ततः ॥
मायामण्डलमध्यस्थाः पुमांसस्सकलामताः ।
अनुग्राह्यास्त्वमीसाधि करणेन शिवेन च ॥
व्यक्तोऽक्षरार्थः । प्रलयाकालेषु निरधिकरणेन [[२३७]]
शिवेनानुगृहीतमाह ।
विद्यामण्डलिनश्चाष्टौ क्रोधादीन् श्रीगलन्तथा ।
शतरुद्रांश्च वीरेशमपितान् परमेश्वरः ॥
स्वयमेवानुगृह्यादावधिकारे नियुक्तवान् ।
एवं समासतः प्रोक्ता माया विश्वजगन्मयी ॥
विद्यामण्डलिन गर्भितकलारागविद्यामण्डलिनश्चाष्टौ
रागतत्वाधोभागमुपक्रम्य प्रतिमण्डलन्मण्डलेससहिताष्टाष्टक्रमेण
कलामस्तकवर्ति स्वष्टसुमण्डलेषु स्थितान् । तदुक्तन्मृगेन्द्रे ।
महापाचतुष्षष्टिमण्डले मण्डलाधिपा इति । प्रधानाधिपान्
प्रकृतेस्सूक्ष्मत्वेन भुवनाधारत्वायोगात् । क्रोधादिभिर्दत्त गुरुत्व
प्राप्तिमतां वामदेवादि त्रयोदशरुद्राणामपि वसती
भूतगुणमस्तकस्थितान् क्रोधादींश्चाष्टौ [[२३८]] तथा तद्वत् गुणत्व
निलयं प्रकृत्यग्रनिलयञ्च श्रीगलञ्च । तदुक्तं मतङ्गे -
द्विधा विभज्य स्वं वीर्यं प्रधानावदतीर्य इति ।
तस्य सर्वरुद्राग्र नायकस्य प्रधानाग्रवर्तिनि भुवने गुणतत्वावध्यात्म
प्रलये कालाग्नियादि गुणनिलय श्रीकण्डशिष्योपसंहृतिरूपे गुणनिलय
श्रीकण्ठशतरुद्रादि शिवशिष्याश्चानन्त शिष्या श्रीकण्ठादयश्च स्थिता
विराजन्ते । तस्मिन्नप्युपसंहृते रागतत्वस्य श्रीकण्ठभुवने विराजन्ते ।
तदुक्तं मतङ्गे । श्रीकण्ठभुवनं प्राप्य क्रीडयन्तीति । ब्रह्माण्डबहिः
कपालजभुवनस्थितान् शतरुद्रांश्च ब्रह्माण्डद्वारभागनिलयं
मध्यमप्रलये प्रकृत्यस्थो भागवर्तिरुचिमत् [[२३९]] भुवननिलयं वीरेशं
वीरभद्रमपि शिवस्वयमेव गुर्वधिकरणमनपेक्ष्यादौ माया
सृष्ट्यारम्भेनुगृह्य पाशविमोचनद्वारा सर्वज्ञत्व स्वावधि सर्वकर्तृत्व
लक्षण स्व ईश्वर्यमसम्प्रयोज्य शिवान् कृत्वा अनन्तद्वाराति दिव्यदेहयुक्तान्
सम्प्रकृत्यानुगृह्य भुवनसृष्टिनिर्माणादि लक्षणेऽधिकारे नियुक्तवान् ।
ननु सर्वथा कर्ममलमाया विच्छित्तित्रयपूर्वं व्यक्त शिवत्वाभिव्यक्ति
अपरशिवनामभ्यां पिहित प्रलयकेवलं प्रलय केवलनामत्वात् कथं
माया कलाकलित मायागर्भाधिकरित्वम् । सत्यम् । विच्छिन्नमलादि पाशत्वेपि
मान्द्यपाक कालविच्छिन्नत्वात् मायायां प्रकृतमलवासनोर्थाधिकार
स्थान विशेषात् अनन्तादीनां [[२४०]] शुद्धकलेव माया
तस्सैवान्नुन्नतिमतिकर्मनिरपेक्षासती शुद्धा तद्वश्याः पुनः कला
प्ररोहतीति न काचित् क्षतिः । तदुक्तं कलायोगेपिनोवश्याः कलानां
पशुसङ्घवदिति । अन्येपि भुवनेशाः कपालीशादि कालाग्नियन्तासाञ्जना
निरञ्जनाश्च श्रीमतङ्गपादौ स्वनामतोऽवधार्याः । तत्र च
शुद्धभुवनेशेषु च निरञ्जनाश्शिवशिष्याः अनन्त श्रीकण्ठादयः अनन्त
शिष्या ब्रह्माण्डान्तर्निलय श्रीकण्ठादयः महाप्रलये उपरतौ स्थितौ वा
शिवसाम्यमुक्तिं यान्ति । उपरति मद्रुद्राधिकार स्थाने
अनुपरतिमन्तोनुक्रमेणाधिकारिणो भवन्ति च ब्रह्माण्डान्तर्निलय गुण
निलयद्वी श्रीकण्ठशिष्या निरञ्जनाः । प्रथमप्रलये मध्यमप्रलये
उपरतौ स्थितौ [[२४१]] वा परमुक्तिं यान्ति । अनुपरतौ महाप्रलयान्तं
सा?भिलषिता परमुक्ति परापरभुक्तिभाजो भवन्ति । अनन्त शिष्यास्साञ्जनां
कपालीशादि गुणनिलय ब्रह्मविष्णवादि मध्यमपञ्चाष्टकामरे
शान्तिमाह । महाप्रलयावधि स्थित्वा महाप्रलये स्थितौ कर्मक्षये विज्ञान
कैवल्यं तदक्षये प्रलये प्रलयकैवल्यं पुनस्सृष्टौ स्वभुवनापत्यं
सोपरिभुवनं वा प्राप्नुवन्ति मलपरिणतौ सत्यां स्वभुवनगुरुनिरीक्षिताः
परापरमुक्तिभाजो भवन्ति च नाधोयान्ति श्रीकण्ठशिष्यास्साञ्जनाः
ब्रह्माण्डान्तर्निलय ब्रह्मविष्ण्वादयः मध्यमप्रलयावधिस्थित्वा
गुणनिलय तच्छ्रीकण्ठोपसंहृताः पुन सृष्टौ बुद्धि तत्वमारभ्य क्रमतो
भोग भुजो महाप्रलये स्थितौ वा कर्मक्षये [[२४२]] विज्ञान
कैवल्यन्तदक्षये प्रलये प्रलयकैवल्यं पुनस्सृष्टौ स्वाभिलषितभुक्तिं
मलपरिणतौ सत्यां स्वभुवन गुरुनिरीक्षिताः । परापरमुक्तिं वा यान्ति
नाथो यान्ति । अथः परिक्षीणकर्मणामेव ब्रह्माण्डान्तर्निलय
ब्रह्मत्वादिकेऽधिकारात् । ननु अनन्तशिष्यो महाप्रलयवधिसुस्थिमान्
ध्वंसितमलकर्मत्वात् । स्वेदजखद्योतवत् अधिकारनिबन्धन
मायाजातिमत्तनुः मध्यमप्रलये प्रकृतिनिलय श्रीकण्ठभुवनं प्राप्य
क्रीडमानः ब्रह्माण्डान्तर्निलय श्रीकण्ठः यस्स कथं गुणनिलय
श्रीकण्ठनियोज्य मध्यमप्रलये तदुपसंहार्यं कालाग्नि रुद्रतया वर्तत
इति सर्वज्ञानोत्तरे श्रूयते । सत्यम् । मध्यमप्रलये प्राकाम्य शक्त्यद्धृत
कालाग्न्याकृति मात्रोपसंहृति । [[२४३]] अथवा तदतिष्ठितस्य कस्यचित्तत्
सदृशरुद्रस्योपसंहृति च गम्यते । ननु ब्रह्मविष्ण्वादयः निधने
शाद्यनुगृहीतानिरञ्जनाश्रृत स्वायम्भुवाद्यागमाश्च श्रूयन्ते । सत्यम्
। श्रीकण्ठस्य प्रतिनिशं प्रलयं गन्तारः ।
प्रत्यहमधिकारमनुप्रविशन्तः ब्रह्मविष्ण्वादयो असङ्ख्याः तेषु मध्ये
केषाञ्चिदधिकारे नियोगसमनन्तरं किञ्चित्कालमतीत्यवामलपरिणतौ
सत्यामनुग्रहपूर्वं निरञ्जनत्वमाविर्भवतीति न किञ्चिदसमञ्जसम् ।
इत्थं प्रतिस्रोतसा माया सहमायागर्भाधिकारिभिस्सर्वरुद्राग्र नायक
श्रीकण्ठादिभिरनेकविधा स्रोतो भेदेन लक्ष्यते भुवनात्मसाधारणैकैक
मायानुसूत स्रेतसि सूक्ष्मदेहात्मा साधारणानेकमायानुसूत [[२४४]]
स्रोतांसि विद्यन्ते । तदुक्तं मतङ्गे । मधुकोश पुटाकारानि
चितापरमाणुभिरिति । शुद्ध स्रोतांसि महामायानुसूतानि
साधारणैकरूपाणि सूक्ष्मदेहात्मा साधारणशुद्धकलादेः पृथक्
पृथक् यथोचितं शुद्धविद्यानुसूतत्वेन महामायानुसूतत्वा सम्भवात् ।
मायानुसूतानिव महामायानुसूतानि भुवनरूपाणीति स्रोतंसि बहूनि
सन्ति । तदुक्तम् । ललितभेदे स्वच्छन्दे -
संस्थितोयम्भसो मूर्ध्नि शक्त्याकारस्तु शक्त्याकारस्तु भूर्भुवः ।
अपतत्वमेव तदथ आग्नेयं तदनन्तरम् ।
वायव्यन्नाभासञ्चैव तन्मात्राणिन्द्रियाणि च ।
विविधाश्च मनश्चैव अहङ्करोह्यनुक्रमात् ।
बौद्धं गौणञ्च देवेशि प्राकृतः पौरुषं तथा ।
[[२४५]]
नियतिः कालरागौ च विद्या चैव कला तथा ।
मायातत्व ततो विद्या ईश्वरश्च सदाशिवः ॥
बिन्दुरर्धेन्दुनैरोधि नादोनाडिह्यतः परम् ।
ऊर्ध्वं ब्रह्मबिलं देवी शक्तितत्वमतः परम् ॥
पञ्चकारणसंयुक्ता व्यापिनी च ततः परम् ।
समना उन्मना चैव प्रक्रियाण्डैर्युतन्ततः ॥
यथा चात्मानबो देवि असङ्ख्याता व्यवस्थिताः ।
एवं वै प्रक्रियाण्डानि असङ्ख्ये यानि कोटिशः ॥
एकेन वर्णिते नैव सर्वाध्वा वर्णितः प्रिये ।
यथा एकं तथा सर्वं प्रक्रियाण्डं व्यवस्थितम् ॥
सर्वेषां प्रक्रियाण्डानां स्वस्वरूपे तु सुवृते ।
व्यापकस्तु शिवस्सूक्ष्मस्साबाह्यन्तरे स्थितः ॥ इति ।
[[२४६]]
एकैकं प्रक्रियाण्डं ष्डशाण्डस्कन्धात्मकं ज्ञेयम् ।
अनन्तादिम श्रीकण्ठमध्यमकालाग्यान्तिमाः । ब्रह्मादयः मन्त्राः
आणवाश्शम्भवाश्शाक्ताः इति त्रिधा भवन्ति । तत्राणवास्त्वधिष्ठेय तया
वास्तव वपुष्मन्तो निरञ्जनास्साञ्जनास्वाधिकारं निर्वत्तयन्तो वास्तव
वपुस्मतीभि स्वतस्सत्वलोकादि स्थिति मतीभिः ब्राह्म्यादिभिः प्रतिनियत स्वस्व
भार्याभिर्मनोभिलषितान् भोगानपि भुञ्जते । शाम्भवास्तधिष्ठातृतया
क्लिप्त ब्रह्माद्याकृतिमान् शिव एव । शाक्ता स्वधिष्ठानतया क्लिप्ता
ब्रह्माद्याकृतिमती शिवशक्तिरेव । एवमित्यादि श्लोकार्थेन माया
परीक्षोपसंहृता ।
इति श्रीशालिवाटिपुरनिवासि ज्ञानप्रकाशाचार्य विरचितायां
पौष्करविद्यापादवृत्तौ तृतीयः पटलः ॥
[[२४७]]