१ पति-पटलः

[[१]]
हरिः ॐ

पौष्करवृत्तिः

गणेशं सानुजं साम्बं शिवं वागीश्वरीं गुरून् ।
प्रणम्य पौष्करीं व्याख्यां विद्यांशान्तु करोम्यहम् ॥

अथ सशिव स्वतश्शिवङ्कर स्वशिवत्व तिरस्कतृमलरूङमतां मुक्तये
ततस्सुपायमबिन्दुतां पुंसामपरिर्णते मतिमलेऽनुग्रहार्थं
पञ्चमन्त्रतनुः श्रीमान् परमेशः पारमेश्वर नाम गीतन्तन्त्रम्
अनुष्टुप् छन्दसा कोटिसङ्ख्यया निबद्धा विद्या
राजाधिराजस्यानन्तस्योपदिष्टवान् । तदनु हि तेन तदिदं लक्षसङ्ख्यया
सङ्गृह्य श्रीमत् श्रीकण्ठायोपदिष्टम् । तेन सङ्क्षिप्य पुनः पौष्कर
नाम्ना पीगीतं तदुपदिशतः श्रीकण्ठपरमेश्वरात् सनकादयो ऋषयः
क्रियाचर्याख्यपादद्वयमुपश्रित्य [[२]] सुनिर्वर्तनीयमधुनास्ति हि
ज्ञानपादेनेति । षट्पत्यादि पदार्थ स्वरूपणात्मकं
ज्ञानपादमुपश्रोतुकामा गुरोरामन्त्रणं स्तुतिरूपमेव मङ्गलकरमिति
मन्यमानास्तदाभिमुख्यं समपादयन्तस्तथा तमामन्त्रयन्ति ।

भगवन्देव देवेश ब्रह्मविष्णिन्द्र नायक ।
आपिङ्गलजडाचूडा रोपितार्द्धेन्दु शेखरः ॥

व्याघ्रचर्म परीधान तदूर्ध्वं व्याल बन्दन ।
नित्यं शत्रु मृगानीक सेव्यमान दयानिधे ॥

ललाटनेत्रसप्तार्चिर्दग्ध त्रिपुर मन्मथ ।
अम्भोधि मथनोद्भूत विषनीलित कन्धर ॥

भगवन्निति - भगः अभिव्यक्त शुद्ध विद्यालक्षणा [[३]]
सर्वज्ञानलयान्तस्समुज्वल तनुत्वात् सर्वज्ञत्व ब्रह्माण्डान्तरित
सर्वकर्तृत्वात्मकमैश्वर्यं तदस्यास्तीति तथेति । तथा भूतस्यामन्त्रणं
निरतिशयाचिन्त्याणिमादिकमस्ति । यद्यपि शिवत्व व्यक्तिमति श्रीकण्ठनाथेन
श्लाघनियन्तदित्युपेक्षितम् । यद्यपि पुनः

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इति श्रुतिः ॥

भग शब्दस्य षडर्थ वाचकत्वेन वर्तमानत्वात् अस्मदादीनामिदम्-
अन्यतमस्य वैराग्य ज्ञान सम्पन्नस्यामन्त्रणं स्यात् । अतस्तदिदन्देवेति ।
शिवत्व लक्षण तेजसा देवनशीलत्वाद्देवः । तथाम्भूतन्तस्यामन्त्रणम् ।
यद्यपि पुनर्देवशब्दस्यानियम वृत्तित्वात् [[४]] स्वलोक
निवासिनामिदमन्यतमस्यामन्त्रणं स्यात् । अतस्तदिदन्देवेशेति । देवानामीश
आज्ञापकस्स तथोक्तः तथा भूतस्यामन्त्रणम् । यद्यपि पुनस्तत्वमस्तीति
स्वयम्भ्वादिनामिदमन्यतमस्यामन्त्रणं स्यात् । अतस्तदिदं ब्रह्मेत्यादि
ब्रह्मविष्ण्विन्द्राणां नायको नेता तथोदितस्तथाभूतस्यामन्त्रणम् ।
यद्यपि पुनरविभागेन देवदेवाः कुबेरादयस्सप्त-ईशो महेश्वरो
ब्रह्मविष्ण्विन्द्राश्च श्रीमन्मृगेन्द्राद्युक्तवत् स्वस्व शिखरेषु नायकत्वेन
यत्र विद्यन्ते तथोदितस्स महामेरुः । तत्र भगवच्छब्द प्रवृत्तेरपि सम्भवात्
। देवतात्वेन तदर्हत्वात् तथा भूतस्यामन्त्रण द्वयं स्यात् ।
अतस्तदिदमापिङ्गलेत्यादि । आपिङ्गला आसमन्तात् [[५]] पीती भूता
जटानाञ्चूडा बन्धः कबर्द इति यावत् । तत्रारोपितमर्धमिन्दोरर्द्धेन्दु
तदेव शेखरं शिरोभूषणम् । अथ च पुनरापिङ्गल जडाचूडा इव
चूडास्तदुपलक्षितानि शिखराणि यस्य स तथेति तथा भूतं
तस्यामन्त्रणमिति च अभिनव कविभिरौन्नत्य सूचनार्थमारोपितो मेरोरर्धो
यस्य सः आरोपितार्धः इन्दोश्शेखरं शिरोभूषणं यस्य मेरोस्स तथेति
तथा भूतस्यामन्त्रणमिति च । पुरोक्तस्यैव मेरोर्विभज्यामन्त्रणद्वयं
स्यात् । अतस्तदिदं व्याघ्रेत्यादि व्याघ्रस्य चर्म यदजिनन्तदेव परिधानं
वस्त्रं यस्य स तथोक्तस्तथा भूततन्तस्यामन्त्रणम् ।

अपि च पुनर्मत्वर्थीधो च प्रत्यय इति कृत्वा व्याघ्राः [[६]]   

पुण्डरीकाश्च चर्ममपरिधानाय नीश्वराश्चात्र विद्यन्त इति स तथेति
तथाभूतं पुरोक्तस्यैव मेरोरामन्त्रणं स्यात् । अतस्तदिदन्तदूर्ध्वं
व्यालबन्धनेति । तस्मादजिनाम्बरादूर्ध्वमुपरि तदूर्धं व्यालस्य
सर्पस्य बन्धनन्निबन्धनम् । यस्य स तथोक्तस्तथा भूतन्तस्यामन्त्रणम् ।
तथापि पुनस्तस्मात् प्रागुक्त यति निवासस्थानादूर्ध्वन्तदूर्ध्वन्त्रिपुर
दहनार्थन्धनुर्भूतीकर्तुं ज्यारूपीकृतस्य व्यालसय
बन्धनन्निबन्धनं यस्य स तथोक्तस्तथा भूतं पुरोक्तस्यैव
मेरोरामन्त्रणं स्यात् । अतस्तदिदन्नित्यमित्यादि । नित्यं सदा शत्रुभिः ।
करिभिः प्रेरितेन मृगेण कुरङ्गेण तादृशैर्मृगभूतानामनीकैश्च
सेव्यमानस्स चासौ दद्यानिधिः । करुणाकरश्च
सतथोक्तस्तथाभूतन्तस्यामन्त्रणम् । [[७]] यदि च पुनः नित्यं शत्रुतया
वर्तमान गजसिंहादि मृगाणाममहददर्शनमहिम्ना विगतमत्
सरणामनीकस्समूहः । तेन सेव्यमान दयानिधयो महर्षयो यत्र विद्यन्ते
सतथोक्तस्तथाभूतं पुरोक्तस्यैव मेरोरामन्त्रणं स्यात् । अतस्तदिदं
ललाटेत्यादि ललाटेयन्नेत्रन्तस्मादुद्भूतेन सप्तार्चिषान्दहनेन दग्धौ
त्रिपुरमन्मथौ येन स तथोक्त स तथाभूतं तस्यामन्त्रणम् । त्रिपुर विषये
ललाटेत्युपलक्षणम् । अथ च पुनः ललाट नेत्र सप्तार्चिर्ददाधो नङ्ग इति
यावत् । त्रीणि स्ववशीकृतानि पुराणि भुवनानि यस्य सत्रिपुरः सचासौ मन्मथ
पञ्चशरोरम्यप्रदेश त्वात् सुरतनिमित्तं यत्र स तथोक्तस्तथा भूतं
पुरोक्तस्यैव [[८]] मेरोरामन्त्रणं स्यात् । अत स्तदिमम्भोधीत्यादि
अम्भांसी अम्बूनिधीयन्तेऽस्मिन्नित्यम्भोधिः । जात्युपलक्षणतया क्षीर
समुद्र उच्यते ततो मथनेनमन्दरभ्रमणेन उद्भूतेन उत्पन्नेन विषेण
गरलेन नीलितो सिनीकृतः कन्धरश्शिरोधरो यस्य स स्तथा भूतमीदृश
भगवन्नित्यनुषङ्गः । नचात्रापि विकल्पतामिति वाच्यम् । न निबन्धनमिति
विफलत्वात् । तदुक्तम् - नर्ते प्रयोजनादिष्ट मुख्य शब्दार्थ लङ्घनमिति ।
एवं स्मर पुर दहनादि विशेषणेन विद्येश्वर योगीश्वर मध्य पठित
श्रीकण्ठद्वयात् विशिष्टं ब्रह्माण्डान्तरित ब्रह्म विष्णु पुरो
परिवर्तिशिवलोक निवासिनं शिवं शिवत्व दातारं श्रीकण्ठ नामानं
गुरूमामन्त्र्य किमर्थमहमामन्त्र्य [[९]] तस्तद्वक्तव्यमिति सर्व
वित्तमर्थेपि तदनुपलब्धिमदुक्त्या व्यवहार रीति दर्शयता भगवता
नज्ञाताः पुनरामन्त्र्य स्वाभिप्रयामति मुदाविष्कुर्वन्ति ।

क्रियाचर्ये प्रसादेन तवास्माभि श्रुते पुरा ।
अधुना ज्ञान पादन्तु श्नोतुमिच्छा गरीयसी ॥

वर्तते तामपाहर्तुमर्हस्यस्माकमीश्वर ।

हे ईश्वर त्वमर्हसि किं कर्तुमित्याकाङ्क्षयामाहुः । अस्माकमिच्चा   

अभिलाषा परनाम्नि मनोवृत्ति वर्तते प्रवक्ता भवति तामपाहर्तुन्निवर्तयितुं
विषय लाभेन पूरयितुमिति यावत् । नन्वत्र दर्शनीय नयेन शुद्ध
विषयत्वादियमिच्छा शिव रागोप बृंहित शिव शक्ति वृत्ति व्यक्त चिच्छक्ति
वृत्तिरेव किमिति नसोन्तस्तथाविष्क्रियते । [[१०]] सत्यम् । विविक्ततया प्रायेण
विद्यापादैक वेद्यत्वाद्दर्शनान्तरं दृशान्तदनवाप्तिमतां
महर्षीणां केवलं मनोवृत्तिरिव भासत इति नह्यनुक्त दोषः विषय लाभेन
पूरयितुमिति ज्ञापनार्थं साकन्द निर्विषया न निगर्हित विषयावेति निगदन्ति
ज्ञानपादं श्रोतुमाकर्णयितुम् । तादृश श्रुति लक्षण विषया सति तदिन्द्रिय
द्वारा धिया स पद पदार्थं परिच्छेत्तुं समुद्यमं कुर्वन्ति भवतीति
यावत् ।

नन्वत्र शिव दर्शनेन सह शिवत्व व्यक्तिदशिवत्व पशुत्व विवेकस्यापि   

कर्तव्यात्वादिच्छेयं श्रुत पद वाक्यार्थं शुद्ध विद्योपबृंहित
प्रध्वस्त रजस्तमोगुण बुद्धि समधिष्टातृ शिव शक्ति वृत्ति [[११]] व्यक्त
चिच्छक्ति वृत्या विविच्य समुपलब्धुं समुत्सहत इति श्रीमतङ्गाद्युक्तवत्
प्रदर्शनीयन्तदित्थं किमिति न प्रदर्शितम् । सत्यम् । ऋषयश्शिव प्रयुक्त
तच्छुद्ध विद्यालिङ्गितच्चिद्दृशोप्यविदित विद्या पादार्थारते वयं तच्छुद्ध
विद्यालिङ्गित चिदृश इति नजानन्तीति नह्यनुक्तदोषः । अनिन्दित विषयाऽपि
यद्यल्पीयसी न तध्वतामुपदेष्टुं युक्तमिति भगवदुक्ति निर्गमनात्
पूर्वन्त्वरन्तस्तत् गुरुतरत्वं प्रदर्शयन्ति । गरीयसीति यद्यपि गुरुतरा
नह्यदीक्षितानामुपदेष्टुं युक्तमिति । भगवदुक्ति निर्गमनोपशान्तये पुरेति
स्मारन्तः तदस्तित्वं निवेदयन्ति । पुरा पूर्वं तव ते प्रसादेन श्रवणादि
प्रयोजक दीक्षारूपाऽनुग्रहेणास्माभिः क्रियाचर्ये [[१२]] क्रिया चर्यापादौ
श्रुते स्रुतौ तु शब्दोऽवधारणे अधुना इदानीमविशिष्ट श्रुति विषयेति नात्र
विकल्पः क्रियतामित्यर्थः । ततस्ते भविष्यत् भवतेति तदेन नः किमिति
नत्वन्तमुपदेष्टासीति सूचयन्तस्साधनविषया सति साध्य विषयश्चेति च
विनिवेदयन्ति ।

अधिकारे वयन्देव नियुक्ता भवतायतः ।
ज्ञानसाध्योधिकारो हि मुक्तिश्च व्यक्तिरीश्वर ॥

हे देव अधिक्रियतेनुगृह्यते इत्यधिकारः । पाश निग्रहद्वारा   

पश्वनुग्रहः । तत्राधिकारे वयं भवता नियुक्ताः प्रेरिताः । अत्र भवतु
किमनेनेति भगवदुक्ति निरुत्साहार्थं पुनरामन्त्र्य हि शब्देन स्वोक्ति
प्रसिद्धं सूचयन्तः कथयन्ति । हे ईश्वर यतो यस्मात्कारणादधिकारो (प्।
१३) ज्ञानसध्यः । तदधिकार कारक लक्षण दीक्षाकरणो
पदेशान्यथानुपपत्तितस्सिद्ध ज्ञानपाद श्रवणजनित पत्यादि पदार्थ
स्वरूप परिज्ञाने नस्साध्यस्समुद्भवितव्यः । ततस्त्वन्तदुपदेष्टुमर्हसीति
एक क्रियान्वयावधेरेक सूत्रत्वादनुषङ्गः । ज्ञानेन साध्यत्व
सध्यत्वन्तस्यकृतः । सतु कीदृग्रूप इत्यत आहुः - मुक्तिश्च व्यक्तिश्च
पाशत्रय विमोचनम् । शिवत्वोददीन लक्षण इति यावत् । मतङ्गवृत्तौ -
विद्येशं प्रति विद्यास्समाहुः । अधिकारोस्माभिः पाशच्छेद शिवत्व
व्यक्त्यात्मकत्वेन पशूनामेवेश्वरादिष्टत्वात् कृत इति आचार्य मूर्तिस्थ
शिवस्य मुक्तिव्यक्ती मुमुक्षोर्मुक्तिव्यक्तीति च सम्पन्नत्वात् [[१४]] देवदत्तस्य
पाक ओदनस्य पाकोवेतिवत् । केचित् स्वकीयामुक्तिश्च व्यक्तिश्चेति प्रब्रुवन्ति ।
तत्तदुक्त्या पुनरनुक्त्वा सिद्धत्वादनुचितमेव । तत्रापि च रतिश्चेत् सध्य
इत्यनेन समन्वयो नसम्भवतीत्यस्माकमिति च सध्येतिचाध्याहारः
कर्तव्यः । तदियदुक्तिरनवेद्येत्याकलट्य भगवान् सुखमुख बोधनार्थं
प्रथमं ज्ञानपाद पदविषया ज्ञानं निवर्त्योपदेष्टुमुपचक्रमे ।

ज्ञायन्ते येन पत्याद्याः पदार्थाष्षट् द्विजोत्तमाः ।
तत् ज्ञानपादमित्युक्तं साधनन्देशिकात्मनाम् ॥

हे द्विजोत्तमाः दीक्षित श्रेष्टाः चतुर्वणानां विशेष दीक्षायां
शुद्ध द्विजत्व दर्शनात् स्मार्त संस्कार संस्कृता इति न व्याख्येयम् ।
दीक्षां विना शिवागम स्रवणे अनधिकारात् । [[१५]] येन चिच्छत्यभि व्यञ्जक
शिवशक्त्युपब्रंहित तन्त्रांशेन पतिराद्यो येवान्ते पत्याद्याः शिव
पुरोगमाः पदार्थाः वस्तूनि षट् ज्ञायन्ते बुध्यन्ते
तद्देशिकस्योपदेष्टुरात्मा स्वभावो येषान्ते देशिकात्मानः ।
तेषान्देशिकात्मनां साधनं ज्ञानञ्च तत्पादञ्च ज्ञानपादं
बोधनां शमित्युक्तमिति समुदितमागमेष्विति शेषः । छान्दसत्वात् क्लीबोक्तिः
दीक्षा व्याख्यानयोरारम्भ कर्तुश्शास्त्रं प्रधानं मुमुक्षोः दीक्षेति
ज्ञापनार्थं देशिकात्मनामित्युक्तम् । साधकादीनामपि साधनमित्यर्थः

ननु चिच्छत्यभिव्यञ्जक शिवशक्तिरेव शिवादि वस्तु प्रकाशत्वात्   

ज्ञान शब्द वाच्या भवति । [[१६]] कुतश्शास्त्रं प्रकाश्यत्वान्नस्वतः
प्रकाशभूत शिवादि वस्तु प्रकाशकमित्याशङ्क्याह भगवान् -

शिवस्य समवेता या शक्तिज्ञानात्मिकामला ।
सैव ज्ञानामिति प्रोक्तं शाब्दन्तदनुमापकम् ॥

शिवस्य या समवेत समवाय सम्बन्धिनी ज्ञानात्मिका ज्ञानम् अवबोध
आत्मस्वरूपं यस्यास्सा तथा अमला न विद्यते । मलोस्या इति तदुक्तिमती
शक्तिबलं सैव ज्ञानमिति प्रोक्तं - समुदितं विधेयादिना क्लीबोक्तिः ।
शाब्दं शास्त्र रूपं तदनुमापकं नाकरणात्वतिरिति स्व निरतिशया । न
चान्यथानुपपत्या स्वस्मिन् तदभिव्यक्त्या विना स्वस्य शिवादि
प्रकाशकत्वान्यथानुपपत्या च तत् शिवज्ञानगमकं वक्ष्यति च शब्दास्तु
[[१७]]
पारम्पर्येण शिवज्ञानानुमापगा इति शिव कर्तृ शक्ति शिवज्ञान
शक्त्यभिव्यक्ति भूमिभूतया तच्छिवादि प्रकाशकत्वस्यास्य सुलभत्वाच्च
शिव ज्ञान शब्द शब्दितव्यमिति किमिति न प्रथितमिति भावः । यद्वा शाब्दं
शब्दारूढं सत् तच्छिवज्ञानम् अनुमापकं चिच्छक्ति लक्षण
प्रमाणाभिव्यञ्जकं सत् अनुवियात्र प्रमाणम् । तथा हि
शिवशक्तिश्शब्दारूडा सती चिच्छक्तिं समर्थयन्ती स्वात्मानं शिवादि
वस्तुना सह दीक्षितानान्दर्शयति । तदुक्तं मोक्षकारिकासु -

मन्त्रतन्त्रात्मकेशब्दे शिवोव्यक्तिः कलासु च ।
समर्थयति चिच्छक्षुर्नातः किञ्चिद्विरूध्यत इति ॥

ननु शिवस्समर्थयतीति श्रुतेः श्रुतिरियं [[१८]] सुसमर्थितशिवः । ननु   

सु समर्थित शक्तिः सत्यम् । नाकरणा कृतिरिति न कादाचिदपिनीश्शक्तिस्सशिव इति
च श्रुतेः । श्रुतिरियं सु समर्थित शक्तिरपि स्यात् । विधि निषेध वाचक
वाच्यत्वादीश्वराज्ञा शक्तिश्शब्दश्च नित्यमनित्यं शास्त्रं स्यात् ।
कृतोद्देशलक्षण परीक्षा तत् पदार्थानां स्वरूपज्ञानं सुलभ्यमिति
सूचयन्नाममात्र कीर्तनमुद्देश इति दर्शयन् तथा तान् कीर्तयन्
पादादिमं सूत्रं पठति ।

पतिः कुण्डलिनी माया पशुः पाशश्च कारकः ।
इति प्रोक्ताः पदार्थाष्षट् शैवतन्त्रे समासतः ॥

पटलानन्तरारम्भे पञ्चविधसम्बन्धः प्रोच्यते तत्र तत्र वस्तुनः षट्
पदार्थमात्मनः प्रतिज्ञातत्वात् [[१९]] तत्र वस्तुसम्बन्धः
प्रतिपदार्थात्मकः । प्राकरणिकस्तु पादगतो विद्यापादात्मकः । सतु
विद्यापादं यावत् तावदेकरूप एव । किन्तस्या स कृत् वचनेन । सौत्र वाक्य
पाटलिकास्तु अविदित तन्त्रादिम सूत्रानन्तर पतलत्वात् वक्तुं न शक्यते ।
श्लोकार्थस्तु लक्षणोक्त्या सुकरी भविष्यति । प्रथममुद्देश
सर्वाधिष्ठातृत्वात् प्रत्युः तदनु तत्परिग्रह शक्तित्वात् बिन्दुमाययोः । तत्रापि
शुद्धत्वेन साक्षात्परिग्रहोपाधिना च बिन्दोः तदनु मायया सह भोग्य
भोक्तृत्व सम्बन्धिनः पशोः तदनु तादृक् सम्बन्ध समुत्थ पाशस्य तदनु
तत्सम्बन्ध विच्छित्ति चिच्छक्ति व्यक्तिकर्तुः कारकस्येति विवेकः । लक्षणत्व
साधारण धर्म इति बोधयन् क्रमतस्तान् [[२०]] लक्षयन् प्रथमं लक्षयति ।

लयभोगाधिकारात्म व्यापारत्रय लक्षितः ।
स्वभावादच्युतश्शक्तः पदार्थः पतिसञ्ज्ञितः ॥

यत् श्रीमन्मतङ्गादौ - अथ पत्युरधिष्ठानं स्वशक्ति किरणात्मकम् ।
तस्यां दिविसुदीप्तात्मानिष्कम्पोचल मूर्तिमानित्यादिना समुदित विशिष्ट
लक्षण लक्षितः । तदनन्तरं लयभोगाधिकारात्मव्यापारत्रयलक्षितः । लय
स्वकीय शक्तेः कर्तव्य तिरस्करणेन कार्ययोग्यतया स्वात्मन्यवस्थितिः भोगो
बिन्दुपालनम् । अधिकारस्तत्कार्यस्वरूप प्रादुर्भावनम् । एतल्लक्षण व्यापृति
त्रयेण लक्षितः अङ्कितः व्यावर्तितः । ननु स्पन्द नात्मकास्ते व्यापाराः
तैर्लक्षितोविकृतिमान् भवति । सत्यम् । [[२१]] योसौ स्वभावादस्पन्द रूप
स्वधर्मादच्युतो न गलितः । ननु क्रियावेशो हि कर्तृत्वं स यदिस्यात्तस्य
कथमच्युतत्वम् । सत्यम् । योसौ शक्तः समर्थः । अधमा । शयः
स्पन्दनात्मकत्वात् नात्र क्रियारूपम् । कर्तुः कर्तृत्वं कमत्रन्तर
कल्पनायामनवस्था प्रसङ्गात् । किन्तु लज्जडस्पद क्रियोत्पादने शक्तत्वम् ।
तदुक्तं जडस्पन्द क्रियायां - या शक्तिस्सा कर्तृताचितः । व्याप्तेरस्पन्द
रूपेण सिद्धायस्कान्दवत् स्वत इति । एवं भूतस्सपदार्थं पतिसञ्ज्ञितः
पतिरिति सञ्ज्ञास्य सञ्जाते वेति सञ्ज्ञितः । पतिरिति कृतनामा । लयावस्थ
शिवमशक्तित्वात् परमूर्ति भाजस्तेन सह सङ्ग्रहीताः । भोगावस्थ
शिवसमशक्तित्वात् । तेन सह शान्त्यतीतादि भुवनाधि [[२२]] पतयः
सङ्ग्रहीताः अधिकारावस्थ शिव समशक्तित्वात्तेनसह मन्त्र मन्त्रेश्वर
मन्त्र महेश्वरास्सङ्गृहिताः । तल्लक्षण लक्षिताश्च सजातित्वात् पतिरिति कृत
नामानो भवन्ति । तथापि मन्त्रादयः । पदार्थान्तर परीक्षासु च
किञ्चिदुपाध्यन्तरं प्रत्युपवर्ण्यन्ते । द्वितीयं लक्ष्ययति -

लयादि व्यापृतिर्यत्र शुद्धध्वावायतोजनि ।
सा तु कुण्डलिनीशम्भोर्नित्याधिष्ठेय रूपिणी ॥

शिवस्य क्रियाशक्तिलयादि व्यापृति हेतुत्वाल्लयादि व्यवहारं भजन्तीति   

पर्यवसिता । ततो यत्र यस्यां लयादि व्यापृतिः । लयः कर्योपसंहृतिः
आदिर्यस्यास्सा लयादि व्यापृतिः । वस्तुतस्तद्धेतुतया सम्भवति । यतो
यस्याश्शुद्धाध्वा [[२३]] शुद्धमार्गो वा मन्त्रादि रजनिजातः ।
दीपजन्येत्यादिना कर्तरि चिणया नित्या आद्यन्तर हितो शम्भोरधिष्ठेय रूपिणि
शिवस्य परिग्रहवर्तनी सातु कुण्डलिनी कुण्डलिनीति कृतनाम्नी तृतीयं
लक्षयति -

भोग्य भोक्तृत्व सम्पत्यै या शरीरेन्द्रियादिकम् ।
उत्पादयति सा माया घचिता कर्मभिर्नृणाम् ॥

भोग्य भोक्तृत्व सम्पत्यै कार्यद्वारं विना तदनुपपत्या   

स्वात्मनोस्सुखदुःखमोहलक्षणवेद्य वेतृत्व सम्बन्ध संसिध्यै
यानन्तेशक्त्याक्रान्ता शरीरेन्द्रियादिकम् । शरीरेन्द्रिये आदिनी यस्य कलादि तत्व
जातस्य तत्तथोक्तं तदुत्पादयति जनयति या तस्मिन् शरीरेन्द्रियादिके स्वस्यां
लयङ्गते नृणान्तराणां कर्मभिर्बुद्धेरूपसंहृतत्वात् । [[२४]] पुरुष
संस्कारत्वे विकारित्व प्रसङ्गात् खर्चिता आश्रिता सामायमायेति कृतनाम्नी
चतुर्थं लक्षयति -

पशुः पशुत्व संरूडन्द्रक् क्रिया प्रसरस्सदा ।
स कलाकल भेदेन त्रिधाबन्धवशात् स्थितः ॥

यस्सदा पशुत्व संरुद्धदृक् क्रिया प्रसरः पशुत्वेन मलेन
संरुद्धस्सम्यक् तिरस्कृतो दृक्क्रिययोः प्रसरो विषयौ मुख्यं यस्य स
तथोक्तः । यः पुनः बन्ध वशात् त्रिमल द्विमलैक मलोपाधिना ।
सकलद्व्यकलभेदेन त्रिधा स्थितः । त्रिप्रकारेण प्रमाणैर्निश्चितः स पशुः
पशुरिति कृतनामा । सदेत्यनेन दीक्षया निरुद्ध स्वविरुद्धत्वे पतित्वान्न
पशुरिति पठनीय इति सूचितम् ।

[[२५]]
पञ्चमं लक्षयति -

कालादिक्षितिपर्यन्ता स्थिता तात्विक संहतिः ।
पाशात्मकः पदार्थोयं पञ्चम परिपठ्यते ॥

या कला आदौ क्षितिः पर्यन्त यस्यास्स कलादिक्षिति पर्यन्ता । तथा सति स्थिता
पर्यवस्थिता तत्वेष्ट भवा तात्विकी । तत्विकीचासौ संहतिश्च तात्विक संहतिः ।
तात्विक समूहसोऽयं पदार्थः पाशात्मकः । पाश इति कृत नामा ।
पञ्चमः परिपठ्यते । विधेयोपाधिना अयमिति पुल्लिङ्गोक्तिषष्ठं लक्षयति -

भुक्ति मुक्ति व्यक्तिफला क्रियादीक्षाह्वयापरा ।
षष्ठोभिधीयते तन्त्रे पदार्थो मुनिपुङ्गवाः ॥

ऋषि सप्तमाः या भुक्ति मुक्ति व्यक्तिफला भुक्ति मुक्तिव्यक्तयः । फलानि
साध्यानि यस्यास्सा तथोक्ता । निरतिशय [[२६]] परमुक्ति सिद्धि साधनत्वात् ।
क्रियान्तरेभ्यः परा उत्कृष्टादीक्षाह्वया दीक्षानाम्नी क्रियाशिवानावाज्य
क्षेपणादिरूपा सोयं पदार्थः तन्त्रे शिवागमे षष्ठोभिधीयते । उद्देशः
क्रमतष्षष्ठः कारकः कारक इति कृत नामोच्यत इत्यर्थः । भुक्तिस्तु
मायान्तरित भुवनवतित्व भुवन वासित्वोपाधिना परापररूपा । मुक्तिरपि
मुक्त शिव विषयानन्तादि विषयोपाधिना परापररूपाः ।
व्यक्तिश्शिवत्वाभिव्यक्तिः । सा च सर्वात्मना सर्वात्मनाचेति परमुक्ता
परमुक्त विषया द्विरूपा । स्व सुनयगलित परनय
पतीतधियश्शैवैकदेशिनः । कैश्चित् ज्ञानान्मुक्तिरिति वदन्तं वेदान्त
वादिनमनुसृत्य ज्ञानादेव मुक्तिः नान्यथेति कथयन्ति । तदनुचितमेव । मलो
ज्ञानानिवर्त्यो भवति । आत्मकरणाच्छादकत्वात् [[२७]] तिमिरवदिति मलस्य
साधितकर्म निवर्तनीयत्वात् सद्यश्शरीर पद न सहकृत
मुक्तिमददीक्षितैरतिमलपक्वतः केवलिषु निराधार शिव कृत दीक्षया सद्यो
मुक्तिं गतैरप्यनैकान्तिकत्वाच्च तेषान्तदभ्यासानवकाशत्वात् । ननु
केवलात्मसु शिवस्य क्रियाशक्तिरेव दानक्षपणयोगित्वाददीक्षेत्युच्यते ।
शक्तेरेकत्वात् । ज्ञानरूपताञ्च न निजहातीति पुनस्सा ज्ञानशब्द शब्दिता
च । तत्राज्यादिक्षेपणरूपा कथम् । सत्यम् अत्राप्याज्यक्षेपणादि लक्षण
क्रियोपब्रंहिता सा क्रिया शक्तिरेव । संस्कारस्य पुरुषविषयत्वाददीक्षेति ।
दीक्षा च ज्ञान शब्द शब्दिता पर्यवसितेति सर्वं समञ्जसम् । अतः दीक्षा
क्रिया बन्ध हेतुः । कर्मत्वादिति परप्रयुक्ते [[२८]] हेतौ प्रत्युत बन्ध
निवर्तकत्वेन प्रायश्चित्त कर्मादिना व्यभिचारोद्धृति प्रमुख
दूषणोक्त्यानिराकृतिर्नविस्तीर्यते ज्ञानोपायस्याभासलक्षण क्रिया
व्यभिचारिणो सद्यो निर्वाण दीक्षा मात्राङ्गभूतत्वात् । व्याप्यत्वं विद्यत
इति गौणत्वमवगम्यताम् । मलकर्म शिवतत्वदीनाम् अनुद्दिष्टा लक्षितत्वात्
पदार्थान्तर परिगणनास्ति किमित्याशङ्को पशमानार्थमाह । -

षट्सुतेषु पदार्थेषु शिवाद्यवनि पश्चिमः ।
सर्वमन्तर्गतं यस्मात् परीक्ष्यन्ते नयेनते ॥

यस्मात् षट्सु तेषु पदार्थेषु शिव आदिरवनिः । पश्चिमा यस्य सदाशिवादि
तत्व जातस्य तश्छिवाद्यवनि पश्चिमं सर्वं
समस्तमन्तर्गतमन्तर्भूतन्तस्मात् । [[२९]] नहि तदनुद्दिष्टा लक्षितत्व दोष इति
नयेनानुमानेन ते षडेव परीक्ष्यन्ते विचार्यन्ते । तेषु परीक्षितेषु
सर्वमुद्दिष्ट लक्षित परीक्षित प्रायमेवेति भावः । प्राक्
शुद्धाध्वावायतोजनीत्यनेन शिवतत्वादीनि तत्कार्यत्वात् ।
कुण्डलिन्यामन्तर्भूतानिखचिता कर्मभिरित्यनेन कर्म
मायायामन्तर्भूतं पशुः पशुत्व संरुद्ध इत्यनेन पशुत्वेन विना
पशु शब्द प्रवृत्ययोगात् मलः पशु पदार्थे तदनु वर्तकरोधशक्त्या
सहान्तर्भूतः । तदन्यदपि समस्तन्तत्र तत्रान्तर्भूतमुत्तरत्र दृश्यते ।
घटिनिर्मातायां कुलालस्तन्नाशकस्सतु जलवाहक इति वदयं विन्दु
कार्योत्पत्ति नाशयोः कर्तृ भेदोस्ति किमित्याशङ्क्य उदक
सर्जनोपसंहारादिष्ठ भानोरेकरूपं कर्तृत्वं [[३०]] सिद्धमित्याकलय्य
कुलालस्यापि तद्भेदकत्व दर्शनात् असाधुदर्शनमिदमिति ज्ञापयन् क्रमतः
पतिपादार्थ परीक्षां विधत्ते -

लय भोगाधिकाराणां न भेदो वास्तवाश्शिवे ।
किन्तु बिन्दोरणूनाञ्च वास्तवा एव ते मताः ॥

प्राक् जडस्पन्द क्रियोत्पादने भगवतश्शक्तिः कर्तृत्वमेकमेवानेक व्यापृति
निर्वर्तन क्षमत्वात् अनेक व्यवहारं भजतीति सूचितन्ततश्शिवे
लयभोगाधिकारणानां भेदो न वास्तवः । न स्वभाविकः । किन्तु तर्हि
तेषान्ते वास्तवाः बिन्दोरूपसंहृतोद्युक्ताविष्कृत कार्य स्वरूपभेद
स्वरूप भेद भुवन भेदाः अणुनामात्मनां वक्ष्यमाण नयेन लयिनो
भोगिनोधिकारिण इति भेदाश्च वास्तवाः । [[३१]] स्वाभाविका एव ।
विकृतित्वन्नोपलभ्य जडस्पन्द क्रियोत्पदेन शक्तत्वञ्च सूचयन्नौपचारिक
भेदव्यपदेश भजनं सदृष्टान्तं दर्शयति -

यथार्कः पङ्कजन्नित्यं बोधसंशोषणादिभिः ।
कर्मभिर्बोधकाद्याख्यां लभतेत्र तथा शिवः ॥

यथा यद्वदर्क सूर्य स्वदाह प्रकाश स्वरूपादच्युतस्सान्निध्य   

मात्र तया पङ्कज कमलं नित्यम् । प्रत्यहं बोध संशोषणादिभिः
विकास म्लान स्पुरत् द्युत् भावनादिभिः कर्मभिर्व्यापृतिभिः घटयन् बोधक
संशोषकादि व्यपदेशं लभते । तथा तद्वदत्र प्रकृते शिवोवस्तुतः
क्रियाद्वे चैतन्य व्यतिरिक्तत्वात् जडत्व प्रसङ्गतस्तद्धेतुत्वात् क्रियेति
व्यवदेशं भजत् स्वस्वान्य स्वरूपादच्युतः [[३२]] सङ्कल्प लक्षण
क्रियार्थ क्रियाविशिष्टशक्ति सम्बन्ध लक्षण सान्निद्यमात्र तया लयादि
व्यापृतिभिः बिन्दुं घटयन् लयादिव्यपदेशं लभते । लयादि
व्यपदेशाश्शिवे युगपत् किन्नस्युरित्यत आह । -

उपसंहृतकार्यात्मा यदा बिन्दु व्यवस्थितः ।
तदा लयाह्वयन्तत्वं शिवतत्वं तदेव हि ॥

यदा यस्मिन् काले । उपसंहृतमनभिव्यक्तमनर्थ क्रियायुक्तं   

कार्यं करणीयमेवात्मस्वरूपं यस्य स उपसंहृत कार्यात्मा
शान्त्यतीत कलायान्तदाविभक्ति बिधुरतयान्तरितत्वाच्छान्त्यादि चतुष्टयस्य
अविभक्त कलात्मा शिवतत्व सञ्ज्ञितश्च बिन्दु व्यवस्थितः । कुण्डलिनी
स्थितवती । तदा तस्मिन् काले यत्तदुपसंहृति हेतुभूतं तत्वम् । तदुपसंहृत
[[३३]]
कार्यत्वात् । कर्तव्य तिरस्कृतिमत् लयाह्वयं लय इत्याह्वयो अभिधानं
यस्य तत्तथोक्तं लयमिति नाम लभत इत्यर्थः किन्तर्हि वतत्वमितो भिन्नेत्यत
आह शिवतत्वन्तदेवहीति हि प्रसिद्धौ । अधिष्टानलक्षनं
यच्छिवतत्त्वमित्युच्यते । तदेव लयतत्वमेवेत्यर्थः । वक्ष्यमाण बैन्दव
तत्वानामिव किमस्यापि परिण तत्वादि लक्षणं विद्यते नेत्याह । -

विद्यादि तत्व वन्नेदं सन्नन्तत्वादि लक्षणम् ।
किन्तु स्वदृक् क्रियाशक्ति किरणात्मकमव्ययम् ॥

व्यापकन्नित्यमचलं सर्वतोमुखमैश्वरम् ।

इदं यत्तदुपसंहृत कार्यत्वा दतिक्रान्ता । नहि व्यक्तिकार्यात्म शिवतत्वादि
शब्द शब्दितमबिन्दुकं सृष्टं शिवतत्वमधिष्ठनलक्षणं विद्यादि
तत्ववत् सन्न तत्वादि लक्षणन्नः प्रतिलोमतो [[३४]] विद्या आदिर्येषामीश्वर
सदाशिव शिवतत्वानान्तानि विद्यादि तत्वानि विद्यादितत्वानामिव
विद्यादितत्ववत् सृज्य शिव तत्व पञ्चकमिव सन्नन्तत्वं परिणतत्वम् आदि
यस्यानित्यत्वादेस्तत् सन्नन्तत्वादि सन्नन्तत्वाद्येव लक्षणं यस्य तत्
सन्नन्तत्वादिलक्षणन्न न भवति । उपलक्षणञ्चैतदनु पदमेव
परीक्षितव्यत द्वयमपि तद्वन्नेति । किन्तु कीदृग्रूपन्तच्छिवतत्वं स्वदृक्
क्रियाशक्ति किरणात्मकं स्वस्य शिवस्य यादृक् क्रियाशक्तिसैव किरणं
प्रकाशं सतदात्मकम् एव अव्ययं क्षयरहितममलातिरस्कृतत्वात् ।
व्यापकन्देशानवच्छिन्ननित्यं कालान्नवच्छिन्न मचलञ्जडस्पन्द
क्रियारूप रहितं सर्वतोमुखं सर्व विषयमैश्वरमीश्वर सम्बन्धी
तदीदृग्रूपम् । ननु [[३५]] पत्युरेव लय शिव व्यपदेश बीज
दर्शयितुमुपक्रम्य शक्ते दर्शनं सागरं गन्तु कामस्य हिमवत्
गमनोपममित्याशक्याह -

तस्मिन्विस्पष्ट चिन्मात्रो व्यापकत्वादि धर्मवान् ।
अनन्योन्यश्च तच्छक्तेस्समवायात् स्थित शिवः ॥

शिवश्शिव इति लब्ध व्यपदेशः पतितस्मिन् पुरोक्त पर संवित् स्वरूप
शक्त्यात्मक शिव तत्वेपि स्पष्ट चिन्मात्रः विशेषेणकस्पष्टं
स्वसंविद्भूत्वा प्रकाशमानं स्वमात्रवित्तम तयात् स्व संवित्तिरित्युक्तं
तच्चिन्मात्रं परानपेक्षा विपक्षितं चिद्रूपमेव केवलन्तादृक्
च्छक्तिमद्रूपं करण भूत पर संवित्ति द्वारा स्वेतर चिदचित् ज्ञेय निवर्तित
ज्ञानमित्यचित् स्पन्द क्रियाविष्कारक शक्ता लक्षण क्रियेति चोक्त [[३६]] पर
संवित्तिरूप शक्ति लक्षणा करण साध्यद्व्यर्थ क्रिया लक्षण स्वार्थ क्रिया
कर्तृत्वात् ज्ञात्र कर्तृरूप कर्तृलक्षणं भुत्वा यस्य स तथोक्तः ।
व्यापकत्वादि धर्मवान् आदि शब्देन प्रागुक्ता व्ययादिगृह्यते । अनन्योन्यश्च
तच्छक्तेस्तस्याश्शिवतत्वात्मनोपवर्णितायाः । शक्तेरनन्यः यदेव पर
संवेदनं शक्तिरूपन्तदेव स्व संवेदनं सत् स्व संवित्सिद्धिं
शिवरूपमित्यपृथक् सिद्धत्वादन्यस्सन् स्वयन्नविद्यत इत्यानन्यः । अन्यश्च
वस्तुत एकमपि ज्ञानं तस्य स्व परप्रकाश स्वरूपत्वं विद्यत इति
स्वप्रकाश स्वरूपमात्र विवक्षया शिव इति परप्रकाश स्वरूप मात्र
विवक्षया शक्तिरिति प्रथत् सिद्धतयोपवर्णितः । एवं भूतस्सन्
समवायात्तादात्म्य सम्बन्धितया तद्रूपीभूत्वास्थितः । [[३७]] स्थितवान् -
ततो नैय्यायिकादीनामिव नह्याधाराधेयभावमती(मती)यन्तु क्लिप्तिः । बिन्दु
द्वारा शक्तेः शक्ति द्वारा पत्युरिति लय शिवस्य व्यपदेश द्वय लाभस्सुलभ
एव । व्यपदेशान्तरमाह -

शक्तोयं शक्तयोयस्मादुद्योगादि क्रियाच्युताः ।
शिव एवावतिष्टन्ते निष्कलश्च स एव तु ॥

अयं लब्ध व्यपदेश द्वयवान् पतिश्शक्तः भूयश्शक्त इति   

व्यपदेशं लभते । तत्र हेतुमाह । यस्मात् बिन्दोरनवरत मनन्तमन्त्रमन्त्र
महेश्वरादि शरीरादि जनन्यात् अपचित शक्तित्वात् स्वकीयाश्शक्तयो
वक्ष्यमाण जनन्यादयः उद्योगादि क्रियाच्युताः ।
भोगाधिकारव्यापृतिभ्यां गलितास्सत्यशिवे शिवसञ्ज्ञिके
स्वस्मिन्नेवावतिष्ठन्ते । [[३८]] तदा कर्तव्य तिरस्कारेण बिन्दु प्रसवादि मुख
कार्य प्रसृदि हेतुतान्न भजन्तीत्यर्थः । एवं शब्द व्यपदेशत्रयवान् यस्स
एव तु बिन्दु प्रसवाभिमुखी भूति तत् कार्य प्रसृत्ययोगात् निष्कल निष्कल इति
व्यपदेशञ्च लभते एवकार तु शब्दावयोग व्यवच्छेद परौ
भोगव्यपदेशः कदेत्यत आह -

उद्युक्तस्तु यदा कार्ये बिन्दुर्भोगाह्वयन्तदा ।
लभते शिव उद्युक्तस्स एव च सदाशिवः ॥

तत्वं तदेव सादाख्यन्नशिवात् वस्तुतोभिदा ।
भोगस्तत् पालनात्मैव नाध्यासस्तदसम्भवात् ॥

यदा यस्मिन् काले कार्ये बिन्दुरुद्युक्तः प्रस्वाभिमुखीभूतः तदा तस्मिन्
काले भोगा वयं स्व परिग्रहमहामाया [[३९]] स्व चिन्मय शक्त्योस्तदेतत्
सञ्ज्ञा लाभ समनन्तरं भोगाभिधानं शिवो लभते यो लब्ध भोग
व्यपदेशवान् स एवै तदुद्योग हेतु भूत शक्तित्वात् । उद्युक्तः सदाशिव इति
व्यपदेश द्वयं लभते । चकारात् सकल निष्कल इत्यपि च यद्युक्तायान्निमित्त
भूतं सादाख्य नाम तत्वं तत्तदेव शक्तिमतो रनन्यत्वात् तदेवेत्युक्तम् ।
तस्मिन् विस्पष्ट चिन्मात्रादि लक्षणतया स्थित इत्यर्थः । शिवाच्छक्तिलक्षण
शिवतत्व स्थितयोपवर्णितस्य सदाशिवस्य यथा कथञ्चिदधिकारावस्था
समुत्थकार्य विभक्ति वैकल्य तुल्यत्वाधिकारावस्थायामव्यक्ष्वब्ध भाग
लक्षण बिन्द्वधिष्ठातृत्व लक्षण लयोस्तीति लयावस्थायामपि [[४०]]
शान्त्यादि समुप संहृतिक बिन्द्वंश पालन लक्षणस्सन्नधि
कारावस्थायामपि पुनरवान्तर कार्योद्योगलक्षण बिन्दुपालनात्मा सन्
भोगस्थिति चोभयोर्लय भोगयोस्सदासितत्वान्नाधिकारस्येवान्तरमिति
नभिदाभेदोनास्ति । शक्तिलक्षण शिव सादाख्य तत्व द्वयस्यापि समानीतिः
बिन्दु लक्षण शिव सादाख्य तत्व द्वयस्यापि
तथेश्वरतत्वस्येवात्यन्तभिदानास्ति हि तर्हि अधिकारस्य भेदोस्ति किं कार्य
विभक्त्यौपाधिक भेदोस्त्यपि न वस्तुत इत्यनुपदमेब्रूमः । शिवादेस्तस्य
भिदा सम्भवात् भोगो विवर्तरूपः किमित्याशक्याह । भोगेत्यादि भोगोत्र तत्
पालनात्मैव बिन्दु पालन लक्षण स्वलक्षण एव पालनञ्च तत् प्रसवामुखी
भूति क्रियोत्पादने शक्तित्वन्ततस्सतु नाध्यासः [[४१]] संसारवर्तीनामिव
ससुखोहं सदुःखोहं स मोहोहमिति बन्धुहेतुक विषय लक्षणारोपरूपो
न भवति कृतां तत्र तदसम्भवात् । अतद्रूपस्य तद्रूपतया सत्यत्वात् ।
एकमप्यतद्रूपरहितं शिवबलमधिकरणान्तरे सवितृकरणमिवानेक
व्यापृति निर्वर्तनक्षमत्वादनेकव्यवहारं भजतीत्यर्थः । अधिकार
व्यपदेशः कदेत्यत आह -

बिन्दु प्रवृत्तः कार्येस्यादधिकारस्तदायदा ।
शिवस्य नभिदापूर्वा विशेषेस्य मुनीश्वराः ॥

हे मुनीश्वराः यदा यस्मिन् काले बिन्दु प्रवृत्तः कार्ये स्यात् कुण्डलिनी
उत्पादुकार्या भवेत् । तदा तस्मिन् काले शिवोधिकारोधिकार इति व्यपदेशं
लभते । पूर्वा विशेषबिन्दोः प्रसृतकार्यतयावस्थाभिदास्वतो सत्यपि पूर्वात्
[[४२]]
स्व शक्ति लक्षण शिवतत्व सादाख्य तत्वस्तितयोपवर्णितादविशेषे स्वतो
भेदकधर्मरहिते सति अस्य शिवस्य स्वशक्तिलक्षणेश्वरतत्व
स्थितयोपवणनीयस्य स्वतो न भिदाभेदो नास्ति । व्यपदेशान्तरमाह -

ईश्वरश्च स एव स्यात् तत्वन्तच्चेश्वराह्वयम् ।
प्रवृत्तोयमिति प्रोक्तः प्रवृत्ताश्शक्तयो मताः ॥

स एव लब्धाधिकार व्यपदेशवान् ईश्वरश्च स्यात् ।
ईश्वर इति व्यपदेशं लभते । यत्तत्वमीश्वराह्वयमीश्वर सञ्ज्ञकम् ।
बिन्दुकार्य प्रवृत्ति हेतु भूतन्तदपि तत्तदेव इव शक्ति किरणात्मत्वात् ।
तस्मिन्विस्पष्ट चिन्मात्रादि लक्षणतया स्थित इत्यर्थः । अयं
लब्धाधिकारेश्वर व्यपदेशवान् प्रवृत्त इति प्रोक्तः प्रवृत्त इति व्यपदेशञ्च
लभते । कुतः [[४३]] यस्मात्कारणात् शक्तयः प्रवृत्ता मताः । कार्य
प्रयोगदिशां प्राप्ता इतीष्टाः सकल इत्यपि व्यपदेशञ्च लभते
इत्यध्याहार्यम् । यानि शिवादीनि नामानि तानि शक्तिबिन्द्वभिहिततत्वत्रयस्य
साधारणा नीति मन्तव्यम् । ऋषयः स्वभावादच्युतश्शक्तः इत्यादिभिस्सूचित
विकृतित्वन्नोपलभ्य कृत्य करणं विस्पष्टं ज्ञातुमाशङ्कयन्ति । -

बिन्द्ववस्था विशेषेण शिवभेदस्त्वयोदितः ।
बिन्दोरचेतनत्वेन प्रवृत्तिस्वत एव न ॥

कर्ताचेत्तत्प्रवृत्यर्थं विकारीस्यात्तदाशिवः ।
एवं विरोध आपन्ने परिहारं वदेश्वर ॥

हे ईश्वर! बिन्द्ववस्था विशेषेण बिन्दोरवस्था उपसंहृत कार्यात्मत्वादि
तस्या विशेषो भेदस्तेन शिवभेदः पतिभेदश्शिवस्सदाशिव [[४४]] ईश्वर
इत्युक्तः त्वयोदित व्यावर्तकधर्मस्याधिकरणान्तरस्थत्वान्न वास्तव इति
भावः बिन्दोरूपसंहृत कार्यलक्षणाद्यवस्थां लब्धुं स्वत
चेतनानधिष्ठानात् न प्रवृत्तिः न भवत्येवोत्साहः कुतः अचेतनत्वेन
जडधर्मित्वात् । उपसंहृत स्वकार्य घटादि लक्षणाद्यवस्थां लब्धुं
जलवाहकाद्यनधिष्ठित भ्रदश्व अथ तत्प्रवृर्त्यर्थन्तदुत्साहार्थं
क्रियावेशी प्रवृत्तः कर्ता चेत् पतिर्यदि तदातदानीं स तु शिवो विकारी स्यात्
स्वरूपान्तरपरिणतिमान् भवेत् । एवमित्थं विरोधे आपन्ने अचेतनत्व स्वतः
प्रवृत्तत्वयोरविकारित्व प्रवृत्तत्वयोस्समानाधिकरण्याभावे समुत्भूते
परिहारं समाधानं वद कुरु तदिदमाकलय्य गुरुः तद्विषया ज्ञानं
तेषां सम्यक् निवर्तयितुमुपचक्रमे । -

[[४५]]
कर्तृत्वं द्विविधं विप्रास्सङ्कल्पात् करणादपि ।
नहि सङ्कल्पमात्रेण कुलालैः क्रियते घटः ॥

हे विप्राः कर्तृत्वं कार्यकारण सामर्थ्य द्विविधं द्विप्रकारं भवतीति
शेषः । कुतस्सङ्कल्पादिदमेवं भूतं भवत्विति स्मृत्यैकं करणाद्विकृति
हेतुभूत हस्तचलनादि व्यापृत्यैकम् । ननु उभयोरपि सङ्कल्पस्यावश्वकत्वात्
तमेव केवलमवलभ्य कतृत्वमेकरूपं भवत्वित्यत आह । नहीत्यादि । नहि
हस्तचलादि व्यापृतिरूपकरणं विहायस्सङ्कल्पमात्रेण केवलमिदमेवं
भूतं भवत्विति स्मृत्या कुलालैर्मृदं सङ्क्षोभ्य घटः क्रियते । ननु तर्हि
शिवोपि तथेति किमनयाभिन्न कल्पनयेत्यत आह -

शिवस्सङ्कल्पमात्रेण बिन्दुक्षोभकरस्सदा ।
[[४६]]
न व्यापारविशेषेण येनायं विकृतो भवेत् ॥

स शिवस्सदा प्रति सृष्ट्यारम्भकालम् अचिद्व्यापार हेतुत्वाद् व्यापारशब्दे
शब्दितेन स्वाभिन्नकरणशक्तिसङ्कल्पमात्रेण बिन्दुक्षोभकरः । बिन्दुं
सङ्क्षोभ्य शान्त्यतीतादि भुवन निर्माणं करोतीत्यर्थः । न
व्यापारविशेषेण नहि केवलं भिन्नकरण व्यापृत्यन्तरेण विकरणेन येन
विकरणेनायं शिवो विकृतो भवेत् । रूपान्तर परिणतिमान् भवेत् । ननु शिवस्तु
व्यापृतिमनवेक्ष्य न विकृतिमान् भवति । कुललस्तु तामवेक्ष्य विकृतिमान्
भवतीत्युक्तः किमपरार्धं तेनेत्यत आह -

समस्तोपाधि शून्यत्वा निर्मलत्वाच्च हे द्विजाः ।
य एवोपाधिमन्तस्ते विकृताः कार्य जन्मनि ॥

[[४७]]
ततश्च नाविकारित्वं कर्तृत्वेन विरुध्यते ।

हे द्विजाः न पक्षपाततोस्माभिरुच्यते । किन्तु शिवस्य समस्तोपाधि शून्यत्वात्
भव समुपववर्तिन्यात्मनि स्वधर्म आदधति
आसजयन्तीत्युपाधयश्शरीरेन्द्रियादयः । समस्तैस्तै शून्यत्वात् भोग्य
भोक्तृत्व सम्बन्धा भावात् । ननु तदुहित केवलात्मनां
सङ्कल्पादेरसम्भवात् तथेति कुतश्शिवस्य
बिन्दुक्षोभकरत्वमित्याशङ्कायामिदन्निर्मलत्वाच्चेति । न केवलन्तेषामिव
तदुहितत्वमात्रं मलेनातिरस्कृत शक्तित्वादपि न समापेक्षत्व
विकारित्वादिकम् । ननु यत्र कर्तृत्वं तत्र विकारित्वमिति व्याप्तिरस्ति । सत्यम् ये
केचित् कार्य जन्मनि करणीयोत्पादने उपाधिमन्तः देहिनः । कर्तारस्ते [[४८]]
स्वकीयाशक्तेर्व्यापारापेक्षत्वाद्विकृताः विकारिणा भवन्त्येव । ततस्वतोऽपि
कुम्भकारादीनां विकारित्वासम्भवात् । यत्र देहित्व सामानाधिकरण
कर्तृत्वन्तत्र विकृतित्वमित्यवच्छिन्नत्वाद्व्याप्तेः अविकारित्वं कर्तृत्वेन न
विरुध्यते तस्य स्व सामानाधिकरण स्थितिन्नतिरस्क्रियते । यत्र चित्वे
सत्यविकारित्वन्तत्र कर्तृत्वम् । यथा स्वदेहस्पन्दकर्तर्यात्मनीत्यनुमितत्वात् ।
ननु देहिनामेव कर्तृत्वन्दुष्टमिति कथं विदेहस्य
कर्तृत्वमित्याशङ्कायामाह -

समस्तोपाधि शून्यत्वात् कर्तृत्वन्नेष्ट्यते कथम् ।
कर्तृत्व प्रतिबन्धत्वादुपाधेस्तद्वियोगतः ॥

भवेत्प्रत्युतकर्तृत्वं प्राचुर्याया मुनीश्वराः ।

[[४९]]
हे मुनीश्वराः । समस्तोपाधिशून्यत्वात्
निखिलशरीरेन्द्रियाद्यभावतः कर्तृत्वं कथं केन प्रकारेण नेष्यते ।
नस्वीक्रियते किन्देहित्वं कर्तृत्वेन व्याप्तमिति वा किं कर्तृत्वन्देहित्वेन
व्याप्तमिति वा । तत्र न प्रथमः । उपाधेः कर्तृत्व व्याप्तस्येन्द्रिय शरीरस्य
दहन व्याप्तधूमस्य तदति प्रकाशप्रतिबन्धत्वमिव कर्तृत्व
प्रतिबन्धत्वाक्तदभिव्याक्ति विरोधित्वात् । किञ्चिद्विसयकरत्वं
प्रतिबन्धमित्याशयः । तद्वियोगतः स्व स्व निबन्धन मलशरीरेन्द्रियादि
विश्लेषतः । कर्तृत्वं प्रत्युत पुनरभिमत विरोधतः । किञ्चिज्ञकर्तृत्व
विलक्षणतया आर्द्रवर्ति प्रभावाद्यभावतोपि धूम दीप इव प्राचुर्याय
अत्यभिव्यक्त्यर्थं भवेत् सर्वविषयं स्यादिति भावः । यदुक्तन्द्वितीयं
कर्तृत्वन्देहित्व व्याप्तमिति । तत्र यद्वा कार्यं शरीरयुक्तेन [[५०]]
कर्तव्याप्तमित्यत्रचानेकान्तिकत्वं प्रदर्शयन् विकृतित्वं नोपलभ्य
विदेहिनः कर्तृत्वं सदृष्टान्तं साधयति -

अदेहस्यापि कर्तृत्वं स्वदेह प्रेरणे यथा ।
यथार्कोदिन चेष्टानां सन्निधेरूपकारकः ॥

तथा सन्निधिमात्रेण विदधात्यखिलं शिवः ।

सदेहवददेहस्यापि शिवस्य कतृत्वमवगम्यते । तथा यथात्मन स्वदेह
प्रेरणे स्वकीय सूक्ष्मदेहस्पन्दद्वारा स्थूलदेहस्पन्द क्रियायामाद्र
संयोगे विकारित्वादि दूषणात् अस्पृष्ट्वा सङ्कल्पलक्षणक्रियार्थ
क्रियाविशिष्टशक्तिसम्बन्धलक्षणसन्निधिमात्रेण कर्तृत्वमागतम् । ननु
इच्छा मात्रेण कर्तृत्वं स्वाधिष्ठित शरीर स्पन्दादिके दृष्टन्नतु बाह्ये ।
सत्यम् । अत एव सदाधिष्ठायकत्वेन विश्वमीश्वरस्य [[५१]]
शरीरमिवानुमीयते । अत एव शिवः शुद्धाध्व लक्षण सूक्ष्मदेह
स्पन्दद्वारा अशुद्धाध्व लक्षणस्थूलदेहं स्पन्दयति । अस्मादादीनामिव
ननु वास्तवशरीरमनोव्यङ्ग्यत्वन्तदिच्छायाः मलेन शून्यत्वात् अदेहश्च
शिवः कस्यचित् कर्ता भवति व्यक्त चित्वादात्मवदिति नहि सदेहत्वेन कतृत्वं
सदेह कर्त्रा कार्यं वा व्याप्तं दुष्टान्तान्तरन्दर्शयति । यथेत्यादि
यथार्कस्सुर्यो दिन चेष्टानान्दिनेदिनेजायमान प्राणि शरीर स्पन्द
क्रियाणान्तात्विक चेष्टा रहितस्सन्निधेस्सन्निधाने नोपकारकः कर्ता भवति ।
तथा शिवस्सन्निधिमात्रेण बिन्दोर्विचित्रपरिणतियोग्यसमयं विदित्वेदमेवं
भूतं भवित्विति सङ्कल्पमात्रेणाखिलं विदधाति समस्तं करोति । ननु
सूर्यादेरिव प्रागभूत्वा [[५२]] तदानीं कार्यदेशावस्थायित्वं
भगवतस्सन्निधित्वं सर्वदा सर्वगतत्वात् किन्तु सङ्कल्पलक्षणक्रियार्थ
क्रिया विशिष्ट स्वरशक्तिसम्बन्धित्वम् । ननु नजातु देवतामूर्तिरस्मदादि
शरीर शरीरवदिति शूद्धत्वात्तददेहस्य कर्तृत्व प्रतिबन्धत्वन्नभवतीति ।
पुनर्देहिनो विश्वकर्मादेस्सङ्क्लिप्त्या स्वाभिमत कार्य कर्तृत्व दृष्टेश्च
कार्यत्वेन परिदृश्यमानं विश्वसदेह कर्त्रा व्याप्तं तनेत्याह -

सदेहस्यापि कर्तृत्वं सर्वस्यापि यदिष्यते ।
तददेहस्यापि कर्यत्वाद्व्याप्तं कर्त्रन्तरेणत् ॥

विदेहवत् सदेहस्यापि भगवतस्सदेह कर्तृणामग्रगण्यतया
साधनीयानन्त स्यापित्यभिप्रायः । सर्वत्राप्यशुद्ध वर्त्मनीव
शुद्धववर्त्मन्यभीत्यभिप्रायः । कतृत्वं यदिष्यते यद्यभ्युपगम्यते । (प्।
५३) तद्देहः किं वस्तुतः परिच्छिन्नोपरिच्छन्नो वा यद्यप्यपरिच्छिन्नस्तदा
शिवस्यैव बिन्दुशक्तिर्वा देहत्वेनोपचर्यत इत्यस्मद्दर्शनमेव । यदि
परिच्छिन्नः तर्हि सावयवत्वान्नचाकार्य इति वाच्यम् । यत्र सावयवत्वन्तत्र
कार्यत्वमिति सव्याप्तिक सावयवत्व सद्धेतोर्व्याप्ति विभं जनप्रसङ्गात् ।
नहीश्वरशरीर व्यतिरिक्त इति व्याप्तिस्सङ्कोचनीया आदेहस्यापि कर्तृत्वं
स्वदेह प्रेरणे यथेति विदेहस्यापि कर्तृत्वलक्षणकार्यसिद्धेन निबन्धनमिति
सफलत्वात् । ततस्तद्देहस्याप्यस्मदीय शरीरवत् कार्यत्वात् कर्त्रन्तरेण तदितर
विधात्रा तत्कार्यं व्यात्पं यत्र कार्यत्वं तत्र सकर्तृकत्वमिति
साहचर्यनीयमनियमितम् भवतु ततः काक्षतिरित्याशङ्क्याह -

[[५४]]
तस्य देहादयोप्येवमित्यवस्थान कुत्रचित् ।
तत्र प्रथमसृष्टेस्तु समस्तोपाधिवर्जितः ॥

कर्ता महेश एवेष्टः प्रवृत्ता शेष शक्तिकः ।

अदेहस्य तत्र कर्तृत्वानभ्युपगमात् । तस्य विश्वकर्तृर्देहनिर्मातु
देहादयोपि एवं कर्त्रन्तरेण व्याप्ता इति तस्य तस्येत्यवस्थान कुत्रचिदेकत्रापि
न भवति । किन्त्वन वस्थेत्यर्थः । ननु कस्यचित् कर्तृदेहस्य
स्वकृतत्वमभ्युपगम्यानवस्थां परिहरामः । तन्नस्वदेहस्य
स्वनिर्मितव्यत्वे विदेहस्य तत्र कर्तृत्वानभ्युपगमात् । प्रागपि देहित्वं
सिद्धमिति तद्देहस्यापि स्वनिर्मितव्यत्वे तत् सिद्धमित्यनवस्था दुर्निवार्या
तस्तद्दुर्निवार्यत्वात् । प्रथम् सृष्टेस्तु सृष्ट्यारम्भकाले प्रथम
प्रभावाणां [[५५]] देहेन्द्रियाणां सदेह
कतृणामग्रजन्मनामनन्तादीनामित्याशयः । सृष्टेस्संसर्जनस्य
समस्तोपाधिवर्जितः । समस्तैश्शरीरेन्द्रियादिभिर्विमुक्तः
प्रवृत्ताशेषशक्तिकः । प्रवृत्तास्सङ्कल्पलक्षण व्यापृतिरूपा अशेषा
समस्ताजनन्यादयश्शक्तयो यस्य तस्तथोक्तः । महेश शिवः
कर्तेष्टसृष्टेत्यभिमतः तदेतत् सदुक्त्या परशिवस्य क्लिप्तपञ्चवक्त्र
त्रिपञ्चदृक्त्वात् । वास्तवं शाक्तं बैन्दवादिकं वा शरीरं वदन्तः
प्रतिक्षिप्ताः एवकार तु शब्दावयोगान्ययोग व्यवच्छेदपरौ । ननु शिवस्य
कुम्भादौ कर्तृत्वादर्शनात् । कुतस्सर्वकर्तृत्वं सत्यं तत्र प्रयोजकत्व
रूपं कर्तृत्वमस्तीति सर्वमनवद्यमित्थं सदेहस्य कर्तृसर्वकर्तृत्वन्निरस्य
शिवभेदश्शक्तितस्सिद्ध इत्युपसंहरति ।

[[५६]]
लयादिकोप्ययं भेदश्शक्तितस्तु ततस्थितः ।
बिन्दुक्षोभोयतश्शम्भोश्शक्तेरेव प्रवर्तते ॥

अयं प्रागुक्त लयादिकश्शिवादिको भेदश्शक्तिदश्शक्तिद्वारा
पत्युस्थितो निश्चितः । ततः तस्मात् कारणात् यतो यस्मात् कारणात् बिन्दुक्षोभो
बिन्दुविकरणम् । शम्भोश्शिवस्य शक्तेस्सङ्कल्परूपलक्षणतः प्रवर्तते
जायते । तथाहि शक्तयो हि कर्तव्य तिरस्कारेण स्वात्मन्यवस्थिताः ।
लयतत्वाभिधानमवस्थाविशेषमुददीपयन्यो निष्कलादि पदप्रवृत्तौ
उपाधिभावं प्रतिपद्यन्ते । यदातुराः कार्यसम्पादन प्रवृत्ता नच तत्
प्रयोगभूमिं प्राप्तास्तदा तत्पालन प्रवृत्तत्वात्
भोगतत्वाभिधानमवस्था विशेषमादर्शयन्त्यस्सकलनिष्कलादि पद
प्रवृत्तौ कारणतामुपयान्ति यदा पुनः [[५७]]
कार्यप्रयोगदशामनुप्राप्तास्तदधिकार
तत्वाभिधानमवस्थान्तरमवभासयन्त्यस्सकलादिपदप्रवृत्तौ हेतुतां
व्रजन्तीति शक्तीनां प्रवृत्तिभेदकल्पनयात्र भेदोन पारमार्थिकः ।
यदाहुः -

शक्तोद्युक्तः प्रवृत्तश्च कर्तात्रिविध इष्यते ।
शक्तेः प्रवृक्तिभेदेन भेदस्तस्योपचारत ॥ इति ॥

ननु भेदोपचारस्य प्रयोजनमत्रवक्तव्यम् । यदाहुः -

नर्तेप्रयोजनादिष्टं मुख्यशब्दार्थलङ्घनमिति ॥ उच्यते ।

दीक्षादिनाधिकारतत्वयोजितस्य भोगाख्यतत्वयोजितस्य ततोऽपि लयतत्व
योजितस्याणो स्थूलसूक्ष्मपरशक्त्यभिव्यक्ति भेदेन वास्तव एवात्र भेद इति
दर्शयितुं संस्कारस्यात्र भेदोपचारः कृत इति न निष्प्रयोजनं शिव
शिवशक्ति [[५८]] शिवशक्ति व्यापाराणां लयाद्यविभागभेदो वास्तव इति
तात्पर्यम् । सा शक्ति कीदृशीति जिज्ञासायान्तत् स्वररूपन्निरूपयति । -

ज्ञानक्रियात्मिकासापि नित्यानित्योदितप्रभा ।
सा पराभिमुखी सर्वबन्धलेशविवर्जिता ॥

अनन्यान्याशिवात् सैव वस्तुतोमूर्तिरैश्वरी ।

सापि शक्तिज्ञानक्रियात्मिका । ज्ञानञ्च क्रिया च ते आत्मा स्वरूपं
यस्यास्सा तथोक्ता । ज्ञानात्मिकेत्यनेन परिग्रहशक्तेः कुण्डलिन्याः
विशिनष्टिस्मनित्यानाशरहिता तदनेन बौद्धज्ञानाद्विशिनष्टस्म
सर्वबन्धलेशविवर्जिता । सर्वमलादि बन्धानां लेशेन
शेषांशभूताधिकार मलेनापि विवर्जिता विमुक्ता । तदानेन विद्येश्वरादि
शक्तेर्विशिनष्टिस्म [[५९]] नित्यादितप्रभा । अनादिव्यक्तप्रकाशा
तदनेनमुक्तशिवशक्तेर्विशिनष्टिस्म । सापराभिमुखी विषयाभिमुखी
तदनेन क्रियात्मिकेत्यनेन च ज्ञानप्रधान स्वप्रकाश
शिवस्वरूपाद्विशिनष्टिस्म । शिवादनन्यपरचिद्रूपशक्तेस्संवेद्यतया
तदनुभूतिलक्षणस्ववृत्तिका ॥

स्वचिद्रूप शिवसिद्धौ सत्यां यद्यपि स्वेतर स्ववेद्यत्वे स्वात्मनि   

क्रियाविरोधेन वेद्यविलक्षण वेदनत्वेन स्वसंवेद्यतया विराजत इति । यदेव
परसंवेदनं शक्तिरूपन्तदेव स्वसंवेदनं सत् स्वसंवित्सिद्धं
शिवरूपमित्य पृथक् सिद्धत्वादन्या सती स्वयन्नविद्यत इत्यनन्या । अन्या च
एकाविसंवित्तस्या स्वपरापेक्षस्वरूपत्वं विद्यत इति स्वापेक्ष स्वरूपमात्र
विवक्षतया [[६०]] शिव इति परापेक्ष स्वरूपमात्र विवक्षया शक्तिरिति पृथक्
सिद्धतयोपवर्णिता । सैव एतल्लक्षणलक्षितैव वस्तुतः स्वभावतः । ऐश्वरी
शिव सम्बन्धिनी मूर्तीः । द्विविधाह्यात्मनान्मूर्तिः चलाचला च तत्र
चलातात्विकभौवन शरीरात्मिका । अचला ज्ञानक्रियात्मिका ।
मूर्तिरियमपीदृशी । ननु व्यतिरिक्ता हि मूर्तिः सत्यन्तत्वेनोपचर्यत इति
अव्यतिरिक्ता । तदुक्तम् अत्र -

ज्ञानक्रिये शिवप्रोक्तः सर्वार्थे निर्मले वरेति । सातु -

लयावस्थां यदा प्राप्ता तदोदासीनरूपिणी ।
कार्यभावादुदासीन सम्यावस्था तदेव हि ॥

यदा यस्मिन् काले लयावस्थामतिक्रान्त बिन्दुकदशां प्राप्ता गता
तदोदासीनरूपणी । तस्मिन् काले कर्तव्य [[६१]] तिरस्कारलक्षणा कुतः
कार्यभावात् स्वकर्तव्यलक्षणक्रियांशस्य स्वनिष्ठत्वादुदासीना तदैव हि
साम्यवस्था सदृशत्व दशा । यदोद्युक्तदशां प्राप्तेति शेषः । कुत इत्यत
आह -

विज्ञानक्रिययोस्साम्यं यस्माद्युद्युक्तकर्तृषु ।
ततोह्येतत् करोमीति व्यापारे साम्यमेतयोः ॥

यस्मात्कारणात् इत्युक्त कर्तृषु स्वस्वकार्यसमुप्तत्यर्थं तदुपाय चिन्तकेषु
कुम्भकारादिषु एतत् करोमीति व्यापारे विज्ञानक्रिययोः ज्ञानक्रिया
शक्त्योवेदन कृति व्यापृत्योः साम्यं विविक्तं विदितन्ततस्तस्मात् उद्युक्त कर्तरि
। शिवे शिवस्य निर्विकल्पेपिशब्दानुविद्धबौद्धविकल्पवैधूर्यलक्षणया
ताथ्य पदार्थ परस्पर [[६२]] व्यावृत्तरूपग्रहणलक्षणा विकल्प
सविकल्पोस्तीति एतयोः ज्ञानक्रिया शक्त्योरेतत् करोमीत् ज्ञानक्रिया रूपे
व्यापारे साम्यमनुसन्धेयम् । एतदिति ज्ञानांशस्याभिनयः करोमीति
क्रियांशस्य अधिकारदशायां किमित्यत आह -

अधिकारे क्रियोदृक्ता कार्येष्वधिकृतायतः ।
कार्यञ्च करणीयन्तु गुणसङ्कल्पसंस्मृतिः ॥

अधिकारे अधिकारदशायां क्रियात्मिका शक्तिज्ञान शक्तेः उद्रित्ता
बाहुल्यवति । अतः यतः क्रियाशक्तिः कार्येष्वधिकृता प्रवृत्ता तत् कार्यं
किमित्यत आह । कार्यञ्च करणीयन्तु इच्छानन्तरकार्यकृदिति श्रुतेः ।
भगवतः क्रियाशक्तिरेव स्वकर्तव्यक्रियांसङ्कल्पशब्दशब्दित दृक्
क्रियात्मकेच्छालक्षणकर्तव्यान्तरं कृत्वा तेन घटितेच्छाशक्तित्वेन [[६३]]
वर्तते पुनरस्मदादीनामपि सरागमनोभिव्यक्तासती क्रियाशक्तिः
तादृशीसतीच्छाशक्तिरिति च वर्तत इति गुरवः ततस्तदिच्छाशक्तिलक्षण
कर्तृशक्तिः कर्तव्यार्थमात्र निपतित तदिच्छात्म प्रत्यर्थेच्छात्म स्वकार्येषु
प्रवृत्तेति तदपि करणीयं गुणसङ्कल्पसंस्मृतिं प्रत्यर्थमिदमेवं
भवत्विति कर्तव्य पदार्थगुणविषयेच्छालक्षणस्मरणं तल्लक्षणं
ज्ञानन्ततः ।

नतु व्यापार इत्युक्ता विभोस्तद्विषयास्मृतिः ।
तस्मात् सदाशिवोज्ञान ज्ञातृरूप इति स्थितः ॥

विभोश्शिवस्य तद्विषयतास्मृतिर्विचित्रगुणबिन्दुकार्यगोचरं स्मरणं न तु
व्यापार इत्युक्ता विकृति निबन्धन जडस्पन्द क्रियारूप व्यापृतिरिति नोदिता ।
तथोक्तिस्तु [[६४]] तद्धेतुत्वात् । तदुक्तं मालिनीविजये -

ज्ञापयन्ती जगत्सर्वं ज्ञानशक्तिन्निगद्यते ।
एवं भूतमिदं वस्तु भवत्विति यदापुनः ॥

जाता तदैव तद्वस्तु कुर्वन्त्यत्र क्रियोच्यत इति ।

फलितमाह - तस्मादिति तस्मात् क्रियाया अपि ज्ञानलक्षणत्वात् । सदास्मापादि
सर्वस्मिन् काले शिवः ज्ञानज्ञातृरूप इति स्थितः । स्व परप्रकाशरूपः न
जडस्पन्द क्रियालक्षण इति सुनिश्चितः इदमपरिज्ञातवतां भ्रम इति भावः ।
ज्ञानक्रिया शत्योर्थ प्रत्यर्थ विषय स्वकार्यानुरूपतस्समविषम
स्थितिमुक्त्वोपसंहरति । -

अनयोर्ज्ञानयोर्हेतुरविशेषात्मिकाचितिः ।
शक्तिरूक्ता विकल्पा सा महती मूर्तिरैश्वरी ॥

[[६५]]
अनयोः ज्ञातयोः एतयोः विचित्रकार्यविषयज्ञान तत्
गुणसङ्कल्परूपज्ञानलक्षणक्रिययोः हेतुः कारणम् अविशेषात्मका ।
अविशेषः अभेद आत्मस्वरूपं यस्यास्सा तथोक्ता । उभय साधारण
रूपिणीत्यर्थः । अत एवा विकल्पा । विकल्परहिता । महती सर्वार्थ व्यापि ऐश्वरी
शिवसमवायिनी मूर्तिरचलेति पुरोक्ता । चिति चित् सा शक्तिरूक्ता शिवबलमिति प्रोक्ता
सा तु चिदचिदनुग्रहकर्त्री सत्यचिदनुग्रहकर्त्री सति । चिच्छक्तितिरोधायिका ।
चिदनुग्रहकर्त्री सत्यचिन्मलशक्तितिरोधायिका भवति । शिव समवेततया शक्तेः
परिणति धर्मरहितत्वात्तत् ज्ञानक्रियारूपं कार्यं भेदोक्तिरूपचारबीजेति ।
तदपृथक् सिद्धमेकस्वभावं ज्ञेयम् । तदुक्तं रत्नत्रये -

[[६६]]
इच्छाकार्यमनिच्छापि कुर्वाणेच्छा चिदव्यया ।
ज्ञानमज्ञानरूपैव मक्रिया विक्रियान्तथेति ॥

ऋषयो वाच्य भेदमजानन्तस्समानवाचकमात्रे भ्रमन्तः
पुनराशङ्कयन्ति । -

दीक्षाया भगवंस्तत्वं शिवाख्यं शोध्यमीरितम् ।
शान्त्यतीत कलाव्याप्तमिति चाद्य विरूध्यते ॥

हे भगवन् दीक्षायां शिवाख्यं शिवाभिधानन्तत्वमतिक्रान्त
बिन्दुकमित्युक्तं शोध्यमीरितम् । शोधनीयमित्यप्यत्युक्तम् । पुनश्शान्त्यतीत
कलाभ्याप्तं शान्त्यतीत कलागर्भितमिति चोदितम् । अद्येदानीन्तदिदं विरुद्यते
। अतिक्रान्त बिन्दुकत्वेन तिरस्क्रियते भगवान् सत्यशब्दं
प्रयुञ्ज्यार्द्धाङ्गीकारं प्रदर्शयन् परिहरति । -

[[६७]]
चोदितं सत्यमेवैतद्वक्ष्यै यूयं समाहिताः ।
प्रकृतित्वादयं बिन्दुः क्षोभ्यतेनाखिलात्मना ॥

तत्रयोक्षुब्दभोगोस्य शान्त्यतीतकला तु सा ।
शान्त्यादि भुवनात्मायः परिणामस्तु बैन्दवः ॥

शिवतत्वं तदत्रोक्तः सादाख्यं भुवनन्तु यत् ।
बैन्दवं स तु सादाख्यन्तत्वमुक्तं शिवागमे ॥

ऐश्वरं तदधस्तत्वः तदवेश्वरमीरितम् ।

प्रकृतित्वात् परमकारणात्वात् सर्वात्मना क्षोभ्यत्वे अनित्यत्वतोनवस्था
प्रसङ्गात् अयं षट्पदार्थमध्यपठितो बिन्दुरखिलात्मना सर्वात्मना न
क्षोभ्यते नविक्रियते । तत्र क्षुब्धा क्षुब्ध भागयोर्मध्ये स्यबिन्दोरक्षुब्ध
भागो यस्सा शान्त्यतीतकला शान्त्यतीतकलेति ज्ञेया । [[६८]] यश्शान्त्यादि
भुवनात्मा शन्त्यादीन्युपलक्षणत्वाच्छान्त्यतीतसहितानि
भुवनान्येवात्मा स्वरूपं यस्य स तथोक्तः बैन्दवः बिन्दूत्पन्न
परिणामः तदत्र शान्त्यतीतकला व्यप्तत्व शोध्यत्व स्वीकारे शिवतत्वमुक्तम्
। नतूपसंहृतकार्यबिन्दुलक्षम् । तदधिष्ठन
शिवशक्तिकिरणात्मकमथवेति भावः पुनरत्रेति पदमिदमपि ज्ञापयति । अत्र
पौष्कर परमेश्वरे । शिवतत्वमुक्तम् । अन्यत्र शान्तिमस्तकस्थं शान्त्यतीत
कलाव्याप्तं शान्त्यतीत भुवनमेकं शोध्यं शिवतत्वम् । पुनश्शान्त्यादि
भुवनात्मकं शान्त्यादि कला चतुष्टयम् । शान्त्यतीत कला व्याप्तं
शक्तितत्वमिति । सादाख्यमीश्वरमपि तत्वमत्र न शिवशक्ति किरणात्मकम्
अथवोद्युक्तकार्यबिन्द्वात्मकं [[६९]] कार्यप्रयोगभूमि प्राप्तिमत्
बिन्द्वात्मकं वेत्याह । सेत्यादि शिवागमे । यत् बैन्दव सादाख्यमसादाख्य
सञ्ज्ञितं भुवन तत्तु तदेव शोध्यत्वेन समुदितं सादाख्य तत्वमुक्तम् ।
नतु तदित्याशयः यत्तदधस्तत्वमथस्तनभागेवर्तमानत्वम्
ऐश्वरमीश्वरसम्बन्धि तथेश्वरसञ्ज्ञितं तदेवेश्वरमीरितं तदेव
शोध्यत्वेन समुदितमीश्वरतत्वमित्युक्तं नतु तदि तदित्याकृतम् । इत्थं
परिहृत्योपसंहरति । -

एतानि त्रीणि तत्वानि सन्तितत्वात्मवर्त्मनि ।
एतान्येव तु शोध्यानि पुरोक्तानि न कुत्रचित् ॥

तनिप्राप्याणि सर्वैस्तु दीक्षया योजितैर्नृभिः ।

तत्वमेवात्मना स्वरूपं षडध्वसुमध्ये यस्य वर्त्मनस्तत्वात्म-
वर्त्मन्तस्मिन्तत्वात्वमध्वनि । [[७०]] शुद्ध इत्याशयः एतानि बैन्दवानि त्रीणि
तत्वानि सन्ति । विद्यातत्वमीश्वरतत्वे, शक्तितत्व शिवतत्वेन्तर्भूतं ज्ञेयम् ।
एतान्येव तु शोध्यानि कुत्रचित् क्वचिदपि न पुरोक्तानि शक्तिकिरणात्मकत्वेनोक्तानि
। तदधिष्ठेयोपसंहृतबिन्द्वात्मादीनि वा । ननु भुवनोपाधिक भोगोधिकार
दशाङ्गातया शक्तेर्मन्त्ररूपत्वात् । कथन्न शोध्यत्वम् । सत्यम्
मन्त्रात्मवत्मतया शोधनीयन्नतु तत्वात्मवत्मतयेति । न
किञ्चिदसमञ्जसम् । तानि बैन्दवानि दीक्षया योजितैस्सर्वैरणुभिन्निरतिशय
भोगार्थं प्राप्याणि न तु सर्वैरित्युक्तं किं लयतत्वे योजितैरपि नेत्याह -

योजितालयतत्वे ये ते मुक्ताना परत्र च ।
[[७१]]
भोगाधिकार तत्वस्था व्यक्तचिन्मात्र शक्तयः ॥

विद्यातत्वादनन्तभुवनादूर्ध्वं तत्व भुवनात्मकानि सदाशिव निवृत्ति
प्रतिष्ठा विद्याशान्ति बिन्दु परमशिवलक्षणानि सप्तैवक्रमेणातिशयवन्ति ।
विमोक्षस्थानानि सन्ति । तत्र परमशिवलक्षणस्थानमेकं विहायस्सर्वस्मात्
भोगतत्वावधि बिन्दुसञ्ज्ञक शान्त्यतीत
पर्यन्तादधस्तान्नोधृतस्सप्रेर्यत्वान् न निवृत्त इति न मुक्तः । ततो दीक्षाया
मायातत्वादूर्ध्वं मलविच्छेदान्तं पाशच्छेदं कृत्वा स्वान्तर्भूता
शुद्ध द्वित्रितत्वाधिकार भोगतत्वावलिं बिनीन्तदनुरूप
स्थूलसूक्ष्मरूपिणीं शिवतत्वाभिव्यक्तिं विधाय
शिखाच्छेदरूपतिरोधशक्तिप्रेर्यत्व विच्छित्यधिकृति पूर्वं परलक्षण
शिवत्वाभिव्यक्त्यर्थम् । [[७२]] तस्मात् भोगतत्वादुद्धृत्य
लयतत्वेतिक्रान्तबिन्दुके परशिवलक्षणपदे ये योजितास्ते तत् सदृशपरगुण
परव्यक्त्या सम्प्राप्त सर्वेश्वरत्वां मुक्ताः
विमुक्तबन्धनाश्शिवस्सदृशा भवन्ति । ननु अनाख्ये तु निरालम्बे अग्राह्ये
मनवर्जिते । निस्तत्वे योजितो मुक्त इति शास्त्रस्य निश्चयः ॥ इति श्रुतेः । परमुक्ति
प्राप्त्यर्थं लय व्यपदेशाद्यसंस्पर्शिनि विशिष्टलक्षण शिवे योजनं
कार्यं सत्यम् । अत्र श्रीमन्मतङ्ग इव शोध्यत्वेन समुदितं
सर्वमभोगतत्वान्तः कृतमिति । तदुपरियोजितास्सर्वत्रयोजिता इति न
किञ्चिदसमञ्जसम् । अपरत्र चानतिक्रान्त बिन्दुके लये भोगाधिकार तत्वद्वये
च स ***र्थ ये योजितास्तेन मुक्ताः शान्त्यतीतादि भुवन गमनत्वात् [[७३]]
प्रेर्यत्वान्ननिवर्तन्त इति भावः । तर्हि ते कीदृग्रूपाः । भोगाधिकार
तत्वस्थाश्शिवस्य भोगाधिकारस्थानत्वे न वक्ष्यमाण शान्त्यतीतादि
भुवनस्था व्यक्तचिन्मात्र शक्तयः । प्रकटीकृतशिवस्सन्दृक् शक्तयः । कर्तृ
शक्त्या क्रमतः किञ्चित् किञ्चिनून भावं भजन्तीति भावः । ननु
शक्तेर्निरंशत्वात् कथञ्चिदंशेनाभिव्यक्तिर्नक्रियांशे नेति सत्यम् ।
श्रीमदनन्तादीनां शक्तयस्थूलसूक्ष्मात्मनाभिव्यक्ता शब्दानुविद्धा
सर्वार्थन्दर्शयन्ति शब्दादि सापेक्षत्वात् । ज्ञानशक्ति व्यक्तिरपि न सर्वथेति
सर्वमनवद्यम् । सूचितं भुवना भुवनाधिष्ठातृत्वेनापि
भिन्नव्यपदेशं विस्पष्टं विनिवेदयति । -

बिन्दुनैव हि भिन्नोयं भक्तस्तु भुवनैरपि ।
[[७४]]
शान्त्यतीता च शान्तिश्च विद्यास्थिति निवृत्तयः ॥

बिन्दुना बिन्द्ववस्था विशेषेण भिन्न एव भिन्न व्यपदेशं लब्धवा
नेवायं शिवस्तद्वदनन्तरं भुवनैरपि विभक्तः प्रतिभुवनमधिष्ठातृ
तया तदनुगुणभिन्नव्यपदेशं लभते । तत् भुवनानि च महाप्रलयान्तरं
सर्गारम्भे क्रमिकगलनबिन्दूपाधिको युक्तावस्थेन क्रमिकार्य
प्रयोगदशात्माधिकारावस्थो परूढेन विचित्रसर्गनिर्माणाधिकारन्
निवर्तयता भगवता प्रथमं बिन्दौ शब्दसृष्टौ नाद इव निर्मितं
शान्त्यतीता शान्त्यतीत भुवनं स्वान्तभूत स्वोर्धवर्तिन्धिकाधि भुवनं
शान्त्यतीतारूपपरबिन्दोशक्तिरूपत्वेन सपुनरमुक्तिमां
निस्सन्निवेशनिर्मिमोनि इति भुवनाधारत्वायोगात्तत् कार्यशान्तिमस्थकम् । (प्।
७५) अत एव लयतत्व सञ्ज्ञितं यद्यपि भोगतत्व सञ्ज्ञितं सत्
भोगतत्वान्तर्भूतमीशान भुवनमित्यपि प्रसिद्धं शान्तिर्विद्यास्थिति
निवर्तयः । स्थिति प्रतिष्ठा शान्त्यादिनि चत्वारिभुवनानि
शान्त्यादिकलाचतुष्टयं शिवस्य भोगस्थानं शक्तितत्वमिति । तत्रान्तरे
प्रसिद्धत्वात् शक्तितत्त्वभुवनान्युच्यन्ते । अत्र तु शिवतत्वान्तर्भूततया
शक्तितत्वस्य दर्शनमिति ज्ञेयम् । तत्र शिवस्य सञ्ज्ञा भेदन्दर्शयति -

भुवनानि महान्त्येषु सञ्ज्ञाः पञ्चलभेच्छिवः ।
ईशानपुरुषाघोर वामजातात्मिका क्रमात् ॥

एतास्सदाशिवावस्था भोगस्याननपञ्चकाः ।

एतदभिधानानि भुवनानि महान्ति उपरितन भुवनोपरि वर्तित्वात् एषु
पञ्चस्वधिष्ठातृतया शिवस्सञ्ज्ञाः क्रमादीशानाद्यात्मिकाः [[७६]]
पञ्च लभेत् । एता एतत् सञ्ज्ञितशक्ति व्यापृति लक्षणे शानादि मूर्तयः
सदाशिवावस्थाः सदाशिवस्य सादाख्य तत्वाधिष्टा तु ईशानादि मूर्ति
समष्टि रूपस्य शिवस्यावस्थाः व्यष्टिरूपतयावस्थितयः । स एव
भोगसञ्ज्ञितः शान्त्यतीतादि
प्राप्तिकामैरीशानमूर्त्याद्याकारतयाध्यातव्यः । फलप्रदो भवति । अत
एव ता भोगस्य व्यष्टिरूप शान्त्यतीतादि भुवनातिष्ठातुः शिवस्यानन
पञ्चकाः । सदाशिवीं समष्टिरूपान्तान्तनुमेव कार्यं शरीरयुक्ते । ननु
कर्तृव्याप्तमिति अभ्युपगमेपि क्लिप्तशाक्तदनुरस्तीति दर्शयन् वर्णयति -

पञ्चमूर्तिमयीं शुभ्रा नित्यासकलनिष्कल ।
मूर्तिस्सदाशिवी ज्ञेया सर्वकार्य प्रवर्तिका ॥

[[७७]]
पञ्चमूर्तिमयी ईशानादि पञ्चमन्त्रमूर्तिरूपा शुभ्रा
धवलकारतयोपास्य नित्या परमार्थनाशरहिता क्लिप्ताकारत्वान्मूर्ते
क्लिप्तरूपोपसंहृति श्रीमन्मतङ्गादौ वर्णिता । सकलनिष्कलाः तदधस्तन
कार्योद्युक्तत्वात् । अत एव समष्टिरूपाधिकारोपि सदाशिवोऽत्रभोग इति वर्णित इति
वक्ष्यामः । ईदृशी मूर्तिस्तनु सदाशिवी ज्ञेया सदाख्यताधिष्ठातृ
सदाशिवभट्टारक सम्बन्धिनीत्यवगमनीया । सातु सर्वकार्यप्रवर्तक
निष्पत्यर्थं सर्वकार्यसङ्क्षिप्तिमती पञ्चमूर्तिमयत्वं विस्पष्ट
दर्शयति -

ईशान शेखरी सा च पुंवक्त्रा घोरहृत् स्थला ।
वामगुह्या च सद्याङ्गी हारिणी जननी तथा ॥

रोध-इत्रीतीतिसृभि शक्तिभिः कल्पितेन्द्रिया ।

[[७८]]
समासार्थ समर्थनमुत्तरत्र क्रियते । ईशानाद्यात्मा स्थूलकार्य
तनुं हारिणी जननिरोध इत्रीतीतिसृभि शक्तिभिः । कल्पितानि उपलक्षणतया
बुध्यादिसहितेन्द्रियाणि यस्यास्सा कल्पितेन्द्रिया कल्पितसूक्ष्मकरणतनुयुक्ता
ईशान प्रमुखाष्टशक्तीनां क्रियाशक्ति प्रसरस्वरूपत्वात् ज्ञानशक्तिः
क्रियाशक्तिरिच्छाशक्तितिरोधान शक्तिरनुग्रहशक्तीति प्रथितशक्ति
पञ्चकस्वरूपस्य प्रसरा विशेषात्मशक्तिलक्षण सदाशिव शैतन्य
यक्तिमती च शिवस्यानन्तशक्तीत्वात् । किं केवलमासामुपवर्णनामिति
नाशङ्कनीयमित्याह -

अष्टावेतायशस्विन्यः ईशाद्यस्त्रिशूलिनः ।
आसं वीर्यं विभागञ्च स्वरूपेणोच्यते द्विजाः ॥

[[७९]]
हे द्विजाः । त्रिशूलिनश्शिवस्य एताः ईशानाद्या अष्टोयशस्विन्यः
सर्वकार्यसमुत्पादनक्षमात् कीर्तिमत्यः तत्तस्तन्मात्रोपवर्णनमित्याशयः
। आसां शक्तीनां वीर्यं सामर्थ्यन्तत् भेदेन कार्यविभागञ्च
स्वरूपेणोच्यते स्वभावतः कथ्यते । क्रमतो वदति -

ईशानिपरमाकाष्ठा शेखरत्वेन कल्पिताः ।
जगत्पूरण हेतुत्वात् बिन्दोर्नादादिवृत्तिभिः ॥

वक्त्रेणासाम्यतस्तस्य पुमान् वक्त्र वितीर्यते ।
घोरोमलादि संसारस्तद्विरोधितया विभुः ॥

अघोर इति विख्यातस्सद्भावोयं सलक्षणः ।
हृदयञ्चापि सद्भावो यस्मात्तस्मात्तदेव हि ॥

वामोस्य तु रहस्यत्वात् सूक्ष्मत्वादृक् क्रियात्मकः ।

[[८०]]
कर्ता विश्वस्य पुत्रादि कार्येषु जननं यतः ।
वामोगुह्यस्ततश्चायं शास्त्रेस्मिन् सम्मतो बुधाः ॥

सर्गेच्छामात्रतस्तस्य स्वशक्तिप्रसरात्मिकाम् ।
मूर्तिमासादयेद्यस्मात् सद्योमूर्तिस्ततस्स्मृतः ॥

ईशानि अनुग्रहकरि शिवलक्षणोर्ध्वपदे । अनुग्राह्यं शिष्यं योजयति ।
परमोन्नतियुक्ता काष्ठान्निरतिशया उत्तमाङ्गवत् सर्वोर्ध्व
स्थितत्वाच्छेखरत्वेन मूर्धत्वेन कल्पिता । ईशान्यात्मे शानोनृत्तगुरु
द्विमूर्तितयाप्यभि ध्यायमानोत्र शेखरं यस्यास्सा सदाशिवी मूतिः ।
ईशान शेखरी बिन्दोर्णादादि वृत्तिभिः । तत्रोत्पत्ति पटले
वक्ष्यमाणनादादयो वृत्तयो एषान्ते नादादि वृत्तयः ।
शास्त्रपदवाक्यात्मविप्रट्प्रसराः तैशास्य [[८१]] सकात्मकतया कालाग्नि
या द्यनाशृतान्तमखिल जगदापूरयन्ती । पूरणी नाम शक्तीतिरोभावकरी ।
तदात्मकोमन्त्रस्ताभिर्जगत् पूरणी हेतुत्वात् पुमानित्युच्यते । अनेनार्थत्वाद्
धातूणां पुं पवनेति धातुः पूरणार्थेपि वर्तते
पुंसामज्ञाननिचयं पुनातीति वा पुमान् तस्य पुंसो वचनहेतुत्वात्
वक्त्रेणास्येन साम्यतः । तुल्यत्वात् वक्त्रमितीर्यते वक्त्रमित्युच्यते । पुमान्
पूरणहेतुभूतः वक्त्रवचनहेतु लक्षणं यस्यास्सा सदाशिवीतनुः
पुंवक्त्र । अघोरः मलादिसंसारः मलहेतु भूतरागद्वेषादि संसारः ।
तद्विरोधितया द्विदासित्वेन विभुः । या संहारकारी । हार्दी नामशक्तिः
तल्लक्षणो मन्त्रः अघोर इति विख्यातः । अयं शान्तलक्षण स्वलक्षणः ।
सद्भावः । [[८२]] परमार्थः हृदयञ्चापि । लोकप्रसिध्या सद्भावः ।
परमार्थः कथ्यते । यस्मात् तस्माद् अघोरस्तदेव हृदयमेव हि । अघोरश्शन्त
स्वभावः हृत् स्थलं परमार्थलक्षणं यस्यास्सा सादाशिवीमूर्तिः
अघोरहृत्स्थल । दृक् क्रियात्मकः वामः यास्सूक्ष्मदेहात्मिका वक्ष्यमाण
त्रिकृत्यकरी । स्थूलदेहात्मिका स्थिति मात्रकरी वामानामशक्तिः । तल्लक्षणः
अस्य वामनाममन्त्रस्य वामशब्दस्य विलक्षणोत्तया विलक्षणतया
प्राण्यदृष्टपूर्वविलक्षणाङ्गस्येव रहस्यत्वात् गुह्यत्वात्
सूक्ष्मत्वादप्रत्यक्षत्वात् विश्वस्य कर्ता जनिता । सतुपुत्रादिकार्य दर्शनात्
प्राण्यदृष्टपूर्वविलक्षणाङ्गमिव विश्वलक्षणकार्य दर्शनादनुमीयते
। इति भावः यतो यस्मात्कारणात् पुत्रादिकार्येषु जन्यतेनेनेति जननम् । [[८३]]
प्राण्यङ्गभूतसाधनमगुह्य शब्दवाच्यम् प्रसिद्धम् । ततस्तस्मादयं
वामो विश्वकार्य साधनभूतः । शास्त्रेस्मिन्नस्मिच्छिवदर्शने हे बुधाः
गुह्यः गुह्यशब्दवाच्य इति सम्मित सम्यगनुमितम् । वामो विलक्षणो गुह्यं
जगत्जननलक्षणं यस्यास्सा सादाशिवी मूर्क्तिर्वामगुह्या ।
सर्गेच्छामात्रतः सृष्ट्यारम्भं कुर्म इति चिन्तनानतिक्रमेण
तस्याधिकारमनुप्रविशतश्शिवस्य स्वशक्ति प्रसरात्मिकाम् । स्वकीया
सृष्टिकरी मूर्तिनामशक्तिः तस्याः प्रसराः तदर्थाः कलाः सिध्यादयः
तदात्मिकां मूर्तिं सदाशिवतत्वाधिष्ठातृरूप पञ्चवक्त्र त्रिपञ्च
दृकात्मकशरीरावयवमासादयेत् । प्राप्नुयात् परात् समभिव्यक्तस्तदवयव
स्वरूपीस्यात् । ततस्समन्त्रस्सद्योमूर्ति स्मृतः । सद्यस्सद्यो [[८४]] मूर्तिः
अङ्गम् अवयवः यस्यास्सा सादाशिवी मूर्तिस्सद्याङ्गी । उपसंहरति -

एवं मन्त्रास्तु पञ्चैते तैर्निबध्यादनुश्शिवा ।
वस्तुतस्तु न भिन्नास्ते यतोनान्ये स्वशक्तितः ॥

एवमित्थमेते पञ्चमन्त्राः तनुरीशानादिभिश्शिवाशुद्धा तनुस्सादाशिवी
मूर्तिरुक्तप्रकारेण निबद्धाः घटिताः ते मन्त्रशब्दशब्दिताः वस्तुत
स्वभावतः विद्यातत्वनिवासिन इव ततश्शिवान्नभिन्नाः यतः
यस्मात्कारणात् स्वशक्तितः तत् प्रसरात्मकत्वात् नान्ये नेतरे भवन्ति । पुनरपि
मन्त्रास्सन्तीत्याह -

अन्तरङ्गास्तथा चान्ये मन्त्रास्सन्ति शिवात्मकाः ।
हृच्छिरश्छूलिकावर्म लोचनास्त्राणि नामतः ॥

[[८५]]
तथेशानादि पञ्चबहिरङ्गाः । किन्तु तस्थानेष्वन्तरङ्गाः । सदाशिव
तन्वन्तरितक्लिप्तिमन्तः शिवात्मकाः शिवशक्ति प्रसरस्वरूपाः अन्ये
मन्त्रास्सन्ति । तन्नामानि दर्शितवान् । हृदित्यादिना । हृदयादि शब्दार्थमाह -

सद्भावो हृदयं तस्य शिरस्सर्वोच्चितोगुणः ।
वशित्वमपराधीनं यश्छिका सोपरिस्थिता ॥

स्वभावगुप्तमन्येषा समर्थमपि गोपने ।
तेजः कवच सा धर्म्या तन्नाम्ना व्यपदिश्यते ॥

सर्वज्ञतया बीजं यत्ततस्ते न निरीक्षणम् ।
यो सावप्रसहश्शम्भोः प्रतापो हेतिरुच्यते ॥

तस्य पञ्चमन्त्र तनोश्शिवहृदयं सद्भावः । परमार्थलक्षणं
शिरस्सर्वोश्छ्रितो गुणाः । सर्वो परिवर्ति स्वधर्मः यद्वशित्वञ्चिदचित् [[८६]]
प्रेरकत्वम् अत एवापराधीनं स्वातन्त्र्यलक्षणं सोपरिस्तिता । शिखायत्
तेजस्वभावः गुप्तम् । स्वकीयभावेन महिम्ना सापेक्षरहितेन रक्षितम् ।
नकेवलं तन्मात्रमन्येषां चिदचिल्लक्षणानां गोपनेपि समर्थं शक्तं
तत् तेजः कवच सा धर्म्यात् वर्मसादृश्यात् तन्नाम्ना व्यपदिश्यते ।
कवचमित्युच्यते । सर्वज्ञतायाः षट्गुणमध्य पठितायाः बीजं हेतु
भूतं ज्ञानशक्तिप्रसरं नेत्रशब्दशब्दिततेजः । यद्यस्मात् कारणात्
ततस्तेन तेजसा निरीक्षणं भगवतस्सर्वार्थावलोकनम् । यो सा व
प्रसहस्सोहमशक्यः प्रतापः । चिदचिज्जातं भोग्यसापेक्षः । प्रकर्षेण
तदनुपह्नवनीयततया प्रतव्यतेनेनेति प्रतापः । तत् तेजश्शम्भो शिवस्य
हेतिरुच्यते । [[८७]] अस्त्रमिति निगम्यते । देह वर्मास्त्रधृति
मतामैश्वर्यन्दृष्टं किमस्य तदित्यत आह -

ऐश्वर्यं परमाकाष्ठा नैजोगुण इतीष्यते ।
यस्मात् सा परमाकष्ठा व्यत्युत्कर्षात्मको गुणः ॥

ऐश्वर्यमस्य परमाकाष्ठा परमोन्नति भूताकाष्ठा निरतिशया । साका
परिग्रहरूपिणी । किन्नेत्याह नैजोगुण इतीष्यत इति । निजः गुणः न
व्यतिरिक्तेत्यर्थः । कुतः यस्मात्कारणात् सा परमाकाष्ठा व्यत्युत्कर्षात्मको
गुणः । सर्वज्ञत्व सर्वकर्तृत्वरूप शिवत्वाभिव्यक्ति निरतिशयात्मको गुणः
शिवानन्द शिवभोगशब्दशब्दितः । मुक्तशिवस्यापि स एष गुणोस्तीति
वक्ष्यामः । अर्थान्तरमाह -

[[८८]]
ऐश्वर्यं स्वामितासर्व चिदचिद्वर्गयोर्द्वयोः ।
ऐश्वर्यन्नात्रवशिता सा यस्मादिशितुः फलम् ॥

अथवा पुनरैश्वर्यं सर्वचिदचिद्वर्गयोर्द्वयोः स्वामिता ।
चिदचिदात्मकं स्वमस्तीति स्वामितत्वं स्वामिता । अत्र शिवे ऐश्वर्यन्नवशिता
नह्यणिमादि मध्यपठितवशिता । सा वशिता यस्मादिशितुस्तद्वशितावतः
फलं स्वाह्लादनिमित्तं सापेक्षरहित स्वपरापरिपूर्तिलक्षण परमाह्लाद
निमग्नस्य भगवतश्चिदचिद्वर्गयोस्वामिता चिदचिदनुग्रहार्थम् एवं
मन्त्रस्वरूपमुक्त्वोपसंहरति -

मन्त्रास्तु सर्व-एवै ते शक्तयः परमेष्ठिनः ।
नित्यसिद्धाश्च ताः प्रोक्ताश्शक्तस्तद्योगतश्शिवः ॥

सर्व-एवैते मन्त्राः पञ्चब्रह्मषडङ्गात्मकाः । परमेष्ठिनश्शिवस्य (प्।
८९) शक्तयः ईशान्यादि शक्त्यात्मकाः । ताश्च शक्तयः नित्यसिद्धाः
प्रोक्ताः विद्यातत्वनिवासिन इव नेत्यर्थः । तद्योगतः ईशान्यादि शक्ति
सम्बन्धात् शिवशक्तः ईशानादि शक्तिमान् भवति सर्वदा शिवस्थदवस्थः
किन्नेत्याह -

यदा कार्यप्रवृत्तास्तास्तदोच्यन्ते तु शक्तयः ।
शक्ति शक्तिमतोर्भेदः प्रसङ्गादेवमीरितः ॥

शिवेन साम्यका एते मन्त्राभिन्नाणवोन च ।

यदेशान्यादयस्ताः कार्यप्रवृत्ताः कार्यप्रयोगभूमिं प्राप्ताः ।
तदेशानादि श्वशक्तिमत् भेदं कुर्वन्त्यश्शक्तय उच्यन्ते शक्तय इति
निगद्यन्ते । यदोपसंहृतकार्यलक्षणा स्वनिष्ठतां यान्ति तदेशान्याद्या
शक्तयो ब्रह्मात्मकशरीरान्तरं [[९०]] भगवतः कथ्यत इति भावः । शक्ति
शक्तिमतोर्भेदः प्रसङ्गात् सादाशिव तनूक्तिप्रसक्त प्रसङ्गादेवमित्थं
कार्यभेदादीशान्यादि शक्तिभेदः तद्योगत ईशानादि शक्तिमद्भेदः
ईरितस्समुदितः । ये मन्त्राश्शिवेन सात्मकाः । शिवेन सहात्मना स्वरूपेण
वर्तन्त इति सात्मकाः तादात्म्य सम्बन्धलक्षणा इत्यर्थः । शिवस्य
विद्यातत्व निवासिन इव ते । न च भिन्नाणवः भिन्नाव्यतिरुक्तोऽणुरात्मा
स्वरूपम् एषान्ते ततोक्ताः । कार्यशरीरस्वरूपशक्तीनां वीर्यविभागोक्तिं
कृत्वा करणात्मिकानान्तदुक्तिन्तनोति ।

हारिणीया शिवश्योक्ता सर्वाभरणशक्तिका ।
अथवा परसंस्थानं नयेदाहृत्य पुद्गलम् ॥

[[९१]]
यस्मात् तस्मादियं शक्ति हारिणीत्युच्यते बुधैः ।
जननी जगतो जन्म स्वभावस्यामितद्वितिः ॥

शिवस्य माया सर्गोपसञ्जिहीर्षाः या हारिणी हारिणी इत्यभिहिता
सर्वाहरणशक्तिका । सर्वसूक्ष्मदेहतद्धेतुक चिद्व्यात्म
भोगादिकस्याहरणमुपसंहृतिरनन्तशक्तिद्वारा यस्याशक्तेस्सा तथोक्ता ।
अथवा यद्वा पुद्गलं परिपक्व मलात्मानं दीक्षाकर्मण्यभिव्यक्ता सती
माया मण्डलस्थं सकलन्तत्रानभिव्यक्ता सति तन्मध्यस्थं प्रलयाकल
तदुपरिस्थं विज्ञानकालं वा शुद्धभुवनोपसंहृतिं कुर्वती
सत्यकुर्वती वानन्तादीनपि समस्तान् कांश्चिद्विरक्तान्वा हृत्य शुद्धविद्या
धस्त्री पशुभिस्त्रीमलाति विच्छक्तिमद्भिस्सहतदुपरि
क्रमिकवर्तीनान्तरतमाद्युपब्रंहित [[९२]]
स्थूलसूक्ष्ममलवासनोर्थाधिकार मलादि स्वोचित पाशोपसंहृति द्वारा
उपर्युपरि । स्वोचित सोपाधिक शिवत्वाभिव्यक्तिमयोयं स्वानुचित सोपाधिक
शिवत्वाभिव्यक्ति गलितिञ्च कृत्वा क्रमतस्समुद्धृत्य परसंस्थानं
निरूपाधिक परशिवताभिव्यक्तिदपरशिवलक्षणपदन्नयेत् । गमयेत् ।
यस्मात्तस्मात् बुधैश्शिवशास्त्र दृक्भिस्थेयं शक्तिहरसम्बन्धिनि
हारिणीत्युच्यते । आगमान्तरे पुनरियमेवोक्त व्यापारानुक्रमतः । ज्येष्ठा
रौद्रीति च द्विशब्दशब्दिता स्यात् । अथ जनन्या (व्या)व्यापारः । सर्गारम्भे
विचित्रसर्गे निर्माणाधिकारन्निर्वर्तयतश्शिवस्य तदुपयोगिनी अमितद्विति
अखण्डित प्रकाशा या शक्तिः सा जन्मस्वभावस्य व्यक्तियोग्यसजगतश्चिद (प्।
९३) चिदात्मनस्साक्षाद्विचित्ररूपबिन्दुकार्या
चितस्तस्तदुपाधिकचितश्चानन्तशक्तिद्वारा मायात्मका चितस्तदुपाधिक
चितश्चाभिव्यक्ति करीसति जनयित्रसम्बन्धिनी जननीत्यभिहिता ।
दीक्षायामपीयं प्रतिस्थानं चिदचितोर्जननीत्यगमनीया । अथ रोधयित्रि या
व्यापारः -

रोधयित्र्यणुसङ्घस्य प्रलये नियमस्तितिम् ।
भोगेष्वपि च तस्यापि विदधाति यतस्ततः ॥

रोधनाय प्रसक्तस्य शिवस्य सम्बन्धिनी या शक्तिस्साणुसङ्घस्य प्रलये
साक्षात् । प्रलयकेवलात्मनः कर्मपाकान्तं मायोदरं स्वस्थाने ।
अनन्तशक्तिद्वारा स्वार्जितकर्मानुरूपतस्थिति काले भोगेष्वपि चाक्रत् । [[९४]]
स्तितया मायामण्डल स्वस्थाने दीक्षायामपि प्रतिस्थानं तस्यापि सकलाणु
सङ्घस्यापि पुनश्च शब्दाद्विज्ञानकेवलिनश्च साक्षान्मलपाकान्तं
मायान्तं स्वस्थाने दीक्षायां प्रतिस्थानं शुद्धाध्वनियोजितस्य च
नियमं स्थितिं तिरोभावलक्षणाच्युति स्थितिं पुनस्थितिकाले
अशुद्धाध्वन्यनन्तशक्ति द्वारा दीक्षयाञ्च प्रतिस्थानं साक्षाच्च
शुद्धाध्वनिः स्वस्वार्थक्रियात्मिकां स्थितिञ्चार्थात्सिद्धां विदधाति
करोति यतस्ततः । रोधयित्रसम्बन्धिनी रोधयित्रीत्यभिहिता । जननी रोधयित्रीति
इमे द्वेशक्ति आगमान्तरे सृष्टिस्थिति तिरोभावत्र्यर्थ क्रियावत्यौ एकरूपे सत्यौ
सूक्ष्मवामदेवाथसम्बन्धिनीत्युच्यते । उपसंहरति -

[[९५]]
एतास्तु शक्तयस्तिस्रः शरीरे करणात्मिकाः ।
नित्यसिद्धा विभोर्विप्राः यत एव स्वकम्बलम् ॥

एतास्तु हारिणी जननी रोधयित्रीत्यभिहिताः तिस्रः त्रिसङ्ख्यायाः शक्तयः
शरीरे ईशान्याद्यात्मकस्थूलवपुषि करणात्मिकाः सूक्ष्मतनु
स्वरूपिण्यः परैः पुमर्थैः पुष्णातीति वपुः । तनोति सर्वजगत् विस्तारयतीति
तनुः तत् स्वरूपिण्यः शक्तयः हे विप्राः ताश्च विभोश्शिवस्य नित्यसिद्धाः ।
कुतः तत यत स्वकम्बलमेव स्वकीय सामर्थस्वरूपिण्य एव । अथ तासां
स्थितिन्दर्शयति ।

शक्तीनां वस्तुतस्तासां स्थितिरीश्वर तत्वके ।
ईशप्रवर्तको यस्मात् प्रवृत्तिश्शक्तिभिर्यतः ॥

तासां शक्तीनामीशान्यादि रोधयित्र्यन्तानां [[९६]] वस्तुत स्वभावतः ।
स्थितिरीश्वरतत्वके ईश्वरतत्वसञ्ज्ञिते शिवे कुतस्तस्मात् यस्मादीशः
ईशाख्यश्शिवः प्रवर्तकः कार्यप्रयोगदशां गच्छन् तदुत्पत्यर्थं
तद्विचित्रगुणसङ्क्लिप्तिमान् । अस्तुकिमनेनेनेति न वाच्यम् । ततः यतः यस्मात्
प्रवृत्तिः बिन्दुकार्यविचित्रगुणाभिध्यानं शक्तिभिरन्यथा न घटते ।
यदैव कार्याय नियोजितास्तदैव लब्धोन्मीलनास्सत्यः । तत्राधिकाराख्ये शिवे
स्वमात्मनन्तदपृथक् सिद्धतया दर्शयन्तीति भावः । तदुक्तं मतङ्गे ।
संलब्धोन्मीलनास्सत्यः सात्वेस्मिन्नीश्वराह्वये ।
दर्शयन्ति स्वमात्मानमधिकारे नियोजिता इति ॥

ननु सादाख्य तत्वाधिष्ठातरि सदाशिवनाम्नि [[९७]] शिवे कार्यप्रयोग
दशाङ्गत समस्तशक्तयः समष्टिरूपत्वेन संस्थितास्सकथमत्र भोग इति
वर्णितः । श्रीमन्मत"गादौ । तस्याधिकारित्वं समुदितं सत्यम् । स्वकार्य
कला विभक्तौ स्वोद्योगविधुरबिन्द्वाधिष्ठातरि सति निष्कले सत्यपि समागत
व्यक्तियोग्य स्वशक्ति कविनिर्गमनोद्युक्तचतुष्कलसकलनिष्कल-
बिन्द्वधिष्ठातृत्वात् । सकलनिष्कलसञ्ज्ञित शिवस्सर्गारम्भकाले
बिन्दुपालनात्मकता दृक् भोगावस्थपरिच्युतिं वितन्वत् सकलीकृत विचित्रसर्ग
निर्माणाधिकार दशामनुप्रविशन्नीश्वराभिधानं लभन् बिन्दुतत्कार्य
कलासु पञ्चसु पठित शान्त्यतीतादि भुवन निर्माणं शान्त्यादि
कलाचतुष्कमधिकृत्य [[९८]] समधिकुर्वन् अधोयोनिर्मित निर्मितकार्यस्थले
तत्तदुपरि तदुद्योगभोगावस्थां क्रमतः परित्यजन् अधिकारमनुप्रविशन्
तदधस्तनकार्योद्युक्तावस्था सम्मेलनाधेतो स्तत्रापि सकलनिष्कलत्वात्
शान्त्यतीत भुवनस्य लयतात्विकत्वेपि भोगतात्विक शान्तिमस्तकस्थत्वात् । तत्र
लय सञ्ज्ञितोपि शन्त्यतीतादि भुवनपञ्चकेषु भोगाह्वयं भजन्
तदीशानादि भुवनप्राप्तिकामैरीशानामूर्त्याद्याकारतयाध्यातव्यः ।
फलप्रदो भवन् तदनन्तरं सादाख्यभुवन समुत्पत्तिं समधिकुर्वन्
सदाशिव सञ्ज्ञितस्समष्टिरूपपञ्चमूर्तिमय तनुस्सतत्रध्यातव्यः
समष्टिरूपत्वात् सकलत्व स समृद्धाधिकारित्वे स्तोपि तदधस्तनैश्वर
तत्वतात्विकनिर्माणानन्तप्रेरणादि [[९९]] लक्षण कार्यप्रयोग
दशामनुप्राप्तेरसम्भवात्तदुद्योगस्सम्भवतीति स तत्र सदाशिव
सञ्ज्ञितेश्वर भट्टारक एवात्र भोग इति वर्णितः । मतङ्ग
सर्वज्ञानोत्तरयोस्तु सदाशिव तत्वे तदधस्तन कार्यं सर्वमन्तर्भावयित्वा
स भोग इति न वर्णित इति न किञ्चिदसमञ्चसम् । ऋषयः साङ्ख्य सौगत
जैमिनीयार्हत चावाकादिभिस्समधिगत स्वकीय शास्त्रैरीश्वर सिद्धिर्निगीता ।
तदितरैः पाञ्चरात्रादिभिर्गीता शिवेतर सिद्धिरिति तत् सक्ता संशया लिङ्गिता
भगवन्तमहीमुखी कृत्य भाषन्ते -

भगवन् कथितस्सम्यक् पदर्थः पतिसञ्ज्ञितः ।
प्रमाणैरपि वक्तव्या युक्तिबोध्या हि साधवः ॥

[[१००]]
हे भगवन् पतिपदार्थः सम्यक् लयादि स्वरूपोक्तिभिः कथितः । तथापि
तत्र विविध वादि विप्रतिपत्तितस्सञ्जनित सक्तासंशयोन्मूलनार्थं
प्रमणैरनुमानाख्यैरपि वक्तव्यः तदुक्तिभिस्साधनीयः । युक्तिबोध्या हि
साधवः युक्तिभिरनुमानै बोध्या हि बोधनीयाहि अर्थाः साधवः
सिद्धसत्ताकाः । अथवा साधवः आस्तिकाश्रोतारः अतीन्द्रियवस्तु
साधनेनुमानस्य चार्वाकव्यतिरिक्त समस्तवादिभिस्वीकरणाद्-
अनपह्नवनीयत्वात् । एतदुपश्रित्य भगवान् तत्र साङ्ख्यं
प्रत्यनुमानवाक्यन्तत् सिद्धौ प्रयुनक्ति -

अचेतन जगद्विप्राः चेतनप्रेरणं विना ।
प्रवृत्तौ वा निवृत्तौ वा न स्वतन्त्रं रथादिवत् ॥

[[१०१]]
हे विप्राः अचेतन जगत् कालादीक्ष्यन्त तत्व तात्विकजातञ्चेतनप्रेरणं
निना प्रवृत्तौ स्वार्थक्रियाकारित्व प्राप्तौ वा निवृत्तौ तदप्राप्तौ वा न
स्वतन्त्रं न तदनपेक्षं रथादिवत् रथिनः प्रेरणं विना रथस्तदर्थ
क्रियालक्षणगमन तन्निवृत्तिकरणे शक्तः । तर्हि कः प्रवर्तक इत्यत आह -

योत्र प्रवर्तकश्शक्तः स पतिः परिपठ्यते ।
नानैकान्तिकता हेतोः क्षीरेवत्सविवृद्धिदे ॥

योत्र तदर्थः क्रियाकरणे तदकरणे वा चेतनस्य शक्तस्समर्थः प्रवर्तकः
प्रयोजकस्सपतिः परिपठ्यते । क्षित्यादिकञ्चेतनप्रेरणं विना न धारणादि
लक्षण स्वार्थक्रियां करोति अचेतनत्वात् । यथा [[१०२]] रथादिकमिति प्रयोगः ।
यथा चेतनमपि क्षीरं स्वन्तोवत्सविवृद्धिदानात्मिकां स्वार्थक्रियां
करोति । तथा प्रकृतिः पुरुषभोगमोक्षदानात्मिकां स्वार्थक्रियां करोतीति
साङ्ख्याः । प्रकृतिः स्वतः प्रवर्तते अचेतनत्वात् क्षीरवदित्यत्र परोद्धृत
दृष्टान्ते साध्य विपर्ययेण सहसिद्ध व्याप्तिकत्वं प्रदर्शयन् ।
पुनस्तद्धेतोर्विरुद्धत्वं विनिवेदयन् । स्व प्रयुक्त हेतौ तदेतत्
क्षीरनिदर्शनं स्यात् ततो नानैकान्तिकबमिति कथयति नेत्याह
अचेतनत्वादित्यस्मात् प्रयुक्तस्य हेतोर्वत्स विवृद्धि देवत् सवपुः पुष्टिकरे
क्षीरेनानैकान्तिकता । कुत इत्यत आह -

चेतनेन गवा यस्मात् प्रवृत्तं वत्सवृद्धिदम् ।
मृदादेहात् प्रवर्तेत प्रवृत्तं चेत् स्वतः वयः ॥

[[१०३]]
न च प्रवर्तते यस्मत् चेतनापेक्षिता स्थिता । यस्मात् क्षीरं चेतनेन
गवा प्रवृत्तं स्वर्थ क्रिया युक्तं वत्स वृद्धिदं भवति । पयः स्वतः
चेतनानधिष्ठानात् प्रवृतञ्चेद् यदि स्वार्थ क्रियायुक्तन्तर्हि मृतात्
प्राणवियुक्त तिरकृत चितो गोदेहात् प्रवृर्तेत प्रवृत्तं भवेत् । यस्मान्नच
प्रवर्तते तस्मादचेतनस्य प्रवृत्ति निवृत्यर्थ चेतनापेक्षिता स्थिता निश्चिता ।
अयं बाधकतर्कः नन्वत्रायस्कान्त तृण मणि खण्डानां स्वतोयस्तृण
भ्रमणादि प्रवृत्ति हेतु त्वेन दर्शनात् । अतो समर्द्धेतोर्विरुद्धत्वमकूतो
युष्मद्धेतोरनैकान्तिकत्वा सत्वं तन्नेत्याह -

नाप्ययस्कान्त दृष्टान्तस्साधकोऽचित् प्रवर्तने ।
[[१०४]]
अयस्कान्तोपियोक्तारमपेक्ष्यैव प्रवर्तकः ॥

अचिप्त्रवर्तने अचित स्वतः प्रवृत्ति साधने । अयस्कान्तलक्षण दृष्टान्तो यस्य
हेतोस्सोयस्कान्त दृष्टान्तः सोपि तु न साधकः । न सद्धेतोत्वेन परिगृहीतव्यः
। कुतः अयस्कान्तोपि क्षीरमिव योक्तारञ्चेतनात्म देव दन्तादि
प्रयोजकमवेक्ष्यैव तत् परिग्रहोभुत्यैव प्रवर्तकः । अयस्समाकर्षणात्म
स्वार्थक्रिया युक्तो भवति । तृण मणि खण्डादिकमपि न स्वयमेवेति
सोयमस्मद्धेतौ दृष्टान्तस्सम्भवतीति नह्यनेनानैकान्तिकत्वम् । ननु
वायोः प्रवहनमग्नेः प्रदहनमित्यादिकं स्वाभाविक दृश्यते अस्ति हि पुनः
कर्मण स्वतो भोग दातृत्वमित्यपि वदन्ति । जैमिनीयाः तन्निरासार्थमाह -

[[१०५]]
किञ्च पक्षीकृतस्सोपि जडस्सन्यः प्रवर्तते ।
स्व प्रवृत्तौ परापेक्षमचेतनमतस्थितम् ॥

किञ्च पुनरपि पुरोक्तं विना जडस्सन्यः प्रवर्तते । स समस्ताविपक्षी कृतः
पक्षत्वेनावच्छिन्नः । अयमाशयः । वायोः प्रवहनमग्नेः प्रदहनं यदि
स्वाभाविकन्दृष्टं तर्हि निश्चलत्व निर्वाणा लक्षण स्वभाव विपर्यासः ।
कुतः प्रवहन प्रदहनादिकं कदाचिदृश्यते । ततः केनापिनुन्नस्तत् स्वभाव
इति कारणान्तरेण भवितव्यमिति ईश्वरः । प्रेरकोनुमीयते आन्मतर प्राणादि
वायु प्रवहना प्रवहन हेतुतयापि ह्यात्मानुमीयते । कर्मणः फल
जनकत्वेपि ततस्मैपुरुषायाहमनेन साधनेन पुनरियन्तं
कालमद्येदमफलमनेन [[१०६]] फलान्तरेण सह पृथक्
प्रादास्यामीत्येवं विध समस्तज्ञान शून्यत्वात् कृष्यादि कर्मण इव
प्राधान्यं कर्तृत्वं न युक्तं ततः कर्तृत्वस्य कर्मानुसारित्वात् ।
नस्वातन्त्र्य विहीनम् । तदुक्तं सिद्ध गुरुणा -

स्वतन्त्रस्याप्रयोज्यत्वं करणादि प्रयोणुता ।
कर्तृ स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षितेति ॥

अतो स्मात् कारणात् अचेतनं स्व प्रवृत्तौ परापेक्षञ्चेतनापेक्षं
स्थितन्निश्चितम् । जैमिनीयाः । पुरु एवेदमित्यादि श्रुति तत्रः पुरुष एवायं
स्वात्मन सुकृत दृष्कृतात्मकं बन्धमात्मा ज्ञातव्य इत्यादि योगे । न च
तन्मोक्षमारचयन्नीश्वरो नान्य इत्याहुः । तदिदं हृदि निधाय
ऋषयश्चोदयन्ति । एवञ्चेच्चैतनास्सन्ति पुरुषास्सर्वसम्मताः । [[१०७]]
तेषामेवास्तु कतृत्वं किमन्येन वदेश्वर ॥

हे ईश्वर । एवञ्चेक । यदि चेतनापेक्षमचेतनं प्रवर्तकं तर्हि
सर्वसम्मतास्सर्ववादिभिस्वीकृताश्चेतनाः । पुरुषास्सन्ति तेषामेव कर्तृत्वं
शरीरादि प्रेरणेन सह तन्निर्मातृत्वमस्तु वद कथय स्वकिमन्ये नान्यन्तम
प्रसिद्धे नेश्वराख्येण ईश्वरः ।

अज्ञाजन्तुरनीशोयमात्मा यस्माद्विजर्षभाः ।
सोपि सापेक्ष एव स्यात् स्वप्रवृत्तौ घटादिवत् ॥

इष्यते स कथं कर्ता कर्ता तस्मान्महेश्वराः ।

हे द्विजर्षभाः । यस्मात् अत्मा विज्ञान कैवल्य दशा या मज्ञः अनभिव्यक्त
दृक्क्रियः । वस्तुनान्तदगोचरत्वादज्ञातानां प्रेरणमशक्यमिति भावः ।
सतु पुनः प्रलय कैवल्य दशायामजन्तुः कलादि योगात् पूर्वमहमधुना
इदन्निर्मातद्योगप्रेरणादिकं करोमीति ज्ञानाभावात् जनित्रन्तरेण स्वशरीर
सहकृत चिद्व्यक्त्यात्मना जनितुं योग्यः स तु पुनस्सकलदशायामनीशः स्व
देह प्रेरणादिकमसत्यप्य स्वतन्त्रं नह्यनेन स्वशरिर वियोग
शरीरान्तरनिर्माण तत् स्ववश प्रेरणादिकं क्रियते । यद्यस्ति सदा सर्व एव
पुरुषा अप्राकृत शरीरास्सुखिनस्युः सोपि स पुरुषोपि स्वप्रवृत्तौ स्वकीय भोग
मोक्षात्म स्वार्थक्रियाकारित्वात् प्राप्तौ अस्वतन्त्रत्वात् घटादिवत् सापेक्षः
जलाहरणलक्षण क्रियाकारित्व प्राप्तौ देवदत्तादि [[१०९]] सापेक्ष
घटादिवदीश्वर सापेक्ष एव स्यात् । तथा हि सर्व एव हि प्रेक्षावन्तो
हितसाधने दृष्टे दृऽष्टेव कर्मणि प्रवर्तमानास्तत् । स्वभाव सिद्धास्ते
कदाचिदक्षक्रीडा ब्रह्महत्यादि ष्वप्यहित साधनेषु प्रवर्तमाना दृश्यन्ते
। स्वभाव विपर्ययासस्तेषां नाहेतुकः । यस्तस्य हेतोस्सम् ईश्वरः ।
तथाहुः । ईश्वर प्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वेति । ननु यद्येवं
कर्मान्तर फलालम्बनात् । ईश्वर प्रेरितास्ते श्वमेध ब्रह्महत्यादिनि
कुर्वन्तीति । तत्र स्वातन्त्राभावात् कथं तेषां कर्तृत्वम् । सत्यम् ।
प्रयोज्यानामपि कर्तृत्वात् तीव्रतराभावात्मना स्वाराज्यादि फलविषयेण
गर्वेण भयरागादि वशेन चाविष्टा । अश्वमेध ब्रह्महत्ति परद्रव्यापहृदि
कर्तारस्ते तादृक् कर्तृरूपा येव स्वतन्त्र्य [[११०]] लक्ष्यन्त इति न
किञ्चिदसमञ्जसम् । तदुक्तं श्रीमतङ्गे यो ये नाशय भावेन वशीकृत्य
शिवच्छाया नियुज्यते सौभोगेन कर्मस्त्वथ तादात्मकमिति ।
तस्माद्धेतोर्महेश्वरः कर्ता स उक्तलक्षण पुरुषः कर्ता जड प्रेरक इति
कथं केन प्रकारेणोच्यते । स्वीक्रियते न कथञ्चिदपीत्यर्थः उक्तलक्षण
विधुरत्वादचेतन प्रेरकादुक्ता भवन्त्वित्याशङ्कायामाह -

विमुक्तास्त्वी हि कर्तारो भवेयुरिति चेन्मतिः ।
किमादिमुक्तस्यात्कर्ता नादिमुक्तोथ वा द्विजाः ॥

हे द्विजाः विमुक्ताः पाशत्रयविमोचन शिवत्वाभिव्यक्तियुक्ताः । अयोगान्ययोग
व्यवच्छेदेनेति तु हि शब्दार्थः । तर्हीति पाठे तदेत्यर्थः । कर्तारो चेतन
प्रवर्तका भवेयुः । [[१११]] असुरिति मतिश्चेत् बुद्धिर्यद्यस्तितर्हि किमदि मुक्तः
कर्तास्यात् । अथवा नादिमुक्तः कर्तास्याद्वा तत्र फलितमाह -

अनादि मुक्तच्छेत्कर्ता सिद्धसाधनता तदा ।
आद्यश्चेन्मुक्तिततस्य कर्ता प्रागेव सिध्यति ॥

अन्यथायं कथन्मुक्तो बद्ध एव सदा भवेत् ।

अनादि मुक्तः कर्ताचेत् तदा जगत् कर्तृत्वेन प्राक् सिध्यस्य निर्णीतस्य साधनं
गमकं सिद्धसाधनं तत्वं सिद्ध साधनतास्यादित्यनुषङ्गः । आदौ
भव आद्यः । स मुक्तः कर्ता चेत् तस्यादिमुक्तस्य मुक्तितः । मुक्त हेतोः कर्ता
प्रागेव पूर्वमेव सिध्यति भवति । तत्रापि तथापि विकल्याद्या स्वीकारे तस्य
तस्य मुक्तितः । सिध्यतीत्यनवस्था [[११२]] तं निरासार्थ मनाद्यस्सिध्यति ।
तदुक्तञ्च मृगेन्द्रे - तेन स्वभाव सिद्धेन भवितव्यञ्जगत् कृता । अर्वाक्
सिद्धेन वस्थास्यान्मोक्षो निर्हेतु कोपि वेति । अन्यथान्यत्प्रकारेणाणादि सिद्ध
कर्तारमनपेक्ष्य कथं केन प्रकारेण अयमाद्यो मुक्त सिद्ध स्यात् ।
अनादिमुक्तमन वेक्ष्य तदस्तित्वे प्रमाणा भावात् । सदैव बद्धो भवेत् । ननु
स्वयमेव पाशाद्विमुक्तः कर्ता भवतु । तन्नमेषादि
पशुवर्गादिरप्यौकान्तिकत्वात् पुराज्ञो जन्तुरिति निषिद्धत्वादपीति हृदि
निधायाह -

न मोक्षं यान्ति पुरुषाः स्व सामर्थ्यात्कदाचन ।
मुक्त्वा प्रसादं देवस्य शिवस्याशिवहारिणः ॥

देवस्य शिवत्व लक्षणतेजसा देवनशीलस्य अशिव हारिणः । [[११३]] शिवं
सर्वज्ञत्व सर्वकर्तृत्वरूपं बलं तद्विरुद्धो शिवो मलस्तमशिवं
परिपक्वमवलोक्य दीक्षाकर्मण्यभिव्यक्त स्वशक्या हरतीत्यशिव हारितस्या
शिव हारिणः । शिवस्य प्रसादो दीक्षारूपानुग्रहः । तममुक्त्वा विहाय
पुरुषा स्वसामर्थ्यात् स्वकीय बलात् न कदाचन मोक्षं यान्ति । तथाहि ।
पशवोह्यनादि सिद्धप्रकृष्टतर ज्ञानक्रियायुक्तमीश्वरमन्तरेण शरीरादि
पाश वियोगार्थमयोगार्थं वा सुख संवेदन प्राप्त्यर्थं वा स्वत एव
न प्रवर्तन्ते । दुःखमोहवेदनाभ्यां वा स्वत एव न निर्वर्तन्ते ।
अस्वतन्त्रत्वान्मेषादि पशुवत् पाशाश्शरीरादयः । कारकान्तरनिरपेक्षाः
पशुषु स्वत एव न प्रवर्तन्ते । न तेभ्य स्वत एव निवर्तन्ते वा [[११४]]
अचेतनत्वान्मेषादि पशुषु रज्यादि पाशवत् । मीमांसकादीन् न
कदाचिदनीदृशञ्जगदिति वदतः प्रति युक्त्यन्तरं प्रदर्शयति -

किञ्चानुमान मत्रान्यच्छ्रूयतां द्विजसत्तमाः ।
विवादाध्यासितं विशं विश्ववित् कर्तृपूर्वकम् ॥

कार्यत्वादावयोस्सिद्धं कार्यं कुम्भादिकं यथा ।
कार्यताचास्य विश्वस्य स भागत्वात् घटादिवत् ॥

व्योमादिरपि सां शोपि सघुणत्वाद्यथा घटः ।
विवादाध्यासितं तस्मात् जगत् कर्तृ पुरस्सरम् ॥

हे द्विज सत्तमाः । किञ्च पुनरपि अत्रेश्वरसिद्धौ अन्य दितरदनुमानं
सावयवं निगद्यते श्रूयतां श्रोतव्यं विवादाध्यासितं विश्वम् इदं
सकर्तृकमकर्तृकमिति [[११५]] विरुद्धवादास्पन्दीकृतं महि महीरुह
महीधर जलधर जलधिनद्यनलानिलादिकं विचित्ररूपञ्जगत् । ततस्तदानीं
सन्दिग्ध कर्तृ विषय प्रकृतविचारानुकूल विवादानास्पन्दी
कृतत्वाददृष्टान्तावलोकन विषया दृष्टा सन्दिग्ध कतृ घटादिकं
नपक्षकोट्यन्तः प्रविशति नहि न प्रविशतीति न तत्र कर्तृकेति
तत्रेश्वरस्यानीश्वरत्वमापातनीयम् । तत्र घटादिकेपि प्रयोजकत्व लक्षण
कर्तृत्वं शिवस्य सिध्यतीति विश्ववित् कर्तृ पूर्वकं विश्वं वेत्तीति विश्ववित् ।
विश्वं करोतीति विश्वकर्ता विश्वविच्चासौ कर्ता च विश्ववित्कर्ता विश्ववित् कर्ता
पूर्वः स्वनिमित्तकारणत्वेन पूर्वभावी यस्य तत्तथोक्तं तदिदं प्रतिज्ञा
कुतः [[११६]] कार्यत्वात्तदिदं हेतुः । यद्यत्कार्यं तत्ततद्वित् कर्तृ पूर्वकम् ।
यथाऽवयोरुभयवादिनोस्सिद्धं स्वीकृतं कार्यं कुम्भादिकन्तदिदं
दृष्टान्तः । ननु कार्यत्वञ्जगतो सिद्धं न हि क्वचित् कदाचित् केनचित् देहादयो
दृष्ट वैनश्वर्या अपि क्रियमाणा दृष्टाः तन्न देहादीनां
क्रियमाणत्वमदृष्टमपि कथन्न दृष्टन्दुष्ट्यविषयत्वेप्यभूत्वा
भावित्वात् प्रत्यक्षीभूत वैनश्वर्याद्वा कार्यमित्यनुमितत्वात् । ननु
दृष्टमपि देहादिषु नकदाचिदनीदृशञ्जगदिति जैमिनीयोक्ति नयेन क्षित्यादिषु
न दृष्टमभूत्वा भावित्वं वैनश्वर्यं वा । सत्यमित्यत्राह भगवान् ।
अभूत्वा भावित्वं वैनश्वर्यञ्चागमसिध्यमपि क्षित्यादीनां घटादिवत्
कुम्भादेरिव स भागत्वात् सावयवांशत्वात् [[११७]] कार्यता दृश्यते ।
चत्वर्थः । ननु सूक्ष्मक्षित्यादीनां सांसत्वं वा कुतः सिद्धं
विशिष्ठाकाशदेन्निरंशत्वं न्यायवादिन ब्रुवन्ति । तन्न व्योमादिरपि
सांशः सावयवः कुतः सगुणत्वात् । अस्मदादि बाह्येन्द्रिय परिच्छेद्यगुण
सहितत्वात् । यथा घटः सगुणत्वेन सिद्ध सा वयवत्वात् । व्योमादेः
प्रतिलिङ्गशरीरं प्रतिस्रोतः पृथक्सिद्धेः कालमनसीत्यचैतन्य सत्यनेकत्वात् ।
परमाणोरपि पांसुवज्मूर्तत्वात् कालादेश्च कार्यत्व सिद्धेः
घटादिवदिदमपि विश्वकार्यत्वन्नव्यभिचरति । तदिदं जगन्निविष्टतया
विशिष्टकर्तृ सिध्यर्थं कार्यत्व हेतोजः ।
जगल्लक्षणपक्षधर्मताक्लिप्तिलक्षणोपनयः तस्मात् कार्यत्वात्
विवादाध्यासितं गजत् कर्तृपुरस्सरम् । [[११८]] पुरस्सरतीति पुरस्सरः । कर्ता
पुरस्सरः स्वनिमित्त कारणत्वेन पूर्वभावी यस्य तत्तथोक्तम् । तदिदं
जगल्लक्षणपक्षनिविष्टतया विशिष्टतया विशिष्टकतृक्लिप्तिलक्षणन्निगमनम् ।
ननु स्थलोपला च लमहीरुह जलधर जलधि सरिद्धिमकरार्कानला निलादि गत
सन्निवेशस्य वैशिष्ट्यात् असिद्धन्तस्य कार्यत्व व्याप्तत्वम् । यथ
कथञ्चिद्वैशिष्ट्यवति कार्ये सिद्धे विजगल्लक्षण कार्यव्यक्तेः कदाचिदपि
कयाचित् जगत् कर्तृव्यक्त्या व्याप्तिर्दुरुपलब्धेति सिद्धम् । सिद्धत्वं
कर्तृसाधन प्रवर्तकर्यत्व हेतोः । तन्न परस्यापि समानत्वात् महानस
वर्तिनो धूमस्याग्निकार्यत्व सिद्धावपि यथा कथञ्चित् येन केनचित् विशिष्ट
देशकालोत्पन्न [[११९]] तनुतर महत्तर रेखाद्याकारतया
विशेषणधूमस्य पर्वतवर्तिनस्ततो महानसवर्तिन्योन्यत्वात् ।
कथमिदमग्निकार्यमहानस सवर्तिनोऽतिवैलक्षण्यादित्यग्निकार्यत्वा सिद्धेः
पुनरियदुक्त्या सर्वानुमानानामसाध्य धर्मिणि पक्षे व्याप्ति ग्रहणे
प्रसक्ते धूमव्यक्तेः कदाचिदपि पर्वतवर्तिन्या कयाचिद्वह्नि व्यक्त्य सह
व्याप्तिर्दुरूपलब्धेति कस्यचिदप्यप्यवर्क्यत्व प्रधित धूमवत्व हेतोरपि
सिद्धमसिद्धत्वमपि सर्वानुमानोछेदकरी सैषा बाधा सर्वानुमान
वादीनां प्रसक्ता । नैकः पर्यनुयोज्यः । तदुक्तं -

यत्रस्यादुभयोर्दोषः परिहारोपि वा समः ।
नैकपर्यनुयोक्तव्यः तादृगर्थ विनिश्चय इति ॥

[[१२०]]
ततस्तत् परिहाराय विशिष्टस्य ह्यहेतुत्वादिष्टघटादिषु कार्यमात्रस्य
कर्तृमात्रेण अविशिष्ट्यमाहानसादिषु धूममात्रस्य वह्निमात्रेण
उपलभ्याव्याप्तिरिति सर्वसमञ्जसम् । ननु वनतृणादेः कर्तारं
विनोप्तत्तिदर्शनात् । अनैकान्तित्वमस्य प्रसक्तं तन्न । सर्वस्यादृष्ट कर्तृकस्य
वनतृणादेरपि पक्षीकृतत्वात् । नन्वयं विरुद्धः । यदाहुः -

यथा सिद्धे च दृष्टान्ते भवेद्धेतोर्विरुद्धता ।
अनीश्वर विनाश्यादि कर्तृत्वञ्च प्रसन्यत इति ॥

तदयुक्तं साद्धि विपर्यय व्याप्तो हि व्याप्तेति हेतु विरुद्धः । न
चायन्दृष्टान्तस्ता वदनीश्वरत्वा विनाभूत कर्तृव्याप्तस्सिद्धः
कुम्भकारस्यापि स्वकार्य [[१२१]] सर्वज्ञत्व सर्वकर्तृत्वसिद्धेः ।
तदेवहीश्वरत्वं यदि हि तत्रस्तु तदंशेनाप्यदृक्शक्तिरव्याप्ति
सम्भ्रान्तिर्भावयेत् । तदानीन्नैवासौ कुम्भं कुर्यात् ।
अपित्वनिष्टमन्यदिष्टघटादिकं विकलावयवं कार्यानुरूपयोगिनं वा
पुनरकुम्भाकारवदसौ कुर्यात् । व्याद्याद्युपहत कुम्भकारवद्वा न
कुर्यात् । नहि तस्य विनाशित्वञ्चात्मनो नित्यत्वात्तस्यैव हि कर्तृत्वात् । तद्यथा
सकलावयवं कुम्भं दृष्ट्वा कार्यपृथु बुध्नोदरभागेषु
व्याप्नुवतस्तत्र पर्वतादादिव कर्तृत्वासिद्धेः कुम्भकार स्वकार्य
व्याप्तिमत् बिद्धिसौषु वकर्तृशक्ति वनुमीयते । नह्यदृक्शक्तिरकर्तृ
शक्तिरव्याप्तिस्सम्भ्रान्तिर्वा । तथानुपमसौन्दर्य सकलावयवं विश्वं (प्।
१२२) दृष्ट्वापीश्वर कार्यविश्वव्याप्तिमत् बुद्धिवकर्तृ शक्तिरनुमीयते । ननु
कुम्भकारस्य स्वकार्यादन्यत्र पुनरज्ञत्वा कर्तृत्वा व्यापकत्व युक्तत्वात्
अनीश्वर इति घटेश्वर वज्जगदीश्वरोपि अनीश्वर कर्तृकज्जगत् कार्यत्वाद्यथा
घट इति अनीश्वरत्वेनानुमीयते । सत्यम् । यदि तत्कार्य भोगमोक्षसाधन
विश्वव्यतिरेकेण यत् किञ्चिदस्ति तदा तथा सम्यगनुमीयताम् । ननु
पुनरन्यन्नास्तीति कुतः उच्यते । अस्तु तद्वस्तु किं
भोगमोक्षसाधनमसाधनं वा । तत्र यद्यदिसाधनं
कार्यकरणादिवत्तत् कार्यमेव । यद्य साधनन्नहि तस्मिन्निप्रयोजन्न
तत्राज्ञानंशशविषाणादाविव भूषणमेव । यथाहुः -

[[१२३]]
हेयो पादेय तत्वस्य साभ्यु पेयस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदक इति ॥

ततः कुम्भादिष्वपि प्रयोजनकत्वरूपं कर्तृत्वं विद्यत इति तत् कार्यत्वमपि
न व्यभिचरन्तीति । सन्निवेशादिमत् सर्वगतत्वा
विनाभूतानविच्छिनत्वादिविशिष्टानुपम विश्वलक्षण कार्यत्वात् ।
तत्कायात्तत्कार्यव्यतिरिक्ते तरस्या सम्भवात् ।
तदज्ञत्वेनानीश्वरत्वन्नसम्पाद्यमिति सर्वविषय व्याप्तिमन्निरतिशय
ज्ञानक्रियेच्छाशक्तियुक्तत्वेन जगदीश्वरोनुमीयते । नहि पुनर्दृष्टान्त
धर्मिणि विद्यमानास्साध्यधर्मिणि सर्वेसु प्रक्लिप्तिमन्तः । तथात्वे
शब्दोनित्यः कृतकत्वात् । घटवदित्यत्र घटे विद्यमानाः
कुम्भकारकार्यत्व [[१२४]] लौहित्य वारि वर्तुल्यादयो धर्माश्शब्देपि । किमिति
न भवन्तीति किलेयं क्लिप्तिस्सर्वानुमानोच्छेद करीस्यात् । ततस्साधन
धर्मानुरूप तस्साध्यां सुसिद्धति । तथाहि यत्कार्यं धूमादि यथा येन
प्रकारेण गिरि गुहागतत्वेन तदुत्सङ्गवर्तित्वेन तत् शिखरनिविष्टत्वेन तदपर
पाश्ववर्तित्वेन वोपलब्धं यादृशन्तार्णपर्णादिना स्वरूपेण विशिष्टं
यावत् परिमाणन्तनु तररेखाकारमम्बुदनिवहबहुलं वा तेन तत्कारणं
वह्निलक्षणम् । तथा तादृशन्तावदनुमीयते । तदुक्तं मृगेन्द्रे -

वैशिष्ट्यं काय वैशिष्ट्याददृष्टं लोकस्थितावपि ।
यद्यथा यादृशं यावत् कार्यन्तत् कारणान्तथेति ॥

[[१२५]]
अन्यथात्र न पर्वतावर्ति वह्निधूमत्वात् । यत्र धूमस्तत्र न
पर्वतवर्ति वह्निर्यथा महानस इति । सर्वत्र विरुद्धाव्यभिचारित्वं प्रसज्यते ।
ननु एककर्तृ लक्षणधर्मि स्वरूपस्यानेक कर्तृलक्षणविपरित साधनोयं
विरुद्धः । तथादीनामनेक तक्षनिर्मित परस्परोपकारकानन्ता
वयवनिर्मितत्व दर्शनात् । तथाहुः -

सन्निवेशादिकं सर्वं बुद्धिमध्ये तु यद्यपि ।
प्रसिद्धं सन्निवेशोदेरेककारणता कुत इति ॥

तदयुक्तम् । रथाद्यवयवानामनेक तक्षनिर्मापितानामपि एकस्थ
प्रतिबुध्या विनारथाकारं भवितुं परस्परोपकार्योपकारक भावे नैव
समुत्थानां गमनार्थक्रिया कर्तृकधर्मि रथादि
द्रव्यारम्भकत्वेनोपपद्यत एव । [[१२६]] तत्रैकस्थपति बुद्ध्यास्ति
त्वेकदाचिदपि न नोपपत्तिरिति पुनरिहापि च कलोद्बलितचैतन्यो विद्यादर्शित
गोचरः । रागेणरञ्जित इत्यादि श्रुति सिद्धानामनन्तादि द्वारा शिव
सङ्कल्पैकसिद्धजगदवयव कलादीनां जगदाकारं भवितुं
परस्परोपकार्योपकारक भावेनैव समुत्थानां स्व रचित् जगल्लक्षण
भोगमोक्षसाधनार्थ क्रिया कर्त्रेकधर्मिणो विशेषादृथादेरिवैक
कर्तृत्वमेव सिध्यति । नत्वनेक कर्तृत्वमित्यविरोधः । ननु नाकरणिका कृतिरिति
अकरणस्य जगत्कारणं नोपपद्यते । सत्यम् । योगिन इवेच्छालक्षण क्रिया
शक्तिरेव करणम् । अशरीरस्य तदिच्छामात्रेण कृत्यकरणमिति साधितं
प्रागेव [[१२७]] मृगेन्द्रादिषु । सविस्तरमिति विस्तार भयादत्र न लिख्यते ।
नन्वीश्वरः इन्द्रियादि करणयुक्तः कर्तृत्वात् योयः कर्ता स इन्द्रियादि करण
युक्तः । यथा कुलाल इति तदयुक्तम् । सङ्कल्पार्थ क्रिया विशिष्ट शक्तियुक्तत्वात् ।
तल्लक्षण सन्निधिमात्रेण कर्तृत्वं भवति । स्वदेहस्पन्द कर्तयात्मनीवेति ।
प्रागेव साधितमिति । ननु नत्वात्मनी स्वदेह स्पन्देरकार्य कर्तृत्वम् । सत्यम् ।
अत एव शुद्धाशुद्ध सूक्ष्मस्थूलात्मकं विश्वं
भगवतश्शरीरमिवोपचर्यत इति पूर्वमविक्लिप्तिः कृता । अतः किलानुलोम्येन
स्वार्थक्रियामिलितगलित्यर्थं पुनरनन्त शरीरादि लक्षण तत् स्वसूक्ष्मदेह
स्पन्द द्वारा यो शुद्धविश्व [[१२८]] लक्षण स्वस्थूल देहमप्यात्मेव
स्पन्दयति । ननु अनुमानाख्य प्रमाणगम्यत्वमस्योदितं न किं
तदितरगम्यत्वमस्तीत्याह -

पतिज्ञानैकगम्योयं पतिस्तद्धेतुरेव च ।
तत्रान्तरेषु ये सिद्धाः पशवो व्याप्त्य भावतः ॥

शोध्या बोध्याश्च ते तेन पशुत्वस्य व्यवस्थितेः ।

अयं योगिप्रत्यक्षसिद्धः पुनरनुमान सिद्धो जगदीश्वरः । पुनः
पतिज्ञानैकगम्यः तत्राचैकग्रहणमवधारणार्थं पतिज्ञानस्य
शिवागमस्यैव एकस्य गम्यः प्रतिपत्तव्यः । अवधारणफलमितरेषां
पशुशास्त्राणाम् अगोचर इति तत्र शिवागमे समभिव्यक्त्या शिव दृक्
शक्तिस्साधकानाञ्चिच्छक्तिं समर्थयति साधु शिव दर्शयतीत्यर्थः । (प्।
१२९) तच्चिश्शक्तिरूपप्रमाणाभिव्यञ्जकत्वात्तदभिव्यक्तिस्थान
शिवागमशब्देन सहसापि परशिवशक्तिः प्रमाणमित्युपचर्यते । ननु
यद्येवञ्जगदीश्वरेण शिवेनागमः कृतः आगमाच्च शिवो ज्ञायत इति
इतरेतराश्रयता स्यात् । तन्न पतिर्जगदीश्वर शिवस्तद्धेतुः तस्यागमस्य
कारणमेव च स्त्वर्थ । अधमाशयः सदृश क्रियोरेवेतरेतराश्रतया
शिवस्त्वागमस्य कर्ता । आगमस्तु शिववस्तु ज्ञापक इति शिवागमयोः
कारकता ज्ञापकता लक्षणक्रियात्वात् न सदृश क्रियत्वम् । लोके च यथा हि ।
कश्चिदाह । देवदत्तोहमायात इति । इतरस्तु तद्वाक्यादेव प्रतिपद्यते । हन्त
देवदत्तोयमायात इति नह्यत्रेतरेतराश्रयता । [[१३०]] पशुशास्त्रगोचरत्वे
किमित्यत आह । तन्त्रेत्यादि तन्त्रान्तरेषु पाञ्चरात्रादिषु
जगदीश्वरत्वाभिमानतः ये केचित् सिद्धाः प्रतिपादिताः पशवः कुतः
तत्तन्त्रेषु तत् सिद्धेषु च व्याप्त्य भावतः न्यून वृत्तित्वात् तत् तन्त्रेषु
तावच्छिवतन्त्रसिद्ध निखिलवस्त्वभाषणात् तच्छिव तन्त्रव्याप्यभावः ।
ततोन्यून पृत्यभियाधायकत्वम् । ब्रह्मादि देवयोनिवर्गः कर्तेति सेश्वर
साङ्ख्याः शरीरादि संयुक्तो प्रकृतिलोकनिवासहरिरिति पाञ्चरात्राः
मनुस्संयोगज ज्ञानयुक्तस्स ईश्वर इति नैय्यायिकाः । बुद्धिसंयोगज
ज्ञानयुक्तस्स ईश्वर इतिवेश्वरसाङ्ख्यविशेषपातञ्जलाः । सदेही स ईश्वर
इति पौराणिकाः । [[१३१]] जीव ब्र्ह्माद्वैती जगदीश्वर इति वेदान्त विदः । तत्
सिद्धेषु तेष्वस्मदादिवदुपाधियुक्तः त्वाच्छास्त्राणां न्यून वृत्तित्वादपि
तदतिकान्त निरतिशय ज्ञानक्रिया युक्तास्सम्भवन्तीति व्याप्यभावः ।
असम्पूर्णज्ञत्व कर्तृत्वं ततो व्याप्त्यभावतस्ते तत्रान्तरसिद्धाः कर्तारः
पशवश्शिद्धाः । इत्थं पशुत्वस्य तदसम्पूर्णहेतोर्मलस्य व्यवस्थ ॥॥॥॥।
द्वयात् ते तत्र सिद्धाः । तेन शिवाशास्त्रसिद्धकर्त्रा शिवेन शोध्या दीक्षा
व्यापारकौशल्येन माया कर्ममलेभ्यश्शुद्धविद्या धोमोचनीयाः ।
तदनन्तरं शुद्धविद्या तत्वादूर्ध्वं बोध्याः स्थूलसूक्ष्मपरलक्षण
शिवत्वाभिव्यक्तिभिस्सह संयोज्याः । असद्योनिर्वाण [[१३२]] दीक्षायां
सर्वात्मना शिवत्व व्यक्तेरकरणात् । शिवशास्त्रोपदेश पुरस्सरन्तदनन्तर
कारतव्यानुष्ठान द्वारा प्रत्यहं बन्धक्षयपूर्विकया तया सह
संयोज्याः । तदीयता परिक्षितस्य पतिपदार्थस्योपसंहाराय प्रकरणान्तर
परिक्षितव्यस्योपक्रमाय च श्लोकः -

पतिरेवं समुद्दिष्ट स्त्रितत्वोक्ति निदर्शनात् ।
पदार्थः कुण्डलिन्याख्यः कथ्यतेनन्तरं द्विजाः ॥

हे द्विजाः । त्रितत्वोक्ति निदर्शनात् त्रितत्वस्य लयादिकस्य उक्तेर्निदर्शनात् ।
समुद्धरणात् । पतिर्जगदीश्वरः । एवमुक्तरीत्या समुददिष्टः सम्यक्
परीक्षितः । तदनन्तरं कुण्डलिन्याख्यः पदार्थः कथ्यते परीक्ष्यते ॥

श्रीशालिवाटिपुरनिवासि ज्ञानप्रकाशाचार्य विरचितायां
श्रीमत्पौष्करज्ञानपादवृत्तौ प्रथमः पटलः ॥