निगमज्ञानः

श्रीसुन्दरगणपतये नमः
वरुणपद्धतिव्याख्या ऋए-३०४८०

सदागण्डतटस्यन्दिदानवारिणि लोलुपैः।
भ्रमरैराकुलं वन्दे श्रीकल्पकविनायकम्॥
व्याघ्रपादतपदञ्जल्योन्नयनानन्ददायिनः।
नृत्यतो नटराजस्य पादाम्भोजमुपाश्रये॥
स्वकाम्पाङ्गविलासेन मोदयन्ति नटेश्वरम्।
शिवकामप्रियादेवी शिवं दिशतु शाश्वतम्॥
नमस्कृत्य गुरूं वाचां देवीं प्रोन्मिल्यते सदा।
श्रीमद्वरुणपद्धत्या विलोचनमिदं सताम् (सदा)॥
शिवोक्तमेन गुरूणा लेशाल्याख्यालनमीरितम्।

अहं तदनु गुण्येन वक्ष्ये सङ्क्षिप्य युक्तितः॥
अथाचार्यो वरुणाभिधानोऽनेकशिवागमरहस्य
परिज्ञानविमलितचेतास्सकलजनानुजिघृक्षया दीक्षा प्रतिष्ठा बीजं सारभूतं
वक्तुकामस्वेष्टदेवता प्रणामपूर्वकं शिष्टाचारनिर्वाहाय प्रारिप्सितं प्रतिजानिते।
त्रिपुरसुन्दर्यै नमः॥
निर्वाणद्वयबिजाभ्यां नमः सोमाय शम्भवे।
अथ सङ्गृह्यते बिजद्वयं दीक्षा प्रतिष्टयोः॥
निर्वाण द्वय बीजाय मलादिबन्धननिर्गमनरूपनिश्रेयसयुगलकारणभूताय
निसपूर्वाद्वागतिगन्धनयोरिति धातोर्द्वावेलि। मुक्तिः
कैवल्यनिर्वाणश्रेयो निश्रेयसामृतमिति॥ हेतुः स हेतु॥ कारणं बीजमिति
चामरः। कीदृश्यस्य कारणमित्यत
आह– सोमाय उमासहिताय। अत्र उमाशब्दे- नानुगृहोन्मुखि
शक्तिर्विवक्षिता। तत्सहितस्यैव
निश्रेयसयसकारणत्वात् सा च शक्तिनिरधिकरण-साधिकरणभेदेन द्विधा
सति निर्वाणद्वयहेतुर्भवति।
एवञ्चानुग्रहद्वैविध्यादेवं निर्वाणद्वैविध्यमित्युक्तं भवति। अत एव शम्भुः
सु(फ़्१।ब्)वम् मोक्षरूपम् अस्मात्स्मात्भवति इति शम्भुः ।तस्मै शिवाय -
नमः। अनेन तस्यैव नमस्कार्यत्वं नान्यस्य सम्स्कारोत्कारकत्वाभावादिति
सूचितं तदुक्तम्।
विहाय साम्बमीशानं यजन्ते ये विमुक्तयेत महा

  • तमसाक्रान्तिन तेषां परमागतिः। विहाय साम्बमीशानं यजन्ते देवतान्तरं
    ते महाघोर सम्सारे पतन्ति परिमोहिता इति।अथ इष्टदेवता नमस्कारानन्तरम्
    अनेन ग्रन्धारम्भे इष्टदेवताप्र
    णामरूपं ग(ऴ)स्य अवश्यकत्वं सूचितं भवति।
    अन्यथा धशब्दस्य श्लोकादावेव प्रयोगस्यात् दीक्षाप्रतिष्टयोः दीक्षाशब्देन
    वक्ष्यमाण च क्षुषादयः प्रतिष्ठा शब्देरवक्ष्य
    माण स्थावरादयः। उभयोरपि यत् बिजद्वयं निर्वाणनिदानम्।
    प्रतिष्ठानि दानञ्चेत्यर्थः। अथवा उभयत्र प्रवृत्तिप्रयोजकं वा तत्सङ्गृह्यते॥
    आगमेषु बहुविस्तारकत्वात् सिखप्र
    तिपत्यर्थम् सङ्क्षिप्यतेऽमाभिरिति वाक्यशेषः। अनेन प्रस्तारेण
    मूलत्वादनपेक्षित्वमुक्तम्। अत्र निर्वाणद्वयबीजायेत्यत्र केचिदेवमाहुः।
    विज्ञानकैवल्ये सति प्रकृ
    त्यधिकारलक्षणम् पराणिमादिसिध्यपरपर्यायमेकं निर्वाणं तेषां तिक्रान्तकर्म
    मायात्वेन मलमात्रस्य सत्भा(द्भा)वात्॥ अपरन्तु अधिकार बन्धमोक्षपूर्वकं
    साक्षाच्छिवत्वाभिव्यक्तिरि
    ति अन्ये तु दीक्षैव तावदेकनिर्वाणम्। यथा।
    उपनि(नी)तस्य माणवकस्य यथापूर्वम् अवस्थितशरीरस्यापि शास्रबलात्
    उपर(न)यनाख्य- सम्स्कारेण द्वितीयजन्माङ्गीक्रियते॥ एवम् इहापि दीक्षया
    निर्वा(फ़्२।अ)णं जीवन्मुक्तिः। अन्यं तु तस्य शरीरपातानन्तरं
    शिवत्वाभिव्यक्तिः इति।
    अपरे तु योनिद्वैविध्यक्रमान्निर्वाणद्वैविध्यं द्विधा खलु
    पुंसयो¬निजनन्यात्मिका विश्वोपादानात्मिका च। श्रूयते॥ योनिम्
    योनिमधितिष्ठत्येक इति। तस्मात् पश्चिमजन्म आप्यमेकं निर्वाणं ततः परं
    तस्य जन्माभावात्।
    विश्वोपादयोनिरपि शिवत्व अभिव्यक्तिः इति परम्पराभावा(त्) द्विधा
    निर्वाणमिति एतत् पक्षत्रयेऽपि भुक्त्यरपा
    यात् निर्वाणत्वमेवन्नासिसपाशः। भुक्तिमुक्त्योस्सहानवस्थानलक्षणविरोधस्य
    दुष्परिहरत्वात्॥
    अथोद्देशक्रमानुरोधेन दीक्षां वक्तुं प्रथमदीक्षा लक्षणं तत् कारणं चाह॥

स पाशत्रय विशेषं शिवत्वं व्यज्यते यया। क्रिया सा कथ्यते दीक्षा
भक्तिवैराग्यलक्षणा। यया क्रियया स पाशत्रय- विशेषं मलमाया
कर्मरूपपाशत्रय-बन्धनिवृत्तिसहितं शिव
त्वं विद्यमानमेव आत्मनो मलतिरोहितं शिवत्वं शिववत्
सार्वज्ञसर्वकर्तृत्वादिरूपं व्यञ्यते।
व्यक्तिक्रियते। सा पुनः कीदृशि। भक्तिवैराग्यलक्षणा।शिवेभक्तिः सा
चाष्टविधा। नवविधा वा तदु
क्तम्। शिवधर्मे - ईश्वरः॥ मत्भ(द्भ)क्तजनवात्सल्यं पूजायाञ्चानुमोदनं
स्वयम् अभ्यर्चनञ्चैव ममार्थे च अङ्गचेष्टनम्। मत्कथाश्रवणे
भक्तिस्वरनेत्राङ्गविक्रियाः।
मम अनुस्मरणं नित्यं योर्चमानोप¬
जीवति॥ भक्तिः अष्टविधा ह्येषा यस्मिन्मेच्छेपि वर्तते सविप्रेन्द्रो
मुनिश्रीमान् स यतिः स च पण्डितः। क्वचिन्नव विधम् उक्तम्।तद्यथा
श्रवणं कीर्तनं शम्भोस्मरणं पादसेचनम्। अर्चनं वन्दनं दास्यं सख्यं
च निवेदनम् ।
एवम् नवविधाभक्तिः प्रोक्ता देवेन शम्भुना। सम्सारे वैराग्यम्
अनन्तजन्ममरणदूमवान् भवजनित जिगिप्सा विषयत्वादिति हेयत्वम्। उभयम्
अपि लक्षणं लक्षयति ज्ञापयति प्रवर्तय इति ल
क्षणं। निदान प्रवर्त्तकम् इति अर्थः। अनेन भक्तिवैराग्यवतामेव दीक्षायाम्
अधिकारः।
तयोश्च शक्तिनिपात एव मूलं तस्य च कर्म साम्यम्।
तदुक्तम् ।श्रीमन्मृगेन्द्रे ः-
येषां शरि(री)रिणां शक्तिः पतत्यपि निवृत्तये।

      तेषां तल्लिगमौत्सुक्यं मुक्तौ द्वेषो भवस्थितिरिति॥  
 तथा वामदेवे ः-  

शक्तिपातानुसारेण शिष्योनुग्रहमर्हति।
यत्रशक्तिर्न पतिता तत्र शुधिर्न जायते ॥
न विद्या न शिवाचारो न मुक्ति न च सिद्धयः।
तस्मात् लिङ्गानि संवि(वी)क्ष्य शक्तिपातस्य भूयशः॥
ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत्।
किरणे ः-
तन्निपातस्य कालस्तु कर्मणस्तुल्यतैवहि।
तुल्यत्वं कर्मणः कालः क्षणं वा यदि वा समम्॥
¬
इति कर्मणा न्यूनाधिकसम्बन्धे तु व्याकुलत्वम् एव भोगेषु जायते।
तत् अभाव एव ततश्शक्त्यधिगमः। स च कालवशादेव भवति ।
तदप्युक्तम्।
तत्रैव अधिकन्यूनसम्बन्धाद्व्याकुलं तु जायते। अधिकं न्यूनशून्यत्वात्
शक्तिमा(म)धिगच्शति।
अनादिबीजसम्बन्धात् शिवः कालमपेक्षते। कालश्चित्र इति प्रोक्तस्तत्
ज्ञश्चभगवान् शिवः।यथा क
श्चिच्चले लक्ष्ये कञ्चित् कालमपेक्षते च। तज्ञोपि स शिवस्तद्वत् समकालम्
अपेक्षते। इति सा क्रिया दीक्षेति सम्बन्ध इति कथ्यते। इति सन्धः।
एवं च आत्मनश्शिवत्वव्यक्तिदानात् पाश
सम्बन्दनाशकत्वात् च दीक्षेत्यर्त्थः। तदुक्तं दीयते ज्ञान सत्भा(द्भा)वं क्षीयते
पाशसञ्चयः। दीयते क्षीयते योगात् दीक्षा शब्दमिहोच्यते इति। एवञ्च॥
क्रियान्तरस्य एव तत् फलद्वय प्रदत्वा
भावान्नातिव्याप्तिः।
शक्तिनिपाततारतम्ये नैव प्रवृत्तं(तः) यास्तस्याः फलद्वयम् इति न
अव्याप्तिश्च॥ एव दीक्षालक्षणम् अभिधाय तत् प्रवृर्त्त(त्त)कं पशुलक्षणं वक्तुं
पशुत्वाति(दि) तस्य
दीक्षितस्य वीक्षणमाह ॥तस्मात् ज्ञानं च भक्तिश्च वैराग्यम् इति च
आत्मनः। दीक्षितस्येति चिह्नानि पशोस्त्वे तानि नाञ्जसा।
यस्मात् वैराग्य इति लक्षणं दीक्षा तस्मात् ज्ञानं शिव एव सर्वो
त्तरः। पशुपाश विमोचक इति। ज्ञानं च तत् एव शिवभक्तिः च संसारे
वैराग्यं च इति एतत्रि(त्त्रि)तयम् अपि दीक्षितस्य सञ्जात दीक्षितस्य आत्मन
इहजन्मनि चिह्नानि लक्षणानि।
तदुक्तं। सिद्धान्त
शेखरे ।
विवेको जायते ज्ञानाधेयोपादेयवस्तुषु ।
विरक्तो हेयसंसारादूपादेयमपेक्षते॥
उपादेयं शिवं ज्ञात्वा तत्भ(द्भ)क्तिं कुरुते ततः।
भक्तिमार्गं प्रवक्तारं गुरूं*॥ष्यति(ती)प्सितं॥*
शिवेन गुरू(रु)णा मन्त्रैर्दीक्षया दीक्षितः पशुः मुक्तो भवति संसारात् इति।
तथा पौष्करे ः-
वैराग्यं जायते क्षिप्रं सम्सारादुखसागरात्।
कदा दुक्ष्यामि देवेशं मोक्ष्येहं बन्धतः कदा॥
को वा दर्शयिता शम्भोरिति सञ्जायते मतिः।
एवं संसारतोऽभित मनुग्रहति चेश्वरः॥
ननु। अदीक्षितस्यापि भक्तिज्ञानवैराग्य उपपद्यत। जन्मान्तर
सुकृ
तवशादित्यत आह पशोरिति। पशोरदीक्षितस्य एतानि भक्त्यादीनि
अञ्जसारसत्यानि भवन्ति। यद्यपि जन्मान्तरसुकृतवशात् सम्भवन्ति।
तत् अपि अवद्योतप्रकाशादिव चञ्चलान्येव दीक्षितस्य तु शि
वरूपगुरुत्वकृपाकटाक्षवशात् वज्र किलायितानि इत्यर्थः। सत्ये त्वमाञ्जसा
द्वयम् इति अमरः।पशोस्त्वेतानि न अञ्जसा इत्युक्ते पशुपाशलक्षणम् अपि
दीक्षैव कारणम् इति ज्ञापयितुं पशुलक्षणम् आ
ह।
किञ्चित्ज्ञो मलिनो भिन्नो कर्त्ता भोक्ता स्वकर्मणा शरिराढ्यो
विभुर्नित्यसंस्कय्यस्सेश्वरः पशुः। किञ्चित् अजानात् इति किञ्चिज्ञः। न तु
मुक्तापदस्य सर्वज्ञत्वम् अस्ति।अतः किञ्चिज्ञत्वम् एव पशो
र्लक्षणम् एतावतेव पतिपाशव्यावृत्ते विभो पतिः सर्वज्ञत्वात् पाशस्याज्ञत्वात् च।
इतरेषान्तु किञ्चिज्ञत्वप्रतिपादकविशेषेणम् एवम् इत्याहुः। अत एव मलिनम्
अनादिमलबन्धः।

तदुक्तं श्रीमत् किरणे –
अनादिमलसम्बन्धान् मलिनत्वमणौ स्थितं।
अनादिमलमुक्तत्वान् निर्मलत्वं शिवे स्थितम् ॥इति
अत एव भिन्नः ईश्वराद्व्यावृक्तः। न तु ईश्वर एव जीव इति
भावः मलिनत्वे हेतुम् आह॥ स्वकर्मणां पुण्य
पापानां कर्त्ता भोक्ता च परतन्त्रं तयेति भावः। भोगे तु कर्म शब्देन
सुखदुःखादिकम् उच्यते। स्वशब्देन व्यवस्थितविषयत्वं भोगानाम् इत्युच्यते। भोगे
च साधनम् आह।
शरिराद्यम् इति शरि(री)
रैस्तत्तत् कर्मानुगुणैराढ्यः स मृढः। अन्यथा तत्तत् विचित्र भोगानाम्
उपपत्तेः।ननु शरिराढ्यस्य परिच्छिन्नत्वेन नित्यत्वेन च कथं
देशान्तरजन्मान्तर अपि कर्म फलभोक्तृत्वं तत्राह॥ विभुर्नित्य इति।
विभुर्व्यापि परिपूर्ण इत्यर्त्थः।
त्रैकालिक अभावरहितः। देशान्तर अभाव भोगहेतुर्विभुः इति। जन्मान्तर
भाविभोगहेतुं नित्य इति। अन्यथा भोगे तद्धेतूनां वैय्यधिकरण्य अपातात्॥
ननु भोगा
नां तत्वादचेतनस्यादस्य च किञ्चिज्ञुत्वात् मलिनत्वात् च कथं भोगेषु
व्यवस्थितविषयत्वं तत्राह॥ सेश्वर इति ईश्वरसहितः ईश्वर परतन्त्र इति
अर्थः।
तदुक्तं पौष्करे ः-
अज्ञो जन्तुरनिजोयमात्मायस्दाद्विजषिभः।
सोपि सापेक्षयैव स्यात् स्वप्रवृक्तौ घटादिवत् ॥
इष्यते स कथं कर्ता कर्ता तस्मान् महेश्वर इति। एतत् पशुलक्षणं।
शतरत्नसङ्ग्रहव्याख्याने प्रपञ्चितं
नेह प्रतन्यते एवं च कर्मणामनित्यत्वादस्य देशान्तरकालान्तर-भाविफल-
भोक्तृत्वं कथमित्यत आह॥ संस्कार्य्यः। संस्कारो नाम कर्मजनितो दुष्टशेषः।
दीक्षासंस्कारार्हो वा । अ
यमेव पशुः इत्युच्यते। एतच्च पशुलक्षणं सामान्यं विज्ञानकल- प्रऴयाकल-
सकलरूप-पशूत्रयं विशेषलक्षणम् उत्तरत्र वक्ष्यति।
तथा च श्रीमत्सर्वज्ञानोत्तरे –
पशुरात्मा स्वतन्त्रश्च चिन्मात्रो मलदूषितः।
सम्मूढोनित्यसंसारि किञ्चिज्ञो निश्वरो क्रिय ॥इति
एवं पशुलक्षणम् उक्त्वा मलादिपाशत्रयस्य अपि दीक्षायां शोध्यत्वे
न तत् ज्ञानस्यापि प्रवर्तकत्वम् इति सूचयितुं पाशलक्षणम् आह॥
पाशा अपि त्रयो ज्ञेयो मलो माया च कर्म च। अत्र मलस्य विज्ञानकल-
प्रऴयाकलानां त्रयाणाम् अपि मुख्यपाशत्वात् प्रथमम् उद्देशः।
अनन्तरं विज्ञानकल-व्यतिरिक्तयो द्वयोरपि पाशत्वान् मायाया
स्सकलस्यैव पाशत्वत् अनन्तरं कर्मण इति। अत्र मलिनि(नी)करोति।
आत्मानं स्वतस्सिद्धे ज्ञानक्रियेच्छादयति इति मलस्सचानादिरेव।
तदुक्तं श्रीमत् स्वायम्भुवे –
अथ अनादिर्मलः पुंसामिति अस्य पाशपदार्त्थत्वे
पि पशुत्वेप्यन्तर्भावः। तेन विना पशुत्वस्यैव अभावात् तत् एवोक्तम्। पशुः
पशुत्वसंयोगात् इति। ननु चैतन्यं दृक्क्रियारूपं तदस्यात्मनि सर्वदेति
मुगेन्द्रादिदर्शनेन सर्वज्ञत्वसर्व
कर्तृत्व-चिन्मयादि-रूप-शिवत्वम्
आत्मन्यपि सर्वदास्ति(स्ती)तिप्रतिपाद्यते। मलस्या-नादित्वेन तत् सम्बन्धि
पशुत्वम् अपि प्रतिपाद्यते। अतः कथं परस्परं परिहारेणवर्तमानयोः
शिवत्वपशुत्व
योः तेजस्तिमिरयोरिव कथमेकात्मवर्तित्वम् इति चेत् सत्यम्।
आत्मनस्सव्यज्ञत्व-सव्यकर्तृत्वादि-शिवत्व-मनादिसिद्धमप्यनादि-मलदूषितत्वत्
मृगतत्तत् काऴिमावृतहेमत्व-विषयग्रहणशक्तेः
प्रतिबन्धत्वा-दन्तर्लीनं स्वविषयमेवावतिष्ठते। नतु स्वरूपनाशने-नात्मनि
जडत्वेन तनापादिन्न च यद्येवं नित्यत्व-व्यापकत्वा-दिवदात्मनः
पशुत्वस्यापि अनादिमलदूषितत्वेन निवर्तत्वमेव स्यादि
ति वाच्यं रसविद्धतान्मृस्य हेमत्वा-भिव्यक्तिरिव ज्ञानसिद्धात्मनः अपि
शिवत्व-अभिव्यक्त्युपपत्तेः।

तदुक्तं सर्वज्ञानोत्तरे –
रसवित्थं यथा ताम्रं हेमत्वं प्रतिपाद्यते।
तथात्मा ज्ञानसम्भिन्नश्शिवत्वं प्रतिप*द्यत॥इति *(फ़्५।अ १स्त् लिने )
अत्र ज्ञायते अनेन सर्वमिति सर्वविषय-ज्ञान-व्यञ्जकेन दीक्षाख्येन
गुरू(रु)रूपशिवव्यापारेण संयुक्तो ज्ञानसम्भिन्न इत्यर्त्थः। चक्षुप्प(र्प)टलस्य
वैद्यस्यापारेणैवात्मलस्य अपि दीक्षा
ख्येन ईश्वरव्यापारेणैव निवृत्तिविद्धेरत एव॥
अथ आत्ममलमायाख्य-कर्मबन्ध-विमुक्तयो(योः) व्यक्तये च शिवत्वस्य
शिवात् ज्ञानं प्रवर्त्तते॥
स्वायम्भुव-वचनस्य शिवाद्दीक्षाप्रवर्तत इति व्याख्या
नम् आचार्यैरत एव तत्रैव॥ दीक्षैव मोचयति ऊर्द्वं शैवं
धामनयत्यपि(पी)त्युक्तं ननु दीक्षायाः कर्मत्वाज्योतिष्टोमादेरिव बन्धकत्वम्
एव न तु मोक्षहेतुत्वं स्यात् इति चेत् सत्यम्।

यथा जाङ्गलिको मन्त्रसामर्थ्येन ध्यानादिकर्मणा च विषनिर्हरणं करोति। तथा
आचार्यो अपि शिवशक्त्युपब्लंहितदीक्षारूप-कर्मणैव मलादिपाशविश्लेषं
शिव
त्वाभिव्यक्तिम् अपि करोत्येव।
तथा च उक्तं सर्वज्ञानोत्तरे –
विषापहारं कुरुते ध्यानबि(बी)जबलैर्यथा।
कुरुते पाशविश्लेषं तथा चार्यश्शिवाध्वरैः॥ इति
किञ्च
प्रायश्चित्तादिकर्मणा दुष्कृते सोमोक्ष श्रूयते। एवम् इहापि पाशदोक्ष(ष) इति
न विरोधः। ननु मलस्यादित्वा-न्नित्यत्व अभ्युपगमाच्च आत्मावारकत्वम्
अग्नेरौष्ण्यम् इव स्वतस्सिद्धमेव
एवञ्च मलविनाश एव तदावारकत्वनाशं सम्भवति।
किन्तु मलादिपाशानां बन्धकत्वं निवृति(त्ति)रेव विषग्रन्धेर्मारक
कत्व-शक्ति-निवृत्तिवत्-क्रियते। दीक्षयेत्यविरोधः। मलस्य जडत्वे
सत्यनेकत्वे घटादिपदनित्यत्वं प्रसज्यते। तथा चैकत्वमेव अभ्युपगन्तव्यम्।
तथा च सत्येक-मोक्षार्थं तन्निरोधे सति।
सर्व
मुक्तिप्रसङ्ग इति चेत् तन्न। मलस्यैकत्वेपि अनेक आत्मावानकानेक
शक्तिमत्वेन अभ्युपगमात् तथा च उक्तम्।
श्रीमन्मृगेन्द्रे –
प्रत्यात्मस्थस्वकालान्ता पायशक्तिसमूहवति।
चिन्त्यविश्वो आणवस्त्वेकरूपो हि तथा विविधशक्तिमान् ॥
ताम्रकाऴिकवत् सोपि सहजो नान्तरागतः।
तण्डुले च यथा कम्बुतुषकं सहजं तथा॥
सहजो मल इत्युक्त इत्येवं च मलस्यैक-शक्तिपा
केन तन्निरोधे तदा वारितस्यैव मुक्तिर्नान्यस्येति
सिद्धमित्यलं विस्तरेण। मायाजगते कारणं वस्तु नित्या च न तु
वेदान्तिनामिव मिथ्या रूपा।

तदुक्तं तत्वप्रकाशे –
माया च वस्तुभूता मूलम् विश्वस्य नित्या सा इति कर्मा धर्माधर्मात्मकं
वेदसिद्धं वेदैकसमधिगम्यत्वात्
तस्य तथोक्तम्।
स्वायम्भुवे –
धर्मशा
सन-संवित्तिराम्नायादेव जायत इति। यथोद्देशं लक्षणमाह॥ मलं च
अशुद्धिरज्ञानं तच्चैतन्य- निरोधकम् अशुद्धिरित्येव मललक्षणं सा च
अशुद्धिः। कि(की)दृशि(शी)त्यत आह।
अज्ञानम् इति ज्ञानविरोध इत्यर्थः।
तत् अभाव तद्विरोधस्तदन्यत्वेषु नञर्थेष्वत्र नञो विरोधार्त्थत्वम् अत एवाह।
तच्चैतन्य- विरोधकम् आत्मन-स्वतस्सिद्ध-सर्वज्ञत्वा
दि गुणनिरोधकम् इत्यर्थः। मायालक्षणं कार्यमुखेन आह। मायाकलादि-
प्रथिव्यन्ता-यत्भा(द्भा)वात् तत्वसंहतिः।
कालादिप्रथिव्यन्ताकालाआदिः प्रथिवी ततो यस्या सा तत्वसंहती
स्तत्वसमूहः। यत्भा(द्भा)वायस्यास्सकाशात् भवति इति सा मायाकलादि-
प्रथिव्यन्त- तत्वोपादान -कारणं मायेत्यर्थः। अथ कर्मलक्षणम् आह॥
धर्माधर्मात्मकं कर्म स्पष्टमेतत्॥

एतच्च पाशत्रयं कस्येत्यत आह॥ एतैः पाशैर्यतः पशुः एतैः पाशैर्मलेन
केषाञ्चिन्मल-मायाकर्मभिः त्रिभिरपि केषाञ्चि
त् बद्धेन पशुत्वमित्यर्थः। एवञ्च पाशबन्धत्वम् एव पशुत्वम् इति
निकृष्टलक्षणं सूचितं भवति॥ एतत् पाशत्रय –कार्यं पशोर्दर्शयति॥
पशोरज्ञतया माया
योगोभोगाय कर्मणाम्। पशोरज्ञतया भोगमलावृतचैतन्यत्वेन मायायोगः
कलादिपृथिव्यन्त-तत्वसम्बन्धमेव पुर्यष्टकसन्न्धमेव इत्यर्थः। कर्मणां
भोगाय सुखदुःखान् भवती शेषः।
स्वायम्भुवे –
भोगोऽस्य वेदनापुंसः सुखदुःखादिक्षणेति निर्णये॥ सद्यो
ज्योतिराचार्यैः वसुधाद्यस्तत्वगण-प्रतिपुन्नियतः
कालान्तोऽयम्। पर्यटतिकर्म वटुतो भुवनजदेहेष्वयं च सर्वेष्विति।
श्रीमन्मृगेन्द्रे च –
प्रयोक्त्रादिमहिप्रान्तमेतदण्वर्थसाधकमिति।
पौष्करे–
प्रति पुं(ङ्)नियतन्त*त्वं कालाद्यवनिपश्चिमम्।
इति।
तत्वप्रकाशेऽपि –
पुर्यष्टकदेहयुता योनिषु निखिलासु कर्मवशात्स्यात्॥
पुर्यष्टकमन्तकरणन्धिकर्मकरणानिति। ननु
श्रीमत्कालोत्तरे –
शब्दस्पर्शस्वरूपश्च रसो गन्धश्च पञ्चकम्।
बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम्। इति श्रूयते॥
अतः कथं कालादिपृधव्यन्त-तत्वात्मकम् इति चेत् सत्यमेतत्
सूत्रव्याख्या
नावसरे। तत्र भवता- रामकण्ठेन मृगेन्दरानुरोधेन त्रंशत् तत्वपरतयैव
व्याख्यातम्॥ तस्य कथम् अस्य पुर्यष्टकत्वम् इत्याशङ्कायां भूततन्मात्र-
बुद्धि(द्धी)न्द्रि
य-
कर्मेन्द्रियान्तःकरणसञ्ज्ञैः पञ्चभिर्वर्गैः तत् कारणे तत् गुणतत्वेन तदपूरकेण
प्रधानेन च भोक्तृत्वस्वरूपोपकारकेण कलादिप
ञ्च कञ्चुकात्मना च त्रिवर्गेणारब्धत्वादित्यविरोध इति अघोरशिवाचार्य्यैः
परिहृतम्। नन्वेवमना(ला)दिपाशत्रय-बन्धादस्यात्मनः कथं भुक्तिरित्यत
आह॥
समयादि(दी)श्व

  • रेच्छातो मुक्तिस्यादन्यधायतः। ततः सुखादिकं कृत्सनं भोगं भुङ्ते स्व
    कर्मतः॥ अस्य पशोस्समया आदिर्यस्या ईश्वरेच्छाया-दीक्षाख्याया-सतत एव
    समय
    विशेषनिर्वाण-अभिधान-दीक्षातयै मुक्तिः। पाशत्रयमोक्षो भवति इति शेषः।
    अन्यथा शास्त्रान्तर-सिद्धप्रकारान्तरेण यतो यस्मात् कारणान् अभवत्येव
    मुक्तिश्शास्त्रा
    न्तरसिद्धानां मुक्तिनां शिवतत्वाथस्तन-तत्ततत्व-प्राप्तिरूपत्वेन सातिशयत्वेन
    पुनरावृत्तिमत्वे न च पाशत्रय-बन्धविमोक्षाभावत्वेन च मुक्तत्वमस्य –अस्तु
    सर्वोत्तरशिव
    पद-प्राप्तिरूपत्वात् पुनरावृत्ति-रहितत्वात् पाशत्रय-बन्धविमोक्ष-परत्वात् च
    यथार्थत्वम्। तदुक्तम्। चार्वाकाः कौलिका-ज्योतिश्शास्त्रज्ञाश्चैव भौतिकाः।

तन्मात्र सिद्धासिद्धासिद्ध अस्माश्च चक्षुरादिन्द्रियं परे। वैशिषिकास्त्वंहङ्कारे
गुणेषु न्यायवादिनः।
बुद्धितत्वे स्थिता बौद्धा(द्ध)गुणेषुत्वातास्थिताः। प्रकृतौ
पाञ्चरात्रज्ञामन्यन्ते प्रकृतिं हरिम्। वेदान्तज्ञाश्च साङ्ख्याश्च योगिनः पुरुषे
स्थिताः।
श्रीमन्मृगेन्द्रे –
यत्कैवल्यं पुङ्प्रकृत्योर्विवेकाद्यो वा सर्वम्ब्रह्ममत्वाविरामः।

यावकाश्चिन्मुक्तयः पाशजन्यास्ता तासर्वा-भेदमायान्ति सृष्टौ॥
शैवे सिद्धौ भाति मूध्नितरेषाम-मुक्त-सृष्टौ-पुंवरोभ्येतिनाधः।
विश्वानर्थानुस्वेन-विष्टभ्यधार्मना सर्वेशानानि शितासर्वदा इति॥
ततः शास्त्रान्तरेण मुक्त्यभावादेव स्वकर्मत-स्वकृत-पुण्यपापैरेव सुखादिकं
सुखदुःखादिकं रूपङ्कृतु (सर्व)
भोगं भुज्यत इति भोगस्तं भुन्ते अनुभवति। अथ मुक्तञ्च फलफलितभावम्
आह।संसारि स पशुर्बन्धोमुक्तः पाशत्रयोऽन्वितः।
पाशत्रय बन्धवशात् अनेकजन्म मरण सुखदुः
खेषु संसरति इति संसार स पशुर्बन्धः पाशत्रय बन्धनात् बन्ध इत्युच्यते
पाशत्रयोऽन्वितः। दीक्षया पाशत्रय-विमोचितो-मुक्त इत्युच्यते॥
तथा सुप्रभेदे –
मलेनावृत आत्मासौपशुरित्युच्यते बुधैः।
मलैर्मुक्तकृधात्मासौ मुक्तित्युच्यते बुधैः॥
ननु दीक्षया पाशत्रयं विमुक्तिरित्युच्यते। तत्र सर्वेषाम् अपि आत्मनां
पाशत्रयेण अपि बन्धो वा
इति कस्यचित् केचनचित्-बन्धो वा इत्याशङ्क्यातदावेकं वक्तुं पशुभेमाह॥
त्रिधा सोयम् अनुग्राह्य सकलः, प्रऴयाकलः,विज्ञानकल इत्येषां स्वरूपम्
अधु
नोच्यते।
अनुग्राह्यः दीक्षारूपशिवानुभवमाह॥ विषयं सोयं पुर्वोक्तबन्धः पशुः त्रिधा
त्रिप्रकारः जाता एकवचनम्। तानेव प्रकारानाह॥ सकलः कला
बन्धसहितः, प्रऴयाकलः प्रऴये कलाबन्धसहितः, विज्ञानकलः विज्ञानेन
साक्षात् ईश्वरज्ञानशक्त्या-कलाबन्धसहितः।
इत्येवं त्रिविधः एषां लक्षणापरिज्ञाने
दीक्षायां प्रवृत्तिरेव न उपपद्यत इति लक्षणं वक्तुं प्रतिजानिते। एषां
स्वरूपलक्षणम् अधुनोचेयते॥ मायाकर्म मलच्छिन्नं सकलं सोपि धियते।
मलकर्मावृ
तो यस्तु स भवेत् प्रऴयाकलः।
मलैकबन्धसम्बन्धो विज्ञानकल उच्यते॥एतत् ज्ञानमपि
दीक्षाभेदेष्वधिकारभेदविषयज्ञानम् अपि दीक्षा बीजम् इति भावः। उद्देशक्रमेण

क्षणमाह। तथा चिन्त्य विश्वे मलयुक्तस्तत्राद्यो मलकर्मयुतो द्वितीयस्यात्
मल-माया-कर्मयुतः सकल इति।
अनादि-भूताभ्यां प्रवहनादिना कर्मणा च यच्छिन्नः
सकऴोऽपि धि(धी)यते। कलायुक्तोऽभिधि(धी)यते। पुरुषस्य सहजे ज्ञत्व
कर्तृत्वे एकदेश मलविदारणे या कला इति व्यञ्जयति। सकला तदुक्तम्
चिन्त्यविश्वे। सैव माना पु
मनुश्चैव कलामजनयत् क्रमात्।
अणूना माणवञ्चैव मलमेकत्र भिद्य च। ज्ञानशक्तौ प्रतिष्ठाप्य व्यञ्जयेत्
कर्त्रशक्तिकाम्। कला-बन्धनया त्वर्थस्तु न बन्धात्म च आत्मनाम्।
कलात
त्वमिदं प्रोक्तम् अणूनां भोगकारणात्। ननु आत्मनोरज्ञत्व-कर्तृत्व-
अभिव्यञ्जनकरि कलेत्युच्यते।
तच्च शिवशक्त्यैव जायतां किम् कलयेतिचेन्न। शिवस्तु पाशं विना
आत्म
नोऽज्ञत्व-कर्तृत्वशक्तिं न व्यञ्जयति।
यथा च उक्तं तत्वसङ्ग्रहे –
पाशन्तु विनानेन्त यतियतोनस्य वियन्तत्।
नन्वात्मभोगार्थमेव ज्ञातत्वकर्तृत्वव्यञ्जनार्थं कलां॥॥॥॥॥ ण(न)
कर्म
णैवभवतु तत् अभावेन विज्ञानकला कलानां भोगाभावात् इति चेत्। कर्मणां
भोगजननमात्रोपक्षिणत्वात् कार्यान्तरहे॥॥॥णाभावाच्च॥

किञ्च तत्वान्तर सह कृतस्यैव कर्मणो भोगनिमित्तत्वाभावे बुध्यादितत्वानाम्
अप्यनर्थकत्वं स्यात्॥ ननु तर्हि कलायोगेनैव आत्मनो ज्ञानदर्शने पूर्वं
विद्यमानमान
म् एव ज्ञानम्। कलायोगेनोत्पद्यते॥ इन्द्रियसन्निकर्षात् घटज्ञानम् इव
एवञ्च आत्मनो-ज्ञानाधारत्वम् एव।
नतु ज्ञानरूपत्वम् इति चेत् न॥ आत्मनोऽज्ञत्वाभावस्तु नत्वविद्यमानत्वात्।
कि
ञ्च। व्यञ्जकाभावादेव। यथान्धकारावृतस्य घटस्य ज्ञानं
व्यञ्जकदीपाद्यभावात् एव नत्विभावादेवञ्च। तस्य अनित्यज्ञानत्वाभ्युपगमे
विकारयोगेन तस्याप्यनित्यत्वप्रस
ङ्गात् व्यञ्जकसन्निधान एव
ज्ञातृत्वरूपस्य स्वं वेदनसिद्धत्वात् च नित्यम् एव आत्मनश्चेतनात्मत्वम्
अङ्गिकर्तव्यं तत् च अनादिमल आवृतत्वात् व्यञ्जकीभूतकलायोगात् पूर्वं न
प्र
काशतो तद्योगत एव प्र॥॥।त इत्यन्वयव्यतिरेकाभ्यां
कलासम्बन्धोऽङ्गिकर्तव्यः। तद्योगा-देवात्मनस्सकलत्वमित्यलं विस्तरेण।
अयञ्च पाशत्रयसम्बन्धो
आवृतः। अनादिरूपेण मलेन कर्मणा च अवृतो य स प्रलयाकल इत्युच्यते।
प्रलयेन कलादेरूपसंहारात्॥ म॥॥द्धः। पाशमलाख्येनै
केनेव पाशेन सम्बन्धो य स विज्ञानकल इत्युच्यते। विज्ञान-योगसन्यासै-
र्भोगा च कर्मणः क्षय इति।
विज्ञानेन कर्मणस्तत् भोगार्थकलादिबन्धस्य अप्यभा
वात्॥ अत्र सकलः प्रऴयाकलो-विज्ञानकल इति जातावेकवचनम्। ते च
सकलाः परिपक्वमला अपरिपक्वमलाश्चेति द्विविधा। तत्र परिपक्वमला
शिव-रूपाचार्य-कृत दीक्षया मोक्षगामिनः। तदु
क्तं।
परिपक्वमलानेतान् उत्सादनहेतु-शक्तिपाते योज इति। परे तत्वे स दीक्षया
आचार्यमूर्तस्थ इति अन्ये तु संसारिणः। प्रलयाकलाश्च परिपक्व-मलकर्म
अपरिपक्वमलकर्मा(र्म)ण
श्च तत्र परिपक्वमलकर्मा(र्म)ण-श्शि(वो)निरधिकरण दीक्षयैव मोक्षं
प्राप्यति।
तदुक्तं मृगेन्द्रे –
तमश्क्त्याधिकारस्य निवृत्या तत् परिच्युतौ।
व्यनक्ति दृक्रियानन्त्याञ्चगत् बन्धुरणोश्शिवः॥
स्वायं
भुवे –
क्षीणेतस्मिन् द्विधा सा स्यात् परं निश्रेयसम्प्रति। इति
अन्ये तु पुर्यष्टकदेह युताः सन्तो भुवनज-शरीरि योगिन एतेष्वपि केचित्
पाकतारतम्येन अनन्तेश्वरकृपया गुह्या
–तिगुह्य-गुह्यतर-पवित्रस्थाण्वाख्य-पञ्चाष्टक-भुवनपतित्वम्। प्राप्य
स्वाधिकारात्तं प्रकटि(टी)कृतज्ञान-क्रियाणिमादियुक्ता भवति।
तदुक्तं तत्वप्रकाशे –
कांश्चिदनुगृह्य वितरति भुवनपतित्व महे
श्वर तेषाम् इति विज्ञा(न)कलाश्च अपक्वमलभेदेन द्वेधा। पक्वमल
अविद्येशपद योगिनः। अन्ये तु सप्तकोटिमहामन्त्राः। तत्राप्यर्थनिरवधिकरण-
शिवानुग्रह-करणं भवति। अन्यदर्थम्
स अधिकरण शिवानुग्रहस्य करणम् इति।
तदुक्तं श्रीमन्मृगेन्द्रे –
प्रयोक्तदेहसापेक्षन्तदर्थमखिलेध्वनि।
कृत्वा विकारं स्थित्यन्ते शिवं विशतिसेश्वरं।
विनाधिकरणे नान्यत् प्रधानविकृतेरधः।
कृत्वाधिकारमिशेष्टमुपैति साड्वसंहृतौ॥इति
तथा चैतन्मन्त्रबलादेव साधकानामभिलक्षित-भुवनभोगमोक्षश्च भवति।
श्रीमत् सूक्ष्मस्वायम्भुवे –
यो यत्राभिलषेत् भोगान् स ततैव नियोजितः।
सिद्धिमार्गमन्त्रसामर्थ्यात्तत्तद्वाभ्यासतस्तथेति॥
श्रीमद्रौरवे च –
दीक्षापूतागणपति गुरोर्मण्डले जन्मवन्तस्सिद्धा
मन्त्रैस्तरूणदिनकृन्मण्डलोत्(द्भा)भासि देहाः। भुक्त्वा
भोगान्-सुचिरम्मस्त्रिनिकायै रूपेतासृस्तोत्कर्णाः परशिवपदैश्वर्यभाजो भवन्ति
इति। ननु सकलानां दीक्षया बन्धनिवृति(त्ति)र्जायत इति उच्यते। कथमेतत्
ज्ञातुं
शक्यम् इति चेत् उच्यते।
श्रीमत् कालोत्तरे –
आद्युक्तवन्मन्त्रालब्धघटारोपणेन तस्य आत्मनो गैरवं परीक्ष्य पश्चात्
उत्पादमन्त्रोच्चारणादिपूर्वं तछ्शुद्धिं कृत्वा पुनर्द्धा टारे(र)
णे तस्य लाघवम् उत्पाद्यमानं दृश्यते॥ विषदष्टस्याहि तुण्डिकक्रियातः पूर्वं
पश्चादिव चेति वदन्ति। तथा च तत्वसङ्ग्रहे –
शुद्धिं व्रजन्त्यतुलया दीक्षातो ब्रह्महत्यतो मुख्यात्।
ननु दीक्षया समस्तपाशक्षयेसति तत्क्षणमेव-शरीरपातप्रसङ्ग इति चेत्
सत्यम्। दीक्षा च द्विविधा। असद्योनिर्वाणा सद्योनिर्वाणा चेति।
तत्र असद्योनिर्वणदीक्षायां जन्मान्तरफलप्रदानम् एव कर्मणां दाहेन
प्रारब्धकर्मणां भोगार्थम् अवस्थापितम् एव॥
तदुक्तं श्रीमत् किरणे –
अनेकभाविकं कर्मदश्थं बीजमिवाणुभिः।
भविष्यदपि संरूद्धं येनेदं तद्धि भोगत ॥इति
सद्यो निर्वाणदीक्षायां तु प्रारब्धकर्मणाम् अपि या भवत्येव। तथापि
किञ्चित्कालं शरिरस्थ इति मात्रं सम्भवति।
तदुक्तं * श्रीमत् किरणे –*
गरूद्धः। अ॥।ष पाशविश्लेषो यदि देव स दीक्षया जातायाम् अर्थनिष्पत्तौ
कथं स्याच्च प्रषस्थितिः। भगवान् जातायां घटनिष्पक्तौ यथा च क्रम्भ्र
मतद्यपि। पूर्वसंस्कार-संशुद्धिं तथावपूरिदं स्वतम् इति। तिष्ठति
संस्कारवशात् च कृभृमव धृतशरीर इति च।
ननु असद्यो निर्वाणदीक्षाया मनुष्ये जन्मान्तरफलप्रदकर्मणां दा
हेपि प्रारब्धकर्मणां भोगार्थम् अवस्थाने दीक्षोत्तरकालशरीर-अवस्थानेन
क्रियमाण-कर्मणां का गतिः। साङ्गात्कृतात् कर्मणः फला-वश्यं भुव नियमात्
अनुष्ठाने च निषिद्ध-कर्मानुष्ठा
ने च इति वर्णाश्रम आचारं मनसापि न लङ्घयेत्।
यो यस्मिन् न श्रमे तिष्ठेत् प्राप्तो दीक्षां शिवात्मिकाम्। स तस्मिन् एव
तिष्ठं शिवधर्मं च पालयेत् इति। आज्ञाविलङ्घनात् प्रोक्तं क्रव्यात् तत्वं

शतं समा इत्यादिवचनैरकरणे प्रत्यवायश्रवणाच्चेति चेत् उच्यते।
दीक्षोत्तरकालम् अनुष्ठियमान कर्मणा-न्तजन्मान्तरभावि फलावहत्वम्। किन्तु
दग्धपटन्यायेनावस्थानम्।
तदुक्तं * तत्वनिर्णये –*
कृतमपि फलायनस्याददिक्षोपयूषरोप्तबीजमिव। इति
किञ्च दीक्षोत्तरकालम् अकृत-समयाचाराणामपि आज्ञाविलङ्घनदोषेण
किञ्चित् कालं पिशाचराजताम् अनुभू-
य तत् अनन्तरं मुक्तिः।
तथा चोक्तं तत्वनिर्णयो(ये) –
तस्मादप्यकृतविधिः किञ्चि(त्)कालं पिशाचवरराजः। भ्रा(भू)त्वा
विमलात्मासौ॥।तिहि समतां परशेनेति। एवञ्च स बीजदीक्षया
निर्बीजदीक्षायां
च न कोपि शङ्काशूक इत्यलमतिप्रसङ्गेन। एव दीक्षणियान्-विज्ञानकल-
प्रऴयाकल- सकल-भेदभिन्नानुक्त्वा
एतेषाञ्च शक्तिनिपात-तारतम्येण दीक्षाभेदान्मुक्तिः इति वक्तुं दीक्षाबी
जप्रथम-द्वैविध्येनाह॥ निराधारोथ साधारः शिवस्य अनुग्रहो द्विधा।
शिवस्यानुग्रहः पशोस्संस्कार-मोचनेच्छा सा च दीक्षाबीजम्।
निराधारसाधारभेदेन तत् द्विधा। त
त्र आचार्यरूपम् आधारं विना यः प्रवर्तते।
स निराधारः आचार्यरूपम् अधिष्ठेयैव यः प्रवर्तते। स तु साधारः तथा
चिन्त्यविश्वो साधारा च निराधारासाधारा सकल
स्य तु॥ निराधारा च यान्येषामेव दीक्षाम् अयोदिता इति। अमुमेव
कारणभेदेन विषयभेदेन अप्याह। शिवेन अपेक्षत आचार्या द्विधा
शक्तिनिपातनात्॥
स्वयमेव अनुग्रहाति।
विज्ञानप्रऴयाकलान्। वष्टिप्रकाशत इति शिवः। स्वयम्प्रकाश- रूप इत्यर्थः।
वशकान्ताविति धातोर्वर्णव्यत्ययेन सिद्धत्वात् साधु। तदुक्तमपि युक्तैः। हिंसि
धातोस्सिंह शब्दो
वशकान्तौ शिवस्मृत इति वर्णव्यत्ययस्सिद्धः पश्यकः।
कश्यपो यथेति। अनपेक्षिताचार्यः आचार्यमूर्त्यावेशं कृत्वैव विज्ञानप्रऴयाकलान्
विज्ञानकलान् प्रऴयाकलां
च द्विधा शक्तिनिपातनात्॥ तीव्रतीव्रतरभेदेन द्विविध- शक्तिनिपातनात्।
तत्र विज्ञानकलेषु तीव्रशक्तिनिपातः। प्रऴयाकलेषु तीव्रतरः।
अत एव प्रऴयाकलानां विज्ञानकलत्वं प्राप्य
अपि मुक्ति स्वयमेव एतावन्तकालं मत्कल्पिताधिकारेषु परिश्रान्ता इदानीम्
उक्ता भविष्ययेति दययेति भावः। अनुग्रहाति मलमाया-पाश-विश्लेषाख्यम्
अनुग्रहं करोति॥
तदुक्तं * चिन्त्यविश्वो(श्वे) –*
आचार्यनिरपेक्षेण तीव्रशक्त्या तु शम्भुना।
विज्ञानकलनाश्च प्रऴयासकऴस्य च॥
या क्रिया क्रियते सा तु निरधारेति कीर्तितः। इति
एवं निराधारमनुग्रहमुक्त्वा साधारमाह॥
आचार्यमूर्त्तिमास्थाय चतुर्थाशक्तिपाततः।
भगवाननुग्रहाति स एव सकलानपि॥
भगवानपरिच्छिन्नैश्वर्यादियुक्तः।
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्रियः॥
ज्ञानवैराग्ययोश्चैव षण्णां भग इति श्रुतिः।
इति वचनात् सकलानपि मलमायाकर्माख्य-पाशत्रययुतान् अपि चतुर्था
शक्तिपातनाति व्रतरिप्रमन्दमन्दतराख्यचतुर्विध
निजशक्ति
पातनात् अनुग्रहात्यनुग्रहं करोति।
तदुक्तं चिन्त्यविश्वे –
गुरूमूर्त्तिं समास्थाय मन्दतीव्रादिभेदया।
भक्त्या शम्भुश्च कुरुते या दीक्षा साधिकारिण॥इति
श्रीमत् किरणे –
एतच्च कुरुते शम्भु स्वतन्तुत्वाद्विभुत्वतः।
सर्वानुग्रहकृच्छान्तः शक्तिपातेन दीक्षये॥
ननु शक्तिनिपाततारतम्येण दीक्षेत्युच्यते ।
शक्तेर्वभुक्वे न तन्निपातस्यैवासम्भवात् ॥
कृतस्तारतम्यम्
इति चेत् उच्यते। शक्तेरनुग्रहोन्मुखमेव निपात इत्युपचर्यते॥
तदुक्तं श्रीमत् किरणे –
उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते।
यथा प्रमान्विभुर्ग्रन्ता नित्योऽप्यक्तो विनश्चरः॥
पाशश्छेदे यथाप्रोक्तो मन्त्रराट्भगवान्छिवः।
एवं शक्तिनिपातोऽपि भक्तः प्रोक्तश्शिवागमे॥
निपातो भयदो यद्वद्वस्तुनस्सहसा भवेत्।
तद्वछ्शक्तिनिपातोऽपि प्रोक्तो भवभयप्रदः॥
गुरू(रु)र्यथाग्रतश्शिष्यान् सुप्तान्दण्डेन बोधयेत्।
शिवोऽपि मोहनिद्रायां सुपतान् शक्त्या प्रबोधयेत् ॥
यद्वा स्वरूपविज्ञानं पततेति ततोच्यत। इति
तल्लक्षञ्च सिद्धान्तशेखरे –
तत्पातलक्षणं वक्ष्ये तारतम्येन देहिनां।
देहपातस्तथा कम्पः परमानन्दहर्षणे॥
स्वेदो रो
माञ्च इत्येतत् शक्तिपातस्य लक्षणम्। एवम् आचार्यमूर्त्यधिकरणेन शिवस्यैव
दीक्षकत्वम् अन्येषाम् अशेषपाशविश्लेषणसामा(म)र्थ्याभावात्॥ एवं शिवानुग्रहाख्ये
दीक्षाबि
जेसति तत्र प्रवृत्तिः उत्पद्यत इत्याह॥ शिवस्य अनुग्रहात् दीक्षा जायते
कृतकर्मणाम्।
कृतकर्मणां पक्वमलानां शिवस्य अनुग्रहात् शक्तिनिपातात् एव दीक्षा जायते।
अन्येषां तत्रानधिका
र एव वेति भावः। अत एव शक्तिनिपात अभावे दीक्ष्यदीक्षकयो-रुभयोर्
अपि प्रत्यवाय श्रूयते।
यथा वामदेवे –
यत्रशक्तिर्न पतिता तत्र शुद्धिर्न जायते।
न विद्या निशि वाचारो *न मुक्तिर्न च सिद्धयः॥ * (४)
तस्मात्लिङ्गानि संवीक्ष्य शक्तिपातस्य भूयशः।
ज्ञानेन क्रियया वाथ गुरू(रु)श्शिष्यं विशोधयेत् ॥
योन्यथा कुरुते मोहात् स विनश्यति दुर्मतिः। इति
इदा निर्मलपरि
पाकविशेषादेव दीक्षा भेद इति दीक्षा भेदं निरूपयितुं प्रतिजानिते॥ सा च
अनेकविधा ज्ञेया तत् प्रपञ्चोयम् उच्यते॥ सा साधिकरणा दीक्षा
निरधिकरणया शिवैकगम्यत्वादिम्
इति भावः। अनेकविधानु-वादवक्ष्यमाणान् एक प्रकारास्तान् एव प्रकारानाह॥
चाक्षुषि स्पश(स्पर्श)दीक्षा च वाचिकि मानसि तथा। शास्त्रि च योग- दीक्षा

च हौत्री इत्यादिः अनेकधा। तत्र चक्षुषा क्रियमाणा चाक्षुषि।
शिवहस्तावलम्बनसाध्या स्पर्शदीक्षा। मन्त्रोच्चारमात्रेण निर्वृत्य वाचकि।
मनोव्यापारानुष्ठेया मानसि शिवशास्त्राभ्यासप्रवर्त्तनीया
शास्त्रि
योगो-पदेशगम्या योगदीक्षा। कुण्डमण्डलमण्टपविधानादिपूर्वका हौत्री।
आदिशब्देन पादोदक-प्रदानेनाक्षिप्रेरणबोधकात् उच्यते॥ यथोद्देशं लक्षणमाह॥
चक्षुरुन्मील्य यत् तत्वं
ध्यात्वा शिष्यं समीक्ष्यते। पाशबन्धविमोक्षाय दीक्षेयञ्चाक्षुषि मता॥
तत्वं शिवस्वरूपं ध्यात्व अन्येषाम् तत्वम् उपचारादिति भावः।
तस्माच्छिवस्वरूपध्यानं च दीक्षाबीजम्। चक्षु
रुन्मील्य पाशबन्धविमोक्षाय मलादिपाशत्रय-विमोचनाय शिष्यं समीक्ष्यते॥
सम्यक् शिवात्मैक्यानुसन्धानेन विलोक्यत इति यत् भावे लट्॥
इयं दीक्षा विधेय प्रा
धान्यात् स्रीलिङ्गनिर्देशः॥चाक्षुषि लता। अत्र उन्मील्य समीक्ष्यत इति वचने
ध्यानसमये निमीलनं गम्यते।
तथा च उक्तम् ज्ञानरत्नावल्याम् –
निमील्य नयने ध्यात्वा परतत्वं स निर्मला।
ततः पश्येच्छिशुध्यर्थं दीक्षैषा चाक्षुषि मता।
अत्र द्व्यर्थशब्दो भुक्तिमुक्त्योरिति।
अथ स्पर्शदीक्षा - निधाय दक्षिणे हस्ते शिवं ब्रह्माङ्गसंयुतम्।
संस्पृशेच्छिष्यमूर्द्धादिस्पर्शदीक्षा भवेदियम्॥
अत्रापि तत्व(द्व)त् ध्यात्वेत्यनुवर्तते॥ तन्मूलत्वात् दीक्षाप्रवृत्तेः।
ब्रह्माङ्गसम्युतं पञ्चब्रह्म-षडङ्गयुक्तं शिवं शिवप्रतिपादक-मूलमन्त्रं
वाच्यवाचकयोरभेदात् दक्षिणहस्ते आचार्य स्वस्येति शेषः। निधायाङ्गुलिषु
मध्ये च न्यस्य शिष्य-मूर्द्धादि-सम्स्पृशेत्॥
शिष्यं शिरः प्रभृति चरणान्तं सम्स्पृशेत्॥ इयं स्पर्श
दीक्षा भवेत्॥
तदुक्तं ज्ञानरक्तावल्याम् –
हस्ते शिवमनुध्यात्वा ब्रह्माङ्गसहितं परम्।
संस्पृशेच्छिष्यदेह(हा)न्तं शिरः पृष्ठादिकं गुरुः ॥
स्पर्शदीक्षा भवेदेवं लयभोगविदा कृतेति।
तथान्यत्रापि –
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा।
शिवो भवति तत्सर्वं शिवेन्दुकिरणाहतम्॥ इति
अथ वाचकिम् आह - तत्वे द्विक्तं(चीक्तं) समाघाय ब्रं
हितान्तरतेजसा॥ उच्चरेत् संहितामन्त्रान्वाक्दी(ग्दी)क्षेयं प्रवर्तताम्॥ तत्वे
परशिवे चित्तं समाधाय अचञ्चलतया विन्यस्य अत एव ब्रंहितान्तरतेजसा-
व्याप्तकमलस्थित-शिवतेजसा
सम्
उद्दि(द्दी)बि(पि)तशिवात्मैक्यभाव-स्सनित्यर्त्थः। आचार्य इति शेषः।
सम्हितामन्त्रान्-मूल-ब्रह्माङ्गानि ।
तदुक्तं श्रीलैङ्गे –
मूलब्रह्माङ्गमित्युक्तं संहिताशिवशासने। इति
उच्चरेच्छिष्यपापछ्शेदकतया स्वयमेवोच्चरेत्॥
इयं वाग्दीक्षा प्रवर्त्तताम्। अधिकारानुगुण्येन प्रवक्ता स्यात् सम्भावनायां लोट्॥

तदुक्तं सिद्धान्तशेखरे –
तत्वे चित्तं समास्थाय द्योतितेश्वरतेजसा।
गुरूरूच्चारयेन् मन्त्रान् मन्त्रदीक्षा समाहृता॥
उच्चरेद्वचसामन्त्रान् सा दीक्षा वाचकिस्मृता। इति
अथ मानसिमाह -
मानसं विधिमाश्रृत्य मानसि(सी)त्यभिधियते॥
बहिः क्रि
यया कुण्डमलपूर्वको निर्वृत्यमानोऽपि विधिस्सर्वोऽपि मनसैव क्रियते चेत् सा
मानसि(सी)- त्यभिधियते॥
तथा ज्ञानरत्नावल्याम् –
मानसं विधिमाश्रृत्य मानसिज्ञानवत्यसौ॥ इति
अथ शास्त्रिमाह – शास्त्रस्य सम्प्रदानेन शस्त्रदीक्षा समीरिता।
शास्त्रस्य कामिकादिशिवशास्त्रस्योपदेशेन॥ शास्त्रदीक्षा
इयञ्च समयसंस्कारान्तरमे
व कर्त्तव्या। अन्यथा शिवशास्त्र-श्रवणायिकाराभावात् । अत एव शिवशास्त्र-
श्रवणम् अपि दीक्षाभेद एव।
तथा च सिद्धान्तशेखरे –
शास्त्रस्य सम्प्रदानेन शास्त्रदीक्षा निगद्यत। इति
योगेन योगदीक्षा स्याच्छिवत्वेऽस्य व्यवस्थिता।
योगेन धारणादि योगोपदेशेन योगदीक्षा स्यात्॥
इयञ्च अस्य शिष्यात्मनश्शिवपदप्राप्तौ व्यवस्थितानिश्चिता। अन्यासां
रुद्रपदप्राप्तिरीश्वर-पदप्रा
प्तिश्वाधिकारा-नुगुणात् फलं भवति भावः। अत एव इयमपि
समयादिसंस्कृतस्यैव कर्तव्येति भावः।
चिन्त्यविश्वे –
युजुर्योगेति ताधात्वर्त्थे यज्जीवशिवयोरपि।
संश्लेषो योग इत्युक्तस्सहमार्ग इति स्फुटं॥
असत्भावक्षयत्वञ्च ज्ञानसत्भावभावकम्।
शिवतत्वेति सम्योगो योगदीक्षेति कथ्यते ॥
अथ हौत्रीमाह - रजः कुण्डवति हौत्री सा द्विभेदा किलोदिता।

अत्र रजश्शब्देन ईशानाद्यनुगुण-वर्णरजस्साध्य-मण्डलान्   

उच्यन्ते। तथा च कुण्डमण्डलपूर्वकं बहिर्व्यापारनिर्वृर्त्य समयविशेषा
दिदीक्षा हौत्री। सा च द्विभेदा द्विप्रकारा॥ननु ॥ अस्याप्येकत्वादि
बहुप्रकाराणां सम्भवात्।
कथं द्विभेदत्वमेवेत्याशङ्क्य सङ्क्षेपादित्याह॥ समासा च द्वि
धैवेयं दीक्षा तत्(ज्)ज्ञेरिहोच्यते। इयं दीक्षा साधिकारिणा हौत्री।
तत्(ज्)ज्ञैर्दीक्षास्वरूपज्ञैराचार्यैरिति शेषः। इहास्मि शास्त्रे द्विविधा
द्विप्रकारैवेत्युच्यु
ते।
तद्वैविध्यमेह – ज्ञानवति भवेदेका क्रियावत्यपरा स्मृता।
एका ज्ञानवति भवेत् अपरा क्रियावति(ती)ति स्मृता ॥
तत्र ज्ञानवत्यालक्षणम् आह –
विनेज्यानल कर्मादिमनोव्यापारमात्रतः।
दीक्षा ज्ञानवति प्रोक्ता सम्यक्तत्वावबोधजा॥
इज्यायागः दीक्षायां क्रियमाणायां होमादिः देवतोद्देशेन द्रव्यत्यागो याग इति
वचनात्। अनलकर्म कुण्डसंस्का
र अग्निसंस्कारादिकर्म आदिशब्देन मण्टप-मण्डलार्च्चनादि एतत् सर्वं विना
मनोव्यापारमात्रतः। मानसव्यापार-मात्रा-कार्य इत्यर्थः।
सा च सम्यक्तत्वावबोधजा
दृढतरं शिवक्रियाकलापयोर्याथार्त्थ्यज्ञानजन्या दिक्षा ज्ञानवतीति प्रोक्ता।
अन्यथा तस्य असाध्यत्वात्॥
तदुक्तं चिन्त्यविश्वे –
पूर्वोक्तदीक्षया युक्तम् शिष्यं विज्ञानदीक्षया।
दीक्षयेत् कृपया पूर्णो गुरुस्सन्मार्गदायकः॥
मनोव्यापारमात्रेण या दीक्षा विवृते क्रमात्।
सा दीक्षा ज्ञानदीक्षा तु विज्ञानाख्या स वैभवेत्॥
दीयते तछ्शिवत्वम्हि क्षीयते सर्वसम्शयः।
एवं विशिष्टरूपत्वाद्विज्ञानमिति किर्त्तीतम् ॥
अथ क्रियावत्या लक्षणमाह –
इज्यानलवति या तु क्रियाकौशलसम्भवा।
क्रियावति इज्याह वनरूपो योगः अनलः॥
अग्निकार्यसंस्कृतो श्रीस्तदुभयमस्यास्त इति इज्यानलवति
क्रियाकौशले न कुण्डमण्टपनिर्माणाद्याचार्यक्रिया-सामर्थ्येन भवति इति

क्रियाकौशलसम्भवा। या दीक्षा सा क्रियावति अस्या एव भेदमाह। अथ
अनेकानिर्बीजा च सबीजका निर्बीजदीक्षा सबीजदीक्षाचेत् इति।
अनेका एका न भवतीत्यनेका। द्विविधेत्यर्थः। अथोभयोः अपि स्वरूप
भेदन् निरूपयितुं प्रथमं विषयभेदम् आह॥ तत्र निर्बीजिकाया सा समयिन्यपि
पुत्रके। सबीजा तु भवेत् दीक्षा साधकाचार्ययो अपि। अत्र बीजशब्देन
समयाचार उच्यते। तद्रहिता निर्बी
जिका निर्बीजैव निर्बीजिका।
निरपेक्षेति च नामस्वार्थेकपर्या सा समयिनि समयाख्ये दीक्षिते। पुत्रके
पुत्राख्ये दीक्षि(ते)सम्भवति। आचार्योऽयं समयिनं पु
त्रं चिकीर्षिति। तस्य कर्तव्येत्यर्थः। इयं निर्बीजा च सद्यो निर्वाणादा
असद्येनिर्वाणदेति द्विविधेत्याह। अथ निर्बीजिका दीक्षा प्रोक्ता सा
द्विप्रकारिका।
एका निर्वादा सद्यो द्वि
तिया देहपाततः। दीक्षानन्तरम् एव मोक्षदा सद्यो निर्व(र्वा)णदा।
एतद्देहपातानन्तरमोक्षदा असद्यो निर्व(र्वा)णा। इयञ्च केषाञ्चित् कार्येत्यत
आह। बालबालिशवृद्धस्त्री- भोगभुग्व्या
धितात्मनां। भवेन्निर्बीका दीक्षा समयाचारवर्जिता। बाला उपनितमात्राः।
बालिशा मूखाः मूर्खवैधेय बालिशा इत्यमरः। वृद्धाजरातुराः स्त्री यो
भक्तिमत्यः भोगभुजः विषय
अभिलाषपीडिताः। व्याधितात्मनः क्षयकृष्ठादिव्याध्यावृतदेहाः। एतेषां
निर्बीजिका दीक्षा। सा तु समयाचारशुद्धिदा। बालादीनां समयाचारानुष्ठाने
सामा(म)र्थ्याभावाद्दीक्षाकाल एव
समयाचारः।
यत्राचार्य्येण तत्तद् अधिकारिभेदसामर्थ्यवशादाकृष्य शोध्यन्ते। तेन शुद्धिदा।
तथा च ज्ञानरत्नावल्यां –
बालाबलादिनां समयाद्यनुष्ठान अपेक्षया विना
मोक्षप्रदान निरपेक्षा निर्बीजाख्येति उदाहृतञ्च। समयाद्यक्षमं
वृद्धमूढबालाबलादिकम्। यासौ तत् अपेक्षत्वात् निरपेक्षा निगद्यत इति। अथ
सबीजां स अपेक्षा
परपर्यायम् आह। विदुषाञ्च समर्थानां सबीजा परिकीर्तिता।
विदुषां शास्त्रज्ञानवतां समर्थानां समयाचारानुष्ठाने शत्तानाञ्च सबीजा।
सापेक्षापरपर्या
या परिकीर्तिता कर्तव्येति शेषः।
तथा च ज्ञानरत्नावल्याम् –
सह समयाद्यनुष्ठाने नाहिंसाद्य आत्मगुणैः पुरुषगतैरपेक्षा यस्या सा सापेक्षा
सबीजा
ख्या उदाहृतञ्च॥ उक्तञ्च।
शार्वन्नियति या धाम समयाद्यनुवर्तकं।
विशिष्टात्मगुणप्रायं सापेक्षा सोच्यते बुधैः॥इति
अथ सबीजाम् अपि द्वैविध्यं तद्विषयभे
देन अपि आह। सबीजा च द्विधा भिन्ना प्रथमा शिवधर्मिणि।
साधकाचार्ययो स उक्ता देशकालादिभेदतः। सबीजदीक्षा च द्विधा भिन्ना॥
तत्र प्रथमा शिवधर्मणि। सा च साधकाचार्य
यो देशकालादिभेदतः उक्ता।
देशकाल लक्षणं सिद्धान्तशेखरे –
नद्यब्धिगिरिसत्तीर्थपुण्यारण्यसमीपतः।
शिवक्षेत्रे शिवागारसति पेचाशुभे ग्रहे ॥
देशे विशोधिते शुद्धे तत्र कुर्वतमण्टपम्। इति
दीक्षामण्टपलक्षणम् अस्माभिः कृत दीक्षादर्शे प्रपञ्चितं तत्र
अवधार्यताम्। कालस्तु शक्तिनिपाततारतम्यकाल एव अत एव
शक्तिनिपाततारतम्यवशात् एव सद्यो
निर्वाणाद्यनेकविध दीक्षाभेदस्सम्भवति। अथवा त्रिलोचनशिवाद्युक्त-
लौकिकादिकाल अवा(व)ग्राह्याः। तद्यथा।
सिद्धान्तरत्नावल्याम् –
काले वार्षिकपौषचैत्ररहिते दे
वोत्सवे दामने सङ्क्रन्तौ विषु वा अयन ग्रहणयोः दीक्षा पवित्रोत्सवे।
मैत्रार्कानिलसौम्यपैत्रनिर्मितौ पूषाख्यशार्द्दगिश्वरौजैवं रोहिणीको
र्तरत्रयम् अधोभौमार्कवारं विना इति।

एवं शिवधर्मण्यां विषयभेदमुक्त्वा तत् स्वरूपमाह –
धर्माधर्मात्मकं कर्म प्रागागामि विचित्रकम्।
स चिन्त्यशोध्यते यत्र सैवोक्ताशिवधर्मणि॥
प्राक् प्राक्तनं सञ्चितम् इत्यर्थः। आगामि इह जन्मनि जन्मान्तरे
वा भोज्य धर्मात्मकं पुण्यपापस्वरूपं विचित्रकम्। भोगं
वैचित्र्यान्नानाविधं सर्वं कर्म सत्यमनसा उल्लिख्य यत्र यस्यां शोध्यते
तत्तत् भोगानुगुणाम् इती प्रदानवशाद् एव फलजननार्हं क्रियते सैव
शिवधर्मणिदीक्षोक्ता।
लोक
धर्मण्या स्वरूपमाह॥ अधर्ममात्रसंशुद्धौ द्वितिया लोकधर्मणि। तत्तत्
भुवनादिषु सद्भोगार्थं धर्ममात्रं कर्म व्यवस्थाप्य अधर्ममात्रस्य सर्वेषाम्
अधर्माणां संशुद्धौ पूर्वो
क्तप्रकारेण शोधने कृते सति सामसेत्यमात्रशब्दः। इयं लोकधर्मण्याख्या
द्वितिया। स सबीजदीक्षा।
अत एव लोकेषु तत्तत् अपेक्षित भुवनेषु भोगार्थधर्मा
अस्यां सन्ति इति लोकधर्मिणि। शिवधर्मश्शिवत्वम् अस्य अस्ति इति
शिवधर्मिणि इति। दीक्षासार्थकत्वम् इयञ्च पर अपर भेदेन द्विधा भवति। तत्र
परा साक्षात्परशिवत्वप्राप्तिहेतुः

अपरा तु देहभङ्गव्यतिरेके स्वेच्छापरिगृहीतदिव्यशरिरेण यथेष्टभोगभुवनेषु
यथेष्टभोगानन्तरं परशिवत्वप्राप्तिहेतुः।
तथा बालज्ञानरत्नावल्याम् –
शिवधर्मण्यणोर्मूलं शिवधर्मफलःश्रियः।
परेतरान्विना भङ्गं तनोराविलयाद्भुवम्॥ इति
लोकधर्मणि च परापरभेदेन द्विधा। तत्र परा।तत्र तत्र भुवने(त्wओ फ़्१६ इस्
थेरे)
षु भुक्तभोगस्य देहोत्तरकालमेव शिवत्वप्राप्तिहेतुः। अपरा तु। भोगार्थिनोऽपि
देहोत्तरम् अणिमादिसिद्धिप्रदा।
तदुक्तं बालज्ञानरत्नावल्याम् –
भोगभूषु सर्वासु दुष्कृतेंशे हते सति।
देहोत्तराणिमाद्यर्थं शिष्टेष्टा लोकधर्मिणि॥ इति
अणिमादिसिद्धयश्च साञ्जना निरञ्जनाश्च तत्र साञ्जनाः
पातञ्जलादियोगशास्त्रसिद्धाः। निरञ्जनास्तु शैवमन्त्रसाधनसाम
र्थ्यसिद्धाः।
तदुक्तं कामिके –
काम्याश्च सिद्धयो ज्ञेयाः सिद्धयो बह्मधा स्मृताः।
कन्यसं भूपतित्वञ्च मध्यमं बिलसिद्धयः॥
उत्तमं खेचरित्वञ्च श्रेष्ठादेव समानता।
विद्यते बहुधैकैकं विद्येशत्वादिभेदतः॥
विद्येशत्वञ्च रुदुत्वं ब्रह्मत्वं वैष्णवं पदम्।
मायाकार्यमयेशादि रुदुस्थानेषु यत्सुखं॥
अपरं तु परंविद्यादनन्तादिपदस्थितिः॥ इति
पूर्वोक्तशिवधर्मणि लोकधर्मिण्योर्दीक्षायाम् अधिकारनिरूपणम्।
प्रकारान्तरेण स्वरूपं निरूपयति। तथा च ज्ञानरत्नावल्याम् उदाहृतं तद्यथा॥
द्वेधा निर्वा
णदीक्षा सा लौकिकी शिवधर्मणी गृहिणां लौकिकी ज्ञेया लिङ्गिणां
शिवधर्मिणी शिखाच्छेदो न यत्रास्ति दीक्षा सा लोकधर्मिणि
शिखाखण्डनसंयुक्ता दीक्षा सा शिव (त्wओ फ़्१६ इस् थेरे)

धर्मिणि इति। तथा मायातत्वविशुद्धौ तु शिख्या यस्यां विनिर्दहेत्।
शिवधर्मित्वसङ्ख्यात् सा दीक्षा शिवधर्मिणि इति। शिखाच्छेदं विनं(ना)
यान्यादीक्षा सा लोकधर्मणि।
तथान्यत्रापि दीक्षया लोकध
र्मिण्या गृहस्थां दीक्षयेत् गुरुः। तथैव शिवधर्मिण्या दीक्षयेच्च तपोधनान्
इति। पुनश्च स अधिकार निरधिकारभेदा द्वैविध्यं विषयभेदादाह॥
नित्यमात्राधिकारित्वात् समयिन्यपि पुत्रके।
दीक्षा निरधिकारैव नैमित्तानधिकारिणि।
नैमित्तिकाख्यदीक्षा प्रतिष्ठादिकर्मणाम् अधिकारानर्हें समयिनि पुत्रकेऽपि
नित्यमात्राधिकारित्वाद्धेतोर्दीक्षा निरधिकारै
व॥ नैमिक्तिकाद्यधिकाररहितैव॥ साधकार्चार्ययोस्साधिकारेत्याह॥
साधकाचार्ययोः नित्यनैमित्तिककाम्यकर्मसु सर्वत्रैव अधिकारित्वात् स
अधिकारैव।

सानयोस्साधकाचार्ययोः नित्यनैमित्तिककाम्यकर्मसु सर्वकर्माधिकारित्वादेव सा
दीक्षा तयोस्साधकाचार्ययोस्साधिकारैव॥
कालोत्तरे –
नित्यादित्रितयं कार्यं व्याख्यानदेशिकेन तु।
नित्यं काम्यं साधकस्य स्वशास्त्रोक्तं षडानन॥
समयिपुत्रकाभ्यां तु नित्यमेव प्रकीर्तितम्। इति
अथ समयिपुत्रक सा
धकाचार्य्याणं दीक्षाभेदादेव लक्षणभेद इति दर्शन्नाह। यत्र रुद्रपदे योगो
योगोविद्येश्वरे पदे। शिखाश्छेदो न यत्रास्ति दिक्षा सा समयि द्विधा॥

यत्र समयदीक्षायां रुद्रपदे शिष्यसंयोजनं सैका यत्र ईश्वरपदे योगश्शिष्यस्य
संयोजनं सा परेति।
सा समयि समयदीक्षा। द्विधा यत्र शिखाश्छेदो नास्ति इत्येत
त् वस्तुतस्समयदीक्षायां शिखाश्छेद अभावात् स्वरूपकधनमात्रम् एव॥ न तु
लक्षणेऽन्तर्भूतं तत्र शिखाश्छेदस्य निर्वाणदीक्षाङ्गत्वादेवाप्रसक्तेः। तथा च
रुद्रपदप्रापकसमयदीक्ष
या संस्कृतस्समयि।
ईश्वरपदप्रापकविशिष्टसमयदीक्षया संस्कृतः पुत्रक इति लक्षणम् उक्तं भवति॥
एवञ्च समयदीक्षामात्रेण रुद्रपदप्राप्तिः। समयविशेषाभ्याम् ईश्वरप
दप्राप्तिः इत्युक्तं भवति अथाभिषेकरहिता निर्वाणदीक्षा पुत्रके भवतीत्याह।
यत्र पाशशिखाच्छेदो योगश्शिवपदे भवेत्॥
निर्वाणाख्या तु सा सैवपुत्रकेनाभिषेक
तः। यत्र दीक्षायां पाशशिखाश्छेदः। निवृत्यादिपञ्चकलास्थान
अवशिष्टसूत्रशिखाश्छेदः। यत्र च शिवदेवयोगः सा निर्वाणाख्या दीक्षा तु पुत्रके
भवेत् कार्य्येत्यर्थः। सैवाभिषेक
तो न अभिषेकरहितेत्यर्थः
तथा च अनभिषेकनिर्वाणदीक्षितोऽपि पुत्र इत्यर्थः। निर्वाणदीक्षायाम् अपि
साध्यमन्त्राभिषेकेण साधकः। सर्वविद्याभिषेकेण आचार्य इत्याह॥

साध्यमन्त्राभिषेके च साधके सा प्रकीर्त्तिता। सर्वविद्याभिषेकेण भवेत् स
आचार्यगोचरे यस्य मुक्तिर्विनाणिमासिद्धिसाधन अपेक्षा येनमन्त्रेण भवेत्।
स च मन्त्रस्तस्य साद्योभवति।
तेन मन्त्रेण अभिषेका सा दीक्षा साधके सा प्रकीर्तिता तथा च
साध्यमन्त्राभिषिक्तसाधक इति लक्षणं। सर्वाविद्याभिषेकेण तु सर्वमन्त्रैः
अभिषेकेण तु सा दीक्षा आचार्यगोचरे आचार्यविषये भवे
त्।
तथा च सर्वविद्याभिषिक्ता- चार्य इति लक्षणम् उक्तं भवति।
षट्सहस्रकायाञ्च एवं ज्ञात्वा प्रयत्नेन लयभोगौ प्रकल्पयेत्। आज्ञात्वा
लयभोगौ तु यो दीक्षां कुरुते गुरुः। आचा
र्यस्सहशिष्यैस्तु नरके रौरवे पचेत्। देशिकस्तु प्रयत्नात्तु ज्ञात्वा दीक्षां
समाचरेत्।
एवं दीक्षाबीजज्ञानार्त्थम् अधिकारभेदवशात् दीक्षाभेदं प्रतिपाद्य निगम
यति। शिवसंस्कारयुक्तस्य यच्छिवत्व-समर्पणम्।क्रियया वाधशक्त्या वा दिक्षा
सा सर्वतो मता॥ क्रियया वा कुण्डमण्टपपूर्वकया वा। अथवा शक्त्या
मनोव्यापारभूतज्ञान- दीक्षया
वा।
शिवसम्स्कारयुक्तस्य स अधिकरणनिरधिकरणशिवकृतसंस्कारस्य यद्यस्मात्
कारणाच्छिवत्वसमर्पणं भवति। तस्मात् सा पूर्वोक्तचाक्षुषाद्यनेकभेदभिन्ना
दीक्षा सर्वतः प्रऴया
कल-विज्ञानकल-सकल-भेदभिन्नत्रिविध-सर्वपशुषु मता। शक्तिपातवशात् तत्
अधिकारानुरोधेन कार्येत्यर्थः।
तथा वामदेवे –
ज्ञानेन॥।याचारगुरुश्शिष्यं विशोधयेत्॥
एव दीक्षां प्रतिपाद्य फलप्रदानेन निगमयति।
दीक्षया मुच्यते देहि त्रिविधा भवबन्धनात्।
देहिशब्देन जात्येकवचनम्। त्रिविधपशुरपि त्रिविधात्
भवबन्धनान्मलमायाकर्मरूपात् संसारपाशान्मुच्यते
मुक्तो भवति॥ अथाध्वशुद्धिपरिज्ञानस्य अपि दीक्षाबीजतया वर्णयितुं स च
अध्वाषड्विध इत्याह॥ सा च दीक्षाध्वसंशुद्धि स च अध्वा षड्विध- स्मृतः।
सा संसारविमोचिका दीक्षा च
अध्वसंशुद्धिः। अध्वसंशुद्धिरूपा सा दीक्षाङ्गभूत अध्वा च षड्विधस्मृतः॥ ता
एवं विधास्संहारक्रमेणोद्दिशति॥ मन्त्राध्वा च पदाध्वा च वर्णाध्वा
भुवनाध्वकः। तत्वाध्वा
च कलाध्वा च विशत्येकं पदं शिवम्॥
मन्त्रपदवर्णभुवनतत्वकलारूपषड्विधो वा अपि एकं सर्वोत्तरतया मुख्यं शिवं
शिवतत्वाख्यपदं विशतिलयन्तत्रैव याति दीक्षयाम् इति शेषः।
तथा च दीक्षया मन्त्रादिषडध्वानां शिवतत्वे सङ्क्षिप्य शोधने कृते
सत्यग्निदग्धबीजानाम् इव तेषां पुनर्न भोगार्हत्वमनेन
शैवमुक्तानां शिवतत्व एव सर्वोत्तरभूते दीक्षया संयो
जनेन शिवतत्वाभिव्यक्तिमुक्तिरिति गम्यते। मुक्तसृष्टो पुंवरोभेतिनाथ इति
वचनेन शिवतत्वादधस्तेषां पुनर्निवृत्यभावात् पुनरावृत्तिरहितत्वमेव खलु
परमुक्तत्वम्।
मन्त्रादि
षडध्वनाञ्च उत्तरोत्तरव्यापकतया विभाव्य शोधनं कर्तव्यम् इति तत्
व्याप्तिप्रकारमेवाह॥ मन्त्राः पदानि वणैश्च व्याप्तानि सकलं ततः। वर्णास्तु
भुवनैर्व्याप्तानि तानि च।
कलाभिस्तानि तत्वाप्तानीह कलाः क्रमात्।
शोधनीयां विभाव्यैवं पञ्चाध्वगर्तिताः। मन्त्राः पदैर्व्याप्ताः पदानि च। वर्णाश्च
भुवनैर्भुवनानि च तत्वैस्तत्वानि च कलाभि
र्व्याप्तानीत्येवं पञ्चकला अपि क्रमात् पञ्चाध्वगर्भिता विभाव्य शोधनीयाः।
तथा च उक्तं त्रिलोचनशिवाचार्यैः॥
व्याप्यव्यापकभावना अत्र हि पदे मन्त्राः पदान्यक्षरैः वर्णा- स्ते

भुवनैश्च तानि च तथा व्याप्तानि तत्वैः इमे। व्याप्याकर्म मलाख्यमोहक
भवाये व्यापकास्तेप्यमि व्याप्यव्यापक –भावगा इह कलास्ताभिर्ग्रहि(र्गृही)ता

इमेव कलानां पञ्चाध्वगभूतत्वम्
एव प्रतिपादयितुं तासां शोधनसामान्यान्यप्याह॥ निवृत्तिश्च प्रतिष्ठा च
विद्याशान्तिश्च नभसि। कला हृत्कण्ठतालुभ्रू-ब्रह्मरन्ध्रावधिक्रमात्।
अत्र नाभसिशब्देन शान्त्यतीतोच्यते। तत् सम्बन्धित्वात् तस्यानिवृत्ति
प्रतिष्ठाविद्याशान्तिश्शान्त्यतीतेत्येताः कलाः क्रमेण हृत्कण्ठतालुभ्रू-
ब्रह्मरन्ध्रावधि एतेषु स्थानेषु विभाव्य

शोधनीया इत्यन्वयः। अथ निवृत्यादि पञ्चकलासु तत्वादिपञ्चाध्वनां
शोधनार्थं सङ्क्षेपं प्रकारं क्रमेण आह॥ निवृत्तौ पार्थिवं तत्वं चिन्त्यमेकं

क्षमक्षरं॥कलाग्निप्रभृतिनां तु पुरम् अष्टोत्तरं शतं। अन्त्यात् पदान् महादेव
पदावधि विलोमतः। व्योमव्यापि पदान् अष्टाविंशतिः परिसङ्ख्यया
सद्योजातश्च हृदय द्वौ
मन्त्रौ परिकीर्तितौ।
गुणागन्धादि शब्दान्ताः पञ्चब्रह्मा च कारणम्। निवृत्तै निवृत्तिकलायां
पार्थिपन्तत्वं पृथिवितत्वमेकम्। चिन्त्यं शोधनम् अन्तर्भाव्यं तत्वाध्वायाम्
अक्षरन्तु
क्षकारकः। वर्णाध्वायां कालाग्निप्रभृतीनां पुरां भुवनानाम् अष्टोत्तरशतम्।
अयं भुवनाध्वा अन्त्यात् पदादारभ्य महादेवपदावधि विलोमतः।
प्रातिलोम्येन व्योमव्या
पिपदानि परिसङ्ख्याया अष्टाविंशतिः। अयं पदाध्वा सद्योजातादि हृदयमन्त्रौ
द्वौ। मन्त्राध्वा गन्धादिशब्दान्ताः। गन्ध-रस-रूप-स्पर्श-शब्द-गुणाः। ब्रह्मा
च कारणोन्वरः
। ननु प्रतिष्ठायामम्ब्वादि चतुर्विंशतितत्वानि शोधनीयानीत्यनुपदमेव उच्यते।
अतः किन्निवृत्तौ गन्धादिशब्दान्तानां सङ्क्षेप उच्यते॥ तत्र गन्धादीनां तत्वेन
सङ्क्षेपः।
अत्र गुणत्वेनेति न विरोधः। ननु अत्र च गन्धादिगुणानां ब्रह्मणः
कारणेश्वरस्य च सङ्क्षेपो न युज्यते। तेषामध्वत्व अभावात् अध्वशुद्धिः
खल्वियन्दीक्षेति चेत् सत्यम्।
पृथिवीतत्वशोधने तत् सम्बन्धिनाम् अपि
शोध्यत्वात् अस्तु तथापि गन्धादीनां शोध्यत्वादभावः। कारणेश्वरस्य कथं
शोध्यत्वम् इति सङ्क्षेपश्चेति चेत् अत्र ब्रह्मणस्सङ्क्षेप
शिवपदगन्तुराजनो निष्कृति बन्धम् अनुकूल्य अनुग्रहार्थम् एव ननु
शोधनाय पृथिवीतत्व अधिकारित्वात् तस्य॥ अथ प्रतिष्ठाकलायां सङ्क्षेपप्रकारम्
आह।
प्रतिष्ठायाम् अङ्गादीनि
चतुर्विंशतिसङ्ख्याया प्रकृत्यन्तानि तत्वानि ज्ञातव्यानि स्वभावतः।
त्रयोविंशतिवर्णाश्च टादिहान्ता विलोमतः।
ज्ञातव्यान्यमरेशादि षट्पञ्चाशत् पुराणि च॥
महेश्वराद्यरूपान्ता पदानां
एकविंशतिः।
शिरोवामश्च मन्त्रौ द्वौ चत्वारस्तु गुणास्मृताः।
रसादिशब्दपर्यन्ता विष्णुः अत्र च कारणम्।
निगद एव व्याख्यानम्।
अथ विद्याकलायां सङ्क्षेपप्रकारमाह॥

विद्यायां सप्ततत्वानि पुरुषादीन् अनुक्रमात्।
वामादिभुवनानाञ्च विज्ञेया सप्तविंशतिः।
ध्यानहराय पर्यन्ता व्यापिनीति पदादितः।
पदानां विंशतिः मन्त्रौ शिखाघोरौ व्यवस्थितौ।

॥।कारादि घकारान्ता वर्णस्सप्तविलोमतः।
रूपं स्पर्शञ्च शब्दश्च गुणारुद्रस्तु कारणम्।
इदम् अपि निगदव्याख्यानम्। अथ शान्तिकलायां सङ्क्षेपप्रकारम्
आह॥
शान्तौ तु त्रीणि तत्वानि विद्येश्वरसदाशिवः।
गखकाश्च त्रयोवर्णा मन्त्रौ वक्त्रतनुच्छिदौ।
वामा मुख्यपुराण्यष्टादशैव परिसङ्ख्यया।
नित्ययोगिन इत्यादिन् एकादशपदानि च॥ ¬
व्योमव्यापिन इत्यन्तान्युक्तानीह विलोमतः।
गणौ स्पर्शशब्दश्च द्वाविशस्तत्र कारणम्।
इदम् अपि निगदव्याख्यानम्। अथ शान्त्यतीतकलायां
सङ्क्षेपप्रकारम् आह।
शान्त्यतीतकलायां तु शिवतत्वं व्यवस्थितम्।
निवृत्यादिपुराण्यत्र भवन्ति दशपञ्च च।
ॐ इत्येकं पदमन्त्रस्त्वस्त्रे स अनादिशिवास्त्रयः।
विसर्गादि अकारान्त वर्णाष्षोडश कीर्तिताः।
भवत्येकोगुणश्शब्दः कारणन्तु सदाशिवः।
इदम् अपि निगदव्याख्यानम् एव । एतेषां वक्ष्यमाणक्रमेण उद्देशक्रमेणैव
व्याख्यानसम्भवादेवं
अध्वनां सङ्क्षेप प्रकारम् उक्त्वा शक्ति-शिवतत्वेपि भावनीयेत्याह। इत्यध्वनां
विचिन्त्य अथ षडध्वना व्यापिनीं परम्। ध्यात्वा शक्तीन् तदूर्ध्वन्तु भावयेत्
परमं पदम्। इति
पूर्वोक्तसङ्क्षेपप्रकारेण अध्वानं षडध्वनोपि विचिन्त्य भाव्य जातावेकवचकम्।
अथ अनन्तरं षडध्वव्यापिनीं षडध्वव्यापकत्वेव परां शक्तिं ध्यात्वा तदूर्ध्वं
पराशक्ते
रूर्ध्वं परमं पदं लयापरपर्यायं शिवतत्वाख्यपदं तत्रैव मुक्तानाम् अवस्थितेः
भावयेच्छिष्यसंयोजनार्थम् इति शेषः। शिवतत्वादधस्तन सर्वतत्वानां
सम्यक्
भावना भावे शिवतत्वं दुर्विभाव्यमेवेति शप्दार्थः भावना च
सम्यक् परिज्ञानपूर्वका अज्ञानदुर्भाव्यत्वादत इदमेव सर्वदीक्षाबीजानां परमम्।
एवं मध्वसङ्क्षेपप्र
कारम् उक्त्वा अध्वस्वरूप अपरिज्ञाने तत् सङ्क्षेपप्रकार एव दुर्घट इति
दीक्षोपयुक्त अध्वानस्तद्भेदाश्च इयं त एवेति कथयितुं प्रतिजानीते॥ अथ
दीक्षोपयुक्तानां
क्रमेणैव षडध्वनाम्। इयं तयासमुदे दशः कथ्यतेऽत्र विभागशः। विभागशः
कथ्यते विभज्य उच्यते इत्यर्थः।
मन्त्राध्वविभागम् आह सद्योवामस्तथा घोरपुरुषेशाश्च हृच्छिरः।
शिखवर्मास्त्र मूले च मन्त्राध्वा समुदीरितः।
सद्योजातवामदेवाधोरतत्पुरुषेशाना हृदयशिरश्शिखाकवचनेत्रास्त्रमन्त्राश्च
मूलमन्त्रेण सह द्वादशापि मन्त्रा
परिकीर्तितः।
एतेषाम् उद्धारक्रमस्तु कारणे यथा –
षोडशस्वरसङ्घेतु नपुंसकविवर्जिते।
द्वादशस्वरसङ्घेन नादाख्यार्णसमन्वितम्॥
व्योमाग्निभूतवर्णाश्च
सप्तमं नवमं तथा।

बिन्दुनादसमायुक्तं ब्रह्मपञ्चकम् उच्यते॥
सद्यं वाममघोरञ्च पुरुषेशानकौ द्विजः।
ब्रह्माण्डानुक्रमेणैव नमस्कारान्तकानि तु॥
द्वितीयेन चतुर्थेन षष्ठेनैव अष्टमेन च।
दशद्वादशवर्णाभ्यां षडङ्गानि विधियते ॥
हृदयञ्च शिरश्चैव शिखाकवचम् एव च।
नेत्रमस्त्रं षडङ्गानि कीर्तितानि क्रमेण तु।

हृदादिनेत्रपर्यान्ता बिन्दुयुक्ताः प्रकीर्तिताः।
अस्त्रं विसर्गपर्यन्तञ्जातिषट्कसमन्वितम्॥
नमस्वाहावषड्वौषठुम्फट्कारक्रमे तु।
एते वैजातिष्यकं स्याद्धृदाद्यसत्रान्तयोजिताः॥
प्रणवं चादितः कृत्वा ख(क)र्णोच्चारमनन्तरम्।
अभिधानचतुर्थ्यन्तं नमस्कारादिसंयुतम्।
ब्रह्माङ्गानामथोच्चारं सर्वकार्येषु पूजितम्।
तथा क्रियाकरणमण्डने –

अक्लीबव्योमवर्गे तु रन्ध्रषिषु गुणेन्दवः।
ईशपुङ्घोरवामाजबीजानि ह्रस्वमुच्चरेत्।
तत्रैव वर्गे दृश्वेदरसेभाः पङ्तिभावनाः।
हृदयाद्यङ्गबीजानि ख्याता वर्णा इमे क्रमात्।
सान्तं षष्ठं सजम्भारि बिन्दुनादसमन्वितम्।
सम्प्रदानशिवो मन्त्रो हृद्धृवे नाभियोजित। इति

तथा सर्वज्ञानोत्तरे च - मूलमन्त्रोद्धारो यथा -
हृत्बीजात् पञ्चमे बीजे षष्ठं बीजानि योजयेत्।
मात्रात्रयसमायुक्तं मूध्नि बिन्दुं प्रदापयेत्॥
शिवमेवंविधं विद्यात्सर्ववर्णेष्वनुक्रमादिति।
विनियोगभेदश्च तत्रैव ह्रस्वदीर्घप्लुतान्तान्यथाकामं प्रकामं
प्रकल्पयेत्॥

अत्र ह्रस्वशब्देन ब्रह्माण्युच्यते --  

दीर्घशब्देनाङ्गानि पतशब्देन मूलमन्त्रः।
अनन्तशब्देन समनान्तस्स एवेति व्याख्यातम् अघोरशिवाचार्यैः।
ह्रस्वो दहति पापानि दीर्घस्सूच्चाटयेद्ध्रुवम् ।
आप्यायने पतंयुज्यादनन्तमुक्तिकर्मणि। इति
विनियोगपेदाप्युक्तः- तत्रैव –
नमस्कारान्तसंयुक्तारर्चने सम्प्रयोजयेत्।
होमे स्वाहान्तसंयुक्ताच्छान्तिकाकर्षपौष्टिके॥
वश्ये च सम्प्रयोक्तव्यास्वाहाकारान्तसंयुता इति। ननु॥ ह्रस्वे
ब्रह्माणि कल्प्यानि दीर्घैः
अङ्गानीति बम्बागमवचनात् ब्रह्मणां ह्रस्वा एव वक्तव्याः। तथा च॥
सन्ध्यक्षराणां ह्रस्वानसन्तिति न्यायेन कथम् ओकारेकारयोरीशानतत्-
पुरुषबीजत्वम् उच्यते। एकारोकारयोः
अपि त्वचि धृस्वत्वं प्रतिपादितम्।
यदाहुः शिक्षाकाराः।छन्दोऽङ्गानां सातमुग्रीरायनिया ह्रस्वम् एकारं ह्रस्वम्
ओकारञ्च पठन्ति इति। ननु मन्त्राध्वेति कथं ब्रह्माङ्गमूलमन्त्रा एव
उच्यते। सप्तकोटिमहामन्त्राणां दीक्षायां शोधयितुम् अशक्यत्वात् तेषां सर्वेषाम्
अप्यत्रैव अन्तर्भावात् एव तेषामेव शोध्यत्वेन उपयोगाच्च एतेषामेव
मन्त्राध्वत्वम् उक्तमित्यविरोधः।
एवम् मन्त्राध्वनाम् उक्त्वा पद अध्वस्वरूपम् आहा(ह)। एकाशीतिपदैरेवं पदाध्वा
परिकीर्तितः। एतेषाम् एकाशीतिपदानां तत् वर्णानाञ्च
उधक्तया परिच्छेदस्तत्तदेव ताश्च सिद्धान्तशेखरे प्रतिपादिताः। तद्यथा -
ओमित्येकाक्षरं तत्र पदन्तस्याच्छिवात्मकम्।
पञ्चवर्णं द्वितीयं वै स्याद् व्योमव्यापिने पदम्।

त्रितीयं व्योमरूपाय पञ्चवर्णं पदं भवेत्॥
पञ्चवर्णं चतुर्थन्तु स्यात् सर्वव्यापिने पदम्।
त्रयक्षरं शिवायेति पञ्चाङ्गानां पदानि च।
अनन्तायेत्यनन्तस्य
वाचकञ्चतुरक्षरम्।
अनाथायेति सूक्ष्मस्य पदं स्यच्चतुरक्षरम्।
अनाश्र(श्रि)ताय पञ्चार्णां स्याच्छिवोक्तमवाचकम्।
त्र्यक्षरञ्च ध्रुवायेति ह्येकनेत्रस्य वाचकम्।
शाश्वताय चतुर्वर्णं एकरुद्रस्य वाचकम्।

अष्टाक्षरं योगपीठसंस्थिताय त्रिमूर्त्तिनः।  

श्रीकण्ठस्य पदं नित्यं योगिने पञ्चवर्णकम्।
ध्यानाहाराय पञ्चार्णं वाचकं तच्छिखण्डिनः।
ॐ नमश्शिवाय* पदं गायत्र्याश्च षडक्षरम्।*
पञ्चाक्षरञ्च सावित्र्या स्यात् सर्वप्रभवे पदम्।
त्र्यक्षरं च शिवायेति विद्येशानां च पूजने।
पदमीशानमूर्धात्वचेशानस्य षडक्षरम्।
स्यात्तत् पुरुषवक्ताय सप्तार्णं पुरुषस्य तु।
अघोरहृदयायेति सप्तार्णं बहुरूपिणः।
स्याद्वामदेवगुह्याय सप्तार्णं वामदेवके।

सद्योजातस्य सप्तार्णं स्यात् सद्योजातमूत(र्त)ये।
स्यादोन्नमो नमस्तु स्यात् पञ्चार्णाञ्चण्डवाचकम्।
ज्योतिरूपाय पञ्चार्णं पदं स्यादस्यादस्त्रवाचकम्।

गुह्यादिगुह्यायपदं षड्वर्णं हृदयं ततः।
गोप्त्रे च वर्णद्वयन्तत् स्याच्छिरसो वाचकं मतम्।
चतुर्वर्णं शिखायास्यां निधनाय पदं मतम्।
सर्वविद्याधिपायेति कवचं सप्तवर्णकम्।
ज्योतिरूपाय पञ्चार्णं पदं स्यादस्तवाचकम्।
नेत्रमष्टारं प्रोक्तं परमेश्वरपूर्वकम्।
पराय चण्डनाथस्य षडङ्गान्युदितानि तु।
अचेतनाचेतनेति सप्तार्णं तस्य चासनम्।

व्योमव्योमपदं ज्ञेयं धर्मस्य चतुरक्षरं।
व्यापिन्व्यापिञ्चतुर्वर्णं पदं तत् ज्ञानवाचकम्।
अरूपिन्नरूपिन् वैराग्ये तु षडक्षरम्॥

प्रथमप्रथमेत्येतदैश्वर्ये तु षडक्षरम्।
तेजस्तेजश्चतुर्वर्णं कर्णिकावाचकं पदम्।
ज्योतिज्यो(र्ज्यो)तिश्चतुर्वर्णमन्तस्य पदं मतम्।
केसराणामधश्चोध्वद्वात्रिंशच्च पदं मतम्।

अरूपानग्न्यधुमेति स्यादभस्म पदं ततः।
अनादे चाधना ना ना धू धू धू च पदं तथा।
सप्तैतानि पदानि स्युस्त्र्यक्षराणि शिवागमे।
ॐ भूश्च द्व्यक्षरं मन्त्रमों भुवश्च त्रिवर्णकम्।

ॐ स्वोवर्णद्वयञ्च निधनेति चतुरक्षरम्।
निधनन्त्र्यक्षरं ज्ञेयं पञ्चार्णं निधनोद्भव ॥
शिवेति द्व्यक्षरं सर्वपदञ्च द्व्यक्षरं मतम्।
परमात्मं चतुर्वर्णं चतुर्वर्णं महेश्वर॥
महादेवश्चतुर्वर्णं सत्भावेश्वरवाचकम्।
महातेजश्चतुर्वर्णं योगाधिपतये पदम्।
पञ्चार्णं मुञ्चमुञ्चेति चतुर्वर्णं पदं मतम्।
प्रथमप्रथमेत्येवं षड्वर्णं पदमीरीतम्।
शर्वशर्वचतुर्वर्णं तथा भवभवेति च।
भवोद्भवचतुर्वर्णं सर्वभूतसुखप्रद॥
अष्टार्णं सर्वसान्निध्यकरस्यात् सप्तवर्णकम्

ब्रह्माविष्णुरुद्रपरानर्चतानर्चितेति च।
असंस्तुतासंस्तुतेति पूर्वस्थित। अक्षाष्टाक्षराणि चत्वारिपदानि च शिवागमे॥

द्वात्रिंशत्केसराणां स्युः पदान्यपि यथागमम्।
साक्षिन्साक्षिन् चतुर्वर्णं पदं स्यात्पत्रवाचकम्।
इन्द्रादीनां पदान्यष्टौ वक्ष्यन्ते क्रमशो यथा।
चतुर्वर्णं तुरुतुरु षट् पतङ्गपतङ्ग वै।
पिङ्गपिङ्ग चतुर्वर्णं ज्ञानज्ञन तथा मतम्।
शब्दचतुर्वर्णं सूक्ष्मसूक्ष्म तथा पदम्।
शिवेति द्व्यक्षरं सर्वपदं चाष्टौ दिशाभृताम्।
त्र्यक्षरं सर्वपदं सर्वविद्याधिपे मतम्।

ॐ नमो नमः पञ्चार्णं पदं ब्रह्मशिरो मतम्।
ॐ शिवाय चतुर्वर्णं रुद्राण्यावाचकं पदम्।
नमोनमश्चतुर्वर्णं पदं पाशुपते मतम्।
ओमित्येकाक्षरं चिन्त्यं वज्रादीनाञ्च वाचकम्।
अष्टषष्ट्याधिकं प्रोक्तं वर्णानाञ्च शतत्रयम्।
एकाशीतिपदान्येवं पदाध्वा परिकीर्त्तितः। इति।
तथा च षट् सहस्रकालोत्तरे च शिवतनुवर्णनपटले –

पदानि व्याख्यानपूर्वकं प्रतिपाद्य शिवसद्भावपटले॥ आदावेव
तदनुवादोऽक्षरसङ्ख्या च प्रतिपादिता। तद्यथा। अथ सङ्ख्या शिवस्योक्ता

अक्षराणां शतत्रयम्। अष्टषष्ट्यधिकं शम्भोर्गुह्यमन्त्रविनिर्गतम्। मन्त्रार्धाश्च
पुरा प्रोक्ता विद्येशानेन सम्भवेत्॥ इति॥
अथ वर्णाध्वानमाह।

अकारादिक्षकारान्तो वर्णाध्वा परिकिर्तितः। इदं निगदव्याख्यानमेव ॥
अथ भुवनाध्वस्तत्वेष्वन्तर्भाव वर्णनद्वारैव कलास्वपि यत्ते यत्नावच्छेदेनैव
सङ्क्षेपम्
आह।
कालाग्निरथ-कूश्माण्डहाटकब्राह्मवैष्णवम्।
रौद्रञ्च भुवनान्यन्त ब्रह्माण्डस्य स्थितानि षट्॥
कपालिशोध्वजो बुद्धो वज्रदेहः प्रमर्दनः।
विभूतिरव्ययश्शास्ता पिनाकि त्रिदशाधिपः।
अग्निरुद्रो हुताशश्च पिङ्गऴः खादको हरः।
ज्वलनो दहनो बभृर्भस्मान्तकः क्षयान्तकः।
याज्यो मृत्युर्हरो धाता विधाता च तथा परः।
कर्ता वो(चो)क्ता वियोक्ता च धर्मो धर्मपतिस्तथा।
निॠतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः।
ऊर्ध्वरेतो विरूपाक्षो धूम्म्रलोहितदंष्ट्रिणः।
बलश्चातिबलश्वैव पाशहस्तो महाबलः।
श्वेतोऽथ जयभद्रश्व दिर्घहस्तो जलान्तकः।
मेघनादस्सुनादश्च दशमः परिकीर्तितः।
शीघ्रो लघुर्वायुवेगस्सूक्ष्मस्तीक्ष्णक्षयान्तकः।

पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः।
निधीशो रूपवान् धन्यस्सौम्यदेहो जटाधरः।
लक्ष्मी धृगृक्नधृक् श्रीमाणधृक् प्रसादश्च प्रकामतः।
विद्याधिपेऽशौ सर्वज्ञो ज्ञानधृग्वेदपारगः।

सुरेशशर्वौ जेष्टाश्च भुतपालो बलिप्रियः।
वृषो वृषधरो रन्तः क्रोधनो मारिताश्वनः।
ग्रसरो दृ मञ्जरीशश्च फणीन्द्रो वज्रदंष्ट्रिणौ।
शम्भुद्धभुर्गणाध्यक्ष स्त्रयक्षस्त्रिदशेश्वरम्।
संवाहश्च विवाहश्च नभो लीप्सस्त्रिलोचनम्।
वीरभद्रो भद्रकाऴी सर्वोर्ध्वे भुवनद्वयम्।
एतेषां श्लोकानामुद्देशरूपत्वादेव पदच्चेदमात्रेणैवार्थनिर्वाहस्सुकरः।
अथैतेशामुद्दिष्टानामादौ षट्ब्रह्मा (ब्र)ह्माण्डमध्यत इत्युक्तम्।
अन्ये तु प्रागादिप्रतिदिशं दशदशब्रह्माण्डोऽध्वञ्च भुवनद्वयम् इति तेषाम्
आदिग्रहणेन विभागं करोति।
कपालीशादयः प्राच्याम् अग्निरुद्रादयो नले।
याम्याद्या दक्षिणे भागे निरुऋत्याद्यास्तु नैऋते।
बालाद्या वारुणे भागे शीघ्राद्या वायुगोचरे।
उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः।
वृषादयस्त्वधोभागे शम्भुमुख्यास्तदूर्ध्वतः।
ब्रह्माण्डस्य बहिर्देशे दशदिक्षु व्यवस्थिताः।
अथैवं निवृत्तिकला यः कालाग्निप्रभृति भुवनानाम् अष्टोत्तरशतम्
इत्युपसंहरति।
एवं कालाग्निमुख्यानां पुराणां परिसङ्ख्याया निवृत्यादिकलायां तु ज्ञेयम्
अष्टोत्तरं शतम्। एवं निवृत्तितत्वस्थित-भुवनान्यभिधाय प्रतिष्ठात्स्थित-
अप्तत्वादि
वर्त्ती भुवनान्याह।
अमरेशः प्रभासश्च नैमिशः पुष्करौषधिः।
डिण्डिमुण्डस्तथा भारभूतिश्च लकुऴीश्वरः।
हरिश्चन्द्रो अथ श्रीशैलो जल्पेशाम्रादिकेश्वरौ मध्यमेशो (२न्द् लिमे)
महाकाऴः केदारो भैरवस्तथा गयाचैव कुरुक्षेत्रं नाखलो नखलस्तथा।
विमलेशोऽट्टहासश्च महेन्द्रो भीमकेश्वरः।
वस्त्रापादोरुद्रकोटिः विमुक्तो महाबलः।
गोकर्णो भद्रकर्णश्च स्वर्णाक्षस्थाणुरित्यपि।
छिगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः।
काऴान्जयसड्कुकर्णस्थूलेश्वरस्थलेश्वरः।

पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च।
सौम्यञ्चैव तथा ज्ञेयं ब्राज्ञेशं ब्राह्ममष्टमम्।
अकृतञ्च कृतञ्चैव भैरवं ब्राह्मवैष्णवम्।
कौमारञ्च तथा चौमाश्रीकण्ठञ्चाष्टमं तथा॥
एवम् उद्दिष्टनामेव प्रतिष्ठाकलावनानां तत्र स्थितिभर्देन प्रतितत्वम्
अष्टाष्टसङ्ख्यया तत्वसप्तके
षट्पञ्चाशदिति विभागं करोति।
अमरेशादि च आप्तत्वे हरीश्वन्द्रादितेजसि।
गयादिवायुतत्वे च व्योम्नि वस्त्रापदादि च।
छगलण्डाद्यहङ्कारे पैशाचाद्यमस्थितम्।
प्रकृता च कृताद्येवं षट्पञ्चाशत् पुराणि तु॥
ज्ञातव्यानि प्रतिष्ठायाम् अमरेशादिनामभिः। तत्र चामरेशादयस्त्वादि
गुह्याष्टकातिगुह्याष्टकगुह्यात् गुह्याष्टक
पवित्राष्टकस्थाण्वष्टकाख्ययाख्याताः। परमेश्वराज्ञया लोकानुग्रहाय
भूलोकवासिनो लिङ्गभूताश्च भवति।
तथा च उक्तम् सर्वज्ञानोत्तरे –
आदिगुह्याष्टका रुद्रा* अतिगुह्याष्टकास्तथा।*
गुह्यात् गुह्याष्टकाश्चैव पवित्राष्टकमेव च॥
स्थाण्वाका(र)श्च पञ्चैते नियोगात् भूमिवासिनः।
अनुग्रहाय लोकानां* लिङ्गभूताः प्रतिष्ठिताः।*

तेषामेव समीपस्थं यत्तोषं षडानन॥
तत्तीर्थं परमं पुण्यं तत्र स्नात्वा शिवं व्रजेत्।
ये त्यजन्ति सदा प्राणानुस्थानेष्वेतेषु मानवाः।
ब्रह्माण्डं ते विनिर्भीन्द्ययान्ति पञ्चाष्टकं पदम्।
अयञ्च तिर्थस्नानशिवक्षेत्रवासादिजन्यमोक्षसत्वपरमोक्षः। परमोक्षस्तु दीक्षयैव।

तद्व्यतिरेकेण परमोक्ष एव नास्ति इति। प्रागेव निरूपितम्।
अथ विद्याकलावती भुवनान्याह
वामोऽभिमस्तथोग्रश्च भवेशानैकवीरकाः।
प्रचण्डोमापतिश्चा जोनन्तैकशिव एव च ॥

क्रोधश्चण्डो द्युतीश्चैव संवर्तो लकुऴीश्वरः।
पञ्चान्तकैकवीरौ शिखोदश्च महाद्युतिः।
वामदेवोत्भवौ चैव भवश्चाप्येकपिङ्गलः।

एकेक्षणस्तथेशानस्तथैवाङ्गुष्ठमात्रकः।
अथैषां तत्वभेदेन विभागङ्करोति -
वामादिपुरुषे रागे प्रचण्डादिकपञ्चकम्।
नियत्यादिषु क्रोधादिमहाद्युत्यादिमायिके।
वामादीनां पुराणाञ्च विद्यायां सप्तविंशतिः।
अथ शान्तिकलाभुवनान्याह–
वामा ज्येष्ठा च रौद्रि च कालिकलविकारिणि।
बलविकरणि चैव बलप्रमथनि तथा।
सर्वभूतदमनी च मनोमनीत्यनन्तकः॥
सूक्ष्मश्शिवोत्तमश्चैकनेत्ररुद्रौ त्रिमूर्त्तिकः।
श्रीकण्ठश्च श्रीशिखण्डी च तथैवान्यस्सदाशिवः॥
शान्तौ वाममुखान्यष्टादशैव भुवनानि तु।
अत्र शान्तिकलाभुवन-भुवनमध्ये मनोनीतिकारेण विद्यातत्वे मनोन्मन्यन्तं
न च। ईश्वरतत्वेऽनन्ताद्यष्टकं सदाशिवतत्वे सदाशिव
एव॥
अथ शान्त्यतीतभुवनान्याह –
निवृत्यादीनां स्वरूपं मृगेन्द्रे यथा –
करोत्युन्मीलनं याभिशक्तिभिर्नरतेजसः।
निवर्ति यतिभूतानि यथा सस्यान्निवृत्तका।
निवृत्तिरि(ति)तत्स्थानं तत्रेशोपि निवृत्तिमान्।
निवृत्तस्य गति भूयोभूयः प्राच्यावलक्षणम्।
तत्वात्मगम्यविषयं यया ज्ञानं ददात्यणोः।
सा विद्यास्थानमप्यस्य विद्येशश्च तदीश्वरः।
सर्वदुखप्रशमनं ययास्य कुरुते हरः।
शान्तिस्तत् पदञ्चेति तत् कुर्वन् सोऽपि शान्तिमान्।
ऊर्ध्वाधो विषयाल्लोकान्महान्यश्च महत्तरः।
महत्तमश्च क्रियते चितो याभिर्विमुच्यतः।
ता इन्धिकाद्यास्थानानि तद्वा निशस्तिसृष्वपि।
प्रमाज॥त्वं यया सास्य मोचिका तत् पदञ्च यत्।
मोचकस्तत् क्रियाकच्च ययेशानं करोति तम्।
सोऽध्वगा तत् पदञ्चेति तदीशश्चोर्ध्वगा पतिः।

येऽपि तत्पदमापन्ना शैवसाधाऽयोगतः।
ते तत् स्थित्यन्तमाह्लादं प्राप्य यान्ति परं पदम्।
न च सृष्ट्यादिकुर्वन्ति स्वार्थनिष्ठार्हते यत इति।
योक्तभुवनाद्धनामुपसंहरति।
एवं पञ्चकलावर्ति भुवनानां शतद्वयम्।
चतुर्विंशोत्तरं यत्तत् भुवनाध्वनि वर्णितम्।
सुबोधम् अत्र चतुर्विंशत्युत्तरं भुवनशतद्वयं
वर्णितम् इत्यनेन अन्यान्यापि दिव्यागमोक्तभुवनान्यत्रैवा॥॥वन्ति दीक्षायाम्
एतावत् शोधनेनैव तेषाम् अपि शुद्धिस्सम्भवति। एवम् अभुवनाध्वा न मुक्त्वा
तत्वाध्वानम् आह।
अथ तत्वानि षट्त्रिंशत् प्रथ्व्यप्तेजोमरुद्वियत्।
गन्धे रसे रूपस्पर्शशब्दोपस्थानि पायु च।
पादः पाणिश्च नासाजिह्वा चक्षुस्त्वचश्रुतिः।
मनोहङ्कारबुद्धी* च प्रकृतिः पुरुषस्तथा।*
रागो नियति विद्ये च कलाकालश्च मोहिनि।
विद्या चेश्वरसादाख्यौ शक्तिश्शिव इतिस्मृतः।
इति निगदव्याख्यानम्। एतेषां प्रथ्व्यादितत्वानां
स्वरूपं मृगेन्द्रे मतङ्गसर्वज्ञानोत्तराद्यागमैः तत्वसङ्ग्रहनिर्णय-
तत्वप्रकाशादिभिश्च विस्तरेण वर्णितम् इति ग्रन्थविस्तारभयान्नेह वर्णितम्।
अथ* कलाध्वानमाह –*
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथापरा।
अतीतेति कलाः पञ्चनिगदव्याख्यानमेतत्॥
अथैतत् ग्रन्थेन प्रतिपादितदीक्षाबीजमुपसंहरति।
समुद्देशष्षडध्वानाम्। एवं षडध्वनाम मन्त्रादिनाम् उद्देशो
दिक्षाबीजपरिज्ञानार्थकृत इति शेषः। इति श्रीव्याघ्रपुरनिवासि
निगमज्ञानदेवविरचितवरुणप
द्धतिव्याख्याने विलोचनाख्याने दीक्षाप्रकरणं प्रथमम् ।
श्रीमद् त्रिपुरसुन्दर्य्यै नमः ।
करकृतमपराधक्षन्तुमर्हन्ति सन्तः।

श्री बालाम्बासमेतवेदपुरीश्वरस्वामिसहायम्। श्रीगुरुभ्यो नमः।
।प्रतिष्ठाप्रकरणम्।

अथैवं दीक्षाबीजं प्रतिपाद्य उद्देशक्रमानुरोधेन प्रतिबीजम् अपि प्रतिपादयितुं
प्रतिष्ठायालक्षणमाह।
ज्ञानं त्यात्मके लिङ्गे क्रियाश्शक्तेस्समर्पणम्।
पीठस्य विधिना योगः प्रतिष्ठा सा च पञ्चधा॥
ज्ञानशक्तिरेवात्मस्वरूपम्। यस्य तस्मिन् लिङ्गे क्रियाशक्तेः।
क्रियाशक्तिस्वरुपस्य पिठस्य पिण्डिकायां विधिना
शिवशास्त्रोक्तक्रियारूपमार्गेण समर्पणं सम्यगर्पणम् इदमेव योगः सम्बन्धः।
प्रतिष्ठेत्युच्यत इति वाक्यार्थः। इदञ्च सामान्यलक्षणम्। अत्र समर्पणम्
इत्यनेन
शिवमत-सिद्धान्तवेदिनाचार्येण ज्ञानक्रियास्वरूपपरिज्ञानकोशलेन संयोजनं
विवक्षितम्।
तत् स्वरूपापरिज्ञाने तत् संयोजनम् एव दुष्करम्।
अनेन आचार्यस्य ज्ञानसामर्थ्यमेव प्रथमं प्रतिष्ठाबीजम् इत्युक्तं भवति। तथा
च शिवस्य ज्ञानशक्तिक्रियाशक्त्योस्सम्मेलनमेव प्रतीतिनिकृष्टार्थः।
वस्तुतोऽपि नाभाविनि ज्ञानशक्तिः एकैव सर्वविषयिणि एकैव अनेकताम्
यातीति शिवस्य सर्वकर्तृत्वं प्रतिपादयन्ति
तत् अवस्थायां क्रियाशक्ति इति च स्वतन्त्रः कर्तति कर्तृत्वस्य
स्वातन्त्र्यगर्भत्वात् स्वातन्त्रप्रतिपादिकेच्छाशक्तिश्चेत्युपचर्यते। तथा च
ज्ञानशक्तावेव इच्छाशक्तिरप्यन्तर्भावः। एवञ्च शिवस्य मूर्तत्वादेव
ज्ञान एव मूर्तिरित्युपचर्यते॥ इयञ्च मूर्तिरिव मूर्तिरिति निष्कऴैव। अत एव
लिङ्गपीठात्मकत्वं मूर्तित्वम्।
ज्ञापयति तथा च व्यापक॥।त्रलिनं मूर्तं शिव(वा)ङ्गम् इति। व्यञ्जयति
इति
लिङ्गप्रतिमा च। तत् व्यन्जकञ्च ज्ञानक्रियानिपुणदेशिककृत्यभूतप्रतिष्ठा
अनन्तरभावि। अनेनैव शिवस्य ज्ञानशक्तेरन्तरङ्गत्वं
क्रियाशक्तेरन्तरङ्गत्वञ्च सूचितं भवति। सैव मुक्तलक्षणा
प्रतिष्ठा च पञ्चधा पञ्चप्रकारा। तानेव प्रकारान् उद्दिशति॥
प्रतिष्ठास्थापनञ्चैव स्थितस्थापनम् एव च उर्था(त्था)पनञ्च सम्प्रोक्तं
तस्मा(स्मात्) स्थापनमित्यपि। निगदव्याख्यानं (४थ् लिने ) एतत्॥
एतेषाम् उद्देशक्रमेण विषयव्यवस्था लक्षणम् आह।
लिङ्गे ब्रह्मशिलान्यासपूर्वके योज्य पिण्डके।
बाणादयः पृथक्पीठे जिर्णे व्यक्ते यथाक्रमम्।
ब्रह्मशिलान्यासः –
पूर्वे यस्य यस्मिन्लिङ्गे विषये क्रियमाणा प्रतिष्ठा प्रतिष्ठे वेत्युच्यते। योज्या
पिण्डिका पिण्डिकामात्रम् इत्यर्थः।
तस्मिन्बाणादौ क्रियमाणं प्रतिष्ठाकर्मस्थापनम् इत्युच्यते। पृथक् पीठं न
विद्यते यस्य तस्मिन् लोहरत्निमयादौ क्रियमाणं प्रतिष्ठाकर्मस्थितस्थापनम्
इत्युच्यते। जीर्णे
लिङ्गे क्रियमाणजीर्णोद्धारप्रकारेणेतिशेषः।उत्थापनम् इत्युच्यते।
व्यक्ते प्रतिमादौ क्रियमाणं स्थापनम् इत्युच्यते।
तदुक्तं त्रिलोचनशिवाचार्यैः –
पीठं लिङ्गमुमा
शिवस्तदनयोर्योगः प्रतिष्ठोदिताविध्युक्तो वरदृ(दृक्)क्रियात्मकतनुः सा
पञ्चधैवोदिता लिङ्गे ब्रह्मशिलादिके शिवयुते पिठे स्थितस्थापने
बाणस्थापनमेव बेररजतौ
चास्थापनोर्था(त्था)पने इति। एवं प्रतिष्ठायाः पञ्चविधत्वं प्रतिपाद्य
पुनर्मतान्तरेण प्रतिष्ठायालक्षणान्तरमाह।
मूर्तिमूर्तीशविन्यासतत्वतत्वेश्वरान्विताः। अष्टधा पञ्चधा

यत्र प्रतिष्ठा सा यथाविधिः तत्वानि आत्मविद्याशिवाख्यानि। तत्वेश्वरा
ब्रह्मविष्णुहरा एव न्याससमन्वितम्। यथा तथा मूर्तिमूर्तीशविन्यासः। अष्टधा
पञ्चधा वा। तत्राष्टमूर्तयः।
प्रथिव्यादियजमानान्ताः। मूर्तिषु शर्वादिभीमान्ताः। पञ्चमूर्तयः पञ्चभूतानि
मूर्तिपाः। पुनर्ब्रह्मादिपञ्चकारेणेश्वराः। एतेषां न्यासो यत्र स विधिः।
कर्मप्रतिष्ठेति
क्वचिन्मतान्तरे उच्यते इति शेषः।
एतेषां स्वरूपं विषयभेदश्च मूलकारण एवोत्तरत्र स्पष्टीकरिष्यते। अथ
लक्षणोद्धारपरिज्ञानस्यापि प्रतिष्ठाबीजत्वात् किञ्चित् भेदानाह।
रुद्रभागे त्रिधा भक्ते ब्रह्मरेखानुसारतः। अधोभागे द्वये लक्ष्मलम्बयेदा
जलाश्रयम्। रुद्रभागे पूजांशे त्रिधा त्र्यंशैर्भुन्ते॥।ते सति ब्रह्मरेखानुसारतः।

मध्यरेखानुसारेण मध्यभागमुपकृतेत्यर्थः।
अधोभागद्वये अधस्थानांशद्वये लक्षणमाजल-माजलाश्रयं
पिण्डिकोपरिभागपर्यन्तं। लम्बयेत्॥ आसञ्जयेत्॥
तदुक्तं* कामिके –*

रुद्रांशोच्च(च्चं) त्रिधा कृत्वा चोर्ध्वभागन्त्यजेत्गुरुः। इति
अत्र क्रियाकारणेऽपि दीप्ते विशेष उक्तः।
अतःपरम्प्रवक्ष्यामि ब्रह्मसूत्रस्य लक्षणम्।
लिङ्गञ्च निर्वृणं कृत्वा पूजाभागे तु विन्यसेत्।
पूजाभागं समस्तं तु षोडशांशैर्विभाजयेत्।
दशमे॥क्षणोद्धारं हेमसूच्या पुनर्ल्लिखेत्। इति
अत्र दशमत्वञ्चोर्ध्वमारभ्येति मन्तव्यम्।
अथोध्रियमाणलक्षणस्य रेखा विस्तारन्तन्निताञ्चाह॥
लिङ्गा वामे जि(जीर्)नांशे तु लक्ष्मविस्मृतिरीशतः।
पृथ्वी निम्ना च तदृखा विमृतेर्नवमांशतः।
लिङ्गायामे लिङ्गदैर्घ्ये जिनांशे बुद्धांशे चतुर्विंशत्यंशे कल्पिते बुद्धांश्चतुर्विंशतिः
इति प्रसिद्धिः। लिङ्गदैर्घ्यञ्जिनांशं कृत्वेत्यर्थः।
लक्ष्मविस्तृतिः। लक्षणस्य विस्तारः अंशतः। एकेनांशेन कर्तव्येति शेषः।
पृथ्विरेखा रेखाधारस्थानञ्च तद्रेखा विस्तृतेः।
पश्वरेखाद्वयमध्यविस्तारस्य नवमाशतः।
योयमेकांशो लक्ष्मविस्तारमानेन स्वीकृतस्तमेव नवधा विभज्य एकेनांशेन
रेखान्तर्विस्तारो निम्नता च यथा भवति तथा कर्तव्येत्यर्थः।

अथ पक्षसूत्रलक्षणम् आह –
लक्ष्मार्धात् पक्ष्मरेखे द्वे तत्क्षेत्रेऽष्टांशभाजिते।
षट्सप्तांशभ्रमात् पृष्ठे तद्योगो यो विसर्जनात्।
लक्ष्मार्धात् लक्षणार्धमारभ्य पक्षरेखे
द्वे द्विपार्श्वरेखे कर्तव्येत्यर्थः। तत् क्षेत्रे पार्श्वरेखाद्वयक्षेत्रे अष्टांशभाजिते
तत्स्थानम् अष्टाशंविभज्य अधो द्वि वर्जनात् भागद्वयम् अधो वर्जयित्वा।
भागषट्कं वा
भागसप्तकं वा। परिगृह्य तत् क्षेत्रसमप्रमाणेन सूत्रार्धेनार्धचन्द्रवत् भ्रामयेत्।
भ्रामणञ्च यावता लिङ्गपृष्ठे रेखयोस्तयोर्योगो भवति। तावत् भ्रामयेत्यर्थः।

तदेवसाधारणम्
लक्षणभ्रमणमुक्त्वा भूतिसन्तानकामस्य विशेषमाह। वह्निभक्ते तु तत्क्षेत्रे
सार्धभागयुगभ्रमात्। लक्ष्मसन्ततिभूत्यर्थम् अधोभागार्धवर्जनात्।
तत् क्षेत्रे प्र(प्रा)गुक्तरेखाद्वयक्षेत्रे वह्निभक्ते भागत्रयं कृत्वेत्यर्थः।
तत्राधोभागार्धवर्जनात्। अधोभागं वर्जयित्वा सार्धभागयुगभ्रमात्। स अर्ध

द्विभागे यो भ्रमः।
पूर्वोक्तप्रकारेण यद्भ्रमणं तस्माल्लक्ष्म इदं लक्षणसन्ततिभूत्यर्थं सन्ताय
ऐश्वर्याय भवति इति शेषः। तथा च पिङ्गऴामते। लम्बार्धगुणवत्
कृत्वा भ्रामयेत् भाग॥।यस्य तु। सार्धन्तत् सूत्रतो
लक्ष्मभोगमोक्षार्थमिच्छतामित्येवं भोगमोक्षसाधारणम् उक्तप्रकारद्वयं
वश्याकर्षणादि फलभेदविषये
त्वन्यथाकर्तव्यम् इत्याह।
साधारणधायकतत्कृत्यभेदाभेदान्यथा अन्यथा प्रकारान्तरेण प्रकारान्तरञ्च
प्रतिष्ठा विधायकशास्त्रसिद्धम् एव। तत्र तत्र द्रष्टव्यम्। प्रतिष्ठाबी
जमात्रस्यैततत्वादयञ्च लक्षणोद्धारश्चतुर्धा विषयभेदेन।
दीप्ततन्त्रे –
गवाक्षं महिषाक्षञ्च खड्गाग्रं करपुटाकृतिः।
गवाक्षं ब्रह्मणस्योक्तं खड्गाग्रं क्षत्रियस्य तु।
महिषाक्षञ्च वैश्यानां शूद्रे करपुटाग्रकं।
सर्वेषां करपुटाकारं समुदायविधानकम्।इति
कामिके तु –
नवधा लक्षणोद्धारः प्रतिपादितः।यथा
मुकुऴं वा गजाक्षं* वा लिङ्गाग्रं पञ्चसन्निभम्।*
कदलीमुकुलाकारं शुलाग्राश्वत्थपत्रवत्।
लोकापालायुधामस्त्राग्रं शिवास्त्राग्रञ्च वा भवेत्।
सर्वदेशिकलिङ्गस्य लक्ष्मेर्थं कथ्यतेद्विज ।इति
एतल्लक्षणमपि तत्रैवाभिहितं द्रष्टव्यम्।
अत्र लक्षणशब्देन शिरोवर्तमानो अपि प्रतिष्ठाबीजं ग्रन्थविस्तारभयान्
मूलकारेण नोक्तम्।
तच्च सुप्रभेदे यथा –
आचार्यः शिलिभिश्चैव लक्षणेन सहैव तु।
शिरसोवदनङ्कुर्याक्तच्चतुर्विधमुच्यते।
छत्राकारशिरः पूर्वद्वितियन्त्रिपुषाकृतिः।
कुक्कुटाण्डं तृतीयं तु चतुर्थं त्वर्धचन्द्रकम्।
कृत्वा तारं तु षड्भागं लिङ्गस्य शिरसस्तथा।
भागे नवतनं कृत्वा यावन्निम्नं तु मध्यमम्।
च्छित्राकारमिदं प्रोक्तं सर्वसिद्धिप्रदायकम्।
तारं कृत्वाति षड्भागं द्विभागोर्धेन वर्तितम्।
त्रि पुरुषाकृतिरेवं स्यात् भुक्तिमुक्तिफलप्रदम्।
अकुण्डं तु तत्रैव विस्तारार्द्धेन वर्तितं।
लिङ्गतारं त्रिधा कृत्वा द्विभागेन तु वर्जितम्।
अर्धचन्द्रमिदं तत्र ॥॥प्रोच्यते क्रमात्।
इत्येवं सामान्येन
लक्षोद्धारमुक्त्वा व्यवस्थां दर्शयति। नयोन्मिलनं व्यक्ते व्यक्ताव्यक्तो च
लक्षणम्। अव्यक्तव्यक्तो भयात्मकलिङ्गेषु अव्यक्त एवोक्तलक्षणम्। व्यक्ते
प्रतिमाति(दि)षु नयनोन्मीलनमेव व्यक्ताव्यक्ते
मुखलिङ्गेषु लक्षणं कर्तव्यम् इति शेषः।
अथोक्तस्य लक्षणस्य किञ्चिवर्जयत्वम् आह।
नवाणादौ चले तत्र नलोहेनापि रत्नके।
लक्षणोद्धारणं कार्यमिति वाक्यशेषः।
तथा * कामिके –*
नैतद्रत्नमये लिङ्गे न लोहे पिच(त्त)ले मतम्।
न बाणलिङ्गरौद्रे वा नदीप्रस्रवणोद्भवे।
स्वाकारो लक्षणं तेषु तेजो रत्नषु भास्वरम्।
रत्नजलोहजे लक्ष्मविधेयं वा न वा भवेत्॥
एवं लिङ्गलक्षणं दर्शयित्वा पीठलक्षणं दर्शयति। रन्ध्रमध्ये भगाकारमूर्वाग्रं
लक्ष्मपीठकम्। रन्ध्रस्यैव त्रिभागेन तन्मूले भ्रमरे खियत्
पीठगं पिठगं पिठगतं लक्ष्मलक्ष्मलक्ष्मणम्। रन्ध्रमध्ये भगाकारं तच्चोग्रं
किञ्च। रन्ध्रस्य त्रिभागेनैव तन्मूले भगाकारस्य मूले भ्रमरे विभ्रमरेखायुक्तं
यत्तत् पीठ
क्षणमत्यन्वयः।
अयमर्थः लिङ्गवत् पीठरन्ध्रं त्रिभागं कृत्वा उत्तरं भागमवस्थाप्य
तदधोभागद्वयेन भगाकारस्य मूलं यथा भवति तथाश्वत्थपत्रवत् भ्रमणे
लिङ्गलक्षणरेखान्
पूर्वविस्तारगाम्भीर्य उक्तरेखायुक्तं कर्तव्यं शक्तिमयत्वात्।
तदुक्तं पिङ्गऴामते –
उत्गियलक्षणन्तस्य भगाकारं तु रन्ध्रगम्।
यया न दृश्यते लोकैर्गुह्यं शक्तिमयं परम्। इति
कामिके च –
रन्ध्रमध्ये भगाकारमूर्ध्वाग्रं लक्ष्मपीठगम्।
एवं लक्ष्मलिखेद्विद्वान् गुरुर्हेमशलाकयेति।
एवं लिङ्गपिण्डिकयोः लक्षणोद्धारमभिधाय मधुघृतसेचनादि
प्रतिष्ठापर्थ(द्ध)तिकारोक्तक्रियाकलापानन्तरं कर्तव्यतत्वेश्वर-
मूर्तिमूर्तीश्वरादिन्यासविशेषाधिकरणभेदेनाहं लिङ्गपीठशिलानाञ्च ॥॥
स्तत्वादितः क्रमात्।
शिवशक्तिसदेशान्तं त्रिखण्डं कल्पयेत् पुनः। लिङ्गपीठाशिलानां व्याप्तिः।
लिङ्गेन पीठस्य पीठस्य न शिलायाश्च व्याप्तिक्रमेण भावनि(ना)येति शेषः।
अनन्तरं तासु च
तत्वादितः। तत्वसृष्टक्रमेण च। शिवशक्तिसदेशान्तव्याप्तिः यथा। लिङ्गे
शिवत्वस्य व्याप्तिः। पीठे शक्तितत्वस्य शिलायां सदाशिवतत्वस्य
पुनस्त्रिखण्डं कल्पयेत्।
लिङ्गपीठशिलासु प्रत्येकं त्रिखण्डव्याप्तिं भावयितुं कल्पयेत्।
तत्प्रकारमेवाह। विद्याशक्तिशिवप्रान्तं माया स देशशक्तिकम्।
शब्दचित्तसदेशान्तम्। लिङ्गे पीठे
श्मशानिक्रमात्। अयमर्थः लिङ्गमधस्ताच्छुद्धविद्यात्मकं मध्ये शक्तिमयं
प्रान्ते शिवस्वरूपम् इत्येवं व्याप्यव्यापकभावेन लिङ्ग एव त्रिखण्डं भावयेत्॥

तथा पीठेऽपि अधस्तान् मायामयं मध्ये सदाशिवस्वरूपमन्ते
शक्तितत्वात्मकम् इत्येवं त्रिखण्डव्याप्तिरग्निशिलायाम् अधस्तात्
प्रथिव्यादिशब्दतन्मात्रान्तमयं मध्ये कर्मेन्द्रियादि
बुध्यन्तमयमन्ते गुणतत्वादिसदाशिवान्तात्मकमित्येवं त्रिखण्डव्याप्तिं
भावयेत्।
तथा कामिके
शिवशक्तिमनीषान्तं त्रिखण्डं कल्पयेत् पुनः।
विद्याशक्तिशिवप्रान्तं मायासा देशक्तिकम्।
शब्दचित्तसदेशान्तं लिङ्गपीठाश्मनि क्रमात्।
दित्यथप्रसङ्गात्प्रासादप्रतिष्ठायां हृत्कुम्भस्यापि प्रतिष्ठाबीजत्वेन तत्राध्वव्याप्तिं
त्रिखण्डकल्पनां
अप्याह। मायातत्वान्तकव्याप्ति हृत्कुम्भस्य प्रकीर्तिता। त्रिखण्डाध्वा
पुनश्चित्तकलामायावसानकम्। प्रसादप्रतिष्ठाङ्गभूतस्य हृत्कुम्भस्य मूलमध्या
भेषु माया
तत्वान्तक व्याप्तिर्भावनयेति शेषः।
अथ मूर्तिभूतहृत्कुम्भमूर्तिमत्वेन आवाह्यस्य प्रासादस्य अध्वव्याप्तिं
त्रिखण्डकल्पनां चाह। पुरुषस्य त्रिखण्डन वंशस्तदधिपुरुषावधि।
पुरुषस्य प्रासादाभिधानस्य त्रखण्डत्वं त्रिखण्डकल्पना
शब्दधि(यि?)पुरुषावधि। मूलमध्याग्रेषु क्रमेषण शब्दतत्वान्तं बुद्धितत्वान्तं
पुरुषतत्वान्तञ्च अत्र प्रासादस्य पुरुषतत्वोक्तिः।
प्रलयाकलत्वज्ञापनार्थम्।
तथा च। पिङ्गलामते समावाह्यात्मतत्वञ्च घटवत्मनिवेशयेत्।
सर्वभूतात्मवृत्तिस्थं व्यापकञ्च विदीश्वरम्। तत्कर्मानुग्रहात्माम्
अधिकारमलान्वितम्। नियत्यादिकला माया रागविद्यासमन्वितम्।
॥॥सूतिसंसक्तं ध्यात्वैवं तु निरोधयेत्। इति वन्दन्ति। प्रासादपुरुषत्वञ्च
शिवमूर्ती विशेषत्वात्तच्च मतङ्गस्वायम्भुवादिव्याख्याने
विस्तरेणावसेयम्।
हृत्कुम्भे न्यासप्रकारस्तु। ज्ञानरत्नावल्यां यथा। हेमतारादिजं कुम्भवदुन्नतम्।
हेमरत्नादिसम्पूर्णं स्थापयेलिङ्गवद्गुरुः।
तालमान्तं वा हेमजं पुरुषं तथा। अङ्गुष्ठाप्रमाणं वा सर्वरूपसमन्वितम्।
विधाय पञ्चगव्याद्यैस्नानं पूर्ववदाचरेत्। कुण्डवेदियोर्मध्यकुलिकोपरि
विन्यसेत्।
मूर्तिभूतं घटस्मृत्वा पुरुषं प्रलयाकलम्।
मनोमतिश्चितं मन्त्रमेकाकारं विचिन्तयन्। रेचकेण न्यसेत्कुम्भे पुरुषं
जीवमीश्वरम्।
शरीरं कल्पयेत्तस्य कालतत्वादितः।
ॐ हां कलातत्वाय नमः । ॐ हां कलातत्वाधिपतये ज्ञानबिन्दवे नमः। ॐ
हां कलाधिपत्वमस्यात्मनः कर्तृत्वव्यक्तिं कुरुकुरु नमः।
ॐ हां विद्यातत्वाय नमः। ॐ हां विद्यातत्वाधिपाय वेदार्थज्ञानिने नमः।
ॐ हां विद्यातत्वाधिपत्वमस्य विकारपूरणं कुरुकुरु नमः। ॐ हां रागतत्वाय
नमः।
ॐ हां रागतत्वाधिपकामदेवाय नमः।
ॐ हां रागतत्वाधिपत्वमस्य विषयरागपूरणं कुरुकुरु नमः। ॐ हां
प्रकृतितत्वाय नमः। ॐ हां
प्रकृतितत्वाधिपत्वमस्य बोधं कुरुकुरु नमः। ॐ हां बुद्धितत्वाय नमः। ॐ हां
बुद्धितत्वाधिपाय बुद्धाय नमः। ॐ हां बुद्धितत्वाधिपत्वमस्य बोधं कुरुकुरु
नमः।
ॐ हाम् अहङ्कारतत्वाय नमः। ॐ हाम् अहङ्कारतत्वाधिपाय अहङ्कृतये नमः।
ॐ हाम् अहङ्कारतत्वाधिपत्वमस्याभिमानं कुरुकुरु नमः। ॐ हां मनस्तत्वाय
नमः। ॐ हां
मनस्तत्वाधिपाय चन्द्राय नमः। ॐ हां मनस्तत्वाधिपत्वमस्य
सङ्कल्पविकल्पञ्च कुरुकुरु नमः। ॐ हां क्षोत्रतत्वाय नमः। ॐ हां
श्रोत्रतत्वाधिपाय त्रिदशे नमः। ॐ हां
श्रोत्रतत्वाधिपत्वमस्य शब्दग्राहं कुरुकुरु नमः। ॐ हां त्वक्तत्वाय नमः।
ॐ हां त्वक्तत्वाधिपाय वायवे नमः। ॐ हां त्वक्तत्वाधिपत्वमस्य
स्पर्शग्राहकं कुरुकुरु नमः।
ॐ हां चक्षुस्तत्वाय नमः। ॐ हां चक्षुस्तत्वाधिपाय अर्काय नमः। ॐ हां
चक्षुस्तत्वाधिपत्वमस्य रूपग्राहं कुरुकुरु नमः। ॐ हां जिह्वातत्वाय नमः।

ॐ हां जिह्वातत्वाधिपतये वरुणाय नमः। ॐ हां जिह्वातत्वाधिपत्वमस्य
रसग्राहकं कुरुकुरु नमः।
ॐ हां घ्राणतत्वाय नमः। ॐ हां घ्राणतत्वाधिपाय अश्विनीभ्यां नमः।
ॐ हां घ्राणतत्वाधिपत्वमस्य गन्धग्राहकं कुरुकुरु नमः। ॐ हां वाक्तत्वाय
नमः। ॐ हां वाक्तत्वाधिपाय अग्नये नमः। ॐ हां वाक्तत्वाधिपत्वमस्य
वाग्विसर्जनं कुरुकुरु नमः।
ॐ हां पाणितत्वाय नमः। ॐ हां पाणितत्वाधिपाय इन्द्राय नमः।
ॐ हां पाणितत्वाधिपत्वमस्य पदार्थग्राहकं कुरुकुरु नमः। ॐ हां पादतत्वाय
नमः। ॐ हां
पादतत्वाधिपाय विष्णवे नमः। ॐ हां पादतत्वाधिपत्वमस्य गमनोत्साहं
कुरुकुरु नमः। ॐ हां पायुतत्वाय नमः। ॐ हां पायुतत्वाधिपाय मित्राय
नमः। ॐ हां
पायुतत्वाघिपत्वमस्य उत्सर्गं कुरुकुरु नमः। ॐ हाम् उपस्थतत्वाय नमः।
ॐ हाम् उपस्थतत्वाधिपाय आनन्दाय नमः। ॐ हाम् उपस्तत्वाधिपत्वमस्य
आनन्दं कुरुकुरु नमः। ॐ हां शब्दतत्वाय नमः।
ॐ हां शब्दतत्वाधिपाय सूक्ष्मनादाय नमः। ॐ हां शब्दतत्वाधिपत्वमस्य
आकाशपूरणं कुरुकुरु नमः। ॐ हां स्पर्शतत्वाय नमः। ॐ हां
स्पर्शतत्वाधिपाय बलवत्तराय नमः।
ॐ हां स्पर्शतत्वाधिपत्वमस्य वायुपूरणं कुरुकुरु नमः।
ॐ हां रूपतत्वाय नमः। ॐ हां रूपतत्वाधिपाय भानुमते नमः। ॐ हां
रूपतत्वाधिपत्वमस्य तेजस्पूरणं कुरुकुरु नमः।
। ॐ हां रसतत्वाय नमः। ॐ हां रसतत्वाधिपाय जलदाय नमः। ॐ हां
रसतत्वाधिपत्वस्य जलपूरणं कुरुकुरु नमः। ॐ हां गन्धतत्वाय नमः। ॐ हां

गन्धतत्वाधिपाय गन्धाङ्गाय नमः।
ॐ हां गन्धतत्वाधिपत्वमस्य पृथिवी पूरणं कुरु कुरु नमः। ॐ हाम्
आकाशतत्वाय नमः। ॐ हाम् आकाशतत्वाधिपाय सदाशिवा नमः। ॐ हाम्
आका
शतत्वाधिपत्वमस्यावकाशदानं कुरुकुरु नमः। ॐ हां वायुतत्वाय नमः। ॐ
हां वायुतत्वाधिपाय ईश्वराय नमः। ॐ हां वायुतत्वाधिपत्वमस्य व्यूहं
कुरुकुरु नमः।
ॐ हां तेजस्तत्वाय नमः।
ॐ हां तेजस्तत्वाधिपाय रुद्राय नमः। ॐ हां तेजस्तत्वाधिपत्वमस्य पाकं
कुरुकुरु नमः। ॐ हाम् आपस्तत्वाय नमः। ॐ हाम् आपस्त
त्वाधिपाय विष्णवे नमः। ॐ हाम् आपस्तत्वाधिपत्वमस्य यङ्ग्रहं कुरुकुरु
नमः। ॐ हां पृथिवीतत्वाय नमः। ॐ हां पृथिवीतत्वाधिपाय ब्रह्मणे नमः।
ॐ हां पृथिवीत
त्वाधिपत्वमस्य धारणं कुरुकुरु नमः। इति न्यसेत्।
अथवा कलादिक्षित्यन्तत्वेभ्यो नमः। ॐ हां कलादिक्षित्यन्तत्वेभ्यो
ज्ञानबिन्द्वादिभ्यो नमः। ॐ हां कलादिक्षित्यन्त
तत्वाधिपत्वं यूयमस्य स्वकार्यं कुरुकुरु नमः।
एवं तत्वादि विन्यस्य नाड्यादीन् विन्यसेद्यथा।
उद्गता कन्दमध्याच्च कुण्डलिनाभिमाश्रुता।
नाभेरूर्ध्वहृदिस्थाने पद्मं पद्मवदा स्थितम्।

तन्मध्ये कर्णिकासंस्थं सूर्यसोमाग्निमण्डलम्।
तन्मध्ये चिन्तयेद्देवम् ॐ हां हं हेति नामतः।
तदधिष्ठेयमीशानं सूर्यकोटिसमप्रभम्।
सुषुम्ना मध्यमेङ्गुष्ठाद्यावद्ब्रह्मबिलं गता।
इडा नाडिपुटे वामे दक्षिणे पिङ्गला स्थिता।
गान्धारि दक्षिणे नेत्रे हस्तिजिह्वा च वामके॥
पूषादक्षिणकर्णे स्याद्वामकर्णेनयस्वनि।
मेड्रे त्वलं पु(पू)षा नाडि कुहुनाडि गुदे स्थिता।
शङ्खिनी नाभिमध्ये स्यादास्ये प्राणादिवायवः।
प्रणापानस्सामानस्यादुदानो व्यान एव च।
नागः कूर्मः कृकरो देवदत्तो धनञ्जयः।
ॐ सुषुम्नाणाय नमः। ॐ हां सुषुम्नाप्रवाहाय प्राणवायवे नमः। इत्यादयो
मन्त्राः। यद्वा द्वादशनाडिभ्यो दशप्राणेभ्यो नमः। इति वा मन्त्राः।
सर्वाधिष्ठतयामायां कालञ्च नियति न्यसेत्। ॐ हां मायायै नमः। ॐ हां
मायाधिपाय विषणाय नमः। ॐ हां मायाधिपत्वमस्य विषयैकरस्तां कुरुकुरु

नमः। ॐ हां नियत्यै नमः। ॐ हां नियत्यधिपाय नियामकाय नमः।
ॐ हां नियत्यधिपत्वमस्य नियामनं कुरुकुरु नमः। ॐ हां कालाय नमः।
ॐ हां कालाधिपतये
कालरुद्राय नमः। ॐ हां कालाधिपत्वमस्य अनन्तकालावस्थितत्वं कुरुकुरु
नमः। बुद्धिप्रकृतिमायान्तं त्रितत्वं सेश्वरं तथा। मूर्तिमूर्तीशसंयुक्तं हुत्वा
जपत्वा निरोधयेत् इति।
अथ प्रसङ्गाद्वारादि प्रतिष्ठाबीजभूतां व्याप्तिं लिङ्गस्यैव्येत्यतिदिशति।
द्वारप्रासादाधानां व्याप्तिं लिङ्गवदीरिता।
उक्तवक्ष्यमाणलिङ्गव्याप्तिपरिज्ञानेनैव सुबोधमेतत्।
अत्र वृद्धानामशिखरम्।
तत् प्रतिष्ठा प्रकारो ज्ञानरत्नावल्याम् यथा –
शुकनासासमाप्तौ तु शुकप्रामध्यपङ्कजे।
हृदि पद्मवदास्थाप्य शरीरं सृष्टियोगतः।
विन्यस्य हंसबीजेन कुर्यात् वर्मास्त्ररक्षणम्।
लोकभृद्भ्यो बलिं दत्वा तद्वारं बद्धयेदृढम्।
वेदिबद्धं ततः कृत्वा कर्णमामलसारकम्।
तत्र सम्स्थापनं कुर्यादीशकृधस्यलिङ्गवत्॥
न तत्र लक्षणोद्धारं किन्तु त्रिखण्डकल्पना।
प्रवेशो ब्रह्मणोर्ध्वेन शक्तिरत्नादिपूर्ववत्।
क्रियाज्ञानं विना शेषं तत्वन्यासादिलिङ्गवति। इति
तत्र ध्वजस्थापनमपि कर्तव्यं
तल्लक्षणं तत् प्रतिष्ठाप्रकारश्च ज्ञानरत्नावल्याम् एव विस्तरेणाभिहितः।
तत्रैवावधार्यताम्। पूर्वं तत्वतत्वेश्वरमूर्तिमूर्तीश्वरन्यासोऽष्टधा पञ्चधा वा यत्र
स विधिः। प्रतिष्ठे
त्युक्तं तमेव आह। कविष्णीशांशके तत्र न्यसेत् तत्वत्रयं क्रमात्॥
स्वस्वविद्याधिपोपेतमात्मविद्याशिवात्मकम्।
तत्र लिङ्गे।
कविष्णीशांशके ब्रह्मभागरुद्रभागेषु
आत्मविद्याशिवात्मकम्। तत्वत्रयम् आत्मतत्व-विद्यातत्व-शिवतत्वञ्च
क्रमात्। स्वस्वविद्याधिपोपेत न्यसेत्। विद्याशब्देन मन्त्र उच्यते।
स्पर्शहोमान्ते तत्तन्मन्त्रैर्न्यसेदित्यर्थः॥
तत्रात्मत्मतत्वं पृथिव्यादि चतुर्विंशति तत्वानि विद्यातत्वं
रागादिसप्ततत्वानि। शिवतत्वं तु विद्यातत्वपञ्चकम्। तत्वाधिपतिम् आह।
ब्रह्मविष्णुहरा एव लिङ्गे तत्वत्रयाधिपाः। अत्रलिङ्गशब्दः।
पिण्डिका शिलयोः अप्युपलक्षणम्।
तदुक्तं कामिके –
लिङ्गमूलशिलान्यासो नवभक्तिसमन्विताः।
मूर्तिमूर्तीश्वरन्यासस्तत्वतत्वेश्वरान्विताः।
ब्रह्मविष्णुहरा एव लिङ्गेतत्वत्रयाधिपाः।
आत्मविद्याशिवाख्यं तु तत्वत्रयमुदीरितम्। इति
एवं तत्वतत्वेश्वरान् अभिधाय मूर्तिमूर्तीश्वरान् आह॥ अष्टौ वा पञ्च वा
मूर्तिपानियतास्वयम्। मूर्तिमूर्त्यधिपा अष्टौ पञ्च वा नियताः॥
मुमुक्षुबुभुक्ष्वाख्याधिकार्य(र्या)नुसारेण निश्चिताः।
तत्र मुमुक्षुविषये अष्टविधमूर्तिमूर्तीश्वरान् आह।
क्ष्मावह्नियजमानार्कजलवायुनिशाकराः।
व्योमान्ता मूर्तयश्चाष्टौ न्यस्तव्या प्रतिखण्डकम्।
पूर्वं त्रिखण्डीकृतस्थानेष्वित्यर्थः।
शर्वः पशुपतिश्चोग्रो रुद्रश्चैव भवस्तथा।
ईशानश्च महादेवो भीमश्चेत्यष्टमूर्तिपाः।
पदच्छेद
एव अस्य व्याख्यानम्॥ मूर्तिक्रमेणैव मूर्तिपक्रम इति मन्तव्यम्। एवं
मुमुक्षुविषये। मूर्तिमूर्तीशविन्यासमुक्त्वा बुभुक्षोः आह। बुभुक्षा च शुद्धाध्वनि
च शुद्धाशुद्धाध्वनि चेति
तथा। तत्र शुद्धबुभूक्षायां प्रथमम् आह। शुद्धविद्यादिशक्त्यन्ते
बुभुक्षोश्शुद्धिवर्त्मनि। साधकस्य प्रतिष्ठायाम् अनन्ताद्यास्तु मूर्तिपाः।
शुद्धविद्यातत्वमादिशक्तितत्वमन्तो यस्य तस्मिन्
तथोक्ते शुद्धाध्ववर्त्मनि। शुद्धाध्वनि बुभुक्षोः पराणिमादिभोगेच्छो साधकस्य
कर्मः प्रतिष्ठायां शिवलिङ्गप्रतिष्ठायां क्रियमाणायाम् इति शेषः। कीर्तिपास्तत्
कन्ताद्याः।
मूर्तयस्तु पूर्वोक्तक्ष्मावन्यादय। एवेति शब्दार्थः। प्रतिखण्डं न्यस्तव्या इति
शेषः।
अधिशुद्धाशुद्धबुभुक्षोराह पुरुषादि वामान्ते शुद्धाशुद्धात्मके
ध्वनि। विज्ञेया मूर्तिपा रुद्रा अङ्गुष्ठमात्रकादयः। पुरुषतत्वमादि मायातत्वः
तोयस्य तस्मिन् शुद्धाशुद्धात्मके शुद्धाशुद्धस्वरूपे
ध्वनिबुभुक्षोः पराणिमादिरहितभोगेच्छासाधकस्येति शेषः। अङ्गुष्ठमात्रकादयो
मूर्तिपा विज्ञेया अर्च्चनीयान्यस्तव्याश्चेति
शेषः।(५थ् लिमे) तानेवानन्ताद्यानुद्दिशति अनन्तश्च तथा
सूक्ष्मशिवोत्मश्चैकनेत्रकः। एकरुद्रस्त्रिमूर्तिश्च श्रीख(क)ण्ड(ठ)श्च शिखण्डिना
शिखण्डा
ख्येन सहेति शेषः। अथ शुद्धाशुद्धाध्वबुभुक्षोराह। पुरुषादिम(मा)यान्ते
शुद्धाशुद्धात्मके ध्वनि। विज्ञेया न मूर्तिपा रुद्रा अङ्गुष्ठमात्रकादयः।
पुरुषतत्वम्
आदिर्मायातत्वमते यस्य तस्मिन् आदिर्मायातत्वमते यस्य तस्मिन्
वृद्धात्माशुद्धात्मके। शुद्धाशुद्धस्वरूपे ध्वनिबुभुक्षोः।
पराणिमादिरहितभोगेच्छासाधकस्येति शेषः। अङ्गुष्ठमात्रकादयो मूर्तिपा
विज्ञेया अर्च्चनीय्यान्यस्तव्याश्चेति शेषः। तानेवोद्दिशति॥
अङ्गुष्ठमात्रभुवनेशेशानाश्चैकपिङ्गलः।
उत्भवश्च भवश्चैव वामदेवो महाद्युतिः। एवं
शुद्धाशुद्धरूपा ध्वनिविद्येशानुक्त्वा अशुद्धाध्वनि विद्येशान् आह।
अशुद्धेऽध्वनि पृथिव्यादिप्रधानान्ते व्यवस्थिता मूर्तिपाश्शतरुद्राणाम् अष्टौ
दशदिगादिकाः। पृथ्वीतत्वमादिः
प्रधानतत्वमन्तो यस्य तस्मिन् तथोक्ते अशुद्धेऽध्वनि बुभुक्षोर्विषय इति
शेषः।
शतरुद्राणां निवृत्तिकलावर्ति भुवनाधिपा नाम प्रतिदिशन्दशसङ्ख्याया
शतसङ्ख्यानां मध्ये दशदिगादिकाः। अथ
ऊर्ध्वदिक्द्वयपतिन्वर्जयित्वाष्टदिगीश्वरेषु एव मुख्यास्तत्त(द्)व्यूहपतयस्त
एव मूर्तिपा व्यवस्थिता निश्चिता इत्यर्थः।
अथ तानेवोद्दिशति। कपालीशोग्निरुद्रश्च याम्यो निॠति सञ्ज्ञकः।
बलश्शीघ्रे निधीशश्च विद्याधिपतिरष्टमः। ऐहिकबुभुक्षा विषयम् आह।
त्वचीन्द्रादयो लोकपालामूर्तीश्वरा
मताः। प्रसिद्धा एव ते क्वापि क्षुद्रकर्मणि भैरवाः। क्वचित् पुत्रप्राप्तिकादि-
कामनायामिन्द्रादयो लोकपालाविद्येश्वरत्वेन पूजनीयास्ते च
प्रसिद्धा एव। क्वापि क्षुद्रकर्मणि मारणोच्चाटनादौ भैरवा एव विद्येश्वरत्वेन
पुज्याः।
ते क इत्यत आह। असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः।
कपालिभीषणश्चैव संहारश्चाष्टभैरवाः। अत्रापि मूर्तिमूर्तिपानाम् एव
उक्तत्वान्मूर्तयस्तु प्राक् उक्ताः। पृथिव्याद्यष्टमूर्तय एवम् अष्टपक्षे
मूर्तिविकल्पम् अभिधार्य पञ्चपक्षविषये
भेदम् आह। पञ्चमूर्त्यकं कन्यासेक्ष्मावारिदहनानिलाः। खं चेति मूर्तयो लिङ्गे
ब्रह्माद्याः पञ्चमूर्तयः।
सुबोधम् एवं भुक्तिमुक्तिविषये साधारण्येनोक्त्वा मुमुक्षोः
विषयभेदोऽप्यस्तीत्याह। मुमुक्षोर्वा[र्वा] प्रतिष्ठायां निवृत्याद्यास्तु मूर्तयः।
सद्योजातादयो लिङ्गे स मृताः पञ्च तदीश्वराः। निगदव्याख्यानमेव। एवं
लिङ्गे मूर्तीशन्यायं
अभिधाय पीठशिलयोरप्येवम् इत्यदि(ति)दिशन् भेदम् आह॥ एवं
पिठशिलायाञ्च न्यासः। कार्योऽभिधायम्।
एवं लिङ्गे एवेत्यर्थः। भेदाभेदास्तु यं वक्ष्यत
इति शेषः। तामेव विधा मुमुक्षोः प्रथमम् आह। क्रिया ज्ञानं तथेच्छा च
त्रितत्वाधीश्वरा मताः। क्रियाशक्ति-ज्ञानशक्तिरिच्छाशक्तिश्च त्रितत्वाधीश्वराः।
आत्मविद्याशिवाख्या तत्वत्रयाधीश्वरः
मताः। क्रमादिति शेषः। एवं तत्वेश्वरभेदम् अभिधाय मूर्तीश्वरभेदम् आह।
धारिकादीप्तिमत्युग्रा ज्योत्स्ना च एताबलोत्कटा धात्रिबह्वी च मूर्तीशा मताः
पिठगोचरे॥
पीठादिगोचरे पीठशिलयोर्विषये। धारिकाद्यष्टशक्तयः। एवं मूर्तीशा मताः अथ
बुभुक्षोराह। साधकस्य प्रतिष्ठायां पीठादौ मूर्त्यधीश्वराः। अनन्तादय
एवास्युस्त्रिपीठाववमागतः। साधकस्य बुभुक्षोर्विषये प्रतिष्ठायां
स्त्रीपीठवशमागता। अनन्तादय एव।
अनन्तादिविद्येश्वरशक्त एवेत्यर्थः। मूर्त्यधीश्वरा पूज्या इति
शेषः। तदेवम् अष्टपक्षे भेदम् अभिधाय पञ्चपक्षेऽप्याह। वामाज्येष्ठाक्रियाज्ञानम्
इच्छा चेति विवक्षिताः। पीठादौ पञ्चमूर्तीशाः। पिठादौ पिठशिलयोः
वामादिपञ्च(४)शक्तयो मूर्तीशाः।अर्च्या इति शेषः। अथ पीठशिलयोः
लिङ्गप्रतिमासाधारणत्वाद्वक्ष्यमाणप्रतिमाप्रतिष्ठायाः पूर्वमेवोग्रमूर्तिनाम् अपि
शिलयोः विशेषम् आह।

उग्रार्चना मयोच्यते। उग्रार्चनादारीणमूर्तिनाम् उग्रशब्देनाभिचारादि
क्षुद्रकर्मसूच्यते। तादृशकर्मोपयुक्ताम् इत्यर्थः। उच्यते तासां पीठशिलयोः
अष्टपक्षपक्षक्रमेण मूर्तिमूर्तीशन्यास इति शेषः। तामेव क्रमेणाह।
तमामोहक्षयानिद्रामृत्युर्मायाभयाज्वरा। पक्षे तमामोहाघोरातिरपरज्वरामता

इति। एवमुग्रार्चनां पीठ पीठशिलयोः मूर्तिमूर्त्तीशभेदमभिधाय।
प्रथमं लिङ्गपीठशिलासु प्रत्येकं पञ्चमूर्तीनां पृथिव्यादि व्योमान्तानां
तत्वार्थव्यापितभेदक्रमं
वक्ष्यमाणक्रमेण भावयेदित्याह।
पञ्चानामपि मूर्तीनां लिङ्गपिठशिलास्वपि।
तत्वाप्तव्याप्तितो भेदं क्रमाद्देवं विभावयेत्।
एवं वक्ष्यमाणभेदक्रमेणैव
सुबोधम्।
तमेव क्रमम् आह।
रागान्ताक्ष्माम्बुकालान्तं विद्यान्तश्च हुताशनः।
वायुरीश्वरपर्यन्तशिवान्तं व्योमलिङ्गकम्।
क्ष्मा पृथिवीमूर्तः रागान्तारागतत्वपर्यन्ता अम्बु जलमूर्तिः।
कालान्तं कालतत्वपर्यन्तो हुताशनः। अग्निमूर्तीर्विद्यान्तः।
विद्यातत्व[प]र्यन्तः। वायुमूर्तीरीश्वरपर्यन्ता। शिवान्तं व्योमलिङ्गकम्। क्ष्मा
पृथिवीरागान्ता रागतत्वपर्यन्ता
अम्बु जलमूर्तिः कालान्ता कालतत्वपर्यन्ता। हुताशनः अग्निमूर्तिः विद्यान्ता
विद्यातत्वपर्यन्ता।
वायुः वायुमूर्तिः ईश्वरपर्यन्ता। व्योम आकाशमूर्तिः शिवान्ता
शिवतत्वपर्यन्ता। लिङ्गं लिङ्गतम्। व्याप्तिक्रमं भावयेदित्यर्थः। अथ
पीठस्याह। पुमन्तं क्ष्माकलान्तं स्यादम्बु मायान्तकोऽनलः। शुद्धविद्यान्तगो
वायुश्शक्त्यन्तं
व्योमपिठकम्। अथ ब्रह्मशिलायां व्याप्तिक्रमम् आह। भूतान्ता क्ष्माम्बुशब्दान्तं
वह्नि कर्मेन्द्रियान्तकं बुद्धीन्द्रियान्तको वायुर्व्योमबुध्यन्तवेश्मनि।
अश्मनि ब्रह्मशिलयां लिङ्गव्यापित-
व्याख्यानप्रकारेण सुबोधम्।
ज्ञानरत्नावल्याम् –
तत्वन्यासप्रकारम् अस्तु यथा पाददेशे गुरु स्थित्वा तत्वादिन्यासमारभेत्।
ज्ञानशक्तिं न्यसेल्लिङ्गे सौङ्कारेण ध्रुवादिना।

ॐ हां शिवतत्वाय नमः। ॐ हां शिवतत्वाधिपाय सोमाय नमः। ॐ हां
शक्तितत्वाय नमः। ॐ हां शक्तितत्वाधिपाय धर्मिणे नमः। इति रुद्रभागे।
ॐ हां सदाशिवतत्वाय नमः। ॐ हां सदाशिवतत्वाधिपाय
अजेशाय नमः। ॐ हाम् ईश्वरतत्वाय नमः। ॐ हाम् ईश्वरतत्वाधिपाय
चतुराननाय नमः। ॐ हां शुद्धविद्यातत्वाय नमः।
ॐ हां शुद्धविद्यातत्वाधिपाय कल्याणाय नमः।
इति विष्णुभागे। ॐ हां मायातत्वाय नमः। ॐ हां मायातत्वाधिपाय
विषाणाय नमः। ॐ हां कलातत्वाय नमः। ॐ हां कलातत्वाधिपाय
केतुध्वजाय नमः। ॐ हां कालतत्वाय नमः।
ॐ हां कालतत्वाधिपाय शिखिवक्त्राय नमः। ॐ हां नियतितत्वाय नमः। ॐ
हां नियतितत्वाधिपाय महाध्वजाय नमः।
ॐ हाम् अविद्यातत्वाय नमः। ॐ हाम् अविद्यातत्वाधिपाय
मेघनिह्रादाय नमः। ॐ हां रागतत्वाय नमः। ॐ हां रागतत्वाधिपाय
पल्लवाय नमः। ॐ हां पुरुषतत्वाय नमः। ॐ हां पुरुषतत्वाधिपाय विष्णवे
नमः। ॐ हां
प्रकृतितत्वाय नमः। ॐ हां प्रकृतितत्वाधिपाय पितामहाय नमः। ॐ हां
बुद्धितत्वाय नमः। ॐ हां बुद्धितत्वाधिपाय बुद्धाय नमः।
ॐ हाम् अहङ्कारतत्वाय नमः। ॐ हां
अहङ्कारतत्वाधिपाय अहङ्कृतये नमः। ॐ हां मनस्तत्वाय नमः। ॐ हां
मनस्तत्वाधिपाय सङ्कल्पाय नमः। ॐ हां श्रोत्रतत्वाय नमः। ॐ हां
श्रोत्रतत्वाधिपाय व्योमधराय नमः।
ॐ हां त्वक्तत्वाय नमः। ॐ हां त्वक्तत्वाधिपाय सर्वाङ्गाय नमः। ॐ हां
चक्षुस्तत्वाय नमः। ॐ हां चक्षुस्तत्वाधिपाय प्रकाशाय नमः।
ॐ हां जिह्वातत्वाय नमः। ॐ हां
जिह्वातत्वाधिपाय महावक्त्राय नमः। ॐ हां घ्राणतत्वाय नमः। ॐ हां
घ्राणतत्वाधिपाय विलुम्बकाय नमः। ॐ हां वाक्तत्वाधिपाय दुन्दुभये नमः।ॐ
हां
पाणितत्वाय नमः। ॐ हां पाणितत्वाधिपाय सामगानाय मनः। ॐ हां
पादतत्वाय नमः। ॐ हां पादतत्वाधिपाय सङ्क्रमणे नमः। ॐ हां
पायुतत्वाय नमः।
ॐ हां पायुतत्वाधिपाय
तूर्णकृते नमः। ॐ हाम् उपस्थतत्वाय नमः। ॐ हाम् उपस्थतत्वाधिपाय
घनानन्दाय नमः। ॐ हां शब्दतत्वाय नमः। ॐ हां शब्दतत्वाधिपाय
सूक्ष्मनादाय नमः।
ॐ हां स्पर्शतत्वाय नमः। ॐ हां स्पर्शतत्वाधिपाय बलवत्तराय नमः। ॐ
हां रूपतत्वाय नमः। ॐ हां रूपतत्वाधिपाय भानुमते नमः। ॐ हां
रसतत्वाय नमः।
ॐ हां
रसतत्वाधिपाय जलदाय नमः। ॐ हां गन्धतत्वाय नमः। ॐ हां
गन्धतत्वाधिपाय गन्धाङ्गाय नमः। ॐ हाम् आकाशतत्वाय नमः। ॐ हाम्
आकाशतत्वाधिपाय सूक्ष्माय नमः।
ॐ हां वायुतत्वाय नमः। ॐ हां वायुतत्वाधिपाय मातरिश्वने नमः। ॐ हां
तेजस्तत्वाय नमः। ॐ हां तेजस्तत्वाधिपाय त्विषाम्पतये नमः। ॐ हाम्
अप्तत्वाय
नमः।
ॐ हाम् अप्त्वाधिपाय जलेशाय नमः। ॐ हां पृथिवीतत्वाय नमः। ॐ हां
पृथिवीतत्वाधिपाय श्रीकण्ठाय नमः। इति ब्रह्मभागे॥ अथवा ॐ हां
षट्त्त्रिंशत्तत्वेभ्यो
नमः। ॐ हां षट्त्त्रिंशत्तत्वाधिपतिभ्यो रुद्रेभ्यो नमः। इति युगपद्विन्यसेद्
इति। अथ अष्टपक्षमाश्रित्य पृथिव्यादष्टमूर्तीनां व्याप्तिप्रकारे
लिङ्गपीठशिलास्वपि
प्रत्येकं भावनीय इत्याह।
अष्टपक्षे तु पूर्वादीशान्तक्ष्मादिमूर्त्तयः। सुबोधं पक्षान्तरम् अप्याह। पञ्चपक्षे
परोदिचियाम्य पूर्वेश्वराश्रताः।
अयमर्थः पृथिवीसद्योजातब्रह्माधिष्ठितः। अपरदिशि अम्बु वामदेव
ब्रह्माधिष्ठितः। दक्षिणस्यां वायुस्तत्पूरुष
ब्रह्माधिष्ठितः। पूर्वदिशि आकाशमीशानब्रह्माधिष्ठितम्। ऐशान्यामेवं
विन्यसेत् भावयेदित्यर्थः।
एवं लिङ्गपीठशिलासु तत्वतत्वेश्वर मूर्तिमूर्तीश्वर न्यासभाविता
प्रकारमभिधाय प्रतिम(मा)स्वप्येवम् इत्यतिदिशति। न्विशेषं दर्शयति अयमेव
क्रमस्सर्वो द्रष्टव्यः। प्रतिमास्वपि किन्तु तत्वत्रयन्यासो जानुकणुशिरोवधि।
प्रतिमासुनृत्तमूर्त्यादि
शिवप्रतिमास्वपि अयमेव सर्वक्रमो द्रष्टव्यः। तत्वत्रयन्यासो विशेषोस्तीत्याह
॥ किन्त्विति जानुकर्णशिरोवधि।
जान्वन्तमात्मतत्वं कर्णान्तं विद्यातत्वम्।
शिरोन्तं शिवतत्वमेवं विन्यसेदन्यत् सर्वं पूर्ववत् इति भावः। लिङ्गवत्
प्रतिमायां तु त्रितत्वपरिकल्पना। आत्माख्यं जानुपर्यन्तं विद्यान्तं तालुनि
स्थितम्। शिवाख्यमस्तकान्तन्तु॥॥॥।
षं पूर्ववदाचरेत्। इति अथ द्वारप्रासादप्रतिष्ठयोरपि तत्र विन्यासस्य
विधिभेदमाह। द्वारोदुम्बरशाखासु व्याप्तितत्वं त्रिखण्डका।
तत्र द्वारं त्रिखण्डं कृत्वा। अधस्थितो॥॥।
बरमासभ्याधः खण्डे विद्यतत्वम् ऊर्ध्वोदुम्बुरमारभ्य उपरिस्थितखण्डे शिवतत्वं
व्यापकत्वेन विभाव्य विन्यसेत् इत्यर्थः। अथ ज्ञानरत्ना॥।
देहभ्यामात्मतत्वं तु मायान्तगोचरम्। बिन्यस्याथ देशान्तं विद्यातत्वञ्च
शाखयोः। ऊर्ध्वोदुम्बरके न्यस्त्वा शक्त्यन्तं शिवतत्वकम् इति।
तथा प्रादसादम् अपि त्रिध॥॥।
तत्र जघान्तमात्मतत्वं गलान्तं विद्यान्तञ्चूडान्तं शिखरान्तं विभाव्य
विन्यसेत्। अथ गौर्यादिप्रतिष्ठाविषये विशेषमाह।

॥॥क्वादिमुखलिङ्गप्रतिष्ठोक्तनपदिकृतपीठमध्यन्यासनियसदाशिवतत्वानि
पृथिव्यादि तत्वाध्वोक्तषट्त्त्रिंशत्तत्वानि मूर्तिमूर्तीश्वरादीनां पूर्वमष्टधा
पञ्चधा च उक्तनामादि
शब्देन तत्वत्रयज्ञानक्रियाशक्तीनाञ्च व्याप्तिं हेतुमत् भावेनान्योन्य-
सकलमन्योन्यसङ्कलनाभावे परस्परसम्बद्धाभावात्। भुक्तिमुक्त्योस्वातन्त्र्येण
सम्भूय कारि॥।
र्बीजं।
बीजाक्षराणि नाम स्थूलमन्त्रांश्च रूपां वक्ष्यमाणतत्तदेवतानां ध्यातव्यरूपाणि
रूपपरीज्ञानाभावे बुध्यनारोहाद्यथास्थिति अन्यपदवक्ष्यमाणपृथ्व्यादि
स्थित्यन्तञ्च क्रमञ्च ध्यात्वा सम्यगध्युपारूढं कृत्वा प्रतिमास्वपि
सर्वलिङ्गपिण्डिकाव्याप्तित्वादादि प्रतिष्ठापनीयेषु न्यासं कुर्यात्।
एतेषाम् ॥ज्ञानाभावे
तन्यासस्यैवासम्भवादेतेन आचार्यस्य
शिवागमचतुष्पादसिद्धान्ततत्वपरिज्ञानमपि प्रतिष्ठाबीजम् इति सूचितं। अथ
यथास्थित्युक्तपरिज्ञानार्थं मूर्तिमूर्तीशादीनां
स्थितिमाह। अप्तत्वे संस्थिता पृथ्वीतत्वादि स्वस्वगोचरो शब्दतन्मात्रमूर्ती
द्वौ सोमसूर्यौ व्यस्थितौ। तयोरूर्ध्वे च धर्माख्यो गन्धे शर्वो व्यवस्थितः।

रूपे स्थितिः।
पशुपतिरुग्रोऽहङ्कारगोचरः। रूद्रस्तत्रैव बोद्धव्यो रसतन्मात्रगो भवः।
ईशानस्पर्शतन्मात्रे महादेवो मनस्थितः। भीमश्च शब्दतन्मात्रे
मूर्तीशानामवस्थितः। अस्यार्थः।
पृथ्वीअप्तत्वे संस्थिता अबादिचतुष्टयं तु स्वस्वगोचरे आपो वह्नौ
वह्निर्वायौ वायुराकाशे इत्याद्यनेन पृथिव्यादीनामाश्रयाश्रयिभावेन कार्यकारण्या

वोपि वेदितव्यः।
शब्दतन्मात्रमूर्ध्नि आकाशस्य सूक्ष्मरूपाग्रे चन्द्रसूर्यो व्यवस्थितौ।
तयोश्चन्द्रसूर्योश्च ऊर्ध्वो वा धर्माख्यः। धर्म आम्नायसिद्धज्योतिष्टमादि

यज्ञरूपाख्यायस्य स यजमानः। क्रियाकर्त्रोरभेदः उपचारेण यजमानस्यैव
धर्मत्वं व्यवस्थितः। अनेनाष्टमूर्तीनामप्यवस्थितिरुक्ता।
अथ मूर्तीशानां शर्वादीनाम् अवस्थितिर्गन्धादिषु स्पष्टार्थः।
एवं मुमुक्षूणां मूर्तीशानां स्थितमभिधाय बुभुक्षुमूर्तीशानां
विद्येश्वराणामवस्थितिमाह। विद्येश्वराश्च
विज्ञेया विद्यातत्वे व्यवस्थिताः। विद्येश्वराः अनन्तादयः। अनेन
क्षुद्रकर्मोक्ता असिताङ्गाद्या भैरवा अप्युपलक्षिताः। तेषामपि तत्रैव
व्यवस्थानात्।
अथ पञ्चपक्षमाश्र(श्रि)त्याह। क्ष्मादौ पुंवधौ ब्रह्मादिमायान्तगोऽच्युतः।
क्ष्मादिविद्यान्तगोरुद्रः क्ष्मादिविद्यान्त ईश्वरः।
सादाख्यक्ष्मादि
नादान्तश्शक्तिः क्ष्मादिपरावधि। शक्तिरिच्छाज्ञानक्रियात्मका। धारिकाद्या
रूपा च कादिपरावधि। पृथिव्यादि शिवतत्वावधि। अवस्थितेत्यर्थः। तदेवं
शिवलिङ्गस्य समस्ताध्व
निवेशभूमित्वालयात्मकमुक्तं भवति। अथ सिद्धान्तेतरे समयास्पदानाम्
एतदेकदेशत्वे न नान्यत् भावं सूचयितुम् अधस्तत्वेष्ववस्थानम् आह।
पृथ्वीतत्वे स्थिता
विष्णोर्दशावतारमूर्तयः। दशावतारमूर्तयो मत्स्या-द्यवतारमूर्तिभेदाः।
पृथ्वितत्वे स्थिताः भूतहृत्बुध्यहङ्गणपुंविद्येश्वरगोचराः। मित्राद्याः
केशवाद्यास्त्र्यम्बकाद्या द्वादशत्रिधा। मित्राद्या
द्वादशकेशवाशवाद्या(केशवेशाद्या) द्वादशत्र्यम्बकाद्याद्वादश।
एवं त्रिधा द्वादशापि क्रमेण पृथ्व्यादि द्वादशसु पञ्चभूत मनस्तत्व
बुद्धितत्वा
हङ्कारगुणपुरुषविद्यातत्वेश्वरतत्वेषु अवस्थिता इत्यर्थः।
विघ्नराजश्च सादाख्ये तद्वद्देवीसरस्वती।
नन्द्याद्याश्शुद्धविद्यायां लक्ष्मीरीश्वरगोचरे।
प्रकृतौ
संस्कृता जैनाः। शाक्या बुद्धौ व्यवस्थिताः।
पुरुषे पञ्चरात्रज्ञाश्शिवे सूर्यो व्यवस्थिताः।
अप्सरो यक्षरक्षांसि विद्याधरा हि किन्नराः।
भूतवेतालडाकिन्यो ग्रहनक्षत्रराशयः।

समुद्रा क्षेत्रपालाद्या ऋषिब्रह्मा दिगीश्वराः।
उर्व(ऊर्ध्व)तत्वे स्थिता ज्ञेया जरायुजाण्डजोद्भिजाः।
अन्येषाम् अपि तत्वेषु यत्र यत्र व्यवस्थिताः।
न्यासस्तदन्तकं स्थानं तिपरं(क्षिप्रं) तस्य तदेव हि।
विघ्नराजादि दिगीश्वरान्तानां प्रतिष्ठासु तत्तदवस्थानास्पदीभूत
तत्तत्तत्वपर्यन्त तत्वेषु यत्र यत्र व्यवस्थितन्यासः। कर्तव्यस्तेषां
तत्तस्थानस्यैव परमपदत्वात्। अत एव सर्वोऽपि ¬
समयिनस्वस्वशास्त्रोक्तपदस्यैव सर्वोत्तरभावं मन्यते। नन्वेवं सति
तत्तच्छस्त्राणाम् अपि तत्तन्महापुरुषप्रणीतत्वात् । सन्देहेन
शैवशास्त्रस्याप्यप्रामाण्यशङ्का कलङ्कितं स्यादिति चेन्न।

अस्य सार्वज्ञादिगुणा गुणयुक्तशिवप्रणीतत्वान्न शङ्काशूक(क्त)विषयत्वम्। नव
सङ्गस्यापि सर्वज्ञत्वात् तत्तत्प्रणीतं शास्त्रम् अपि प्रमाणं स्याद् इति वाच्यम्।
कपिलादीनाम् अपि
योगाभ्यासादिना सार्वज्ञसिद्धेः। अयोभ(ह?)योरपि सर्वज्ञत्वमस्तु का नो
हानिरिति चेन्न। परस्परविरुद्धशास्त्रप्रणयनात् ।
तदिक्तम् ः-
सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा।
यद्युभावपि सर्वज्ञौ मतिभेदः कथं तयोः।इति
तस्मात्तत्तत्वपरिज्ञान-मात्रेणैवेतरेषां तत्तत्तत्वमात्रम् एव परमावधि।
शिवशास्त्रस्य सर्वज्ञपरमशिवप्रणीतत्वेन तत् प्रादितशिवतत्व
स्यै(स्यैव)परमत्वं तत् पदप्राप्त्युपायश्च दीक्षैवेति प्रतिपादितम्।
प्रागेव तथा च सर्वज्ञानोत्तरे ः-
मूर्तीस्थानं भवेदेकं विमलं सर्वतोमुखम्।
अचलं व्यापकं शान्तं * लिङ्ग(ङ्गा)नामविवर्जितम् । इति*

ये भवन्त्यजितात्मानस्तेषां मूर्तिस्तु दीक्षया।
न चैव तानि पश्यन्ति मुक्तिस्थानानि षण्मुख ॥इति
अथ प्रतिष्ठायां मूर्तीश्वरतत्वतत्वेश्वरन्यासः कर्तव्य इत्युक्तम्। तत्
स्वरूपध्यानपरिचये तन्यास एवं सुकर इति तेषाम् अवयवाभरणादि
पूर्वरूपभेदेन आह। चतुर्वक्त्रेत्यादि अत्र च तेषां क्रमो न विवक्षितः।
तस्य पूर्वोक्तत्वात् प्रथमं पृथिवीमूर्तिम् आह ः-
चतुर्वक्त्राष्टबाहुश्च पीताम्बरधराधरा।
कर्मस्था सौम्यरूपा च नागाब्धि सरितावृता॥
जलमूर्तीम् आह ः-
पराभूद्वरूणो यातो युक्तो मकरकेतनः।

चतुर्भुजस्वरूपात्मा सर्वालङ्कारभूषितः।
वह्निमूर्तिम् आह ः-
मेषारुद्धः प्रदीप्तार्चशक्तिहस्तो हुताशनः।
कुण्डाकारोर्ध्व वक्तुश्च प्रज्वलत् भास्वरद्युतिः।
वायुमूर्तीम् आह ः-
चतुर्भुजश्चतुर्वक्त्रो धूम्रवर्णो महाबलः।
एणासीनोङ्कुशो व्याप्तेः कुञ्चितभ्रू सदा गतिः॥
आकाशमूर्तिम् आहः-
चतुर्भुजश्चतुर्वतुर्वक्त्रः शूलण्डमरुध्रक्करैः।

शङ्खखट्वाङ्गधृग्व्योमकुन्देन्दुतुहिनद्युतिः॥
सोममूर्तीम् आह ः-
सोमस्सौम्याविमानस्थो गदा शङ्खवरप्रदः।
विश्वरूपमणीप्रख्यः कलाशमृतसंयुतः॥
सूर्यमूर्तिम् आह ः-
रविर्वाजिरथारूढः कवचिकुण्डिर्ध्वजिमकुटि पद्महस्तश्च भूषितो॥रूसारथिः।
यजमानमूर्तीम् आह ः-
कृष्णशृङ्गकरोष्णीषरामायुक्तसुमेघलि।
नवनीतविलिप्ताङ्गो यजमानः प्रकीर्तितः॥
स्पष्टार्थमिदम्। अथ शर्वादीनां मूर्तीश्वराणां विद्येश्वराणाम् इव
मूर्तिरित्यदिदिशन्नाह।

लोकपालागुणैर्यूक्तास्तादृक्शस्त्रोपलक्षिताः।
विद्येशोक्तवपुर्भाजश्शर्वाद्यामूर्तिपा मताः। निगदव्याख्यानम् एव ।
एवम् अष्टमूर्तिपक्षेऽभिधार्य पञ्चमूर्तिपक्षे
प्रथमं निवृत्यादिकलारुपाण्याह।
तप्तचामीकराकारा चतुर्बाह्विन्दुभूषिता।
वज्राभयाक्षमालाब्जा निवृत्तिः परिकीर्तिता॥
प्रतिष्ठाकलामूर्तिः -
शुद्धस्फटिकसङ्काशा द्विवक्त्रा च चतूर्भुजा।
पाशाभयाक्षमालाब्जा प्रतिष्ठारत्नभूषिता।
विद्याकलामूर्तिः -
रक्तवर्णकपर्देन्दुस्त्रिवक्ता च चतुर्भुजा।
शक्त्याभयाक्षमालाब्जा विद्याज्वलनसन्निभा॥
शान्तिकलामूर्तिः -
चतुर्वक्त्रा चतुर्बाहुः कृष्णवर्णा महाबला।
ध्वजाभयाक्षमलाब्जा शान्तिस्सर्पोपवीतिनि॥
शान्त्यतीतकला मूर्तिः -
शुद्धस्फटिकसङ्काशा पञ्चवक्त्रा चतुर्भुजा।

शूलाभयाक्षमालाब्जा शान्त्यतीता वरप्रदा॥
अथ मूर्तिपञ्चब्रह्मरूपाण्याह -
बालवेषधरस्त्र्यक्षः पीनखण्डेन्दुशेखरः।
आप्यः कुण्डलवान्सद्यः पुण्डरीकनिभेक्षणः॥
आप्यः। अबयिपतिर्वरुणदिङ्मुख इत्यर्थः।
सद्यः सद्योजातः नामैकदेशे नामग्रहणम्।
भीमो भीमसेन इतिवत् ।
वामो योषा
मुखस्सौम्यः कान्तालङ्कारभूषितः।
जटेन्दुमण्डनः पीनः श्रीराजिवनिभेक्षणः॥
वामो वामदेवः। सौम्यः सोमदिङ्मूखः।
पिङ्गलभ्रूश्मश्रूवृक्ताक्षश्चुद्धा(श्शूला)चन्द्रा हि भूषितः।
नवाम्बुगनिभस्त्रयक्षः
कृतान्ता शासिताननः। अघोर इति शेषः।
तुङ्गाङ्घ्रिश्मश्रुवेषाढ्यः पावनो यौवनान्वितः।
स भूषिताननो व्यालकपालजट(टा)मण्डितः॥
रक्तवर्णकपर्देन्दु प्राचितत्पुरुषस्मृतः।

व्यालकपालजटेन सर्पकपालजटाभिः समाहारञ्चत्वान्नपुंसकत्वम्।
तत्रेशानस्थितोत्तानमूर्ध्वाधस्वदिगीक्षणः।
कुण्डलालङ्कृतस्त्र्यक्षो मौलीन्दुतरुणस्मृतः॥
युक्तो डमरुसर्पाक्षमालेन्दीवरपूरकः।
सव्ये हस्तेषु खट्वाङ्गशक्तिशूलवराभयैः॥
अथ बुभुक्षुविषये अष्टपक्षमाशृत्याह

विद्येश्वराश्चतुर्वक्त्रा हरवद्दशबाहवः।
खण्डेन्दुमौलयस्सर्वे पद्मस्था विविधायुधाः॥
खट्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः।
वराभयकरोपेता शूलपङ्कजपाणयः॥
अथ शक्राद्यष्टमूर्तीन् प्रत्येकं श्वोकार्द्धेनाह।
शक्रस्सहस्रदृग्वज्रिगजारूढो मरुद्वृधः।
ज्वालामालावृतश्शक्तिकरो बहिरजासनः॥
शारेक्षणो यमो दण्डिभीमो महिषवाहनः।
प्रेतारूढः करालास्यः खट्गिनी रुरुति रुग्रदृक्॥
वरुणश्वेतवर्णाभो छषस्थः पाशहस्तकः।
मृगासनोऽङ्कुशधरो वायुर्वैश्वतमूर्तिमान्॥

गदिवैश्रवणोवादि बृहज्जठरमण्डलः।
कुन्देन्दुतुहिनप्रख्यो वृषस्थश्चन्द्रखण्डधृक्।
विद्येशोक्तायुधोपेत ईशानैकजटावृतः।

अथ ब्रह्मादिकारणेश्वररूपाण्याह -
ब्रह्मा चतुर्मुखप्पितश्चतुर्दोर्दण्डमण्डितः।
स्रग्दण्डाक्षस्रुवोपेतः किरीटि हंसवाहनः।
विष्णुश्चतुर्भुजोमाली शङ्खचक्रगदाब्जधृत् ।

नीलाम्बुदप्रतीकाशो गरुडासनसंस्थितः।
पञ्चवक्त्रस्त्रिपञ्चाक्षो दशबाह्विन्दुभूषितः।
वृषस्थो ह्युपवितिश्च रुद्रः कुन्देन्दुनिर्मलः।
अष्टबाहुश्चतुर्वक्त्रस्फटिकाभस्त्रिलोचनः।

नागयज्ञोपविति च विज्ञेयो ध्रुव ईश्वरः।
कुन्देन्दुनिर्मलो देवः पञ्चमन्त्रमहातनुः।
दशबाहुः प्रसन्नास्यः पञ्चवक्त्रस्सदाशिवः।

अथात्मविद्या शिवतत्वानां स्वरूपाण्याह।
चतुर्भुजं चतुर्वक्त्रं चतुरश्राम्बुजस्थितम्।
आत्मतत्वं स्थितं ह्येतत् तप्तचामीकरप्रभम्।
नीलस्वन्दनिभं नीलमष्टाश्राष्टभुजान्वितम्।
एकवक्तं च सौम्यास्यं* विद्यातत्वं प्रकीर्तितं।
कुन्देन्दुतुहिनप्रख्यं वृत्तं सर्वाध्वगर्भितम्।
शिवतत्वं स्मृतं ह्येतत् पञ्चवक्त्रं चतुर्भुजम्।
एवं प्रतिष्ठाङ्गभूतमूर्तिमूर्तीश्वररूपाण्यभिधाय।
प्रतिष्ठाङ्गभूतदेशकालयोरेतत् करणेऽभीष्टफलदत्वम् अन्यथा दोष इत्याह।
स्वदेशकालयोः एव यज्ञा इष्टफलप्रदाः। अन्यदेशेऽन्यकाले च
तयेवानिष्टहेतवः।
देशविशेषकालविशेषाश्च अस्माभिश्शैवकालविवेके प्रदर्शिताः। तत एवावधार्याः।
अन्यदेशेऽन्यकाले क्रियमाण इति शेषः। त एव यज्ञारिष्टहेतवः।

अनिष्टोत्पादकाः। ननु शरीरस्य जलबुद्बुदप्रायत्वाच्छिवधर्म अचरणस्मरणकाल
एव प्रतिष्ठादिपुण्यस्य कर्तव्यत्वादन्यथामतिदेस्यापि सम्भवात् किं कर्तव्यत्वम्
इत्यत आह। प्रतिष्ठायामतो
देशकालापातानमाचरेत्। अतः उक्तकारणादेव प्रतिष्ठायां
देशापातनकालापातानाख्यकर्माचरेत्। तत् प्रकारमेवाह। आग्नेय्यां दिशि देशञ्च
कालमैन्द्रे
प्रपूजयेत्।
स्वाष्टके देवमावाह्य देशं कृत्वा बहिस्थितम्। स्वाष्टके पञ्चाष्टमध्ये
स्वाष्टके स्वाभीष्टाष्टके। बहिस्थितं देव तत्तत् भुवनाधिपमित्यर्थः। आवाह्य
देशं तदधिक न देशं
बहिस्थिता कृत्वा बहिस्थितत्वमेवाह। आग्नेय्यां दिशि यागशालायां
कुण्डसमीपे आग्नेयदिग्भागे देशम् ऐन्द्र्यां पूर्वदिग्भागे कालञ्च पूजयेत्।
मण्डयोरिति विशेषः।

तत्कालदेशाञ्चाह काला द्वादशकात् स्वीयात् कृत्याभाक् स्वीयवत्यरात्। देशाः
क्ष्माधिगताः पञ्चामरेशाष्टकं क्रमात्। कृत्याहात् प्रतिष्ठाकृत्यविषयात्
स्वीयात् द्वादशकात्पञ्चविधद्वादशकमथ्यात्। स्वीयवत्सरात्प्रतिष्ठावत्सरात्
आरभ्येत्यर्थः। कालाः पूज्या इति शेषः क्ष्माधिगताः
भूमितलाधिष्ठानप्रतिष्ठाकलावस्थिताः
पञ्चमरेशाद्यष्टकं तच्चाध्वनिरूपणावसरे।
प्रागेव निरूपितम्। तत् पञ्चाष्टमेव देशाः । कालस्तु प्रभवाद्यस्या
द्वादशक्रमयोगतः। प्रभवाद्यः प्रभवसम्वतत्सरकादिकालः।
द्वादशक्रमयोगतः। प्रतिष्ठासम्वत्सरमारभ्य द्वादशक्रमयोगेन
षष्टिसम्वत्सरादपि पञ्चखण्डा भवन्तीत्यर्थः। प्रोक्तदेशकालयोरधिपतीनाह
— पञ्चस्वेषु
क्रमात् पञ्चब्रह्माद्याः कारणेश्वराः तद्व्याप्त्यन्तस्थिताप्यन्येप्ये
तद्देशादियोगिनः।
एषु पञ्चसु पञ्चाष्टकेषु पञ्चद्वादशकेष्वपि ब्रह्माद्याः कारणेश्वराः।
पूर्वोक्तब्रह्मविष्णुरूद्रेश्वरसदाशिवाख्यः क्रमात् पूज्या इति शेषः। तद्व्याप्त्या
तत्कारणेश्वरसम्बन्धेनान्येप्येतद्देशादियोगिरः। एतद्देशदेवार्चने
एतद्देशादिसम्बन्धिना
एव देशापादनकालापादनाख्यं कर्मावश्यं कर्तव्यमिति भावः। अथ
देशप्रसङ्गेन वास्तुदेवताप्युपन्यस्ता इत्याह
अथ देशप्रसङ्गेन दृश्यन्ते
वास्तुदेवताः। वास्तुपूजायामपि प्रतिष्ठाङ्गत्वेन तदर्थं वास्तुदेवताः। तत्र
प्रथमं मण्डूकपदाख्यचतुष्षष्टपदवास्तुदेवताः दिशति।
ब्रह्मेशपर्जन्यजयन्तमाहेन्द्ररविसत्यकः।
भ्रंशोत्तरिक्षस्सप्तार्चः पूषावितथसञ्ज्ञकः।
ग्रहक्षतप्रेतपतिर्गन्धर्वो भृङ्गको मृगः।
पितुर्दौवारिसुग्रीव पुष्पदन्तप्रचेतसः।

असुरश्शोषरोगौ च वायुर्नागोऽथ मुख्यकः।
भल्लाटसोमौ मोहश्च दितिश्चादितिरेव च।
मरीचिश्च विवस्वांश्च मित्रश्चैव धराधरः।
आपापवत्सौ सविता सावित्रेन्द्रेन्द्रजित्तमः।

रुद्रो य रुद्रदासश्च चरकी च विदार्यपि।
पूतनापापराक्षस्यौ स्कन्दोऽर्यमाथजम्भकाः।
बलिपिञ्च इति प्रोक्तास्त्रिपञ्चाशदथोपरम्।
एतेषां ध्यानसामान्ये कारणे प्रतिपाती॥।दितम्।
तद्याथा अधोमुखं भुवं प्राप्य शेते वास्तुनरस्तथा।
उग्रत्वात् भयकारित्वात् पूजितव्यः फलेछ्शुभिः।
शिरश्चैशान कोष्ठस्थं नैऋत्यपदपादयुक्।

मध्ये ब्रह्मपदे नाभिरङ्गं सर्वपदानुगम्।
चतुर्भुजं जटामौलिं कमण्डल्वक्षधारिणम्।
वामहस्तं तु जानूर्ध्वे सव्यहस्ततले स्थितम् ।
हेमाभमब्जजं यष्टवा गन्धाद्यैरुपचारकैः।

दध्याज्यगुलसम्मिश्रैश्शुद्धान्नेन बलिं क्षिपेत्।
चतुर्भुजयुताशेषाः खट्गखेटकधारिणः।
कृताञ्जलिपुटास्सर्वे ध्यात्वा स्वस्वपदे स्थिताः।

तत्तत्स्वनाम मन्त्रैश्च स्वाहान्तैः प्रणवादिकैः।
उच्चार्य गन्धपुष्वाद्यैस्सम्पूज्योक्तबलिं क्षिपेत्।
अस्माभिः कृतशिवालयनिर्माणदीपिकायां प्रत्येकं
ध्यानमुक्तं तत्रावधार्यताम्। ग्रन्थविस्तारभीत्या न लिखितम्। एवं
ब्रह्मादित्रिपञ्चाशदशदेवता उद्दिश्य तत्तस्थानं वक्तुं
चतुष्षष्टिपदवास्तुलेखनप्रकारमाह।
अधोपदम् अनन्तरं वास्तुपदमुच्यत इति शेषः।
प्राच्युत्तरमुखा रेखा अष्टादश तु नाडिकाः।
उभौ कोणगतौ वंशौ रज्जवोष्टौ त्रिषट्पदाः।
चतुष्षष्टिपदे वास्तु भवेदेवं प्रसङ्गतः।

प्राच्युत्तरमुखाः नव उत्तरमुखाः नव रेखाः।
उभौ मिलित्वाष्टादशरेखास्ताश्च नाडिकाः।
नाड्याकाराः उभौ कोणगतौ
कृन्नेयमारभ्य वायव्यान्तम् ऐशानमारभ्य नैऋतान्तञ्च वा शौवंशाख्यौ
तत्राष्टौ रज्जवः। कोटिस्थिता इति शेषः तत्र रज्जुचतुष्टयं प्रत्येकं
त्रित्रिपदमध्येऽष्टषट्पदं तच्च
त्रि(तृ)तीयविध्यां द्विद्विपदं द्वितीयविध्यां चतुष्पदं प्रथमविध्यां षट्पदम्
एवं प्रतिदिशं भवतीत्यर्थः।
तथा च सिद्धान्तशेखरे ः-
नाडीरज्जुवंशानां लक्षणं नामधेयान्यप्युक्तानि।
यथा चतुष्षष्टिपदोपेतं सूत्राष्टदशकान्वितम्॥
कर्णसूत्रद्वयोपेतं रज्वष्टकविभूषित्म।
मर्मद्वादशकोपेतं वन्हिभूतामरान्वितम्॥
मण्डूकाख्यपदे तेषां पृथग्वक्ष्यामि लक्षणम्।
प्रागग्राण्युत्तराग्राणि वास्तोस्सूत्राणि नाडयः।
लक्ष्मी यशोवती कान्तासु प्रिया विमला शिवा।
सुभगा समनीचोर्विनाड्यः प्राचि मुखोद्गताः।

धान्यप्राणा विशाला च स्थिरा भद्रा जया निशा विजया विभवा चैव
नाध्यस्सौम्यमुखास्मृताः। तिर्यगूर्ध्वस्थिता वंशौ दुर्जयो दूर्ध्वरस्तथा
मातापितृधरौ तौ तु
विद्धौ तद्वंशनाशकौ रज्जुवेष्टौ त्रिकोणस्थाश्चतस्रो द्विपदस्तथा।
चतस्रष्षट्पदस्तासां नाम वक्ष्ये यथागमम्।
कीर्णयोः किलनिरज्जुः पादगुल्फ च बन्धनि।

संवर्ता च विवर्ता च जानुकूर्परसङ्गमे।
हृद्गुह्यकुक्षिमार्गेषु सम्भवा जननि तथा।
पक्षियक्षीति विज्ञेया रज्जवो वास्तुबन्धने।
वक्ष्ये द्वादशमर्माणि वास्तुगात्रस्थितानि च।
समस्तनाडिसम्पातो महार्मर्माबुजं हलम्।
त्रिशूलं स्वस्तिकं वज्रं महास्वस्तिकसम्पुटम्।
त्रिकटं मणिबन्धञ्च सुविशुद्धपदं तथा। इति
द्वादशमर्माणि भक्तिस्सम्पादिषुं त्यजेत्। इत्येतेषां लक्षणान्यपि तत्रैवोक्तानि।
चतुष्षष्टिपदे मण्डूकपदाख्ये वास्तौ एवं भवेत्। उक्तप्रकारेणोद्धारो
भवेत्। अथ पूर्वमुद्दिष्टानां त्रिपञ्चाशद्देवतानामर्चनार्थम् पदान्युच्यत इत्याह।
उद्दिश्यन्ते त्रिपञ्चाशत्- क्रमेणैवात्र देवताः। अत्र मण्डूकपदे उद्दिश्यन्ते

विनियुज्यन्ते निर्दिश्यन्त इत्यर्थः। पूर्वमेवोद्दिष्टत्वात्।
मध्ये चतुष्पदे ब्रह्मामरीचिप्राचिषट्पदः।
ब्रह्मचत्वारिपदान्यस्येति चतुष्पदं तत्र पूजनीय इत्यर्थः।
प्राचि तदन्तरमेव देशमरीचिषट्पदः।तृतीयविध्यां पदद्वयद्वितियविध्यां
पदचतुष्टयेत्येवं षट्पदवानित्यर्थः। तयोरेव विध्योराग्नेयकोणस्थ
पदद्वयम् ॥धि॥त्याह। स्विता वह्निकोणस्थस्सावित्रश्च ततोप्यर्थस्पष्टार्थः।
प्राच्याग्नेयदिशोरुत्तरप्रकारेणैव दक्षिणनैरुतयोः।
पश्चिमवायव्ययोः उत्तरैशान्ययोरप्याविवस्वां
षट्पदे याम्ये त्विन्द्रो रक्षः पदादधः। तस्मादिन्द्रजयोऽधस्तादाप्ये मित्रे च
षट्पदः
वायुकोणादयो रुद्रो रुद्रदास्ततोप्यधाः। स्पष्टार्थः अथ
बाह्यवीथ्यामीशानपददक्षिणार्धमारभ्य तदुदीच्यार्धपर्यन्तद्वात्रिंशत् पदेषु
द्वात्त्रिंशत्पदाः
पूज्या इत्याह। ईशानार्धं समारभ्य चैशानार्धपदावधि। प्रान्तेष्वीशादिदिश्यान्त
द्वात्रिंशद्दक्षिणः क्रमात्। दक्षिणक्रमेणेत्यर्थः।
पूर्वोक्त
त्रिपञ्चाशद्देवतानां मध्ये वास्त्वन्तर्वर्तिन्यः पञ्चचत्वारिम्शद्देवता इत्याह। एवं
वास्तुतनौ पञ्चचत्वारिंशत् सुरास्थिताः। अथावशिष्टं देवताष्टकं
वास्तुबहिस्थितं
इत्याह। चरकी च विदारी च पूतना पापराक्षसी। एता
ईशानादिकोणशूलचतुष्टस्थिताः। उत्तरे बलिपिञ्चाद्याश्चत्वारो बहिर्वत्
क्रमात्। प्राच्यादिचतुर्दिक्षु वृत्तेषु
पूज्या इत्यर्थः।
तथा च अंशुमति। चरकी च विदारी च पूतना पापराक्षसी।
आग्नेयादीशपर्यन्तं शूलमध्ये बलिं क्षिपेत्। स्कन्दस्तथार्यमा चैव जम्भोथ
बलिपिञ्चकः।
पूर्वादीनि चतुर्दक्षु वृत्तमध्ये बलिं क्षिपेत्। इत्येवं मण्डूकपदम् अभिधाय
परमशायिपदम् आह। एकाशितिपदे वास्तुमध्ये नवपदो विधिः।
षट्पदास्युर्मरीचिश्च
विवस्वान्मित्रभूधरौ। आपापवत्सस्सविता सावित्रश्चेन्द्रतज्जयौ।
रुद्रतद्दासकौ द्विपदा अन्ये च त्वेकपदास्मृता इति।
स्पष्टार्थत्वान्नव्याख्येयम्।
तथा सिद्धान्तसारावल्याम्।
क्षेत्रे चाष्टपदि कृते धमरसैरज्वष्टकं वंशकौ। कौणस्थौ विधिरन्तरे श्रुतिपदे
पूर्वादिषट्भागगाः। चत्वारस्त्रिदशा विदिक्स्थसमया च द्वौ पदस्थौ बहिः।

कोणार्धेषु तथा परेष्टपदका बाह्येऽन्येशादिनः। एकाशीतिपदेऽब्जजो नवपदं
षट्त्रिस्थरज्वष्टकं पाद्याद्विपदा मरीचिकमुखौऽष्टगा पदस्थाः
परे इति।
एवं प्रतिज्ञातमर्थम् अभिधायोपयोगं तस्य दर्शयन्नुपसंहरति। एतत् बीजद्वयं
दीक्षाप्रतिष्ठा च तयोर्द्वयोः सङ्गृह्य देशिकाः। काले तन्निष्पत्तिं समीहया
देशिका
शिवागमचतुष्पादसिद्धान्तकुशला इति सम्बोधनम्। विनयोक्तिर्यूयमिति शेषः।
वीरतन्त्रे ः-
देश आदिश्यते येन स देशिक इति स्मृतः।
दीक्षा च प्रतिष्ठा च तयो चयोरेतन्निरूपितम्।
बीजद्वयञ्च सङ्गृह्य गुरुमुखेन सम्यक् परिगृह्य काले दीक्षा प्रतिष्ठाकाले च
तन्निष्पत्ति तत् उपयोगं समीहयाः(या)। कुरुध्वम्॥ भवत्परिग्रह एव
परमप्रयोजं
अस्येति भावः। अथ ग्रन्थकरणस्य ॥स्थायि कीर्तिप्रयोजनत्वात् तदर्थं
स्वसृतभूपालकीर्तन-पुरस्सरस्वनाम प्रकटनं सङ्गृहितार्थप्रतिपादश्लोकसङ्ख्या
व्याजेन करोति
इत्याहरत् ग्रन्थशतद्वयेन
श्रीसोमभूभृत् गुरुरागमेभ्यः काले धटित्येकत ईक्षितं तत् बीजद्वयं
श्रीवरुणाभिधानम्। श्रीसोमभूभृत् गुरुः श्रीसोमभूपालदीक्षाश्च ।
श्रीवरुणाभिधानः। कालेतत्तत् कार्यकालेएकतः। एकस्मिन्नेव ग्रन्धे ।छटिति
ईक्षयितुम् आगमानां बहुविस्तारत्वादिभावः।
इत्युक्तप्रकारेण ग्रन्थशतद्वयेन श्लोकशतद्वयेन आगमेभ्यः
कामिकादिभ्यस्तत् बीजद्वयन्निरूपितम् इत्यर्थः। इत्याहरत् ।
स न जाग्राहत् ।अत्र स्वाश्र(श्रि)तभूमिपालनप्रकटनं विदुषाम्।
भूपालैस्तेषाञ्च विद्वद्भिः प्रसिद्धस्सम्पादनीयेति द्योतनार्थम् एतस्य च
वरुणाभिधानत्वं दीक्षामण्डले वरुणदिक्पत्रे पुष्पक्षेपादि इति मन्तव्यम्। तदुक्तं
पूजास्तवव्याख्याने
तत्रोपायं गन्तव्यम्। इदं वरुणपद्धत्या यथामति कृता मया विलोचनमिदं
सद्भिर्दययोन्मील्यतां सदा ।
इति श्रीमद्याघ्रपुरनिवासि वामदेवात्मज-
निगमज्ञानदेवविरचितवरुणपद्धति व्याख्याने विलोचनाख्याने
प्रतिष्ठाबीजप्रकरणद्वितियम्।
त्रिपुरसून्दर्यै नमः।
करकृतमपराधं क्षन्तुमर्हन्ति सन्तः।
बिन्दुदुर्लिपिविसर्गविधिकाश्रङ्गपङ्क्तिपदभेददूषणम्। हस्तवेगजमबुद्धिपूर्वकं
क्षन्तुम् अर्हति समीक्ष्य सज्जनः।
श्रीबालाम्बासमेत वेदपुरीश्वरार्पणम्॥

॥ वरुणपद्धतिव्याख्यानम् ॥

सदा गण्डतटस्यन्दिदानवारिणिलोलोपैः ।

भ्रमरैशकुलं वन्दे श्रीकल्पकविनायकम् ॥

व्याघ्रपादपदञ्जल्योर्नयनान् ददायिनः ।

नृत्यतो नटराजस्य पदाम्भोजमुपाश्रये ॥

स्वकापाङ्गविलासेन मोदयन्ती नटेश्वरम् ।

शिवकामप्रिया देवी शिवं दिशतु शाश्वतम् ॥

नमस्कृत्य गुरुं वाचां देवीं प्रोमील्यते मयः ।

श्रीमद्वरुणपद्धत्या विलोचनमिदं सदाम् ॥

शिवोक्तमेन गुरुणा लेशाद् व्याख्यानमीरिता

अहं तदनुगुण्येन वक्ष्ये सङ्क्षिप्य युक्तितः ।

अथाचार्यो वरुणाभिधानो नेकः शिवागमरहस्य
वरिषज्ञानविमलीतचेताः सकलजनानुचित्तीघ्रक्षया दीक्षा
प्रतिष्ठा बीजं सारभूतं वक्तुकामस्विष्टदेव
प्रणामपूर्वकं शिष्टाचारं निर्वाहारय प्रारिप्सितं
प्रतिजानीते । निर्वाणद्वयबीजाय नमः सोमाय शम्भवे । अथ
सङ्गृह्यते बीजद्वय दीक्षाप्रतिष्ठयोः ॥

निर्वाणद्वयबीजाय मलादि बन्धनिगमनरूपनिश्रेयस
युद्गलकारणभूताय निभ्य ।

पूर्वाद्वागति गन्धन योनिरिती यतोर्भावे लुट् ।

प्। ८०१)

मुक्तिः कैवल्यनिर्वाणश्रेयो निश्रेया सामृतमिति । हेतुर्ना
कारणं बीजमिति

चामरः । कीदृशस्य कारणत्वमित्यत आह । सोमाय उमासहिताय
उमाशब्दे

नृश्रनुग्रहोन्मुखी शक्तिर्विवक्षिता तत्सहितस्यैव
निश्रेयसकारणत्वात् ।

सा च शक्तिर्निरधिकरण साधिकरण भेदेन द्विविधा सति
निर्वाणद्वयस्य हेतुर्भवती । एवं चानुग्रहद्वै विध्यां
देवनिर्वाण द्वैविध्यमित्युक्तं भवति । अत एव शं सुखम् ।
मोक्षरूमस्माद्भवतीति शम्भुः । तस्मै शिवाय नमः ।

अनेन तस्यैव नमस्कार्यत्वं नान्यस्यान्यस्या ।

संस्कारोत्तारकत्वाभावादितिः सूचितम् ॥ तदुक्तम् ।

विहाय साम्बमीशानं यजन्तेये विमुक्तये ।

ते महातमसा क्रान्ता न तेषां परमनदितिः ॥

विहाय साम्बमीशानं यजन्ते ते वतान्तरम् ।

ते महाघोरसंसारे पतन्ति विपरिमोहिता ॥ इति ।

अथ इष्टदेवतानमस्कारानन्तरम् अनेन ग्रन्धारम् इष्टदेवता
प्रणामरूपमगलस्या वश्यकत्वं सूचितम् । अन्यथाथः
शब्दस्य श्लोकान्दावेव प्रओगस्यात् ॥ दीक्षा प्रतिष्ठयोः
दीक्षाशब्देन वक्ष्यमाणचाक्षुषादयः ।

प्। ८०२)

प्रतिष्ठाशब्देन वक्ष्यमाण स्थापनादयः । उभयोरपि
यद्बीजद्वयम् । निर्वाणनिदानं प्रतिष्ठानिदानं चेत्यर्थः ।
अथवा उभयत्र प्रवृत्ति प्रयोजकत्वं वा तत्सङ्गृह्यते ॥

आगमेषु बहु विस्तरत्वात् सुखप्रतिपत्यर्थ सङ्क्ष्यप्यते ।
अस्माभिरिति वाक्यशेषः । अनेन स्ववचनस्य
प्रमाणमूलत्वादनुपेक्ष्यत्वमुक्तम् । अत्र
निर्वाणद्वयबीजायेभय्त्र केचिदेमाहुः । विज्ञानकैवल्ये सति
प्रकृत्यधिकारलक्षणपराणिमादिसिध्यपरपर्यायमेकं
निर्वाणम् । तेषामतिक्रान्तकर्म मायत्वेन मलमात्रस्य सद्भावात्
। अपरं तु अधिकारबलमोक्षपूर्वकं
साक्षाच्छिवत्वाभिव्यक्तिरिति ।

अन्त्ये तु दीक्षैव तावदेकं निर्वाणम् । यथा उपनीतस्य
माणवकस्य यथा पूर्वमवस्थित शरीरस्यापि
शास्त्रबलादुपनयनाख्य संस्कारेण द्वितीयं नामाङ्गी
क्रीयते ।

एवमिहापि दीक्षया निर्वाणजीवत्वं मुक्तिः । अन्यस्तु तस्य
शरीरपातानन्तरं शिवत्वाभिव्यक्तिः ॥ रिति ।

अपरे तु

त्रयोनिद्वैविध्य क्रमां निर्वाणद्वैविध्यम् ।

प्। ८०३)

द्विथा खलु पुंसो योनिः जनन्यात्मका विश्वोपाक्षनात्मनका च ।
योनिं योनिमयि तिष्ठत्येक इति तस्मादपश्चिमजन्माख्यकेमकं
निर्वाणं ततः परं तस्य जन्माभवात् । विश्वोपादानयोनिरपि
शिवत्वाभिव्यक्तिरिति परापरभवाद्द्विधा निर्वाणमिति ।

एतत्पक्षत्रयेपि भुत्यनपायां निर्वाणत्वमेव नास्ति पाशः ।
भुक्तिमुक्त्योः सहा नवस्थानलक्षणविरोधस्य दुष्परिहरत्वात् ।
अथोद्देशक्रमानुसारेण धेनदीक्षां पत्तुं प्रथमम् ।

दीक्षणं तत्कारणं चाह

सपाशत्रय विश्लेषं शिवत्वं व्यज्यते यथा । क्रया सा
कथ्यते दीक्षा भक्ति वैराग्यलक्षणा ।

यथा त्रिधया सपाशत्रयविश्लेषं वक्ष्यमाणमलमाया
कर्मरूपपाशत्रयबन्धनिवृत्तिसहितं शिवत्वं विद्यमान
मेवात्मनोमलतिरोहितं शिवत्वं शिववत् सार्वज्ञ सर्व
कर्त्रुत्वादिरूपं व्यज्यते व्यक्ति क्रयते सा पुनः कीदृशी भक्ति
वैराग्यलक्षा शिवे भक्तिः सा चाष्टविधा नवविधा वा ।
तदुक्तं शिवधर्मे ईश्वरः ।

मद्भक्तजतवात् वल्यं पूजायां चानुमोदनम् । स्वयमभ्यर्चनं
चैव ममार्थे चाङ्गचेष्टनम् ॥

प्। ८०४)

मत्कथा श्रवणे भक्ति स्वश्नेत्राङ्ग विक्रियाः ममानुस्मरणं
नित्यम् । योच्चमानोपजीवति ।

भक्तिरष्टविधा ह्येषा भस्मन् म्येश्च्छेत्तिपिवर्तते । स व्प्रेन्द्रो
मुनिश्रीमान् सायातिः स च पण्डितः ॥

क्वप्चन्नवविधमुक्तम् तद्यथा श्रवनं कीर्तनं शम्भो
स्मरणं पादसेचनम् अर्चनं चन्दनं दास्यं
सङ्ख्यामात्मनिवेदनम् । एव नवधा भक्तिप्रोक्ता देवेन शम्भुना
। संसारे वैराग्यमनन्तजन्ममरण सुखदुःखानु
भवनिगजुगुप्सा विषयत्वादिति हेयत्वम् ।

उभयमपि लक्षणमलक्षयति

ज्ञापयति प्रवर्तयतीति लक्षणम् । निदानप्रवर्तकमित्यर्थः ।
अनेन भक्ति वैराग्यवताम् एवं दीक्षायामधिकारः । तयोश्च
शक्तिनिपात एव मूलं तस्य च कर्मसाम्यम् । तदुक्तम्
श्रीमृगेन्द्रे

येषा शरीरिणां शक्तिपतत्य विनिवृत्तये । तेषां
तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवस्थितिरिति ॥

तथा वामदेवे

शक्ति पाशुतानुसारेण शिष्योनुग्रहणमर्हति । यत्र शक्ति न
पतितास्तत्र शुद्धिर्न जायते ॥

प्। ८०५)

न विद्या न शिवाचारो न मुक्तिर्नव सिद्धयः तस्माल्लिङ्गानि
संवीक्ष्य शक्तिपातस्य भूयसः । ज्ञानेन क्रियया वाथ
गुरुः शिष्यं विशोधयेत् ॥

इति किरणे ।

तन्निपातस्य कालस्तु कर्मणस्तुल्यते वह्नि । तुल्यत्वं कर्मणां
कालः क्षीणं वा यदि वा सममिति ॥

कर्मणान्यूनाधिक सम्बन्धे तु व्याकुलत्वमेव भोग्येषु जायते ।
तदभाव एवाधतनः शक्त्यतगमः । स च कालवशादेव भवति
। तदप्युक्तं तत्रैव ।

अधिकं न्यूनसम्बन्धाद्वाकुलत्वं तु जायते । अधिकं
न्यूनशून्यत्वाच्छक्षमात्माधि गच्छति ॥

अनादि बीजसम्बन्धाच्छिवकालमपेक्ष्यते । कालश्चित्र इती
प्रोक्तं स्तत् ज्ञाश्च भगवाच्छिवः । यथा कश्चिच्चले लक्ष्ये
किञ्चित् कालजपेक्ष्यते ॥

सत् ज्ञोपि स शिवस्तश्चत् समकालमपेक्ष्यते । इती ।

स क्रियादीक्षेति कथ्यत इति सम्बन्धः । एवं चात्मनः
शिवत्वभुक्तिदानात् पाशसम्बन्धक्षपणाच्च दीक्षेत्यर्थः ॥

तदुक्तम्

दीयते ज्ञानसद्भावः क्षीयते पाशसञ्चयः ।

प्। ८०६)

दानक्षपणधर्मित्वाद्दीक्षाशब्द इहोच्यते इती ।

एवं च क्रियातरस्यै तत्पालद्वयप्रदानत्वान्नातिव्याप्तिः ।
शक्तिनिपाततारतम्येनैव प्रवर्ताया स्तस्याः फलद्वय
मितिनातीव्याप्तिश्च । एवं च दीक्षालक्षणमभिधाय
तत्प्रवर्तकं पशुलक्षणवक्तुं पशुत्वाती तस्य दीक्षितस्य
लोअक्षणमाहा ।

तस्माज्ज्ञानं च भक्तिश्च वैराग्यमिति चात्मनः ।
दीक्षितस्यैह चिह्नानि पशोः स्त्वेतानिनाञ्जसा । यस्माद्भक्ति
वैराग्यलक्षणं दीक्षा तस्माज्ज्ञानं शिवत्व सर्वोक्तरः
पशु पाशविमोचक इती ज्ञानं च तत एव शिवे भक्तिश्च
संसारे वैराग्यं च इती एतत्रयमपि दीक्षितस्य सञ्जात
दीक्षितस्यात्मनः । इह जन्मनि चिह्नानि लक्षणानि ।

तदुक्तं सिद्धान्तशेखरे

विवेको जायते ज्ञानाध्येयोपादेयवस्तुषु ।
विस्क्तोभयसंसारादुपादेयमपेक्ष्यते ॥

उपादेयं शिवं ज्ञात्वा तद्भक्तिं कुरुते ततः ।
भक्तिमार्गप्रवर्तारं गुरुमन्विष्यतीप्तितम् ॥

शिवेन गुरुणामन्तैदीक्षया दीक्षितः पशुः ।

प्। ८०७)

मुक्तो भवति संसारादिति पौष्करे

वैराग्यं जायते क्षिप्रं संसारादृ दुःखसागरात् कदा
दृक्ष्यामि देवेश मोक्षोहं बन्धतः कदा ॥

कोवादर्शयिता शम्भो इती सञ्जायते मती । एवं
संसारतोभितमनुग्रह्णाति चेश्वरः ॥

ननु अदीक्षितस्यापि भक्तिज्ञानवैराग्याण्युपपद्यन्तां
जन्मान्तरसुकृतवशादित्यत आह । पशोरिति

पशोरदीक्षितस्य तु एतानि भक्तादीनि अञ्जसान । सत्यानि न
भवन्ति

यद्यपि जन्मान्तरसुकृतवशात् कदाचित् सम्भवन्ती । तथापि
खद्योत प्रकाशादि वच्चलान्येव दीक्षितस्तु शिवरूप गुरुकृपा
कटाक्षवशाद्वज्रकीलायितानित्यर्थः । सत्येत्वर्धाञ्जसा
वयमित्यमरः ।

पशोस्त्वेतानि नाञ्जसेत्युक्ते पशुपाशकलक्षणमपी दीक्षैव
कारणमिति ज्ञापयितुं पशु लक्षणमाहा । किञ्चिज्ज्ञो
प्रलिनोभिन्नो कर्ता भोक्ता स्वकर्मणाम् ॥

शरीराढयो विभुं नित्यः संस्कार्यः सेशरः पशुः ।

किञ्चिज्जन्जानातीति किञ्चित्ज्ञानम् । न तु मुक्तात्मवदस्य
सार्वज्ञयमस्ति ॥

प्। ८०८)

अतः किञ्चिज्ज्ञत्वमेव पशो लक्षणम् । इतावतैव
पतिपाशव्यावृत्तैः पत्युः सर्वज्ञत्वात् पाशस्या ज्ञत्वाच्च
इतीतरेषां तु किञ्चित्प्रतिपादक विशेषणत्वमेवेन्याहुः ।

अतः एवाहः मलिनः अनादिमलबद्धः ।

तदुक्तं श्रीमत्किरणे

अनादिमलसम्बन्धां मलिनत्वमणौस्मितम् । अनादिमलमुक्तत्वात्
निर्मलत्वं शिववेस्थितमिति ॥

अत एव भिन्नः ईश्वरद्व्यावृत्तः ।

नत्वीश्वर एव जीव इति भावः । मलिनत्वे हेतु माहः ।
स्वकर्मणां पुण्यपापानां कर्ता भोक्ताः च परतन्त्रतयेति
भावः । भोगे तु कर्मशब्देन सुखदुःखादिङ्कमुच्यते ।
स्वशब्देन व्यवस्थितविषयत्वम् ।

भोगानामित्युच्यते भोगे च साधनमाह शरीराढ्य इती
शरीरैस्तत्तत्कर्मातुगुणैराढ्यः समृद्धः अन्यथा
तत्तद्विचित्र भोगानुपपत्तैः ननु शश्रीराढ्यस्य परिच्छिन्न
वेदना नित्यत्वेन च कथं देशान्तरजन्मान्तरभावि
कर्मफलभोक्त्रृत्वं तत्राहा । विभुर्नित्य इती विभुः । व्यापी
परिपूर्ण इत्यर्थः । नित्यः त्रैकालिका भाव रहितः ।
देशान्तर भावि भोगे

प्। ८०९)

हेतुर्विभिरिति जन्मान्तरभावि भोगे हेतुर्नित्य इति अन्यहा
भोगतध्येतुनां वैय्यधिकरन्यापातात् । ननु
भोगानामनन्तत्वादचेतनत्वादस्य च किञ्चित् ज्ञत्वा मलिनत्वाच्च
कथं भोगगेषु व्यवस्थितविषयत्वं तत्राहा । सेश्वर इति ।
ईश्वर सहितः । ईश्वरपरतन्त्रर् इत्यर्थः । तदुक्तं पौष्करे

अज्ञोजन्तुरनिशोऽयमात्मा यस्माद्विजऋषभः । सोपि सापेक्षयैव
स्यात् स्वप्रवृत्तौ धयदिवत् ॥

इष्यते स कथं कर्ताकर्ता तस्मान्महेश्वरेत् । एतत्
पशुलक्षणं शतरत्नसङ्ग्रह व्याख्याने प्रपञ्चितं
नेहप्रतयन्ते । एवं च कर्मणां नित्यत्वादस्य
देशान्तरकालान्तर भावि फल भोक्त्रृत्वं कथमिन्यत आह ।

संस्कार्यः

संस्कारो नामकर्मजुनितोऽदृष्टविशेषः ।

तदर्हः

दीक्षादि संस्काराह्येव अयमेव पशुरित्युच्यते । एतच्च
पशुलक्षणं सामान्यं विज्ञानकलप्रलयाकलस
कलरूपपवित्रय विशेष लक्षणमुत्तरत्र वक्षते ।

तथा च श्रीमत्सर्वज्ञानोत्तरे

पशुरात्मा स्वतन्त्रश्च चिन्मात्रो मलदूषितः ।

प्। ८१०)

समूढ् बित्यसंसारी किञ्चित् ज्ञोऽनीश्वरोऽक्रियः इती । एवं
पशुलक्षणमुक्त्वा मलादि पाशत्रयस्यापि दीक्षायां
शोध्यत्वेन तत् ज्ञानस्यापि प्रवृत्तकत्वमिति सूचियितुं
पाशलक्षणमाहा ।

पाशा अपि त्रयो ज्ञेयामलोमाया च कर्म च । अत्र मलस्य
विज्ञाना कलप्रलयाकलसकलनां त्रयाणामपि मुख्यपाशत्वात्

प्रथममुद्देशः ।

अनन्तरं विज्ञाकलव्यतिरिक्तयोद्वयोरपि पाशत्वामायायाः ।
सकलस्यैव पाशत्वादनन्तरं कर्मण इती ।

अत्र मलिनीकशेती

आत्मनुं स्वतः सिद्धे ज्ञानक्रिया आच्छादयति तिमलः ।
सचानादिर्मलः । पुंसामिति ।

अस्य च पाशपदार्थत्वेपि पशुत्वेप्यन्तर्भावः । तेन विना
पशुत्वस्यैवा भावात् ।

अत एवोक्तं पशुः पशुत्वसंयोगादिति । ननु चैतन्यं दृत्
क्रियारूपं तसस्यात्मनि सर्वदेत्यादि मृगेन्द्रादि वचनेन
सर्वज्ञत्व सर्वकर्तृत्व चिन्मयत्वादि रूपशिवत्वप्रात्मन्
पिसर्वदास्तीति प्रतिपाद्यते मलस्यानादित्वेन तत् सम्बन्धिं
पशुत्वमपिं प्रतिपाद्यते ।

प्। ८११)

अतः कथं परस्पर परिणवर्तमानयोः शिवत्व
पशुत्वयोस्तेनस्तिमस्योरिव कथमेकात्मवर्तित्वमिति चेत् सत्यम् ।
आत्मनः सर्वज्ञत्व सर्वकर्तृत्वादि शिवत्वमन्नादि सिद्धमपि
अनादि मलदूषितत्वात्ताम्रगत तत्कान्तिमावृतहेमत्व वद्विषय
ग्रहणशक्तिः प्रतिबन्धकत्वादन्तल्लीनं
स्वविषयमेवावतिष्ठते ।

न तु स्वरूपनाशनेनात्मनिजढत्वं तेनापादितम् । न च
यद्येवं नित्यत्वादिवदात्मनः पशुत्वस्यापयनादि
मलदूषितत्वेना निवर्त्यत्वमेव स्यादिति वाच्यम् ।

रसव्द्धताम्रस्य हेमत्वाभिव्यक्तिरिव ज्ञान विद्धात्मनोपि
शिवत्वाभिव्यर्त्युपफ्तैः । तदुक्तं सर्वज्ञानोक्तरे रसविद्धं
यथा ताम्रं हेमत्वं प्रतिपाद्यते ।

तथात्मा ज्ञानसन्नः शिवत्वं प्रतिपाद्यत इति अत्र ज्ञायते
अनेन सर्वमिति सर्वविषयकज्ञानव्यञ्जकेन दीपक्षाख्येन
गुरुरूपशिवव्यापारेण संयुक्तो ज्ञानसम्भिन्न इत्यर्थः ।
चक्षुः पटलस्य वैद्यव्यपारेणेवात्म मलस्यापि दीक्षाख्येन
ईश्वरव्यापारेणैव निवृत्ति सिद्धेः अत एव वा । अथात्ममलस्य
मायाख्य कर्मबन्धविमुक्तये

प्। ८१२)

व्यक्तये च शिवत्वस्य शिवात् ज्ञानं प्रवर्त इति स्वायम्भुव
वचस्य शिवदीक्षा प्रवर्तत इति व्याख्यातमाचार्यैः । अत एव
तत्रैव दीक्षैव मोचयत्यूर्ध्वं शैवं धानमनयत्यवीत्युक्तम्
। ननौ दीक्षायाः कर्मत्वा ज्योतिष्टोमादेरिव बन्धकत्वमेव न
तु मोक्ष हेतुत्वा स्यादिति चेत् सत्यम् ।

यथा जाङ्गलिको मन्त्र सामर्थेन ध्यानादि कर्मणा च
विषनिर्हरं करोति । तथा चार्योपि शिवशङ्करपबुंहित
दीक्षा रूप कर्मणैव मलादि पाशविश्लेषं
शिवत्वाभिव्यक्तिमपि करोत्येव तथा चोक्तं सर्वज्ञानोक्तरे ।
विषापहारं कुरुते ध्यानबीजबलैर्यथा ।

कुरुते पाशविश्लेषं तथाचार्यं शिवाध्वरैरिति किं च ।
प्रायश्चित्तादि कर्मणा उष्कृतेभ्यो मोक्षश्रूयते ॥

एवमिहापि पाशमोक्ष इति न विरोधः । ननु
मलस्यानादित्वान्नित्यत्वा सुपगमाच्च आत्मावरकत्वग्नेरौष्णमिव
स्वतः सिद्धमेव । एवं च मलविनाश एव दापारकत्व नाशः
सम्भवति ।

वह्निनाशे औष्णनाशवदाति चेत् । न मलस्य नित्यत्वान्नाशो न
सम्भवति ॥

किन्तु मलादि पाशानां बन्धकत्वं निवृत्तिरेव
विषग्रन्धेर्मारकत्व शक्ति निवृत्तिवत्क्रियते ।

प्। ८१३)

दीक्षयेत्यविरोधः ।

ननु मलस्य जठत्वे सयनेकत्वे घटादिवदनित्यम् ।

प्रसज्यते

तथा चैकत्वमेवाभ्युपगन्तव्यम् । तथा चोक्तम् । श्री मृगेन्द्रे
तथा च सति ।

एकमोक्षार्थं तन्निरोधे सति । सर्वमुक्तिप्रसङ्ग इति चेत् ।
तन्मलस्यैकत्वे अपि अनेकात्मा पारनेकशक्तिमत्वेनाभ्यपगमात् ।
प्रत्यात्म स्वस्वकालान्तो पायि शक्ति समूहवदिति ।

चिन्त्यविश्वे

भाणवस्त्वेकरूपो हि तथा विविधशक्ति ताम्र कालिकवत्सोपि
सहजोनान्तरागतः । तण्डुले च यथा कम्बुं तुषकं सहजं
तथा । सहजो मल इत्युक्त इती । एवं च मलस्यैकाशक्तिपाकेन
तन्निरोधे तदा वारि तस्यैव मुक्तिर्नान्यस्येतित सिद्धमित्यलं
विस्तारेण ।

माया जगत्कारणं वस्तुभूतानित्या च । ननु वेदान्तिना
मूढमिध्यारूपा ।

प्। ८१४)

उतदुक्तं तत्वप्रकाशे

माया च वस्तु भूतामलं विश्वस्य नित्या सेति ।

कर्म धर्माधर्मात्मकम् ।

वेदसिद्धं वेदैक समयिगम्यत्वात्तस्य । तथोक्तं स्वायम्भुवे ।
धर्मशास्त्रसम्वित्ति शम्नया देवजाय इति । अय्थोद्देशं
लक्षणमाहा मलं चाशुद्धिरज्ञानं तच्चैतन्य निरोधकम् ।
अशुद्धिरित्येव मललक्षणम् । साचाशुद्धिः कीदृशीत्यत आहा ।
अज्ञानमिति ज्ञानविरोधीत्यर्थः । तदहावतविरोधतदन्यत्वेषु
न ज्ञर्थर्थेषु अत्र नन्त्रो विरोधार्थत्वम् । अत एवाहृतच्चैतन्य
विरोधकम् । आत्मवस्वतः सिद्ध सार्वज्ञादि गुण
विरोधकमित्यर्थः । मायालक्षणं कार्यमुखेनाहा । माया
कलादि पृथ्व्याक्तायद्भवा तत्वसंहृतिः । कालादि पृथ्व्यन्ता
कला आदिः । पृथिवी ततो यस्याः सा तत्वसंहतिः । तत्व
समूहः । यद्भवाय सम्याः सकाशाद्भवती ।

सा मायाकालादि पृथिव्यन्त तत्वोपादान कारणम् । मायेत्यर्थः
। अथ कर्मलक्षणमाहा । धर्माधर्मात्मकं कर्मस्पष्टमेतद्
एतच्च पाशत्रयं कस्येत्यत आहा । एतैः पाशैर्यतः । पशुः
एतैः

प्। ८१५)

पाशैः मलेन केषाञ्चिन्मलमायाभ्यां केञ्चिन्मल माया
कर्मभिस्त्री केषाञ्चिद्बन्धेन पशुत्वमित्यर्थः । एवं चापाश
बध्वत्वमेव पशुत्वमिति निष्कृष्टं लक्षणं सूचितं भवति
। एतत् पाशत्रयकार्यम् । पशोदर्शयति । पशोरज्ञतया माया
योगो भोगाय कर्मणां पशोरज्ञतया मलावृतचैतत्वेन माया
योगः । कलादि पृथिव्यन्त तत्वसम्बन्ध एव पुर्यष्टक सम्बन्ध
एवेत्यर्थः । कर्मणां भोगाय सुखदुःखानु भवाय भवदिति
शेषः । स्वायम्भुवे

भोगोस्य वेदना पुंसां सुखदुःखादि लक्षणेति निर्णये । सद्यो
ज्योतिराचार्यैः वसुधाद्यस्तत्वगणः प्रतिपुर्मनियतः ।
कलान्तोधम् । पर्यदिति कर्मवशतो भुवन देहेष्वयं च सर्वेषु
इति मृगेन्द्रे च ॥

पयोक्त्रादि महिप्रान्तमेत दण्डर्थ साधकमिति ।

पौष्करे

प्रतिपुं नियतं तत्वं कलाद्यवनि पश्चिममिति । तत्वप्रकाशेपि
। पुर्यष्टकदेहयुतायोनिषु निखिलासु कर्मवशात् स्यात्
पुर्यष्टकमन्तः करणं धीकर्मकरणानि इति । ननु
श्रीकालोक्तरे

शब्द स्पर्शश्च रूपं च रसोगन्धश्च पञ्चकम् ।

प्। ८१६)

बुद्धिर्मनस्वहङ्कारः पुर्यष्टकसदा हृदमिति । श्रूयते ।
अतः कथं कलादि पृथिवीं तत्वात्मकत्वमिति चेत् सत्यमेतत्
सूत्रव्याख्यानावसरे तत्र भवतारामकण्ठेन
मृगेन्द्रानुरोधेन त्रिंशत्तत्वपरयैव व्याख्यातम् । तहि
कथमस्य पुर्यष्टकं नत्वमित्वा शङ्कायां भूतसमया मात्र
बुद्धिन्द्रिय कर्मेन्द्रियान्तः करणै सञ्ज्ञै
पञ्चभिवर्गैस्तत्कारणेन गुणतत्वेन तदापूरकेण प्रधानेन
च भोक्तृत्व स्वरूपोपकारकेण कलादि पञ्चकञ्चुकात्मना च
त्रिवर्गेणाब्धत्वादित्य विरोध इति।

अघोरशिवाचार्यैः परिहृदम् ।

नत्वेवमनादि पाशत्रय बन्धस्यात्मनः कथं मुक्तिरित्याहा ।
समयादिरेच्छातो मुक्तिर्नास्यान्यथा यतः । ततः सुखादिकं
कृस्नं भोगं भुङ्क्ते स्वकर्मतः । अस्य पशोसमयाः
समयसंस्कार आदिर्यस्या ईश्वरेच्छाया दीक्षाख्याय तत एव
समयविशेष निर्वाणाभिधान दीक्षाता एव मुक्तिः ।

पाशत्रयमोक्षः भवतितिशेषः । अन्यथा शास्त्रान्तर सिद्ध
प्रकारान्तरेण यतो यस्मात् कारणान्ते । न भवेत्येवमुक्तिः ।
शास्त्रान्तरसिद्धानां मुक्तिनां

प्। ८१७)

शिवत्वाधस्तन तत्तत्तत्व प्राप्तिरूपत्वेन सातिशयत्वेन
पुनरावृत्तिमत्वेन च पाशत्रयबन्धविमोक्षा भावेना न
मुक्तित्वम् । अस्यास्तु सर्वोक्त शिवपदप्राप्ति रूपत्वात् ।
पुनरावृत्तिरहितत्वात् पाशत्रयबन्ध विमोक्षरञ्च यथार्थत्वम्
। तदुक्तम्

चर्वाकाः कालिकज्योतिः शास्त्रज्ञाश्चैव भौतिकाः तन्मात्र
सिद्धास्मार्ताश्च चक्षरादीन्द्रियं परे । वैशेषिस्त्व संस्कारे
गुणेषुत्यायवदिनः । बुद्धितत्वे स्थिता बौद्धा गुणेषुत्वार्हता
स्थिताः । प्रकृतौ पञ्चरात्रज्ञामन्यन्ते प्रकृतिं हरिम् ।

वेदान्तज्ञाश्च साङ्ख्याश्च योगिनः पुरुषे स्थिताः ।
पाशुपतास्तु मायायां विद्यायां तु महाव्रताः ॥

शक्ति तत्वे तदद्वैताः शिवतत्वे परेस्थिताः ।

मृगेन्द्रे

यत्कैवल्यं पुङ् प्रकृत्योर्विवेकाद्यो वा सर्वं ब्रह्म मत्वा
विरामः । यावाकाश्चिन्मुक्तयः पाशजन्यास्ताः
सर्वाभेदमायन्ति सृष्टौ । शैवे सिद्धायाति मूर्ध्नि तरेषां
मुक्तसृष्टौ पुंवरोभ्येदिनाघः ।

विश्वानर्थान्यस्वेन विष्टम्यधाम्ना सर्वेशानादिनीशिता
सर्वदास्ते । इति ।

प्। ८१८)

ततः शास्त्रान्तरेण मुक्त्यभावादेव स्वकर्मतः । स्वकृत
पुण्यपापैरेव सुखादिकं सुखदुःखादि रूप कृत्स्नं भोगं
भुज्यत इति भोगः तं भुङ्क्तेनु भवति । अथ मुञ्च फल
फलितमाहा

संसारीसपशुर्बद्धो मुक्तः पाशत्रयोन्वितः । पाशत्रय
बन्धवशादनेक जन्म मरण सुख दुःखेषु संसारी
पशुर्बद्धः । पाशत्रयबन्धनाद्बद्धत्युच्यते । पाशा
त्रयोन्वितः। दीक्षया पाशत्रयविमोचितो मुक्त इत्युच्यते ॥

तथा सुप्रभेदे

मलैरावृतमात्मानं पशुरित्युच्यते बुधैः ।
मलैर्मुक्तमथात्मानं शुद्ध इत्युच्यते बुधैः इति । ननु
दीक्षाया पाशत्रय विमुक्तिरित्युच्यते । तत्र
सर्वेषामप्यात्मनां पाशत्रयेणादि बन्धो वा उतकस्यचित् केनचित्
बन्धो वा इत्याशङ्क्लतद्विद्वेकं वत्तुं पशु भेदमाह ।

त्रिधा सोयमनुग्राह्यः सकलः प्रलयाकलः । विज्ञानाकल
इत्येषां स्वरूपमधुनोच्यते । अनुग्राह्यः दीक्षारूप
शिवानुग्रहविषयः सोयम् । पूर्वोक्तबद्धपशुः त्रिधा
त्रिप्रकारः जातावेकवचनम् ।

प्। ८१९)

तानेव प्रकारानाहा

सकलः कालाबद्धसहितः । प्रलयाकलः । प्रलये
कलाबद्धरहितः । विज्ञानाकलः । विज्ञानेन
साक्षादीश्वरज्ञानशक्त्या कलाबद्धरहितः । इत्येवं
त्रिविधम् एषां लक्षणा परिज्ञाने दीक्षायां प्रवृत्तिरेव
नोपपद्यता इति लक्षनत्वं प्रति जानीने । एषां स्वरूपं
लक्षणमपि । अधुनोच्यते । एत ज्ञानमपि
दीक्षभेदेऽवधिकारभेदविषयज्ञानमपि दीक्षा बीजमिहोति
भावः ।

उद्देशक्रमेण लक्षणमाहा ।

मायाकर्ममलच्छन्नः सकलः सोपिधीयते । मलकर्मावृतोयस्तु
सम्भव्त् प्रलयाकलाः ॥

मलैकबद्धसम्बन्धो विज्ञानाकल उच्यते । तथा चिन्त्यविश्वे

मलयुक्तस्तत्राद्यो मलकर्मयुते द्वितीयं ध्यात्मलमायाकर्मयुतः
सकल इती । अनादि भूताभ्यां मलमायाभ्यां प्रवाहा नादिना
कर्मा च यच्छन्नः सकलोभिधीयते कलायुक्तोभिधीयते ।
पुरुषस्य सहजेज्ञत्व कवत्रृत्वे एकदेशमलविदारणेन वा
कलमती ।

प्। ८२०)

व्यञ्जयती साकला तदुक्तं चिन्त्यविश्वे स्यैवमाना पुनश्चैव
कलामजनयत्क्रमात् । अन्यूनामाणवं चैव मलमेकत्रभिद्य च ।
ज्ञानशक्तौ प्रतिष्ठाप्यव्यञ्जयेत् कर्तृशक्तिकाम् ।
कलबन्धनयात्वर्थः स्तुनुबन्धाय चात्यनाम् । कलातत्वमिदं
प्रोक्तमजूनां भोगकारणात् । ननु आत्मनो ज्ञत्वा
कर्तृत्वाभिव्यञ्जकरीकलोत्युच्यते । तच्च शिवशत्यैव जायतां
किं कलयेति चेन्न । शिवस्तु पाशं विनात्मनो ज्ञत्व कर्तृत्व
शक्तिर्नव्यञ्जयति । यथा वातपित्तादिरपथ्यं विना रोग
जनितोपद्रवं च करोति । तथा चोक्तं तत्वसङ्ग्रहे

पाशं तु वितानेशे व्यञ्जयती । यथोन सर्वविषयं तद्दोषो
विषमो । पथ्यावितैव नो रोग कर्तृशपक्ष शिव इती । ननु
आत्मनो भोगार्थमेवज्ञत्व कर्तृत्व व्यञ्जनार्थं
कलाङ्गीक्रियते ।

तच्च भोगकारणेन कर्मणैव भवतु तदभावेन विज्ञाना
कलानां भोगाभावाद् इति चेत्कर्मणानां भोगजनन
मात्रोपक्षीणत्वात् कार्यान्तरहेतुत्वे प्रमाणाभावाच्च किं च
तत्वान्तर सहकृतस्यैव कर्मणो भोगनिमित्तत्वा भावे बुध्यादि
तत्वानामप्यनर्थकत्वं स्यात् ।

प्। ८२१)

ननु तर्हि कला योगेनैवात्मनो ज्ञान दर्शने पूर्वमविद्यमानमेव
ज्ञानं कलायोगेनोत्पद्यते । इन्द्रियसन्निकर्षाद् घटज्ञानमिव
एवं चात्मनो ज्ञानायारत्वमेव ननु ज्ञानरूपत्वमिचेन्न ।
आत्मनो ज्ञत्वाभावस्तु नत्वविद्यमानत्वात् । किन्तु
व्यञ्जकाभावादेव यथान्धकारावृतस्य घतस्या ज्ञानं
व्यञ्जकदीपाद्यभावादेव नत्वाभावात् । एवं च तस्या
नित्यज्ञानत्वात्युपगमे । विकारयोगेन तस्याप्य नित्यत्व
प्रसङ्गाद्व्यञ्जक सन्निधान एव ज्ञातृत्वरूपस्य स्वसंवेदन
सिद्धत्वाच्च नित्यमेवात्मनश्चेतनात्मत्वमङ्गीकर्तव्यं
तच्चानादिमलावृतत्वाद्व्यञ्जकी भूत कलायोगात् पूर्वं न
प्रकाशते । तद्योग एव प्रकाशत इत्यन्वयस्य व्यतिरेकाभ्यां
कलासम्बन्धोऽङ्गी कर्तव्य । तद्योगादेवात्मनः सकलत्वमित्यलं
विस्तरेण । अयं च पाशत्रयसम्बन्धो भवती । मलकर्मवृतः
अनादिरूपेण मलेन कर्मणा च वृतोयः । स प्रलया कला
इत्युच्यते । प्रलयेन कलादेदुपसंहारात् ।
मलैकबद्धसम्बन्धाबध्यते नेति बन्धः । पाशः ।
मलाख्येनैकेनैव पाशेन सम्बन्धो यः स विज्ञानाकल उच्यते ।
विज्ञानयोगसन्यासैर्भोगाद्वा कर्मणः ।

प्। ८२२)

क्षय इती विज्ञानेन कर्मणस्तद्भोगार्थ कलादि
बन्धस्याप्यभावद् अत्र सकलप्रलयाकलोविज्ञाः सकल इती
जातावेकवचनं ते च सकलाः । परिपक्वमलात्
परिपक्वमलाश्चेति द्वेधा । तत्र परिपक्वमलाः शिवरूपाचार्य
कृतदीक्षया मोक्षगामिनः । तदुक्तं
परिपक्वमलानेतानुत्सादनहेतु शक्तिपातेन योजयति परे तत्वे स
दीक्षयाचार्य मूर्तिस्थ इती । अन्ये तु संसारिणः ।
प्रलयाकलाश्च परिपक्व मलकर्माणोपरिपक्व मलकर्माणश्च ।
तत्र परिपक्व मलकर्मणः शिवो निरधिकरणदीक्षयैव मोक्षं
प्रापयति । तदुक्तं श्री मृगेन्द्रे

तमः शक्यधिकारस्य निवृत्तेस्तत् परिच्युतौ । व्यनक्ति दृक्
क्रियानन्यं जगद्बन्धुरणोः शिवः ।

स्वायम्भुवे

क्षिणे तस्मिन्यया सा स्यात् परं निश्रेयसं प्रतीति । अन्ये तु
पुर्यष्टक देहर्यताः सन्तो भुवनपतित्वं शरीर योगिनः ।
येतेष्वपि केचित् । पाकतारतम्येनानन्तेश्वरकृपया गुह्यातिगुह्य
गुह्यतर पवित्रस्थाप्वाख्य पश्चाष्टक भुवनपतित्वं प्राप्य
स्वाधिकारान्तं प्रकटीकृत ज्ञानक्रयाणिमादि युक्ता भवन्ति
। तदुक्तं तत्वप्रकाशे कांशिदनुग्राह्य वितरती

प्। ८२३)

भुवनपतित्वं महेश्वरस्तेषा मिति विज्ञाना कलाश्च
पक्वमलापक्वमल भेदेन द्वेधा । तत्र
पक्वमलाविद्येशपदयोगिनः । अन्ये तु सप्तकोटि महामन्त्राः ।
तत्राप्यर्धनिरतिकरण शिवानुग्रहकरणं भवति । अनः ।
दर्धंसाधिकरण शिवानुग्रहस्य करणमिति । तदुक्तं
श्रीमन्मृगेन्द्रे

प्रयोक्तृ देह सापेक्षं तदर्धमखिलेऽध्वनी । कृत्याधिकारं
स्थित्यन्ते शिवं विशतिसेश्वरम् । विनाधिकरणेनान्यत्
प्रथानविकृतेरयः ।

कृत्याधिकारमीशेषु मुपिएति स्वर्ध्वसंहृ इति । तथा

चैतन्मन्त्रबलादेव साधकानामभिलक्षित भुवन भोगो मोक्षश्च
भवति । तदुक्तं श्रीमत् सूक्ष्मस्वायम्भुवेयो
यत्राभिलषेद्भोगान् स्तत्रैव नियोजितः ।
सिद्धिभान्मन्रसामर्थ्यात्तक्तत्वाभ्यास्तस्तथे । श्रीमद्रारवे च
। दीक्षा पूता गणपति गुरोर्मण्डले जन्मवन्तः
सिद्धामन्त्रैस्तरुण दिन क्रमण्डत्वोद्भासिदेहाः । भुक्त्वा
भोगान् सुद्विरममरस्त्री निकायैरुपेता सृस्टोत्कण्ठाः पर
शिवपदैश्वर्य भाजो भवन्तीति । ननु सकलाना दीक्षया
बन्धनिवृत्ति जाय इत्युच्यते । कथमेतत् ज्ञातुं शक्यमिति चेद्
उच्यते । श्रीमत् कालोत्तराद्युक्त च

प्। ८२४)

मन्त्रालब्थधतटारोपणेन तस्यात्मनो गौरवं परीक्ष्य
पश्चादृक्पादमन्त्रोच्चारणादि पूर्वं तश्चुद्धिं कृत्वा
पुनद्धटारोपणे तस्य लासवमुत्पद्ममानं दृश्यते । विषा
विष्टस्याहितुण्डिका क्रियातः पूर्वं पश्चादिवचेदि वदन्तिः ।
तथा च सत्वसङ्ग्रहे । शुद्धिं प्रजति तुलायां दीक्षादो
ब्रह्महत्या ते मुख्यात् प्रत्यतो जानीयात् । बन्धन विगम
विषक्षयवदिति । ननु दीक्षया समस्तपाशक्षये सति
तत्क्षणमेव शरीरपात प्रसङ्ग इति चेत् सत्यम् । दीक्षा च
द्विविधा । असद्यो निर्वाणा सद्यो निर्वाणा चेति । तत्रासद्यो
निर्वाणदीक्षायां जन्मान्तरफलप्रदानामेव कर्मणां दाहेन
प्रारब्धकर्मणां भोगर्थमवस्थापनमेव । तदुक्तं
श्रीमत्किरणे अनेक भविकं कर्म दग्धं बीजमिवाणुभिः ।
भविष्यदपि संरुद्धं येनेदं तद्धि भोगत इति सद्यो निर्वाण
दीक्षयां तु प्रारब्धकर्मणापि क्षयो भवत्येव । तथापि
किश्चित् कालं शरीरस्थिति मात्रं सम्भवती। यदुक्तम् किरणे
गरुडः । अशेषपाशविश्वेषो यदि देव सदीक्षया ।
जातायामर्थ निष्पत्तौ कथं स्याद्वपुरुषस्थितिः । भगवान्

जातायी घटनिष्पक्तौ यथाचक्रं भ्रमत्यपि । पूर्वसंस्कार
संसिद्धं तथा वपुरिदं स्थितमिति ।

प्। ८२५)

तिष्ठ्यती । संस्कारवशाच्चकभ्रंवद्धृतशरीरैती । ननु
असद्यो निर्वाणा दीक्षायामेष्यज्जन्मान्तर
फलप्रदकर्मणादाहेष्विप्रारब्ध कर्मणां
भोगार्थमवस्थानेपि दीक्षोक्तरकालं शरीरावस्थानेन
क्रियामाण कर्मणाङ्का गतिः । साङ्गात्कृतात्कर्मणः ।
फलावश्यम्भावनीयमात् । अननुष्टाश्चे निषिद्ध
कर्मानुष्ठाने च इति । वर्णाश्रमाचारामनसाधि नलङ्घयेत् ।
अयो यस्मिन् चाश्रमेतिष्ठे प्राप्तो दीक्षां शिवात्मिकाम् ।
तस्तस्मिन्नेव सन्तिष्ठं जीवधर्मं च पालयेदिति आज्ञा
विलङ्घनात् प्रोक्तं क्रव्यादत्वं शतं समा । इत्यादि
वचनैरकरणे प्रयवाय श्ररणाश्चेति चेत् । उच्यते ।
दीक्षोक्तरकालमनुष्ठीयमान कर्मणां न
जन्मान्तरभावफलावहत्वम् । किन्तु दग्धपटन्न्यायेनैवास्थानम्
। तदुक्तं तत्वनिर्णये कृतमपि वलायनस्या दीक्षो
पर्युसरोन्तबीजमिव । इति किञ्चिद्दीक्षोक्तरकालः ।
कृतसमयाचारपिशाचती । राजताम् अनुभूयतदनन्तरमुक्तिः ।
तथाद्धोक्तं तत्व सङ्ग्रहे तस्मात् । अकृतविधिः । किञ्चित्
कालमराणामप्याज्ञा विलङ्घनदोषेण किञ्चित् कालं पिशाच
वर राजः । भ्रान्त्वा विमलात्मना सौव्रजति हि समतां
परेशेन इती ।

प्। ८२६)

एवं च सबीज दीक्षया निर्बीजदीक्षायां च न कोपि
शङ्काशूक इत्यलमती प्रसङ्गेन । एव
दीक्षणीयान्विज्ञानाकल प्रलयाकलसकलभेद भिन्नानुत्वा ।
येतेषां च शक्ति निपात तारतम्येन दीक्षाभेदां मुक्तिरितिव
किन्तु । दीक्षाबीजम् प्रथद्वेविध्येनाह । निराधारोध साथार
शिवस्यानुग्रहो द्विथा । शिवस्यानुग्रह पशो संसारमोचनेच्छा ।
स च दीक्षाबीजम् । निराधारस रभेदेन द्विथा । तत्राचार्य
रूपमायारं विनायः । प्रवर्तते सन्नि निराधारः ।
आचार्यरूपमधिष्ठायैव यः । प्रवस्तु साधारः । तथा
चिन्त्यविश्वेसाधारा च निराधारा साधारा सकलस्य तु
निराधाराह्व्यान्येषा मेव दीक्षा मयादिता इती । अमुमेव
कारण भेदेन विषय भेदेनाप्यह । शिवेन पेक्षिताचार्यो द्विधा
शक्तिनिपातानात् । स्वयमेवानुग्राहति विज्ञातप्रलया कलान् ।
वष्टिप्रकाशत इति शिवः । स्वयं प्रकाश रूप इत्यर्थः ।
वशकान्तविति तया तोवव्यत्ययेन सिद्धत्वात् साधुः ।
तदुक्तमभियुक्तैः । हिंसिधातो सिंहशब्दो वशकान्तौ
शिवस्मृतः । वर्णव्यत्ययतः सिद्धः । कश्यपः ।
पश्यकोयथेति । अनपेक्षिताचार्य आचार्यमूर्त्यो वेशं कृत्वैव
विज्ञानप्रलयाकलान् विज्ञानाकलान् प्रलयाकलाश्चेद्विथा ।

प्। ८२७)

शक्तिनिपातनात् । तीव्रतीव्रतरभेदेन द्विविधशक्त्निपातनात् ।
तत्र विज्ञानाकलेषु तीव्रशक्तिनिपातः । प्रलयाकलेषु
तीव्रतराः । अत एव प्रलया कलानां विज्ञाना कलत्वपदं
प्राप्या विमुक्ति स्वयमेव येतावर्कं
कालम्मत्कल्पिताधिकारेष्टपरिश्रान्ता इदानीं मुक्ता
भविष्यथेति । दययेतोवः । अनुग्रहाति मलायामपाश
विश्येषाख्यमनुग्रहं करोति । तदुक्तं चिन्त्य विश्वे आचार्य
निरपेक्षण तीव्र शक्त्यानु शम्भुना । विज्ञाना कलनाम्नश्च
प्रलया कलनाम् च । या क्रिया क्रियक्त्रे सा तु निरधारेति
कीर्तिता । इती । एवं निराधारमनुग्रहमुक्त्वा साधारमाह ।
आचार्यमूर्तिमास्थाय चतुर्थाशक्तिपाततम् । भगवाननुग्रहाति
स एव सकलानपि । भगवान् परिश्छिन्नैश्वर्यादि युक्ता
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्रियः । ज्ञानवैराग्य
योगैश्चव षण्णां भग इति श्रुतिः । इति वचनात् । सकलानपि
मलयायकर्माख्य पाशत्रययुतानपि । चतुर्थाशक्ति पातनात्
तीव्रतरतीव्रमन्दमन्दतरास्य चतुर्विध निजशक्तिपातनात् ।
अनुग्रहाति अनुग्रहं करोति । तदुक्तं चिन्त्यविश्वे गुरुमूक्तं
समास्तायामन्द तीव्रादि भेदया ।

प्। ८२८)

भक्त्या शम्भुश्च कुरुतेया दीक्षा साधिकारिणी इती ।
श्रीमत्किरणे । येतच्च कुरुते शम्भु स्वतन्त्रत्वा चतुर्थतः ।
सर्वानुग्रह कृच्छान्तः शक्तिपातेन दीक्षयेति । ननु
शक्तिनिपाततारतम्येन दीक्षेत्युच्यते । शक्तेर्विभुत्वेन
तन्निपातस्यैवा सम्भवात् । कुतस्तारतम्यमिति चेद् उच्यते ।
शक्तेरनुग्रहो मुखत्वमेव निपात इत्युपचर्यते । तदुक्तं
श्रीमत्किरणे

उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते । यथा
पुमान्विभुर्गन्तानित्योप्यक्तो विनश्वरः । पाशच्छेदे यथाप्रोक्तो
मन्त्रराट् तगवच्छिवः । एवं शक्तिनिपातोपि भाक्त प्रोक्तः
शिवागमे निपातो भयतो यद्वद्वस्तुनः सहसा भवेत् । तद्वच्छक्ति
निपातोपि प्रोक्तो भव भय प्रदा । गुरुर्यथा ग्रतः शिष्यान्
सुप्तान्दह्येन बोधयेत् । शिवोपि मोहनिद्रायां सुप्तञ्छक्त्या
प्रबोधयेत् । यदा स्वरूपविज्ञानं पतितेति तदोच्यत इती ।
तल्लक्षणं च सिद्धान्तशेखरे तत्पातलक्षणं वक्ष्ये तां
तारतम्येन देहिनाम् । देहपातस्तथा कम्पः परमानन्दहर्षणे ।

प्। ८२९)

स्वेदोरोमां च इत्येतच्छक्तिपातस्य लक्षणम् । तथा मृगेन्द्रे
एषां शरीरिणां वृत्तिः पतत्यपि निवृत्तये । तेषां
तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषोभवस्थितौ । भक्तिश्च
शिवभक्तेषु श्रद्धा तच्छासने विथौ । अतेनानुमितिः
शिष्टहेतोस्थूलधियामपीतिः । एवमाचार्य मूत्यधिकरणेन
शिवस्यैव दीक्षकत्वम् अन्येषामशेषपाशविद्वेषण
सामर्थ्याभावात् । एवं शिवानुग्रहाख्ये दीक्षाबीजे सति ।
तत्र प्रवृत्तिरुत्पुद्यत इत्याह । शिवस्यानुग्रहाद्दीक्षा जायते ।
क्रतु कर्मणाम् । कृतकर्मणां पक्वमलानां
शिवस्यानुग्रहाच्छक्तिनिपाता देव दीक्षा जायते । अन्येषां
तत्रानधिकारः एवेति भावः । अत एव शक्तिनिपाताभावे
दीक्ष्य दीक्षकयोरुभयोरपि प्रत्यवाय श्रूयते । यथा वामदेवे
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते । न विद्या न शिवा
चारो न मुक्तिर्न च सिद्ध्यः । तस्माल्लिङ्गानि संवीक्ष्य
शक्तिपातस्य भूयशः । ज्ञानेन क्रियया वाथा गुरुशिष्यं
विशोधयेत् । योन्यथा कुरुते मोहात् स विनश्यति दुर्मतिरिति
इदानीर्मलपरिपाक विशेषादेव दीक्षा भेद इति । दीक्षा
भेदां निरुपयितु प्रतिजानीते । सा चानेकविधाज्ञेया तत्
प्रपञ्चोयमुच्यते । सा साधिकरणा दीक्षा नतिरधिकरणायाः
शिवैकगम्यत्वादिति भावः ।

प्। ८३०)

अनेकविधानुपद वक्ष्यमाणानेकप्रकारा तान्त्रेव प्रकारानाह ।
चाक्षुषी स्पर्शदीक्षा च वाचिकीमातसीइ तथा शास्त्री चस्
योगदीक्षा च हौत्रीत्यादिरनेकया । तत्र चक्षुषा किर्यमाणा
चाक्षुषी । शिवहस्तालम्भनसाद्या स्पर्श
दीक्षामन्त्रोच्चारमात्रेण निर्वृत्या वाचकी ।
मनोव्यापारानुष्ठेया मानसी । शिवशास्त्राभ्या
सप्रवर्त्यनीया शास्त्री । योगोपदेशगम्या योगदीक्षा ।
कुण्डमण्डल मण्डपविधानदि पूर्विका भौत्री आदिशब्देन
पादोदक प्रदानाक्षिप्रेरण बोधकाद्युच्यते । यथोद्देशं
लक्षणमाह । चक्षुरुन्मील्य यक्तस्त्वन्ध्यात्वा शिष्यं
समीक्ष्यते । पाशबन्ध विमोक्षाय दीक्षेयं चाक्षुषी मता ।
तत्वं शिवरूपं ध्यात्वा । अन्येषां तत्तत्वमुपचारादिति
भावः । तस्माच्छिवस्वरूपध्यानं च दीक्षाबीजम् ।
चक्षुरुन्मील्य पाशबन्धविमोक्षाय मलादि पाशत्रय विमोचनाय
शिष्यं समीक्ष्यते । सम्यक् शिवात्मैक्यानु सन्धानेन विलोक्यत
इती । यद्भावे लट् । इयदीक्षाविधेय प्राधान्यात् ।
स्त्रीलिङ्गनिर्देशः । चाक्षुषी मता अत्र उन्मील्य समीष्यत इति
। वचनेनाध्यायसमये निमिलनं गगम्यते ।

प्। ८३१)

तथा चोक्तं वृद्धज्ञानरत्नावल्याम्

निमील्यनयने ध्यात्वा परं तत्वां सुनिर्मलम् । ततः पश्येच्छि
शुद्यर्थदीक्षैषा चाक्षुषी मता । अत्र द्वर्थशब्दो
भुक्तिमुक्त्योरिति ।

अथ स्पर्शदीक्षा

निधाय दक्षिणे हस्ते शिवं ब्रह्माङ्गसंयुतम् ।
संस्पृशेच्छिष्य मूर्धादि स्पर्शदीक्षा भवेदियम् ॥

अत्रापि तत्रवध्यात्वेत्यनुर्वार्तते । तन्मूलत्वाद्दीक्षा
प्रवृत्तेः ब्रह्माङ्गसंयुतम् । पञ्चब्रह्मषडङ्गयुक्तं शिवं
शिवप्रतिपातकम् मूलमन्रं वाच्यावाचकयोरभेदात् । दक्षिने
हस्ते आचार्यस्वस्येतिशेषः ।

निधाय अङ्गुलीषु मध्ये वन्यस्य शिष्यमूर्धादि संस्पृशेत् ।
शिष्यं शिरः प्रभृतिचरणान्तं संस्पृशेत् । इयं
स्पर्शदीक्षा भवेत् । तदुक्तं तत्रैः हस्ते शिवमनुध्यात्वा
ब्रह्माङ्गसहितं परं संस्पृशेच्छिष्यदेहं तच्छिरं
पृष्ठादिकं गुरुः । स्पर्शदीक्षा भवेदेवं लयभोगविदा
कृतेति । तथान्यरापि यं यं स्पर्शति हस्तेन यं यं पश्यति
चक्षुषा । शिव् भवति तत्सर्वं शिवेन्दुकिरणाहतमिति ।

प्। ८३२)

अथ वाचकीमाह

तत्वे चित्तं समाधाया बृंहितान्तर तेजसा । उच्चरेत् संहिता
मन्त्रान्वाद्दीक्षेयं प्रवर्तताम् ॥

तत्वे परशिवे चित्तं समधाया अचञ्चलतया विन्यस्य अत देव
बृंहितान्तर तेजसा व्याप्त हृदय कमलस्हित शिवतेजसा
समुद्दिपित शिवात्मैक्य भावः सन्नित्यर्थः । आचार्य इति
शेषः ।

संहितामन्त्रान् मूलब्रह्माङ्गानां तदुक्तं स्त्रीलिङ्गे ।
मूलब्रह्माङ्गमित्युक्तं संहिता शिवसासन इती ॥

उच्चरेच्छिष्य पादच्छेदकतया स्वयमेव उच्चरेत् । एयं व दीक्षा
प्रवर्तताम् अधिकारानुगुण्येन प्रवर्तस्यात् ॥

सम्भावनायां लोट् । तदुक्तं सिद्धान्तशेखरे

तत्वे चित्तं समास्थायाद्योतितेश्वरतेजसा ।
गुगुरुच्चारयेन्मन्त्रामन्त्रदीक्षा समाहृदः ।

उच्चरेद्वचसा मन्त्रान् सा दीक्षा वाचिकी स्मृतेति ।

अथ मानसीमाह

मानसं विधिमाशृत्य मानसीत्यभिधीयते । बहिं क्रियया
कुण्डमण्डलादि पूर्वको निर्वत्यमानिना विधिः सर्वोपि मनसैव
क्रियते चेत् । सामानसीत्यभिधीयते तथा ज्ञानरत्नावल्याम्
मानसं विधिमाशृत्य मानसी ज्ञानवम्यसौ इती ।

प्। ८३३)

अथ शास्त्रीमाह

शास्त्रस्यत्वं प्रदानेन शास्त्रदीक्षा प्रमीरिता । शास्त्रस्य
कामिकादि शिवशास्त्रस्योपदेश न शास्त्रे दीक्षाधियं च
समयदीक्षानन्तरमेव कर्तव्या । अन्यथा
शिवशास्त्रश्रवणाधिकारा भावात् ॥

अत एव शिवशास्त्रश्रवणमपि दीक्षाभेद एव । तथा च
सिद्धान्तशेखरे

शास्त्रस्य सम्प्रदानेन शास्रदीक्षा निगद्यत इति । अथ
योगदीक्षामाहा योगेन योगदीक्षास्यच्छिवत्वेस्य व्यवस्थिता ।
योगेन धारणादि योगोपदेशेन योगदीक्षास्याद् इयं चास्यात्मनः
। शिवत्वे शिवपदप्राप्तौ व्यवस्थिता निश्चिता । निश्चित्या
अन्यासां रुद्रपदप्राप्तिरीश्वरपद प्राप्तिश्चाधिकारानु
गुणात्फलं भवतीति भावः । अत एव इयमपि समयादि
संस्तुतस्यैव कर्तव्येति भावः । तथा चिन्त्यविश्वे

यजुर्योगेति यात्वर्थे यज्जिवः शिवयोरपि । संश्लेषो योगम्
इत्युक्त सहमार्ग इति स्पुटम् ॥

असद्भाव क्षयत्वं च ज्ञाना सद्भावभावकम् ।

प्। ८३४)

शिवतत्वेति संयोगो योगदीक्षेति कथ्यते ।

अथ हौत्रीमाह

रजं कुण्डवति हौत्री सा द्विभेदा किलोदिता । अत्र रजः शब्दो
न ईशानाद्यनुगुणवर्णरजः साध्यमण्डलान्युच्यते । तथा च
कुण्डमण्डलपूर्वकं बहिर्वापारनिवृत्या समयविशेषादि
दीक्षा हौत्रीह समासाच्च द्वियैव्येयदीक्षा तत् । सा च
द्विभेदाद्विप्रकारा । ननु अस्या अपि ।

एकतत्वादि बहुप्रकाराणां सम्भवात् । कथं
द्विभेदत्वमेवेत्यांशङ्क्यसङ्क्षेपादित्याह समासाच द्विधैवेय
दीक्षा तत्ज्ञैरिहोच्यते । इयं दीक्षासाधिकरणा हौत्री
तज्ञैद्दीक्षा स्वरूपज्ऽनैराचार्येरिति शेषः । इहास्मिन्
शास्त्रैद्विधा द्विप्रकारैवेत्युच्यते । तद्वैविध्यमेवाह

ज्ञानवती बह्वेदेका क्रियावत्यपरा स्मृता । एका ज्ञानवती
भवेद् अपरा क्रियावतीति स्मृता ॥

तत्र ज्ञानवत्यालक्षणमाह
विवेज्ञानलकर्मादिमनोव्यापारमात्रता । दीक्षाज्ञानवती
प्रोक्ता सम्यक् तत्वाव बोथजा ॥

इत्यायागः । दीक्षाङ्गक्रियमाणभोमादि

प्। ८३५)

देवतोद्देशेन द्रव्यत्यागो याग इति वचनात् अनलकर्मा
कुण्डसंस्काराग्नि संस्कारादिकम् । आदिशब्देन मण्डप
मण्डलार्च्चनादी । एतत् सर्वं विना । मनोव्यापारमात्रतः ।
मानसव्यापारमातृकार्येत्यर्थः । सा च सम्यक्
तत्वावबोधजादृढतरं शिवक्रिअय
कलापयोर्यायार्थज्ञानजन्या दीक्षाज्ञानवतीति प्रोक्ता ।
अन्यथा तस्या असाध्यत्वात् तदुक्तं चिन्त्यविश्वे

पूर्वोक्तदीक्षया युक्तं शिष्यं विज्ञान्दीक्षया । दीक्षयेत्
कृपया पूर्णो गुरुः सन्मार्गदायकः ॥

मनोव्यापारमात्रेणया दीक्षा विद्यते क्रमात् । सा दीक्षाज्ञान
दीक्षा तु विज्ञानाख्यात भवेद्ददीयते तच्छिवत्वं हि क्षीयते
सर्वसंशयः । एवं विशिष्टरूपत्वाद्विज्ञानमिति कीर्तितम् ।

अथ क्रियवत्यालक्षणमाह

इज्यानलवती या तु क्रियाकौशलसम्भवा । क्रियावती इत्याह ।
वनरूपो यागः । अनलः । अग्निकार्यसंस्कृतोग्निः
तदुभयमस्यामस्तिथीति इज्यानलवती । क्रियाकौशलेन
कुण्डमण्डलमण्डपनिर्माणादाचार्य क्रियासामर्थेन
सम्भवती । क्रियाकौशलसम्भवा या दीक्षा सा क्रियावती ।
अस्या एव भेदमाह

अहानेका निबीजा च सबीजकानि बीजदीक्षा सबीजदीक्षा चेति ।

प्। ८३६)

अनेका एकान् भवतीत्यनेका द्विविधैत्यर्थः । अथो भयोरपि
स्वरूपभेद निरूपयितुम् ॥

प्रथमं विषयभेदमाह

तत्र निर्बीजिकाया सा समयन्यपि पुत्रके । स बीजा तु
भवेद्दीक्षा साधकाचार्ययोरपि ।

अत्र बीजशब्देन समयाचार उच्यते ।

तत्र हितानि बीजका निर्बीजैव निर्बीजका निरपेक्षेति च
नामस्वार्थेक स या सा समयिनी समय्याख्ये दीक्षिते पुत्रके
पुत्रकाख्ये दीक्षितेऽपि विषये सम्भवती । आचार्योयं समयिनं
पुत्रकं वा चिकीर्षते । स कर्तव्येत्यर्थः । इयं निबीजा च
सद्यो निर्वाणदासद्यो निर्वाणदा असद्यो निर्वाणदेति द्विविधेत्याह
। अथ निर्बीजका दीक्षा प्रोक्ता सा द्विप्रकारिका ॥

एका निर्वाणदा सद्यो द्वितीया देह व पाततः ।
दीक्षानन्तरमेव मोक्षदा सद्यो निर्वाणदा ।

एतद्देह पातानन्तरमोक्षदा । असद्यो निर्वाणदा इयं च केषां
कार्येत्यत आह । बालबालीशवृद्धस्त्रीभोग भुग्व्याधितात्मनाम्

भवेन्निर्बीजका दीक्षा समयाचारवर्जिता । बाला उपनीतमात्रा
बालीशामूर्खाः ।

प्। ८३७)

मूर्ख वैधेय बालीशा इत्यमरः । वृद्धाजरातुरास्त्रियो
भक्तिमत्यः । भोगभुजः । विषयाभिलाषपीडिताः ।
व्याधितात्मनः । क्षयकुष्ठा दिव्याध्या व्रतदेहाः । एतेषां
निर्बीजका दीक्षा सा तु समयाचारशुद्धिदा । बालादीनां
समयाचारानुष्ठाने सामर्थ्याभावा दीक्षा काल एव ।
समयाचारा यत्राचार्येण तत्तदधि
कारमुभेदसामर्थ्यवशादाकृष्य शोध्यन्ते तेनतः शुद्धिदा
तथा च वृद्धज्ञानरत्नावल्याम् बाला बालादिनां
समयाद्यनुष्ठानापेक्षया विना मोक्षप्रदा निरपेक्षा
निर्बीजाख्येति उदाहृदं च । समयाद्यक्षमं
प्रवृद्धमूढबालादिकम् । या सौ तदनपेक्षत्वा निरपेक्षा
निगम्यत इति । अथ सबीजां सापेक्षा परपर्यायामाह विदुषां
च समर्थ्यानां स बीजा परिकीर्तिता । विदुषां
शास्त्रज्ञानवतां समर्थानां समयाचारानुष्ठानेन ।
शक्तानां च सबीजा सापेक्षा पर पर्याया परिकीर्तिता
कर्तव्येति शेषः । तथा च ज्ञानरत्नावल्याम् सह
समयाद्यनुष्ठानेनाहिंसाद्यात्मगुणैः
पुरुषगतैरपेक्षस्याः सा सापेक्षा सबीजाख्य उदाहृदं च
उक्तं च । शार्वन्नयति याधामसमयाद्यनुवर्तकम् ।
विशिष्टात्मगुणप्रायम् । सापेक्षा सोच्यते बुधैरिति ।

प्। ८३८)

अथ सबीजायामपि द्वैविध्यमतद्विषय भेदमप्याह सबीजा च
द्विधा भिन्ना प्रथमा शिवधर्मिणी । साधकाचार्ययोः सोक्ता ।
देशकालादि भेदतः ॥

सबीजा दीक्षा च द्विधा भिन्ना । तत्र प्रथमा शिवधर्मिणी
सा चा साधकाचार्ययोर्देशकालादि भेदतः ।

उक्ता देशलक्षणं सिद्धान्तशेखरे नद्यबधिगरिसत्तीर्थं
पुण्यारण्यसमीपतः । शिवक्षेत्रशिवागारसमीपे वा शन्द्रे
गृहे । देशे विशोधिते शुद्धे तत्र कुर्वीतमण्डप मिति ।
दीक्षामण्डपलक्षणमस्माभिः कृतनं क्षा देशे
प्रपञ्चितं तत्रापि धार्यताम् । कालस्तु
शक्तिनिपाततारतम्यकाल एव अत एव शक्तिनिपात
तारतम्यवशादेव सद्योनिर्वाणाद्यनेकविधदीक्षान्तेवः
सम्भवति । अथवा त्रिलोचनशिवाद्युक्तकाला वा ग्राह्याः ।
तद्यथा सिद्धान्तसारावल्याम्

काले वर्षिकपौषचैत्रा रहिते देवोत्सवेदामने सङ्क्रान्ता
विषुवायनग्रहणयोर्दीक्षा पवित्रोत्सवे ।
मैत्रार्त्कानिलसौम्यपैतृ निऋतिः पूषाख्य शाङ्गीश्वरं
चैवं रोहिणिकोत्तर त्रयमथो भौमार्कवारं विना ॥ इति ।

एवं शिवधर्मात्मकं कर्म प्रागागामि विचित्रकम् ।
सञ्चिन्त्यशोध्यते यत्र सैवोक्ता धर्मिणा विषयमुक्त्वा
तत्स्वरूपमाह शिवधर्मिणी ॥

प्। ८३९)

प्राक्पूर्वतनं सञ्चितमित्यर्थः । आगामि इह जन्मनि जन्मान्तरे
वा भोज्यं धर्माधर्मात्मकं पुण्यपापस्वरूपं विचित्रकं
भोगवैचित्रा नानाविधं सर्वं कर्म सञ्चिन्त्य मनसा उल्लिख्य
यत्र यस्यांशोध्यते तत्तद्भोगानुगुणाहुति प्रदानवशासेव
फलजननानहक्रियते शैवशिवधर्मिणी दीक्षोक्त्वा ।
लोकधर्मिण्या स्वरूअप्माह अधर्ममात्र संशुद्धौ द्वितीया
लोकधर्मिणी । तत्तद्भुवनादिषु सद्भोगार्थं धर्ममात्रं
कर्म व्यवस्थाप्य अधर्ममात्रस्य सर्वेषामधर्माणां
संशुद्धौ पूर्वोक्तप्रकारेण शोधने कृते सति सामर्थ्ये
मातृशब्दः । इयं लोकधर्मिण्याख्या द्द्वितीया स बीजदीक्षा
। अत एव लोकेशु तत्तदपेक्षित भुवनेषु भोगार्थं धर्मा
अस्यां सन्तिति लोकधर्मिणी । शिवधर्मः शिअत्वमस्यमस्तिति
शिवधर्मिणीति । दीक्षा सार्थकत्वम्

इयं च परापरभेदेन द्विधा भवती । तत्र परा साक्षात्
परशिवत्वप्राप्तिहेतुः । अपरा तु देहभङ्गव्यतिरेकेण स्वेच्छाय
परिगृहीत दिव्यशरीरेण यथेष्टभोगभुवनेषु यथेष्ट
भोगानन्तरं परशिवत्वप्राप्ति हेतुः ।

तथा बालज्ञानरत्नावल्याम्

शिवधर्मिण्यणोर्मूलं शिवधर्मफलश्रियः ।

प्। ८४०)

परे तथापि नाभङ्गतनोराविलयाद्भुवामिति । लोकधर्मिणी च
परापरभेदेन द्विधा । तत्र परा तत्र भुवनेषु भुक्त भोगस्य
देहोत्तरकालमेव शिवत्वप्राप्ति हेतुते । अपरा तु भोगार्थिनोपि
देहोक्तरमणिमादि सिद्धिप्रदा । तदुक्तं तत्रैव भोगभूमिषु
सर्वासु दुस्कृतांशेहते सति । देहोत्तराणिमाद्यर्थं
शिष्टेष्टालोकधर्मीणी ॥ इति । अणिमादि सिद्धयश्च साञ्जना
निरञ्जनाश्च तत्र साञ्जनाः । पादञ्जलादि
योगशास्त्रदिद्धाः । निरञ्जनास्तु शैवमन्त्र
साधनसामर्थ्यदिस्द्धाः । तदुक्तं कामिके

काम्याश्च सिद्धयोज्ञेया सिद्धयो बहुधा स्मृता । कन्यसमत्र
अप्तित्वं च मद्धमं विलसिद्धयः ॥

उत्तमं वे चरित्वं च श्रेष्ठं देवसमानतः । विद्यते
बहुधेकैकं विद्येशत्वादि भेतदः ॥

विद्येशत्वं च रुद्रत्वं ब्रह्मस्त्वं वैष्णवं पदम् । माया
कार्येमरेशादि रुद्रस्थानेषु यत्सुखम् ॥

अपरं तत्परं विद्यादनन्तादिपदस्थिति । पुर्वोक्त शिवधर्मिणी
लोकधर्मण्योः दीक्षायामधिकारिनिरुपणम् ।
ज्ञानरत्नावल्यमुदाहृतम् तद्यथा

द्वेधा निर्वाणदीक्षासौलौकिकी शिवधर्मिणी । गृहीणां
लौकीकी ज्ञेया लिङ्गीनां शिवधर्मिणी ।

प्। ८४१)

शिखाच्चेदो न यत्रास्ति दीक्षा सा लोकधर्मिणी । शिखा
खण्डेन संयुक्ता दीक्षा सा शिवदर्मिणीती ॥

तथा मायातत्वविशुद्धौ तु शिखां यस्याम् विनिर्दहेत् ।
शिवधर्मित्व सङ्ख्या तु सा दीक्षा शिवधर्मणी ।
शिखाश्छेदं विना यान्या दीक्षा सा लोक धर्मिणी ।
तथारधिकारभेदाद्वैविद्धं विषयभेदादाह
नित्यमात्राधिकारित्वात् समयिन्यपि पुत्रके । दीक्षा निरधिकारैव
नैमित्तानधिकारिणी । नैमित्तिकाख्य दीक्षा प्रतिष्ठादि कर्म
करणाधिकारानर्हे समयिनि पुत्रकेऽपि
नित्यमात्राधिकारित्वान्धेतोद्दीक्षा निरधिकारैव
नैमित्तिकाद्यधिकाररहितैव साधकाचार्ययोः साधिकारेत्याह

साधकाचार्ययोन्नित्यं नैमित्तिकाम्य कर्मसु ।
सर्वत्रैवाधिकारित्वात् साधिकारैव सा तयोः
साधकाअचार्ययोन्नित्यं नैमित्तिका काम्य कर्मसु ।
सर्वकर्माधिकारित्वा देव सा दीक्षा तयोः साधकाचार्ययोः
साधिकारैव ।

तथा कालोत्तरे

नित्याति त्रितयं कार्यं व्याख्यानं देशिकेन तु । नित्यं
काम्यं साधकस्या स्वशास्त्रोक्तं षडानना ॥

प्। ८४२)

समयी पुत्रकाभ्यान्तु नित्यमेवं प्रकीर्तितमिति । अथ समयी
पुत्रकसाधकाचार्याणां दीक्षा भेदादेव लक्षन भेद इती ।
दर्शयन्नाह

यत्र रुद्रपदे योगोयोगी विद्वेश्वरे पढे । शिखाच्छेदोन यत्रास्ति
दीक्षा सा समयी द्विथा ॥

यत्र समयदीक्षायां रुद्रपदे योगशिष्यस्य संयोजनं सा एका
। यत्र ईश्वरपदे योगशिष्यस्य संयोजनम् सा स्परा इति सा
समयी समयदीक्षा द्विधा । यत्रा शिखाच्छेदो
नस्तीत्येतद्वस्तुतः समयदीक्षायां शिखाच्छेदाभवात्
स्वरूपकथनमात्रमेव न तु लक्षणेज्ञतम् । तत्र
शिखाच्छेदस्य निर्वाणदीक्षाङ्गत्वा देवाप्रसक्त्रेः । तथा च
रुद्रपदप्रापक समय दीक्षत्रा संस्कृतः । समयी
ईश्वरपदप्रापक विशिष्ट समय दीक्षया संस्कृतः । पुत्रक
इति लक्षणमुक्तं भवति । एवं च समयदीक्षामात्रेण
रुद्रपद प्राप्तिः । समय विशेषा सदीश्वर पद
प्राप्तिरित्यप्युक्तं भवति । अथाभिषेकरहिता निर्वाणदीक्षापि
पुत्रके भवतित्याह

यत्र पाशशिखाच्छेदो योगः शिवपदे भवेत् । निर्वाणाख्या तु
सा सैवपुत्रके नाभिषेकतः ॥

यत्र दीक्षायां पाशशिखाच्छेदः ।

प्। ८४३)

निवृत्यादि पञ्चकला स्थानावशिष्टसूत्र शिखाच्छेदः । यत्र
च शिवपदयोगः सा निर्वाणाख्या दीक्षा तु पुत्रके भवेत् ।
कार्योत्यर्थः । स्यैव अभिषेकतो न अभिषेकरहितेत्यर्थः ।
तथा चानभिषेकनिर्वाण दीक्षितोऽपि पुत्रश इत्यर्थः ।
निर्वाण दीक्षा यामपि साध्यमन्त्राभिषेकेण साधका । सर्व
विद्याभिषेकेणाचार्य इत्याह

साध्यमन्त्राभिषेकाच्च साधके सा प्रकीर्तिता । सर्व
विद्याभिषेकेण भवेत् साचार्यगोचरे ।

यस्य मुक्तिकामनां विना अणिमादि सिद्धि सादनापेक्षयेन
मन्त्रेण भवेत् । स च मन्त्रस्तस्या साध्यो भवति । तेन
मन्त्रेणाभिषेकात् । सा दीक्षा साधके प्रकीर्तिता । तथा च
साध्यमन्त्राभिषेक्त साधक इति लक्षणम् । सर्वविद्याभिषेकेण
तु सर्वमन्त्रैरभिषेकेण तु सा दीक्षा आचार्यगोचरे ।
आचार्यविषये भवेत् । तथा च सर्वविद्याभिषिक्तरूपक इति
लक्षणमुक्तं भवति ।

कालोत्तरे

एवं ज्ञात्वा प्रयत्नेन लयभोगौ प्रकल्पयेत् । अज्ञात्वा
लयभोगौ तु ये दीक्षां कुरुते गुरुः ॥

आचार्यः सह शिष्यैस्तु नरके रौरवे पचेत् । देशिकस्तु
प्रयक्तातु ज्ञात्वा दीक्षां समाचरेत् ॥

एवं दीक्षा बीजज्ञानमर्थमधिकारि भेदवशाद्दीक्सा भेदं
पाद्यानिगमयति ।

प्। ८४४)

शिवसंस्कारयुक्तस्य यच्छिवत्वसमर्पणम् । क्रियया वाथ
शक्त्या वा दीक्षा सा सर्वतो मता ॥

क्रिययावकुण्डमण्डलपूर्विकाया वा शिवसंस्कार युक्तस्य
साधिकरण निरधिकरण शिवकृत संस्कारस्य यद्यस्मात्
कारणाच्छिवत्व समर्पणं भवती । तस्मात् पूर्वोक्त
चाक्षुष्याद्यनेक भेद भिन्ना दीक्षा सर्वतः सकल प्रलयाकल
विज्ञानाकल भेदभिन्न त्रिविध सर्व पशुषुमता । शक्तिपाद
वा शाक्तदधिकारानुरोधेन कार्येत्यर्थः । एवं दीक्षां
प्रतिपाद्य फलप्रदानेन निगमयति । दीक्षया मुच्यते देहि
त्रिविधाद्भवबन्धनात् । देही शब्देन जात्येकवचनम् ।
त्रिविधपशुरपि त्रिविधाद्भवबन्धनात् मलमायाकर्मरूपात्
संसारपाशामुच्यते मुक्तो भवति ।

वामदेवे च

ज्ञानेन क्रियया वाथ गुरुशिष्यं विशोधयेत् ।
अथाध्वशुद्धिपरिज्ञानस्यापि दीक्षाबीज तथा वर्णयुतुं स
चाध्वा षड्विध इत्याह । सा च दीक्षाध्व संशुद्धिः स
चाध्वा षड्विधस्मृतः ।

प्। ८४५)

आ संसारमोचिका दीक्षा चाध्व संशुद्धिः । अध्वा
शुद्धिरूपा स दीक्षाङ्ग भूतोऽध्वा च षड्विधस्मृतः ॥

ता एव विधाः संहारक्रमेणोद् दिशति । मन्त्राध्वा च पदाध्वा
च वर्णाध्वा भुवनात्मकः ॥

तत्वाध्वा च कलाध्वा च विंशत्येकं पदं शिवम् ॥

मन्त्रपदवर्ण भुवनतत्वकलारूपषड्विधोध्वापि ॥

येकं सर्वोत्तर तथा मुख्यं शिवं शिवतत्वाख्यं पदं
विंशत्येकत्रैव वयं याति दीक्षायामिति शेषः । तथा च
दीक्षायां मन्त्रादिषड्वनां शिवतत्वे सङ्क्षिप्य शोधने
कृते सत्यग्नि दग्धबीजानामिव तेषां पुनर्नग्नभोगार्हत्वम्
अनेन शैवमुक्तानां शिवतत्व एव सर्वोत्तरज्ञते दीक्षा
संयोजनेन शिवतत्वाद्भिव्यक्ति मुक्तिरिति गम्यते । मुक्तः सृष्टौ
पुर्मवरोभ्येह्यति नाथ इति मृगेन्द्रवचनेन शिवतत्वादवस्तेषां
पुनर्निवृत्य भावात् पुनरावृत्तिरहितत्वमेव खलु परमुक्तत्वम् ।
मन्त्रादि षडध्वानां च उत्तरोत्तर व्यापकतया विभाव्यः
शोधनं कर्तव्यमिति तद्व्याप्ति प्रकारमेवाह । मन्त्राः प्रदानि
वस्त्रैश्च व्याप्तानि सकलन्ते तः । वर्णास्तु भुवनै
व्याप्तास्तत्वैर्व्याप्तानि तानि च कलाभिस्तानि तत्वानि
व्याप्तानिहकलमक्रमत् ।

प्। ८४६)

शोधनीया विभावेवं पञ्चपञ्चात्वगर्भिताः । मन्त्राः
पदैर्वाप्ताः । पदानि च वर्णैः । वर्णाश्च भुवनैर्भुवनानि
तत्वैस्तत्वानि च कत्वाभिर्वाप्तानि इत्येवं पञ्चकला अपि क्रमात्
पञ्चाध्वकभिता विभाव्य शोधनीयाः तथा चोक्तं
त्रिलोचशिवाचार्यैः व्याप्य व्यापक भावनात्र हि पदैर्मन्त्राः
पदान्यक्षरै

वर्णास्ते भुवनैश्च तानि च तथा व्यापकानि तत्वैरिमे ।
व्याप्यव्यापकभावगा इह कलास्ताभि गृहीता इमे ॥

कलानां पञ्चाध्वगर्भितत्वमेव प्रतिपादयितुं ता सा शोधन
स्थानान्यप्याह

निवृत्तिश्च प्रतिष्टा च विद्याशान्तिश्च नाभसि । कला
हृत्कण्ठतालु भ्रूब्रह्मरन्ध्रावधिक्रमात् ॥

अत्र नाभसि शब्देन शान्त्यतीतोच्यते तत्सम्बन्धित्वात्तस्याः ।
निवृत्ति प्रतिष्ठा विद्याशान्तिः शान्त्यतीतेत्यताः
कलाक्रमेण हृत्कण्ठतालु भ्रूब्रह्मरन्ध्रावधि एतेषु
स्थानेषु विभाव्य शोधनीया इत्यन्वयः । अथ निवृत्यादि
पञ्चकलासु तत्वादि पञ्चध्वनां शोधनार्थं सङ्क्षेप
प्रकारं क्रमेणाह

प्। ८४७)

निवृत्तौ पार्थिवं तत्वं चिन्त्यमेकं क्षमक्षरम् । कालानि
प्रभृतिनां तु पुरामष्टोत्तरं शतम् ॥

अन्त्यात्पदा महादेवपदावधि विलोमतः व्योम व्यापि
पदान्यष्टाविंशतिः । परिसङ्ख्यया सद्योजातश्च हृदयद्वौ
मन्त्रौ परिकीर्तितौ गुणागन्धादि शन्दान्ताः । पञ्चब्रह्मा च
कारणम् । निवृत्तौ निवृत्तिकलायां पर्थिवं तत्वं
पृथिवीतत्वमेकम् । चिन्त्यं शोधनार्थमन्त्रर्भाव्यम् ।
तत्वाध्वायम् अक्षरं तु क्षकरः । वर्णाध्वायं
कालाग्निप्रभृतिनां पुरां भुतनाना मष्टोत्तरं शतम् ।
अयं भुवनाध्वा अन्यपदादारभ्य महादेव पदावधि विलोमतः
प्रतिलोम्येन व्योमव्यापि पदानि परिसङ्ख्ययाष्टाविंशतिः ।
अयं पदाध्वा सद्योजातहृदयमन्त्रौ द्वौ मन्त्राध्वा गन्धादिः
शब्दान्ता गन्धास्वरूपस्पर्शशब्दा गुणाः । ब्रह्मा च
कारणेश्वरः । ननु प्रतिष्ठायां वा दि चतुर्विंशति
तत्वाधि शोधनीया नित्यनुपदमेवोच्यते । अतः कथं निवृत्तौ
गन्धादि शब्दान्तानां सङ्क्षेपः । उच्यते तत्रागन्धादीनां
तत्वत्वेन सङ्क्षेपः । अत्र गुणत्वेनेति ।

प्। ८४८)

न विरोधः । ननु अत्र च गन्धादि गुणानां ब्रह्मणः
कारणेश्वरस्य च सङ्क्षेपो न युज्यते । तेषामध्वत्वाभावात् ।
अध्वशुद्धिखल्वयन्तीक्षेति चेत् सत्यम् । पृथिवि तत्वशोधने
तत्सम्बन्धिनामपि शोध्यात्वात् । अस्तु तथापि गन्धादिनां
शोध्यत्वादन्तर्भावः । कारणेश्वरस्य कथं शिवपदगं तु
रात्मनो निष्प्रतिबन्धमानुकूल्यानु ग्रहार्थमेव । ननु शोधनाय
पृथिवी तत्वाधिकारित्वात्तसम् । अथ प्रतिष्ठाकलायां
सङ्क्षेप प्रकारमाह । प्रतिष्ठायां बधिनीदि चतुविंशति
सङ्ख्याया प्रकृत्यन्तानि तत्वानि ज्ञातव्यानि स्वभावता
त्रयोविंशति वर्णाश्चटातिहान्ता विलोमता ।
ज्ञातव्यान्यमरेशादि षट् पञ्चाशत् पुराणी च ।
महेश्वराद्यरूपान्ता पदानामेकविंशतिः । शिरोवामश्च
मन्त्रौ द्वौ चत्वारस्तु गुणास्मृताः ॥

रसादि शन्दपर्यन्ता विष्णुरत्र च कारणम् । निगद एव
व्याख्यानम्

अथ विद्याकलायां सङ्क्षेप प्रकारमाह । विद्यायां
सप्ततत्वानि पुरुषादीन्यनुक्रमात् । वामादि भुवनानां च
विज्ञेया सप्तविंशतिः ॥

प्। ८४९)

ध्याना हाराय पर्यन्ता व्यापिन्नित्यतिः पदादितः । पदानां
विंशति मन्रौ शिखा घोरौ व्यवस्थितौ ॥

न्त्र्यकारादि वकारान्ता वर्णास्थप्त विलोमतः । रूपं स्पर्श
च शब्दश्च गुणा रुद्रस्तु कारणम् ॥

इदमपि निगव्याख्यानम्

अथ शान्तिकलायां सङ्क्षेप प्रकारमाह । शान्तौ तु त्रीणि
तत्वानि विद्येश्वरः सदाशिवाः । गखकाश्च त्रयो वर्णा
मन्त्रौ वक्रतनुच्छदौ । वामामुख्य पुरान्यष्टादशैव
परिसङ्ख्यया । नित्यं योगिन इत्यादीन्येकादश पदानि च ।
व्योमव्यापि न इत्यन्तान्युक्तानिह विलोमताः । गुणास्पर्शश्च
शब्दश्च द्वावीश्वरस्तु कारणम् । इदं निगतव्याख्यानमेव ।
अथ शान्त्यतीतकलायां सङ्क्षेपप्रकारमाह । शान्त्यतीत
कलायां तु शिवतत्वं व्यवस्थितम् । निवृत्यादि पुरान्यत्र
भवत्नि दशपञ्च च । मोमित्येकं पदं मन्त्रास्वस्त्रेशान
शिवास्त्रयः । विसर्गाद्वा अकारान्ता वर्णाः षोडशकीर्तिताः
। भवेत्येको गुणाः शब्दकारणं तु सदाशिव । इदमपि
निगदव्याख्यानमेव ।

प्। ८५०)

एतेषां वक्ष्यमाणो देशक्रमेणैव व्याख्यान सम्भवात् ।
एवमध्व सङ्क्षेपप्रकारमुक्त्वा शक्ति शिवतत्वे अपि भावनीये
इत्याह । इत्यध्वानं विचिन्त्याथ षडध्वव्यापिनीं परां
ध्यात्वा शक्तिं तदूर्ध्वं तु भावयेत् परमं पदम् इती
पूर्वोक्त सङ्क्षेप प्राक्रेणा ध्वानं षडध्वानोपि विचिन्त्य
विभाव्य जातावेकवचनम् । अथानन्तरं डडध्वव्यापिनीं
डडध्वव्यापकत्वेन परां शक्तिं ध्यात्वा । तदूर्ध्वं
पराशक्तेरूर्ध्वं परमं पदं लयापरपर्यायं
शिवतत्वाख्यं पदं तत्रैव मुक्तानामवस्थिते । भावयेत् ।
शिष्यसंयोजनार्थ मिति शेषः । शिवतत्वादधस्तान
सर्वतत्वानां सम्यग्भा वनाभावे शिवतत्वं दुर्विभाव्यमेवेति
तु शब्दार्थः । भावना च सम्यक् परिज्ञाजपूर्विका अज्ञातस्य
दुर्विभाव्यत्वात् । अत्र इदमेव सर्वदीक्षा बीजानां परमम् ।
एवमध्वसङ्क्षेप प्रकारमुक्त्वाध्वस्वरूपा परिज्ञाने तत्
सङ्क्षेप एव दुर्घट इति दीक्षोपयुक्ताध्वानस्तद्भेदाश्च इयं
त एवेति कथयितुं प्रतिजानीते । अथ दीक्षोपयुक्तानां
क्रमेणैव षडध्वानाम् इयत्तया समुद्देशः कथ्यते
त्रभिवागशः । कथ्यते विभज्योच्यत इत्यर्थः । तत्र
मन्त्राध्वविभागमाह

सद्यो वामस्तथा घोरपुरुषेशाश्च वृच्छिरः ।

प्। ८५१)

शिखावर्मा सूत्रमूले च मन्त्राध्वासमुदीरितः
सद्योजातवामदेवा घोरतत्पुरुषेशाना हृदयशिरः शिखा
कवचनेत्रास्त्रमन्त्राश्च मूलमन्त्रेण सह द्वादशापि
मन्त्राध्वेति परिकीर्तितः। एतेषाद्धारक्रमस्तु कारणे यथा

ष्डशस्वरसङ्ख्ये तु नपुंसकविवर्जिते । द्वादशस्वरसङ्ख्येन
नादाख्यार्ण समन्वितम् । व्योमग्नि भूतवर्णाश्च सप्तमं
नवमं तथा ॥

बिन्दुनादसमायुक्तं ब्रह्मपञ्चकमुच्यते । सद्य्ं वाममघोरं च
तत्पुरुषेशानकौ द्विजा ॥

ब्रह्माह्यनुक्रमेणैव नमस्कारान्तकानि तु । द्वितीयेन चतुर्थेन
षष्टेनैवाष्टमेन च ॥

दशद्वादशवर्णाभ्यां षडष्टानि विधीयते । हृदयं च
शिरश्चैव शिखा कवचमेव च ॥

नेत्रमस्त्रं षडङ्गानि कीर्तितानि क्रमेण तु । हृदादि
नेत्रपर्यन्ता बिन्दुयुक्ताः प्रकीर्तिताम् ॥

अस्त्रं विसर्गपर्यन्तं जाति षट्कसमन्वितम् ।
नमस्वाहावषड्वौ षट् हुम्फट् कारक्रमेण तु॥

एते वै जातिषष्त्कं स्याद्धृताद्यस्त्रान्तयोजिता । प्रणवं
चादितः कृत्वा वर्णोच्चारमनन्तरम् ॥

अपिधान चतुर्थन्तं नमस्कारादि संयुतम् ।

प्। ८५२)

ब्रह्माङ्गानामथोच्चारं सरकार्येषु पूजितम् । तथा
क्रियाकरणमण्डले

अक्लीब व्योमवर्गे तु रन्ध्रषीषु गुणेदवः । ईश
पुङ्घोरवामान बीजानि हृस्वमुच्चरेत् ॥

तत्रैव वर्गे दृग्वेदरसेभाः पङ्क्तिमानवः ।
हृदयाद्यङ्गबीजानीख्याता वर्णा इमे क्रमात् ॥

सान्तं षष्टं सजम्भारि बिन्दुनादसमन्वितम् । सम्प्रदान शिवो
मन्त्रो हृद्धूपेनाभि योजितः ॥

इति तथा सर्वज्ञानोक्तरे च मूलमन्त्रोद्धारो यथा । हृदीजात
पञ्चमे बीजे षष्टं बीजं नियोजयेत् ॥

मात्रा त्रय समायुक्तं मूर्ध्नि बिन्दुं प्रदापयेत् । शिवमेवं
विधं विद्यात् सर्ववर्णेष्वनुक्रमादिति विनियोगभेदश्च
तत्रैविह्रस्वदीर्थप्लुतानन्तान्यथा कामं प्रकल्पयेत् । अत्र
ह्रस्व शब्देन ब्रह्माण्युच्यते । दीर्घशब्देनाङ्गानि प्चुतशब्देन
मूलमन्त्रः ॥

अनन्तशब्देनापि समनन्तः स एवेति व्याख्यातमघोर
शिवाचार्यैः ।

ह्रस्वोदहति पापानि दीर्घस्तूच्चाटने ध्रुवम् । आप्य्तावने प्लुतं
युज्यादनन्तं मुक्तिकर्मणीति विनियोग भेदोप्लुक्तः तत्रैव
नमस्कारान्त संयुक्तान्नर्चनै सम्प्रयोजयेत् ।

प्। ८५३)

होमे स्वाहान्त संयुक्तान शान्तिकाकर्षपौर्विके ।

वक्ष्ये च सम्प्रयोक्तव्या स्वाहाकारान्तसंयुता । इति ननु ह्रस्वे
ब्रह्माणि कल्प्यानि दीर्घेरङ्गानीति बह्वागमवचनात् ।
ब्रह्मणां ह्रस्वम् एव वक्तव्यात् । तथा च सध्यक्षराणां
ह्रस्वान सन्तितिन्यायेन कथमोङ्कार एकां योरीशान
तत्पुरुषबीजत्वम् । उच्यते । यदाहुः शिक्षाकाराः ।
छन्दोगानां सात्यमुग्रीरायनीया हस्तमेकारं हस्तमोकारं च
पठन्तिति ननु । मन्त्राध्वेति कथं ब्रह्माङ्गमूलमन्त्रा
एवोच्यन्ते । सप्तकोटि महामन्त्राणामपि विद्यमानत्वादिति चेत् ।
सत्यं सप्तकोटिमन्त्राणां दीक्षायां शोधयितु
मशक्त्याक्त्वात्तेषां सर्वेषामप्यनेत्रवान्तर्भावादेते षामेव
शोध्यत्वेनोपयोगाच्चयेतेषामेव
मन्त्राध्वत्वमुक्तमुद्यमित्यविरोधः । एवं मन्त्राध्वानमक्त्वा
पदाध्व स्वरूपमाह । एकाशीति पदैरेवं पदाध्वा
परिकीर्तितः । एतेषाम् एकाशीति पदानां तद्वर्णानां च
इयक्ताया परिच्छेद स चत्तद्देवताश्च सिद्धान्तशेखरे
प्रदिपादिताः । तद्यथा ओमित्येकाक्षरं तत्र पदं तत्
स्याच्छिवान्त्यकम् ।

प्। ८५४)

पञ्चवर्णं द्वितीयं वैस्याद्योमव्यापिने पदम् । त्रितीयं
व्योमरूपाय पञ्चवर्णं पदं भवेत् ॥

पञ्चवर्णं चतुर्थं तु स्यात् सर्वव्यापिने पदम् । त्र्यक्षरं च
शिवायेति पञ्चाङ्गानां पदानि च ॥

अनन्तायेत्यनन्तस्य वाचकं चतुरक्षरम् । अनाथायेति सूक्ष्मस्य
पदं स्याच्चतुरक्षरम् ॥

अनाश्रिताय पञ्चार्णं स्याच्छिवोक्तमवाचकम् । त्र्यक्षरं च
धृवायेति ह्येकनेत्रस्य वाचकम् ॥

शाश्वताय चतुर्वर्णमेकरुद्रस्य वाचकम् । अष्टाक्षरं
योगपीठसंस्थिताय त्रिमूर्तिनः ॥

श्रीकण्ठस्य पदं नित्यं योगिने पञ्चवर्णकम् ।
ध्यानाहाराय पञ्चार्णं वाचकं तच्छिखण्डिनः ॥

ॐ नमः शिवाय पदं गायत्र्यश्च षडक्षरम् । पञ्चाक्षरं
च सावित्र्याः स्यात् सर्वप्रभवे पदम् ॥

त्र्यक्षरं च शिवा एति विद्येशानां च पूजने ।
पदमीशानमूर्धाय चेशानस्य षडक्षरम् ॥

स्यात् तत्पुरुषवक्त्राय सप्तार्णं पुरुषस्य तु ।
अघोरहृदयायेति सप्तार्णं बहुरूपिणः ॥

स्याद्वामदेव गुह्याय सप्तार्णं वामदेवके । सद्योजातस्य
सप्तार्णं स्यात् सद्योजातमूर्तये ॥

प्। ८५५)

स्यादोन्नमो नमस्तु स्यात् पञ्चार्णं चण्डवाचकम् । गुयाति
गुह्याय पदं षड्वर्णं हृदयं ततः ॥

गोप्त्रे वर्णद्वयं तस्याच्छिरसो वाचकं मतम् । चतुर्वणं
शिखाया स्यान्निधनाय पदं मतम् ॥

सर्वविद्याधिपायेति कवचं सप्तवर्णकम् । ज्योतिरूपाय
पञ्चार्णं पदं स्यादस्त्रवाचकम् ॥

नेत्रमष्टाक्षरं प्रोक्तं परमेश्वरपूर्वकम् । पराय
चण्डनाथस्य षडङ्गान्युदितानि तु ॥

अचेतनाचेतनेति सप्तार्णं तस्य चासनम् । व्योम व्योमपदं
ज्ञेयं धर्मस्य चतुरक्षरम् ॥

व्यापिन्यापिन्य्त चौर्वर्णं पदं तत्ज्ञानवाचकम् ।
अरूपिन्नप्यरूपिन्यै वैरागे तु षडक्षरम् ॥

प्रथम प्रथमेत्येदैश्वर्येतु षडक्षरम् । तेजस्तेजं
चतुर्वर्णं कर्णिका वाचकं पदम् ॥

ज्योतिश्चतुर्वर्णम् अनन्तस्य पदं मतम् । केसराणामघश्चोर्ध्वं
द्वात्रिंशच्च पदं मतम् ॥

अरूपानग्निधूमेति स्यादभस्मपदं ततः । अनादे चाथ नानाना
धूधूधू च पदं तथा ॥

स्प्तैतानि पदानि स्यु स्र्यक्षौणि शिवागमे । ॐ भूश्च
द्वक्षरं मन्त्र ॐ भुवश्च त्रिवर्णकम् ॥

प्। ८५६)

ॐ स्वोवर्णद्वयञ्चानिधनेति चतुरक्षरम् । निधनत्र्यक्षरं
ज्ञेयं पञ्चार्णं निधनोद्भवः ॥

शिवेदिभ्यक्षरं सर्वपदं च भ्यक्षद्यक्षरं मतम् ।
परमात्मं चतुर्वर्णं चतुर्वणं महेश्वरः ॥

महादेव चतुर्वर्णं सद्भावेश्वरवाचकम् ।
महातेजश्चतुर्वर्णं योगाधिपदये पदम् ॥

पञ्चार्णं मुञ्चमुञ्चेति चतुर्वर्णं पदं मतम् । प्रमथ
प्रमथेत्येवं षडध्वर्णं पदमीरितम् ॥

शर्व शर्व चतुर्वर्णं तथा भवतवेदि च । भवोद्भव
चतुर्वर्णं सर्वभूतसुखप्रदम् ॥

अष्टार्णं सर्वसान्निध्यकर स्यात् सप्तवर्णकम् ।
ब्रह्मविष्णुरुद्रपरानर्चितानर्चितेति च ॥

असंस्तुता संस्तुतेति पूर्वस्थित पूर्वस्थिता । अष्टाक्षराणि
चत्वारि पदानि च शिवागमे ॥

द्वात्रिंशत् केसराणां स्युपदान्यपि यथागमम् । साक्षिन्
साक्षिन् चतुर्वर्णं पदं स्यात् पत्रवाचकम् ॥

इन्द्रादीनां पदान्यष्टौ वक्ष्यन्ते क्रमशो यथा । चतुर्वर्णं
तुरु तुरु षट् पतङ्गपतङ्गवै ॥

पिङ्ग पिङ्ग चतुर्वर्णं ज्ञान ज्ञान तथा मतम् । शब्द शब्द
चतुर्वर्णं सूक्ष्म सूक्ष्म तथा पदम् ॥

प्। ८५७)

शिवेतिद्यक्षरं सर्वपादं चाष्टौ दिशा भूताम् । त्र्यक्षरं
सर्वपदं सर्वदियाधिपे मतम् ॥

ओन्नमो नमः पञ्चार्णं पदं ब्रह्म शिरोमतम् । ॐ शिवाय
चतुर्वर्णं रुद्राह्यावाचकं पदम् ॥

नमो नमश्चतुर्वर्गं पदं पाशुपते मतम् । मोमित्येकाक्षरं
चिन्त्यं व्रजादीनां च वाचकम् ॥

अष्टदष्ट्याधिकं प्रोक्तं वर्णानां च शत्रत्रयीम् ।
एकाशीति पदान्येवं पदाध्वा परिकीर्तिता ॥

इति तथा षट्सहस्रकालोत्तरे च शिवतनुवर्णतपटले पदानि
व्याख्यानं पूर्वकं प्रतिपाद्य शिवसद्भावपटले आदावेव
तदन् वातोक्षर सङ्ख्या च प्रतिपादिता ।

तद्यथा

अथ सङ्ख्या शिवस्योक्ताक्षराणां शतत्रयम् ।
अष्टषष्ट्यधिकं शम्भोर्गुह्यमन्त्र विनिर्गतम् ॥

मन्त्रार्थश्च पुरा प्रोक्ता विद्येशानेन सम्भवेदिति ।

अथ वर्णाध्वानमाह

अकारादि क्षकारान्तो वर्णाध्वा परिकीर्तिताः । इदं
निगतव्याख्यानमेव । अथ भुवनाध्वानस्तत्वेष्यन्तर्भाव
वर्णनद्वारैव कत्वा स्वपीयत्तेत्ता चच्छेदेनैव सङ्क्षेपमाह ।

प्। ८५८)

कालाग्नि रथकूश्माण्डं हाटकब्राह्मविष्णवम् । द्रौद्रं च
भुवनान्यन्त ब्रह्माण्डस्य स्थितानि षट् ॥

कपाली शस्त्वजो बुद्धो वज्र देह प्रमर्दना । विभूतिरव्ययः
शास्त्रा पिनाकी त्रिदशाधिपा ॥

अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः । ज्वलनो दहनो
बभ्रर्भस्मान्तकक्षयान्तका ॥

याम्यो मृत्युर्हरोधाता विधाता च तथा परः । कर्ता योक्ता
वियोक्ता च धर्मोधर्मपतिस्तथा ॥

निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानका । ऊर्ध्वरोफो
विरूपाक्षो धूम्र लोहित दंष्ट्रिणः ॥

बलश्चाति बलश्चैव पाशहस्तो महाबलः । श्वेतोथ
जयभद्रश्च दीर्घहस्तो जलान्तकः ॥

मेघनादः सुनादश्च दशमः परिकीर्तितः ।
शीघ्रोलखुर्वायुवेगः सूक्ष्मः स्तीक्ष्णः क्षयान्तकः ॥

पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः । निधीशो
रूपवान्धन्य सम्यग्देहो जटाधरः ॥

लक्ष्मी धृग्रत्तधृक् श्रीधृक् प्रसादश्च प्रकामतः ।
विद्याधिपेशौ सर्वज्ञो ज्ञानभिग्वेदपारगः ॥

स्मरेशशर्वौ ज्येष्टश्च भूतपालो बलि प्रियः । वृषो
वृषधरोनन्तः क्रोधनो मारुताशनः ॥

प्। ८५९)

ग्रस्तोदुम्बरीशौ च फणीन्द्रो वज्रदंष्ट्रिणौ ।
शम्भुर्विभुर्गणाध्यक्ष स्त्रियक्षस्त्र दशेश्वरः ॥

संवाहश्च विवाहश्च नभो लुप्सु स्त्रिलोचनः । वीरभद्रो
भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ॥

एतेषां श्लोकानामुपद्देशरूपत्वादेव पदच्छेदमात्रेणैवार्थ
निर्वाह स्वकरः । अथै तेषा मुद्दिष्टानां मादौ षट्
ब्रह्माण्डमध्यत इत्युक्तम् । अन्येतु प्रागादि प्रदिति दिशं दश
दश ब्रह्माण्डोर्धञ्च भुवनद्वयमिति तेषामाति ग्रहणेन
विभागं करोति । कपालीशादशः प्राच्यामग्नि रुद्रादयोऽनले ।
यम्याद्या दक्षिणे भागे निॠत्याद्यास्तु नैऋते ॥

बलाद्या वारुणे भागे शीघ्राद्या वायुगोचरे । उत्तरे तु
निधीशाद्या ईशे विद्याधिपादयः ॥

वृषादयस्त्वयो भोगो शम्भु मुख्यास्तदूर्ध्वतः । ब्रह्माण्डस्य
बहिर्देशे दशदिक्षु व्यवस्थिताः ॥

अथैव निवृत्तिकलायां कालाग्नि प्रभृति भुवनानामष्टोत्तरं
शतमित्यु संहरति । एवं कालाग्नि मुख्यानां पुराणां
परिसङ्ख्यया । निवृत्यादि कलायां तु ज्ञेयमष्टोत्तरं शतम्
। एवं निवृत्ति कलावर्ति तत्व स्थित भुवनान्यभिधाय
प्रतिष्ठा कला स्थिताप्रत्वादि वर्तिभुवनान्याह ।

प्। ८६०)

अमरेशः प्रभासश्च नैमीशः पुष्करौषधः ।
डिण्डिमुण्डस्तिथा भारभूतिश्च लकुलीश्वरः ॥

हरिश्चन्द्रोऽथ श्रीशैलोकल्पेशाम्रादि केश्वरौ । मध्यमेशो
महाकालः केदारो भैरवस्तथा ॥

गया चैव गुरुक्षेत्रन्नाखलो नखरुस्तथा ।
विमलेशोट्टहासश्च महेन्द्रो भीमकेश्वरः ॥

वस्त्रापदो रुद्रकोटी रविमुक्तो महाबलः । गोकर्णभद्रकर्णश्च
स्वर्णाक्षस्थाणुरित्यपि ॥

छगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः ।
कालञ्जरशङ्कुकर्ण स्तलेश्वरस्थलेश्वरः ॥

पैशाचं राक्षसं यक्षं गान्धर्वं चैन्द्रमेव च । सौम्यं
चैव तथा ज्ञेयं प्राजेशं ब्राह्ममष्टकम् ॥

अकृतञ्च कृतं चैव भैरवं ब्राह्मविष्णवम् । कौमारं च
तथा चौमं श्रीकण्ठाष्टमं तथा ॥

एवमुद्दिष्टनामेव प्रतिष्ठाकालावर्त भुवनानां तत्र
स्थितत्व पञ्चाशदिति विभागं करोति । अमरेशादि चाप्तत्वे
हरिश्चन्द्रादि तेजसी ॥

गयादि वायुतत्वे च व्योमनी वस्त्रा पदानि च ।
छगलण्डाम्यहङ्कारे पैशान्याद्यर्मौस्थितम् ॥

प्। ८६१)

प्रकृता च कृताद्येवं षट्पञ्चाशत् पुराणि तु । ज्ञातव्यानि
प्रतिष्ठायाममरेशदिनामभिः ॥

अत्र चामरे शादयस्त्वादि गुह्याष्टकातिगुह्याष्टकगुह्यात्
गुह्याष्टक पवित्राष्टक स्थाण्वष्टकाख्याख्याताः ।
परमेश्वराज्ञया लोकानुग्रहाय भूलोकवासिनो लिङ्गभूताश्च
भवन्ति ।

तथा चोक्तं सर्वज्ञानोत्तरे

आदि गुह्याष्टका रुद्रा अतिगुह्याष्टकास्तथा ।
गुह्याद्गुह्याष्टकश्चैव पवित्राष्टकमेव च ॥

स्थाण्वष्टकाश्च पञ्चैते नियोगाद्भूमिवासिनः । अनुग्रहाय
लोकानां लिङ्गभूताः प्रतिष्ठिताः ॥

तेषामेव समीपस्थं यद्यत्तोयं षडानना । तत्तीर्थं
परमं पुण्यं तत्र स्नात्वा शिवं व्रजेत् ॥

ये त्यजन्ति सदा प्राणान् स्थानेष्वे तेषु मानवाः ।
ब्रह्माण्डन्ते विनिर्भीद्या यान्ति पञ्चाष्टकं पदम् ॥

अयं च तीर्थस्नान शिवक्षेत्रवासादि जन्य मोक्षस्त्वपरमोक्षः
। परमोक्सस्तदीक्षस्तु दीक्षयैव तद्व्यातिरेकेण परमोक्षयेव
नास्तिति प्रागेव निरूपितम् ।

अथ विद्याकलावर्ति भुवनान्याह

वामो भीमस्तथोग्रश्च भवैशानैक वीरकाः । प्रचण्डो
मापती चाजोनन्तैक शिव एव चा ॥

प्। ८६२)

क्रोधश्चण्डोद्युतिश्चैव संवर्तो लकुलीश्वरः ।
पञ्चाकैकवीरौ च शिखोदश्च महाद्युतिः ॥

वामदेवोद्भवोल्च्चैव भवाश्चाप्येक पिङ्गलः ।
एकेक्षणस्तथेशानस्तथेवाङ्गुष्ठमात्रकः ॥

अथैषां तत्वभेदेन विभागं करोति । वामादि पुरुषे रागे
प्रचण्डादिक पञ्चकम् ॥

नियत्यादिषु क्रोधादि महाद्युत्यादिमाधिके । वामादीनां
पुराणां च विद्यायां सप्तविंशतिः ॥

अथ शान्तिकला भुवनान्याह

वामा ज्येष्ठा च रौद्री च काली कलविकराणि च ।
बलविकरणी चैव बलप्रमथनी तथा ॥

सर्वभूतदमनी च मनोन्मनीत्यनन्तकः ।
सूक्ष्मशिवोत्तमश्चैकनेत्ररुद्रौ त्रिमूर्तिकः ॥

श्रीखण्डश्च शिखण्डी च ततैवान्यः सदाशिवः । शान्तौ
चाममुखान्यष्टादशैव भुवनानि तु ॥

अत्र शान्तिकला भुवनमध्ये मनोन्मनीति कारेण विद्यातत्वे
मनोन्मन्यन्त व ईश्वरतत्वेनन्ताद्यष्टकम् । सदाशिवतत्वे
सदाशिव एव

अथ शान्त्यतीता भुवनान्याह

प्। ८६३)

निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।
शान्त्यतीतेन्धिका चैव दीपिका रोचिका तथा ॥

मोचिका चोर्धका चैव व्यापिनी व्योमरूपिणी । अनन्ता च तथा
नाथनाश्रिता च तथा परा ॥

निवृत्यादिन्यतीतायां पुराणि दशपञ्च चा ।

निवृत्यादीनां स्वरूपं मृगेन्द्रे यथा

करोत्यन्मीलनं याम्यशक्तिनिर्नर तेजसः । तानिप्रत्यादि
सञ्ज्ञानं भुवनानामधीश्वरः ॥

निवर्तयति भूतानि यया सास्यान्निवृत्तिका । निवृत्तिरिति
तस्थानं तत्रेशोपि निवृत्तिमान् ॥

निवृत्तस्य गतिर्भूयो भूयः प्राच्यावलक्षणम् । निरुध्यते
प्रतिष्ठा सा स्थानं तद्वांश्च तत्पतिः ॥

त्यक्त्वाप्तगम्य विषयं यथा ज्ञानं ददात्यणेः । सा
विद्यास्त्नानमप्यस्य विद्येशश्च तदीश्वरः ॥

सर्वदुःख प्रशमनं ययास्या कुरुते हरः । सा
शान्तिस्तत्पदं चेति तत्कुर्वन् सोपि शान्तिमान् ॥

ऊद्धर्वोधो विषयाल्लोकान् महान्यश्च महत्तरः । महत्तमश्च
क्रियते चितोयायिर्विमुच्यतः ॥

ता इन्धिकाद्यास्थानानी तद्वानी शस्ति सृष्वपि । सर्वज्ञत्वादि
योगेऽपि नियोज्यत्वं मलां शतः ॥

प्। ८६४)

मार्जितं यया सास्य मोचिका तत्पदं च यत् । मोचकस्तत्क्रिया
कूर्चययेशानं करोतितम् ॥

सोध्वगा तत्पदं चेति तदीशश्चोर्ध्वगा पतिः । ये पि
तत्पदमापन्ना शैव साधनियोगतः ॥

ते तत् स्थित्यन्तमाह्याद्यं प्राप्ययानित् परम् पदम् । न च
सृष्ट्यादि कुवन्ति स्वाक्षनिष्ठाभि ते यतः ॥

इती अथोक्त भुवनाध्वानमुपसंहरति । एवं पञ्चकलावर्ति
भुवनानां शतद्वयम् ॥

चतुर्विंशोत्तरं यत्तद्भुवना ध्वनि वर्णितम् ।

सुबोधम्

अत्र चतुर्विंशत्युत्तरं भुवनशतद्वयं वर्णीतमित्यनेन
अन्यान्यपि दिव्यागमोक्त भुवनान्यत्र्यैवान्तर्भवन्ति ।
दीक्षायामेतावच्छोधनेनैव तेषामपि शुद्धि सम्भवति ॥

एवं भुवनाद्यानमुक्त्वा तत्वाध्वानमाह

अथ तत्वानि षट्त्रिंश पृथ्यप्तेजोमरुद्वियत् । गन्धे रुपो रस
स्पर्शशब्दोपस्थानि वायु च ॥

पादः पाणिश्च वामना सा जिह्वा चक्षुस्त्वच श्रुतिः ।
मनोहङ्कारबुद्धी च प्रकृतिः पुरुषस्तथा ॥

रागो नियति विद्ये च कला कालश्च मोहिनी । विद्या चेश्वर
सादाख्यौ शक्तिः शिव इति स्मृतः ॥

प्। ८६५)

निगदव्याख्यानम्

एतेषां पृथ्व्यादितत्वानां स्वरूपम् म्।एगेन्द्रमतङ्ग
सर्वज्ञानोत्तराद्यागमैस्तत्वसङ्ग्रह तत्वनिर्णय तत्व
प्रकाशादिभिश्च विस्तरेण वर्णितमिति । ग्रन्धविस्तार
भयन्नेहवर्णितम् ।

अथ कलाध्वानमाह

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथा परा । अतीतेति
कलाः पञ्चनिगव्याख्यानमेतत् ॥

अथं यदाग्रन्धेन प्रतिपादितदीक्षाबीजमुपसंहरति ।
समुद्देश षडध्वानाम् एवं षडध्वनाममन्त्रादिनामुद्देशः

दीक्षाबीजपरज्ञानां कृत इति शेषः । इति
श्रीमद्व्याघ्रपुरवासिनी गमज्ञानदेव विरचितवरुण पद्धति
व्याख्याने विलोचनाख्यानेदीक्षा प्रकरणं प्रथमम् अथैव
दीक्षाबीजं प्रतिपाद्य उद्देशक्रमानुरोधेन प्रतिष्ठाबीजं
प्रतिपादयुत्म्

प्रतिष्ठाया लक्षणमाह

ज्ञानशक्त्यात्मके लिङ्गे क्रियाशक्तेः समर्पणम् । पीठस्य
विधिना योगः प्रतिष्ठा सा च पञ्चधा ज्ञानशक्तिरेव
आत्मास्वरूपम् । वस्य तस्मिन् लिङ्गे क्रियाशक्तेः
क्रियाशक्तिस्वरूपस्य पीठस्य

प्। ८६६)

पिण्डिकाया विधिना शिवशास्त्रोक्त क्रियारूपमार्गेण
समर्पणं सम्यगर्पणम् । इदमेव योगः सम्बन्धः
प्रतिष्ठेत्युच्यते । इति वाक्यार्थः ।

इदं च सामान्यलक्षणम् अत्र समर्पणमित्यनेन
शिवमतसिद्धान्तवेदिनाचार्येण ज्ञानक्रियास्वरूप
परिज्ञानकौशलेन संयोजनं शिववीक्षितं तत्स्वरूपा
परिज्ञाने तत्संयोजनमेव पुष्करम् । अनेन आचार्यस्य
ज्ञानसामर्थ्यमेव प्रथमम् । प्रतिष्ठाबीजमुत्युक्तं भवति
तथा च शिवस्य ज्ञानशक्ति क्रियाशक्त्योः सम्मेलनमेव
प्रतिष्ठेति निष्कृष्टोर्थः । वस्तुतो अविनाभाविनी
ज्ञानशक्तिरेकैव सरविषयिणी एकै एकैवानेकृताः यातीति
शिवस्य सर्वकर्तृत्वं प्रतिपादयन्ति । तदवस्थायां
क्रियाशक्तिरिति च स्वतन्त्रः कर्त्तेति कर्त्रृत्वस्य
स्वातन्त्र्यगर्भत्वात् स्वातन्त्र्य
प्रतिपादिकेच्छाशक्तिश्चेत्यूपचर्यते । तथा च ज्ञानशक्त्या
वेच्छाशक्तेरप्यन्तर्भावः ॥

एवं च शिवस्यामूर्तत्वादेवज्ञानक्रिये एव मूर्तिरित्युपचर्यते ।
इयं च मूर्तिरिव मूर्तिरिति निष्कलैव अत एव
लिङ्गपीठात्मकत्वं मूर्तित्वं ज्ञापयति तथा च व्यापकत्वात्
सर्वत्रलीनम् आमूर्तं शिवं गमयति व्यञ्जयतीति लिङ्गं
प्रतिमा च ।

प्। ८६७)

तद्व्यञ्जकत्वं च ज्ञानक्रियानिपुणदेशिककृत्य
भूतप्रतिष्ठानन्तर भावि अनेनैव शिवस्य
ज्ञानशक्तेरन्तरङ्गत्वं क्रियाशक्तेर्बहिरङ्गत्वं च सूचितं
भवति । सा एवमुक्तलक्षणा प्रतिष्ठा च पञ्चधा
पञ्चप्रकाश तानेव प्रकारानुद्दिशति

प्रतिष्ठापनं चैव स्थितस्थापनमेव च । अर्थापनं च
सम्प्रोक्तं तथा स्थापनमित्यपि ॥

निगमदव्याख्यानमेतत् । एतेषामुद्देशक्रमेण विषय व्यवस्था
लक्षणमाह

लिङ्गे ब्रह्मशिलान्यासपूर्वके योज्य पिण्डिके । बाणादय पृथक्
पीठे जीणे व्यक्ते यथाक्रमम् ॥

ब्रह्मशिलान्यासः पूर्वो यस्य तस्मिन् लिङ्गे विषये क्रियामाणा
प्रतिष्ठाप्रतिष्ठैवेत्युच्यते । योज्यापि पिण्डिका
पिण्डिमात्रमित्यर्थः । तस्मिन् बाणादौ क्रियमाणं
प्रतिष्ठाकर्मस्थापनमित्युच्यते । पृथक् पीठं च विद्यते ।
यस्य तस्मिन् लोहरत्नयादौ क्रियमाणं प्रतिष्ठाकर्मस्थित
स्थापनमित्युच्यते । जीणे लिङ्गे क्रियामाणजीणोद्धार
प्रकारेणेति शेषः । सदूर्थापनकित्युच्यते व्यक्ते प्रतिमादौ
क्रियामाणमास्थापनमित्युच्यते तदुक्तं त्रिलोचनशिवाचार्यैः ।

पीठं लिङ्गमुमाशिवस्तदनयोर्योगः प्रतिष्ठादिता । विद्धुक्तो
परिद्रक्रियात्मकतनुः सा पञ्चधैवोदिता ॥

प्। ८६८)

लिङ्गे ब्रह्मशिलादिके शिवयुते पीठे स्थित स्थापनं बेरजरतौ
चास्थापनोत्थापनम् ॥ इति एवं प्रतिस्ठायाः ।
पञ्चविषयत्वं प्रतिमाद्यपुनः । प्रतिष्ठाया
लक्षणान्तरमाह मूर्ति मूर्तीश विन्यास तत्व
तत्वेश्वरान्वितः । अष्टधा पञ्चधा यत्र प्रतिष्ठा स
विधिः । तत्वानि आत्मविद्या शिवाख्यानि तत्वेश्वरा
ब्रह्मविष्णुहरा एतन्यास समन्वितम् । यथा मूर्ति मूर्तीश
विन्यासः । अष्टधा पञ्चधा वा तत्रा अष्टमूर्तयः ।
पृथिव्यादि यजमानान्ताः मूर्तीशाः शर्वादि भीमान्ताः
पञ्चमूर्तयः । पञ्चभूतानि मूर्तियाः । पुनर्ब्रह्मादि
पञ्चकारणेश्वरा एतेषां न्यासो यत्र स विधिः ।
कर्मप्रतिष्ठेतित्वविद्युच्यत इति शेषः । एतेषां स्वरूपं
विषय भेदश्च मूलकार एवोत्तरत्र स्पष्टी करिष्यते अथ
लक्षणोद्धार परिज्ञानस्यापि प्रतिष्ठाबीजत्वान्तद्भेदानाह
रुद्रभागे तृधाभक्ते ब्रह्मरेखानुसरतः । अधो भागद्वयो
लक्ष्मलम्बयेदाजलाश्रयम् । रुद्रभागे पूजांशे
त्रिधात्र्यंशैर्भक्ते विभाजिते सति ब्रह्मरेखानुसारतः ।
मध्यरेखानुसारेण मध्यभागमुपक्रम्येत्यर्थः । अधोभागद्वये
अधस्तनांशद्वयेपि लक्षमलक्षणमाजलाश्रयम् ।

प्। ८६९)

पिण्डिकोपरि भागपर्यन्तं लम्बयेत् । आसञ्जयेत् तदुक्तं कामिके

रुद्राम्शोच्च त्रिधा कृत्वा चोर्ध्वभागं त्यजेद्गुरुरिति । अत्र
त्रिथाकरणेऽपि दीप्ते विशेष उक्तः । तद्यथा अतः परं
प्रवक्ष्यामि ब्रह्मसूत्रस्य लक्षणं लिङ्गं च निव्रणं कृत्वा
प्रजाभागे तु विन्यसेत् पूजाभागं समस्तुष्
यशांशैर्विभाजयेत् वेदभागो हरेस्याज्य अश्विन्यजाय वर्जयेत्
दशमे लक्षण्द्धारं हेमसूच्या पुनर्लिखेत् इति । अत्र
दशमत्वं चोर्ध्वमारभ्येति मन्तव्यम् अथोद्ध्रियमाण लक्षणस्य
रेखा विस्तारं तं निम्नतं चाह लिङ्गायामेजिनांशे तु
लक्ष्मविस्तृति ईशता पृथ्विनिम्ना च तद्रेखा
विस्तृतेनवमांशतः । लिङ्गायामे लिङ्गदैर्ध्ये जिनांशे
बुद्धांशे चतुर्विंशे कल्पिते बुध्याश्चतुर्विंशतिरिति
प्रसिद्धिर्लिघदैर्ध्यं जिनांशं कृत्वेत्यथः । लक्ष्मविस्त्र्तिः
। लक्षणस्य विस्तारम् अंशत एकेतांशेन कर्तव्येति शेषः
पृथ्विरेखायोरस्थानश्च तद्रेखा विस्तृतेः पार्श्वरेखाद्वय
मध्यविस्तारस्य नवमांशतः । योयमेकांशो
लक्ष्मविस्तारमानेन स्वीकृतस्तमेप नवधा विभज्य एकेनांशेन
रेखान्तर्विस्तारो निम्नता च यथा भवति तथा कर्तव्येत्यर्थः ।

प्। ८७०)

अथ पक्ष्मसूत्रलक्षणमाह

लक्ष्मार्द्धात् पक्ष्मरेखे द्वे तत्क्षेत्रेष्टांशभाजिते । षट्
शप्तांश भ्रमात् पृष्ठे तद्योगोधोद्विवर्जनात् लक्ष्मार्धात्
लक्षणाद्धमारभ्य पक्ष्मरेखे द्वे पार्श्वरेखे कर्तव्ये
इत्यर्थः । तत् क्षेत्रे पार्श्वरेखाद्वय क्षेत्रेष्टांशभाजिते
तत स्थानमष्टांशं विभज्य अथो द्विवर्ज्नात्
भागद्वयमधोवर्जयित्वा भागषट्कं वा भागसप्तकं वा
परिग्राह्य तत्क्षेत्रसमप्रमाणेन सूत्रार्धेनार्धचन्द्रवत्
भामयेत् भ्रमणं च यावद्वतालिङ्गपृष्ठेरेखयोस्तय्र्योगो
भवतोवद्भामयेदित्यर्थः । तदेवं साधारणं लक्षणं
भ्रमणमुक्त्वा भृतिसन्तानकामस्य विशेषमाह । वह्नि भक्ते तु
तत्क्षेत्रे सार्धभागयुगक्रमात् लक्ष्मसन्तति भूत्यर्थम् अधो
भागार्धवर्जनात् तत्क्षेत्रे प्रागुक्त पार्श्वरेखाद्वय क्षेत्रे
वह्निभक्ते भागत्रयं कृत्वेत्यर्थः । तत्र अधो
भागार्धवर्जनात् अधोर्धभागं वर्जयित्वा सार्धभाग
युगक्रमाद्भागद्वयस्य तु सार्ध तत्सूत्रतो
लक्ष्मभोगमोक्षार्थमिच्छता मिति एवं
भोगमोक्षसाधारणमुक्तप्रकारद्वम् वश्याकर्षीणादि फलभेद
विषयेतेन्यथा कर्तव्यमित्याह साधारण विधावेतत् कृत्यभेदे
तदन्यथा

प्। ८७१)

अन्यथा प्रकारान्तरेण प्रकारान्तरं च प्रतिष्ठाविधायक
शास्त्रस्द्धमेव तत्र दृष्टव्यं प्रतिष्ठाबीजमात्रस्यै वात्र
विवक्षितत्वात् अयं च लक्षणोद्धारश्चतुर्धा विषयभेदेन
दीप्ततन्त्रे

गवाक्षम्महिषाक्षं च खग्वाग्रं करपुटाकृति । गवाक्षं
ब्राह्मणस्योक्तं खग्वाग्रं क्षत्रियस्य तु ॥

महिषाक्षं च वैश्यानां शूद्रे करपुटाग्रकम् । सर्वेषां
करपुटाकारं समुदानविधायकमिति कामिके तु नवधा
लक्ष्मणोद्धारः प्रतिपादितः ।

यथा

मुकुलं वा गजाक्षं वा लिङ्गाग्रं पद्मसन्निभम् । कदली
मुकुलाकारं शूलाग्राश्वर्थ पत्रकम् ॥

लोकपालायुधास्त्राग्रं शिवास्त्राग्रं च वा भवेत् ।
सार्वदेशिकलिङ्गस्य लक्ष्मेर्थं कथ्यते द्विजा ॥ इति ।

एतल्लक्षणमपि तत्रैवाभिहितद्रष्टव्यम् अस्त्र लक्षण शब्देन
शिरोवर्तनमपि प्रतिष्ठाबीजम् ग्रन्धविस्तर भयाम् मूलकारेण
नोक्तम् तच्च सुप्रभेदे यथा

आचार्यशिल्पिश्चैव लक्षणेन सहैव तु । शिरसो वर्तनं
कुर्यात्तच्चतुर्विधमुच्यते ॥

छत्राकारं शिरः पूर्वं द्वितीयं त्रपुषाकृतिः ।
कुक्कुटाण्डं त्रितीयं तु चतुर्भं त्वर्धचन्द्रकम् ॥

प्। ८७२)

कृत्वा तारं तु षड्भागं लिङ्गस्य शिरः सप्तधा । भागेन
वर्तनं कृत्वा भव निम्नं तु मध्यमम् ॥

छत्राकारमिदं प्रोक्तं सर्वसिद्धि प्रदायकम् । तारं कृत्वा तु
षड्भागं द्विभागार्धेन वर्तितम् ॥

त्रपुषाकृतिरेवं स्याद्भुक्तिमुक्तिफलप्रदम् । कुक्कुटाण्डं तु
तत्रैव विस्तारार्धेन वरेतितम् ॥

लिङ्गतारं त्रिधा कृत्वा द्विभागेन तु वर्तितम् ।
अर्धचन्द्रमिदं तत्र मुक्त्यर्थं प्रोच्यते क्रमात् ॥ इति ।

एवं सामान्येन लक्षणोद्धारमुक्त्वा व्यवस्था दर्शयति
नयनोन्मीलनं व्यक्ते व्यक्ताव्यक्ते च लक्षणम् अव्यक्तव्यक्तो
भयात्मकलिङ्गेषु अव्यक्त एवोक्तं लक्षणम् । व्यक्ते प्रतिमादिषु
नयनोन्मीलनमेव व्यक्ताव्यक्ते मुखलिङ्गेषु लक्षणं कर्तव्यमिति
शेषः । अथोक्तस्य लक्षणस्य क्वचिद्वर्जनीयत्वमाह न
बाणादौ चले तत्र न लौहेनापिरत्मजे लक्षणोद्धारणं
कार्यम् इति वाक्यशेषः ।

तथा कामिके

नैतद्रत्नमयो लिङ्गे चलौहेपि चलेमतम् । न बाणलिङ्गे रौद्रे वा
नदी प्रस्रवणोद्भवे ॥

प्। ८७३)

स्वाकारे लक्षणं तेषु तेजोरत्नेषु भास्वरम् । रत्नजे लोहजे
लक्ष्मविधेयं वा न वा भवेत् ॥

एवं लिङ्गे लक्ष्मणदर्शयित्वा पीठे लक्ष्मणं दर्शयति ।
रन्ध्रमध्ये भगाकारमूर्ध्वाग्रं लक्ष्मपीठकम् ।
रन्ध्रस्यैव त्रिभागेन तन्मूले भ्रमरेखियत् ॥

पीठगं पीठगतं लक्ष्मलक्ष्मणम् रन्ध्र मध्ये
भगाकारं तच्चोर्ध्वाग्रम् । किञ्च रन्ध्रस्य त्रिभागेनैव
तन्मूले भगाकारस्य मूले भ्रमरेखि भ्रमरेखायुक्तं यत्तत्
पीठलक्ष्मणमित्यन्वयः । अयमर्थः । लिङ्गवत् पीठरन्ध्रं
त्रिभागं कृत्वा उत्तरं भागमवस्थाप्य तदधोभागद्वयेन
भगाकारस्य मूलं यथा भवति तथाश्वर्थपत्रवद् भ्रमणे
लिङ्गलक्ष्मण रेखानुरूपविस्तारगाम्भीर्ययुक्तरेखया गुह्यं
कर्तव्यं शक्तिमयत्वात् तदुक्तं पिङ्गलागमे उत्कीर्यलक्षणं
तस्याभगाकारं तु रन्ध्रकम् यथा न दृश्यते
लोकैगुसंशक्तिमयं परमिति कामिके च रन्ध्रमध्ये
भगाकारमूर्ध्वाग्रं लक्ष्मपीठगम् एवं लक्ष्मलिखेद्विद्वान्
गुरुर्हेमशलाकयेति एवं लिङ्गपिण्डिकायो
लक्ष्णोद्धारमभियाम्यमयं धृता सेचनादि
प्रतिष्ठापद्धतिकारोक्त किया कलाः

प्। ८७४)

नन्तरं कत्तव्य तत्वेश्वरमूर्तिमूर्तीरादिन्यास
विशेषानधिकरणं भेदेनाह लिङ्गपीठशिलानां च
व्याप्तिस्तत्वादितः क्रमात् शिवशक्ति सदेशान्तं त्रिखण्डं
कल्पयेत्पुनः । लिङ्गपीठशिलानां व्याप्तिर्लिङ्गेन पीठस्य
पीठेन शिलायाश्च व्याप्तिः । क्रमेण भावनीयेति विशेषः ।
अनन्तरं तासु च तत्वादितस्तत्वसृष्टिक्रमेण च शिवशक्ति
सदेशान्तं व्याप्तिर्यथा लिङ्गे शिवतत्वस्य व्याप्तिः । पीठे
शक्तितत्वस्य शिलायां सदाशिवतत्वस्य पुनस्त्रिखण्डं
कल्पयेत् लिङ्गपीठ शिलासु प्रत्येकं त्रिखण्डं व्याप्तिं
विभावयितुं कल्पयेत् तत्प्रकारमेवाह विद्याशक्तिशिवप्रोक्तं
माया सा देशशक्तिकं शब्दचित्तसदेशान्तं लिङ्गे पीठेश्मनि
क्रमात् अयमर्थः । लिङ्गमधस्ताच्छुद्धविद्यात्मकं मध्ये
शक्तिमयं प्रान्ते शिवस्वरूपमित्येवं व्याप्य व्यापकभावेन
लिङ्ग एव त्रिखण्डं भावयेत् तथा पीठेपि
अधस्तान्मायामयं मध्ये सदाशिवस्वरूपम् अन्ते
शक्तितत्वात्मकमित्येवं त्रिखण्डव्याप्तिरश्मनि शिलायाम्
अधस्तात् पृथिव्यादि शब्दतन्मात्रान्तमयं मध्ये कर्मेन्द्रियादि
बुध्यन्तमयम् अन्तेगुणतत्वादि सदाशिवान्तात्मकमित्येवं
त्रिखण्डव्याप्तिं भावयेत्

प्। ८७५)

तथा कामिके शिवशक्तिमनीषान्तं त्रिखण्डं कल्पयेत्पुनः ।
विद्याशक्ति शिवप्रान्तं माया सादेश शक्तिकं
शब्दचित्तसदेशान्तं लिङ्गे पीठेश्मन्क्रमादिति अथ प्रसङ्गात्
प्रासाद प्रतिष्ठायां हृत्कुम्भस्यापि प्रतिष्ठाबीजत्वेन
तत्राध्वव्याप्तिं त्रिखण्डकल्पनामप्याह मायातत्वान्तकव्याप्ति
हृत्कुम्भस्य प्रकीर्तिता त्रिखण्डाध्वा
पुनश्चित्तकलामायावसानकम् प्रासाद प्रतिष्ठाङ्गभूतस्य
हृत्कुम्भस्य मूलमध्याग्रेषु मायातत्वान्तका
व्याप्तिर्भावनीयेति शेषः । त्रिखण्डाध्वा त्रिखण्डमार्गः ।
पुनश्चित्तकलामायावसानकं मूले बुद्धितत्वान्तर्मध्ये
कलातत्वान्तमग्रे मायातत्वान्तं कल्पनीय इति शेषः । अथ
मूर्तिभूत हृत्कुम्भे मूर्तिमत्वेनावाह्यस्य
प्रासादस्यार्ध्वव्याप्तिं त्रिखण्डकल्पनां चाह पुरुषस्य
त्रिखण्डत्वं शब्दधी पुरुषावधिः । पुरुषस्य
प्रासादाभिधानस्य त्रिखण्डत्वं त्रिखण्डं कल्पना
शब्दधी पुरुषावधीः । मूलमध्यात्रेषु क्रमेण
शब्दतत्वान्तं पुरुषतत्वान्तं च अत्र प्रासादस्य
पुरुषस्योक्तिः । प्रलयाकलत्वज्ञाप नार्थं तथा च
पिङ्गलामते समावाह्यात्मतत्वं च घटवर्त्मनिवेशयेत्
सर्वभूतात्मप्रकृतिस्थं व्यापकं

प्। ८७६)

च चिदीश्वरम् तत्कर्मानुग्रहात्मानमधिकारम लान्वितं
नियक्यादि कलामायारागविद्या समन्वितम् मायां प्रसूतिं
संसक्तस्यात्वैवन्तु निरोधयेदितित्वदन्ति प्रासादस्य पुरुषत्वं
च शिवमूर्तिविशेषत्वात् तच्च मतङ्गस्वायम्भुवादि व्याख्याने
विस्तरेणावसेयं हृत्कुम्भे न्यास प्राकारस्तु ज्ञानरत्नावल्यां
यथा हेमतारादिजं कुम्भं निधिकुम्भवदुन्न्तं हेमरत्नादि
सम्पूर्णं स्थापयेल्लिङ्गवद्गुरुः । तालमानं तदर्धं वा
हेमजं पुरुषं तथा अङ्गुष्ठार्धप्रमाणम् वा सर्वरूप
समन्वितं विधाय पञ्चगव्याद्यै स्नानं पूर्वदाचरेत
कुण्डवेदिकयोर्मध्ये कुलिकोपरि विन्यसेत् मूर्तिभूतं घटं
स्मृत्वा पुरुषं प्रलयाकलं मनोमतिश्चितिर्मन्त्र मेकाकारं
विचिन्तयत् रेचकेन न्यसेत्कुम्भे पुरुषं जीवदीश्वरं शरीरं
कल्पयेत्तस्य कलातत्वादितः क्रमात्

ॐ हां कलातत्वाय नमः ।

ॐ हां कलातत्वाधिपाय ज्ञनविदवे नमः ।

ॐ हां कलाधिपत्वमस्यात्मनः कक्त्रीत्वव्यक्तिं कुरु कुरु नमः

ॐ हाम् इद्यातत्वाय नमः ।

ॐ हां विद्यातत्वाधिपाय वेदार्थ ज्ञानिने नमः ।

ॐ हां विद्यातत्वाधिपाय वेदार्थ ज्ञानिने नमः ।

ॐ हां विद्यातत्वादिपत्वम् असि विकारपूरणं कुरु कुरु नमः ।

ॐ हां रागतत्वाय नमः ।

प्। ८८८)

ॐ हां रागतत्वाधिपाय कामदेवाय नमः । ॐ हां
रागतत्वाधिपत्वमस्य विषय रागपूरणं कुरु कुरु नमः । ॐ
हां प्रकृतितत्वाय नमः । ॐ हां प्रकृतितत्वाधिपाय
सूक्ष्माय नमः । ॐ हां प्रकृत्यधिपत्वः अस्य
विकारपूरणं कुरु कुरु नमः । ॐ हां बुद्धितत्वाय नमः ।
ॐ हां बुद्धितत्वाधिपाय बुधाय नमः । ॐ हां
बुध्यधिपत्वमस्य बोधं कुरु कुरु नमः । ॐ हाम
अहङ्कारतत्वाय नमः । ॐ हाम् अहङ्कारतत्वाधिपाय अहङ्कृते
नमः । ॐ हाम् अहङ्कारतत्वाधिपत्वमस्याभिमानं कुरु कुरु
नमः । ॐ हां मनस्तत्वाय नमः । ॐ हां मनस्तत्वाधिपाय
चद्राय नमः । ॐ हां मनोधिपत्वमस्य सङ्कल्पं विकल्पं च
कुरु कुरु नमः । ॐ हां श्रोत्राभ्या नमः । ॐ हां
“रोत्राधिपाय त्रिदशे नमः । ॐ हां श्रोत्राधिपत्वमस्य
शब्दग्राहकत्वं कुरु कुरु नमः । ॐ हां त्वचे नमः । ॐ
हां त्वगधिपाय वायवे नमः । ॐ हां त्वगधिपत्वमस्य
स्पर्शग्राहक्त्वं कुरु कुरु नमः । ॐ हां चक्षुभ्यां नमः ।
ॐ हां चक्षुधिपाय अर्काय नमः । ॐ हां
चक्षुरधिपत्वमस्य रूपग्राहकत्वं कुरु कुरु नमः । ॐ हां
जिह्वायै नमः । जिह्वाधिपाय वरुणाय नमः । ॐ हां
जिह्वाधिपत्वमस्य रसनग्राहकत्वं कुरु कुरु नमः ।

प्। ८७८)

ॐ हां घ्राणाय नमः । ॐ हां
घ्राणाधिपाभ्यामश्विभ्यां नमः । ॐ हां
घ्राणाधिपक्वमस्य ग्रन्धग्राहकत्वं कुरु कुरु नमः । ॐ हां
वाचे नमः । ॐ हां वागधिपायाग्नये नमः । ॐ हां
वागधिपत्वमस्य वाग्विसर्जनं कुरु कुरु नमः । ॐ हां
पारिभ्यां नमः । ॐ हां पाह्यधिपाय इन्द्राय नमः । ॐ
हां पाह्यधिपत्वमस्य पदार्थग्राहकत्वं कुरु कुरु नमः । ॐ
हां पदाभ्यां नमः । ॐ हां पदाधिपाय विष्णवे नमः ।
ॐ हां पदाधिपत्वमस्य गहनोत्साहं कुरु कुरु नमः । ॐ हां
पायवे नमः । ॐ हां पयवधिपाय मित्राय नमः । ॐ हां
पायवधिपत्वमस्योत्सर्गं कुरु कुरु नमः । ॐ हाम् उपस्थाय
नमः । ॐ हाम् उपस्थाधिपायघनानन्दाय नमः । ॐ हां
शब्दाय नमः । ॐ हां शब्दाधिपाय सूक्ष्मनादाय नमः ।
ॐ हां शब्दाधिपत्वमस्याकाश पूरणं कुरु कुरु नमः । ॐ
हां स्पर्शाय नमः । ॐ हां स्पर्शाधिपाय बलवत्तराय
नमः । ॐ हां स्पर्शाधिपत्वमस्य वायुपूरणं कुरु कुरु
नमः । ॐ हां रूपाय नमः । ॐ हां रूपाधिपाय भानुमते
नमः । ॐ हां रूपाधिपत्वमस्य तेजः पूरणं कुरु कुरु
नमः ।

प्। ८७१)

ॐ हां रसाय नमः । ॐ हां रसाधिपाय जलदाय नमः ।
ॐ हां रसाधिपत्वमस्य जलपूरणं कुरु कुरु नमः । ॐ हां
गण्डाय नमः । ॐ हां गण्डाधिपाय गण्डाङ्गाय नमः ।
ॐ हां गण्डाधिपत्वमस्य पृथ्वीपुरणं कुरु कुरु नमः । ॐ
हाम् आकाशाय नमः । ॐ हाम् आकाशाधिपतये सदाशिवाय
नमः । ॐ हाम् आकाशाधिपत्वमस्यावकाशदानं कुरु कुरु
नमः । ॐ हां वायवे नमः । ॐ हां वायवधिपाय
ईश्वराय नमः । ॐ हां वारवधि पत्वमस्य व्यूहं कुरु कुरु
नमः । ॐ हां तेजसे नमः । ॐ हां तेजोधिपाय रुद्राय
नमः । ॐ हां तेजोधिपत्वमस्य पाकं कुरु कुरु नमः । ॐ हाम्
उद्भ्यो नमः । ॐ हाम् अप्पधिपाय विष्णवे नमः । ॐ हाम्
अप्पधिपत्वमस्य सङ्ग्रहं कुरु कुरु नमः । ॐ हां पृथिव्यै
नमः । ॐ हां पृथिव्यधिपाय ब्रह्मणे नमः । ॐ हां
पृथिव्यधिपत्वमस्य धारणं कुरु कुरु नमः । इतीन्यसेत् अथवा

ॐ हां कलादिक्षित्यन्ततत्वेभ्यो नमः । ॐ हां
कलादिक्षित्यन्ततत्वादिपेभ्यो ज्ञानविन्द्वादिभ्यो नमः । ॐ हां
कलादिक्षित्यन्ततत्वाधिपा यूयम् अस्य स्वकार्यं कुरुत कुरुत
नमः । एवं तत्वादिविन्यस्य नाड्यादीन् विन्यसेद्यथा उद्गाता
कन्दमध्याच्च कुण्डलीनाभिमाश्रता

प्। ८८०)

नाभेरूर्ध्वं हृदिस्थाने पद्मं पद्मवदास्थितम् ।
तन्मध्यकर्णिकासंस्थं सूर्यसोमाग्निमण्डलम् ॥

तन्मध्ये चित्तयेद्देवमों हां हं हेति नामतः ।
तदधिष्ठेयमीशानं सूर्यकोटिसमप्रभम् ॥

सुष्म्ना मध्यमेङ्गुष्ठाद्यावद्ब्रद्धबलिं गता । इडानडीं
पुटे वामे दक्षिणे पिङ्गला स्थिता ॥

गान्धारि दक्षिणे नेत्रे हस्ति जिह्वा च वामके । पूषा
दक्षिणकर्णे स्याद्वामकर्णे यशस्वती ॥

मेघ्रेत्वलम्पूषानाडी कुहूनाडी गुदे स्थिता । शङ्खिनी
नाभिमध्ये स्यादास्ये प्राणादि वायवः ॥

प्राणोपानः समानस्यामुदानोव्यान एव च । नागः कूर्मः
कृकरेको देवदत्तो धनञ्जयः ॥

ॐ हां सुषुम्नायै नमः । ॐ हां सुषुम्ना प्रवाहाय प्राण
वायवे नमः ।

इत्यादयो मन्त्राः । यद्वादशनाडीभ्यो दशप्राणेभ्यो नम इति
वा मन्त्राः । सर्वाधिष्ठितवामायां कालं च नियति न्यसेत् ।

ॐ हां मायायै नमः । ॐ हां मायाधिपाय विषणाय नमः
। ॐ हां मायाधिपत्वमस्य विषयेकरभ्यतां कुरु कुरु नमः ।
ॐ हां नियत्यै नमः । ॐ हां नियत्यधिपाय नियामकाय
नमः । ॐ हां नियत्यधिपत्वमस्य नियमनं कुरु कुरु नमः ।

प्। ८८१)

ॐ हां कालाय नमः । ॐ हां कालाधिपतये कालरुद्राय
नमः । ॐ हां कालाधिपत्वमस्यानन्तकालावस्थितत्वं कुरु
कुरु नमः ।

बुद्धिः प्रकृतिमायान्तं त्रितत्वं सेश्वरं नरः । मूर्ती
मूर्तीश संयुक्तं भुक्त्वा जप्त्वा निरोधयेदिति अथ
प्रसङ्गाद्वारादि प्रतिष्ठा बीजभूतां व्याप्तिं लिङ्गस्य
वेत्यदिशति । द्वारप्रासाद चूडानां व्याप्तिर्लिङ्गवदीरिता
उक्तवक्ष्यमाणलिङ्ग व्याप्ति परिज्ञानेनैव सुबोधमेतत् अत्र
चूडानाम शिखरं तत् प्रतिष्ठा प्रकारो ज्ञानरत्नावल्यां
यथा

शुकनासा समाप्तौ शुकघ्रामद्धपङ्कजे । हृदि
पद्मपदास्थाप्य शरीरं सृष्टिं योगतः ॥

विन्यस्य हंसबीजेन कुर्याद्वर्मास्त्ररक्षणम् । लोकभृक्भ्यो
बलिं दत्वा तद्वारं बद्धयेद्दृडम् ॥

वेदिबद्धं ततः कृत्वा कण्ठमामलसारकम् । तत्र
संस्थापनं कुर्यादीश चूडस्य लिङ्गवत् ॥

न तत्र लक्षणोद्वारं किन्तु त्रिखण्डकल्पना । प्रवेशो
ब्रह्मणोर्ध्वेन शक्तिरत्नादि पूर्ववत् ॥

क्रियाज्ञानं विना शेषं तत्वन्यासादि लिङ्गवत् । इति ।

तत्र ध्वजस्थापनमपि कर्तव्यं तल्लक्षणं तत्प्रतिष्ठा
प्रकारश्च अरुणाचलोत्सवपद्धत्यां विस्तरेणाभिहितः ।

प्। ८८२)

तत्रैवावधार्यं पूर्वं
तत्वतत्वेश्वरमूर्तिमूर्तीश्वरन्यासोष्टधा पञ्चधा वा यत्र
स विधिः । प्रतिष्ठेत्युक्तं तमेवाह

विष्णवीशांशके तत्रन्यसेत्तत्वत्रयं क्रमात् ।
स्वस्वविद्याधिपोपेतमात्मविद्या शिवात्मकम् ॥

तत्र लिङ्गेकविष्णवीशांशके
ब्रह्मभागविष्णुभागरुद्रभागेषु आत्मविद्या शिवात्मकं
तत्वत्रयमात्मतत्वं विद्यातत्वं शिवतत्वं च क्रमात् ।
स्वस्वविद्याधिपोपेतन्यसेत् विद्याशब्देन मन्त्र उच्यते स्पर्शहोमान्ते
तत्तन्मन्त्रैः न्यसेदित्यर्थः । तत्रात्मतत्वं प्रधिव्यादि
चतुर्विंशति तत्वानि विद्यातत्वं शिवतत्वं च क्रमात् ।
स्वस्व्सविद्याधिपोपेतन्यसेत् विद्याशब्देन मन्त्र उच्यते
स्पर्शहोमान्ते तत्तन्मन्त्रैः न्यसेदित्यर्थः । तत्रात्मतत्वं
प्रधिव्यादि चतुर्विंशति तत्वानि विद्यातत्वं तु रागादि
सप्ततत्वानि शिवतत्वं तु विद्यादि तत्वपञ्चकम्
तत्वाधिपतीनाह

ब्रह्मविष्णुहरा एव लिङ्गे तत्वत्रयाधिपाः ।

अत्र लिङ्गशब्दः । पिण्डिका शिलयोरप्युपलक्षणं तदुक्तं
कामिके

लिङ्गमूलशिलान्यासो नवभक्तिसमन्वितः । मूर्ती
मूर्तीश्वरन्यासस्तत्वतत्वेश्वरान्वितः ॥

ब्रह्मविष्णुहरा चैव लिङ्गे तत्वत्रयाधियाः । आत्मविद्या
शिवाख्यं तु तत्वत्रयमुदीरितमिति ॥

एवं तत्वतत्वेश्वरानभिधाय मूर्तिमूर्तिश्वरानाह

अष्टौ वा पञ्च वा मूर्तिमूर्तीपानीयतास्वयम् ।

प्। ८४३)

मूर्ति मूर्त्यधिया अष्टौ पञ्चपानीयता मुमुक्षु बुभुक्ष्वाख्या
दिधिकार्यनुस्वारेण निश्चितास्तत्र मुमुक्षु विधयेऽष्टविध
मूर्ति मूर्तीश्वरानाह

क्ष्मावह्नियजमानार्कजलवायुनिशाकराः । व्योमाता
मूर्तयश्चाष्टौ न्यस्तव्याः प्रतिखण्डकम् ॥

पूर्वं त्रिखण्डीकृतेषु स्थानेष्वत्यर्थः । शर्वः
पशुपतिश्चाग्रो रुद्रश्चैव भवस्तथा । ईशानश्च महादेवो
भीमश्चेत्यष्टमूर्तिपाः ॥

पदच्छेद एवास्य व्याख्यानं मूर्तिक्रमेणैव पूर्तिपक्रम इति
मन्तव्यम् एव मुमुक्षु विषये मूर्ति मूर्तीशविन्यास मुक्त्वा
बभुक्षोराह बुभुक्षा च शुद्धाध्वनि च सुद्धाशुद्धाध्वनि च
अशुध्वनि चेत्रि त्रिधा ।

तत्र शुद्धाध्वबुभुक्षायां प्रथममाह

शुद्धविद्यादिशक्त्यन्ते बुभुक्षोः शुद्धवर्त्मनि । साधकस्य
प्रतिष्ठायामनन्ताद्यास्तु मूरिपाः ॥

शुद्धविद्यातत्वमादिः शक्तितत्वमन्तो यस्य तस्मिन्नथोक्ते
शुद्धवत्मनि शुद्धाध्वनि बुभुक्षोपराणिमादि भोगेच्छेः
साधकस्य कर्तुः प्रतिष्ठायां शिवलिङ्गप्रतिष्ठायां
क्रियमाणामिति शेषः । मूर्तिपास्तु अनन्ताद्याः । मूर्तयस्तु
पूर्वोक्तक्ष्मावह्यादय एवेति तु शब्दार्थः ।

प्। ८८४)

प्रतिखण्डन्यस्तुस्तव्या इति शेषः । तानेवानन्ताद्या बुद्दिशति
अनन्तश्च तथा सूक्ष्मशिवोक्तमश्चैकनेत्रकः ।

एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिना । शिखण्डिना
शिखण्ड्याख्येन सहेति शेषः ॥

अथ शुद्धाशुद्धाध्वबुभुक्षोराह

पुरुषादिकमायान्ते शुद्धात्मके ध्वनि । विज्ञेया मूर्तिया रुद्रा
अङ्गुष्ठमातृकादयः ॥

पुरुषतत्वमादिः । मायातत्वमन्तो यस्य तस्मिन्
शुद्धाशुद्धात्मके शुद्धाशुद्धस्वरूपे ध्वनि
बुभुक्षोपराणिमादि रहित भोगेच्छोः साधकस्येति शेषः ।
अङ्गुष्ठमातृकादयो मूर्तिया विज्ञेयाः अर्च्छनीया
न्ययस्तव्याश्चेति शेषः । तानेवोद्दिशति अङ्गुष्ठमात्र
भुवनेशेशानाश्चैकपिङ्गलः । उद्भवश्च भवश्चैव वामदेवो
महाद्युतिः । एवं शुद्धाशुद्धारूपाध्वनि विद्येशानुक्त्वा
अशुद्धाध्वनि विद्येशानाह अशुद्धे ध्वनि पृथ्व्यादि प्रधानान्ते
व्यवस्थिताः । मूर्तिपः शतरुद्रामष्टौ दशदिगादिकाः ।
पृथ्वितत्वमादिः प्रधानतत्वमन्तो यस्य तस्मिन्तथोक्ते अशुद्धे
ध्वनि बुभुक्षोर्विषय इति शेषः । शतरुद्राणां
निवृत्तिकलावर्ति भुवनधिपानां प्रतिदिशं दशसङ्ख्यया
शतसङ्ख्यानां मध्ये दशदिगादिकः ।

प्। ८८५)

अथ ऊर्ध्वदिग्द्वयपतीन् वर्जयित्वाष्टदिगीश्वरेषु ये
मुख्यास्तद्वाप्यूह पतयस्त एव मूर्तिपा व्यवस्थिता निश्चिता
इत्यर्थः । अथ तानेवोद्दिशति कपालीशोग्निरुद्रश्च याम्यो निऋति
सञ्ज्ञकः । बलः शीघ्रोनिधीशश्च विद्याधिपतिरष्टमः ।
एहिकबुभुक्षा विषये भेदमाह त्विचिदिन्द्रादयो लोकाअला
मूर्तिश्वरामताः । प्रसिद्धा एव ते क्वापि क्षुद्रकर्मणी
भैरवाः । क्वचित् पुत्र प्राप्त्यादिकामना यामिन्द्रादि दयो
लोकपाला विद्येश्वरत्वेन पूजनीयाः । ते च प्रसिद्धा एव
क्वापिक्षुद्रकर्मणी मारणोच्चाट नादौ वैरवा एव विधेशत्वेन
पूज्याः । ते कैत्यत आह असिताङ्गोरुरुश्चण्डः क्रोध उन्मत्त
भैरवः । कपाली भीषणश्चैव संहारश्चाष्टभैरवः ।
अत्रापी मूर्तिपानामेवोक्तत्वात् मूर्तयस्तु प्रागुक्ताः
पृथिव्याद्यष्ट मूर्तय एवः । एवमष्टपक्षे
मूर्तिविकल्पमभिधाय पञ्चपक्षविषये भेदमाह

पञ्चमूर्त्यात्मके न्यासे क्ष्मावारि दहनानित्वाः ।
खञ्चेतिमूर्तयो लिङ्गे ब्रह्माद्याः पञ्चमूर्तियाः ॥

भुक्तोयम् एवं भुक्तिमुक्तिविषये साधारणे मनोक्त्वा मुमुक्षा
विषये भेदोप्यस्तीत्याह मुमुक्ष्र्वा प्रतिष्ठायां
निवृत्याद्यास्तु मूर्तयः ।

प्। ८८६)

सद्योजातादयो लिङ्गे स्मृताः पञ्चतदीश्वराः ।
निगदव्याख्यानमेव एवं लिङ्गे मूर्तिमूतीशन्यासमभिधाय
पीठशिलयोरप्येवम् इत्यतिदिसर्मभेदमाह एवं पीठे शिलायां
च न्यासः । कार्योभिदात्वियम् एवं लिङ्गाइवत्यर्थः ।
भिदाभेस्तु इयं वक्ष्यत इति शेषः । तामेवभिदा मुमुक्षोअ
प्रथममाह क्रियाज्ञानं तथेच्छा च त्रितत्वधीश्वरामताः ।
क्रियाशक्ति ज्ञानशक्तिरिच्छाशक्तिश्च त्रितत्वाधीश्वराः ।
आत्मविद्या शिवाख्य तत्वत्रयाधीश्वर्यः । मताः क्रमादिति
शेषः । एवं तत्वश्वरभेदमभिधाय मूतीशभेदानाह
धारिकादीप्तिमत्युग्रा ज्स्ना चेत बलोत्कटाधात्री बह्नी च
मूतीशामताः पीठादि गोचरेपीठाद्गोचरे
पीठेशिलयोर्विषये धारिकाद्यष्टशक्तय एव मूर्तीशा मताः
। अथ बुभुक्षोराह

साधकस्य प्रतिष्ठायां पीठादौ मूत्यधीश्वराः ।
अनन्तादय एव स्युस्त्रि पाठवशमागताः ॥

साधकस्य बुभुक्षोर्विषये प्रतिष्ठायां
स्त्रीपाठवशमागता अनन्तादय एव अनन्तादी विद्येश्वरशक्तय
एवेत्यर्थः । मूर्त्यधीश्वराः पूज्याः । इति शेषः ।
तदेवमष्टपक्षे भेदमभिधाय पञ्चपक्षेप्याह वामज्येष्टा
क्रियाज्ञान मिच्छवेति विवक्षिताः ।

प्। ८८७)

पीठादौ पञ्चमूर्तीशाः पीठादौ पीठशिलयोर्वामादि
पञ्चशक्तयोमूर्तीशाः अर्च्या इति शेषः । अथ
पीठशिलयोर्लिङ्गप्रतिमा साधारणत्वा द्व्यक्ष्यमाणप्रतिमा
प्रतिष्ठायाः । पूर्वमेवोग्रमूर्तिनां
पीठशिलयोर्विशेषमाह उग्राच्चानामथोच्यते उग्रार्चानां
दारुणमूतीनाम् उग्रशब्देनाभिचारादि क्षुद्रकर्मसूच्यते
तादृशकर्मोपयुक्तानामित्यर्थः । उच्यते तासां
पीठशिलयोरष्टपक्ष पञ्चक्रमेण मूर्तीआअ मूर्तीशन्यास
इति शेषः । तमेव क्रमेणाह

तमामोहक्षया निद्रा मृत्युर्मायाभयाज्वरा । पञ्चपक्षे
तमामोहाघोरारतिरपज्वरा ॥

सुबोधं तथा ज्ञानरत्नावल्याम् उग्रार्चानां प्रवक्ष्यामि
मूर्तिन्यासं यथाक्रमम् तमाघोरा विमोहाचारतिरपज्वरामता
इती एवमुद्रार्चानां पीठ शिलयोमूर्ति मूतीशन्न्यास
भेदमभिधाय प्रथमं लिङ्गपीठशिलासु प्रत्येकं
पञ्चमूर्तीनां पृथिव्यादि व्योमान्तानां तत्वाध्वव्याप्ति
भेदक्रमवक्ष्यमाण क्रमेण भावयेदित्याह पञ्चनामपि
मूर्तीनां लिङ्गपीठशिलास्वपि तत्वाध्व व्याप्तितो भेदं
क्रमादेवं विभावयेत् एवं वक्ष्यमाण व्याप्तिभेदक्रमेणैव
सुबोधं तमेव क्रममाह रागान्ताक्ष्माम्बुकालान्तं विद्यान्तश्च
हुताशनः ।

प्। ८४४)

वायुरीश्वरपर्यन्तः शिवान्तं व्योमलिङ्गकं क्ष्मापृथिवी
मूर्तिः रागान्तारागतत्वपर्यन्ता अम्बु जलमूर्तिः । कालान्तं
कालतत्वपर्यन्ता हुताशनः । अग्निमूर्तिः । विद्यान्तः ।
विद्यातत्वपर्यन्ता चायु । वायुमूर्तिरीश्वर तत्वपर्यन्ता व्योम
आकाशमूतिः शिवान्तं शिवतत्वपर्यन्ता लिङ्गं लिङ्गगतं
व्याप्तिक्रमं भावयेदित्यर्थः । अथ पीठस्याह पुमान्ताक्ष्मा
कलान्तस्यादम्बुमायान्तको नलः । शुद्धविद्यान्तगो वायुः
शक्त्यन्तं व्योमपीठगम् । अथ ब्रह्मशिलायां व्याप्तिक्रममाह
भूतान्ताक्ष्माम्बु शब्दान्तं वह्निः कर्मेन्द्रियान्तकः ।
बुद्धिक्रियान्तको वायुर्वोमबुध्यन्तमश्मनि अश्मनी ब्रह्मशिलायां
लिङ्गव्याप्तिव्याख्यान प्रकारेण सुबोधं ज्ञानरत्नावल्यां
तत्वन्न्यासप्रकार क्रमस्तु यथा पाददेशे गुरुस्थ्त्वा
तत्वादिन्यासमारभेत् ज्ञानशक्तिन्यसेल्लिङ्गे सौः
कारणेद्धृवादिनाशक्तिसूत्रं समाशृत्य तत्वन्यासमुपक्रमेत्
ॐ हां शिवतत्वाय नमः । ॐ हां शिवतत्वाधिपाय सोमाय
नमः । ॐ हां शक्तितत्वाय नमः । ॐ हां
शक्तितत्वाधिपाय धर्मणे नमः । इति रुद्रभागे ।

प्। ८८९)

ॐ हां सदाशिवतत्वाय नमः । ॐ हां सदाशिवतत्वादिपाय
अजेशाय नमः । ॐ हाम् ईश्वरतत्वाय नमः । ॐ हाम्
ईश्वरतत्वाधिपाय चतुराननाय नमः । ॐ हां
शुद्धविद्यातत्वाय नमः । ॐ हां शुद्धविद्या तत्वाधिपाय
कल्याणाय नमः । इति विष्णुभागे । ॐ हां मायातत्वाय
नमः । ॐ हां मायातत्वाधिपाय विषाणाय नमः । ॐ हां
कलातत्वाय नमः । ॐ हां कलातत्वाधिपाय केतुध्वजाय
नमः । ॐ हां कालतत्वाय नमः । ॐ हां कालतत्वाधिपाय
शिखिवक्त्राय नमः । ॐ हां नियतितत्वाय नमः । ॐ हां
नियतितत्वाधिपाय महाध्वजाय नमः । ॐ हां विद्यातत्वाय
नमः । ॐ हां विद्यातत्वाधिपाय मेघनिर्ह्रादाय नमः । ॐ
हां रागतत्वाय नमः । ॐ हां रागतत्वाधिपाय पत्रवाय
नमः । ॐ हां पुरुषतत्वाय नमः । ॐ हां
पुरुषतत्वाधिपाय विष्णवे नमः । ॐ हां प्रकृतितत्वाय
नमः । ॐ हां प्रकृतितत्वाधिपाय पितामहाय नमः । ॐ
हां बुधितत्वाय नमः । ॐ हां बुद्धितत्वाधिपायबुद्धाय
नमः । ॐ हाम् अहङ्कारतत्वाय नमः । ॐ हाम्
अहङ्कारतत्वाधिपाय अहङ्कृते नमः । ॐ हां मनस्तत्वाय
नमः । ॐ हां मनस्तत्वाधिपायसङ्कल्पाय नमः ।

प्। ८९०)

ॐ हां श्रोतृतत्वाय नमः । ॐ हां श्रोतृत्वाधिपाय
व्योमधराय नमः । ॐ हां त्वत् तत्वाय नमः । ॐ हां त्वत्
तत्वाधिपाय सर्वाङ्गाय नमः । ॐ हां चक्षुस्तत्वाय नमः ।
ॐ हां चक्षुस्तत्वाधिपाय प्रकाशाय नमः । ॐ हां
जिह्वातत्वाय नमः । ॐ हां जिह्वातत्वाधिपाय महावक्त्राय
नमः । ॐ हां घ्राणतत्वाय नमः । ॐ हां
घ्राणतत्वाधिपाय विलुण्डकाय नमः । ॐ हां वाक्तत्वाय
नमः । ॐ हां वाक्तत्वाधिपाय दुन्दुभवे नमः । ॐ हां
पाणितत्वाय नमः । ॐ हां पाणितत्वाधिपाय समादानाय
नमः । ॐ हा पादतत्वाय नमः । ॐ हां पादतत्वाधिपाय
चङ्क्रमणाय नमः । ॐ हां पायुतत्वाय नमः । ॐ हां
पायुतत्वाधिपाय तूर्णभूजे नमः । ॐ हाम् उपस्थतत्वाय
नमः । ॐ हाम् उपस्हतत्वाधिपाय घनानन्दाय नमः । ॐ हां
शब्दतन्मातृतत्वाय नमः । ॐ हां शब्दतन्मातृ
तत्वाधिपाय सूक्ष्मनादाय नमः । ॐ हां
स्पर्शतन्मातृतत्वाय नमः । ॐ हां
स्पर्शतन्मातृतत्वाधिपाय बलवक्तराय नमः । ॐ हां
रूपतन्मातृतत्वाय नमः । ॐ हां रूपतन्मात्र्टत्वाधिपाय
भानुमते नमः । ॐ हां रसतन्मातृतत्वाय नमः । ॐ हां
रसतन्मातृतत्वधिपाय जलदाय नमः ।

प्। ८९१)

ॐ हां गन्धतन्मात्रतत्वाय नमः । ॐ हां
गन्धतन्मात्रतत्वाधिपाय गन्धक्षयाय नमः । ॐ हाम्
आकाशतत्वाय नमः । ॐ हाम् आकाशतत्वाधिपाय सूक्ष्माय
नमः । ॐ हां वायुतत्वाय नमः । ॐ हां
वायुतत्वाधिपायमातरिश्विने नमः । ॐ हां तेजस्तत्वाय नमः
। ॐ हां तेजस्तत्वाधिपायत्विषां पतये नमः । ॐ हाम्
अप्तत्वाय नमः । ॐ हाम् अप्तत्वाधिपाय जलेशाय नमः । ॐ
हां पृथिवीतत्वाय नमः । ॐ हां पृथिवीतत्वाधिपाय
श्रीकण्ठाय नमः । इती ब्रह्मभागे । अथवा

ॐ हांषट्त्रिम्शत्तत्वेभ्यो नमः । ॐ हां
षट्त्रिंशत्तत्वाधिपेभ्यो रुद्रेभ्ये नमः । इति युगपद्विन्यसेत् इति
अथाष्टपक्षमाशृत्य पृथिव्याद्यष्टमूर्तीनां
व्याप्तिप्रकाशे लिङ्गपीठशिलास्वपि प्रत्येकं भावनीय इत्याह
अष्टपक्षे तु पूर्वादीशान्तक्ष्मादि मूर्तयः । सुब्धं
पक्षान्तरं प्याह पञ्चपक्षेपरोदीची याम्य
पूर्वेश्वराश्रताः । अयमर्थः । पृथिवी
सद्योजातब्रह्मादिष्ठिता अपरदिशि अम्बु
वामदेवब्रह्माधिष्ठतमुदीच्याम् अग्निरघोर ब्रह्माधिष्ठितो
दक्षिणस्यां वायुस्तत्पुरुषब्रह्माधिष्ठितः । पूर्वदिशि
आकाशमीशानब्रह्माधिष्ठितम् ऐशान्याम् एवं विन्यस्य
भावयेदित्यर्थः ।

प्। ८१२)

एवं लिङ्गपीठशिलासु तत्व तत्वेश्वर मूर्ति
मूर्तीश्वरन्यासभावनाप्रकारमभिधाय
प्रतिमास्वप्येवमित्यदिशन्विशेषं दर्शयति अयमेव क्रमभ्यः
सर्वोत्रद्रष्टव्यः । प्रतिमास्वपि किन्तु तत्वत्रयन्यासो
जानुकण्ठशिरोवधि प्रतिमासु नृत्तमूर्त्यादि शिवप्रतिमास्वपि
अयमेव सर्वक्रमोऽपि द्रष्टव्यः । तत्वत्रयन्यासो
विशेषोदीत्याह कन्त्वितिजानुकण्ठ शिरोवधि
जान्वन्तमात्मतत्वं कण्ठान्तं विद्यातत्वं शिरोन्तं
शिवतत्वमेवं विन्यसेत् अन्य सर्वं पूर्ववदिति भावः । तथा
ज्ञानरत्नावल्यां लिङ्गवत् प्रतिमायां तु त्रितत्वपरिकल्पना

आत्माख्यं जानुपर्यन्तं विद्यान्तं तालुनिस्थितम् । शिवाख्यं
मस्तकान्तं तु शेषं पूर्ववदाचरेत् ॥ दिति ।

अथ द्वारप्रासादप्रतिष्ठयोरपिअ तत्वत्रयन्यासस्यावधि
भेदमाह द्वारोदुम्बरशाखासु व्याप्तिस्तत्वत्रिखण्डगातत्र
द्वारं त्रिखण्डं कृत्वा अथस्तनोदुम्बरमारभ्याधः खण्डे
आत्मतत्वं तदुपरि मध्यखण्डे विद्यातत्व ऊर्ध्वोदुम्बरमारभ्य
उपरितनखण्डेशिवतत्वं व्यापकत्वेन विभाव्य विन्यसेदित्यर्थः
। तथा ज्ञानरत्नावल्यां देहल्यामात्मतत्वं तु
मायातत्वान्तगोचरं

प्। ८१३)

विन्यस्याथ स देशान्तं विद्यातत्वं च शाखयोः ।
ऊर्ध्वोदुम्बरकेन्यस्त्वा शक्त्यन्तं शिवतत्वकमिति तथा
प्रासादमपि त्रिधा विभज्य तत्र जङ्घान्तमात्मतत्वं गलान्तं
विद्यातत्वं चूडान्तं शिरोन्तं शिवतत्वं विभाव्य विन्यसेत् ।
अथ गौर्यादि प्रतिष्ठाविषये विशेषमाह

गौर्यादीनां प्रतिष्ठाया पीठे शक्तिक्रियात्मिकाम् ।
विन्यसेद्विग्रहे ज्ञानं शेषं पीठवदाचरेदिति ॥

गौर्यादीनाम् अत्रादिशब्देन अत्रादिशब्दे सर्वत्र
सौम्यशक्तिभेदविषये उग्रप्रतिमानाम् उक्तत्वात् पीठे
क्रियाशक्तिन्यासपूर्वकं विग्रहे ज्ञानशक्तिं विन्यस्य शेषं
क्रियाकलापं पीठवत् पीठस्येवाचरेत् । योषिदिच्चासु पूर्वोक्ता
मूर्ति मुर्तीशशक्तयः । इती तथा कामिके च

आत्मविद्या शिवाख्यं च जानुकण्ठशिरोवधी । माया स
देशशक्त्यन्तं व्यापकं विन्यसेद्गुरुः ॥

क्रियाज्ञानं तथेच्छा च त्रितत्वाधीश्वरीमता । धारिका
दीप्तिमत्युग्रा ज्योत्स्ना चेतामदोत्कटा ॥

धात्री बह्वीति मूर्तीशी युक्ता मूर्तीस्ततो न्यसेत् ।
पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिया मता ॥ इती

प्। ८१४)

अथ मुखलिङ्गप्रतिष्ठायां पीठे नवपदी कृते मध्ये
सदाशिवतत्वम् ईश्वरं प्राचि विन्यसेत्

आग्नेय्यां विन्यसेद्विद्यामायां याम्येऽथ नैऋते । कालं
नियतिमाप्ये च वायौ रागमुदङ्नरः ॥

प्रधानमीशदिग्भागे स्वाशासु ब्रह्मपञ्चकम् ।

स्पष्टोर्थस्तत्वत्रयन्यासे विशेषमाह

त्रितत्वकल्पनाप्राग्वत् किन्तु वृत्ते सदाशिवम् । विन्यसेदेवतान्
प्राग्वमूर्ति मूर्तीश्वरानपि ॥

पूर्वोक्तन्यासानुसन्धानेन सुबोधमेतत् एवं लिङ्गादीनां
प्रत्येकं प्रतिष्ठाबीजभूतन्यासादि भेदं
विशेषेणाभिधाय प्रतिष्ठापनीय प्रासादलिङ्गप्रतिमादीनाम्
उक्तानुक्तसाधारण्येन कर्तव्यन्यासविशेषादिकं
प्रतिष्ठाबीजत्वेनापारणीयमिति परिभाषारूपमाह
अथैतन्नवतत्वादि पृथ्व्यादि प्रतिमास्वपि

मूर्ति मूर्तीश्वरादीनां व्याप्तिं बीजं च नाम च । ध्यात्वा
रूप सर्वत्रन्यासं कुर्याद्यथा स्थितम् ॥

नवतत्वादी मुखलिङ्ग प्रतिष्ठोक्त
नवदीपकृतपीठमध्यादिन्यसनीय सदाशिवादि तत्वानि
पृथ्व्या तत्वार्ध्वोक्त षट्त्रिंशत्तत्वानि
मूर्तिमूर्तीश्वरादीनां पूर्वमष्टधा पञ्चधा
चेत्तानामादिशब्देन तत्वत्रयज्ञान

प्। ८१५)

क्रियाशक्तीनां च व्याप्तिं हेतुमद्भावेनान्योन्यसङ्कलनम्
अन्योन्य सङ्कलनाभावे परस्परसम्बन्धाभावात् मुक्तिमुक्तो
स्वातन्त्र्येण सम्भूय कारित्वासिद्धेः । बीजं
बीजाक्षरानामस्थूलमन्त्रांश्च रूपं वक्ष्यमाण
तत्तद्देवतानां ध्यातव्य रूपाणि रूपपरिज्ञानाभावे
बुध्यनारोहाद्यथा स्थिति अनुपदवक्ष्यमाण पृथ्व्यादि स्थित्यन्ति
किरमं च ध्यात्वा सम्यक् बुध्युपारूढं कृत्वा प्रतिमास्वपि
सर्वत्र लिङ्गपिण्डिकाप्रासादादि प्रतिष्ठापनीयेषु न्यासं
कुर्याद् एतेषां परिज्ञानाभावे तन्यासस्यैवा सम्भवात्
एतेनाचार्यस्य शिवागमचतुष्पादसिद्धान्ततत्वपरिज्ञानमपि
प्रतिष्ठाबीजमिति सूचितम् अथ यथा
स्थितित्युक्तपरिज्ञानार्थं मूर्ति मूर्तीशादीनां स्थितिमाह

अप्तत्वे संस्थिता पृथ्वित्वादि स्वस्वगोचरे ।
शब्दतन्मात्रमूर्ध्नी द्वौ सोमसूर्यौ व्यवस्थितौ ॥

तयोरूर्ध्वे च धर्माख्यो गण्डेशर्वोप्यवस्थितः । रूपेस्थितः ।
पशुपतिः । उग्रोहङ्कारगोचरः । रुद्रस्तत्रैव बोद्धव्यो
रसतन्मात्रगोभवः । भीमश्च शब्दतन्मात्रे
मूर्तीशानामवस्थितिः ॥ अस्यार्थः ।

प्। ८९६)

पृथ्वी अप्तत्वे संस्थिता अम्बादि चतुष्टयं तु स्वस्वगोचरे
अपोवह्नौ वह्निर्वायौ वायुराकाशे इत्यादि अनेन
पृथ्व्यादीनामाश्रयाश्रयि भावेन कार्य कारणभावोऽपि
वेदितव्यः । शब्दतन्मात्रमूर्ध्वि आकाशस्य सूक्ष्मरूपाग्रे
चन्द्रसूर्यौ व्यवस्थितौतयोश्चन्द्रसूर्ययोश्च ऊर्ध्वे धर्माख्यः
धर्म आत्माय सिद्धज्योतिष्टोमादि यज्ञरूप आख्यायस्य स
यजमानः । क्रियाकर्त्रोरभेदोपचारेण यजमानस्यैव धर्मत्वं
व्यवस्थितः । अनेनाष्टमूतीनामप्यवस्थितिरुक्ता अथ
मूर्तीशानां शर्वादिनामवस्थितिर्गण्डादिषु स्पष्टोर्थः ।
एवं मुमुक्ष्वमूर्तीशानं स्थितिमभिधाय बुभुक्ष्व
मूर्तीशानां विद्येश्वराणामवस्थितिमाह

विद्येश्वराश्च विज्ञेया विद्यातत्वे व्यवस्थिताः । विद्येश्वरा
अनन्तादयः । अनेन क्षुद्रकर्मेक्तासिताङ्गाद्यष्ट भैरवः ।
अप्युपलक्षिताः । तेषामपि तत्रैवावस्थानात् अथ
पञ्चपक्षमाशृत्याः क्ष्मादौ पुमवयौ ब्रह्माक्ष्मादि
मायान्तगोच्युतः । क्ष्मदिविद्यान्तगो रुद्रः क्ष्मादि विद्यान्त
ईश्वरः । सादाख्यः क्ष्मादिनादान्तः शक्तिक्ष्मादि परावधी
शक्तिरिच्छाज्ञानक्रियात्मिका धारिकादि रूपा च क्ष्मादि
परावधी पृतिव्यादि शिवतत्वावधि अवस्थितेत्यर्थः ।

प्। ८१७)

तदेवं शिवालिङ्गस्य समस्ता ध्वनिवेश
भूमित्वाल्लयात्मकत्वमुक्तं भवति अथ सिद्धान्ते
तरसमयास्पदानामेतदेकदेशत्वेन न्यद्भावं
सूचयितुमधस्तनतत्वेषवस्थानमाह पृथ्वीतत्वे स्थिता
विष्णोर्द्सशावतारमूर्तयः ।
दशावतारमूर्तयोमस्याद्यवतारमूर्तिभेदाः । पृथ्वितत्वे
स्थिताः । भूतहृद्बुध्यहं गौणपुङ् विद्येश्वर गोचराः ।
मित्राद्याः । केशवाद्यास्त्र्यम्बकाद्या द्वादशत्रिधा मित्राद्या
द्वादशकेशवाद्या द्वदशत्र्यम्बकाद्या द्वादश एवं त्रिधा
द्वादशा एपि क्रमेण पृथिव्यादि द्वादशासु पञ्चभूतमनस्तत्व
बुद्धितत्वाहङ्कारगुण पुरुषविद्या तत्वेश्वरतत्वेष्ववस्थिता
इत्यर्थः । विघ्नराजश्च सादाख्ये तद्वद्देविसरस्वति
नन्द्याद्याः शुद्धविद्यायां लक्ष्मीरीश्वरगोचरे प्रकृतौ
संस्थिताजैनाशक्या बुद्धौ व्यवस्थिता पुरुषे
पञ्चधात्रज्ञाः शिवे सूर्यौ व्यवस्थिताः । स्पसरो
यक्षरक्षांसि विद्याधराहि किन्नराः । भूतवेताल डाकिन्यो
गृहनक्षत्रराशयः । समुद्राः क्षेत्रपालाद्याः
ऋषिब्रह्मदिगीश्वराः । ऊर्वितत्वे स्थिता ज्ञेया
जरार्यजाण्डजोद्भिजाः । अन्येषामपि तत्वेषु यत्र यत्र
व्यवस्थितिः ।

प्। ८९८)

न्यासमस्तदन्तमस्थानमपरं तस्य तदेव हि विघ्नराजादि
दिगीश्वरान्ताननां प्रतिष्ठासु तत्तदवस्थानास्पदीभूत
तत्तत्तत्वपर्यन्तन्यासः । कर्तव्यः । तेषां तत्तत् स्थानस्यैव
परमपदत्वात् अत एव सर्वेऽपि समयिन् स्वस्वशास्त्रोक्तपदस्यैव
सर्वोत्तरभावमन्वते मन्वेवं सति तत्तच्छास्त्राणामपि
तत्तन्महापुरुषेण प्रणीतत्वात् सन्देहेन
शैवशास्त्रस्याप्यप्रामाण्यशङ्काकलङ्कितत्वं स्यादिति
चेन्नास्य सार्वज्ञादिगुणयुक्त शिवप्रणीतत्वात् न
शङ्काशूकविषयत्वं न च सुगतस्यापि सर्वज्ञत्वा
तत्प्रणीतं शास्त्रमपि प्रमाणमस्यादिति वाच्यं
कपिलादिनामपि योगाभ्यासादिना सार्वज्ञसिद्धेः अथोभयोरपि
सर्वज्ञत्वमस्तुकानोहानिरिति
चेन्नपरस्परविरुद्धशास्त्रप्रणयनात् तदुक्तं सुगतो यदी
सर्वज्ञः कपिलो नेतिकाप्रमायद्युभावपि सर्वज्ञौ मतिभेदः
कथं तयोरिति तस्मात्तत्तत्तत्व परिज्ञानमात्रेणैवतरेषां
तत्तत्तत्वमात्रमेव परमावधी शिवशास्त्र सर्वज्ञ
परमशिवप्रणीतत्वेन तत्प्रतिपादितशिवतत्वस्यैव परमत्वं
तत् पदप्राप्त्युपायश्च दीक्षैवेति प्रतिपादितं प्रागेव तथा च
सर्वज्ञानोत्तरे

प्। ८९१)

मुक्तिस्थानं भवेदेकं विमलं सर्वतोमुखम् । अचलं व्यापकं
शान्तं लिङ्गाश्रमविवर्जितम् ॥

इति ये भवन्ति जितात्मानस्तेषां मुक्तिस्तु दीक्षा न चैव तानि
पश्यन्तिमुक्तिस्थानानि षण्मुखेति च अथ प्रतिष्ठायामूर्ति
मूर्तीश्वरतत्वतत्वेश्वरन्यासः ।