अथ बिन्दोर्विवेकोयं न्यायप्राप्तोत्र वर्ण्यते ।
लयादि भेद प्रागुक्तो यदुपाधौ शिवस्य तु ॥
स बिन्दुरितमन्तव्य सैव कुण्डलिनी मता ।
अथ पतिपदार्थपरीक्षानन्तरं बिन्दोख्यं न्यायप्राप्तः उद्देश
क्रमानुगतः पुनरनुमानानुगतो वा विवेकः परीक्षात्र वर्ण्यते । क्रियत इति
पाटलिकस्सम्बन्धः पूर्वपटलोपसंहारेण सूचितः तन्त्रवस्तु सम्बन्धः
कुण्डलिन्याख्य पदार्थत्वेन वाक्यात्मकस्त्वनेकविधस्सातु
कुण्डलिनीत्यदिभिरुक्तः । शिवस्य प्रागुक्तो लयादि भेदः लयादि भेद
व्यपदेशः यदुपायौ यस्य पदार्थस्य उपसमीपेधिष्ठातृत्वेन वर्तिनि शिवे
तत्र न विवर्तत्वमिति भेदव्यपदेशमात्र- [[१३४]] मादधात्या
सञ्जयतीत्युपाधिरवस्था तस्यां सत्यां सम्भवति स बिन्दुरिति मन्तव्यः
प्रतिपत्तव्यः । नच कुण्डलिनी परीक्षोपक्रमे बिन्दु परीक्षोपक्रमोनुचित इति
वाच्यम् । यतस्सैव कुण्डलिनी मता । तदुक्तं -
शब्दतत्वमघोषा वाक् ब्रह्मकुण्डलिनीद्धृवम् ।
विद्याशक्तिः परो नादो महामायेति देशिकैः ॥
बिन्दुरेव समाख्यातो व्योमानाहत इत्यपीति ।
युक्त्यान्तरमाह । किञ्च रुद्राणपो येन बध्यन्ते यत्र वा स्थिताः । विमुच्यन्ते
यतो [वायं] स बिन्दुरिति गम्यताम् ॥ किञ्च पुनरपि युक्तिं वदामि
रुद्रवदणुरात्मा शिवाद्भिन्नो येषान्ते रुद्राणवोऽनन्तादयः येन
यदुत्पन्नेन शरीरादिना बध्यन्ते युज्यन्ते । यत्र वा [[१३५]] यदुत्पन्न
भुवनेषु निरतिशय भोग भुजस्थिताः यतो यदुत्पन्न नादादेर्वाम॥॥। प्रलये
विमुच्यन्ते । सोयं बिन्दुरिति गम्यताम् । ज्ञायतां पुनरित्याह -
किञ्च सादात्मको योगः सद्यस्सञ्जायते यतः ।
वर्तते लीयते यत्र स बिन्दुरिति गम्यताम् ॥
किञ्च सन् सुद्ध आत्मा स्वरूपं यस्य स सदात्मा । सदात्मनि भवः
सादात्मिकः युज्यते परपदेनेन दीक्षित इति योगाध्वा मन्त्रादिः । अथवा योगो
योगफल सदाशिवदेहः यतः उपादानात् सद्यश्शिवेच्छामात्रतस्सञ्जायते
व्यक्तो भवति । यत्र वर्तते स्थित्वार्थ क्रियायुक्तो भवति । यत्र लीयते तिरोदधाति
स बिन्दुरिति गम्यताम् । यद्वा पुरोक्तव्युत्पत्या [[१३६]] योगः
प्रासादमहामनुः शिवकृतमनुव्यक्तिभुमिर्भूत्वास्-
सद्यश्शिवशक्त्यधिष्ठित साधक कर्तृशक्ति प्रवृत्तिमात्रेण यतो यदुत्पन्न
नादात् सञ्जायते । यत्र कलात्मना वर्तते । यत्र लीयते स बिन्दुरिति गम्यताम् ।
अत्र ये प्रयोगरूप श्लोकः । सदाशिवादि तत्वौघोनित्योपादानकारणम् ।
विकारित्वाद् यथा कुम्भस्तथा चैषस्ततस्तथेति । बिन्दु समवायवादिभिः
ज्ञानशक्तिरेव क्रियाशक्तिरित्युच्यत इत्यबिन्द्वद्भिः क्रियाशक्तिरेव
शुद्धवत्मोपादानरूपा भूता कुण्डलिनीत्युच्यते । तन्निरासार्थमाह -
नात्र शक्तिरुपादानं चिद्रूपत्वाद्यथा शिवः ।
परिणामोचितप्रोक्तश्चिद्रूपस्य न युज्यते ॥
[[१३७]]
अत्र शुद्धवर्त्मात्म कार्ये शक्तिश्शिव समवेत क्रियात्मकानो
पादानञ्चिद्रूपत्वाद्यथा शिवः । ब्रह्मणश्चिदानन्दाज्जगत् जायत इति
श्रुतिः । समुत्थ भ्रान्तिमतां परिणति धर्मचित् ब्रह्मेति पठताञ्चिदानन्द
ब्रह्मशब्द शब्दितात्म चित्प्रकाशकानन्दकरी महामाया च माया
चेत्यविन्दतां परिणत वेदान्त विदाम् । मतानुसारुभिर्विरुद्धत्वन्नाशं
कनीयं परिणामः । उपादानत्वम् अचितोमायादि वस्तुनः । प्रोक्तः चिद्रूपस्य
शिवादिवस्तुनो न युज्यते । यद्यदुपादानन्तत्त जडात्मकम् । यथा
मृदादिकमिति शक्तेस्तच्छक्ति मतो ब्रह्मणोपजडत्वा पादानात् । तदत्र
ब्रह्मशब्दशब्दिते शुद्धासुद्धलक्षणे माये ब्रह्मपर इति श्रुतेर्णशिव (प्।
१३८) इति दृष्टान्ते विपर्यय व्याप्त्यभावां न विरुद्धत्वं चिद्विवर्तत्वं
निरस्यति -
चितोविवर्तयेवोक्तस्तथात्वे कार्य शून्यता ।
सर्वप्रमाण संसिद्धं चिद्विवर्तं कथञ्जगत् ॥
कैश्चिदद्वैत वादानुसारिभिश्शुद्धाद्वा चितो विवर्त एवोक्तः । तथात्वे
विवर्तरूपत्वे कार्यशून्यता कार्यवस्त्व भावतास्यान्नचेष्टापत्तिः ।
वैखरी वागादिकञ्जगत् प्रत्यक्षादि प्रमाण संसिद्धञ्चिद्विवर्त्तं शिव
चिदाभासः कथं भवेत् । कथञ्चिदपि नस्यादित्यर्थः । ननु स तु
मयोपादानन्तन्नेत्याह -
मायापिनात्रोपादानं मोहकत्वात्स्वतेजसा ।
यतः प्रबुद्धपुङ्काय करणानान्नकारणम् ॥
[[१३९]]
शुद्धाध्ववर्तिनस्सर्वे प्रबुद्धाश्शिव तेजसा ।
देहेन्द्रियादिमन्तोपि नाबुद्धास्तेषु ते पुनः ॥
अत्र शुद्ध्ववत्मनि माया विनोपादानं यत स्व तेजसा स्व कार्येण मोहत्वात् ।
अनात्मन्यात्माभिमानादि रूपाज्ञान जनकत्वात् प्रबुद्ध पुङ्काय
करणानां प्रकर्षेणाभिव्यक्तशक्तिमदणु देहेन्द्रियादि
करणानान्नकारणं ततः । ननु श्रीमत् श्रीकर्णादीनिवाधिरनिबन्धन
प्रकाशरूप शरीरादिकं भूत्वा नतान् मोहयन्ती सातु स्यात्तन्न
शुद्धाध्ववर्तिनस्सर्वेधिकारिणो नधिकारिणो वा दीक्षां विना तत्र
प्रगमासम्भवात् शिवतेजसा । दीक्षानाम्न्या शिवशक्त्यानिर्द्धूत माया
गर्भाधिकार निबन्धनतया प्रबुद्धास्समभिव्यक्तशक्तयः । [[१४०]]
शुद्धाध्वा न मायोपादानतः । ते पुनर्देहेन्द्रियादिमन्तोपि तेषु तत्र
निवासिष्ट । मध्ये केचिदपि नाबुध्या नह्यनभिव्यक्तशक्तयः
तदनाम्नन्यात्माभिमान रूपमतिमदनाधारत्वाद्धेतोः यस्तु नहि न
मायोपादानः । स तु न तदर्शनाधारः । तथा अशुद्धाध्वा । विमुक्त
कर्मत्वादपि नेत्याह -
किञ्च कर्मोझितास्सर्वे पुत्गलाश्शुद्धवर्त्मनि ।
कथं कर्मानुसारेण मायापरिणतौस्थितिः ॥
तेषान्देहेन्द्रियादीनामुपादानं भवे द्विजाः ।
तस्मात् शुद्धध्वनश्चास्य स्वानुकार्येव कारणम् ॥
इष्यतां कुण्डलिन्याख्यं शुद्धमेतद्विजोत्तमाः ।
किञ्च शुद्धवत्मनिसर्वे पुत्गलाः भुवनपतयः तन्निवासिनश्च [[१४१]]
कर्मोझिताः कर्मविमुक्ताः । तेषं कथं कर्मानुसारेण माया परिणतौ
शरीराद्यात्मिकायां स्थितिः नकथञ्चिदपीत्यर्थः । कर्मोझितत्वेपि कथन्तत्र
स्थिति श्रीमत् श्रीकणादीनामिति नाशङ्कनीयन्तेषां मायागर्भाधिकार
निबन्धनतयेति । नहि तेषां मायातिक्रान्तानां शुद्धाध्वस्थानान्त
निबन्धनं कर्मचेति । किन्निबन्धना तत्र स्थिति । हे द्विजाः । यस्मान्माया
परिणतौ स्थितिर्न सम्भाव्यते ।
तेषान्द्रेहेन्द्रियादीनान्तदन्यथानुपपत्यापादानं भवेत् । येन
केनचिदुपादानेन भाव्यन्तस्मादस्य शुद्धाध्वनास्वानुकारि स्वानुरूपि
शुद्धत्वमेव स्वानुरूपित्वः । कुण्डलिन्याख्य मेवैतत् कारणमुपादान
लक्षणम् । हे द्विजोत्तमाः । [[१४२]] इष्ठतामभ्युपगम्यताम् । सूचितं बिन्दु
समवाय वादं प्रतिक्षिपति -
सा च कुण्डलिनी शम्भोश्शक्तिश्शुद्धा जडात्मिका ।
न तादात्म्यात् स्थिता किन्तु वर्तमाना परिग्रहे ॥
सा च कुण्डलिनी शम्भोश्शिवस्य शुद्धा जडात्मिका शक्तिः । न तत्र
तादात्म्यात् समवायात् स्थिता । किन्तु अपि तु परिग्रहे शुद्ध वत्मोपादान स
चिन्तावलोकने वर्तमाना विषयीभूता स्थिता परिग्रहशक्तिरित्यर्थः । तत्र
युक्तिं प्रदर्शयति -
शिवे कर्तरि तादात्म्यात् नेयं कुण्डलिनी स्थिता ।
उपादानं त्वतो हेतोः कुलाले मृत्तिका यथा ॥
श्लोकार्थस्तु स्पष्टः । पुनरपि बिन्दुं साधयति -
[[१४३]]
किञ्चमायाद्युपादानं देहेन्द्रियकरं नृणाम् ।
क्षुब्धं कार्यकरन्तस्य कर्तृ देहेन्द्रियादिकम् ॥
यदुपादानतोजातं स बिन्दुरिति गम्यताम् ।
किञ्च पुनरपि तत् साधनं किञ्चिदस्ति । मायाद्युपादानम् । आदि शब्देन
कलादिकं गृह्यते । नृणान्देहेन्द्रिय करमुपलक्षणतया देहेन्द्रियादिनाम् ।
तत् क्षुब्धं विकृतं सत् कार्यकरं स्वार्थक्रियायुक्तं भवति । कत्रा विना
न तत् स्वतस्सिध्यति । ततस्तदानीमशुद्धाध्वनो नुत्पत्तेः । तस्य कर्तृ
देहेन्द्रियादिकं यदुपादानतो जातं स बिन्दुरिति गम्यतां ज्ञायताम् । ननु
शिवे नैव क्षोभ्यतां किं कर्त्रन्तरेण । सत्यम् । दृष्टवददृष्टकल्पना ।
यथा भूमण्डलेशो नृपतिरन्तरं दुरगं [[१४४]] त्यपुरोहितादिप्रकृति
वर्गं स्वयमेव कुर्वन्दृश्यते । बहिरङ्गमात्मकल्पामात्यादि
प्रेरणेनैवेत्येवमत्रापि श्रुतेरविरोधः । तदुक्तं किरणे -
शुद्धध्वनि शिवः कर्ता प्रोक्तानन्तासिते प्रभुरिति ।
ननु कल्पना लाघवात् । सतु भवतु विनिर्द्धूत तनुः तन्न प्रयोज्य कर्तुः
कुलालादिवत् शरीरादि सिद्धेः । ननु सतु भुवन् स्वतन्त्रः । क्षोभकर्ता
तदयुक्तन्तस्या व्याप्यन्तरङ्ग बहिरङ्गोत्यनवस्था प्रसङ्गात् । किञ्च
माया प्रयोज्य कत्रा क्षोभ्य अशुद्धत्वात् मृदादिवत् परिणामवत्वे सति
जडान्तरे व्यात्पत्वादपि तदुक्तम् । रत्नत्रये -
माया जडान्तर व्यात्पा परिणामवती च यत् ।
[[१४५]]
निष्पादने कलादीनां शरीरादि समन्वितम् ॥
पुरुषं गमयेदेव पराधीनमसंशयम् ।
सुवर्णमिव कर्मारं मकुटोत्पादकर्मणि ॥ इति ।
ततो यथा गलूचिर्मूलतो विच्छिन्नोपि स्थानविशेषमाश्रयाश्रित्य पुनः
पुरोहति तथा विच्छिन्नमान्द्यपाकमलादि पाशत्वात् । विच्छिन्नापि
शुद्धविद्या अनन्तस्य मलवासना । समुत्थाधिकार
मलनिबन्धनाधिकारलक्षणस्थान विशेषमाश्रयमाश्रित्य
शरीराद्यात्मना पुनः प्ररोहं याति सर्पेण कालतोदष्टः प्रक्षुणकर्मापि
यथा मन्त्रशक्त्या धृत देहश्चिरन्तिष्ठति । तथा प्रक्षीणकर्मापि
अधिकाराख्येस्वरशक्ति शक्तिथ्याधृत देहोनन्ताधिकारमनुतिष्ठति । शुद्ध
[[१४६]]
योनिमयिस्थूल शिवत्वव्यक्तिकरी तत्तनुर्न्नतत् प्रतिकूलविधात्री । अस्तु वा
मोहिनीसर्पं स्वशरीरस्थं सर्पान्तरं प्रतिसूत्रान्तं वा विषमिव
भगवन्तमनन्तन्नबाधते । यथा च प्रक्षीण मलकर्मद्विबन्ध
श्रीकणादिकं स्वमायामयी तनुर्नबाधते । तथेति च न काचित् क्षतिः ।
कुतोविलक्ष्यत इति आह -
किञ्च शब्दानुसन्द्धाः जायन्ते प्रत्यया नृणाम् ।
नह्यकारणकाश्शब्दास्सम्भवेयुः कदाचन ॥
तेषां यत्करणं विप्राः सबिन्दुर्बहुवृत्तिकः ।
किञ्च नृणां प्रत्ययाः कथं घट इत्यादि परामर्श रूपबोधाः
शब्दानुसंविद्धाश्शब्दोल्लिखिता जायन्ते । हे विप्रास्ते शब्दाः वर्णरचनादि
लक्षणत्वात् कदाचन [[१४७]] वह्यकारणकास्सम्भवेयुः । तेषां यत्
कारणं स बहुवृत्तिकः अमितकार्य व्यक्तिमान् बिन्दुः कैश्चित् साङ्ख्यादिभिः
कार्यद्वारा स्थूलशब्दोपादानं शब्दतन्मात्रन्तदितरैर्-
आकाशान्तदुपादानं तदपरैः पुरुष समवेतिनी तु वागिति तदन्यैः तदीय
क्रियाशक्त्यवस्था॥षेति चोच्यते । तदिदं प्रतिक्षिपति ।
न चात्र शब्द तन्मात्रं तत्तेषां व्यञ्जकं यतः ।
यद्व्यञ्जकं न तद्व्यङ्ग्यं सुप्रसिद्धातयोर्भिदा ॥
अत्र वर्णलक्षणशब्दकार्ये शब्दतन्मात्रं सूचितध्वनिलक्षणमात्र
शब्दकारणत्वां न कारणम् । शब्दादाकाशादि गृह्यते कुतः यतः ततः
तत्तन्मात्रं कार्यद्वारा तेषां वर्णलक्षण शब्दानां व्यञ्जकं (प्।
१४८) प्रकटकारकम् । श्रोतृ ग्राह्य शब्द आकाशवायुवादिभिरभिव्यक्त-
स्थूलवर्णध्वन्यात्माना जयते । तदुक्तं -
आकाश वायुप्रभवश्शरीरात् समुच्चरन्वक्रमुपैतिनादः ।
स्थानान्तरेषु प्रविभज्यमानो वर्णात्वमागच्छति यस्सशब्दः ॥
इति । यद्वञ्ज्यकन्तत् स्वान्याभिव्यञ्जक व्यञ्जन वनादिकं न व्यङ्ग्यं न
व्यङ्ग्यरूपेण जायते व्यङ्ग्याग्नियादेस्तृणादिर्गताग्नि परमान्वादिना
तादात्म्याभिसम्बन्धितया जायमानत्वात् । ततस्तयो व्यञ्जक व्यङ्ग्ययोः
भिदाभिन्नता सुप्रसिद्धा । पुरुषस्य तच्छक्तेर्वा विकारित्वात् नोपादानत्वम् ।
तदुक्तं नादकारिकासु । अविकार्यत्रात्मोक्तस्तच्छक्तिश्चाप्यतो न योग्यौ तौ ।
बहुधास्थातुम् । यद्वा चैतन्य विनाकृतौ विकारित्वात् इति । इतोपि लक्ष्यत इत्याह -
[[१४९]]
किञ्चोर्ध्व भावितत्वेषु विकल्पाः प्रत्ययाः कथम् ।
जायेरनु बिन्दुवैचित्र्यम् अन्तरामुनिपुङ्गवाः ॥
हे मुनिपुङ्गवाः । बिन्दुवैचित्र्यं बैन्दव वैश्वर्यादि कार्य
वैचित्र्यमन्तरापि ॥।ढ्वभावि तत्वेषु बुध्यादिषु विकल्पाः । प्रत्ययाः
सविकल्पक बोधाः । कथं केन प्रकारेण जायेरन् भवेयुः ।
नकथञ्चिदपीत्यर्थः । तदर्थं बुद्धिरस्त्वित्यत आह -
सर्ववादिषु संसिद्धा बुद्धिरध्यवसायिनी ।
नस्यादध्यवसायोपि विनाशब्दानुवेधनम् ॥
सर्वादिषु साङ्ख्यादिषु अध्यवसायिनीग्रासविषयकेल्पभूमिका
ज्ञानव्यञ्चिका सती बुद्धिः सिद्ध । यद्यपि शब्दानुवेधनं [[१५०]]
शब्दोल्लेखनं विना पुरा केवलया बुध्या अध्यवसायः रूपरसाद्यर्थ
ज्ञानभूमिभूतपरामर्शानुसन्धानमप्यर्थवाचकत्वेन
कैश्चिदभीप्सितमनसान्नभवेत् । तथा हि बाह्ये चक्षुरादिना विषयभूत
एवार्थे बुद्धिविकल्प स्वभूमिकार्यानुज्ञात व्यञ्जका॥॥॥ वक्तुः (केनापि)
केनापि विषयीभूत एवार्थे स्वपरामर्शने ॥। कानु विधायि ज्ञानव्यञ्जिका ।
अन्यथा सर्वदा सर्वार्थ परामर्शप्रसङ्गात् तस्मात्
रूपरसगन्धादयोर्था येन वक्तृबुद्धिपरामृश्यतां नीतास्स
एवात्रान्तस्सञ्जल्पपश्यन्त्यात्मना । तस्सिद्धः वक्तुर्वक्र गत नादवक्य प्रति
वक्तृगतनादापि प्रतिवक्तुर्वक्त्रच्चरितस्थूलशब्दाभिव्यक्तो
वाच्यबुद्धिञ्जनयति । उपसंहरति -
[[१५१]]
न शब्दप्रभवश्शब्दः तन्मात्रस्य स्थितेरधः ।
तस्माद्बैन्द-एवेष्टः शब्दस्साङ्ख्यात्मनामपि ॥
यस्मात्तन्मात्रस्याध स्थितेः कारणात् शब्दोपवर्णात्मकः शब्दप्रभवः
न शब्दतन्मात्र समुत्पन्नः । ननु तन्मात्रस्य सूक्ष्मदेहवर्तित्वेन
उत्तरत्रापि सम्भवस्सम्भाव्यते । तदयुक्तम् । तस्य सूक्ष्मदेहवत्याकाश
जनकतया इन्द्रियाधारमात्रतया च सिद्धत्वात् । तस्मात्
त्न्मात्रोपरिसिद्धतत्वानां साङ्ख्या एव आत्मनः प्रवर्तकाः प्रमुखाः
येषां पाञ्चरात्रादीनां ते साङ्ख्यात्मानः तेषां
साङ्ख्यात्मानामपि शब्दः बैन्दव एवेष्टः । अपि शब्दात् प्रयोज्य कर्तृणां
सिद्धविकल्पज्ञानत्वात् [[१५२]] अनन्तादेरपि तत् सिद्ध्यर्थं स तन्मात्र
बुद्धेस्तत्र प्रगमा सम्भवात् । न ततश्शब्दसिद्धिरिति तदर्थं बन्दुसिद्धिरिति
गम्यते । शब्दवृतिः प्रदर्शयति -
शब्दाश्चतुर्विधास्तेपि वैखर्यादि विभेदतः ।
वैखरीमध्यमाख्या च पश्यन्ती सूक्ष्मसञ्ज्ञिका ॥
विकल्पज्ञान हेतुत्वे नोक्तास्तेपि शब्दा वैखर्यादि विभागतः चतुर्विधा
चतुष्प्रकाराः श्लोकार्थेन नाम्ना कीर्तिताः । स्थूलारुद्धतीन्यायेन
वैखरीं लक्षयति -
वैखरी श्रोत्रविषया स्थूलवर्णपरिग्रहा ।
स्थानेष्वभिद्धृते वायौ प्रयोक्तुरुपकारिणी ॥
वैखरी स्थूलनादा परनाम्नी प्रायः प्राणवृत्ति निबन्धना सती स्थानेषु
हदयादिषु वा या वभियुते स्थूलवर्णा [[१५३]] परिग्रहा । श्रोत्रविषया सति
श्रोतु श्रोत्रेन्द्रिययस्वाती विकल्पभूमिकबोधे हेतुतया
प्रयोक्तुर्वक्तुरुपकारिणी । मध्यमामाह -
बुध्या वर्णानुसन्धान पूर्वमर्थस्य वाचिका ।
प्राणवृत्तिमतिक्रान्ता वागेषामध्यमाह्वया ॥
प्राणावृत्तिमतिक्रान्ता प्राणवृत्तिनिबन्धन विरहोदानप्रत्युपहिता । बुध्या
वर्णानुसन्धानपूर्वं वर्णानुपातन पुरस्सरः यता भवति तथा
श्रोतुमनुपगम्यार्थस्य वाचिका । गवाद्यर्थ विषयविकपरूपिणी सति वक्तुः
प्रतिवक्तुश्च स्वविकल्पा विविक्त ज्ञानव्यञ्जिका । सैषा वाक् मध्यमाह्वया ।
मध्यमानात्मी पश्यन्तीमाह ।
वर्णरूपानुसन्धान विरहान्तस्समुज्वला ।
मायूराण्डरसोयद्वत् निर्विशेषोर्थधारिका ॥
[[१५४]]
पश्यन्ती वागियं ज्ञेया तृतीया शिवशासने ।
वर्णरूपानुसम्बन्धन विरः । वर्णानां रूपा विभागरूपिणी ।
अन्तस्समुज्वला अन्तस्सञ्जल्परूपिणी। यद्वत् यथा मायूराण्डरसः
नीलपीतादि पक्षतुण्डादि निर्विशेषलक्षणार्थधारकः । तद्वत् तथा
निर्विकल्पज्ञानाभिव्यक्तिका भूत्वा तदविविक्ता खुरकं बलादि लक्षण
निविशेषार्थधारिका निर्विकल्पसत्यपि सविकल्पोद्यागरूपिणी । अपर
विद्वपरनाम्नी शिवशासने ते सयं तृतीया वाक् पश्यन्ती पश्यन्तीनाम्नीति
ज्ञेया । सूक्ष्मान्तदुत्पत्तिक्रमञ्चाह -
सूक्ष्माचिदेकशरणा निवृत्ताशेषशक्तिका ।
वैखर्याः कारणं मध्या पश्यन्ती मध्यमां प्रति ॥
[[१५५]]
पश्यन्त्याः कारणं सूक्ष्मा निर्विकल्पस्वरूपिणी ।
यानि वृत्ता शेषशक्तिका । उपसंहृत समस्तस्ववृत्तिकान्तर ध्वनिरूपा
निर्विकल्पस्वरूपिणी चिदेकशरणा चिदेव चिच्छक्तिरेवैकं शरणमालम्बनम् ।
यस्यास्सा तथोक्ता सेयन्नादापरनाम्नी सूक्ष्मा सूक्ष्मनाम्नीति ज्ञेया ।
चन्द्राग्नि रविसंयुक्ता आद्या कुण्डलिनी तु या ।
हृत्प्रदेशे तु सा ज्ञेया ह्यङ्कुराकरवस्थिता ॥
मात्रकादौ स्थिता या तु सर्पवत् बुद्धकुण्डला ।
करिणी व करं यद्वत् संवेष्ट्यारसिसंस्थितेति ॥
विशति सर्वज्ञानोत्तरेति श्रुतेः । महामाया यथार्थपदार्थो
पादानापेक्षया उपसंहृतकार्यरूपादीक्षायाम् । शोध्य
शिवतत्यसञ्ज्ञिता । हृष्टोत्वलक्षबधभागमपेक्ष्या [[१५६]] तथा कृत
नाम्नी स्वतो भुवनधृत्यक्षमशान्त्यातीत कलाध्वत्वेन दीक्षयाम्
अशोध्या पुनः स्वक्षुब्ध भागमपेक्ष्य शान्तिमस्तकस्थ शान्त्यतीत
भुवनात्म शिवतत्वत्वेन दीक्षायां शोध्या स्थिताः । तथा शब्दपदार्थो
पादानापेक्षया उपसंहृत स्वकार्यरूपा वाक् शक्त्यादि सञ्ज्ञिता
सृष्टौत्वक्षुबधभागमपेक्ष्य तथा कृतनाम्नी स्वतो नादधृत्य
क्षमशान्त्यतीतकला भूत्वा प्रतिपुरुषमभिन्नापि द्वादशान्तादथो
मुखित्वेन ध्येया । तथापि साक्षात् स्वकार्यः प्रतिपुरुषं भिन्नो नादस्तु
नाद इति स्वसञ्ज्ञित स्व विष्फुल्लिङ्ग शिखारूप स्वलीन सूक्ष्मावस्थ
प्रणव पञ्चम शान्त्यतीतकलः । स्थूलाकारो कारमकारप्रणव
शिरोभूषणबिन्दुलक्षण [[१५७]] निवर्ति प्रतिष्ठा विद्या शान्तिकला
शक्तीनां स्वलीनतया सूक्ष्मावस्थारूप चतुष्कलबिन्दु शब्दशब्दित
चतुश्शक्तिसमष्टिमयशक्तिपङ्कजे प्रतिपुरुषं भिन्ने हृदितदीदृश
निवृत्यादि सूक्ष्मपञ्चकलशक्तिव्यक्त्यात्मा स्थितः । नाभेरथसत्व
परिणामक्रमणेन हकारात्मा प्रसादसञ्ज्ञित स्थितः ततस्सामहामाया
शिवनाम नाद स्वकार्यात्मना हृदि ध्येया स्थिता । साधारणान्येव शिव
त्वत्वानि शुद्धस्रोतसां साधारणासाधारण तदुभय लक्षणभुवन
सूक्ष्मस्थूलशरीरत्रियमैक स्वरूपत्वात् । पृथगेकैकं यथोचितम् ।
मन्त्रादीनां स्वोवाध्युपहित सर्वज्ञतादि गुणाविष्कारका साधारण
शुद्धत्रिंशत्कलात्मसूक्ष्मदेहसाधारणा साधारणस्थूलदेह
साधारणभुवनात्मकानिस्युः । [[१५८]] तदुक्तं गुरुभिस्सिद्धान्तार्थ-
समुच्चये । शुद्धत्वात्वेकरूप एवेति मतङ्गवृत्तौ च । वर्णभुवनैस्सहास्य
कार्यकरणादेरपि तेन तत्वधर्मेण विशुद्धविवेकात्मना अद्वितत्वादेकैव
शुद्धविद्याकारं सिध्यतीत्युक्तम् । सकलानान्तु नादबिन्द्वादि द्वारामायीय
सूक्ष्मदेहाङ्गभूतानीति साधारणशिवसञ्ज्ञित स्वभुवनात्मिकैव
महामाया स शक्तिमेषा शिवमेषबिन्दुमित्युक्तसूक्ष्मदेह शुद्धौ
स्वाक्षुब्धभाग स्वात्मनिलीनाभाव्या च । ततः
प्रागपिसूक्ष्मदेहानुबन्धात् बिन्दोः । प्रथम प्रसर स्वरूप
नादानुबद्धः। तदनु शुद्धतत्वैर्न्नदादिद्वाराधिष्टित
सूक्ष्मदेहानुबद्धस्सूक्ष्मदेह प्रगमाविधि सूक्ष्मदेहान्तमभिव्यक्त
[[१५९]]
दृक् क्रियामात्रः पुरुषः तत्र हृत्पङ्कजे भ्रमरवल्लीनो भवति ।
तदुक्तं शक्तिचतुष्टय पङ्कजमध्ये पुरुषोऽकिरिव(?) लीन इति ।
शरीरन्त्रिविधं प्रोक्तं स्थूलं लिङ्गं परं स्मृतम् । इति ।
स्थूलं भूतशरीरञ्च सूक्ष्मं पर्यष्टकं भवेत् ।
परं बिन्दुसमुत्पन्नं त्रिविधं सुमुदाहृतमिति च ॥
मतङ्गे अ - शिवाद्यवनिपर्यन्तं योयमध्वाति विस्तरः ।
स सर्वश्च चितोज्ञेयो ना शिवत्वाद्विमुच्यत ॥ इति
किञ्च अपान वृत्युपब्रंहिता यः क्षीणो दक्षिणप्राणहंसो नादो
नाभेरयस्तादाधार शक्तौ कुण्डलिन्यां - यंयाति । प्राणवृत्युपब्रंहित
तिर्यगूर्ध्वक्षीणवाममध्यः प्राणहंसो नादोथवा प्रासादकलात्मा
वा नासाग्रब्रह्मरन्ध्राभ्यां पृथगारभ्य द्वादशान्तात् अथोवर्तिन्यां
[[१६०]]
कुण्डलिन्यां लयं याति । चतुष्कलप्रणवावतीर्ण स्वासनत्रिकल
प्रणव व्याप्त पत्म लक्षण स्वकन्दनाल ग्रन्धिपत्मदलकर्णिकालक्षण
क्षित्यादि सदाशिवान्त तत्वगर्भ शिवासिनी कृताधिदैविकां
शस्वासनीकृताकृताध्यान्तिकां शकर्णिकासुषिरस्थ चतुष्कलबिन्दुकलामय
सूक्ष्मदेहभागत्वात् तदुपर्याधिदैविकाध्यात्मिकांशाभ्यां
स्थूलसूक्ष्मात्म शिवदेहस्य देहसिध्यर्थमिन्धिकादि सत्यं
शव्यापिन्यन्न्तस्थूलदेहरूप शिवांश व्यापिन्यादि
समानान्तसूक्ष्मदेहरूप सदुन्मनामात्र परदेहरूप प्रणवपञ्चम
कलागर्भशान्त्यादि कलायां नादशिखायान्निष्कल महामाया
मात्रलक्षण सूक्ष्न्देहे योजितात्मा विशेषनिर्वाण [[१६१]] दीक्षानुक्रमेण
नादकलानुविधायिभिस्वारूडाभिश्शिवकलाभिश्शिवोहं भावना समुत्थ
शिवकलासदृशीभिस्वशिवकलाभिश्शिबिकरणपूर्वं शिवान्तर्यजनाय
प्रणवशिखाध्वनि कलितः पुनः स्थापनीयः दीक्षितश्शिवसमपर
शिवत्वाभिव्यक्तेर्भवितव्य परमात्म पूर्वशिवो यद्यप्यधुना वक्ष्यमाण
भूतादि तदेतन्नादाद्युपाधिना किलभूतात्मान्तरात्मेत्यादि
सञ्ज्ञितस्सुपरिज्ञेयोनेकधैकोपि स्फटिकवत् भासते । तदुक्तं सर्वज्ञानोत्तरे -
भूतात्मा भूतसंयोगात् तत्वात्मा तत्वसंस्तितः ।
मन्त्रात्मा मन्त्रमयो ज्ञेयोन्तरात्मा गिरान्वितः ॥
भोक्ता तु सुखदुखानां प्रकृतिस्थो गुणान्वितः ।
[[१६२]]
जीवस्तु जीवनन्तेषाम् एभिर्मुक्तः परस्तु स इति ॥
सतु पुनस्सह भूतोप्यहङ्कारोस्य प्राणपद इव नादपदे प्रगमा
सम्भवात् । केवलया स्वक्रिया शक्त्या प्राणगमागमेन सह हंस हंसेति
सूक्ष्मान्तस्सङ्कपात्मना हंसवर्णसञ्ज्ञां नादं समुच्चारयति । तं
विविक्तस्सन्योवेत्ति स परमुक्तो भवति । समुत्पत्तिक्रमार्थस्सुकर इति न लिख्यते ।
व्यवस्थितिन्दर्शयति -
एताश्च वृत्तयोणूनां चतश्रः प्रत्ययात्मिकाः ।
अन्तरेव स्थितास्तिस्रो बहिरन्या व्यवस्थिता ॥
अत्र प्रक्रमे वृत्तिशब्देन कार्यमुच्यते । अणुनामात्मनां प्रत्ययः ।
ज्ञानमात्मा स्वरूपं साक्षात् स्वकार्यद्वारा वा स्वाविकल्पाविकल्पौ
विविक्तं स्वव्यङ्ग्यत्वेन या सान्तास्तथोक्ताः । [[१६३]] तासां मध्ये तिस्रः
मध्यमादय उच्चार्यमाणा अन्तरेवस्थिताः । अन्या वैखरीबहिर्व्यवस्थिता ।
वर्णात्मकोच्चरित प्रध्वंसित्वात् । क्षीणसमय इत्यर्थः । तास्सर्वे
समुच्चरन्तीत्याह । -
आगोपालाङ्गनाबालाः म्लेच्छाः प्राकृतभाषिणः ।
अन्तर्जलागतस्सत्वास्तेपि नित्यं ब्रुवन्ति ताः ॥
प्रसिद्धा गोपालादयश्च । गां सदाशिवोक्तिं शास्त्ररूपां पालयन्तीति
गोपालाः । अनन्तादयः अङ्गनास्सप्तकोटि सङ्ख्याता विद्याः बाला
मण्डल्यादयो परमन्त्रेशाः म्लेच्छास्साञ्जनागहनेशादयो भुवनेशाः ।
प्राकृतभाषिणः गुणतत्वस्था योगिनो बुद्धितत्वस्था
देवयोनयश्चान्तर्गताः ब्रह्माण्डान्तस्थाः ब्रह्मादयः जलगताः [[१६४]]
जलाद्यावरणस्थाः पञ्चाष्टकरुद्राः सत्वाः तत्तत् भुवन निवासिनः तेपि
तदन्य शुद्धाः शुद्धभुवननिवासिनस्सर्व एवात्मनश्च तावाचः
निकृंसदा ब्रुवन्ति उच्चरन्ति । अर्थ द्वयोक्तिस्सूत्रस्य सूचनारूपत्वान्न
विरुद्यते । नचाशुद्धस्य शुद्ध इव शुद्धस्याप्य शुद्धे ध्वनि
अप्रगश्चेत्यात्याशङ्कनीयम् । ईश्वरेण व्यभिचारात् । तस्य हि यथा
प्रतिपुरुषं भोगमोक्षलक्षण कार्यान्यथानुपपत्यात्र
प्रगमस्सिद्धस्तथास्यापित्यविरोधः । अन्तरङ्गा सताः इत्याह -
आभ्यो न परमो बन्धः आभ्यो मुक्तिस्तु नापरा ।
तन्निवृत्या विना भूतो दृक् क्रिया वारकोयतः ॥
आभ्यश्च तस्रः परम उत्तरत्र शेषभूतो न बन्धः । [[१६५]] आभ्यो मुक्तिस्तु
परमा नापरा परमा कुतः । यतः यन्निवृत्या विनाभूता मायादि बन्धाः
। स दृक् क्रियावारकोमलः । तन्निवृत्या विनाभूतः । तासां वाचानिवृत्या
मुक्त्या विना शून्येन भूतः जातः विज्ञानप्रलयाकलेषु च
वागनुक्तीर्णत्वेन भविष्यत् वाक् बन्धयोग्यत्वात् । यत्रमलस्तत्र वाच इति
व्याप्तेः । नहि यत्र वाचस्तत्र मल यति शुद्धा ध्वनि वासिभिर्व्यभिचारात्
मलाद्विमुक्तस्य वाङ्मुक्त्यन्तर सम्भवात् । नहि मलान्मुक्तिः परामुक्तिः
विवेक्तुन्ता अशक्या इत्याह -
विविक्तां मन्वते तेभ्यः पुद्गलास्वान्न कुत्रचित् ।
दुःख्यहं सुख्यहं चेति मतिर्या शब्द ताडिता ॥
पुद्गलाः पुरुषाः दुःख्यहं सुख्यहञ्चेति शब्दताडिता [[१६६]]
शब्दोल्लिखिता या मतिज्ञप्तिं तां स्वां स्वकीयां मतिञ्चिच्छक्त्यर्थ
क्रियान्तेभ्यः शब्देभ्यः विविक्तां विभिनां कुत्रचित् न्वतेन विचिन्त्यजानन्ति ।
तैस्सहान्तरङ्ग सान्निध्यात्तद्रूपेन भातीत्याशयः । ये विविक्तां विदन्ति
परमुक्तिभाजस्ते महामाया पुरुषविवेकस्य दीक्षयाविच्छिन्न मलानाम् एव
सिद्धेः प्रकृतिपुरुषविवेकेन तदूर्ध्वभुवन स्थितिः । तदनुरूपसंस्कार
सहकृत मायापुरुषविवेकेन विज्ञानकैवल्यं दीक्षा सहकृत
मलपुरुषविवेकेन शुद्धाध्वनि स्थितिः । दीक्षा सहकृत महामाया
पुरुषविवेकेन परामुक्तिश्शिव साम्यरूपा सम्भवति । कोकिलवायसादि
शब्दितशब्द तारतम्यमिव शुद्धशुद्धाशुद्धाशुद्धाध्वत्रय [[१६७]]
निवासिनां शब्दतारतम्यमाह -
सूक्ष्माश्शुद्धाध्वनिगिरः स्थूलामिश्राध्वनिस्थिताः ।
अशुद्धाध्वनिता वा च स्थिता स्थूलतरास्सदा ॥
श्लोकार्थस्सुकरः । सभुवनशक्ति स्वभुवन व्यक्त्यात्मना सादाशिव
भुवनादूर्ध्वं भुवनपरिणामामात्मिक भूत्वा तत् भुवनशक्ति
स्वात्मना यो यो व्याव्यतत्वादि शुद्ध शुद्धाशुद्धाशुद्धाध्वधारिका
अन्या वृत्तिपरिणत्योरत्यन्तभेदा भावात् । शान्त्यादिभुवनात्मातु परिणाम
इत्युक्त वृत्तिपदोपलक्षित परिणतयस्सन्तीति । ताश्च तथार्थरूपाः कलाः ।
यथा पुरोक्तास्सूक्ष्मादयश्शब्दरूपाः । कल्वतदुभयात्मा
बिन्दुरित्युक्त्वापोत् बलयति -
[[१६८]]
अन्याश्च वृत्तयो बिन्दोः निवृत्तादि कलात्मिकाः ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ॥
शान्त्यतीता च पञ्चैताः शुद्धमार्गे पुरात्मिकाः ।
मिश्राशुद्धाध्वनोरेताः तत्वाद्याधारिका स्थिताः ॥
वस्तुरूपाः कलाज्ञेयाश्शब्दरूपाः पुरोदिताः ।
शब्दवस्तु भयात्मासौ बिन्दुर्नान्यतरात्मकः ॥
सुगमम् । मृगेन्द्ररत्नक्रिययो भुवनात्माध्वाधारक द्विप्रकारकल्पानां
शान्त्यादि शब्देन पठन निबन्धनं पतेन्ततोवधार्यमिति नात्र लिख्यते ।
पुनस्तत्वात्मकार्याणि चतुष्प्रकाराणि सन्तीत्याह -
वृत्तिस्तत्वात्मिकाचास्य चतुर्थसव्यवस्थिता ।
शिवतत्वं सदेशाख्यमैशं विद्याह्वयन्तथा ॥
[[१६९]]
शुद्धान्येतानि तत्वानि रुद्राणूनां महात्मनाम् ।
विचित्रपुरमालाभि खचितानि महान्ति च ॥
दिव्यस्त्रीभिर्महाश्चर्यै भोगैर्दुःखविवर्जितैः ।
तनु भोगेन्द्रियाद्यैश्च खचितान्युन्नतानि च ॥
स्वान्तभूतशक्तित्वं शिवतत्वमत्र सदाशिव भुवनोर्ध्ववर्ति निवृत्यादि
भुवनात्मकलापञ्चकसमष्टिरूपमेव नान्यत् । एतानि चत्वारि शुद्धानि
तत्वानि रुद्रवदणुरात्मा शिवाद्भिन्नो येषान्ते रुद्राणवः । तेषाम् अनन्तादि
रुद्राणूनां विचित्रपुरमालाभिः नानाकारशान्त्यतीतादि
भुवनपङ्क्तिभिः परस्परघटनाभिः खचितानि घनीकृतानि । तदुन्नत
महत्तर भुवनरूपतया महान्तिचोन्नतानि च । तत्र
स्थिततयानन्तरन्तनवश्शरीराणि [[१७०]] च भुज्यन्त इति भोगास्त्रियादयश्च
इन्द्रियाणि एषां कालादीनाम् आद्यानि तानि इन्द्रियाद्यानि च तथेति
तैस्तनुभोगेन्द्रियाद्यैः दिव्यस्त्रीभिः सुखहेतुभूताभिः दुःखविवर्जितैः
दुःखानुरक्त रहितैः । अत एव महाश्चर्यैर्महदतिशयैर्भागै
सुखमात्रानुरक्तचिदभिव्यक्तिभिश्च खचितानि घटितानि च अनन्तादयो न
वास्तवशरीरिणः । सर्वज्ञत्वात् शिववदनन्तादयो न सर्वज्ञाः
देहित्वाद्देवदत्तवद्वेति केनचिद्धेतुः प्रयुक्तः स इत्यर्थमागमबाधितः
शङ्खो शुचिः प्राण्यङ्गत्वां नरशिरः कपालवदिति कालात्ययवदिष्टस्यात्
। पुनः श्रीकणादिभिर्योगिभिरप्यनैकान्तिकश्च स्यात् । शुद्धयोनिमयत्वात् ।
नासर्वज्ञत्वव्याप्तस्सन्देह इत्यतद्रूपत्वात् । [[१७१]] न सिद्धस्यात् । पुनस्तानि
केषां वा सुलभ्यानीत्या शङ्कायामाह -
भोगाधिकारयोश्शक्तिरभिव्यक्तेह दीक्षया ।
येषन्तेषान्तु भोगार्थं शिवेन परिकल्पितम् ॥
तत्वं सादाशिवन्तद्वत् शिवतत्वञ्च निर्मितम् ।
भोगतत्वे स्थितिर्यस्माद् वस्तुतस्तु द्वयो तयोः ॥
व्यक्ताधिकारं शक्तीनां भोगर्थन्तत्वमैश्वरम् ।
तत्वं विद्याह्वयं किन्तु पुंसां स्थूलाधिकारिणाम् ॥
विद्यानां वेदनेहेतुर्विद्येतिपरिपठ्यते ।
इह मायामण्डले उपलक्षणतया मायोदरे मायोपरीवादीक्षाया
साधिकरणनिरधिकरण शिवकरणीय भूतया येषां परिपक्व मलानां
शुद्धाध्वनि भुवनेश्वरत्वेनेशानादि [[१७२]] शिवमूर्तयः पठ्यन्त इति
भोगाधिकारयोः भोग अधिकारनाम शिवयोस्समाशक्तिः अभिव्यक्ता
समर्थीकृता द्वयो भोगाधिकारलक्षण व्यापारयोः समाशक्ति व्यभिव्यक्ता
तेषां भोगार्थं तदवलम्बन न चिदभिव्यक्त्यर्थं सदाशिवतत्वं
शिवेन परिकल्पितं निर्मायानियमितम् । तद्वत्तथा तदर्थमेव शिवतत्वञ्च
निर्मितम् । नियम्यकृतं शिवतत्वस्यापि पृथङ्नियमनभिदा किमर्थं न
कृतेत्यत आह । यस्मात् कारणात् समनयदृशा शिवत्वस्य लयतोक्तित्वेपि
तत्रान्तरे शान्त्यादि शक्तिकला चतुष्टयस्य भोगस्थानतया श्रुतेः । शिव तत्व
सञ्ज्ञितशान्त्यतीत भुवनस्यपि शान्ति मस्तकनिविष्टत्व श्रुतेरत्र सदाशिव
तत्वस्य भोगतत्वान्तभूतिकोक्तित्वात् । [[१७३]] ईशानतीत्यशान्तान्तं तत्वं
सदाशिवं स्मृतमिति मृगेन्द्रोक्तित्वादपि वस्तुत स्वभावतः । तयोश्शिव
सदाशिवतत्वयोः । द्वयोर्भोगतत्वे स्थितिः । भोगतत्वात्म स्वसमष्टि स्वरूपे व
स्थानं द्वया भोगतत्वे वाचके वाच्यलक्षणस्थितिरिति वार्थ समर्थनीयः ।
अथवा भोगतत्वे भोगतत्वस्सञ्ज्ञिताधिष्ठातरि शिवे त्वधिष्ठेय
लक्षणास्थितिरिति वाक्षरार्थः । ततः तत्वद्वयं तदर्थत्वेन सिद्धमिति
भावः । व्यक्ताधिकारश्शक्तीनां व्यक्ताधिकारावस्थ शिवसमशक्तीनां
यद्वाधिकारकरणक्षमस्व समर्थितशक्तीनां भोगार्थमैश्वरन्तत्वं
नियम्य निर्मितम् । न तावन्मात्रं किन्तु अपितु पुंसान्दीक्षितात्मनां
स्थूलाधिकारिणां स्थूलप्रकारेण व्यक्ताधिकारावस्थ शिवसम [[१७४]]
शक्तीनां भोगर्थं विद्याह्वयन्तत्वं नियम्यनिर्मितम् । ननु शिवस्य
स्वतस्सा पूर्णसर्वकर्तृ शक्तिस्तेषां कर्तृशक्तिः क्रमतः
किञ्चिन्न्यूनभावं भजन्तीति कथं शिवसमशक्तित्वन्तदयुक्तम् ।
अशेषकार्याविष्कर्तुरधिकारसञ्ज्ञित शिवस्य भोगसञ्ज्ञित शिवकृत्य
लक्षणकार्य प्रसवाभिमुखी करणक्षमकर्तृशक्त्यसम्भवात् । भोगस्य
बिन्दुपालकस्य पुनरधिकारावस्थान्तरिताधिकार शिवात्म
स्वात्मनामीशानादि भुवनोपाधिमतः । अथ
स्तनकार्यप्रसवाभिमुखीकरण तदाविर्भावनदद्विकृत्य क्षमकर्तृ
शक्तेस्तस्य भोगस्य लय शिवस्योदासीनत वृत्तिमच्छक्तिर्नहिति? च
सिद्धमसम्पूर्ण कतृशक्ति त्वं ततो सम्पूर्ण कतृशक्तियुक्त तदविशिष्ट
शिवे योजितास्तत् [[१७५]] सदृशव्यक्तिमसम्पूर्ण कर्तृशक्तिमन्त इति न
किञ्चिदसमञ्जसम् । नन्विदं शिवं प्रत्युपचारबीजं सत्यम् । उपचार
बीजं प्रकल्पितपञ्चवक्त्रत्रिपञ्च दृक्मयतनु शिवध्यानात्
ध्यातृणान्तन्मय तनुर्वास्सवेति । तद्वदत्रापीति सर्वमनवद्यन्ततः
परमुक्तानां शिवेन सहाविभिन्नाधिकारित्व श्रुतेस्त्रियवस्थस्त्रियवस्थातीत
चतुश्शिव समशक्तिस्समर्थितेति च गम्यते । तदुक्तञ्चिन्त्य विश्वसादाख्ये -
सकले निष्कले चैव सर्वत्रैव समानता । सायुज्यमिति तत् प्रोक्तं सारूप्यं
मूर्तितुल्यतेति ॥ शिव सदाशिवेश्वर तत्वानां शिवादि स्वसम्बन्धितया
सुकरतया समर्थनीय समासत्वात् शब्दव्युत्पत्तिं विनिवेदयति विद्यानां
मन्त्राणां [[१७६]] वेदने विषयदर्शने तदितदन्तत्वन्तत्व
भुवनद्वियमैकरूपं कार्यकरणादि जननद्वारा हेतुः कारणन्ततो विद्यते
। नयार्थ जातमिति करणव्युत्पत्या विद्येति परिपठ्यते अनेन शब्दमात्रं हि
देवतेति पठन्तः प्रतिक्षिप्ताः तथात्वे फलमपि शब्दमात्रं स्यात् । तदुक्तं
पराख्ये -
शब्दमात्रस्थिते मन्त्रे शब्दमात्रफलं तदा ।
नचार्थरहितश्शब्दः पदवाक्यगतक्रमः ॥
वाच्यञ्च वाचकाद्भिन्नन्देवदत्तादि शब्दवत् । इति ॥
उपलक्षणञ्चैतत् । दीक्षितानामपीति यत आचार्याधिकरणेन शिवेन
दीक्षालक्षण स्व शक्त्याविच्छिन्न मलादिपाशद्वारा शुद्धीकृतानान्तदा
तच्छिव प्रकाशित विवेकलक्षण [[१७७]] तत्वधर्ममात्रादि प्रकाशक
शुद्धविद्यायुक्तानां माया मण्डलमध्यस्थ सकलानां
प्रारब्धभोगनिमित्ता वशिष्टपशुत्व शिवत्वयोर्विवेकाग्निः प्रवर्तते ।
तदुक्तं मतङ्गे -
यदा च निपतेत्तेजस्तच्छिवत्व पशुत्वयोः ।
तदा सीमान्तरं कर्तुमुत्सहेत् साधकं प्रतीति ॥
इत्थमिदन्तत्र मायीय विद्या पटले सविस्तरन्तत एवा वधार्यम् । अशुध्यास्य
शुद्धे प्रगमो नेत्याह -
नैतत्पश्वात्मनां विश्वं शुद्धवर्त्म व्यवस्थितः ।
दुःखसम्पूर्णता हेतोस्तस्मात्तत्वं निबन्धनम् ॥
यथामया तथाचैतच्छुद्धवर्त्मनि बन्धनम् ।
पश्वात्मनान्दीक्षानभिव्यक्त भोगाधिकारशक्तीनां भोगार्थं [[१७८]]
निर्मि॥ट दृश्यमानं विश्वं विचित्ररूपञ्जगत् न शुद्धवर्त्मव्यवस्थितं
शुद्धाध्वनि स्थितमिति न निश्चितम् । दुःखसम्पूर्णता हेतोः दुःख
सम्पूर्णताक्षणहेतोः । ननु कस्या सम्मतमिदन्दुःखरूपेण वा तत्र
स्थीयताम् । तदयुक्तं तस्माददुःखसम्पूर्णता लक्षणविश्वस्य
व्यवस्थितेः । यथा मायातत्वं स्वकार्यान्निबन्धनं नितरां बन्धनम् ।
ततथैतत् भवतापश्वात्म विश्वप्रगम प्रघटिततयोच्यमानं
शुद्धवर्त्म च निबन्धनं नितरां बन्धन स्यात् । केनोक्तन्ननिबन्धनमिति ।
नह्यस्माभिरिति चोदित साधयति -
नैषबन्धो विशुद्धाध्वा भोक्तुरिच्छानुसारतः ।
भोग्यत्वादीदृशं यद्यददृष्टं तत्तन्नबन्धनम् ॥
[[१७९]]
यथा शिवस्य भोगाख्यन्तस्मात्तत्वं निबन्धनम् ।
एष विशुद्धाध्वा न बन्धः भोक्तुरिद्धच्चानुसारतो भोग्यत्वात्
यद्यदीदृशन्दृष्टन्तत्तन्नबन्धनम् । यथा शिवस्य
भोगाव्यक्तत्वन्तस्मादिच्छानुवर्तित्वां निबन्धनं नेति पूर्वेणानुषङ्गः
। अनेन चेत्याह -
किञ्च कर्मान्वया भावात् शुद्धाध्वनो निबन्धकः ।
यत्र कर्मान्वया भावश्शुद्धवर्त्मनि च द्विजाः ॥
भोगेत्रेच्छानुसारित्वात् कर्मनेच्छानुसारतः ।
नाभुक्तं क्षीयते कर्म कल्पकोटि शतैरपि ॥
किञ्च इतोपि शुद्धाध्वा शुद्धवर्त्मनो निबन्धकः । न निबन्धनम् ।
कर्मान्वया भावात् । कर्मजन्यत्वा सम्भवात् । हे द्विजाः यत्र
शुद्धाध्वन्युक्तः । कर्मान्वया भाभावश्च [[१८०]] कुत इति नाशं
कनीयम् । अत्र शुद्धाध्वनिवर्तिनि भोगे इच्छानुसारित्वात् इच्छानुवर्तनात् ।
इच्छानुसारित्वादभावः । कथमिति च नाशं कनीयम् । कर्मकर्मजन्य
भोगः नेच्छानुसारतः । भुक्त दृश्यत इति शेषः । नन्विच्छानुसारतः
क्वचिदत्र मनोभिलक्षितदिव्यस्त्रयादि कर्मजभोगलाभ दर्शनात् । तत्र
तद्रूपस्सकेवलं भुज्यतां नातद्रूपः तदयुक्तम् । अभुक्तं
कर्मकल्पकोटिशतैरपि न क्षीयते । न नश्यते । ततश्शुद्ध्व वर्त्मवर्तिनो
महाप्रलये मोक्षं प्रविशन्तो न प्रविशन्तीति भावः । ऋषयः कथमत्र
कर्ममायत्तं दृशमानं सर्वन्तदनायत्तन्तत्रेत्याशङ्कयन्ति -
कथं कर्मान्वया भाव शुद्धवत्मनिवर्तिनाम् ।
[[१८१]]
शुद्धाध्वनि महाभोगः कर्मनास्तीति चोदितम् ॥
कथन्तद्वर्तिनां भोगः विचित्रस्तद्वदेश्वर ।
हे ईश्वरः । शुद्धाध्वनि महाभोगोस्ति तत्कारणतया दृश्यमानं कर्म
नास्तीति चोदितं प्रशंसितम् । शुद्ध वर्त्मवर्तिनां कथं कर्मान्वया
भावः । अस्तु तथा वा तद्वर्तिनां विचित्रो भोगः कथन्तत्तति तदिदं वद
कथयस्व ईश्वरः -
न कर्मभागवैचित्र्ये कारणं शुद्धवर्त्मनि ।
मलस्य परिपाकोयो विचित्रस्सोत्र कारणम् ॥
शुद्धवर्त्मनि भोगवैचित्र्य कर्मनकारणम् । किन्त्वत्र मलस्य विचित्रोयः
परिपाकस्सकारणम् । ननु प्रत्यात्मनियत परिणत मलशक्तीनां
शुद्धविद्याधोदीक्षाकृत [[१८२]] तुल्यात्यन्त विच्छिक्तेः । कथन्तत् पाकमात्य
वैचित्र्यमवेक्ष्यतदुत्तीर्णाविचित्र शुद्धविद्यादिपदयोजना सत्यम् ।
चक्षुस्सम्बन्धिनी गोलकबृन्दे चक्षुस्सम्बन्धि स्वपाकमाद्य वैचित्र
वशविच्छेद्यमानपटलैस्समाहिताः । पाकमान्द्यतारतम्यानुरूपिण्यः
विचित्रकार्यं कुर्वन्त्यः वासनास्सन्ति यथा तथा विद्याविद्येश्वरादित्वेन
भवितव्यात्मसम्बन्धिन्यां महामायायां विद्याविद्येश्वरादित्वेन
भवितव्यात्मसम्बन्धि स्वपाकमान्द्यवैचित्र्य वश विच्छेद्यमान
प्रत्यात्मनियत मलशक्तिभिस्समाहीता पाकमान्द्य तारतम्य रूपिण्यः
विचित्रकार्यं कुर्वन्त्यः अधिकारमलात्मना समुत्थिर्यमाना वासनास्सन्तीति
न काचित् [[१८३]] क्षतिः । तदुक्तं चिन्त्यविश्वसादाख्ये -
नैष्टिकस्य पराप्राप्तिर्भौतिकस्य विशेषतः ।
मलवासनया तस्य विद्येश्वर पदस्थितिः ॥
वासनापरिपाकेन दीक्षया परमाप्नुयात् । इति ।
ननु रत्नत्रयादौ शुद्धाध्वनि ईश्वर सेवात्मकं कर्मचास्तीति श्रूयते ।
सत्यम् । विदेह विज्ञान केवलानान्दीक्षानन्तरं शुद्धाध्व गतेः प्राक्
शुद्धकर्मानुष्ठानामिति तदनुष्ठातॄणां भौतिकदीक्षा भाजामपि
मलपाक वैचित्र्यमनपेक्ष्य न भोगदात्र तदिति न
सार्वत्रिकमित्यप्रधानमित्यविरोधः । तदनुरूपगतिन्दर्शयति -
यस्य प्रकृष्टस्तप्ताको भोगतत्वे स भोग भुक् ।
इतरस्त्वीश विद्याख्यस्तत्रयोर्भोगभाक् भवेत् ॥
[[१८४]]
किं कर्मणात्र विप्रेन्द्रा यत्रेच्छा भोग इष्यते ।
सूत्रार्थस्सुकरः । ऋषयः यद्येवमस्तु विज्ञाना कलेषु न भावनीयः
परिपाक इत्याशङ्कयन्ति ।
भवेदेवं मलस्यास्य परिपाको भवेत् स्वतः ।
भोगेन तु विपाकोस्य भोगोना कर्मणा स च ॥
अस्य मलस्य परिपाकः स्वतः कारणान्तरनिरपेक्षया भवेत् । यदि स्यात् तदेव
मुक्तप्रकारेण कारणं भवेत् । न च स्वतस्सम्भवतीति वाच्यम् । नामिश्रं
परिणमत इति न्यायेन भोगेनास्य मलस्य विपाकः सभोगश्चानाकर्मणा
कर्मणाविना न जन्यते । तत्तत्र नास्तिहीति भावः । ईश्वरः -
विज्ञान योग सन्यासैः भोगाद् वा कर्मणः क्षये ।
[[१८५]]
तत्कर्मायत देहादेः क्षयात्तद्भोक्तृता क्षयः ॥
मलोपि पक्व एषो स्मात् सहकारि वशाद्विजाः ।
हे द्विजाः । मायापुरुषविवेकरूपादि लक्षणविज्ञानयोग सन्यासैः
कर्मक्षयफलजननो पक्षिणैः । भोगद्वा तादृशात्कर्मणः क्षये तत्
कर्मायत्त देहादेः क्षयात् तत् भोक्तृता क्षयः तदायत्तभोगनाशो भवति ।
वस्त्रगतदोषे प्राग्विमिश्रित स्वनिवृत्यनुपदात् । पूर्वं स्वनिहित वासन भस्म
गोमय प्रलय लक्षणात् सककारि वशात् स दोषः पक्वो यथा भवति तथा
मलेपि प्राग्विमिश्रित स्वनिऋत्यनुपदात् पूर्वं स्व फलन्देहभागद्वारा
स्वनिहित वासनकर्मप्रलयलक्षणादस्मात् सहकारि वशात् स एष मलोपि पक्वो
भवति । तदिदं [[१८६]] किरणवृत्तौ सविस्तरं तदुक्तञ्च तदन्यत्र
कलाद्याया तनुस्सूक्ष्मामलपाकविधायिनीं स्ववासनां मले कृत्वा
प्रयाति प्रलयन्तथा । यथा वस्त्रमले नैजगोमयादि व्ययस्तत इति । समत्वे
शिवः किं कुर्यादित्यत आह -
परिपाकस्समस्तेषां सर्वेषामपि शङ्करः ।
स्वेच्छयैवाधिकारेषु विचित्रेषु नियोजयेत् ॥
स्वेच्छैवकरणन्तत्र वैचित्र्ये कर्म न द्विजाः ।
नैवेहशम्भोर्नैर्घृण्यं भवतीह कदाचन ।
सर्वेषान्तेषां विज्ञानकेवलेषु शुद्धवर्त्मगमनयोग्यानां
परिपाकस्समोपि शब्दः गिरिमभिशिरसाभिन्द्यात् इति वत् सम्भावनार्थः
शकर स्वेच्छयैव स्वकीय नियमलक्षणेच्छाशक्यैव विचित्रेष्वधिकारेषु
भोगविषयेषु [[१८७]] नियोजयेत् । हे द्विजाः । तत्र वैचित्रे स्वेच्छैव
कारणन्नकर्मशम्भोः कदाचनेह भोगवैचित्र्ये पुनरिह योजनाविषये
नैर्घृण्यन्निर्गतकरुणत्वन्नभवति । कुत इत्यत आह -
दुःखेषु हि नियुञ्जानः निर्घृनोना परत्र च ।
शुद्धाध्वनि सुखात्मैव भोग एवं समुद्धृतः ॥
दुःखेषु निमित्तान्तरमन्तरेण नियुञ्जानः प्रेरयन्निघृण इत्युच्यते । न तथा
अपरत्रसुखे नियुञ्जानः शुद्धाध्वनि एव मुक्तप्रकारेण समुच्छ्रितः ।
समुन्नतीकृतो भोगस्सुखात्मैव न तस्य दुःखलक्षणत्वं सम्पाद्यम् ।
उपसंहरति -
इच्छानुल्लङ्घ्यमहिमा महेशस्य महात्मनः ।
[[१८८]]
कर्मादिनैरपेक्ष्येण मलपाकानुसारतः ॥
अनुगृण्हाति विज्ञान केवलानपरानपि ।
महात्मनो महेशस्य इच्छा अविलङ्घ्य महिमा अनतिलङ्घ्य प्रभावा ततः
सकर्मादि नैरपेक्ष्येण मलपाकानुसारतः । मलपाक
वैचित्र्यानुवर्तमानात् विज्ञानकेवलानपरान् सकलप्रलय केवलानपि
अणुगृण्हाति । भुक्तिमुक्ति व्यक्तिर्विदधाति । एतदभ्युपगम्य ऋषयः शङ्कयन्ति -
अध्वायं भोग्य उद्दिष्टो भोगो रागादिभिस्थितः ।
अत्रतेषामभावेन कथं भोगो महेश्वरः ॥
अयं शुद्धाध्वा भोग्य उददिष्टस्तद्विषयभोगश्चिद्व्यक्तिः । अलोद्वलित
चैतन्यो विद्या दर्शितगोचरः । [[१८९]] रागेणरञ्जितश्चेत्यादि श्रुते
रागादिभिस्थितिः । रागादिभिर्व्यङ्ग इति निश्चितः । हे महेश्वर । कर्तृ शुद्ध
वर्त्मनि तेषां रागादीनाम् अभावेन कथं केनप्रकारेण
भोगश्चिदभिव्यक्तिर्भवति । ईश्वरः -
अत्रापि कालमुख्यानि सन्ति तत्वान्यथोन्यथो यथा ।
किन्तु तान्यत्र शुद्धानि बैन्दवानि द्विजोत्तमाः ॥
अत्रापि सुद्धवर्त्मन्यपि कालस्यापि भोगावच्छेदकत्वेन हेतुत्वात् । यदाहुः -
चिरेण बत लब्धासि नजाने करवाणिकिम् ।
प्रविशामि किमङ्गेषु पिबामि निगरामिति ॥
कालो मुख्य प्रमुखो येषां कलादीनां तानि कालमुख्यानि तत्वानि तथा
सन्ति । यथा स्व स्व कार्यान्यथानुपपत्याधो [[१९०]] मायामण्डले सिद्धानि
सन्ति । किन्तु सन्त्यप्यत्र शुद्धवर्त्मनि तानि बैन्दवानि शुद्धानि । ऋषयः ।
कलादि योगात्तद्वश्यत्वमस्तीति चोदयन्ति -
कलादितत्वसंयोगात् सकलत्वमणोस्थितम् ।
तेषामद्भाव सद्भावे सकला अकला अपि ॥
कलादितत्वसंयोगात् कलादितत्वभोजक भोक्तृत्व बुध्यादि भोजक भोक्तृत्व
भोग्य भोक्तृत्वद्विलक्षण स्वरूपसम्बन्धादणोरशुद्धवर्त्मवर्तिनस्-
सकलत्वं कलावश्यत्वं स्थितम् । सिद्धम् अत्रापि तेषां कलादीनां
सद्भावे स्त्वित्वे विज्ञानादिभिरकला अपि दीक्षा पूर्वन्तत् बैन्दवकला योगात्
सकलाः कला वश्या [[१९१]] भवन्ति । ईश्वरः -
तेषां कलादि योगेपि पारतन्त्र्यं कृतन्नतैः ।
विज्ञानकेवलास्तस्मात् सकला अकला अपि ॥
तेषां शुद्धवत्मवर्तिनां कलादियोगेपि न तैः पारतन्त्र्यं वश्यत्वं
कृतम् । मायीय कलाकलितमाया गर्भाधिकारिभिः । अनैकान्तिकत्वादिति भावः
। तदुक्तं कलायोगेपि नो वश्याः कलानां पशुसङ्घवदिति । विज्ञान
केवलाः परि - क्वे मले शिवक्र्त दीक्षातस्थूलसूक्ष्मशिवत्वाभिव्यक्त्य
परशिवसञ्ज्ञाभ्यां पिहितकैवल्य लक्षण पशुत्व विज्ञान
केवलसञ्ज्ञास्सकला अपि शुद्धकला कलिता अपि तस्मात् तत् कृत पारतन्त्र्या
भावात् । अकलानकलावश्याः परीक्षितवदार्थोपसंहाराय [[१९२]]
परीक्षितव्य पदार्थोपक्रमाय च श्लोकः -
एवं बिन्दुस्समासेन व्याख्यातो वृत्तिभिस्सह ।
मायाख्यमपि विप्रेन्द्रा श्रुणुध्वं युक्तिभिस्सह ॥
स्पष्टो श्लोकार्थः ।
इति पौष्कर ज्ञानपादवृत्तौ द्वितीयः पटलः ॥
[[१९३]]