विस्तारः (द्रष्टुं नोद्यम्)
वरुणशिवाचार्यकृता।
श्रीः
शुभमस्तु
आत्मार्थ पूजापद्धति
वारुणपद्धति
वन्दे गण्डतटद्वन्द्वस्यन्दमान मदाम्बुधौ ।
कृतमज्जन लीलाकिकलभं कलभाननम् ॥ १ ॥
श्रीमदङ्घ्रिकमञ्जरी समुदञ्जित शिञ्जितै ।
शब्दानुन्वशासनं कुर्वन् पातु हेमसभानटः ॥ २ ॥
एकं तु तत्त्वं भुवने तदीश- स्सदाशिवश्शान्त इति त्रिरुपम् ।
तजोपपन्नः परमो गुरुयो निगद्यते प्रत्यहमागमज्ञैः ॥ ३ ॥
अनन्तक श्रीगलशैलकन्या- कुमार विष्णु भृगिणोभिधानैः ।
पुनस्स एवापर उच्यते य- स्स एव बोधोदधिहेतुभूतः ॥
श्रीदूर्वासाः पैङ्गलाचार्य उग्र- ज्योतिस्सद्यो ज्योतिरीशागमज्ञाः ।
श्रीकण्ठ श्रीविष्णु कण्ठस्सुबोधो विद्याकण्ठो रामकण्ठो मनीषी ॥
ज्ञाताशेष प्रौढगूढागमार्थान् प्रीताशेष क्षोणिकान्दृग्विलासैः ।
ज्ञातानन्दद्योतमानानुभावा- नेतान् वन्दे देशिकेन्द्रान् कुलीनान् ॥
आप्तज्ञानशिवेन तत्र गुरुणा श्रीज्ञानरत्नावलीज्ञानाख्यादिमशङ्करेण च कृता सा बालरत्नावली ।
अन्या सोमशिवेन साधु रचिता सत्कर्म काण्डक्रमोऽप्युत्तुङ्गेन शिवेन पद्धतिरियं तामानुकूलाकृताः ॥
ब्रमाख्या प्रथमेन शम्भुगुरुणा नामानारूपा कृता प्रोक्तेयं त्रिविलोचनेन विदुषा सिद्धान्तसारावली श्रेष्ठोऽयं हृदयाख्यदेशिकसता सिद्धान्तदीपः कृतो मुख्या वारुणपद्धतिर्वरुणनाम्नायं शिवेनोदिता ॥
अन्यच्चारुतरं क्रियाकरणकं सन्मण्डनं निर्मितं प्रासादाख्य शिवेन देशिकनटेशेन स्वनामोचितम् नाम्नास्वस्य च रामनाथ विदुषा सा निर्मिता पद्धतिः श्रेष्ठेशान् शेवेन नैपुणवता सिद्धान्तसारः कृतः एषामद्भुत पद्धतीरचयतामाचार्य वर्यात्मनामष्टाविंशति शैवतन्त्रजलधी रामज्जजम्ममाजताम् ।
शैवाचार विधानदुर्गमवनक्रीडा मृगेन्द्रात्मना मङ्घ्रीनम्बुज कान्तिकन्दलजुषो वन्दे मतिस्फूर्तये ॥
आत्मार्थपूजा विधये बुधाना- मत्यन्त नित्यार्चन लालसानाम् ।
सङ्गृह्य सारांशकमागमेषु सर्वेषु वक्ष्ये प्रकटं सुखेन ॥
शौचाचमन स्नान सन्ध्याविधिः
अथ चतुराश्रमधर्मिणामपि शुचिना कर्म कर्तव्यमित्युक्तत्वादागमोक्त प्रकारेण प्रथमं शौचाचमनादिकं प्रदर्श्यते ।
सुप्रभेदे -
अथातस्सम्प्रवक्ष्यामि शौचाचमनलक्षणम् ।
साधकानां हितार्थं तु चतुराश्रमधर्मिणाम् ॥
ब्राह्मे मुहूर्ते समुत्थाय शुचिर्वाप्यशुचिर्वा यथासम्भवं शौचयुक्तो हृत्पद्मादि स्थानेषु समयाद्यधिकारानुगुण्येन सदाशिवादिविग्रहं ध्यात्वा यथाशक्ति बिन्दुवर्जितं प्रणवं वा मूलमण्त्रं वा मनसा जप्त्वा प्रणम्य स्नानादिसामग्री भूत दन्तकाष्ठमृद्दण्डकमण्डल्वादिसहायोनिजालयान्निर्गत्य द्रव्यजातमस्त्रेण शोधिते शुचौ देशे निधाय ग्रामात्प्राच्यामुदीच्यां वा शतदण्डं विसृज्य यथोचितं देशं गत्वा
नासाग्रे न्यस्तलोचन ऋजुकायो नान्ममानसस्स मलादीनि विसृजेत् ॥
तथागमे
सुप्रभेदे -
ब्राह्मे मुहूर्ते विद्वान्वै मनसा चिन्तयेच्छिवम् ।
स्त्रिपाद स्त्रिघटिका रात्र्यन्ते तु दिने दिने ॥
ब्रह्ममुहूर्तमाख्यातं सङ्घोषस्त्वीति कथ्यते ।
तहा ज्ञानरत्नावल्याम्
ब्राह्मे मुहूर्ते योगात्मासनमुत्थाय समाहितः ।
निरोध्ये सति तं त्यक्त्वा नोचेत्तत्रैव संस्थितः ॥
यमाद्यष्टाङ्ग योगज्ञः स्वप्रकाशं परं शिवम् ।
परं व्याममयं शान्तं व्योमातीतं निरञ्जनम् ॥
भावग्राह्यं भावशून्यं देहालम्बनवर्जितम् ।
हृदयाम्भोरुहस्थं वा ज्योतिरूपं परापरम् ॥
सूक्ष्मं बिन्दुमयं देवं परमाक्षरमव्ययम् ।
यद्वा ब्रह्मबिले नादज्योतिर्लिङ्गमनाहतम् ॥
सर्वज्ञानोत्तरे -
ध्यानं तु द्विविधं कुर्यात् स्थूल सूक्ष्मं तथा बुधः ।
ध्यानेन हि परां सिद्धिं प्राप्नुवन्ति हि योगिनः ॥
स्थूलं मन्त्रमयं प्रोक्तं सर्वावयव संयुतम् ।
द्विमार्गावस्थितं ध्यायेत् पूजाग्नौ योगवित्तमः ॥
केवलं शिवबीजं तु सर्वावयववर्जितम् ।
ज्योतिरूपं परं शुद्धं त्सूक्ष्मं तु? परिकीर्तितम् ॥
शिवबीजमिति प्रासादवाच्यम्
प्रहरार्धे समुत्थाय ध्यात्वा देवं पिनाकिनम् ।
मनसा वर्तयेत्तत्तु प्रणवं बिन्दुवर्जितम् ॥
अचिन्त्यविश्वसादाख्ये? -
मूलमन्त्रमनुस्मृत्य जिह्वाग्रे तु प्रसन्नधीः ।
अजिते -
नमश्शिवाय शर्वाय देवाय परमात्मने ।
सदैकरूपरूपाय विकल्परहिताय ते ॥
ज?सजल्य चं बहिष्कुर्याद्? निजधाम्नि सहायवान् ।
स्थित्वा यावदुषा पूर्वं स्तुत्वा स्तोत्रैः प्रणम्य च ॥
कर्तव्य शुभकार्याणि चिन्तयित्वा समाहितः ।
उत्थाय च बहिर्गत्वा दण्डपाणिकमण्डलुः ॥
कालोत्तरे -
मृत्काष्ठं गोमयं पुष्पं तिलमामलकं शुभम् ।
कुशान्द्रव्यं? गृहीत्वा तु नदीं गच्छेत् समुद्रगाम् ॥
शिवधर्मोत्तरे -
दक्षो विनीतश्चित्तज्ञस्तोयं दानविधानवित् ।
सहायश्शौचकार्येषु तदभावे कमण्डलुः ॥
अत्र प्रसङ्गाद्दण्डादिलक्षणं च प्रदर्श्यते ।
अत्र चिन्त्यविश्वसादाख्ये -
दण्डलक्षणकं वक्ष्ये कल्माषेण समन्वितम् ।
मञ्जुस्निग्धमवक्रं च निर्व्रणं ? सुषिरं भवेत् ॥
कल्माषेण विहीनं वा तस्य लक्षणमुच्यते ।
एक पर्वा तु यया यष्टि?र्वज्रकामा सुखावहा ॥
द्विपर्वा राक्षसी ज्ञेया मांसशोणित भोजिनी ।
त्रिपर्वा पद्मिनी नाम पद्मिनी सा सुखप्रदा ॥
कामिनी रसपर्वा तु सर्वसिद्धि विवर्धिनी ।
मुनिपर्वा विपन्नाम नाशकारणदा भवेत् ॥
मूर्तिपर्वा शिवा नाम अत ऊर्ध्वं न कारयेत् ।
पादाङ्गुलमधोभागे पुत्रनाशाय कल्पते ॥
तत्सिद्धि द्व्यङ्गुलेनैव त्रिभिस्तु धनसिद्धिदम् ।
वेदाङ्गुलेन स्त्रीस्निग्धिः पञ्चमं मृत्युदं भवेत् ॥
रसाङ्गुलं धान्यसिद्धिस्तन्नाशं सप्तमं भवेत् ।
अष्टाङ्गुलं हितं प्रोक्तमत ऊर्ध्वं न कारयेत् ॥
मुलात्तु द्विगुणं पुञ्चम् एवं दण्डस्य लक्षणम् ।
मूर्धान्तं देशिकस्योक्तं कट्यन्तं साधकस्य तु ॥
भ्रुवोन्तरं पुत्रकस्य स्वान्तं? समयिनां सदा ।
नैष्ठिकानां गृहस्थानां हस्तव्यामेन कारयेत् ॥
सर्वदा धारणायां तु वैणवं दण्डमुत्तमम् ।
सुप्रभेदे - विशेष उक्तः
विप्राणां तु शिरोत्सेधं क्षत्रियाणां ललाटके ।
वैश्यानां नासिकोत्सेधं शूद्रादीनां तु वर्जयेत् ॥
सर्वज्ञानोत्तरे
अतः परं प्रवक्ष्यामि कमण्डलु विधिक्रमम् ।
असहायस्य योगीन्द्र सहायो स्यात्कमण्डलुः ॥
सुप्रभेदे -
सौवर्णं रजतं वापि ताम्रं वा मृण्मयं तु वा ।
यदुक्तं शिल्पशास्त्रेषु तत्तद्युक्त्या तु कारयेत् ॥
पूरितं चाढकैः श्रेष्ठं मध्यं त्रिप्रस्थपूरितम् ।
द्विप्रस्थ पूर्णमधमं मानमेवं कमण्डलोः ॥
षट्सहस्रिकायाम् -
हेमदारुमयं शस्तः शुल्पजं वाथ पार्थिवम् ।
बीजपूराकृतं कुर्याद् द्वादशाङ्गुलमुच्छ्रितम् ॥
दीप्ते -
उदारस्य तु विस्तारं भूताङ्गुलमिति स्मृतम् ।
अन्तेन पद्मं तन्नाहं गम्भीरं स्याद्गुणाङ्गुलम् ॥
अध्यर्धमास्र विस्तारम् ओष्ठमध्याङ्गुलेन तु ।
कर्णोत्सेध द्वयङ्गुल्यं कर्णनाहं षडङ्गुलम् ॥
पार्श्वे नासिकया युक्तं नास्यायामं त्र्ययङ्गुलम् ।
एकाङ्गुल प्रमाणेन पृष्ठपादं प्रकल्पयेत् ॥
पात्राण्येतानि सर्वाणि कुर्यान्मात्राङ्गुलेन तु ।
षट्सहस्रिकायाम् -
पूरयेत्तेन मार्गेण यावद्वै गलकावधि ।
पञ्चपानीय संशोध्य पञ्चगव्येन भस्मना ॥
शिवेनाष्टशतं जप्त्वा पूज्य संस्थापयेच्छुचौ ।
निवेदयेदघोराय ततस्सम्प्रार्थ्य धारयेत् ॥
नित्यं त्रिघटिकायां तु भूमौ नाप्यशुचौ क्वचित् ।
अथ न स्पर्शयेत्तत्र स्पर्शात्यागो? विधीयते ॥
अथवा ? कविगवेत्येनां मन्त्रयेत् पूर्ववत्क्रमात् ।
शौचं तेनाह्वयं कुर्यान्न भ्रान्तिं तत्र कारयेत् ॥
न गृह?स्थैः प्रकर्तव्यं शौचं कार्यं स्वयं क्वचित् ।
कमण्डलु विधानं तु सङ्क्षेपेण प्रकीर्तितम् ॥
सर्वज्ञानोत्तरे -
ताम्रमाम्लेन संशोध्य तथास्त्रोदक भस्मना ।
रौप्य हेमौ तु संशोध्यौ लेपगन्धमलान्वितौ ॥
प्रज्वाल्याग्निमघोरेण अस्त्रेण च विधानवित् ।
प्रातरुत्थाय तन्नित्यं देहेदेवं? येः? कमण्डलुम् ॥
ततस्त्वां? पूरयेत्पश्चाद्वस्त्रपूतेन वारिणा ।
नाज्ये? नेज्यं न सेवितं वस्त्रं न शर्यान्न कमण्डलु ॥
न भस्मना बलापत्या? रासनं? भक्ष्यपात्रकम् ।
-
-
-
-
-
-
-
- संसेवेत कदाचन ॥
-
-
-
-
-
-
कालोत्तरे
पर्वताद्वा नदीकूलात् पुण्यक्षेत्राच्छुचिस्थलात् ।
ब्रह्मवृक्षात्कुशा धस्तादस्त्रखातां सुरक्षिताम् ॥
तालमानादधां मृत्स्नामादाय हृदयेन तु ।
सञ्चयेद्भूतले शुद्धे यावन्मास चतुष्टयम् ॥
वर्षाकालेन? गृह्णीयात् श्राद्धपक्षे विशेषतः ।
कुशास्सदेशजा स्निग्धा नातिखर्वा न चायताः ।
शुकच्छायास्साग्रमूलाः सप्तपर्णा न सप्तजाः? ॥
पथिजाताश्चिताजानाः श्मशाने पितृतर्पणे ।
स्तरणासनपिण्डेषु न ग्राह्यास्सप्तदेशजाः ॥
चिन्त्यविश्वसादाख्ये -
उत्थाय च बहिर्गत्वा दण्डपाणिः कमण्डलुः ।
योग्यदेशे समागत्य शिस्ये दण्डकमण्डलुम् ॥
तथा सन्ताने
द्रव्यजातं शुचिस्थाने निधायास्त्रेण शोधिते ।
गत्वा दूरात्ततो मौनी दक्षकर्णोपवीतवान् ॥
ग्रामात्प्राच्यामुदीच्यां वा शतदण्डं विसृज्य च ।
शिवधर्मोत्तरे -
ग्रामाद्धस्तशतं गत्वा नगरात्तच्चतुर्गुणम् ।
मही सर्वत्र मेध्या स्यान्? निर्लेपा यत्र दृश्यते ॥
कारणे -
ग्रामस्यै?शानदिग्भागे मलादीन विसर्जयेत् ।
सहस्रतन्त्रे तु -
यथेष्टदेशे गन्तव्यम् ऐशान्यां दिशि वर्जयेत् ।
ज्ञानरत्नावल्याम् -
नाशुद्धभूतले चित्यं? पथि? वारिणि पिञ्छिले ।
कृमिगोमयद्वासु सस्यक्षेत्रे क्षरेषरे? ॥
मुनिदेवालयाराम वल्मीकजलसन्निधौ ।
नदीपुष्करणी वापि (पी?) तटाकादिजलाश्रये ॥
ग्रामचत्वाररथ्यासु वृक्षच्छायासु गोकुले ।
पर्वतेऽश्मनि मु(भू?)गर्ते कुर्याच्चेद्दोषभाग्भवेत् ॥
मूत्रोत्सारं तु यः कुर्यादेषु स्थानेषु मानवः ।
स पच्यते महाघोरे याचदामूतसःप्लवम् ॥
शिवधर्मोत्तरे -
शिरः प्रावृत्य तत्कुर्यादन्तर्धाय तृणैर्महीम् ।
अन्यत्र -
देवता ऋषयस्सर्वे गणनाथास्तथैव च ।
उत्तिष्ठ सर्वतश्चैव बहिर्भूमिं करोम्यहम् ॥
सर्वज्ञानोत्तरे -
दिवा भूम्युत्तरे तिष्ठेद्रात्रौ वै दक्षिणामुखः ।
अर्धरात्रेषु नैर्-ऋत्यां द्वे सन्ध्ये (द्विसन्ध्ये) तु यथादिवा ॥
सन्ताने -
वातस्याभिमुखं चैव न कुर्यात्तु कदाचन ।
ज्ञानरत्नावल्याम् -
गुह्यदेशे महावाते क्षीणिरोगेऽथ? दिग्भ्रमे ।
छायायां च दिने रात्रौ अन्धकारे तथापदि ॥
यथासुखमुखो भूत्वा मृगचोरभयेषु च ।
पायूवायु मलमूत्रं विसृजेत् समुपस्थितम् ॥
न यज्ञाङ्गतृणच्छन्ने भूतले विसृजेन्मलम् ।
कारणे
स्त्रीणां गोविप्रलिङ्गानां प्रत्यक्षं चन्द्रसूर्ययोः ।
देवतान्तरिताराग्नि सम्मुखं च विवर्जयेत् ॥
क्रिया सङ्ग्रहे -
न विट्लिङ्गनभोदिक्षु क्षिपेदॄष्टिं विचक्षणः ।
कामिके -
नासापीडन निष्ठीवद्रप्सोद्गारादिकं त्यजेत् ।
शिवधर्मोतरे -
न विण्मूत्रमुदीक्षेत छायां चैवात्मनो न च ।
ततो लोष्टादिना गुदं प्रमृज्य वस्त्रपिहितेन वामकरेणस्य? सेफं सङ्गृह्योत्थाय दक्षिणहस्तेन यथोक्तां मृत्स्नां नालिकेरफलमात्रमादाय जलतीरं गत्वा तत्र तान्निक्षिप्य तृणमूलादिकं त्यक्त्वा जलेन प्रीकुभ्या?मली फलमात्रं सव्येनादाय वामकरे निधाय तेन तेन भुः? दशवारं मेढ्रं त्रिवारं वृषणौ च तथा पुनरन्तरान्तरा वामकरमेकवारं पुनश्च दशवारं करद्वयं? सप्तवारं यावद्वभावशौचः (चो?) वा प्रक्षालय स्फिक्शुद्धिं विधाय प्राङ्मुखः
पादौ उदङ्मुखो हस्तौ च जानुकोर्परावसानं त्रिवारं प्रक्षाल्य ततोऽन्यत्र जलतीरे गत्वा यथोक्तगण्डूषान् कृत्वा पूर्वं तूष्णी माचम्य पश्चान्मन्त्रेणाचमनं विदध्यात् ॥
ज्ञानरत्नावल्याम् -
तुणैः पायुमयज्ञाङ्गैर्मृज्यादनुपयोगिभिः ।
मृत्पिण्डेनैव वा कुर्यान्मार्जनं लोष्टकादिना ॥
अन्यैर्वा न तु सम्पन्नत्वक्परत्र?रजः फलैः ।
अथिगोमय पाषाण दारुभिर्गुदमार्जनम् ॥
सर्वज्ञानोत्तरे -
गृहीतशिश्नश्चोत्थाय मृत्तिकाग्रहणं कुरु ।
वालुकोषरकोद्यानीवृक्ष मूलैर्जलाशये ॥
कोद्याने -
वल्मीकमृत्तिकां चैव तथा वै ग्रामधानिकाम्? ।
विशुद्धमृत्तिकां गृह्य जलतीरे निधापयेत् ॥
कामिके -
कराम्र मृद्वीम्ममृदं शौचार्थ माहरेत् ।
रौरवे
अथवाम्बुसमीपे तु द्वादशाङ्गुलवर्जितम् ।
अथो मृत्स्नां समादाय नालिकेर प्रमाणकम् ॥
कालोत्तरे -
नालिकेरं फलं मात्रं शौचार्थं मृदमाहरेत् ॥
कारणे -
तृणमूलादिकं त्यक्त्वा जलेना छ्श्रि(छी?) कृतां तु ताम् ।
आमली फलमात्रेण सव्येनादाय वामके ॥
निक्षिप्य वामहस्तेन कर्षयेत्तु पुनः पुनः ।
कालोत्तरे -
दशकृत्वो मृदं दद्याद्गुदं वै गृहमेधिक? ।
दश मेढ्रे तु मृदं दद्यादधोवृषणयोस्तथा ॥
दशभिर्वामहस्तं तु सप्तभिश्चोभयौ करौ ।
एकैकमन्तरे त्रीणि एवं शौचं कृतं भवेत् ॥
त्रिभिस्तु पादौ प्रक्षाल्य करौ च पुनराचमेत् ।
पराख्ये -
क्रियमाणे यदा शौचे विद्रवोच्चलनं भवेत् ।
तेन तत्क्षालनार्थं तु कटिशौ चं विधीयते ॥
अत्र क्षालने दिग्नियमः चिन्त्ये दार्शितः यथा -
प्राङ्मुखः क्षालयेत्पादौ वक्रहस्तावुदङ्मुखः ।
जलेन शोधयेत्पश्चाद् गण्डूषान्? षोडश क्रमात् ॥
शिवधर्मोत्तरे -
नगरग्रामरथ्यां वा परिक्रम्य गृहाद्बहिः ।
पादौ प्रक्षाल्य मृत्तोयैर्गृहान्तः प्रविशेत्ततः ॥
कारणे -
वामपादं जले स्थाप्य स्थले दक्षिणपादकम् ।
माषमग्नजलं ग्राह्य निर्दोषं त्रिःपिबेद्बुधः ॥
ज्ञानरत्नावल्याम् -
ततोऽन्यत्र समाचम्येत्तूष्णीं सव्योपवीतवान् ।
पुनर्मन्त्रैस्समाचम्य दन्तधावनमाचरेत् ॥
तथा शिवधर्मोत्तरे -
तूष्णीमेव ततो भूयश्शिवमन्त्रेण पूर्ववत् ।
आचमेद्ब्रह्मतीर्थेन ब्रह्मसूत्री ह्युदङ्मुखः ॥
एतच्छौचं गृहस्थ विषयमुक्तम् -
कारणे
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
गृहस्था त्रिगुणं भिक्षोर्यतीनां तु चतुर्गुणम् ॥
यावन्मात्रं मनश्शुद्धि तावच्छौचं समाचरेत् ।
शिवधर्मोत्तरे
गङ्गातोयेन सर्वेण मृद्भारैश्च न गोपलैः ।
आत्मनो रोचयेच्छौचं भाविदुष्टेन शुध्यति ॥
ज्ञानं मलाम्भसां पुंसा सदैराश्यमृदा पुनः ।
अविद्या रागविण्मूत्र लेपगन्धविलेपनम् ॥
गद्यम्? [तदनु हृन्मन्त्रितं दन्तकाष्ठेन दन्तान्धावयेत् ।
]
कामिके -
सङ्गृह्य दन्तकाष्ठं तु हरेद्दन्तगतं मलम् ।
दीप्ते
निर्मलं दशनं यावत्तावद्वै दन्त धावनम् ।
ततस्तालु विशोध्यं तु तैरेव प्रतिशोधयेत् ॥
कारणे -
हृदा मन्त्रितकाष्ठेन दन्तमांसमबाधयन् ।
दन्तानन्तर्बहिश्शोध्य दन्तकाष्ठैरितीष्यते ॥
पराख्ये
लालामृत् श्रोत्रनासस्य रेतो विण्मूत्रमात्रजम् ।
नखपादगतं यच्च यच्च गन्धादिलेपनम् ॥
नासिका श्रोत्रनेत्रोत्थमुदकेन विशुध्यति ।
वक्त्रजं दन्तकाष्ठेन कैश्यं चामलकादिभिः ॥
अद्भिश्च शुद्धिमृद्भिश्च शेषं प्रक्षालयेत्तनुम् ।
चिन्त्यविश्वसादाख्ये -
समच्छेद मृजुं शुद्धं सादत्यग? पर्वकम् ।
कनिष्ठानाहसंयुक्तं दन्तकाष्ठस्य लक्षणम् ॥
अष्टाङ्गुलं नैष्ठिकानां भोगिनां द्वादशाङ्गुलम् ।
क्रियाकाण्डक्रमावल्ल्याम् -
अथवा विप्रराजन्वै वैश्यशूद्रान्त्यजादिषु ।
दशाङ्गुल समुद्दिष्टं क्रमादेकैक ह्रासतः ॥
तथोपपुराणे -
दशाङ्गुलं तु विप्राणां क्षत्रियाणां नवाङ्गुलम् ।
अष्टाङ्गुलं तु वैश्यानां शूद्राणां सप्तसम्मितम् ॥
चतुरङ्गुलमात्रं तु नारीणां दन्तधावनम् ।
ज्ञानरत्नावल्याम् -
शिखावत् शिवधर्माणां साधकानां हराङ्गुलम् ।
एकैकमङ्गुलं न्यूनं चतुर्णां लोकधर्मिणाम् ॥
जम्ब्वाम्रगकुम्भा शोकपित्थवकुलोद्भवम् ।
प्लक्षोदुम्बर पुल्लाटङ्घ्रि जातिचम्पकशङ्खजः ॥
अतिमुक्तकदम्बोत्थमपामार्गं च गेहिनाम् ।
हितमेतच्च शैरीषञ्चिकि बिल्वकरञ्जकम् ॥
श्रीपर्णी दारु निर्गुण्डीसारभे खादिरन्धते ।
अक्षक्षीरिव वैरिण्ड वटाश्वत्थार्कशिग्रजम् ॥
आकुली सेलु वानीरधात्री निम्बशरोद्भवम् ।
कर लक्षकवृक्षोत्थ त्वक्सारं शुष्कवृक्षकम् ॥
खर्जूरिनालिकेरोत्थं तालजं बृह्मवृक्षकम् ।
तृणपर्ण पिशाचोत्थमिष्टकाङ्गार भस्मजम् ॥
अङ्गुलिश्च न शस्येतत्प्तमादाच्चेत्तपक्षयः ।
मन्त्राश्च मुनयो देवाः पितरस्तत्पराङ्मुखाः? ॥
भविष्यन्त्युदिते भानौ कुर्याच्चेद्विकृती विना ।
उत्तरास्यो यतिर्मौनी गृहस्थश्चेत्पुराननः ॥
उपविश्य श्रुचिस्थाने विद्रशवान्त्यजरासभान् ।
श्वानार्तस्त्रीश्च पाकार्थिस्सूकरं नावलोकयेत् ॥
?
प्रतिपन्नवमी षष्ठीव्यतीपातादिपर्वसु ।
अत्र व्यतीपातादिशब्देन व्याघातादिपदं? गृह्यते ॥
तथा
व्याघातं परिसंवज्ञं? व्यतीपातं च वैधृतिः ।
गण्डादिगण्डशूलं च विष्कम्भं नव वर्जयेत् ॥
पौर्णमास्याममावास्यां सङ्क्रान्तौ ग्रहणे गृही ।
कृत्वा द्वादशगण्डूषान् सम्प्रक्षाल्य मुखं शनैः ॥
अलाभे दन्तकाष्ठानां प्रतिषिद्धे तथा दिने ।
अपो? द्वादशगण्डूषैर्मुख शुद्धिर्भविष्यति ॥
अन्यत्र
मूत्रे पूरीषे भुक्तौ च तथा भक्ष्यस्य भक्षणे ।
चतुरष्टद्विरष्टाष्टगण्डूषेण विशुध्यति ॥
आस्यं प्रक्षाल्यं गण्डूषैर्वामभागेन शुध्यति ।
मोहाद्दक्षिणभागे तु रौरवं नरकं व्रजेत् ॥
चिन्त्यसादाख्ये? -
मुमुक्षोश्च विशेषेण नित्यं वै दन्तधावनम् ।
तदनु स्नायात् -
जलस्नानं प्रकर्तव्यं सर्वपापहरं शुभम् ।
बहिरन्तर्विशुद्ध्यर्थं शिवेज्यायोग्यकारणम् ॥
आलस्य दाह निद्राणां शत्रूणां च क्षयं यतः ।
सर्वाचार प्रधानत्वात् स्नानमादौ प्रचक्ष्यते? ॥
मतङ्गे च -
न्यासार्चनादिकः कृत्स्नो विधिः स्नानपुरस्सरः ।
यस्मात्तस्मात्सामान्यमादौ स्नानं प्रवक्ष्यते ॥
कामिके -
वारुणं च तथाग्नेयं मान्त्रं मानसमेव च ।
वायव्यं चैव माहेन्द्रं स्नानं षड्विधमीरितम् ॥
स्नानाष्टकं कुत्रचिदुक्तम् -
वारुणाग्नेय माहेन्द्रं मारुतं मान्त्रमानसम् ।
पार्थगौरवमित्यष्टौ स्नानान्येतेषु मध्यतः ॥
दीक्षितो योऽधिकारी? स्याद्योगस्नानार्चनादिषु ।
तस्याधिरयोग्यस्य स्नानमादौ च वारुणम् ॥
नदीनदतटाक पल्वलप्लवनेषु दीक्षितस्य स्नानं श्रेष्ठम् मध्यमं नालपुष्करिण्यादिषु ।
कूपदीर्घिकाकुण्डोदपावनेषु कन्यसम् ।
गृहे स्नानं श्रेष्ठम् ।
तदुक्तम् -
श्रीमत्पौष्करे -
नदीषु देवखातेषु पल्व?लप्लवनेषु च ।
दीक्षितस्योत्तमं स्नानं पुष्करिण्यां तु मध्यमम् ॥
कूपोदकस्नानमाहुर्गृहे श्रेष्ठं प्रकल्पितम् ।
स्नानं गृहेऽपि कर्तव्यं लिप्तायां भुवि दीक्षितैः ।
कामिके -
अथवा स्वगृहे तप्तवारिणा शितलेन वा ।
ततस्यालिप्तभूपृष्ठे? पीठस्थ स्नानमाचरेत् ॥
तथान्यत्र -
$$$$स्त्रीबालानां महीशानां रोगा?(गि?)णां च प्रवासिनाम् ।
उष्णोदकेन स्नानां वा कण्ठस्नानमथापिवा ॥
चिन्त्यविश्वसादाख्ये -
नद्यां तटाके वाप्यां वा कूपे वापि चतुर्विधम् ।
कूपस्नानं प्रकर्तव्यं यदि नद्यान्त(द्य?) सम्भवे ॥
अथवा मठदेशे वा कूपादुद्धृतवारिभिः ।
कुम्भैः स्नानं प्रकर्तव्यं पूर्वोक्तविधिमन्त्रकैः ॥
मृत्कुम्भात्ताम्रकुम्भेन स्नानं शतगुणं भवेत् ।
ताम्राच्छतगुणं रौप्यं रजताद्ध्यैकं? शतम् ॥
?
कूपाद्दशगुणं वाप्यां तटाके तु र(श?)ताधिकम् ।
नद्या समुद्रगामिन्य? द्रुतफलमुच्यते ॥
सुप्रभेदे -
पयोधिसङ्गमं चैव नदीहृ(ह्र)दसरांसि च ।
आर्यस्य पादस्पृष्टं तु जलमभ्य(त्य)न्तमुत्तमम् ॥
पल्ल(ल्व?)लप्लवनं चैव पुष्करिण्यादिनालकम् ।
तटाकतीर्थसदृशं मध्यमं कन्यसं पुनः ॥
कुण्डोदं निपानं च वापीस्नानं(न?) समं भवेत् ।
क(अ?)ल्पं वा बहुलं वापि शिवालयसमीपगम् ॥
सर्वतीर्थानि तत्स्थानि शिवलिङ्गविधानतः ।
शैव पुराणे -
देवालयस्थितं तीर्थे दूषयेन्न कदाचन ।
नाभ्यन्तमशुचिस्तत्र स्नानं कुर्यात्तु कर्हिचित् ॥
दीप्ते -
कोटिकोटिगुणं प्रोक्तं समुद्रसङ्गमो भवेत् ।
तटाकात्सहस्रगुणितं नद्यां वा स्नानमाचरेत् ॥
सुप्रभेदे -
अप्रशस्तं निशिस्नानं राहोरन्यत्र दर्शनात् ।
पुत्रस्य रुधिरं नित्यं स्रवन्ति निशि निम्नगाः ॥
तस्मात्स्नानं च पानं च न कुर्वीत कदाचन ।
रात्रौ वारि न गृह्णीयाद्दैवार्थं चात्मनश्च वै ॥
सुवर्णाग्नि समायुक्तः प्राणायामेन वा जलम् ।
प्राणायामत्रयं वापि कारयेद्देशिकोत्तमः ॥
जलशुद्धिर्भवेदेवं निशि स्नानाय गद्यते ।
तस्माद्दिवैव गृह्णीयाद्दैवार्थं चात्मनश्च वै ॥
तत्र स्नानविधिः ज्ञानरत्नावल्याम् -
समाचम्य कृतन्यासो दर्भहस्तः प्रसन्नधीः ।
प्राणयामत्रयं कृत्वा संहितां प्रणवं वदन् ॥
अद्यामुकेरवौ मासे तिथौ वारे सरिद्वरे ।
स्नानं देव करित्वे त्? पूजार्थं त्वं प्रसीद मे ॥
इति विज्ञाप्य मूर्तौशम्भौ स्नानमाचरेत् ।
पूर्वमस्त्रेन सङ्गृह्यतां मृदं नमोऽन्तहृदयेनादाय नमोऽन्तशिरसा जलतीरे निक्षिप्य नमोऽन्तशिखया तृणमूलादिमुद्धृत्य हम्फडन्तास्त्रेणाभ्युक्ष्य
नमोऽन्तकवचेन त्रिधा विभज्य नाभ्यधः पादान्तमेकभागेन प्रक्षालयेत् ॥
ज्ञानरत्नावल्याम् -
पूर्वोक्तेन विधानेन धौते तीरे मृदं हृदा ।
आदाय शिरसा धृत्वा चूडयोद्धृत्य शर्कराम् ॥
अभ्युक्ष्यास्त्रेण त्रिःकृत्वा वर्मणा हेतुना पुनः ।
आनाभि क्षालयेत्पादादेकया कायं? मान्यया ॥
द्वितीयभागेन सकृदस्त्रजप्तेन देहगतकल्मषशान्तये सर्वा�न्गमालभ्यानाभि जलं प्रविश्य मानसार्व(घ?) निवृत्तये पूर्वास्य षण्मुख्यान यानादिकं? विधाय विप्राणांश्च संयम्य वाचिकभाव शुद्ध्यर्थं संहिता जपन् हृदयेऽस्त्रं कालान्निप्रभं? संस्मरन् जले निमज्य यावच्छक्यमासीत ॥
ज्ञानरत्नावल्यां -
अस्त्राभिजप्तयालभ्य सर्वाङ्गं भानुदीप्तया ।
पूर्व(र्वा?)स्यो जलमाविश्य शस्त्रेण परिलोड्य तत् ॥
प्राणान् संयम्य पाणिभ्याम् इन्द्रियाणि निरुध्य च ।
अग्न्यस्त्रं चिन्तयन्यन्तस्तत्तेजः पुञ्ज पिञ्जरम् ॥
कृत्वाघमर्षणं यावच्छक्यमासीत तज्जले ।
सिद्धान्ते -
अङ्गुष्ठाद्या(भ्या?)मुभौ कर्णौ तर्जनीभ्यामथाक्षिणी ।
मध्यमाभ्यां निबध्नीयान्नासिकायुगलं दृढम् ॥
षण्मुखीकरणं ह्येतत् स्नानकर्मनि योजयेत् ।
सार्धद्विशती(ति?)कायाम् -
सकृज्जप्तेन सङ्गृह्य मृदमस्त्रेण मन्त्रवित् ।
मलस्नानं पुराकुर्यात् सकृज्जप्त्वा तु संहिताः ॥
पराख्ये -
एकमुद्धृत्य मृद्भागं तेन स्नानं मलापहम् ।
शस्त्रमुच्चार्य कार्यं स्वमालद्य शिरसं क्रमात् ॥
?
पादान्तं योवदन्स्नायादेन विशुद्ध्यते? क्षणात् ।
प्राणायामं पुनः कुर्यादन्तः प्राण निरोधनम् ॥
प्राणवृत्तिनिरोधधयेन(धेन?) मनोवृत्ति(त्तिं)वृत्ति(श्?) निरोधयेत् ।
मनोवृत्ति निरोधयेन(धेन?) या(पा?)पं यम्मा(न्मा?)नसं हरेत् ॥
ध्यायेदस्त्रं महादीप्तज्वलद्वह्नि शिखाकुलः ।
आग्नेयधारणासंस्थं तच्छिखोर्त्थेन भूरिणा ॥
तेजसा वर्तते तोयं भस्मभूतं समन्ततः ।
तेन विस्नाः(घ्ना?) प्रणश्यन्ति योऽम्भसोऽन्तर्बहिस्थितः ॥
तटस्थाश्च प्रणश्यन्ति दह्यमाना भयाकुलाः ।
ततों?कारपदं ध्यायेदमृतस्यन्दि निर्मलम् ॥
सुप्रभेदे -
अन्तर्जले पिधानाक्षस्सर्वाङ्गं नैव दर्शयेत् ।
दर्शयेदेतदुच्चार्धं मुखमग्नोऽथवा पुनः ॥
मुखमग्नं तु यत्प्रोक्तं शतद्ध्यार्द्धमभेत् क्रमात् ।
अर्धार्धेऽर्धसाहस्रं निमग्ने कोटिरुच्यते ॥
ध्यानयुक्ते(क्तो?) विनिष्क्रम्य क्रमेणाचम्य तत्पतः? तथा मृगेन्द्रे -
संयतासुरपाम्मध्ये वक्त्रमादाय चेद(त?)सा ।
जपेदघौघविच्छित्यै तारं दुःख तामिति?॥
ततो विप्रादिषु त्रिषु वर्णेषु गृहस्थो ब्रह्मचारी पादधः कश्चिच्छिव?दीक्षितः प्रथमं समास्तोक्तं ब्राह्मीं सन्ध्यामुपास्यानन्तरम्
अस्त्र सन्ध्यां ध्यायन् ॐ शिवास्त्राय विद्महे ।
कालानलाय धीमहि तन्नो शस्त्रः प्रचोदयात् ॥
इत्यस्त्राय? गायत्रिमन्त्रेण सूर्य मण्डले त्रिर्जलाञ्जलिं प्रक्षिप्य यथाशक्ति जपं कुर्यात् ।
विरक्तो वैदिकीं विनास्त्र सन्ध्यामेव कुर्यात् ।
सूद्रस्तु ब्राह्मीं सन्ध्यां विहायास्त्र सन्ध्यामेवोपासीत ।
तत्द्ध्यानार्थ? मस्त्रेण शिरसि त्रिर्जलबिन्दून्निक्षिप्याचम्यामञ्जलिमस्त्रेणैव कृत्वा तेनैव यथाशक्ति जपेत् ।
यद्वास्त्रं हृदि सञ्चिन्तयेत् ॥
मृगेन्द्रे -
स्नानमाशिरसः कृत्वा समाचम्योदगाननः ।
प्राङ्मुखो वा भजेत्सन्ध्यां वेदासिद्धा(ध्व?) द्विराश्रमी ॥
तथा अंशुमति -
पूर्वस्यामुत्तरस्यां वा समं कुर्याद्विचक्षणः ।
याम्ये च पश्चिमे चैव निष्फलं तदवाप्नुयात् ॥
सूक्ष्मे विशेष उक्तम्(ः?) -
स्नानं च तर्पणं कृत्वा पाङ्मुखो वैदिकं चरेत् ।
उत्तराभिमुखो भूत्वा शैवसन्धिं क्रमञ्च?रेत् ॥
कामिके -
जले स्नात्वा समुत्तीर्य दीक्षितस्तु त्रिवर्णजः ।
अविरक्तः पुरा ब्राह्मीं सन्ध्यां वन्देत साधकः ॥
भजेत्तदन्ते शैवीं तु सङ्क्षेपविधिमाश्रितः ।
इतरस्तु विरागात्मा लौकिकार्थ पराङ्मुखः ॥
कुर्याद्ब्राह्मीं नवा कुर्याच्छैवीमेव नियोगतः ।
अवश्येके वा शौचे वं(वा?) स्नानेप्या च मनेऽपिवा ॥
सन्ध्यायां वन्दने वापि तर्पणे होमकर्मणि ।
अजिते -
स्नप्त्वोत्तीर्य पुरा ब्राह्मीं यजेत्सन्ध्यां भौतिकः ।
नैष्ठिकश्चेद्ब्रजेत् सन्ध्यां केवलं चास्त्र सञ्ज्ञिताम् ॥
गृहवत्यादिकं वात्य? द्विजानां विहितं तु यत् ।
कर्तव्यं वा न कर्तव्यं शैवमावश्यकं मतम् ॥
बृहत्कालोत्तरे -
वैदिकं तु पुरा कृत्वा ततश्शैवीं समभ्यवेत्? ।
भौतिको नैष्ठिकास्तद्वद्ब्राह्मीं कुर्यात् पुन वा ॥
शैवी तु नियमेनैव सेव्या पतनमन्यथा ।
वित्यादि त्रितयं कार्यं चतुर्भिरविशेषतः ॥
श्वैदेवं? तथा सन्ध्यां शूद्रकत्वा त्रयोदितम् ।
रामनाथपद्धत्याम्
कुर्यात्सन्ध्यां कृतन्यासः स्मृत्वास्त्रं रविमण्डले ।
अर्घ्यं दत्त्वास्त्रगायत्र्या यथाशक्ति जपन्निति ॥
तथा
स्नानमाशिरसः कृत्वा समाचम्योदगाननः ।
प्राणायामत्रयं कृत्वा शिवास्त्राष्टशतं जपेत् ॥
प्राञ्जलि स्त्रिरुपावृत्योपस्थानं सम्यगाचरेत् ।
अस्त्रसन्ध्येत्रि(ति?) निर्दिष्टा शैवसाधारणीवृता ॥
अथमन्त्रस्नानमाचरेत्
सुप्रभेदे -
मलस्नानमिदं प्रोक्तं मन्त्रस्नानमथ शृणु ।
मत्स्यमण्डूक सर्पाद्यैरन्यैश्च जल जन्तुभिः ॥
सेवितं तु जलं नित्यं तस्माद्दुष्टं विशेषतः ।
तद्दोषशमनार्थं तु शिवतीर्थं प्रकल्पयेत् ॥
तदनु हाह्नवीयादि महातीर्थेष्वेकं बिन्दुस्नानात् ?।
ॐ हां हृदयाय वौषडित्यं? पूर्वमस्त्रजप्तं दक्षिणं ब्रह्मजप्तमुत्तरं शिवजप्तं क्रमेण सप्तवारमेकवारं? विधाय अस्त्रजप्तेन दिग्बन्धनं कृत्वा शिवजप्तेन जलमभ्यावर्त्त्य ब्रह्मजप्तेन सर्वाङ्गमालभ्य कृतषण्मुखीकरणः शिवं ध्यात्वा स्नायात् ॥
चिन्त्यविश्वसादाख्ये -
जाह्नव्यादिमहातीर्थेष्वाकृष्याङ्कुशमुद्रया ।
वौषडन्तहृदा विदोस्समादायोद्भवाख्यया ॥
मुद्रया हृदये नैव नमोऽन्तेनाम्भसि न्यसेत् ।
दक्षिणं हस्तमुत्तानं तर्जन्यां कुञ्चिते तथा ॥
शेषं मुष्टिं तु सम्बन्धं मुद्रेयं चाङ्कुशस्य तु ।
कामिके -
अवशिष्ट भृतो? भागं सङ्गृह्य जलमध्यतः ।
स्थित्वा वामकरे कुर्यात् त्रिभागमुदगाननः ॥
पूर्वेण दक्षिणेनैव तथा चैवोत्तरेन तु ।
अस्त्रजप्तं भवेत्पूर्वं ब्रह्मजप्तं तु दक्षिणम् ॥
उत्तरं शिवजप्तं तु प्रकुर्वीत पृथक् पृथक् ।
अस्त्रजप्तं जपेद्दिक्षु दशस्वपि यथाक्रमम् ॥
नाराचास्त्र प्रयोगेण जलमध्ये पुन क्षिपेत् ।
दक्षस्थेन निजं कायं शिरसः प्रभृति स्पृशेत् ॥
कायान्तं कायपापघ्नं स्नानं कुर्याच्छिवाम्भसि ।
सुप्रभेदे -
प्राङ्मुखोदङ्मुखो वापि स्नानार्थं संव्रजेद्गुरुः ।
ततश्शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते ॥
तत्रापि दक्षिणं तीरमनन्तफलमावहेत् ।
सर्वज्ञानोत्तरे -
शिवतीर्थं भवेदेवं विधिनानेन षण्मुख ।
सर्वतीर्थवरं पुण्यं सर्वपापहरं शुभम् ॥
ततस्सोमसूर्यौ शक्तिशिवौ च वामदक्षिणहस्तयोस्सञ्चिन्त्य वौषडन्तषङ्गेनाभिमन्त्र्य कुम्भमुद्रया त्रिधा शिरस्यभिषिच्य हुं फडन्तास्त्रेणान्तराय शमनार्थं जलं दिक्षु विदिक्षु निक्षिपेत् ॥
कामिके -
सूर्यसोमात्मि(त्म?)कौ हस्तौ संयोज्य घटमुद्रया ।
मूलमन्त्रात्मकैर्मन्त्रैस्सेकः कार्यस्सकृतसकृत् ॥
चिन्त्यविश्वसादाख्ये -
चन्द्रार्करूपहस्ताभ्यां सेचयेत्कुम्भमुद्रया ।
वौषडन्तं षडङ्गेन जलेन च मुहुर्मुहुः ।
साधकस्साधकैर्मन्त्रैर्जप्त्वा च दर्शसङ्ख्यया ॥
अभिषिञ्चेत्क्रमान्नित्यं(त्यम?)मृताम्बु विभावयन् ।
वीरतन्त्रे -
उत्तानौ तु करौ कृत्वा मणिबन्धं तु कारयेत् ।
वामहस्तस्य चोर्ध्वे तु दक्षिणं विन्यसेत्ततः ॥
वामाङ्गुष्ठस्य चोर्ध्वे तु दक्षिणाङ्गुष्ठकं न्यसेत् ।
मध्यमे सुविरं कुर्याच्छेषाङ्गुल्यश्च बन्धयेत् ॥
कलशमुद्रा भवेदेषा स्नानकाले प्रयोजयेत् ।
आत्मसंरक्षणार्थाय सर्वविघ्नोपशान्तये ॥
अस्त्राभिमन्त्रितं तोयमभितः परिषेचयेत् ।
गृहस्थश्चेच्चक्रवर्त्युपचारेण तैलाभ्यङ्गपूर्वं सुगन्धामलकादिना स्नायात् ॥
कामिके -
सुगन्धामलकाद्यैस्तु स्नायाद्राजोपचारतः ।
राजवद्धेमपीठादि संस्थितो हेमकुम्भकैः ॥
स्नात्वा निर्मज्जनार्थं तु कुर्याच्छब्दैस्समङ्गलैः ।
वीरतन्त्रे -
तैलं चामलकं युक्तमङ्गमालिप्य सर्वशः ।
गोमयेन पुनश्चैव उपलिप्य च स्नापयेत् ॥
तदनु जलादुतीर्य तत्तीर्थं संहारिण्या हृदयेन ह्रस्वप्रासादेन वा उपसंहृत्याङ्गलग्नजलं शुद्धेन शुष्केण वाससा परिमृज्यार्द्रवस्त्रं परित्यज्य वामदेवेन पञ्चाशत्सरनिर्मितम् कटिसूत्रं कौपीनं च बध्वा यथा विहितं शुद्धं वासः परिधायाचमनं विदधीत ।
किरणे -
ततस्तीर्थं समाकृष्य कर्तव्यं हृदये हृदा ।
सार्धत्रिशतिकायां -
संहारं तस्य तीर्थस्य प्रासादेनैव कारयेत् ।
चिन्त्यविश्वसादाख्ये -
पश्चात्कौपीनमुत्सृज्य तालमुद्रासमन्वितः ।
अन्यत्कौपीनमाच्छाद्य विध्युक्ताचमनं कुरु ॥
नैष्ठिकस्यापि काषायमुत्तमं मेवतमेव वा? ।
संहरेच्छिवतीर्थं तु ध्यात्वा संहारमुद्रया ॥
एतद्वसित्वा वेष्टिं च वेष्टयित्वा विशेषतः ।
कौपीन लक्षणं त्वेकहस्तं वापि द्विहस्तकम् ॥
आयाममेवं विस्तारं दशाङ्गुलमथाष्टकम् ।
कौपीनमेवमुक्तं च कार्पासनाद्या?दिना भवेत् ॥
पञ्चाशत्सूत्रसंयुक्तं मेखलं त्र्यंशलम्बितः ।
कामिके -
एकद्विहस्तविस्तारदीर्घकौपीनमुच्यते ।
द्विगुणं कटिसूत्रं स्या द्विष्व?ग्रन्थिनियन्त्रितम् ॥
किरणे -
षोडशाङ्गुलविस्तीर्णं दीर्घं षट्त्रिंशदङ्गुलम् ।
यौतं शुष्कं शुभं सूक्ष्मं सितं काषायमेव वा ॥
त्रयोदशाक्षसङ्कोचं कौपीनं ब्रह्मचारिणाम् ।
सुदृढं कटिसूत्रं च मौञ्चीसूत्रं पलाशजम् ॥
एकद्वित्रीसराद्यावत्पञ्चाशत्सरमुत्तमम् ।
यथाशोमं प्रकुर्वीत वामदेवेन धारयेत् ॥
ज्ञानरत्नावल्याम् -
नैकवस्त्रः क्रियाः कुर्यान्नग्नः कौपीनकेवलः ।
स्नाने देवार्चने यागे भोजने च विपश्चिता ॥
धौतवस्त्रद्वयं धार्यमखण्डं सदसंशितम्? ।
कौपीन हीन ? दोषोऽस्ति नैष्ठिकब्रह्मचारिणाम् ॥
किरणे -
काषायमथवाशुक्लं गृहस्थस्योदितं पुनः ।
यावच्छर्वार्चनं तावद् गृह्नीयान्नियमो भवेत् ॥
ज्ञानरत्नावल्याम् -
भुक्तः वस्त्रं निशा वा सङ्क्षालयेत् ? प्रतिवासरम् ।
कटिवेष्टनकौपीनं शौचान्ते क्षारवारिणा ॥
शिवधर्मोत्तरे -
वस्त्रशौचं प्रवक्ष्यामि तच्छुचौ शुध्यते यतः ।
वस्त्रशौच विहीनात्मा शुचिरप्यशुचिर्भवेत् ॥
देवकार्योप योग्यानां प्रत्यहं शौचमिष्यते ।
वाससामितरेषां च कार्यं शौचं मलोद्गमे ॥
शुचिना तोरणं कुर्याद्वंशदण्डत्रयेण तु ।
तत्र वासांसि निर्णिज्य सम्यग्बन्धा(द्धा?)नि शोवि(ष?)येत् ॥
खगैरदूषिते वृक्षे निर्मले वा शिलातले ।
दूर्वाजाले शुचौ वापि क्षालितेषु तृणेषु च ॥
विण्मूत्र शुक्लग्धो?नां मृत्तोयेन विशोधनम् ।
कार्यमादौ ततः क्षारैर्गोमूत्राद्यैश्च शोधनम् ॥
मृद्वारि तावदादेयं गान्धलेपो हि तद्गतौ ।
न स्यातां दूरतो यावत्सर्वासु द्रव्यशुद्धिषु ॥
कौशेयाविकचोरूक्षैः क्षौमाणां गौरसर्षपैः ।
स्रीफलैरंशुपट्टानां कुतपानामरिष्टकैः ।
चेलद्रज्जुवेत्राणां पक्षचामरचर्मणाम् ।
वल्कलानां च सर्वेषां शुद्धिः काचिजानताः? ॥
विदलालाम्बु?पात्राणां वस्त्रच्छुद्धिरुच्यते ।
गोवालैग्वषणं चे?(चै?)षां वेशेषः परिकीर्तितः ॥
अंशुमति -
आर्द्रवस्त्रेण संयुक्तं कर्म कुर्यादतन्द्रितः ।
वृथा भवति तत्कर्म पुनः स्नानेन शुध्यति ॥
सशिरस्कस्नानानित्तौ? कण्ठान्नाभ्यधश्चरणौ वा यथा शक्त्य?प्रक्षाल्य प्रक्षालितमवशिष्टम�न्गमार्द्रवससा परिमृज्य हुं फडन्तास्त्रेण पादाङ्गुष्ठोर्त्थं? वह्निन कायं दग्धं विचिन्त्य तत्क्षुब्धपरिशक्तिपरिस्मृत शुद्धतोयेनाप्लावयेदतोपिन्ना(स्ना?)तो भवति ॥
मतङ्गे -
हुम्फट्कारान्तसंस्थेन ज्योति ज्योति पदेन ।
युगान्ताग्नि प्रदीप्तेन निर्दग्धं कायमादरात् ॥
प्रणवेन ततः पश्चात् स्वजपाहूतवारिणा ।
प्रापयेत् स्वां तनुं मन्त्री यतः? स्नातो न संशयः ॥
कामिके -
खर वायसगृध्रान्त्य न च ग्रामसु?करैः ।
कुक्कुटप्रेत भूम्यङ्गशावसूतकपातकैः ॥
शाक्य? दुर्गण्डि निर्माल्य भोजरैन्य लिङ्गिभिः ।
अन्यैश्च निन्दितैः स्पृष्टो यदि स्नानमथाचरेत् ॥
चिन्त्यविश्वसादाख्ये -
निर्माल्यभोजिभिश्चैव देवद्रव्यापहारिभिः ।
गुरुद्रव्यापहन्ता च तत्तद्द्रव्य विनाशकम् ॥
अदीक्षिताश्च सर्वेऽपि तैस्पृष्टैर्विशेषतः ।
जलस्नानं प्रकुर्वीत वपने वमने तथा ॥
मूत्रविट्पूतिसम्पर्कान्नाभेरुर्ध्वं करौ विना ।
वपनाद्यशुचि विषये स्नानविशेषः -
शिवधर्मोत्तरे प्रदर्शितः -
मृद्गोमयैस्समुत्सृष्य? त्रिश्शरीरं समन्तलः ।
स्नान वस्त्रं परित्यज्य द्वितीयं परिधाय च ॥
तेन स्नात्वा कषायाद्यैर्वस्त्रमन्यत्समावसेत् ।
सोपसीतस्समाचम्य पानीयमभिमन्त्रयेत् ॥
एकविंशतिवारं(रां?)स्तु शिवमन्त्रेण भक्तितः ।
ध्यायमानः शिवं शान्तं शनैः स्नानं समाचरेत् ॥
आचम्यात्मनः कुर्यादभिषेकं ततः पुनः ।
कुम्भेन पूर्णपुटकैः करद्वयपुटेन वा ॥
सिवेनैकाद्वा?दशात्मानं स्वयमन्येन वा पुनः ।
विघ्नालक्ष्मीविशुद्ध्यर्थमभिषिञ्चेत्समन्ततः ॥
आचम्य प्रोक्षयेथूय(द्भूय?)स्तावदेवात्मनः शिरः ।
गृहेन परजप्तेन स्नानं कुम्भेन कारयेत् ॥
एवं भवति सुस्नातस्सर्वपाप विवर्जितः ।
सर्वतीर्थाभिषेकस्य श्रद्धयाः फलं लभेत् ॥
वीरतन्त्रे -
श्वमार्जारखरादीनां विलेपे स्नानमाचरेत् ।
नाभेरूर्ध्वमधस्था(स्ता?)द्वा मृद्भिश्शुद्ध्यति सप्तभिः ॥
छर्दितेऽभ्युदिते सूर्ये श्मश्रुकर्मणि मैथुने ।
दुःस्वप्ने दुर्जनस्पर्शे स्नानं षट्सु विधीयते ॥
स्नाने देवार्चने चैव समाधौ तु जपे तथा ।
भोजने वाग्निकार्ये च मौनं षट्सु विधीयते ॥
मतङ्गे -
एवं सकृद्यथाशक्ति स्नातोऽम्भसि दिने दिने ।
भस्मस्नानेऽधिकारी स्यान्नान्यथा मुनिपुङ्गव ॥
भस्मस्नानं ततः कार्यं जलस्नानादनन्तरम् ।
जलस्नानं विना कार्यमशक्तौ पापनाशनम् ॥
मकुटे -
जलस्नानं पुरा कृत्वा पश्चादाग्नेयमाचरेत् ।
स्वायम्भुवे -
आग्नेयं स्नानमपरं भस्मस्नानमुदाहृतम् ।
जलस्नानोत्तरं नित्यमनुत्तरमथापि वा ॥
कामिके -
भस्मस्नानं यथायोग्यं यः कुर्यात् सकृदेव वा ।
सर्वपापविनिर्मुक्तस्साधयेद्वीप्सितं फलम् ॥
भस्म श्रेयो यतो वह्निस्तस्मिन्नेवाल्लङ्गतः? ।
भस्मस्नातेन तेजस्वी वह्निवद्दृश्यतेऽनघ ॥
विधिना गोमयादिपरिकल्पितं भूतिकोशस्थं भस्मं सव्यहस्तेन समादाय वामकरतले विन्यस्य निरीक्षणादिभिः संशोध्याङ्गुष्ठतर्जन्यग्राह्यां? स्वल्पेन भवितेन नैष्ठिकश्च सन्यासी च सिद्ध्यकल्पादिसिद्धं भस्म चेत् समूलस्संहितयाभिमन्त्रयेत् ।
अकल्पनिवृत्त्यादिभिर्मन्त्रैस्संहिताभिः संशोध्य पादादि मस्तकान्तं भौतिकस्तु मस्तकात्पादान्तं हुम्फडन्तास्त्रेण निर्घणेन? मलस्नानं कुर्यात् ॥
तथा -
सुप्रभेदे -
गावः शिवपुरात्पञ्च क्षितिं प्राप्य शिवेच्छया ।
सुरासुरैर्मथ्यमानात् क्षीरोदात्सागरोत्तमात् ।
पञ्च गावस्समुत्पन्नाः सर्वालोकस्य मातरः ॥
तथा शिवधर्मोत्तरे -
शुद्धस्फटिकसङ्काशं स्नानमाद्यमुमापतेः ।
तत्रास्ते भगवान्सोमः पूज्यमानो गणेश्वरैः ॥
सिद्धैश्च स्थानसम्प्राप्ते ब्रह्मविष्ण्वग्नि वायुभिः ।
ईश्वराय तनय?स्याग्रे श्रीमान्धर्मवृष स्थितः ॥
यत्र वीरवृषस्त?(प्र?) नित्यं गोमातरः स्थिताः ।
गोलोकश्शिवलोकश्चाप्येक एव ततः स्मृतः ॥
ये गुणा रुद्रलोकस्य गोलोकस्यापि ते गुणाः ।
नन्दा भद्रा च सुरभिः सुशीला सुमनास्तथा ॥
इति गोमातरः पञ्च शिवलोके व्यवस्थिताः ।
सुप्रभेदे -
कपिला कृष्णा श्वेता च धूमा रक्ता तथैव च ।
नन्दादिसुमनान्तानां वर्णमेतत्प्रकीर्तितम् ॥
सर्वलोकोपकारार्थं देवानां तर्पणाय च ।
गोमातरः स्थिता भूमौ स्नानार्थं हि शिवस्य तु
स्वायम्भुवे -
गोसावित्रीं सकृज्जप्त्वा गन्धपुष्पं च धूपकम् ।
दीपं च गोप्रदेशेषु प्रणम्य प्रतिपातयेत्? ॥
गोरोचनं घृतं क्षीरमन्नं चापि प्रदापयेत् ।
ताम्बूलं दापयित्वा तु गोसावित्रीशतं जपेत् ॥
तीक्ष्णशृङ्गाय विद्महे वेदवेद्याय धीमहि ।
तन्नो गावः प्रचोदयात्
गां सतीमित्थमाराध्य गृह्नीयाद् गोमयं तथा ।
सन्ताने -
शान्तिकं पौष्टिकं चैव कामदं च त्रिधा भवेत् ।
गोमयं योनि सम्बन्धं यद्धस्तेन तु गृह्यते ॥
ब्रह्ममन्त्रैर्दहित्या? तु तच्छान्तिकमिहोच्यते ।
गोयोनिविसृतं चैव पतितं भूतले तु यत् ।
अन्तरस्थ गृहीत्वैव षडङ्गेन दहेत्ततः ॥
पौष्टिकं तत्समाख्यातं कामदं तु ततः शृणु ।
सुशुद्धभूतले चैव पतितं गोमयं तु यत् ॥
प्रासादेन दहित्वा तमेतत्कामदमुच्यते ।
प्रातरुत्थाय देवेशि? मौनव्रतसमन्वितः ॥
गवां गोष्ठे(ष्ठं?) तु गत्वा तु नमस्कृत्य तु गोकुलम् ।
ब्राह्मणस्य तथा श्वेता रक्ता वै क्षत्रियस्य तु ॥
पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य चोच्यते ।
क्रमाद्वै गोमयं ग्राह्यमन्यथा ग्राहयेन्न तु ॥
पौर्णमास्याममावास्यामष्टम्यां ग्रहणे द्वयोः ।
चिन्त्यविश्वसादाख्ये -
चतुर्विधं तु तद्भस्म कल्पं प्रथममुच्यते ।
अनुकल्पं द्वितीयं च तृतीयमुपकल्पकम् ॥
अकल्पं तु चतुर्थं स्यात्पूर्वं पूर्वं तथोत्तमम् ।
वन्ध्या वृद्धा व्याधिताश्च दुर्लक्षणयुतास्तथा ॥
कर्ण?केशविहीने च बाला मौख्यं विना कृता ।
अमेध्याहारभक्षिण्यस्त्याज्यं गावश्च गर्भिणी ॥
सलक्षणा च कपिला रक्ता शुक्ला सितेतरा ।
एतासां गोमयं पद्मपत्रे रम्भोद्भवे तथा ॥
पलाशपत्रके वापि हस्ताभ्यां व्योम्नि वारयेत् ।
कोष्ठे वा गोमयं ग्राह्य सद्योमन्त्रेण धारयेत् ॥
उ(वि?)पर्ययश्च क्रव्यांशं विसृजेन्मध्यमं पुनः ।
गोलकाकारकं कुर्याद्वामदेवेन मन्त्रवित् ॥
अघोरेण च संशोष्य शुद्धदेशे दहेत्पुनः ।
पुरुषेण विशेषेण नवभाण्डे विनिक्षिपेत् ॥
तथा -
एकाहे शोषयित्वा तु निर्दहेच्छिववह्निना ।
नित्याग्नौ वा शुचिर्धीमान् शिवमन्त्रं समुच्चरन् ॥
स्कान्दकालोत्तरे -
रक्षार्थं मङ्गलार्थं च पवित्रार्थं षडानन ।
भक्तानां लिङ्गिनां चैव भस्मदत्तं पुरा मया ॥
भस्मादाने तु वा मन्त्री शङ्खे वा ताम्रपात्रके ।
श्रेष्ठं स्वर्णपात्रं तु रजतं मध्यमं भवेत् ॥
कन्यसं ताम्रपात्रं तु अलाभे मृण्मयं भवेत् ।
अलाबुपात्रमधमं पैत्तकीवाधमाधमम् ॥
पञ्चब्रह्मशिवाङ्गैश्च व्योमव्यापि जपेत्सकृत् ।
चिन्त्यविश्वसादाख्ये -
कर्पूरोशीरह्रीबेर केतकैश्चम्पकैस्तथा ।
मदने शानमन्त्रेण जपेत्तस्माद्विशेषतः ॥
उक्तं च -
केतकी मल्लिकीनागचम्पकं पाटलं तथा ।
पद्मं पलाश(शं?) तुलसी(सीम्?) अपमार्गं कुशाग्रकम् ॥
जातिं च तत्र निक्षिप्य सति भाण्डेषु(सद्भाण्डेषु?) परिग्रहे(परिग्रहेत्?) ।
मृत्कुम्भे तु नवे स्थाप्य कवचेनाभिरक्षयेत् ॥
तद्भस्म परिगृह्नीत शिवमन्त्रमनुस्मरन् ।
अनुकल्पं ततश्चैव शृणु त्वं नन्दिकेश्वर ॥
वने शुष्कं शकृद्गाह्य कल्पवत्पूर्ववत्कुरु ।
तृतीयमुपकल्पं स्यादारण्ये शुष्कगोमयम् ॥
चूर्णयित्वा तु सङ्गृह्य गोमूत्रैः पिण्डवत्कुरु ।
दग्धं पूर्वोक्तविधिना भवेद्भस्मोपकल्पकम् ॥
पूर्वोक्तविधिमुत्सृज्य केवलं भस्मसाधनम् ।
संस्कारे पिण्डवत्कुर्यादकल्पमभिधीयते ॥
अन्यैरापादितं भस्म अकल्पमिति कीर्तितम् ।
चतुर्विधमिदं प्रोक्तं सर्वपापनिकृन्तनम् ॥
कामिके -
एषैव क्रममादाय पात्रेषु कलशेषु च ।
त्रिसन्ध्यामाचरेत्स्नानं तथा सम्भवतोऽपि वा ॥
चतुरष्टद्विरष्टाष्ट सन्धिषु प्रविधीयते ।
तद्यथा एवमुक्तलक्षणेन भस्मना ।
मलस्नानं कृत्वा विधिस्नानमाचरेत् ॥
कारणे -
प्रक्षाल्यं पाणिपादौ च आचमेत्पुनराचमेत् ।
सकृज्जप्त्वा तु मन्त्राणि भस्मोद्धूलनमाचरेत् ॥
भस्मं वामकरे स्थाप्य दक्षिणेनाभिमन्त्रयेत् ।
कामिके -
विधाय शोधयेन्मूल ब्रह्माङ्गमनुभिस्तथा ।
हस्तेन दक्षहस्तेन मलस्नानं तु मस्तकात् ॥
चिन्त्यविश्वसादाख्ये -
अकल्पभस्म सङ्गृह्य दिग्बन्धनं कारयेत्ततः ।
पञ्चब्रह्म षडङ्गैश्च निवृत्त्याद्यभिमन्त्रितम् ॥
शोधितं नास्त्रमन्त्रेण मूर्धाद्यङ्गानि धूलयेत् ।
सार्धत्रिंशतिकायाम् -
मलस्नानं पुराकृत्वा अस्त्रबीजेन षण्मुख ।
विधिस्नानं ततः कुर्यान्मूर्धा आरभ्य? मन्त्रवित् ॥
सुप्रभेदे -
अथवा चाग्निहोत्रे तु भस्म ग्राह्य विचक्षणः ।
तेन स्नायात्पवित्रेण पूर्वोक्तविधिना बुधः ॥
आध्वरं कर्म तत्सर्वं न त्रिपुण्ड्र न चारयेत्? ।
अथ विधिस्नानम् -
हस्तप्रक्षालनं कृत्वा भौतिक? ब्रह्मचारि(री?) ग्रहस्थो वा ईशतत्पुरुषाघोरवामदेवसद्योजातमन्त्रैर्मस्तकमुखहृदय गुह्य पादेषु त्रिपुण्ड्रं धृत्वा सद्येनैवांसयोः सर्वाङ्गेष्वपि ।
सन्यासी नैष्ठिको वा दक्षिणवामक्रमेण पादादिमस्तकान्तेषु प्रातिलोमेन सद्यादिमन्त्रैस्तथांसयोस्सर्वाङ्गेषु भस्ममुद्रया वा अङ्गुष्ठानामिका मध्यमाभिर्वा धार्य शेषभस्मना ब्रह्माङ्गमूलेन कुम्भमुद्रया भस्मदेवं ध्यात्वा शिरस्यभिषिच्य हुम्फडन्तास्त्रेण ताल त्रयं कृत्वा स्नानकाल पतितां भूतिं संहारिण्या हृद्युपसंहरेत् ।
तथा -
शुचौ प्रदेशे शान्तात्मा ध्यात्वास्त्रं पूर्ववत्सुधीः ।
भस्ममुष्टिं गृहीत्वा तु दक्षिणेन करेण तु ॥
शिरो मुखं च ग्रीवा च लेशो मार्जयेत्ततः ।
उरो बाहुं च हृदयं पृष्ठं जघनमेव च ॥
यदगम्यं दक्षिणस्य तद्वामेन नु(तु?) पाणिना ।
सम्यगुद्धूलयेदङ्गं स्पृष्ट्वान्योन्यकरावुभौ ॥
पौष्करे -
यति रुद्धूलनेनैव स्नायान्नित्यमुदङ्मुखः ।
सन्ताने -
ब्राह्मणस्सर्वमुद्धूल्य क्षत्रियस्तु गलादधः ।
वैश्यश्चैव तथा ज्ञेयः शूद्रोद्धूलं? तु वर्जयेत् ॥
सर्वेषामेव जातीनां मन्त्रेण रहितो भवेत् ।
सर्वज्ञानोत्तरे -
आपादमस्तकं यावद्भस्मस्नानं द्विजस्य तु ।
नाभेरूर्ध्वं महीपानामारक्तेन तु भस्मना ॥
वैश्यस्य पट्टिका प्रोक्ता शूद्रस्य तु त्रिपुण्ड्रकम् ।
भस्मना ब्रह्मजप्तेन यथा स्नानेष्वनुक्रमात् ॥
कालोत्तरे -
नैष्ठिकानां तु विप्राणां सर्वाङ्गं स्नानमाचरेत् ।
नृपाणां च वैश्यानां शूद्राणां च त्रिपुण्ड्रकम् ॥
तथा वीरतन्त्रे -
उद्धूलयेत् तु सर्वाङ्गं ब्राह्मणानां विशेषतः ।
त्रिपुण्ड्रं कारयेत्तत्र नृपाणां च विशां तथा ॥
शूद्राणामेव सर्वेषामेवमेवं क्रमेण तु ।
कारणे -
उद्धूलनेऽप्यशक्तश्चेत्त्रिपुण्ड्रं सर्वसिद्धिषु ।
त्रिपुण्ड्रं भस्मना कृत्वा सार्द्रेण धवलेन च ॥
सूक्ष्मे -
निष्कं निष्कार्धकं चैव निष्कद्वयद्वयार्धकम् ।
विप्रादीनां च वर्णानां भस्मस्नानं समाचरेत् ॥
कारणे -
मध्याङ्गुष्ठ? जलैर्युक्तमपरे जलवर्जितम् ।
त्रिपुण्ड्रं चैव संयुक्तं सर्वदोषनिकृन्तनम् ॥
कालोत्तरे -
उत्तानौ तु करौ कृत्वा मध्यमा तर्जनी तथा ।
अनामिका च वै वत्स परस्परं सव्यदक्षिणे? ॥
भस्ममुद्रा भवेदेषा त्रिपुण्ड्राणां विधीयते ।
यद्वा -
मध्यमानामिकौ(का?)ङ्गुष्ठैर्ललाटे भस्मनाकृतिः ।
त्रिपुण्ड्रं धारयेच्छान्तो महापातकनाशनम् ॥
दीप्ते -
सप्ताङ्गुलं तु विस्तारं ब्राह्मणानां विधीयते ।
पञ्चाङ्गुलं तु विस्तारं क्षत्रियाणां त्रिपुण्ड्रकम् ॥
चतुरङ्गुलं वैश्यानां त्रिपुण्ड्रं सर्वकामदः(दम्?) ।
त्र्यङ्गुलं? तु शूद्राणां स्त्रीणामेकाङ्गुलं भवेत् ॥
तत्तज्जातीयस्त्रीणां तु तत्तदेव विधीयते ।
कारणे -
अनुलोमानां सर्वेषां त्रिपुण्ड्रं पीतवर्णवत् ।
अन्येषामपि सर्वेषां त्रिपुण्ड्रं शुद्रवद्भवेत् ॥
ज्ञानरत्नावल्याम् -
भौतिकं? ब्रह्मचारी चेत् पूर्वस्यादं मुखः? ।
नैष्ठिकब्रह्मचारी चेदजाद्यैश्चरणादिभिः ॥
उद्धूल्य सर्वगात्रेषु कुर्यात्पुण्ड्रमिति क्वचित् ।
सन्तानिको बुभुक्षुश्च साधकश्च त्र्यायुषम्? ।
भस्मना सेचयेन्मूर्ध्नि ब्रह्माङ्गैः कुम्भमुद्रया ॥
विसृज्य भूगतं रेणुं तालत्रयपुरस्सरम् ।
दूरे प्रक्षेपयेत्तत्र तन्निर्माल्यं नचा क्रमेत् ॥
स्नानमित्थं प्रव(क?)र्तव्यम् आग्नेयं ब्रह्मचारिभिः ।
मकुटे -
भस्मदेवाकृतिं वक्ष्ये विशेषेण महेश्वरः ।
त्रिणेत्रं त्रिशिरं रौद्रं त्रिहस्तं गुणवक्त्रकम् ॥
त्रिपादं वह्निनयनं भस्मकुष्ठितविग्रहम् ।
ताण्डवाडम्बरं भीमं रक्तपुष्पोपशोभितम् ॥
रक्षामन्त्रेश्वरं देवं ध्यात्वा शान्तिं लभेन्नरः ।
त्रिसन्ध्यमाचरेत्स्नानं यथा सम्भवतोऽपि वा ।
सन्ता(सन्तै?)
मध्याह्नात् प्राग्जलैर्युक्तं परतो जलवर्जितम् ।
स्कान्दे तथा ब्रह्मकैवर्ते च -
विप्राणां सलिलेन धार्यमुदितं भस्मं त्रिकालेष्वपि स्त्रीभिक्षोर्जलवर्जितं प्रतिवानप्रस्थानां गामिदम् ।
दीक्षाहीननृणां च वारिसहितं मध्याह्नतः प्राक्सतं? सर्वेषान्धीम?मेतदाहुरपरे सन्तो न वामे विधिः
त्रिपुण्ड्र धारणस्थान भेदा उच्यन्ते -
चिन्त्यविश्वसादाख्ये -
द्वात्रिंश स्नानके वापि षोडशस्स्थानकेऽपि वा ।
अष्टस्थाने तथा चैव स्थानेऽपि योजयेत् ॥
उत्तमाङ्ग(ङ्गे?) ललाटे च कर्णयोर्नेत्रयोस्तथा ।
नासावक्त्रगलेष्वेवं(वमं?) हंसद्वयमतः? परम् ।
कोर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः ।
नाभौ गुह्यद्वये चैव ऊर्वोस्फिग्द्वन्द्व जानुनि ॥
जङ्घाद्वये च पादौ द्वौ द्वात्रिंशत्स्थानमुत्तमम् ।
अष्टमूर्त्यष्टविद्येशदिक्पालान् बन्धुभि(वसुभि?)स्सह ।
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ॥
प्रत्युषश्च प्रभासश्च इत्यष्टवसवः स्मृताः ।
एतेषां वाममन्त्रेण त्रिपुण्ड्रं धारयेद्बुधः ॥
विद्याषोडशस्थाने त्रिपुण्ड्रं च समाहितः ।
शीर्षके च ललाटे च कण्ठे चांसद्वयेऽपि च ॥
कोर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः ।
पृष्ठे चैवं प्रतिस्थानं जङ्घे तत्राधिदेवताः ॥
शक्तिं च सादाख्यमीशं * * * * * * * * विद्याख्यमेव च ।
वामादि नवशक्तिश्चाश्विनौ षोडश स्मृताः ॥
अथवा मूर्ध्न्येलीकेन कर्णयोश्च गले तथा ।
बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा ॥
जानुद्वयो(ये?) पादयोश्च पृष्ठभागं तु षोडश ।
एषु स्थानेष्वधिपतीन्यथायोगं शृणुष्वथान्(तान्?) ॥
शिवः स्कन्दश्च चन्द्रार्कौ विघ्नेषो विष्णुरेव च ।
श्रीश्चैव हृदयो देशे स्वनाभौ तु प्रजापतिः ॥
नागाश्च नागकन्याश्चरुभये ऋषिकन्ययोः ।
पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि चास्त्रकः ॥
एवं वा षोडश ध्यायेदष्टस्थानानि चोच्यते ।
गुरूस्थान? ललाटं च कर्णयुग्ममतः परम् ॥
अंसयुग्मं च हृदय(यं?) नाभिरित्यष्टमं भवेत् ।
ब्रह्मा च ऋषयस्सप्त देवताश्च प्रकीर्तिताः ।
अथवा मस्तकं बाहु(हू?) हृदयं नाभिमेव च ॥
पञ्चस्थानान्यमून्याहुः पञ्चमूर्तिं(र्तिश्च?) च देवताः(देवता?) ।
गुरुदेवाग्निविद्यानां सन्निधा(धौ?) वान्त्यदर्शने ॥
महापातकयुक्तानां कृतघ्नस्यापि दर्शने ।
अशुद्धभूतले मार्गे धूलनं न विधीयते ॥
तस्माद्विशुद्धदेशेऽपि चासने संस्थितश्शुचिः ।
उत्तराभिमुखो भूत्वा मौनी ध्यात्वा शिवं गुरुम् ॥
परमाणुसमं भस्म भौमौ न पतितं भवेत् ।
तद्वत्ग्रहयत्तेन? त्रिपुण्ड्रोद्धूलनं भवेत् ॥
उद्धूलनेऽप्यशक्तश्चे त्रिपुण्ड्रादीनि कारयेत् ।
एवमुद्धूलनं चापि त्रिपुण्ड्रं कृतवानथा? ॥
सर्वपापविनिर्मुक्तस्सद्यश्शुचि समन्वितः ।
तस्य दर्शनमात्रेण सर्वपापात्प्रमुच्यते ॥
बहुनात्र किमुक्तेन देवेशेक्षणसन्निभम् ।
अनायासेन पापानि प्रणश्यन्त्यखिलान्यपि ॥
भूतिसाधनहीनस्या? न च तत् ज्ञानपरः ।
न च योग्यस्समाधीश्च न चेज्या दानमेव च ॥
तस्मात्सर्वप्रयत्नेन भस्मना स्नानमुत्तमम् ।
भस्म संस्पृष्टहस्तेन वारिणा प्रोक्षणं परम् ॥
द्विजाद्यदीक्षितस्पर्शे भस्मस्नानं विधीयते ।
सन्ध्यात्रयेऽर्धरात्रौ च शैयापूर्वावसानके ॥
सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।
तथैव षण्डशूद्रस्त्रीस्पर्शमाग्नेयमभ्यसेत् ॥
शुकमार्जारनकुलैस्तथा च पिकमूषिकैः ।
यदा स्पृष्टं तथा चान्यैस्स्नानमाग्नेयमाचरेत् ॥
अथ मानसस्नानं कुर्यात् ।
तद्यथा -
पादौ हस्तौ प्रक्षाल्याचम्य प्राणान्संयम्य न्यासं कृत्वा मूलमन्त्रं मनसा द्वादशान्तस्थितपरशक्ति पर्यन्तामुच्चार्यान्त?मुच्चार्य निष्कलायाश्शक्तेः प्रसृतेनामृतमयेन ।
चिन्त्यविश्वसादाख्ये -
मूलमन्त्रेण? मनसा प्राणायामं समन्वितः ।
मानसस्नानमेवं हि सर्वत्र विहितं हि तत् ॥
इति ॥
उक्तं च निष्कल शक्तिक्षोभात् सृतस्यामृतसलिलस्य मध्ये प्लवं सहसः? पुनरागच्छंस्ततो ध्येय इति ॥
तथा -
मूलमन्त्रपरिक्षिप्त क्षुधा पीयूषधारया ।
सबाह्याभ्यन्तरास्येकान् मानसं स्नानमाचरेत् ॥
इति मानस विधिः ॥
अथ मन्त्रस्नानं कुर्यात् पादौ पाणी च प्रक्षाल्याचम्य सकलीकरणं कृत्वा पात्रे जलमापूर्य व्योमव्यापिपदमन्त्रैर्वौषडन्त संहितया सकृन्मूलेनाभिमन्त्र्य तेन तोयेन मूलमन्त्रौ समुच्चार्य मूर्धादि वान्तं(पादान्तं?) त्रिधा संस्पर्शनेन सर्वपापक्षयो भवेत् ॥
तदुक्तम् -
कारणे -
मन्त्रस्नानं तदन्ते तु प्रक्षाल्य पाणिपादकौ ।
समाचम्या(म्य कृ?) कृतन्यासो(सः?) पात्रे क्षिप्त्वा जलं तथा ॥
व्योमव्यापिपदैश्चैव षडङ्गैर्ब्रह्मपञ्चकैः ।
मूलेनैव तु तत्तोयमभिमन्त्र्य सकृत्सकृत् ॥
संस्पृशेत्तेन तोयेन मूलमन्त्रेण वर्मणा ।
मूर्धादिपादपर्यन्तं त्रिधा संस्पृशनं तथा ॥
सर्वव्याधिविनिर्मुक्तस्सर्वपापक्षयो भवेत् ।
ततो दिव्यस्नानं कुर्यात् -
तद्यथा ततः पादप्रक्षालनादिकं कृत्वा प्राङ्मुखस्सन् मूलमन्त्रमीशान मन्त्रं वा स्मरन्नूर्ध्वे (र्ध्व?) बाहुस्सप्तपदगमनात् सार्कातपां वृष्टिं दिव्यस्नानमयीं धारयेत् ॥
तदुक्तम् कारणे -
वृष्ट्या सातपया तत्र प्राङ्मुखेनोर्ध्वबाहुना ।
मूलमन्त्रं जपेद्वाचा यावद्वे पदसप्तकम् ॥
आदित्याभिमुखः पश्चात्तं नमस्कृत्य बुद्धिमान् ।
एवं कृते महापापमु(पान्मु?)च्यते न्यत्र(नात्र?) संशयः ॥
(माहेन्द्रं दिव्यमिति पर्यायः ।
)
ईशमन्त्रं जपन् गच्छेद्गुरु भक्तिविशारदः ।
इति दिव्यस्नानविधिः ॥
अथ पादौ हस्तौ प्रक्षाल्याचम्य पूर्वाह्णे पराह्णे वा न्यासं कृत्वा गवां खुरोद्भूतरजः सम्बन्धिवायुस्पर्शयुक्ति(क्त?)स्सन् नराणुं कवचं वा स्मरन् उत्तरस्यां दिशि सप्तपदगमनाद्वायव्यं स्नानं भवति ॥
तदुक्तं चिन्त्यविश्वसादाख्ये -
वायव्य स्नानमेवाह गोखुरोद्धूतरेणुभिः ।
पुरुषं कवचं वापि जपन् सप्तपदावधि ॥
इति ॥
मृगेन्द्रे -
संहितामन्त्रं स्मरन् वायुरजो भवेत् ।
॥
वायव्यस्नानविधिः ॥
अथ गौरवस्नानं कुर्यात् -
तद्यथा - पादौ हस्तौ प्रक्षाल्याचम्य शुचिर्भूत्वा शिवमन्त्रमुच्चन् देशिकचरणौ शिरसा धारयेत् ।
तत्पादवन्दनात्स्नानफलं लभेत् ॥
तथा मृगेन्द्रे -
शुचिर्मूर्ध्नो(र्ध्ना?) गुरोः पादौ विभृदा (विभृया?)च्छिवमुच्चरन् ।
इति ॥
इति गौरवस्नानविधिः ॥
अथ पार्थिव स्ननं कुर्यात् - तद्यथा - पादौ हस्तौ च प्रक्षाल्याचम्य सकलीकृत्य गङ्गादितीर्थं हस्ते सङ्गृह्य संहितां जप्त्वा मूर्ध्ने(र्ध्ना?)दि पादपर्यन्तं संहितया आलभेत् ।
तज्जलाभावे तं? मृत्तिकां सङ्गृह्य पूर्ववनभिमन्त्र मूर्धादि स्थानेषु त्रिपुण्ड्रं कुर्यात् ॥
तदुक्तं मृगेन्द्रे -
गङ्गार्कतनयासिन्धु सरस्वत्यादि तत्पयः ।
स्पृष्ट्वा तत्क्षेत्रजां वापि मृतं संहितयालभेत् ॥
तथा मूर्ध्ना(र्धा?)दि गो(गा?)त्रेषु मन्त्रैः कुर्यात्त्रिपुण्ड्रकम् ।
एवं पार्थिवमाख्यातं सर्वपापहरं परम् ॥
इति पार्थिव स्नानविधिः -
एतेषां मध्ये वारुणमाग्नेयं (णाग्नेयगानसमात्रं?) मानसं मात्रं नित्यमितरद्दिव्यानां तु नैमित्तिकत्वात् तत्तन्नै (न्नि?)मित्तोपस्थाने तत्तत्स्नानम् विदध्यात् ॥
तदुक्तम् -
ब्रह्मशम्भुपद्धतौ -
माहेन्द्रादिचतुष्कं यन्नैमित्तिकमिति स्मृतम् ।
त्वचि वारुण भस्म च नित्यं तदन्यन्नैमित्तिकमित्युक्तम् ॥
कामिके -
वारुणं स्याद् गृहस्थानां यतीनां भस्मना कृतम् ।
स्ननान्तरतयोरेवं नैमित्तिकमुदाहृतम् ॥
मतङ्गे -
अदीक्षितेन संस्पृष्ट्वा स्नानमाग्नेयमाचरेत् ।
बाह्यवर्णस्य संस्पर्शाद्वारुणस्नानमाचरेत् ॥
पादौ (आचमनम्) पाणी च प्रक्षाल्य जटाचूडादिकं बध्वा उदगास्यो नावृतशिराः उत्कुक्कुटमासनेन जानुमध्यकर स्थित्वा फेनबुद्बुदशैवाल क्रमीत्यादिविनिर्मुक्तैः शुद्धजलैः पृथिव्यादि शक्तितत्त्वान्नपञ्चत्रिंशत्तत्त्वशुद्ध्यर्थं भारत्यादि देवता प्रीत्यर्थं विधिवदाचमनं कुर्यात् ।
॥
आचमनम् ॥
ज्ञानरत्नावल्याम् -
बद्धचूडशिराः पादौ पाणी प्रक्षाल्य बाह्यतः ।
उपविश्य सम(मे?) पीठे सौम्यास्यः पूर्वदिङ्मुखः ॥
जानुमध्यकरो मौनी श्वानादीन्नावलोकयन् ।
अनन्यमानसो भूत्वा स्वच्छशीतलवारिभिः ॥
फेनबुद्बुदनिर्मुक्तैर्वस्त्रपूतैस्समुद्धतैः ।
आचमेत् कृमिभिर्जुष्टैर्नान्त्यजातिनिषेवितैः ॥
अन्यैः कलुषितैर्यत्र वितृष्णा गौर्न जायते ।
? चर्मस्थैस्सोषरैस्सोष्णैरन्यासत्पाणिपात्रजैः ॥
अजिते -
बद्धचूडोत्कुटासीनो जानुर्य करद्वयः ।
नावेष्टितशिराः पादौ पाणि(णी?) प्रक्षाल्य बाह्यतः ॥
चिन्यविश्वसादाख्ये -
उत्ककुटासनस्थ च पणिं गोकर्णवद्भवेत् ।
उत्कुटलक्षण लक्षणं भरते -
समे पार्ष्णी सहस्थिद्यां भूतले चरणौ समौ ॥
यदा तदोत्कुटं योगध्यान सन्ध्या जपादिषु ।
सङ्गृह्यमाषमग्नाम्बु सव्यपाणिपुटेन च ॥
संवीक्ष्याङ्गुष्ठमूलस्थं ब्रह्मतीर्थेन तत्पिवेत् ।
अजिते -
हृद्गतं विप्रनिर्दिष्टं कण्ठकं स्यान्नृपस्य तु ।
तालुकं विमुवर्णानां क्रमेणाम्बुशतं भवेत् ॥
तारं प्रथममुच्चार्याः आत्मतत्वाय स्वधा ।
एतत्प्रथमपानेन सिद्धिस्स्यान्नन्दिकेश्वर ॥
एकत्रिंशत्तत्त्वशुद्धिः पृथिवीमायान्तसंयुता? ।
प्रणवं पूर्वमुच्चार्य हीं विद्यतत्त्वाय स्वधा ॥
एवं द्वितीयपानेन शक्तितत्त्वस्य शोधनम् ।
शुद्धविद्येशसादाख्यं त्रितत्त्वमिति कीर्तितम् ॥
ओङ्कारं प्रथममुच्चार्य हूं शिवतत्त्वाय स्वधा ।
एतत्तृतीयपानेन शक्तितत्त्वस्य शोधनम् ॥
पञ्चत्रिंशत्तत्त्वशुद्धिरेवमाचमनेन हि ।
किन्त्वन्तरेऽन्तरे हस्तं प्रक्षाल्य च मुहुर्मुहुः ॥
अत्र तत्त्वस्य ध्यानं च -
ज्ञानरत्नावल्याम् प्रदर्शितम् ।
चतुर्भुजं चतुर्वक्त्रं चतुरश्रम्म्बुजस्थितम् ।
आत्मतत्त्वं ह्येतत्तप्तचामीकर प्रभम् ॥
सृ(स्रु?)क्कमण्डलुकं वामे दक्षे पद्माक्षमालिकाम् ।
नीलस्पन्दनिभं नीलमष्टाश्राष्टभुजान्वितम् ।
चक्रबाणाब्ज चिन्मुद्राशङ्खकार्मुककर्णिकाः ॥
अभयं च यथा योगं दधानं दक्षवामयोः ।
एकवक्त्रं तु सौम्यास्यं विद्यातत्त्वं प्रकीर्तितम् ॥
शुद्धस्फटिकसङ्काशं वृत्तं सर्वार्थगर्भितम् ।
शिवतत्त्वं स्मृतं ह्येतत्पञ्चवक्त्रं चतुर्भुजम् ॥
दक्षे पद्माक्षमालां च वामे शुलकमण्डलम् ।
इति ध्यात्वाचमेत् ॥
चिन्त्यविश्वसादाख्ये -
अधरोष्ठौ द्विः प्रमृज्य नमोऽन्तहृदयेन च ।
दक्षिणाङ्गुष्ठमूलेन ततो ज्येष्ठां कनिष्ठिकाम् ॥
विहाय मध्यमस्थाभि स्त्रिस्त्रस्सं?स्पृशेच्च तौ ।
मध्याङ्गुलित्रयेणपि(णापि?) चोर्ध्वाधो मार्जनं पुनः ॥
मूलमन्त्रजलेनैव? पादमूर्ध्वं च संस्पृशेत् ।
कामिके -
पादावभ्युक्ष्यमूर्धानमङ्गुष्ठानामिकेन त्व(तु?) ।
चक्षुषी संस्पृशेद्विद्वान्तर्जन्यङ्गुष्ठकेन त्व(तु?) ॥
नासाद्वारवुभौ(रे उभौ?) स्पृष्ट्वा कनिष्ठाङ्गुष्ठकेन तु ।
श्रोत्रौ स्पृष्ट्वा जलोपेता(त?) मध्यमाङ्गु?(ध्याङ्ग?)ष्ठेन बाहुकौ ॥
नाभिमङ्गुष्ठकेनैव सर्वाङ्गुल्यग्रपीडितः ।
हृत्प्रदेशं तु संस्पृश्य सर्वाङ्गुल्यग्रतश्शिरः ॥
दक्षहस्ते(स्त?)तलेनैव हृन्मन्त्रं तु समुच्चरन् ।
अथवाङ्गुष्ठानामिकाग्राभ्यां मुखनासाक्षिकर्णविवराणि नाभिहृदयां(स?) द्वय शिरांश(सि?)द्वादशस्थाना?नि दक्षिणवाम क्रमेण हृदास्सं(सं?)स्पृशेत् ॥
तदुक्तं पराख्ये -
संस्पृशेच्च ततोऽङ्गानि शिरोनेत्रे सनासिके ।
श्रोत्रा सौ हृदं? नाभि शिरे स्पर्शं ततो ततः ॥
अनामा(म?)याङ्गसंस्पर्शः कर्तव्योऽङ्गुष्ठयुक्तया ।
भवेदीशस्सदाङ्गुष्ठो न्यामानामामृता (ऽनामा नामा मृता?) कला ॥
तयामृताम्मया? देवामृततृप्तास्त्वनामया ।
भवन्ति तत्क्रियाकर्तुः क्रिया भावोपब्रह्मका ॥
इति ॥
(सकलीकरणम्) अथ अग्निहोत्रादिजनितं पूर्वोक्तकल्पादिसिद्धं भस्म वा समादाय पूर्वोक्त विधिना प्रथमं मलस्नानं कृत्वा विधिवद्यथोक्तस्थानेषु त्रिपुण्ड्राणि धृत्या(त्वा?) पूर्ववदाचम्य सकलीकरणं कुर्यात् तत् त्रिविधम् ॥
॥
सकलीकरणम् ॥
वीरतन्त्रे -
प्रथमं सृष्टिन्यासं तु स्थितिन्यासं द्वितीयकम् ।
संहारन्यासं तृतीयं स्यात् त्रिविधं चोच्यतेऽधुना ॥
गृहस्थं सृष्टिमार्गेण ब्रह्मचारि स्थितेन च ।
वानप्रस्थयतीनां तु संहारन्यासमुच्यते ॥
अत्र वानप्रस्थसन्यासिनौ संहार न्यासं कुर्याताम् ।
सन्ताने - संहितायाम् -
कनिष्ठे सद्योजातं तु वामदेवं त्वनामिके ।
अघोरं मध्यमे न्यस्य तर्जन्यां पुरुषं न्यसेत् ॥
ईशानेनैव देवेशि? अङ्गुष्ठे चैव विन्यसेत् ।
पादादिकेशपर्यन्तं संहारन्यासमुच्यते ॥
अपत्निको वनस्थश्चेत् संहारन्यासमुच्यते ।
भौतिकनैष्ठिक ब्रह्मचारिभ्यां स्थितिन्यासः कर्तव्यः ॥
तथा -
सन्तान संहितायाम् -
स्थितिन्यासं प्रवक्ष्यामि शृणुष्वायतलोचने ।
मध्यमादितर्जन्यन्तं पञ्चब्रह्मन्यसेत्क्रमात् ॥
ईशानं मध्यमे न्यस्य पुरुषं च त्वनामिके ।
अघोरं कनिष्ठिकायां तु वाममङ्गुष्ठके न्यसेत् ॥
सद्योजात(तं?)न्यसेद्येद?द्वि तर्जन्यां तु विशेषतः ।
मध्यादितर्जन्यन्त स्थितिन्यासमुदाहृतम् ॥
भीइमसंहितायाम् -
हृदादिजानुपर्यन्तं स्थितिन्यासं प्रकीर्तितः ।
हृदये विन्यसेदीशं मुखे तत्पुरुषं न्यसेत् ॥
अघोरं मूर्ध्नि विन्यस्य वामदेवं तु गुह्यके ।
पादे न्यस्य तु सद्यं तु स्थितिन्यासादिमं परम् ॥
॥
अथ सृष्टिन्यासः ॥
ॐ हः अस्त्राय हुं फडिति वामकरतलं तत्पृष्ठं च दक्षिणेन द्विवारं संशोध्य दक्षकरतलं तेनैव मन्त्रेण वामकरेणैकवारं संशोध्यास्त्रतेजसा दग्धौ मणिबन्धावधि हस्तौ सञ्चिन्त्य तौ सम्पुटीकृत्याङ्गुष्ठद्वयमध्ये अमृतरूपेण शक्तिमण्डलं ध्यात्वा तेनामृतेन ॐ हां शक्तये वौषडिति करद्व्यं सम्प्लाव्य ॐ हां शिवासनाय नम इति करपुटे शिवासनं
विन्यस्य तन्मध्ये ॐ हां हं हां शिवमूर्तये नम इति सूक्ष्ममूर्तिं सदाशिवं विन्यस्य अङ्गुष्ठयोस्तर्जनीभ्यां ॐ होम् ईशानमूर्ध्ने नमः ।
तर्जन्यादिकनिष्ठान्तमङ्गुष्ठाभ्याम् ॐ हें तत्पुरुषवक्त्राय नमः ।
ॐ हुम् अघोर हृदयाय नमः ।
ॐ हिं वामदेव हुह्याय नमः ।
ॐ हं सद्योजातमूर्तये नमः ।
करतलयोः ॐ हां हौं विद्यादेहाय नमः ।
इत्यङ्गुष्ठाभ्यां सदाशिव विग्रहं विन्यस्य पुनर्मध्याङ्गुलिभिस्त्रिभिः ॐ हौं नेत्रेभ्यो नमः ।
दृक्क्रियेच्छात्मकं नेत्रं विन्यस्य सकलहस्त व्य्ताप्तशक्तित्वेन मध्ये ॐ हां हौं शिवाय नम इति सदाशिवदेहव्यापकं शिवं सञ्चिन्त्याङ्गुष्ठानामिकाभ्याम्
आवाह्य कनिष्ठादिकरशाखासु ॐ हां हृदयाय नमः ।
ॐ हीं शिरसे नमः ।
ॐ हूं शिखायै नमः ।
ॐ र्हैं कवचाय नमः ।
ॐ हः अस्त्राय फडिति विन्यस्य वामदक्षिणक्रमेण नमोऽन्तकवेचेनावकुण्ठ्यो हौं? हस्तौ संयोज्य वौषडन्त मूलेन परमीकृत्याङ्गन्यासमारभेत् ।
दक्षिणाङ्गुष्ठानामिकाभ्यां हृदि ॐ हां शिवांसनाय नम इति षोडशदलकर्णिका सहितं श्वेतपद्मं विचिन्त्य तत्र ॐ हां हं हां शिवमूर्तये नम इति भ्रू चिबु?कान्तां ज्योतिरूपां सूक्ष्मे मूर्तिं विन्यस्येशानमन्त्रं मूर्ध्नि मुष्टिं बध्वाङ्गुष्ठेन विन्यस्य वक्त्रहृद्गुह्य जानुषु तत्पुरुषाघोरवामदेव सद्योजातमन्त्रान् अङ्गुष्ठयुक्ततर्जन्याद्याङ्गुलिक्रमेण विन्यस्य अङ्गुष्ठानामिकाभ्यां हृदि ॐ हौं विद्यादेहाय नम इति ब्रह्मरन्ध्रान्तं पञ्चब्रह्मकलामयं सदाशिवं विन्यस्य नेत्रमन्त्रं तेषु मध्यमाङ्गुलिभिस्तिसृभिर्विन्यस्य विशेषाधिष्ठातृत्वेन विधिवत्तन्मूल द्वादशान्तमुच्चार्य मूर्तिव्यापकमङ्गुष्ठानामिकाभ्यामावाह्य सकलीकरणाय हृदय शिरश्शिखा स्थानेषु
हृदयशिरश्शिखामन्त्रान् साङ्गुष्ठकनिष्ठानामिका मध्याभिर्विन्यस्य कण्ठप्रावरणत्वेन स्तनमध्यान्तं नमोऽन्तकवचेन तर्जनीभ्यां विन्यस्य हस्ततलयोरस्त्रमन्त्रमनामिकाभ्यां विन्यस्य हुम्फडन्तास्त्रेण तालत्रयपुरस्सरं विघ्न निस्सार्त्थं मुद्रया दशदिक्षु छोटिकया बन्धनं कृत्वा कवचेनावेष्ट्य वौषडन्तमूलेन पादादिमूर्धान्तं सर्वमन्त्र प्ररोचनार्थं महामुद्रां प्रदर्शयेत् ॥
तथा -
चिन्त्यविश्वसादाख्ये -
अस्त्र मन्त्रं द्विरुच्चार्य वामपाणिं च शोधयेत् ।
करेण दक्षिणे नैव दक्षिणं वामपाणिना ॥
एकवारान्तमुच्चार्य शोधयेन्नन्दिकेश्वरः ।
अस्त्रतेजोऽन्वितौ हस्तौ मणिबन्धावधि स्मरन् ॥
पाणिभ्यां सम्पुटं कृत्वा चाङ्गुष्ठद्वय सम्पुटे ।
ध्यायेदमृतबीजेन शक्तिमण्डलमुत्तमम् ॥
ॐ हौं शक्तये वौषड्(ट्?) सम्प्लाव्यं तत्करद्वयम् ।
पद्माकरं पुटे भाव्यं तन्मध्ये तु शिवासनम् ॥
मूर्तिं सूक्ष्म्या तु विन्यस्य पश्चान्मन्त्रं समुच्चरेत् ।
एवं सदाशिवं रूपं विन्यसेन्नन्दिकेश्वरः ॥
वीरतन्त्रे -
ईशादिपञ्चमन्त्राणि अङ्गुष्ठादि न्यसेत्ततः ।
कामिके -
विद्याशरीरं तं ध्यात्वा ततश्शक्त्यन्तमुत्तमम् ।
नेत्रं हस्ततले न्यस्य पश्चान्मूलमनुस्मरन् ॥
चिन्त्यविश्वसादाख्ये -
सकलीकरणं पश्चात्कनिष्ठाङ्गुष्ठकान्तजम् ।
हृदादिमन्त्रविन्यासः सकलीकरणं भवेत् ॥
कालोत्तरे -
विन्यस्याङ्गुलिभिर्मध्ये कवचेनावकुण्ठयेत् ।
कराङ्गुलीषु सर्वासु प्रासादं विन्यसेत्ततः ॥
करन्यासस्समाख्यातस्त्वङ्गन्यासमतः परम् ।
दक्षाङ्गुष्ठानामिकाभ्यां हृद्यासनं च मूर्तिकम् ॥
विन्यस्य विधिवद्देहे पञ्चब्रह्म विन्यसे?त्ततः ।
अजिते -
अङ्गुष्ठाग्रेण मूर्ध्नीशं विन्यसेद् ग्राह्यमुष्टिना ।
मुखे तत्पुरुषं चैव तर्जन्याङ्गुष्ठयोगतः ॥
मध्यमाङ्गुष्ठयोगेन हृद्यघोरं तथा न्यसेत् ।
अङ्गुष्ठानामिकायोगाद्गुह्ये वामं च विन्यसेत् ॥
कनिष्ठाङ्गुष्ठयोगेन सद्योजातं तु पादयोः ।
अङ्गुष्ठानामिकाग्रेण विद्यादेहं न्यसेद्धृदि ॥
लोचने विन्यसेन्नेत्रं मध्याभिस्त्रिभिरङ्गुलैः ।
प्रासादं हृदि विन्यस्य पश्चादङ्गानि विन्यसेत् ॥
कनिष्ठाङ्गुष्ठयोगेन हृदयं हृदये न्यसेत् ।
अङ्गुष्ठानामिकाग्रेण शिरश्शिरसि विन्यसेत् ॥
शिखाश्शिखायामङ्गुष्ठमध्यमाग्रेण विन्यसेत् ।
हृदयादि न्यसेदेवं कवचं स्तनमध्यतः ॥
कण्ठ प्रावरणत्वेन तर्जनीभ्यां न्यसेत्ततः ।
अनामिकाभ्यामतले अस्त्रमन्त्रं तु विन्यसेत् ॥
तालत्रयं तथास्त्रेण दिग्बन्धनमथाचरेत् ।
अचिन्त्यविश्वसादाख्ये -
छोटिकामुद्रया तेन दशदिग्बन्धनं कुरु ।
तदुक्तम् अजिते -
दक्षिणाङ्गुलिभिर्वामहस्तस्य तलताडनम् ।
अङ्गुष्ठवर्जिताभिस्सा तालमुद्रा तु शुद्धिदा ॥
कृत्वा दक्षिणहस्तेन मुष्टिं दृढतरं ततः ।
अङ्गुष्ठाग्रेण तर्जन्या सम्यगग्रेण पीड्य च ॥
प्रक्षिपेत्तर्जनीं भेदे यथा शब्दोदयो भवेत् ।
नाराचास्त्रसमाख्येयं मुद्रा दिग्बन्धकर्मणि ॥
इति ॥
सर्वज्ञानोत्तरे -
मन्त्रपूतकरौ कृत्वा कवचेनावकुण्ठयेत् ।
ततश्चालभनं कुर्यात्पादादारभ्य मूर्धनि ॥
मूलेन परमीकृत्य महामुद्रां ततः क्रमात् ।
तदुक्तम् समानतन्त्रे -
हस्ताभ्यां संस्पृशेत्पादौ तौ नयेद्यायम?स्तकम् ।
एषा मुद्रा महामुद्रा * * * * * * * * न्ततः क्रमात् ॥
कारणे विशेष उक्तः -
हस्ताभ्यां संस्पृशेत्पादौ कादिपादान्तकं यतः ।
एषा मुद्रा महामुद्रा करसंस्कारपश्चिमे? ॥
अस्यफलम् पौष्करे प्रतिपादितम् -
अविभिन्नस्वभावानां यदि भिन्नप्रयोजनम् ।
अङ्गानामङ्गिना सार्धम्मृतीकरणं(र्धममृती?) हितम् ॥
इति ॥
सर्वज्ञानोत्तरे
शिवस्य यादृशं रूपं तादृशं चिन्तयात्मनि ।
शिवमन्त्रन्यासमिदमात्मनस्तु सदा कुरु ॥
इत्थं मन्त्र सनुद्ध विग्रहत्यन्?साधकः शरीररक्षार्थं सर्वविघ्नौर्न्नानुहूयते ।
तथोक्तम् -
हृदया यत्? परित्राणबन्धपट्टवादाहितम् ।
शिरश्च च्छिरस्त्राणां? शिरसः परिवेष्टनम् ॥
चूलिकामस्तकत्राणमङ्गत्राणं च कङ्कटम् ।
करे शस्त्रे गृहीते तु भीषणो गटवत्? स्थितः ॥
क्षुद्राणामप्रधृष्यस्या तार्क्ष्यात् दृक्श्रवसामिव ।
इति ॥
अथ मन्त्रसंहिताया (तया?) त्रिः प्राणानायम्य पुनराचम्य श्रोत्रवन्दनं कुर्यात् ॥
क्रियाकाण्डक्रमावल्याम् -
सकलीकरणं कृत्वा प्राणायामेन संस्थितः ।
त्रिस्समावर्तयेन्मन्त्री मनसा शिवसंहिताम् ॥
पूर्ववत्पुनराचम्य विधाय श्रोत्रवन्दनम् ।
॥
प्राणायामः ॥
शिवधर्मोत्तरे - प्राणायामस्वरूपमुक्तं यथा -
प्राणो वायुश्शरीरस्थस्तस्य यामो निरोधनम् ।
रेचकः पूरकश्चैव कुम्भकस्त्रिविधः स्मृतः ॥
नासिकापुटमङ्गुल्या पीड्यैकमपरेण च ।
औदर्यं रेचके(ये?)द्वायु(युं?) रेचनाद्रेचकः स्मृतः ॥
बाह्येन वायुना देहं द्रति?वत्पूरयेद्भृशम् ।
तथा पूर्णश्च सन्तिष्ठेत्पूरणात्पूरणः स्मृतः ॥
न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ।
सम्पूर्णे कुम्भवत्तिष्ठेदचलस्स तु कुम्भकम्(ः?) ॥
तदनु अङ्गुष्ठा नामिकाग्राभ्यां नेत्रयोर्दिव्यमुद्रां विन्यस्य नमोऽन्तमूलजल निरीक्ष्य हुम्फडन्तास्त्रेणाग्नितीर्थेन सम्प्रोक्ष्य तेनैव सन्ताड्य वौषडन्तकवचेनाभ्युक्ष्य ॐ हां हृदयाय वौषडित्यङ्कुशमुद्रया बिन्दुस्थानाद् गोदावर्याद्यन्यतमं तीर्थादाकृष्य मनोऽन्तं हृदयेनोद्भवमुद्रया जले तीर्थं
प्रक्षिप्य मूलेन शिवतीर्थमभिमन्त्र्य हुम्फडन्तास्त्रेण संरक्ष्य नमोऽन्तं कवचेनावकुण्ठ्य वौषडन्त शक्तिमन्त्रेण धेनुमुद्रया अमृतीकुर्यात् ॥
चिन्त्यविश्वसादाख्ये -
निरीक्षणादिभिश्शोध्य जलमङ्कुशमुद्रया ।
ललाटे तीर्थमाकृष्य ॐ हां हृदयाय वौषट् ॥
शराशं नाथ संरक्ष्य शक्तिमन्त्रेण मन्त्रवित् ।
अमृतीकरणं कुर्याद्विघ्नौघानां निवारणम् ॥
सुप्रभेदे - धेनुमुद्रास्वरुपमुक्तम् ।
तद्यथा -
वेणीबन्धकरौ कृत्वाऽभ्यङ्गुष्ठौ युग्मसंस्थितौ ।
तर्जनी मध्यमे लीनौ कनिष्ठानामिकायुतौ ॥
एवं चत्वारियुग्मं तु दिव्यामृतसुवर्षणि ।
इयं सुरभिमुद्रा च द्रव्यशुद्ध्यर्थमुच्यते ॥
कामिके -
सकलीकृतदेहस्तु ततस्सन्ध्यामुपासयेत् ।
अथ सन्ध्याकालनियममुत्तमादि क्रमेणोच्यते ।
आद्यां नक्षत्रसंहितां सार्का सन्ध्यासु पाश्चिमाम् ।
मध्यमां मध्यमेऽभ्येके यत्नात्सन्ध्यासुमभ्यसेत् ॥
उत्तमा दृष्टनक्षत्रा मध्यमा लुप्ततारका ।
अर्धोदितनरुणा कन्या प्रातस्सन्ध्या त्रिधा स्मृत ॥
मध्याह्नेऽपि तथा ज्ञेया घटिकात्रयकल्पिता ।
अर्धार्कमण्डले श्रेष्ठो मध्यमास्तमिते रवौ ॥
कन्यसा दृष्टनक्षत्रा सायं सन्ध्या त्रिधामता ।
प्राक्सन्ध्यासमयस्थस्य विशिष्टस्याह्निकद्वयम् ॥
निर्वाणदीक्षितस्यात्र सन्ध्यात्रयमुदाहृतम् ।
चतुर्थामपि सन्ध्यायां पूर्ववत् देशिकोत्तमः ॥
सकलनिष्कलभेदेन सा सन्ध्या तु द्विधा मता ।
मोहशूरोत्तरे -
सन्ध्याया लक्षणं शत्? प्रसङ्गेन निगद्यते ।
आद्या शक्ति परा नित्या या सा करण धर्मिणा ॥
सा सन्ध्या परमार्थेन बोधेनावगतात्मना ।
मृणालसूत्रसङ्काशा पश्चात् * * * * ल तरा भवेत्? ॥
पूर्वं कालादिभेदेन भिन्नवर्णा पृथक् पृथक् ।
रक्ता शुक्ला तथाश्यामा चतुर्थी गुणवर्जिता ॥
हृदये च तथा विञ्चौ? ब्रह्मरन्ध्रे निरास्पदे ।
चतस्राणां समुद्दिष्टा ध्यानस्थानं शतक्रतो ॥
तत्र समयविषये सकलशक्तिध्यानमुक्तम्-
चिन्त्यविश्वसादाख्ये -
प्रातस्सन्ध्येति तत्काले ब्राह्मीं हृदयपङ्कजे ।
रक्त भूषाम्बरा(रां?) रक्तां रक्तमाल्यानुलेपनाम् ॥
जटामकुटसंयुक्तां चतुर्वक्त्रां चतुर्भुजाम् ।
हंसपङ्कजमध्यस्था तमष्टदृशावलोकिनीम् ॥
यज्ञोपवीतिनीं बालां पद्ममालाविराजिताम् ।
सृगक्षमालां सर्वाभ्यां बाहुभ्यां दधतीं पराम् ॥
दण्डं कमण्डलुं द्वाभ्यां वामाभ्यां च तथैव च ।
त्रिपुण्ड्रावलिसन्दीप्तां सर्वाभरणभूषिताम् ॥
शतयोजनकोटीभिर्विस्तृते रक्तमण्डले ।
तन्मध्ये सुस्थितां देवीं सर्वकर्माणि साक्षिणीम् ॥
मध्याह्ने वैष्णवीं ध्यायेत् शुक्लां शुक्लाम्बुकोज्वलाम् ।
वैनतेयाब्जमध्यस्थामेक वक्त्रां सुयौवनाम् ॥
वनमालोपवीतां च सर्वलक्षणसंयुताम् ।
बिम्बोष्ठीं चारुवदनां नेत्रयुग्मां सुकुण्डलाम् ॥
शङ्खं वामे च चक्रं च दक्षिणे दधतीं करे ।
गदाभयं च दधतीं त्रिपुण्ड्राङ्कितमस्तकाम् ॥
सर्वालङ्कारसंयुक्तां साक्षिणीं सर्वकर्मणाम् ।
द्विशतयोजनविस्तीर्णे * * * * * * * * श्वेतमण्डले? ॥
तत्र मध्ये स्थितां देवीं वरां संस्थितिकारिणीम् ।
सायाह्ने शिरसि ध्यायेद्रौद्रीं नीलोत्पलप्रभाम् ॥
अर्धचन्द्राङ्कितजटामीषद्गलितयौवनाम् ।
कृष्णाजिनौपवीतिं च सर्वाभरणभूषिताम् ॥
सर्वलक्षणसंयुक्तां संहारमपि कारिणीम् ।
भस्मत्रिपुण्ड्र संयुक्तां त्रिशूलाक्षं च दक्षिणे ॥
वामे शक्त्यभयं देवीं सर्वकर्मसु साक्षिणीम् ।
अर्धास्तमित द्र(त्रि?)शतकोटियोजन विस्तृते ॥
बिन्दुमण्डलमध्यस्थां भावयेन्नन्दिकेश्वरः ।
तासां प्रभाभि?रात्मानं भासितं भावयेत्तदा ॥
अथ पुत्रकाद्यास्तु निष्कलध्यानम् -
ज्ञानिनां परा सन्ध्याश्चतस्त्रादिदये धुना ।
एकैवानेकतां याति शिवं शक्तिरुपाधितः ॥
चिन्त्यविश्वसादाख्ये -
उत्तमा परमा सन्ध्यामर्धरात्रे विशेषतः ।
शिवशक्तिस्वरूपेण चैकत्वेनैकतां गता ॥
बिसतन्तुनिभा सूक्ष्मा रक्ता शुक्ला सितेतरा ।
चतुर्थी निष्कला नित्या कृष्णोपासा विभाव्यते ॥
शिवबोधा परा धातु(यातु?) सा सन्ध्या परमा भवेत् ।
मोहशूरोत्तरे -
ज्ञानिनां कथितं किञ्च योगिनां कथ्यते हरे ।
अन्ते सूर्यस्य चन्द्रस्य द्वे सन्ध्ये प्राणयोगिनाम् ॥
परयोगेन कथिता त्वन्यथा मम शूलिना ।
शुद्धबोधवदावस्था चात्मनो या शचीपतेः ॥
यथा कालक्रमेणैव सन्ध्यां ध्यात्वा स्वभावतः ।
एवं यथाधिकारं सन्ध्यां ध्यात्वा पूर्वाभिमन्त्रित शिवतीर्थजलं दक्षहस्तेन वामहस्ते हृदा निक्षिप्य सकृत्संहितयाभिमन्त्र्य प्रणवरूपया चन्द्रसदृशामृतस्रवन्त्या कुम्भमुद्रया वौषडन्तमूलेन सकृत्प्रयोगेण शिरस्यभिषेचयेत् ॥
पुनस्सहृदा वामहस्तेन वारि कुशान्वितं निक्षिप्य वौषडन्तसंहितायामभिमन्त्र्य दक्षिणहस्तेन वामाङ्गुलिमध्यसृतं जलं शिरसि वौषडन्तसंहितया प्रोक्षयेदिति मार्जनम् ॥
तथागमः -
बध्वा कलशमुद्रां तु सुधाख्याधारणं स्मरेत् ।
तारकं पञ्चमात्रं तु कुम्भवच्चाप्यधोमुखम् ॥
सुस्निग्धं चन्द्रसदृशं स्रवन्तममृतं ततः ।
कुम्भमुद्रां पुरा बध्वा संहितायां तु (तां तु?) सकृत्स्मरेत् ॥
पृथिव्यां यानि तीर्थानि तत्र स्नातौ भवेत्तदा ।
सर्वकर्माधिकारी स्यात्सर्वयज्ञफलं भवेत् ॥
मोहशूरोत्तरे -
दक्षिणेन जलं गृह्य वामहस्ते तु निक्षिपेत् ।
मन्त्री संहितया पश्चादभिमन्त्र्य शिवात्मकम् ॥
कामिके -
वामहस्ते जलं स्थाप्य स्रुवश्शिरसि योजयेत् ।
मूलाङ्गब्रह्मभिर्मन्त्रैर्दक्षहस्तेन नित्यशः ॥
इति ॥
अथवा शिष्टजलं दक्षिणकरे प्रक्षिप्य पूरकवायुना वामनासापुटेन प्रविष्टं धर्मरूपं शुद्धश्वेतजलं सञ्चिन्त्योदरे कुम्भीकृत्य तज्जलेन देहान्तर्गतपापं प्रक्षाल्य तेन तज्जलमन्तः पापक्षयेण कृष्णवर्णं विचिन्त्य रेचकवायुना दक्षिणनासापुटेन तज्जलं बहिर्निस्सृतं विभाव्य हुम्फडन्तास्त्रेण
ज्वलदग्निवर्ण वज्रशिलायां बहुरूपेण दक्षिणपाणिना वामभागे निक्षिपेदित्य घमर्षणम् ॥
कामिके -
लयोपिद्दक्षद्धंस्था हिश्शेषं वारि सितद्युति ।
हाहृत्य पूरकेणैव वामनासापुटेन तु ॥
तज्ज्योत्स्नया च निर्दग्धं पापदेहोऽसितप्रभः ॥
रेचका दक्षनासातो निर्गतं परिचिन्तयेत् ।
तच्छेषं दक्षिणहस्तं भ्रूविक्षेपं महास्त्रितम् ॥
मृगेन्द्रपद्धत्याम् -
जलं वज्रशिलापृष्ठे क्षिपेत्तदघमर्षणम् ।
इति ॥
तदन्वमन्त्रकं समन्त्रकं चाचम्य विधिवत् सकलीकरणं कृत्वा कवचेनास्त्रेण वात्मानं संवेष्टयेत् ॥
तथागमः -
ततो द्विधा समाचम्य कृतन्यासः प्रसन्नधीः ।
यदा यदा समाचामेन्मन्त्रन्यासं तदा तदा ॥
कुर्वीत करकायेषु मन्त्री मन्त्रार्थ सिद्धये ।
अचिन्त्यविश्वसादाख्ये -
सुधामयजलेनैव देहसंवेष्टनं कुरु ।
सव्यहस्ते जलं गृह्य अस्त्रं मन्त्र प्रदक्षिणम् ॥
आदित्य मण्डल मध्यस्थं सदा शिवं स्मरन् ॐ हां हौं शिवायार्घ्यं स्वाहेति शिवाय पुष्पाक्षतसन्निहितमञ्जलित्रयं हृत्प्रदेशे निधायार्घ्यं दद्यात् ॥
मृगेन्द्रे -
तीक्ष्णांशु बिम्बमध्यस्थं ध्यात्वा देवं सदाशिवम् ।
क्षिपेज्जलाञ्जलिं मन्त्री विरतौ चेतसा स्मरन् ॥
मोहशूरोत्तरे -
शिवमन्त्रं ग्रहणं मन्त्री स्वाहान्तमुदकाञ्जलिं दत्त्वा शिवाय गायत्रि जपेत् ।
पश्चात् स्वभावतः यथा विधानमर्घ्यमुत्क्षिप्य वक्ष्यमाणो धेन? गायत्रीं जपेत् ॥
कामिके -
प्रात स्थित्वाथ सायाह्ने समासीनो मुनीश्वराः ।
आसीनो वा स्थितो वापि मध्याह्ने विधिमाचरेत् ॥
ज्ञानरत्नावल्याम् -
उत्थितः पूर्वसन्ध्यायामर्घ्यं पूर्वाननो(ननेन?) तु ।
आदित्याय प्रदातव्यं जपं चैवोत्थितेन तु ॥
मध्याह्ने समये तद्वत् किन्तु दक्षाननेन तु ।
सायमुत्थाय दत्त्वार्घ्यमुपविश्य जपेत्तदा ॥
शुष्कार्द्रवसनो वापि गायत्रीं जले जपेत्? ।
सूर्यानलात्मिकान्नित्यं विरोधाद्वारितेजसोः ॥
नाडीसन्धानकस्सूर्यरश्मिसम्पूर्ण विग्रहः ।
गायत्रीं हृदि सञ्चिन्त्य शुक्लां शुक्लोपवीतिवीम् ॥
कुर्यात् प्रभृतदक्षांसि वामार्ध्य जले स्हिताम् ।
एकवक्त्रां त्रिणेत्रां च जटाखण्डेन्दुमण्डनाम् ॥
त्रिपुण्ड्रावलिभिर्दीप्तां सर्वाभरणभूषिताम् ।
कृष्णाजिनोत्तरासङ्गां शुक्लवस्त्रविभूषिताम् ॥
साक्षसूत्रवरां सव्ये वामे पद्मालयान्विताम् ।
एवं ध्यात्वाथ गायत्रीमारभेत्तु जपं यथा ॥
ॐ तन्महेशाय पदं विद्महे च ततः पदम् ।
महादेवाय मन्त्रान्ते धीमहीतिसमन्वितम् ॥
तन्नः शिवपदं तस्मान्नियोज्यं च प्रचोदयात् ।
गायत्री कथिता वत्स चतुर्वेद फलार्थदा ॥
त्रिसन्ध्यां शिवगायत्रीं जपेद्भक्तिसमन्वितः ।
यद्वा त्र्यक्षरां गायत्रीं जपेत् ।
ॐ हां ह्रीं वाथ गायत्री नमोऽन्ताभीष्टदायिका ।
इति ।
सप्तावर्ता(वृर्त्त्या?) पुर(ना?)त्येन दशभिः प्रापयेद्दिवम् ।
विंशाव(वृ?)र्त्या तु सा देवी नयत्यैश्वरमालयम् ॥
शतमष्टोत्तरं जप्त्वा तारयेज्जन्मसागरात् ।
इति ।
सूर्यमण्डलादागतां जपान्ते पुनस्तन्मण्डलमेव प्रविष्टां चिन्तयेत् ॥
उक्तं च -
ओङ्काराद्या चतुर्विं?शत्यक्षरान्ते नति वर्जितान् ।
गा(य)त्र्यागतां जप्त्वा? विष्टोपान्तेऽर्कमण्डलेति ॥
इत्थं प्रतिदिनं जप्त्वा स्वाहान्तमूलेन प्रदक्षिणत्रयं कृत्वा मन्त्राणां दीपनार्थाय स्वाहान्त संहितां तर्पयेत् ॥
चिन्त्यविश्वसादाख्ये -
त्रिसन्ध्यं शिवगायत्रीं जपेद्भक्ति समन्वितः ।
एवं मन्त्रं जपित्वार्घ्यं दत्त्वा सद्या(द्यो?) विसर्जनम् ॥
त्रिः प्रदक्षिणमावर्त्य(वृत्त्य?) मूलमन्त्रं जपेत्ततः ।
मन्त्राणां दीपनार्थाय कुर्यात्तर्पणमप्यथ ॥
कामिके -
हस्ताभ्यां तर्पणं प्रोक्तं प्रीणनं तर्पणं स्मृतम् ।
मन्त्रास्तु मूलब्रह्माङ्गा हेतवो मुनिसत्तमाः ॥
तद्यथा - ॐ हां हौं शिवाय स्वाहा ।
ॐ होम् ईशानाय स्वाहा ।
ॐ हें तत्पुरुषाय स्वाहा ।
ॐ हुम् अघोराय स्वाहा ।
ॐ हिं वाम देवाय स्वाहा ।
ॐ हं सद्योजाताय स्वाहा ।
ॐ हां हृदयाय स्वाहा ।
ॐ हीं शिरसे स्वाहा ।
ॐ हूं शिखायै स्वाहा ।
ॐ हैं कवचाय स्वाहा ॐ हौं नेत्रेभ्यो स्वाहा ।
ॐ हः अस्त्राय स्वाहा ।
सर्वेभ्यो मन्त्रेभ्यो स्वाहा ।
ॐ सर्वेभ्यो देवेभ्यो स्वाहा ।
इत्यङ्गुल्यग्रैस्सकुशाक्षत वारिभिर्देवतीर्थेन तर्पयेत् ॥
कण्ठोपवीतिः(ती?) ॐ हां सर्वेभ्यो ऋषिभ्यो नमः ।
इत्यङ्गुलिपर्वसन्धिरूप तीर्थेन मुनीन् तर्पयेत् ॥
ॐ हां सर्वेभ्यो मनुष्येभ्यो वषडिति कनिष्ठामूलरूप मनुष्यतीर्थेन मनुष्यान् तर्पयेत् ।
ॐ हां सर्वेभ्यो भूतेभ्यो वौषडिति करतलमूलमणिबन्धरूप भूततीर्थेन भूतानि तर्पयेत् ॥
अथ दक्षस्कन्धोपवीति(ती?) कुशमूल्य(ला?)ग्रेण सतिलवारिणा ॐ हां सर्वेभ्यः शिवपितृभ्यः स्वधा ॥
ॐ हां सर्वेभ्यो देवपितृभ्यः स्वधा ॥
ॐ हां सर्वेभ्यः पितृभ्यः स्वधा ॥
ॐ हां सर्वेभ्यो मातृभ्यः स्वधा ।
ॐ हां सर्वेभ्यो ज्ञातिभ्यः स्वधा ॥
ॐ हां सर्वेभ्य आचार्येभ्यः स्वधा ।
इति तर्जन्यङ्गुष्ठमध्यरूपपितृतीर्थेन सन्तर्पयेत् ।
तथा -
कामिके -
स्वाहान्तं मन्त्रदेवानां मुनीनां तु नमोऽन्तकम् ।
मनुजे च वषट् चैव भूतानां वौषडन्तकम् ॥
पित्रादीनां स्वधान्तं स्याद्यथा योग्योपवीतयुक् ।
कालोत्तरे -
देवानामुपवीतेषु ऋषीणां कण्ठसञ्ज्ञितम् ।
पितॄणामपसव्येन तर्पयेत् * * समाहितः ॥
कुशपुष्पाक्षतैरेव देवानां तर्पयेद्बुधः ।
कुशैरेव ऋषीणां तु पितॄणां च तिलेन तु ॥
देवानां च ऋषीणां च जलेनैव तु तर्पयेत् ।
पितॄणां जलतीरे तु नित्यं चैव यथाविधि ॥
कामिके -
कराग्रे दैविकं तीर्थं पर्वसन्धिषु चार्षकम् ।
तीर्थं कनिष्ठिकामूले प्राजापत्यं प्रकीर्तितम् ॥
पैतृकं तर्जनीमूले ब्राह्मकं करमूलतः ।
एवं ज्ञात्वा विशेषेण देवादीन्? तर्पणं कुरु ॥
इदं सङ्क्षेपतर्पणं भवति ।
अत्र बालादीनामधिकारः ।
तथा -
चिन्त्यविश्वसादाख्ये
बालात् बालिशवृद्धस्त्रीरोगिणां भोगन्त्र(भू?) भुजाम् ।
गुरुवक्त्रेण सङ्कोच्य तर्पणादींश्च कारयेत् ॥
अथ विस्तर तर्पणशक्तश्चेत् कुर्यात् ।
तद्यथा - संहितामन्त्रान् स्वाहान्तान् देवतीर्थेन तर्पयेत् ।
ॐ हां शतकोटिमन्त्रेभ्यः स्वाहा ।
ॐ हां सर्वेभ्यः शिवागमेभ्यः स्वाहा ।
ॐ हां सर्वेभ्यश्शिवेभ्यः
स्वाहा ॥
ॐ (हां?) वसिष्ठाय नमः ।
ॐ हां पुलस्त्याय नमः ।
ॐ हां क्रतवे नमः ।
ॐ हां भारद्वाजाय नमः ।
ॐ हां विश्वामित्राय नमः ।
ॐ हां प्रचेतसे नमः ।
ॐ हाम् ऋचीकाय नमः ।
ॐ हाम् अगस्त्याय नमः ।
ॐ हां दधीचाय नमः ।
ॐ हां दुर्वाससे नमः ।
इत्येकादश? ऋषीन् पर्वसन्धिभिः ॐ हां सनकाय वषट् ।
ॐ हां सनन्तनाय वषट् ।
ॐ हां सनत्कुमार (राय?) वषट् ।
ॐ हां कपिलाय वषट् ।
ॐ हां पञ्चशिखायै वषट् ।
ॐ हाम् ऋषभे? वषट् ।
इति मानवतीर्थेन कनिष्ठामूलेन मनुष्यां? समर्पयेत् ।
ॐ हां सर्वेभ्य आकाशादि पृथिव्यन्तभूतेभ्यो वौषडिति संलग्नकरतलमूलेन तर्पयेत् ।
अथ दक्षस्कन्धोपवीती कुशमूलाग्रेण सतिलवारिणा ॐ हां कव्यवाहनाय स्वधा ।
ॐ हाम् अनलाय स्वधा ।
ॐ हां सोमाय स्वधा ।
ॐ हां यमाय स्वधा ।
ॐ हाम्? अर्यम्णेभ्यः स्वधा ।
ॐ हाम् अग्निष्वाप्ताय स्वधा ।
ॐ हां बर्हिषट् स्वधा ।
ॐ हाम् आज्यपाय स्वधा ।
ॐ हां सोमपाय स्वधा ।
इति देवपितृन् -
ॐ हां पितृभ्यः स्वधा ।
ॐ हां पितामहेभ्यः स्वधा ।
ॐ हां प्रमातामहेभ्यः स्वधा ।
ॐ हां वृद्धप्रमाता महेभ्यः स्वधा ।
ॐ हां
मातामहेभ्यः स्वधा ।
ॐ हां प्रमातामहेभ्यः स्वधा ।
ॐ हां वृद्धप्रमातामहेभ्यः स्वधा ।
ॐ हां सर्व पितृभ्यः स्वधा ।
इति प्रेतपितॄन् ।
ॐ हां सर्वेभ्यो ज्ञातिभ्यः स्वधा ।
ॐ हां सर्वेभ्य आचार्येभ्यः स्वधा ।
ॐ हां दिग्भ्यः स्वधा ।
ॐ हां दिक्पतिभ्यः स्वधा ।
ॐ हां सिद्धेभ्यः स्वधा ।
ॐ हां साध्येभ्यः स्वधा ।
ॐ हां मातृभ्यः स्वधा ।
ॐ हां ग्रहेभ्यः स्वधा ।
ॐ हां राक्षसेभ्यः स्वधेति सन्तर्प्य ॐ अग्निदग्धाश्च ये जीवौ? येऽप्य दग्धाः प्यदग्धाः? कुले मम ।
भूमौ दत्तेन तोयेन तृप्तायान्तु परां गतिम् ।
इति पठित्वा हुम्फडन्तास्त्रेण सकुशतिलं जलतीरे क्षिपेत् ॥
अथोपवीती गणमम्बिकादीनां मन्त्रमुच्चार्य सन्तर्प्य कुशांस्त्यक्त्वा समाचम्य कृतन्यासो हृन्मन्त्रेण जला संहारमुद्रया तीर्थमन्त्र देवादीनुपसंहरेत् ।
द्विजश्चेत् सावित्रीजपोपस्थानानन्तरं संहितादित्य मूर्तये शिवायोपस्थानं कृत्वा यथाशक्ति जप्त्वा निवेदयेत् ॥
त्रिसन्ध्या मुक्तलक्षण कालभ्रंशे संहितामेकवारं जपेत् तदुक्तम् -
श्रीमृगेन्द्रे -
सन्ध्याकाल परिभ्रंशे शिवैकादशिकां जपेत् ।
इत्थमनुष्ठानं निर्वृर्त्त्यास्त्रेण मार्गस्थान् विघ्नानुत्सार्यास्त्रपञ्जर मध्ये गोदेवालयं गृहमात्मीयं वा प्रविश्य पृथिव्यादितत्त्वानि
मनसा सन्त्यज्य? शुद्धविद्यातत्त्वान्तव्यापकं पूजास्थानं प्रविशेत् ॥
तथा पूजै?
कामिके -
विघ्नान्विशोध्य मार्गस्थावस्त्रात्मक विमानगः ।
व्रजेद्देवालयं वापि गृहमात्मीयमुत्तमम् ॥
मतङ्गे -
प्राग्विमानाधिपतिं ध्यात्वा ततो?ऽङ्गारपुरस्सरम् ।
याया द्वाक्संयमी लेशात् पूजास्थानमनिन्दितम् ॥
इत्यात्मार्थपूजापद्धत्यां
शौचाचमनस्नानसन्ध्याविधिः ॥
गृहनदीतीर वनोपवनादिषु क्वापि देशे मनोरमे पूजागारं कुर्यात् ॥
सुप्रभेदे -
लिङ्ग(ङ्गा?)द्धस्तशतं सार्धं शिवक्षेत्रं समन्ततः ।
यस्य तत्रैव वासित्वं शिवलोकस्य कारणम् ॥
यत्तु मानुषकं लिङ्गं क्षेत्रमानमिदं स्मृतम् ।
स्वयं भूते सहस्र(स्रं?) स्यार्षे(स्यादार्षे?) चैव तदर्धकम् ॥
आराधितानि सर्वाणि स्थावराणीतराणि च ।
दिव्यं प्रयान्त्यसन्देहः प्रभावात्परमेष्ठिनः ।
तत्स्या(तस्मा?)दावसथं कार्यं शिवक्षेत्रसमीपतः ॥
आत्मार्थं पूजयेत्स्सर्वस्सोपहारं शिवस्या ।
तस्मात्पत्रफलैः पुष्पैरम्भसामनया? बुधः ॥
चित्तं शिवात्मकं कृत्वा शिवमाराधयेत्सदा ।
देवस्थानं विना यत्र एककालं न वासयेत् ॥
मतङ्गे -
वस्तव्यं लिङ्गमाश्रित्य दक्षिणस्यां तु दीक्षितैः ।
तदभा वे च्छु(शु?)चौ देशे कृत्वा चाति गृहं शुभम् ॥
नातिदूरे मभसश्शस्तं सवितनं कुत्सितम् ।
कामिके -
पुष्पाराम? मठादीनां स्थानं सर्वत्र कल्पयेत् ।
अंशुमति -
आत्मार्थ यजनार्थं तु प्रासादं पूर्ववद्बुधः ।
गृहे शिवालये वापि इष्टदेशे मनोरमे ॥
किरणे च -
महानदीतटे रम्ये जने चोपवनेऽपि वा ।
पर्वताग्रे च वृक्षे वा गृहे वा लक्षणान्विते ॥
कालोत्तरे
देवालयसमीपे च पुण्यनद्याश्च तीरके ।
अथवा सुद्धगेहेऽपि शिवयागं प्रकल्पयेत् ॥
सूक्ष्मे च -
पादप्रक्षालनं कृत्वा गृहारामे शिवालये ।
नदीतीरे तटाके वा पर्वते राजधानिके ॥
चललिङ्गार्चनं कुर्याद् भुक्तिमुक्तिफलप्रदम् ।
तत्र गृहे च ईशानदिग्भागे पूजागारं कुर्वीत ॥
अन्येषु नदीतीरादिदेशेषु यथेष्टदिक्प्रदेशे कुर्यात् ॥
कालोत्तरे -
ऐशान्यां दिशि संस्थं तु पूजागारं मनोरमम् ।
किरणे च -
गरुडं(डः?) -
भगवन्प्रोक्तमैशान्यां दिशि स्याद्देवतागृहम् ।
तद्गृहं कीदृशं शस्तं ब्रूहि मे तस्य लक्षणम् ॥
(श्वं?) चतुश्शाला गृहाणां तु तत्रान्या कल्पना मता ।
पूर्वाधा श्रीगृहं प्रोक्तमाग्नेयां स्यान्महानसम् ॥
शयनं दक्षिणायां स्यान्नैर्-ऋत्यामायुधाम(ल?)यम् ।
भोजनं पश्चिमायां स्याद्वायव्यां धान्यसञ्चितम् ॥
उत्तरे द्रव्यसंस्थानम् ऐशान्यां देवतागृहम् ।
त्रिशालां वा द्विशालां वा गृहं स्यादेकशालकम् ॥
चतुः कालण्डानीद्यावक्तिमिति? स्मृतं तथा मतङ्गे -
एकशालं द्विशालं वा त्रिशालमथवा शुभम् ।
वित्तानुसारतः कार्यं चतुश्शालमथापि वा ॥
हिरण्यनाभमथवा सुक्षेत्रं वा मनोरमम् ।
(हिरण्यनाभसुक्षेत्रादि शालास्वरूपमं प्रतिकायां मनोरमः।
)
उदक्प्लवं सदाकार्यं सर्वशालान्वितं शुभम् ॥
महानसमथाग्नेयामैशान्यां यागमण्डपम् ।
धान्यस्य सर्वदा शस्तुं स्थापनं वा रूध्वनि ॥
याम्याग्नेयान्तिकं कार्यं स्थापनं सलिलात्मनाम् ।
भाण्डानां मुनिशार्दूल विधिवत्परिकल्पितम् (नाम्) ॥
चतुष्पदानां सर्वेषां दिशि सौम्यां प्रशस्यते ।
एवं विधं गृहं कार्यं वसेत्तत्रैव बुद्धिमान् ॥
अथास्य निर्माणप्रकारः -
तत्र प्रथमं महीतलवर्णगन्धरसैः परीक्ष्य स्वस्वोचितं परिगृह्य विशोध्य शिलामयं पक्वेष्टकामयं शुद्धदारुमयं मृण्मयं वा चतुरश्रमायाता? सुवृत्तं वा त्रिपञ्च सप्तनवत्रयोदश सप्तदश विंशत्येकविंश द्वि(द्वा?)त्रिंशद्धस्तान्यतरप्रमाणमेक भौमं
द्विभौमं त्रिभौमं वा पूर्वदक्षिण पश्चिमान्यतरद्वि(द्वा?)रं मनोरमं पूजागारं निर्मायतं पञ्चधा विभज्य मध्यभागे शिलासूयो(धे?) वर्जयित्वा मृण्मयाष्टकां वा चतुष्कोणस्तम्भयुक्तां स्तम्भरहितां वा षोडशाङ्गुलोत्सेधामष्टाङ्गुलोत्सेधां वा वेदिकां परिकल्प्य तदुपरि पश्चिमभागे एकताल विस्तारायाम पञ्चाङ्गुलोत्सेध गर्भगृह स्थानीयं? देशां तत् पूर्वस्तादृशावा(या?)म विस्तारोत्सेधयुक्तार्धमण्डपस्थानीय देशां तत्पूर्वभागे पञ्चतालायां चतुस्ताल? कल्पयेत् ॥
अथवा समतालमुक्त विस्तारायामा? गर्भगृहादि स्थानीय देशां वेदिकां विस्ताराष्टाङ्गुलोत्सेधयुक्तश्चेर? मण्डप स्थानीय देशाम् वेदिकां गोमयाङ्कितां कुर्यात् ।
पूजामण्डप निर्माणा शक्तौ शिवालयादिषु देवस्य दक्षिणे देशे मनोरमे पूजार्थं परिकल्प्य तत्र प्रासादम्
कालोत्तरे -
वर्णगन्धरसं ज्ञात्वा यागवेश्म समारभेत् ।
दीक्षास्था(नं) शिवस्थानं स्नपनस्ना(स्था?)नमेव च ॥
योगस्थानानि सर्वाणि विधिन्वैषाः प्रकीर्तिताः ॥
तथा सर्वज्ञानोत्तरे -
अग्निकार्यं जपो योगो योगा(ग?)दीक्षा षडानन ।
गुह्ये मनोरमे स्थाने सुविशुद्धमहीतले ॥
तत्र परीक्षाविधिः -
किरणे -
कुन्देन्दुको(न्द्रगो?)पहेमालिवर्णासु ब्राह्मणादितः ।
ग्राह्या त्याज्य? रक्तगन्धार्द्ध्य मूत्रविट् गन्धिनी क्रमात् ॥
मधुधराम्रक्षाया च कटुका चेति स्वदुतः ।
कालोत्तरे
वर्णं गन्धरसास्वादगतैर्ज्ञात्वा तु लक्षणैः ।
सर्वसिद्धिमवाप्नोति सिद्धीनां काङ्क्षितानि वै ॥
एताश्चतस्रो विप्रस्य तिस्रो राज्ञ उभे विशः ।
एका शूद्रस्य नीयमा? श्छिला? भूमिश्च कीर्तिता ॥
वीरतन्त्रे -
हस्तमात्रं खनित्वा तु पूरयेत्तेन पांसुना ।
अधिकं चोत्तमं ज्ञेयमधमं न्यूनमुच्यते ॥
समं मध्यममेवं स्याद्वर्जयेदधमं ततः ।
मृ(म?)तङ्गे -
खात्वा नादि(ति?) प्रमाणं तु शल्योद्धारं च कारयेत् ।
केशभस्मतुषाङ्गार शर्करास्थितृणादयाः(यः?) ॥
प्राणनां च पि ये दुषास्ता प्रयत्नेन सन्त्यजेत् ।
सर्पाबु? वृश्चिका त्याज्या युत्मामृस्ना महामुने ॥
कुर्मीनसमण्डूका प्राणिनश्शभता स्मृताः ।
? शङ्ख विद्रुमवैडूर्य राजावर्तादधश्शुभाः? ॥
धातवश्च प्रशस्ताः स्युः सिद्धिदाश्च महीतले ।
सर्वज्ञानोत्तरे -
सेचयेच्छुद्धतोयेन पञ्चगव्यशिवाम्भसा ।
पञ्चरत्नं क्षिपेत्तत्र मूलमन्त्रेण देशिकः ॥
पूरयेत् ग्राह्य पाषाणैरष्टाङ्गुलमृदन्तरैः ।
अंशुमति -
पुण्यक्षेत्रे नदीतीरे शुधदेशे मनोरमे ।
सङ्गृह्य मृदमादाय तद्गर्तं पूरयेत्समम् ॥
निघट्टनं वालुकाभिर्निम्नोन्नत विवर्जनम् ।
वास्तुमिष्ट्या(ष्ट्वा?) यथा शास्त्रं कृत्वा भुमौ समप्लवे ॥
आर्या(या?)दिशुभसंयुक्तं यजमानानुकूलतः ।
शिलां वा चेष्टिकां वापि दारुमृण्मयमेववा ॥
समाश्रं मण्डपं कुर्यादायताश्रमथापि वा ।
एवं मण्डपनिर्माणं स्थान निर्देश उच्यते ॥
सूक्ष्मे तु -
चतुरश्रायतं वृत्तं यथेष्टं मण्डपं न्यसेत् ।
अत्र मण्डपनिर्माण प्रसङ्गे मात्राङ्गुलत्रैविध्येन तदधीनं हस्तप्रमाणं विप्रवधमितं च त्रैविध्य ।
देशसङ्कटादिषु ज्ञात्वा यथासम्भवं प्रयोज्यं तथा ।
चिन्त्ये -
आचार्यदक्षिणे हस्ते मध्यमाङ्गुलिमध्यमे ।
पर्वदीर्घसमं तारं नाहं त्रिविधमुच्यते ॥
तदङ्गुलैश्चतुर्विंशैर्हस्तमानं प्रकीर्तितम् ।
समानतन्त्रे -
द्वात्रिंशद्धस्तमात्रं तु विंशद्धस्तमथापि वा ।
किरणे -
नवत्रिदशहस्तं वा तथा सप्तदशात्मकम् ।
एकविंशतिहस्तं वा सप्तविंशदथापिवा ॥
सूक्ष्मे -
नवहस्तं सप्तहस्तं पञ्चहस्तं त्रिहस्तकम् ।
मोहशूरोत्तरे -
एकभौमं द्विभौमं वा त्रिभौमं वा यथासुखम् ।
सर्वज्ञानोत्तरे -
दैर्घ्यं तद्द्विगुणं कृत्वा हस्तारेचैक?भागिनम् ।
द्वारं तृतीयके भागे सार्धहस्तप्रमाणतः ॥
किरणे -
कुर्याद्वा पश्चिमद्वारं दक्षिणां(णं?) पूर्वमेव वा ।
मध्ये तद्भागमात्रे तु सप्तविंशत्तदङ्गुलम् ॥
द्वात्रिंशदथ षट्त्रिंशत् * * * * भवत्यथ ।
अङ्गुलानि भवेद्द्वारं विंशत्पञ्चाङ्गुलानि तु ॥
ज्ञानरत्नावल्याम् -
वाहयेत्पश्चिमद्वारं पूर्वद्वारमथापि वा ।
इति नित्यार्चने शस्तं मन्दिरं भुक्तिमुक्तिदम् ॥
एकभौमं द्विभौमं वा तद्विधानमिहोच्यते ।
क्षेत्रं तत्पञ्चधा कृत्वा मध्यभागेन वेदिका ॥
ऐष्टिकामृण्मया श्रेष्ठा नैव शैलसुधामया ।
षोडशाष्टाङ्गुलोच्छ्रायं कोणस्तम्भादिसंयुतम् ॥
किरणे -
विचित्र रन्ध्रसंयुक्तं सकवाटार्गलान्वितम् ।
मध्यस्तम्भ विहीनं वा कर्तव्यं देवतागृहम् ॥
अंशुमति -
गर्भवेश्मैकतालं च तत्समं चार्धमण्डपम् ।
तत्समं विस्तृतं चैव पञ्चाङ्गुलोन्नतं ततः ॥
पञ्चतालायताश्रं च तुर्यतालं च विस्तृतम् ।
विद्याङ्गुलोन्नतं चैव निम्नोन्नतविवर्जितम् ॥
बेरमण्डपमाख्यातं यद्वा समतले ततः ।
गोमयालेपनं कृत्वा वामदेवेन मन्त्रवित् ॥
गर्भोर्ध्वमण्डपं चैव द्वितालं चैव सङ्ख्यया ।
तत्समं विस्तृतं चैव चतुरश्रसमन्वितम् ॥
पञ्चतालायताश्रं च देवतालं च विस्तृतम् ।
बेरमण्डपमाख्यातं तन्मध्ये तु दलं क्षिपेत् ॥
स्थण्डिलं पत्रहीनं चेदसुराणां प्रवेशनम् ।
अस्त्रमन्त्रं समुच्चार्य पत्रं तत्रैव विन्यसेत् ॥
प्रासादं मनसा कल्प्य वेदिकामानमेव च ।
एवं विधिवन्निर्मितमण्डपवेदिकायां गर्भगृहस्थानीयदेशे पेटकं विन्यस्य बेरमण्डप स्थानीय देशे ॐ हाम् आधार शक्तये नमः इत्यभ्यर्च्य तन्मध्ये -
द्विहस्तमायतं पीठमेकहस्त प्रविस्तृतम् ।
द्वादशाङ्गुलमुच्छ्रायं यद्वा हस्तोन्नतं दृढम् ॥
नानावर्णकसंयुक्तं मध्ये कमलभूषितम् ।
श्रीमयमते -
व्यासषडष्टा शिवा भातिनि चरणायतकमकम्पवाजिनकम् ।
तदुपरि पद्मदलं स्यात्कर्णिकायुक्तमलङ्कृतं यथा शोभम् ॥
एवं शोभितं खेटकं न्यस्य तदुपरि नमनिन्त?मानं प्रसार्य मध्ये नागदन्तादिनिर्मितं पीठं विन्यस्य तदुपरि पश्चिमभागे प्रभामण्डल सहितं स्वर्णादिरजतं पद्मपीठं पूर्वाभिमुखं स्थापयेत् ।
तदुक्तम् सूक्ष्मे -
आधारशक्तिमभ्यर्च्य तन्मध्ये खेटकं न्यसेत् ।
तदूर्ध्वेन्नमनिमञ्छाद्य ऊर्ध्वपीठे तु पश्चिमे ॥
तदूर्ध्वे पद्मपीठं स्यात्प्रभामण्डल संयुतम् ।
तथा अंशुमति -
तस्योर्ध्वे चैवमात्मानं चित्रवस्त्राद्यलङ्कृतम् ।
खेटके पश्चिमदेशे पद्मपीठं च विन्यसेत् ॥
प्रभामण्डलसंयुक्तं दामाधारं च विन्यसेत् ।
प्रभामण्डलपार्श्वे तु चित्रवस्त्रैरलङ्कृतम् ॥
ततः पूजामण्डपं प्रकीर्णकुसुमधूपामोदचन्दन चर्चावितान मुक्तादाम पताकध्वजकर्पूर क्षोद प्रर?वारद्दर्पणादिभिरलं कुर्वीत -
तथा मतङ्गे -
सुगुप्तं विजनं रम्यं प्रकीर्ण कुसुमोज्ज्वलम् ।
सुधूपामोदगन्धाढ्यं चर्चितं चन्दनादिभिः ॥
वितानोपरि सञ्छन्नामुक्तादामावलम्बितम् ।
सितवस्त्रपताकाढ्यं सितच्छत्र ध्वजोच्छ्रितम् ॥
कुङ्कुमोदकसङ्क्षिप्तं कर्पूरक्षोदधूसरम् ।
निष्कम्पाच्चिः(र्चिः?) प्रती(दी?)पार्थं दर्पणांशुप्रपूरितम् ॥
इति ॥
विधिवन्निर्मितं पूजागारं प्रविश्य सौरपूजां कुर्यात् ।
तथा सौरपूजै(जा?) ॥
अंशुमति -
पूजास्थलं प्रविश्याथ भृङ्गारक जलैर्युतम् ।
पादप्रक्षालनं कृत्वा तच्छेषं वर्जयेज्जलम् ॥
पुनर्जलं समादाय आचम्य विधिना बुधः ।
मण्टपान्ते प्रविश्याथ सौरपूजां समारभेत् ॥
देवेन्द्रानिलयोर्मध्ये सूर्यमूर्तिं शिवं यजेत् ।
इति ॥
अत्र कथदिन्द(मयं?)नियम इति चेत् तत्रैव प्रभावतीनाम्नो भानुरूपस्यावस्थानादित्याहुः ।
ननु न्य?त्र(न्वत्र?) सौरमूर्तिमेव शिवं यजेदिति त्यक्तम् ।
इतरेषां चन्द्रादीनामपि शिवमूर्तित्वात् तेषामभ्यर्चनं किमिति न क्रियते ।
सत्यम् ।
किन्तु षडाधारशिवार्चनमेव नित्यमित्युक्तत्वात्तेषां पूजा न क्रियते ।
उक्तं च
मोहशूरोत्तरे -
सूर्योपस्थानमात्मेज्या लिङ्गानि गुरुपुस्तकम् इति नित्यं समाख्यातं षडाधारशिवार्चनम् ॥
इति ॥
सूर्यशिवयोरैक्याच्च तदेव कर्तव्यमुक्तम् - वातुले -
आदित्यं च शिवं विद्याच्छिवमादित्यमेव च ।
उभयोरन्तरं नास्ति आदित्यस्य शिवस्य च ॥
तहि(र्हि?) शिवार्चनमेव प्रथमंस्त्विति(ममस्तिव?) चेत् तथापि सूर्यस्सकलो यतः अत एव प्रथममर्चनीयः ।
तथा अंशुमति -
सकलस्सूर्यरूपस्तु निष्कलश्शिव एव च ।
देहस्थं पूर्वमाराध्य पश्चाद्देवं यजेद्बुधः ॥
ज्ञानरत्नावल्याम् -
अथ नन्दिमहाकालौ दण्डिपिङ्गलसञ्ज्ञकौ ।
शिवस्सू(सू?)र्ये शिवाङ्गानि मन्त्रा विद्येश्वरा ग्रहाः ॥
इयं सौरपूजा च द्विविधा ।
चक्रपूजा बेरपूजा चेति ।
तथा अंशुमति -
सौरं प्रतिमबेरे च चक्रे वापि समर्चयेत् ।
स्थण्डिले पद्ममालिख्य यथा पूर्वोक्तमार्गतः ॥
सूक्ष्मे च -
खेटके भूतले वापि सौरपूजां समारभेत् ।
पूर्वाशाभिमुखं प्राप्य लेखयेद्रविमण्डलम् ॥
बेर(रे?) तु चक्रलिखिते यथेष्टं मण्डलं लिखेत् ।
विजये -
मण्टपे वापि कूटे वा मण्डले वा विशेषतः ।
सौवर्ण ताम्रमाणिक्कप्रवालप्रतिमासु वा ॥
कारणे -
अतः परं प्रवक्ष्यामि सौरार्चनविधिक्रमम् ।
नित्यं तमुदयात्पूर्वं चातुर्वर्णं समर्चयेत् ॥
वृत्तं त्र्यश्रं वृत्तं च षडश्रं वृत्तयुग्मकम् ।
अष्टाश्रं च कलाश्रं च सौरचक्रं प्रकीर्तितम् ॥
वृत्तस्य मध्ये प्रणवं त्रिकोणेङ्गारकं लिखेत् ।
पुनर्वृत्तं लिखेत्पञ्च बहिरष्टाक्षरं न्यसेत् ॥
सुदर्शनं तु षट्कोणे षडङ्गं तत्र सन्धिषु ।
वृत्तयुग्मे महासौरं गायत्रीं शिरसा न्यसेत् ॥
अष्टस्वष्टाक्षरं न्यस्य इन्द्रादिन्देवतान्न्यसेत् ।
कलाश्च स्वरं प्रोक्तं लिखेच्च विधिवत्ततः ॥
क्रान्द्रसान्द्रं च रन्ध्रेषु श्रीं ह्रीं क्लीं बृज समन्ततः वाय्वग्निशक्रवरुणोश्वर? राक्षसेषु
प्रदेशपत्रलिखितैरथवादिवर्णान् ।
महामण्टपमध्यस्थं सौरचक्रं प्रकीर्तितम् ॥
चतुर्वेदागममा?दीतं सर्वपापहरं भवेत् ।
विप्रेणैवार्चनं कार्यं क्षत्रियस्यार्चनं शृणु ॥
वृत्तं च वृत्तपद्मं च षडश्रं वृत्तपद्मकम् ।
अष्टाश्रं चतुरश्रं च लिखेत्प्रणवमध्यमे ॥
सूर्यमन्त्र?(ं?) दले न्यस्य श्रीं ह्रीं चैव लिखेच्छुभम् ।
क्षत्रियस्यार्चनं कुर्या वैश्यानामर्चनं शृणु ॥
वृत्तं पद्मं तथा पद्मं षट्कोणं वृत्तमश्रकम् ।
तारं मध्यदलेन्यस्य सूर्यनाम लिखेद्बुधः ॥
ह्रीङ्कारमश्र(न्त्र?)संयुक्तं श्रीवञ्चैव दले लिखेत् ।
वैश्यानामर्चनं कुर्या शृणु शूद्रस्य चार्चनम् ॥
वृत्तं षडश्रकं चैव वृत्तं पद्मं षडश्रकम् ।
मध्यमे वेदिकं प्रोक्तं सूर्यमन्त्रं लिखेद्दले ॥
श्रीं ह्रीं चैव षट्कोणे श्रीं ह्रीङ्कारं लिखेत्पुनः ॥
बेरपूजा च द्विधा सृष्ट्य(र्था?) मुक्त्यर्था चेति तदुक्तम् वातुले -
सृष्ट्य(र्थं) चैव मुक्त्यर्थं पूजा च द्विविधा भवेत् ।
सृष्ट्यर्थं शक्तिसंयुक्तं मुक्त्यर्थं केवलं विदुः ॥
अथ पूर्वास्य उपविश्य समाचम्य कराङ्गन्यासं कृत्वा अर्घ्यं सम्पाद्य दर्शनार्घ्यं दत्त्वा यथाशक्ति जप्त्वा पूजोपकरणद्रव्याण्युपाहृत्य शिवसूर्यं मण्डलादौ यजेत् ।
तथा आसने प्राङ्मुखो भूत्वा आदित्यार्चनमारभेत् ॥
आचम्य विधिवच्छुद्धं कराङ्गन्यासमारभेत् ।
यागोपकरणद्रव्यान्सर्वान्सम्पाद्य यत्नतः ॥
चिन्त्यविश्वे -
सूर्यात्मानं स्वयं ध्यात्वा साधयेदर्घ्यभाजनम्
मृण्मयं कन्यसं प्रोक्तं ताम्रजं मध्यमं भवेत् ।
सुवर्णेन कृतं पात्रमुत्तमं चेति सम्मतः ।
चतुरङ्गुलविस्तारमुत्सेधं तु तदर्धकम् ॥
अर्घ्यपात्रमिति प्रोक्तं ज्ञात्वा कर्म समारभेत् ।
अस्त्रेण प्रोक्षयेत्पात्रं रक्तचन्दनवारिभिः ॥
तत्पात्रजलमापूर्य रक्तचन्दनतण्डुलैः ।
रक्तपुष्पकुशैर्वापि तिलसर्षपतण्डुलैः ॥
ललाटाकृष्टबिन्दुं च निक्षिपेदमृताकृतिम् ।
अङ्गैरादित्यमभ्यर्च्य कवचेनावकुण्ठयेत् ॥
अस्त्रेण रक्षणं कृत्वा जानुभ्यामवनीं गतः ।
आमस्तकान्तं नीत्वा तु सूर्यमण्डलदृष्टियुक् ।
ॐ ह्रां ह्रीं सः शिवसूर्याय नम इति दर्शनार्घ्यं दत्त्वा यथाशक्ति जपं कुर्यात् ।
यद्वा शिवगायत्र्यादिभिरर्घ्यं दद्यात् -
शिवगायत्रिमन्त्रेण प्रणवेन हृदाथवा ।
सूर्यायार्घ्यं प्रदातव्यं सकृन्नित्यं प्रपूजयेत् ॥
मृगेन्द्रे -
दिव्यां समुदितां पूजां सम्पाद्यार्घ्यपुरस्सरम् ।
ततो जप्त्वा शिवं साङ्गमावेद्योत्तरमारभेत् ॥
इति ॥
ततो(तः?) पात्रमस्त्रेण प्राक्षाल्य बिन्दुनिर्गतान्तत्तथा सुरामयेन गन्धोदकेन ॐ खं खषोत्काय नम इत्यापूर्य षडङ्गमूलैरभ्यर्च्य
तैरेवाभिमन्त्र्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य वौषडन्तमूलेन धेनुमुद्रयामृतीकृत्य तज्जलैर्द्रव्यात्मस्थानान्यस्त्रेण सम्प्रोक्ष्य पुष्पं क्षिप्त्वास्त्रेण विघ्नान्विद्राव्य स्थण्डिले लिखिताष्टदलाष्टपद्मे ताम्रादिनिर्मितचक्रे बेरे वार्चयेत् ॥
अथ क्रमः -
पश्चिमद्वारे स्वदक्षिणे शाखायां ॐ अं दण्डिने नमः इति ।
दण्डिर्द्वार्दक्षिणे गौरः स्थूलस्तुन्दिलकूर्चवान् ।
उ(म?)षीभाजन लेखिन्यौ धारयन्हस्तयोर्द्वयोः ॥
प्राणिनां कर्मसाक्षी च तत्कर्माणि लिखत्यसौ ।
इति ध्यात्वाभ्यर्च्य ततः इति ।
रक्तवर्णस्सुवेषाढ्यस्सूचीहस्तसमन्वितः ।
पिङ्गलो वामपार्श्वे तु प्रतीहारश्च दण्डवान् ॥
इति ध्यात्वाभ्यर्च्य ऐशान्यां ॐ अं गणपतये नमः -
रक्तपद्मासनासीनं दन्तं पाशाङ्कुशौ फलम् ।
दधानं(च) चतुर्हस्तैर्गजवक्रं गणाधिपम् ॥
इति ध्यात्वाभ्यर्च्य आग्नेय्यां ॐ अं गुरुभ्यो नमः ।
जटामकुटशोभाढ्यं भस्मभा(पा?)ण्डर विग्रहम् ।
योगपट्टयुतं ब्रह्मसूत्रैन्ना(त्रैर्ना?)भिस्थलोपरि ॥
कृतयोगाख्यमुद्रां(द्रं?) च ध्यायेच्छान्तं परं गुरुम् ।
इति ध्यात्वा सम्पूज्य पीठे वा स्थण्डिले वा
षडुत्था?सनं पूजयेत् ।
मध्ये ॐ अं प्रभूताय नमः ।
आग्नेय्यादिचतुष्कोणेषु ॐ अं विमलाय नमः ।
ॐ अं साराय नमः ।
ॐ अम् आराध्याय नमः ।
ॐ अं परमसुखाय नमः ॥
सिंहवक्त्र(ं?) द्विनेत्रं च द्विहस्तं च द्विपादकम् ।
वृश्चिकाकण्ठमालं च मुण्डिकासनसंस्थितम् ॥
इति ध्यात्वा इति सितरक्तपीतहरितसितरूपाण्यन्योन्यं पृष्ठदर्शनन्यथाक्रमेण विचिन्त्याभ्यर्च्य तदुपरि कन्दबीजाङ्कुरनालपद्मदलकेसरकर्णिकासहितमभिनवसरोरुहं श्वेतपद्मं विचिन्त्य सम्पूज्य
पूर्वादिदलेषु दीप्ताद्यष्टशक्तिः ॐ रां दीप्तायै नमः ।
ॐ रीं सूक्ष्मायै नमः ।
ॐ रुं रुजायै नमः ।
ॐ रूं भद्रायै नमः ।
ॐ रें विभूत्यै नमः ।
ॐ रैं विमलायै नमः ।
ॐ रोम् अमोघायै नमः ।
ॐ रौं विद्युतायै नमः ।
इति सम्पूज्य कर्णिकायामीशाने ॐ रः सर्वतोमुख्यै नमः ॥
दीप्तदीपशीखाकारा ध्यातव्या नव शक्तयः ।
वामहस्तारविन्दाय दक्षिणे धृतचामराः ॥
सूर्यस्याभिमुखासर्वा(ः?) सर्वाभरणभूषिताः ।
द्विनेत्रा द्विभुजा रक्ता वन्दनीया इमाः क्रमात् ॥
एवं ध्यात्वा सम्पूज्य विस्फुरामुद्रां प्रदर्शयेत् ।
तथा सूक्ष्मे -
दण्डिं च पिङ्गलं चैव गणेशं गुरुमेव च ।
विजयसंहितायाम् -
आसनं कल्पयेत्पश्चात्सिंहपीठोर्ध्वपङ्कजम् ।
प्रभूतं मध्यमे न्यस्य चतुर्दिक्षु समन्ततः ॥
विमलं सारमाराध्यं सुखं परमपूर्वकम् ।
आग्नेयादिषु कोणेषु सिंहपादाकृतीन्हृदा ॥
तन्मध्ये पङ्कजं रक्तमष्टदिग्दलशोभितम् ।
केसरेषु च दीप्तादिशक्तीरष्टौ प्रकल्पयेत् ॥
पूर्वादीशानपर्यन्तं मध्ये या सर्वतोमुखम् विस्फूर(रा?) लक्षणमुत्तरम्(क्तम्?) -
हस्तद्वयं चोर्ध्वमुखं किञ्चिदाकुञ्चिताङ्गुलिम् ।
अङ्गुष्ठाभ्यां कनिष्ठादि क्रमेण स्फुरितौ ततः ॥
विस्फुरेति समाख्याता देवसान्निध्यकारिणी ।
कर्णिकामध्ये मायातत्त्वान्त व्याप्तिकमासनं विचिन्त्य ॐ अम् अर्कासनाय नमः इत्यासनं सम्पूज्य तदुपरि भुक्तिकामश्चेत्
सौरं कुङ्कुमसङ्काशं सर्वाभरणभूषितम् ।
द्विनेत्रं चारुवदनं रक्तमाल्यानुलेपनम् ॥
चतुर्भुजसमोपेतं वरहस्ताम्बुजद्वयम् ।
अभयवरदोपेतं प्रभामण्डलमण्डितम् ॥
उपवीतसमायुक्तमुषाप्रत्युषयान्वितम् ।
उषादेवीं दक्षभागे प्रत्युषां वामपार्श्वके ॥
द्विभुजां च द्विनेत्रां च सरोजवदनान्विताम् ।
सर्वाभरणसंयुक्तां सर्वलक्षणसंयुताम् ॥
पद्मस्थं वा रथारोहमरुणेन समन्वितम् ।
सुप्रसन्नं सुदीप्ताङ्गं ध्यायेदेवं रवेर्वपुः ।
इति शक्तिसहितं देवं ध्यात्वा सम्पूजयेत् ॥
मुक्तिकामश्चेत् -
धवलाम्बोरुहारूढं डाडिमी कुसुमप्रभम् ।
स्फुरद्रक्तं महातेजो वृत्तमण्डलमध्यगम् ॥
अंसासक्तस्फुटश्वेतसनालाब्जकरद्वयम् ।
एकास्यं चिन्तयेद्भानुं द्विनेत्रं रक्तवाससम् ॥
इति ध्यात्वा ॐ अं खं खषोत्काय सूर्यमूर्तये नमः इत्युच्चार्य बद्धपुष्पाञ्जलिः सदाशिव तत्त्वान्त व्याप्तिकां मूर्तिं विचिन्त्य विन्यस्य ॐ हां भानु नेत्राभ्यां नम इति नेत्रत्रयोने?त्रं विन्यस्य पुष्पैरञ्जलिमापूर्य ललाटाकृष्ट स्फुरदरुणबिन्दुमञ्जलौ शक्तितत्त्वान्तव्यापकं
विचिन्त्य ॐ ह्रां ह्रीं सः शिवसूर्याय नम इति मूर्तिं तेजोरूपामावाहिन्यावाह्य स्थापिन्या स्थाप्य सन्निधान्या सन्निधाप्य निष्ठुरया निरोध्य
देव देव त्रिधामेश जगत्प्रथम मङ्गल ।
तिष्ठत्वं स्थापितो भक्त्या मया सूर्य जगत्पते ॥
इति एवं विज्ञाप्य सन्निधानार्घ्यं दत्त्वा सन्निधीकरणार्थं च प्रीत्यर्थं च बिम्बमुद्रां प्रदर्शयेत् ।
तदुक्तम् -
दक्षवामे तु संयोज्य सम्प्रसार्य तलद्वयम् ।
मध्यमाङ्गुष्ठसंयोगाद्बिम्बमुद्रा प्रकीर्तिता ॥
इति ॥
सूर्यहृदय शिरश्शिखाकवचास्त्राणि
स्वस्वस्थानेषु स्तनमध्ये कवचं पराण्योरस्त्रं च विन्यस्य सम्पूज्य मूलेनैकत्वं कृत्वा रक्षावकुण्ठने विधाय वौषडन्तमूलेन धेनुमुद्रां महामुद्रां च प्रदर्श्य पाद्यादीनि वौषडन्तमूलेन पुष्पाक्षतद्रव्याणि धूपदीपा चमनार्घ्याणि दत्त्वा हृदयेनाभ्यङ्गदधिक्षीरमधु हरिद्रामलकादिना संस्नाप्य पश्चात् शद्धोदकेन संस्नाप्य चलबिम्बं चेत् पीठे आरोप्य रक्तवस्त्रपुष्पैरलङ्कृत्य ॐ ह्रां ह्रीं शिवसूर्याय नम इति पुष्पाञ्जलि त्रयेण सम्पूज्यार्घ्यं दत्त्वा पद्ममुद्रां बिम्ब मुद्रां च प्रदर्शयेत् ॥
तदुक्तम् -
उत्तानौ तु करौ कृत्वा मणिबन्धं तु कारयेत् ।
मध्यमे कुञ्चिताङ्गुष्ठौ शेषाः प्रविरलास्तथा ॥
पद्ममुद्रा भवेदेषा तलोपरितलं न्यसेत् ।
किरणे -
अङ्गुष्ठाङ्गुष्ठसंयोगाद्दर्शनीद्वययोगतः ।
शेषा(ः?) प्रसार्य बिम्बाख्यमुद्रेयं भास्करस्य तु ॥
अथ भोगाङ्गपूजार्थं विज्ञाप्याग्नेयैशाननैर्-ऋतवायव्यदलेषु हृदयादिमन्त्रान् सूर्यहृदयादिस्थानेभ्योङ्गिनोगान्या(ऽग्निनोऽङ्गान्या?)दाय अङ्गानि सौम्यरूपाणि द्विभुजान्मुज्व(न्युज्ज्व?)लानि च वरदाम्बुजहस्तानि भानोरङ्गानि भावयेत् इति भानोरङ्गानि भाव्याभ्यर्च्य पश्चिमदले
ज्वलत्पावकसङ्काशं द्विनेत्रं चोज्ज्वलप्रभम् ।
इति ध्यात्वा नेत्रं सम्पूज्य पूर्वादिचतुर्दलेष्वस्त्रं च -
दष्ट्राकरालवदनं प्रज्वलत्पावक प्रभम् ।
तर्जयान्विघ्नसम्पातमित्थमस्त्रं विचिन्तयेत् ॥
इति ध्यात्वा गन्धादिभिः सम्पूज्य स्वस्वमन्त्रैरर्घ्यं दत्त्वा हृदयादीनां धेनुमुद्रया नेत्रयोर्गोविषाणमुद्रामस्त्रस्य त्रासनीमुद्रां च प्रदर्शयेत् ॥
तथागमः -
धेनुमुद्रां चतुर्णां तु त्रासन्यस्त्रस्य लोचने ।
दर्शयेद्गोविषाणाख्यां सन्निधीकरणाय तु ॥
अजिते -
तर्जनीमध्यमाद्यां(भ्यां?)तु श्लिष्टाभ्यां दक्षिणस्य च ।
वामहस्ततले कुर्यात्ताडनं सकृदेव हि ॥
त्रासनी स्यादियं मुद्रा त्रासने परियोजयेत् ।
विस्फार्य तर्जनीमध्ये गोविषाणा प्रसारिते ॥
तदेव तस्य नेत्रमुद्रा ॥
अथावरण पूजा पूर्वादिदलाग्रेषु ॐ सं सोमाय नमः ।
ॐ बुं बुधाय नमः ।
ॐ ब्रं बृहस्पते नमः ।
ॐ हं भार्गवाय नमः ।
इत्याग्नेयादिदलाग्रेषु ॐ अम् अङ्गारकाय नमः ।
ॐ शं शनैश्चराय नमः ।
ॐ रं राहवे नमः ।
ॐ कं केतवे नमः इत्यभ्यर्च्य
पूर्वे सोमस्थितस्सौम्यस्साक्षसूत्रकमण्डलुः ।
आग्नेय्यां मङ्गलो रत्ताश्शक्त्यक्षी रक्तलोचनः ॥
याम्यां पीतो बुधश्चापि साक्षसूत्रकरश्च सः ।
वृद्धो गौरो गुरुस्साक्षकुण्ठीहस्तस्तुनैर्-ऋते ॥
दक्षे काक्षस्सितश्शुक्रः कुण्ठक्षं वलयञ्जले ।
वक्रपादस्त्वय क्रूरदृष्टिभीमश्शनैश्चरः ॥
खिङ्खरी जपमालीञ्च राजावत्ति निभोऽनिले ।
व्यावृतास्योर्ध्वदेही च राहुः कृष्णोऽक्षचर्मधृत् उत्तरे शाङ्करे केतु स्त्रीफणी खड्गखेटभृत् ॥
नरनागार्धदेहिश्च धूम्रोवाथ कृताञ्जलिः यद्वा सोम बुध बृहस्पतिशुक्राः पूर्वादिदिक्षु मङ्गलाद्या वह्न्यादिकोणगाः पूज्याः
कामरूपधरान् सर्वान् दिव्याभरणभूषितान् ।
वामोरुन्यस्त हस्तांश्च दक्षहस्ताभयप्रदान् ॥
इति ध्यात्वा समभ्यर्च्य इति तथा -
किरणे -
सोमादीनां नमस्कारं दत्त्वा ध्यायेद्ग्रहान् क्रमात् इति ॥
तदुक्तम्
सतताङ्गुलिसंलग्नहस्तौ हृद्देशमाश्रितौ ।
सर्वेषां बन्धनं कार्यं वामाङ्गुष्ठेन पीड्य च ॥
नमस्कारेति विज्ञेया सर्वकर्मणि कारयेत् ।
इति ॥
तदन्वाचमनीयं दत्त्वा धूपदीपनैवेद्य ताम्बूलमुखवासादिभिः सन्तोष्यान्तरान्तरा चमनार्घ्यं दत्त्वा मूलमन्त्रं यथाशक्ति जपित्वा अर्घ्याम्भसा स्वाहान्तमूलेन
भास्कराय चूलिकोदकेन्? समर्प्याङ्गानां यथाशक्ति जपं कृत्वा निवेद्याष्टपुष्पिकां दत्त्वाभीष्टं प्रार्थ्य स्तुत्वा नमस्कृत्यास्त्रादीनामङ्गानां च खषेल्किना स्वाहान्तेन पराङ्मुखार्घ्यं दत्त्वा क्षमस्वेत्युक्त्वा हुं फडन्तास्त्रमन्त्रेण भोगस्थानस्थितान् मन्त्रान्नारा च मुद्रयोत्थाप्य ॐ खं खषोल्काय सूर्यमूर्तये नम इति दिव्यमुद्रया मूर्तिलीनान् विभावयेत् ॥
कृत्वाञ्जलिं कराभ्यां तु अङ्गुष्ठानामिकान्वितम् ।
प्रसारयेत्ततश्शेषा मुद्रेयं दिव्यरूपिणी ॥
इति ।
मूर्तौ सापेक्षं विवर्जनं कुर्यात् ।
अमूर्तौ मण्डलादौ तु निरपेक्षविसर्जनः जना? हृदय पुण्डरीकगतं विभावयेत् ।
ऐशान्यां दिशि गोमयेन मण्डलं कृत्वा ॐ अं तेजश्चण्डासनाय नमः ।
ॐ अं तेजश्चण्डमूर्तये नमः ।
ॐ अं तेजश्चण्डाय नमः ।
दष्ट्राकरालदीप्तास्यं जटिलं रक्तवाससम् ।
दधानं टङ्कमम्भोज तेजश्चण्डेश्वरं स्मरेत् ॥
इति ध्यात्वा हृदयादिभिः सम्पूज्यार्घ्यं दत्त्वा सूर्यनिर्माल्यं दत्त्वा नैवेद्यपानीयादि(दी?)न् निवेद्य विसृजेत् ॥
यद्वा शिवपूजान्ते विसृजेत् ।
काम्यार्थी विशेषपूजां कुर्यात् ॥
रक्षार्थं भयनाशाय अस्त्रशस्त्र निवारणम् ।
सौभाग्यजनलाभं च आयुर्वर्धनमुत्तमम् ॥
चण्डमारुत सर्वेषां तारकं भूमिवर्धनम् ।
अपस्मारक्षयं कुष्ठं त्वतदोषं(षः?) सर्वनाशनम् ॥
एतस्मिन्तद्दिनं प्रोक्तं सर्वसिद्धिप्रदं परम् ॥
षण्मासात्सर्वकाम्यार्थं संवत्सरमुपासितम् ।
सर्वकार्येषु सिद्ध्यर्थं सूर्यलोके महीयते ॥
इत्यात्मार्थ पूजापद्धत्याम् आत्मार्थ पूजास्थान सौरपूजाविधिः ॥
आत्मार्थपूजाविधिः -
अथ शिवयजनमारभेत् ।
यजनशब्दो यज देवपूजायां सङ्गतकरणदानेषु इति धात्वर्थवाचकः ।
अत्र च देवश्शिवस्तस्य पूजा ।
पूज्य पूजकयोरन्योन्यसमस्तरूपं सङ्गतकरणम् ।
अहं शिवं पूजयामि ।
पूजा गृह्णामीति भक्ति प्रसादविशेषणदानमुभयोरानुकूल्येन पाद्यादिस्वात्म समर्पणान्तदानं भुक्तिमुक्तिदानं च ।
एतत्परिपूरणार्थं शिवयजनम् ।
तच्च शिवस्यायद्वरे? ज्ञानशक्त्यात्मिके लिङ्गे कार्यम् ।
शिवस्य धारणा(ना?)मनन्तत्वेऽपि लिङ्गमेव श्रेष्ठम् ।
तदुक्तम्
बृहत्कालोत्तरे -
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
वसन्ति लिङ्गमूले तु तस्माल्लिङ्गं समर्चयेत् ॥
सुप्रभेदे -
लयं गच्छन्ति भूतानि संहारे निखिलानि च ।
सृष्टिकाले यथा सृष्टिः? तस्माल्लिङ्गमुदाहृतम् ॥
दीप्ते -
पुरुषस्य तु यच्चिह्नं पुरुषव्यक्तिकारणम् ।
सदाशिवस्य तलिङ्गं शिवल्लिङ्गमिति स्मृता ॥
नादलिङ्गमिति प्रोक्तं बिन्दुः पीठमिति स्मृतम् ।
लिङ्गशब्देन चात्र लिङ्ग चित्रीकरण इति धात्वर्थ लिङ्गत्यालिङ्ग इति सृष्टि स्थित्यादिभिः कृत्यैर्जगच्चित्रीकरोतीति पारमेश्वरं तेजोऽभिधीयते ।
तद्व्यक्तिस्थानं तु शै(चै?)शादिकमुपचाराल्लिङ्गशब्देनोच्यते ।
यदाहुर्गुरवः -
लिङ्गं? तञ्चि(तच्चि?)त्रितं येन जगत्कृत्यैश्च पञ्चभिः ।
तत्तेज शाभ(म्भ?)वं लिङ्गं भात्तं(क्तं?) तद्व्यक्तिभूमिकम् ॥
इति ॥
अस्मिन् लिङ्गे शिवपूजा कार्या स्वश्रेयस्करीन्त?था ।
कालोत्तरे -
सर्वत्र संस्थितं(तः?) पूज्यः सर्व(र्वा?)धारेषु सर्वदा ।
तथापि लिङ्गे भगवान्पूजां गृह्णाति धूर्जटिः ॥
असम्पूर्णा कृता पूजा मन्त्रद्रव्य क्रियागुणैः ।
तथापि लिङ्गे सम्पूर्णा पूजा भवति षण्मुख ॥
न च न्यूनाधिका कार्या पूजा वै स्थण्डिले सुत ।
न्यूनाधिका तु या पूजा फलहीना प्रकीर्तिता ॥
एभिर्वा कारणैर्वत्स लिङ्गाराधनमारभेत् इति ।
स्थिरलिङ्गेत्? सदा कार्यं सिद्धिकामैः प्रयत्नतः ।
भुक्तिमुक्तिकरं पुंसां चललिङ्गे शिवार्चनम् ॥
पूजापदनिर्वचनम् सन्तानसंहितायाम् -
पूर्यते सर्वकामार्थं जायते ज्ञानमात्मनि ।
पूरणाज्जायते यस्मात्पूजाशब्दमिहोच्यते ॥
सेयं पूजा द्विविधा ।
परार्था आत्मार्था चेति ।
कामिके -
अथार्चनाविधिं वक्ष्ये भुक्तिमुक्ति फलप्रदम् ।
परार्था(र्थं?) स्वार्थमित्येवं द्विविधं तत्प्रकीर्तितम् ॥
ग्रामखेटे पुरादौ वा नद्यां पर्वत एव वा ।
अष्टषष्टिमहाक्षेत्रेष्वन्यत्र च मनोरमे ।
स्वयम्भुदैवगणार्षलिङ्गयुक्ते शिवालये ॥
मानुषैः स्थापिते लिङ्गे परार्थयजनं स्मृतम् ।
दीक्षान्ते गुरुणा दत्ते लिङ्गे वा स्थण्डिलादिके ॥
यजनं स्वार्थमाख्यातं स्वस्यैव फलदं यतः ॥
आत्मार्थं तु क्षणी(णि?) कादौ चललिङ्गे वा कार्यम् -
मकुटे
गुरु?देहे शुभे लिङ्गे स्थण्डिले वा निजात्मनि ।
क्षणिके मण्डले तोये चात्मार्थयजनं स्मृतम् ॥
सुप्रभेदे -
क्षणिके चललिङ्गे च स्थण्डिले मण्डलेऽपि च ।
कौतुके भित्तिचित्रे वा आत्मार्थार्चनमारभेत् ॥
कारणे -
सिकतं तण्डुलं चैव नदीमृद्गोमयं तथा ।
नवनीतं च रुद्राक्षं भस्मचन्दनकूर्चकम् ॥
पुष्पमालागुलं पिष्टं क्षणिकं द्वादशोच्यते ।
अजिते -
क्षणिकानां तु लिङ्गानां पीठं ने(नै?)वास्ति लक्षम् ।
अत्रैव क्षणिकानां पूजने विशेष उक्तः -
सिकतं तण्डुलं चान्नं द्विजेनैव समर्चितम् ।
नदीमृद्गोमयं चैव नवनीतं नृपेण च ॥
वैश्येन पूजितं चैव फलं पिष्टं च चन्दनम् ।
शूद्रेण पूजितं चैव कूर्चमाल्यगुलं भवेत् ॥
क्षणिकानां फलम् अंशुमति स्पुटमुक्तम् -
सिकतं मुक्तिदं प्रोक्तं तण्डुलं भुक्तिदायकम् ।
नदीमृत्त्या(त्स्ना?)त्मशुद्धिः स्यादन्नमायुष्यवर्धनम् ।
गोमयं रोगनाशार्थं नवनीतं सुखप्रदम् ॥
रुद्राक्षं रुद्ररूपत्वं पिष्टं पुष्टिप्रदायकम् ।
गन्धं दीप्तकरं चैव कूर्चं सौभाग्यमेव च ॥
पुष्पं भोगार्थमेवं तु जलं सायुज्यमेव च ।
सर्वपापहरं भस्म गुलं प्रीतिप्रदं भवेत् ॥
फलं चाभीष्टसिद्ध्यर्थं पल्लवं सद्गुणप्रदम् ।
क्षणिकानां तु लिङ्गानां फलमेवं प्रकीर्तितम् ॥
क्षणिकं सिकतादिं च पूजयेत्तु विधानतः ।
स्नपनावाहनं चैव सर्वं मानसकल्पनम् ॥
अर्चनान्ते विसृज्याथा? न प्रमाणं न च स्थिरम् ।
रुद्राक्षं क्षालनाच्छुद्धिरन्येषां परिवर्जयेत् ॥
क्षणिकार्चनमेवं स्यात् गुरुमार्गेण दृश्यते ।
क्षणिकादि निवेद्यं च पृथुलं गुलमुद्गकम् ॥
फलादि चैव नैवेद्यमेवमेव क्रमेण तु ।
च(चि?)त्रं चैवार्धचित्रं च पटचत्रं(चि?) क्रमेण तु ॥
सौधजं चित्रभेदं स्यादर्धचित्रं च भित्तिकम् ।
पटे तु पटचित्रं स्यात्त्रिविधं लिङ्गमर्चयेत् ॥
सौधजं सुखमाप्नोति सौन्दर्यं भित्तिचित्रके ।
पटचित्रे श्रियं चैव चित्रलिङ्गार्चनात्फलम् ॥
मण्डलद्वितयं प्रोक्तं पद्मं वा लिङ्गमेव वा ।
पद्मे तु श्रियमाप्नोति लिङ्गे वा सर्वकामदम् ॥
क्षणलिङ्गादिभेदानां फलमेवं प्रकीर्तितम् ।
तेषु भेदेषु लिङ्गेषु चललिङ्गं विशिष्यते ॥
मानसान्मण्डलं श्रेष्ठं मण्डलात्क्षणिकं भवेत् ।
क्षणिकात्फलमुत्कृष्टं पटं चैव ततः परम् ॥
पटादाभासमुत्कृष्टमाभासाद्बिम्बमुच्यते ।
बिम्बाद्वैलिङ्गमुत्कृष्टं लिङ्गाद्वै निष्कलं परम् ॥
स्थण्डिलादेर्मन्त्रसिद्धिप्रदायकत्वात्सर्वसिद्धये शिवो लिङ्ग एव पूजनीयः ।
तथा -
आश्रयेत्सिद्धिदं लिङ्गं सर्वसिद्धिप्रदायकम् ।
स्थण्डिलेऽपि हि मन्त्राणामाशु सिद्धिप्रदानतः ॥
इति ॥
चिन्त्यविश्वसादाख्ये -
आत्मार्थं चललिङ्गं च तद्विशेषमिह शृणु ।
शैलजं लोहजं चैव रत्नजं च त्रिधा भवेत् ।
एतेषां लक्षणं चललिङ्गप्रतिष्ठा प्रकरणे वक्ष्यामः ।
इदमात्मार्थयजनं द्विविधमन्तर्यजनं बहिर्यजनं चेति ।
तत्र तावदात्मदृष्टीनामन्तर्यजनमेव च ।
तदन्येषां तु अन्तर्यजनपूर्वकं बहिर्यजनम् ॥
सिधान्ते -
यजनं सम्प्रवक्ष्यामि यथा विध्यनुपूर्वशः ।
द्विविधं तच्च विज्ञेयमधिकारानुरूपतः ॥
यतीनां योगिनां चैव बाह्योपरतशक्तिषु ।
अन्तर्यागस्तु विहितो बाह्यपूजा परेषु च ॥
अंशुमति - सूतकप्रेतकाशौचिनोरुदत्त्याश्च? चोरगृहीतलिङ्गस्यापि मानस यजनमुत्तमम् ।
अंशुमति -
सूतके प्रेतकाशौचेऽप्यात्मार्थ यजनं स्मृतम् ।
पूजालोपो न कर्तव्यः सूतके प्रेतकेऽपि च ॥
शिवमन्त्रेण कर्तव्यं स्नानमात्रेण शुध्यति ।
आशौचं न भवेत्तत्र पद्मपत्रमिवाम्भसा ॥
पूजार्थे प्रविच्चेदं माशौचं च विशेषटः ।
एवं लिङ्गार्चनं कुर्यात्काम्यानुष्ठानहीनकम् ॥
आशौचान्ते तु कर्तव्यं नित्यं काम्यमनुष्ठितम् ।
काम्यानुष्ठानहीनं तु? तद्दिने द्विगुणमर्चयेत् ॥
एवं वै शुद्धशैवानां विप्रादीनां तु कथ्यते ।
सूतके प्रेतके कुर्यान्न स्वयं लिङ्गपूजनम् ॥
स्वकर्मानुष्ठितस्यं? तु जलहीनं तु भस्मकम् ।
मानसं च यजेद्धीमान्सर्वं मानसकल्पना ।
तल्लिङ्गं पूजयित्वा तु गुरुणा वा स्वबन्धुना ॥
अन्येन वार्चनं कुर्यादन्ते पुष्पाञ्जलित्रयम् ।
आशौचान्ते च कर्तव्या(व्यं?) पूर्वमार्गेण याजनम् ॥
कथं पुष्पवती नारी अर्चनं कुरुते वद ।
अन्तर्यागं प्रकर्तव्यं तया पूर्वदिनत्रयम् ॥
चतुर्थे दिवसे स्नात्वा गव्यं प्राश्य यजेत्तु सा ।
चोरैर्लिङ्गं गृहीतं चेन्मनसा तु यजेत्ततः ॥
चत्वारिंशद्दिनान्तं च उपवासं च कारयेत् ।
नालिकेरोदकेनैव क्षीरेणैव फलादिनाम् ॥
आत्मानं रक्षयेद्धीमान् शिवध्यन परायणः ।
तस्मात्सर्वप्रयत्नेन तल्लिङ्गं ग्राह्यमेव च ॥
लब्धं चेत् तत्समादाय प्रीतियोक्तो विशेषतः ।
लिङ्ग शुद्धिं क्रमात्कृत्वा पूजयेत्पूर्ववद्बुधः ॥
तल्लिङ्गमात्रालब्धं चेन्नवलिङ्गं तु सङ्ग्रहेत् ।
स्वगुरोर्लिङ्गमादाय पूजयेत्पूर्वमार्गतः ॥
दृष्टं चेत्पूर्वलिङ्गं तु द्वयं सम्पूजयेत्क्रमात् ।
तस्मात्सर्वप्रयत्नेन मरणान्तं यजेत्सदा ॥
अस्य यजनस्य आत्मार्थत्रैविध्यं च सूक्ष्मे प्रतिपादितम्
आत्मार्थयजनं वक्ष्ये श्रुन्तत्प्र?भञ्जन ।
आरोग्यमायुः कीर्तिश्च विजयस्य फलप्रदम् ॥
ब्रह्महत्याविनाशार्थं वीरहत्या विनाशनम् ।
गोहत्या विनाशार्थं पूजा वृद्धिकरं परम् ॥
सर्वकामप्रसिद्ध्यर्थं सर्वयज्ञफलप्रदम् ।
आत्मार्थयजनात्साम्यं न भूतो न भविष्यति ॥
शुद्धं केवलं मिश्रं च आत्मार्थं त्रिविधं स्मृतम् ।
शुद्धं वा शक्तिरहितं केवलं शक्तिसंयुतम् ॥
सौरादिचण्डपर्यन्तं मिश्रं चैव प्रकीर्तितम् ।
अंशुमति च त्रैविध्यं प्रकारान्तरेण प्रदर्शितम् ॥
केवलं सहजं मिश्रं यजनं त्रिविधं भवेत् ।
केवलं लिङ्गमेकं स्यात्सहजं पञ्चबेरकम् ॥
महेश्वरादिबेरेण सहितं मिश्रमुच्यते ।
गणेशं? स्कन्दबेरं च शक्तिं च वृषभं तथा ॥
लिङ्गेनैव समायुक्तं सहजं चेति कीर्तितम् ।
सहजेन समायुक्तं महेशं नृत्तमूर्तिनम् ॥
काम्यार्थं यानि बेराणि सहितं मिश्र उच्यते ।
अत्र तु त्रैविध्येऽपि कश्चिद्विशेष नियम उक्तः ।
यथा -
शुद्धकेवलसम्मिश्रपूजा च त्रिविधा भवेत् ।
जितेन्द्रियार्चितं शुद्धं केवलं शैवमर्चयेत् ॥
आचार्यो मिश्रकं चैव केवलं शुद्धमर्चयेत् ॥
कारणे - एकलिङ्गादिफलं निरूपितम्-
एकलिङ्गं तथा मोक्षं व्याधिरूपं द्वयं भवेत् ।
लिङ्गत्रयं तथा कुर्याद्भोगमोक्षप्रदायकम् ॥
चतुर्लिङ्गं तु यत्रैव आयुःश्रीकीर्तिहानि च ।
पञ्चलिङ्गमिति श्रेष्ठं पञ्चपातकनाशनम् ॥
षष्ठं चेन्मारणं कुर्यात्सप्तमं भवनाशनम् ।
अष्टमं तु महाव्याधिरथवा शत्रुवर्धनम् ।
नवलिङ्गं तथा चेष्टा शिवलोके महीयते ॥
अत्र चतुर्णामपि वर्णानामादि शैव महाशैवानुशैवान्तर शैवादीनां तत्तत्स्त्रीणां चाधिकारं(रः?) ॥
आदिशैवादीनां लक्षणमस्मादि? औशौच दीपिकायां प्रदर्शितम् ॥
अंशुमत्यात्मार्थ पूजायाम् ।
अधिकारो निरूपितः -
विप्रक्षत्रियवैश्याश्च शूद्राश्चैव तु दीक्षिताः ।
आत्मार्थमर्चनं कुर्यान्न कुर्याच्च परार्थकम् ॥
चातुर्वर्णोद्भवस्त्रीणामर्चनं च विशेषतः ।
मकुटे -
विप्रक्षत्रिय विदच्छूद्रा दीक्षीताश्च प्रवेशिताः ।
आत्मार्थयजनं कुर्यान्न कुर्याच्च परार्थकम् ॥
सूक्ष्मे -
ब्राह्मणः क्षत्रियो वैश्यस्तथा शुद्रस्तथैव च ।
जङ्गमं पूजयेन्नित्यमात्मार्थे तु विशेषटः ॥
सन्ताने -
आत्मार्थं चललिङ्गं तु स्थिरलिङ्गं परार्थकम् ।
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ॥
आत्मार्थं पूजयेन्नित्यं सन्ध्याकालेऽप्यकालके ।
सुप्रभेदे -
दीक्षितानां द्विजातीनामात्मार्थमनुलोमिनाम् ।
परार्थमादिशैवानामात्मार्थं विहितं भवेत् ॥
सूक्ष्मे -
अनुलोमप्रतिलोमैस्तु आत्मार्थं सम्प्रपूजितम् ।
आत्मार्थं पूजयेन्नित्यं सर्वेषां जातिरेज च ॥
योगजे -
आदिशैवेन दीक्षायां महाशैवादि शैवकः ।
विप्रक्षत्रियविट्च्छूद्रा दीक्षिताश्च सम्पूजकाः ॥
चिन्त्ये -
आत्मार्थं च द्विजादीनां भक्तानां च विशेषतः ।
पूजयेत्तुगुरु?णा दत्तं परार्थं नैव पूजयेत् ॥
तद्द्वयोरुभयोः पूजा कर्तव्यं त्वादिशैवकम् ।
अकारणे तु? -
आत्मार्थं न यजेद्यत्र परार्थं च यजेद्यदि ।
आत्महीनं यजेद्यत्र परार्थं यजनं कथम् ।
तद्दोष शमनार्थाय स्नपनं शान्तिहोमकम् ॥
कृत्वैव विधिवत्पश्चादुभये यजने कृता ।
वीरतन्त्रे -
श्रत्यर्था? सर्वदा कार्यमादिशैवश्शिवं यजेत् ।
तच्च स्वधर्मानुष्ठानान्न दोषाय प्रकल्पते ॥
अदीक्षितश्चतुवेदी शिवलिङ्गं न संस्पृशेत् ।
दीक्षितश्चापि यो विप्रो भृत्यर्थं तु न पूजयेत् ॥
आत्मार्थपूजनं कुर्यात्परार्थं चैव न पूजयेत् ।
सन्ताने -
अदीक्षितोऽपि यो विप्रः षाण्मासं तु शिवं स्पृशेत् ।
सोऽपि देवलकः प्रोक्तस्स नार्हो देवपूजने ।
दीक्षितश्चापि यो विप्रो भृत्त्याच्चावत्सूत्रया ॥
पूजयेद्यदि देवेशं सोऽपि देवलको भवेत् ।
इति ॥
भृत्त्यर्थं षट्सहस्रिकायामधिकारिणामेषां मध्ये कश्चिद्विशेषो दर्शितः ।
तद्यथा -
अत्र कश्चिद्विशेषोऽस्ति चललिङ्गार्चने सुत ।
पूजा कार्ये तु सर्वेषां तद्भक्तश्शिवयोगिनाम् ॥
त्रयाणामपि वर्णानां न च शूद्रान्त्यजातिषु ॥
शैवाचारक्रियासक्ताः शूद्रास्ते मांसवर्जिताः ।
ऊर्ध्वतन्त्रमुखाचार्यवर्ये विप्रे तु दीक्षिताः ।
शिवभक्तास्तु ये तेषां पूजा कार्या यथात्महि ॥
अंशुमत्यात्मार्थपूजायां त्रैविधमुत्तमं -
यजनं त्रिविधं प्रोक्तम् उत्तमं मध्यमाधमम् ।
केवलं शिवमन्त्रैस्तु यजनं चोत्तमं भवेत् ॥
वैदिकैश्शिवमन्त्रैस्तु यजनं मध्यमं भवेत् ।
केवलं वैदिकैर्मन्त्रैर्यजनं चाधमं भवेत् ।
केवलं शैविकैर्मन्त्रैर्यजेदात्मार्थमुत्तमम् ॥
तथा कामिके -
उत्तमं मध्यमं नीचं त्रिविधं प्रोक्तमर्चनम् ।
केवलैश्शुद्धशैवार्थैर्मन्त्रैरुत्तममुच्यते ॥
मध्यमं शैववेदार्थैरधमं वैदिकैर्मतम् ।
शैवमन्त्रसमोमन्त्रो नास्तीति भुवनत्रये ॥
तत्रापि मन्त्रैस्तु बीजात्मा श्रेष्ठ उच्यते एवमग्निकार्येऽप्ययमर्थोऽनुसन्धेयः न्यायसाम्यात्तत्रैवाग्निकार्ये -
वैदिकं मिश्रकं शैवमग्निकार्यं त्रिधा स्मृतम् ।
केवलं वैदिकैर्मन्त्रैर्विहितो वैदिको भवेत् ॥
मन्त्रैर्वैदिकशैवैस्तु विहितो मिश्र उच्यते ।
केवलं शिवमन्त्रैस्तु विहितश्शैव उच्यते ॥
त्रिभिः परिधिभिश्चोर्ध्वं समिद्भिस्तैर्युतश्च यः वैदिकाग्निस्समुद्दिष्टो मिश्राग्निस्तु?भयात्मकः
चतुष्परिधिभिश्शैवश्शास्त्रेऽस्मिन् सम्प्रकीर्तितः ।
प्रणीताब्रह्मकूर्वेन संयुक्तो वैदिकः स्मृतः ।
ततैव मिश्र वाह्नेस्तु शैवस्ताभ्यां युतेन वा ॥
विजयोत्तरे -
शैवानामेव मन्त्राणां होमः प्रोक्तः शिवानले ।
नान्येसां प्रागास्तत्र शिवाग्निरग्निरात्मजः ॥
मन्त्रा ये वैदिकाश्शुद्धा क्रिया वेदादिचोदिताः ।
शिवानले नियुक्ताश्चेत् ते होतु प्रत्ययवृदा?।
अस्मिन्नवसरे बद्ध्याथर्व कान्त्यादि भूतले ।
आवाहित शिवे होमे इति शास्त्रार्थनिर्णयः ॥
सन्ताने -
कौशिकः काश्यपश्चैव भारद्वाजस्तथैव च ।
गौतमश्चैव देवेशि अतिपुत्रः पराशरः ॥
एषां कुलेषु सञ्जाता उपस्थानादिकर्मणि ।
वैदिकैस्तान्त्रिकैर्युक्तान् क्रय्यान्सर्वान् समाचरेत् ॥
तान्त्रिकेण विना या तु शिवदीक्षा च निष्फलाः ॥
तस्माद्वैदिकतन्त्रेषु शिवमन्त्रान् समाचरेत् ।
क्षत्रियश्चैव वैश्यश्च तद्वदेव समाचरेत् ॥
कोलं शूद्रजातिस्तु आय?नोक्तं समाचरेत् ।
इतरेषां च शैवानां तूष्णीमाचारमुच्यते ॥
तथान्यत्र -
वैदिकं ब्राह्मणानां तु राज्ञो वैदिकतान्त्रिकम् ।
तान्त्रिकं वैश्यशूद्राणां सर्वेषां तान्त्रिकं तु वा ॥
षट्सहस्रिकायाम् - पूजाविधौ विशेष उक्तः ।
अत्र पूजाविधानं व कथ्यते शृणु षण्मुख ब्राह्मणानां नृपाणां व पूजाकर्म निगद्यते ।
पञ्चब्रह्म षडङ्गानां न्यासः प्रोक्तस्ततः परम् ॥
अष्टत्रिंशत्कलान्यासः श्रीकण्ठमाद्यास्ततः परम् ॥
वामाद्याश्शक्तयश्चापि शिवगायत्रिरुच्यते ।
वैश्यानां पादजानां च पूजाकर्म निगद्यते ।
अष्टत्रिंशत्कलान्यासं शिवगायत्रिमेव च ।
वामादिशक्तिमन्त्राणां हित्वा सर्वं समाचरेत् ॥
सुप्रभेदे -
प्रणवेन समायुक्तं जपकाले तथोच्यते ।
तथा षडक्षरं प्रोक्तस्त्रीशूद्राद्यैश्च वर्जितम् ॥
कामिके -
शूद्रस्यापि गृहस्थस्य नित्येष्टा विधिकारिता तत्रापि नादरहितैर्मन्त्रैरेव तु पूजयेत् ।
अंशुमति -
उत्तमादिविभेदेन पूजात्रैविध्यमुत्तमम् ।
आत्मार्थं पूजयेद्विद्वान्यथा शक्त्यानुरूपकम् ॥
द्वारादि चण्डपर्यन्तं यजनं चोत्तमं भवेत् ।
द्वारादि च निवेद्यान्तं यजनं मध्यमं भवेत् ।
स्नानं चैव निवेद्यं च यजनं वाधमं भवेत् ॥
सर्वोपचारः कर्तव्यो विशेषः कश्चिदस्ति हि ।
नित्योत्सवं च भोगाङ्गं सायं रक्षा विधानकम् ॥
उपसन्धिं विना कुर्यादात्मार्थयजनं क्रमात् ।
वललिङ्गपूजायामङ्गप्राधानिकत्वेन द्वैविध्यं कामिके प्रदर्शितं तद्यथा -
चलं च द्विविधं प्रोक्तमङ्ग प्राधानिकं त्विति ।
चित्रादिप्रतिमादीनां पूजार्थं तत्तदग्रके ॥
पूजितं त्वङ्गमित्युक्तमन्यत्प्राधानिकं मतम् ।
अङ्गानां व यथा पूजा यत्काले शास्त्र चोदिता ॥
नित्योत्सवादि संयुक्ता तथा तस्य त्रिधा भवेत् ।
अन्यत्र शुद्धनृत्तं च तद्वन्नित्योत्सवादिकम् ।
त्यक्त्वान्यत्प्राग्वदुद्दिष्टमात्मार्थे तद्विशिष्यते ॥
अस्मिन्नात्मार्थ यजने उपचारेषु कर्तव्यं परिच्छिद्योच्यते ।
तद्यथा -
सुप्रभेदे -
दीपान्तं वा हविष्यान्तमात्मार्थे तु परार्थके ।
सामान्यमिदमाख्यातं परार्थे तु विशेषणम् ॥
नित्योत्सवं च नित्याग्निर्यजनं पादुकार्चनम् ।
नीराजनं रजन्यां व गीतनृत्तं च पाद्यकम् ॥
तेषु कुर्याद्यथाशक्त्यं? लिङ्गे रथावरसञ्ज्ञके ।
उक्तेष्वेतेषु सर्वेषु विना नित्योत्सवं ततः ॥
पादुकाभ्यर्वीत्यक्त्वा शेषं त्वात्मार्थमाचरेत् ।
अजिते -
न द्वारपूजा कर्तव्या न चण्डेशनिवेदनम् ।
नामन्त्रणहविस्तन च नित्योत्सवमेव च ॥
महाघण्टा च नोद्दिष्टा न तिरस्करणी क्रिया ।
शुद्धनृत्तविधिर्नोक्ता सूर्यं विघ्नं गुरुं पुनः ।
सम्पूज्य यजनं कुर्यादात्मात्मार्थं मन्त्रवित्तमः ।
अत्र द्वारपूजा निषेदस्यापि तद्द्वारपूजा निषेधप *ः? ।
भावितद्वारपूजायां न निषेधः ।
भावितद्वारपूजायास्सर्वत्र विधानात् ।
अंशुमति -
द्वारादि चण्डपर्यन्तमुक्तं मुक्तन्त्विति(मुक्तमन्त्तिति?) कीर्तितम् ।
द्वारादि च निवेद्यान्तं मध्यमं परिकीर्तितम् ॥
एवं चण्डेश निवेदनं निषेधेऽप्यूहम्? ।
वातुले -
चत्वारिंशोपचाराः प्रतिपादिताः यथा -
आवाहनासनार्घ्याणि स्थापनं स्वागतं तथा ।
सान्निध्यं सन्निरोधं च अङ्गप्रत्यङ्गकल्पनम् ॥
पाद्याचमनार्घ्येण गन्धपुष्पस्तथैव च ।
धूपदीपैस्ततः स्नानं वस्त्रं चैवोपवीतकम् ॥
गन्धपुष्पं तथा धूपदीपं नाराञ्जनं तथा ।
भूषणं व्यजनाद्यं च मुद्रादर्शनमेव च ॥
आभ्यसार्चन नैवेद्यं होमादि बलं दानकम् ।
समाधिश्च जपस्तोत्रं प्रदक्षिण नमस्क्रिया ॥
चुलुकोदप्रदानं च पुस्तकाराधनं तथा ।
अर्घ्यमाचमनं चैव विरार्जनमिति स्मृतम् ॥
चत्वारिंशोपचारैस्तु आत्मार्थे देवपूजनम् ।
तथा योगजे -
आत्मार्थमुपचारं च अहं वक्ष्ये शृणुष्व ह ।
आवाहनं स्थापनं च स्वागतं सन्निरोधनम् ॥
अङ्गप्रत्यङ्गकल्पं च पाद्यमाचमनस्य(नार्घ्य?)कम् ।
गन्धपुष्पं च धूपं च दीपा?स्नानं तथैव च ॥
वस्त्रोपवीतं गन्धं च पुष्पधूपं च तर्पणम् ।
नीराजनं भूषणं च गीत नाप्रन्त?थैव च ॥
मुद्रादर्शनमेवोक्तमावृतार्चनमेव च ।
नैवेद्यं होमकर्माथ समाधिर्मन्त्रजापनम् ॥
प्रदक्षिणं नमस्कृत्वा चुलुकाचमनीयके ।
चत्वारिंशद्विधानेन आत्मार्थे देवपूजने ॥
अजिते -
कालनियमः प्रतिपादितः ।
परार्थे स्यादियं पूजा त्वात्मार्थं तु जनार्दन एककालं द्विकालं वा त्रिकालं वा त्रिधी?यते ।
तथा कारणे -
द्विकालं चैककालं वा आत्मार्थं सम्प्रपूजयेत् ।
आत्मार्थयजनं कार्यं त्वेनान्यत सन्धयः ॥
पाद्यमाचमनीयं कल्पयेत्पूर्ववत्क्रमात् ।
रौरार्चनादि चण्डान्तमात्मार्थयजनं कृतम् ॥
स्वायम्भुवे -
द्विसन्ध्यं वा त्रिसन्ध्यं वा चात्मार्थे तु समाचरेत् ।
निश्वासकारिकायाम् -
चच्चतुष्वपि (चतुष्वपि च?) कालेषु पूजा विहिता तथा ।
एककालं द्विकालं वा त्रिकालं वार्घरात्रकम् ॥
पूजयेत्ततश्शम्भुं नित्यमेव गृही तथा ।
कालोत्तरे तु प्रातरादिषु कालेष्वेव पूजां कुर्यामिति नियमवतास्तमयादि घटिकात्रयादूर्ध्वं नैव पूजा कार्यादारम्भ?श्चादस्तमितदानौ कर्तव्या ।
तस्यापि रात्रौ नैमित्तिकपूजा न दोषेत्युक्तं तद्यथा त्रिकालं पूजनं येषां तेषां साधक ।
कमण्डलोप्रारब्धा तु भवेत् पूजा यावत् घटिकात्रयम् ।
तदूर्ध्वं नैव कुर्वीत विजेन्दुग्रहसङ्क्रमैः ।
मन्त्र सायाकाले च कृष्णाष्टम्यादिपर्वसु ॥
शिवरात्रिव्रतं चैव रात्रौ पूजा न दोषदा ।
मुमुक्षोस्तु न कालनियमः ।
तदुक्तम् -
सोमशम्भुना -
मुमुक्षोः सर्वदा शस्त शिवपूजा न वार्यते ॥
कामिके -
सर्वेषां नियम उक्तः ।
तद्यथा -
यथा सम्भवकाले तु यथा सम्भवनासिका? ।
आत्मार्थयजनं कुर्याद्यथा शक्त्यनुरोधतः ॥
तत्रैव स्नानोदकस्य प्राणनियमः पञ्चामृतादीनां च प्रमाण नियमश्च प्रतिपादितम्? यथा -
स्वयम्भुबाणलिङ्गादौ प्रोक्तेषूक्तं हित्वाञ्छितम् ।
स्नानोदकप्रमाणं स्यादात्मार्थे तु यथेच्छया ॥
पञ्चामृतं पञ्चगव्यं कलशोदकमेव च ।
स्नपनार्थाय कथित प्रमाणेन प्रकल्पयेत् ॥
तथा -
नैवेद्यं च जलं पुष्पं वस्त्रगव्यं सगन्धकम् ।
पूजको मनसा ध्यात्वा सङ्क्षेयात्मार्थसंयुतम् ॥
द्रोणतण्डुलनैवेद्यं द्रोणं द्रोणार्धकं जलम् ।
पुष्पण् तु त्रिफलं प्रोक्तं वस्त्रं हस्तप्रमाणकम् ।
गन्धं चतुष्पलं तत्र प्रस्थं प्रस्थं च गव्यकम् ॥
घृतञ्च मधुनो चैव प्रस्थप्रस्थाञ्च योजयेत् ।
पायसं नालिकेरं च आत्मार्थे सम्प्रपूजयेत् ॥
पुष्पं गन्धं च नैवेद्यं जलं वस्त्रोपचारकम् ।
इच्छया यजमानस्य आत्मार्थं यजनं कुरु ॥
अस्यात्मार्थयजनस्य कालाति -
क्रमणमपि न दोषावहमुक्तम् -
अंशुमति -
यथा सम्भवकालेषु यथा सम्भवनाडिका ।
कालातिक्रमणे प्राप्ते प्रायश्चित्तं न कारयेत् ॥
आतुरविषये पूजाविधानं तत्रैवोक्तम् -
जनिते चित्तसन्तापे व्याधिभिर्निहितिते?सति ।
कायादिपातसंरोधे व्याध्युपद्रवणादिषु ॥
स्नानहीनं तथा चैव पादप्रक्षालनं ततः ।
भस्मोद्धूलनकं कृत्वा अर्चयेत्तु विशेषतः ॥
अर्चनायामशक्तश्चेत् स्पर्शनं चापि कारयेत् ।
पुष्पं तु मस्तके न्यस्य मूलमन्त्रमनुस्मरन् ॥
स्पर्शने वाप्यशक्तश्चेल्लिङ्गदर्शनमेव च ।
मेरुतन्त्रे -
लिङ्गस्य दर्शनं वाथ लिङ्गस्यार्चनमेव वा ।
विदुते यदि जज्ञनां भवन्ति त्रिदशाधिपाः ॥
मोहशूरोत्तरे -
देवासुरानन्या? यक्षा मुनयो वीतमत्सराः ।
लिङ्गाराधनतस्सिद्धं गन्ता मुक्तिं च शाश्वतीम् ॥
इति क्रियासमोपेतं लिङ्गमाश्रित्य साधकः लभतेऽभिमतां सिद्धिं मोक्षं मोक्षपरायणः ॥
पद्मपत्रे यथा तोयं वातोद्धूतं सुचञ्चलम् ।
तद्वत् सुचञ्चलं शक्रं प्राणिनां भुविजीवितम् ॥
अस्थिरं यौवनं शक्रं द्रव्यमस्थिरमेव च ।
अस्थिरं पुत्रपौत्राद्यं भासा रस मुयतः ॥
तस्मात्पुत्रकलत्राणि सुभृ(हृ?)न्मित्र धनानि च ।
विहाय मोहजालानि कुर्याल्लिङ्गं परिग्रहम् ॥
तथा कामिके -
मानुष्ये कदलीस्तम्बनिस्सारे सारमार्गणम् ।
यः करोति समं मूढो जलबुद्बुदसन्निभे ॥
अद्रीसु मतीनाशं मुदधिः र्देवतानि च ।
फेनःप्रख्यः कथं नाशं मर्त्यो लोके न यास्यति ॥
अथ पूजाक्रमः - आचम्य भस्मधारणं कृत्वा सकलीकृत्य रुद्राक्षमालया वपुरलं कृष्य सामान्यार्घ्यपात्रमस्त्रेण संशोध्य निरीक्षणादिभिः संस्कृत्य
त्रिपाद्यस्यं तम्मूलं मध्यमाग्रवलयेषु ब्रह्म विष्णुहरशक्तिरभ्यर्च्य हृदयेन वौषडन्तेन शुद्धतोयेनापूर्य प्रणवेन सप्तधा दशधा वा वाभिमन्त्र्य रक्षावकुण्ठनामृतीकरणानि विधाय तेनास्योदकपश्चिमद्वारमस्त्रेण सम्प्रोक्ष्य द्वारपालं न्यसेत् ॥
सहस्रे -
आचम्य सकलीकृत्य पूर्ववद्भस्मधारणम् ।
सर्वज्ञानोत्तरे -
अलङ्कृत्य स्वकं देहं शिवमन्त्रैर्यथा क्रमम् ।
शिवीभूतः सुदीप्तात्मा शिवस्यार्चनमारभेत् ॥
कालोत्तरे -
ग्रहणे विषुवे चैवायने सङ्क्रान्तिकेऽपि च ।
दर्शे च पूर्णमासे च पुण्येषु दिवसेषु च ॥
ने होमकाले च स्वजन्मदिवसे तथा ।
रुद्राक्षं धारयेन्नित्यं सर्वपापक्षयो भवेत् ॥
ब्राह्मणा क्षत्रियाश्चैव वैश्याः शुद्रास्तथैव च ।
चातुर्वर्णं तु रुद्राक्षं तत्तज्जातेस्तु सिद्धिदम् ॥
तथा पुराणे -
तथापि नोत्तरं नीचैर्धार्यं नीचमधोत्तरैः ।
अधारणे धारणे च नरकाभीष्टदत्त्वतः ॥
रुद्राक्षान्कण्ठदेशे दशनपरिमितां मस्तके विंशति द्वे षट्षट्कर्णप्रदेशे करयुगलगता द्वादशद्वादशैव ।
बाह्योरिन्दोः कलाभिः प्रथमगुणग्रथितं चैकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः ॥
कालोत्तरे -
रुद्राक्षणन्धारयेत्स्त्रीणा दीक्षासंस्कारसंयुतम् ।
यथा विधि दीक्षयित्वा पश्चान्मन्त्रेण धारयेत् ॥
ईशानेन शिरोधार्यं कण्ठे तत्पुरुषेण च ।
अघोरेण गले धार्यं हृद्यघोरेण धारयेत् ॥
बीजमुख्यैरघोरैर्वा हस्ते चैव तु धारयेत् ।
व्योमव्यापीतिमन्त्रेण शतार्धमालां च धारयेत् ॥
कृमिदष्टच्छिन्नभिन्नाश्च कण्टकाभिन्नमेव च ।
स्वयमेव तु तद्द्वारं पूर्विकं च विशेषतः ॥
प्रधानं रुद्राक्षमेव च ।
विपरीतद्वारमेवं तु मुखमेकं च वर्जयेत् ।
सड्दोषरहितं वत्स रुद्राक्षं धारयेन्नरः ॥
एकैकमेकगोदानफलं ज्ञेयं समासतः ।
शूद्रो रुद्राक्षदानेन भवतीति किमद्भुतम् ॥
सहस्रे -
कुलिशेन सुसम्प्रोक्ष्य निरीक्षणादिचतुष्टय ब्रह्म विष्णुहरादीनां ज्वल मूलमध्यमग्रो वलये शक्तिमभ्यर्च्य पूजयेद्धृदि क्षालिता प्रणवं सप्तधा मन्त्र्या धेनुमुद्रां प्रदर्शये
चिन्त्यविश्वसादाख्ये -
ओङ्कारं दर्शया कृत्वा जप्त्वाचार्घ्यं प्रकल्प अंशुमती(ति?) च
खेटके पश्चिमे देशे द्वारं सम्पूज्य देशिक ननु - कारणे चतुर्द्वारपुजनस्यापि प्रतिपादनात्पश्चिमद्वारपूजन प्रस्तावस्य प्रयोजनमिति चेत् ।
सत्यम् ।
मुत्तरे नालदोकृदिति मकुटे दक्षिणाद्वारनिषेधार्च्च वाह उदक्द्वारं न कर्तव्यमिति ।
चिन्त्यवि सादाख्ये उदग्द्वारस्य निषेधाद्दक्षिणद्वार पूजायां येत् ।
पश्चिमद्वारं सिद्धिकामः समाहितः इति
वचनेन पश्चिमद्वारस्यैव शैष्ठ्यप्रतिपादार्च्चं? पश्चिमद्वारां शेषद्वाराणि घट्टयेदिति वचनेन पश्चिमेतरद्वाराणां घट्टनविधानाच्च सूक्ष्मे त्वात्मार्थपूजायां द्वारं पश्चिममेव तु नैवेद्यं पूर्ववक्त्रके इत्युक्तत्वार्च्च पद्धतीकृद्भिराचार्यैरखिलैरपि पश्चिमद्वारं पूजाया एव प्रस्तुतत्वाच्च आत्मार्थे पश्चिमद्वारपूजनमेव कार्यमिति तदेवेह प्रस्तुतम् ॥
अथ द्वारपालार्चन प्रकारः -
सूक्ष्मे -
पश्चिमद्वारमस्त्रेण प्रोक्षयेत्तु शिवाम्भसा ।
गणेशं दक्षिणेऽभ्यर्च्य वाग्देवीं वामपार्श्वके ॥
मध्यमे तु महालक्ष्मीं नन्दी गङ्गां च दक्षिणे ।
महाकालं च यमुनां वामपार्श्वे विशेषतः ॥
ऊर्ध्वाधः सम्प्रपूज्याथ शिवास्त्रं सम्प्रपूजयेत् ।
ततस्तेषां ध्यानं यथा -
ज्ञानरत्नावल्याम् -
श्यामं लम्बोदरं स्थूलं गजवक्त्रं चतुर्भुजम् ।
दन्ताक्षसूत्रं दक्षे तु वामे परशुलड्डुके ॥
विभ्राणं वामनं त्र्यक्षं द्वारोर्ध्वे दक्षिणे यजेत् ।
श्वेतां सरस्वतीं बालां सर्वशोभाभिभूषिताम् ।
वामदक्षकरोपात्तवीणावादन तत्पराम् ॥
पुस्तकाक्षधरां द्वाभ्यामुत्तरे सम्प्रपूजयेत् ।
तयोर्मध्ये महालक्ष्मीं हेमवर्णां विभूषिताम् ॥
श्रीफलाब्जधरां दक्षे वामे पद्माभयान्विताम् ।
भृङ्गारामृतधाराभिर्गजतुण्डाभिषेचिनीम् ॥
श्रीनन्दिकेश्वरं देवं जटायज्ञोपवीतिनम् ।
त्रिशूलाक्षधरं सौम्यं वरदाभयपाणिनम् ॥
यजेद्दक्षिणशाखायां त्रिणेत्रं चन्द्रभूषणम् ।
जन्हुकन्यां सितां सौम्यां मकरोपरि संस्थिताम् ।
श्वेतचामरपीयूष कलशासक्त बाहुकाम् ॥
यजेदुत्तरतस्तस्य नन्दिनः सर्वभूषणाम् ।
कृष्णं पिङ्गजटं भीमं दंष्ट्रा विकटवक्त्रकम् ॥
भ्रुकुटीभीषणं पीननागयज्ञोपवीतिनम् ।
कपालखट्वाङ्गधरं सर्पदुन्दुभिदारिणम् ॥
यजेदुत्तरशाखायां याम्ये तस्याथ यौवनाम् ।
कूर्मोपरि स्थितां श्यामां य?म पूत्रीं विभूषिताम् ॥
सरोजामृतकुम्भौ तां धारयन्तं यजेद्वशी ।
चिन्त्यविश्वसादाख्ये -
आवाहनादि पाद्यान्तं प्रत्येकं पूजयेत् क्रमात् ।
अङ्गुष्ठानामिकाग्रान्तं ॐ हौं शिवाय नमोऽन्तकम् ॥
नेत्रद्वये च विन्यस्य निरीक्षेद्दिव्यविघ्नकान् ।
सन्त्यज्य दिव्यविघ्नांश्च पुनर्नारा च मुद्रया ॥
तर्जन्यङ्गुष्ठपुष्पेण ॐ हः अस्त्राय फडिति ।
अन्तरिक्षगविघ्नांश्च निरस्येन्नन्दिकेश्वरः ॥
सव्यपार्ष्णेस्त्रिघातेन भूमिविघ्नविनाशनम् ।
हुम्फडान्तास्त्रमन्त्रेण विघ्ननिस्सारणं भवेत् ॥
अथ देहलीशाखायां दक्षिणासंश्रितो विशेत् ।
दक्षिणेनैव पादेन प्रविशेन्मन्दिरं पुनः ॥
शिवास्त्रं देहलीमध्ये पूर्ववच्चासनादिकम् ।
चतुर्वक्त्रं चतुर्भाहुं प्रदीप्ताग्निसमप्रभम् ।
शिवस्याभिमुखं दक्ष शूलाभयविरान्वितम्? ॥
जटामकुटसंयुक्तं मूर्धेन्दुकृतशेखरम् ।
इति ध्यात्वा पश्चिमाभिमुखस्सन्नस्त्रं यजेत् ।
ततः प्रदक्षिणीकृत्य देवदेवं महेश्वरम् ।
देहलीदक्षिणे चैव वास्तुदेवस्य पूजनम् ॥
हंसस्तं तुन्दिलं गौरं सश्मश्रुचतुराननम् ।
दधानं दक्षिणे वामे दक्षाक्षस्रक्कमण्डलुम् ॥
इत्यभ्यर्च्य चिन्त्यविश्वसादाख्ये -
द्वारस्याभ्यन्तरे युष्मत्पूजां कुर्यात्तु दक्षिणे ।
रक्तवर्णं चतुर्बाहुं त्रिणेत्रं चन्द्रशेखरम् ॥
जटामकुटसंयुक्तं नमोमुद्रासमन्वितम् ।
परशुं च मृगं चैव धारिणं गणनायकम् ।
कोर्परं दक्षिणं तस्य क्षुरिकावेत्रसंयुतम् ॥
नेत्रं न्यस्त्वा बाहुमूले क्षुरिकां च तदन्तके ।
सर्वाभरणसंयुक्तं भस्मोद्धूलितविग्रहम् ॥
रुद्राक्षेणोपवीतं च शुक्लयज्ञोपवीतिनम् ।
रुद्राक्ष लम्बमालां च हस्तमालां तथैव च ॥
ॐ हां श्रीं च समुच्चार्य नन्दिकेश्वराय नमः ।
एवं च नन्दिनं पूज्य सुयशां तस्य वामके ।
श्यामवर्णां प्रसन्नाक्षीं द्विभुजां गणनायिकाम् ॥
सर्वभूषणसंयुक्तां सर्वलक्षणसुन्दरीम् ।
उत्पलं दक्षिणे हस्ते प्रसारितं त्वपरं ततः ॥
शेषः? ।
ॐ हां बीजं समुच्चार्य सुयशायै नमश्च हि ।
एवं तां पूजयेद्भक्त्या भोगमोक्षार्थसिद्धये ॥
विद्वेषणे? संहितायाम् -
स्थावरे जङ्गमे वापि मन्त्रैरेतैस्तु पूजयेत् इति ।
अथवा समुदित विभाव्य सकृत् प्रयोगेनार्चयेत् ॥
तथा -
अंशुमति -
अथवा द्वारपालानामेक चैव तु मध्यमे ।
सर्वेभ्यो द्वारपालेभ्यो नम इत्यर्चयेत् सुधीः ॥
विघ्नत्रयं तु निस्सार्य पार्ष्णिघातत्रयेण च ।
तालत्रयं तु सन्ताड्य ऊर्ध्वं पुष्पं विसर्जयेत् ॥
तदनु स्नपनोदकादि पूजोपकरणसकलद्रव्यजातं सम्भृत्य देवस्य दक्षिणभागे ब्रह्माद्यासन उदङ्मुखः उपविश्यात्म द्रव्यस्थानं मन्त्रलिङ्गं शुद्धिक्रमेण कुर्यात् ।
तथागमः -
निरीक्षणाद्यैश्शस्त्रैश्च शुद्धानादाय गडुकान् ।
लब्धानुज्ञश्शिवां मौनी गङ्गादिकमनुव्रजेत् ॥
ब्रह्माङ्गेनैव जप्तेन वस्त्रपूतेन वारिणा ।
पूरयेदस्त्रधौतानस्तान गायत्र्या हृदयेन वा ॥
सुप्रभेदे -
पाटलोत्पलपद्मानि करवीरादि सर्वदा ।
स्नानतोयानि योज्यानि स्निग्धानि सुरभीणि च ॥
कारणे -
वर्णगन्धरसैर्दुष्टं कृमिकेशादिसंयुतम् ।
तद्वारि वर्जयेत्तत्र उषीतं पल्वलोदकम् ॥
अशुचिस्थानसंयुक्तं सूर्यरश्मिविवर्जितम् ।
वर्जयेत्तु प्रयत्नेन सङ्ग्रहेत्तु मनोरमम् ॥
नद्यां तटाके कूपे वा सम्भवं तु जलं ग्रहेत् ।
अस्तमयं समारभ्य यावत्सूर्योदयान्तकम् ॥
न ग्राह्यं स्नानवारीस्यात्पादवारि तथैव च ।
इतरं द्रव्यजातस्वरूपं द्रव्यशुद्धिप्रकरणे वक्ष्यामः ॥
सूक्ष्मे -
आसनं दर्भदारुं च सारङ्गं चर्ममेव च ।
व्याघ्रचर्मसरोमापि रत्नकम्बलवाससम् ॥
अंशुमत्यासनानां फलं निरूपितम् -
तद्यथा -
चतुरश्रायताश्रं च सौभाग्यं दारवासनम् ।
वस्त्रासने व्याधिनाशं कम्बले दुःखमोचनम् ॥
कृष्णासने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि ।
सूक्ष्मस्वायम्भुवे -
देवदक्षिणदिग्भागे देवस्याराधनाय च ।
सूक्ष्मे च -
देवस्य दक्षिणे पार्श्वे यथेष्टमासनं न्यसेत् ।
क्रियाकाण्डे -
देवदक्षिणदिग्भागे सन्निवेष्टसुखासने ।
उत्तरास्यो विनीतात्मेति ।
सहस्रे च -
देवस्य दक्षिणे भागे रुचिरासनसंस्थितः ।
कारणे तल्लक्षणमुक्तम् -
उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः ।
द्वयोर्जान्वोश्च कृत्वा तु पादाग्रे चैव सम्पुटम् ॥
ईषन्नासाग्रदृष्टिस्तु देहदीर्घं च तत्र वै ।
रुचिरासनमाख्यातं सर्वपूजार्हकं बिदुः ॥
अंशुमति च -
अथ सव्यं प्रकूर्वीत रुचिरासन सञ्ज्ञकम् ।
रुचिरासनमाख्यातमासीनं चासनोपरि ॥
यद्वा शिवरहस्ये -
देवदक्षिणदिग्भागे स्वस्तिकासनसंस्थितः ।
इति ।
न प्राच्याग्रत शम्भोन्नोत्तरे योषिताश्रये ।
न प्रतीच्या यतः पृष्ठं तद्दक्ष्ये संस्थितोऽर्चयेत् ॥
तथा न विभोः पुरतस्तिष्ठेन्न पश्चात् स्त्रंयन्तिकेऽपि च ।
अघौघध्वंसमोक्षार्थं दक्षे दक्षस्थितोऽर्चयेत् ॥
न योषासन्निधौ नाग्रे न पृष्ठे स्वामिनो भवेत् ।
अर्च्येद्भुक्तिमुक्त्यर्थं दक्षे सौघरे गुरुः ॥
ननुत्घो(न्वघो?)रस्य शान्तस्य कथं पापनिद्दिह?कत्वमिति चेत् ।
बाढम् ।
तथापि वस्तुस्वभावोऽयम् ।
तदुक्तम् -
अंशुमति -
हिमं मृदु च शीतं च पद्मं निर्दहते यथा ।
तथाघोरः प्रशान्तोऽपि पापनिर्दाहकारकः ॥
तस्मादाप्तेन वचसा उत्तराभिमुखो यजेत् ।
ननु दक्षिणभागावस्थितिरत्र पूजकस्य न युज्यते ।
पश्चिमद्वारपूजाया एवं प्रस्तुतत्वात् ।
सदाशिवभट्टारकस्यापि तद्वाराभिमुखतया तत्र पूजकस्य भागस्थित्यनुपपत्ते ।
न च द्वाराभिमुख्यं शिवस्यासिद्धमिति वाच्यम् ॥
कामिके -
यस्यां दिशि भवेद्वारं तां प्राचीं तु प्रकल्पयेत् ।
लिङ्गस्याभिमुखं यत्तु द्वारं तत्पूर्वमिष्यते ॥
तत्र तत्पुरुषं वक्त्रमूर्ध्वं चाभिमुखं भवेत् ।
इत्युक्त्वा दिति चेन्न ।
तस्य कामिकवचनस्य परार्थविषयत्वात् ।
उत्तरत्रैव बलिपीठवृषं शूलं तद्वक्त्राभिमुखं भवेत् इत्युक्तवचनात् परार्थ एव बलिपीठवृषाद्यर्चनविधानात् ॥
आत्मार्थो? द्वारस्य यत्किञ्चिद्दिङ्मुखत्वेऽपि देवस्य पूर्वादिमुखत्वं साधकस्य उत्तराननत्वमेव ॥
श्रीमुखबिम्बे -
दीक्षादिषु घटेशस्य प्रतीच्यां चिन्तयेद्गुरुः ।
ईशं तत्पुरुषं शान्तं नित्यं नित्ये पुराननम् ॥
श्रीबृहद्भार्गवादौ -
ध्यायेत्सदाशिवं नित्यं प्राङ्ग्मुखेशास्यवक्षसम् ।
दीक्षादिकलशाधारं तमेव प्रत्यगाननम् ॥
इति
लक्ष्मीकेशवसंवादे -
नित्येनैमित्तिके काम्ये सर्वाधिकरणस्सदाशिवः ।
पूर्वाननो लक्ष्मी प्रत्यक्पृष्ठकलातनुः ॥
श्रीबृहत्किरणोद्योतिकादौ -
प्राङ्मुखावीशपुरुषावघोरो दक्षिणामुखः ।
नित्यं सौम्याननो वामः सद्यः पञ्चमुख स्मृतम् ॥
नित्ववत् पश्चिमद्वारं प्रविश्यास्त्र मुदम्बरे ।
बृहत्स्थाने न्यसेत्पुष्पं वास्तुनाथाय सोदकम् ॥
आगमानामनेकत्वात् स्वाम्नायविधिरिष्टितः ।
सर्वाधिकरणश्शम्भुस्तस्मात्पूर्वाननो मतः ॥
एतत् सिद्धान्तसारावचनम् ।
तथागमश्च देवस्य प्रासादो भवतु ।
यथा काष्ठया कामं तत्पुरुषादिमुखा * * * * * नि तु न जहाति पूर्वादिदिक्संस्थां लिङ्गं वा प्रतिमा वा क्रियतेऽन्यद्वा यथा ककुभा तस्यां तस्यां यज्वा यजते शिवमुत्तराभिमुखम् ॥
सूक्ष्मे चात्मार्थपूजाप्रकरणे द्वारं पश्चिममेव तु नैवेद्यं पूर्ववक्त्रे एवमाशङ्कापूर्वकं ज्ञानरत्नावलीकारै-
राचार्यैरीशस्य पूर्वाभिमुखत्वा(त्वं?) बहुसम्मतिभिः प्रतिपादितम् ॥
ननु द्वारस्य पश्चिमत्वेऽपि द्वाराभिमुखस्य परार्थविषयताव्यवस्थापनेन आत्मार्थे देवस्य द्वाराभिमुख्य(ख्यं?) ममाभवतु(माभवतु?) पूर्वाभिमुखत्वं न सहामहे ।
किन्तु दक्षिणाभिङ्खत्वमेव वदामः ।
तह्ता हि सर्वेष्वागमेषु साधकस्योत्तराभिमुखत्वमविवादेन प्रतिपादितम् ।
तथा च स्थण्डिले चललिङ्गे च साधकाभिमुखः शिवः इत्यादि वचनाद्दक्षिणाभिमुखत्वम् सिद्धमेव ।
इदं च देवदक्षिणामूर्तित्वमाशङ्कापूर्वकं
मृगेन्द्रपद्धतिव्याख्याने समर्थितमिति चेन्न ॥
साधकाभिमुख्यवचनस्य दीक्षायां नैमित्तिकपूजाविषयत्वात् ।
तत्रैव साधकाभिमुख्यस्य बहुशः प्रतिपादितत्वात् ।
न तन्न्यायस्य नित्यार्चनेऽपि प्रशङ्ग इति वाच्यम् ।
अत्र न विभोः पुरतस्तिष्ठेदित्यादि निषेधात् ।
अत एव निषेधस्तत्र नैमित्तिके न प्रसरति ।
तत्रत्याभिमुख्यवचनबाधात् ।
किञ्चि(ञ्च?) न्नि(नि?)त्ये नैमित्तिके काम्ये इति वचनात् सदा देवस्य पूर्वाननत्वमेव न चानेनैव वचनेन दीक्षायां
प्राप्याभिमुख्यं न स्यादिति वाच्यम् ।
अस्य वचनस्य यत्र नैमित्तिके सङ्क्रमपूजादौ साधकाभिमुख्यवचनाभावः तद्विषयत्वात् ।
अन्यथा परस्परविरोधादुभयोरप्रामाण्यप्रसङ्गः ।
साधकाभिमुख्य वचने तत्पुरुषमुखस्य दक्षिणदिशि प्रसक्तावघोरस्यान्यतोपगमाद्दक्षभागस्यासौसद्ध्यं समोक्षत्वानुपपत्तिः ।
अत एव मृगेन्द्रपद्धति व्याख्यानमपि मूलास्पर्शित्वादुपेक्षणीयम् ॥
अपि च दीक्षाप्रकरणसिद्धशाधकाभिमुख्य वचन सहस्रेण नित्यार्चनेऽपि
साधकाभिमुख्यं प्रतिपादयन्तं पद्धति व्याख्यानकारं न प्राच्यामित्यादि नित्यार्चनप्रकरण सिद्धनिषेध एव परिहसति ।
न चास्य निषेधस्य पूर्वद्वारकस्थिरलिङ्गविषयत्वं तेन प्रतिपादितमिति वाच्यम् ।
अंशुमत्तन्त्रादावात्मार्थ पूजाप्रकरणे स्थितस्य वचनस्य परार्थविषयतया वक्तुमशक्यत्वात् ॥
यत्तु मण्डपकुम्भेश दृष्टान्तेन रक्ष्यमण्टपाभिमुखत्ववद्रक्ष्य साधकाभिमुक्तम् ।
तन्मन्दम् ।
न हि तत्र देवस्य मण्टपाभिमुख्यं मण्टपरक्षणाय ।
किन्तु वचनादेवार्थाद्रक्षासिद्धेः ।
तदनुमुख्याभावेऽपि
तद्रक्ष्यत्वानपायात् ।
अन्यथा परार्थे द्वाराभिमुखस्य देवस्य साधकाभिमुख्याभावेन तत्र साधकस्य तद्रक्ष्यत्वाभाव प्रसङ्गात् ।
देवकटाक्षपरमाणुलेशा(शे?)नापि रक्षा सिद्धम् ॥
यत्तु स्थानं प्रविश्य मेधावी दक्षिणामूर्तिमाश्रितः इति किरणवचनमुदाहृतम् ।
तदपि दक्षिणा मूर्तिशब्दवाच्याघोर वक्त्रसन्निधीभूतदक्षभागावस्थान विधानमात्रपरम् ।
न देवस्य दक्षिणमुखत्वप्रतिपादक् मतव्या?ख्याने लक्षद्वयाध्यायिभिस्त स्याप्रतिपादनात् ॥
यत्तु श्रीमद्रौरववृत्तिवेकमुद्रा प्रकरण श्रीमत्सोमशम्भुपद्धतिगताभ्यान्तन्दिनुग्राह्यकत्वेनाभिमुखीभ अवो विशिष्टं सान्निध्यं सादरं सम्मुखीभाव आवाहनमिहोच्यते इति वचनाभ्यामावाहनार्थ व्याख्या नाभ्यां साधकाभि मुख्यं तदपि(भि?)मतं तादृगावाहनस्य परार्थेऽपि विद्यमानतया साधकाभि मुख्य प्रसङ्गात् ॥
तर्हि कोऽयमावाहनार्थ इति चेत् ।
उच्यते ।
ऊर्ध्वञ्चि?न्ता कुलेशानमुखस्य साधकः पूजाग्रहणसावधानताकरणमेवा वाहनम् सम्मुखीभावः ।
उक्तम् शुद्धाख्य(ख्या?)याम्
किञ्चिदस्मिन्विशेषोऽस्ति ऊर्ध्वाननस्य षण्मुख ।
मूलं सञ्चिन्त्य तद्वक्त्रं पराङ्मुखमिति स्मृतम् ॥
पूजाकाले तु तद्ध्यात्वा अर्चितं कर्म वक्त्रवत् ।
एवं सङ्कल्प्य विधिवत्पूजान्ते पूर्वद्भवेत् ॥
न चैतावता साधकाभिमुखत्वमीशस्य ।
सोमशम्भु पद्धतिव्याख्याने तु चिदभिव्यक्तिकृतिरावाहनमित्युक्तम् ।
तदपि विरुद्धेत् ॥
यत्तु ईशानस्य सदा कार्यं मूलद्वारावलोकनम् इति वचनबलेन पश्चिमद्वारं पूजावतां पश्चिमाभिमुखत्वमीशस्य
प्राप्तमिति भणितम् ।
तदपि द्वाराभिमुख्यस्य प्रदार्थ विषयताया व्यवस्थापितत्वात् ।
यत्तु सर्वासु पद्धतिषु चललिङ्गविषये पूर्वाभिमुखत्वविधानात्तद्विषये पूर्वाभिमुख्य दर्शकत्वेनोक्तानां वचनानां स्थिरलिङ्ग विषयत्वेन चरितार्थत्वमिति ।
तदपि न शोभावहम् ।
सर्वासु पद्धतिषु नित्यार्चने साधकाभिमुख्यस्य विधानादर्शनात्तदाभी(मि?) मुख्यदर्शकत्वेनोक्तानां वचनानां नैमित्तिकार्चनविषयतया चरितार्थ तत्वोपपत्तेस्तदपि(भि?)लषिताभाव प्रसङ्गात् ॥
अत एवैतत्पद्धति व्याख्यान निरूपित-
युक्तिभिः साधकाभिमुख्यं प्रतिपादयत् पूजास्तवव्याख्यानं परपेक्षणीयम्? ।
किं च देवस्य दक्षिणमुखत्वं तत्पुरुषमुखेन वा ईशानमुखेन वा ।
नाद्यः ।
तदानीमघोरस्यामन्यतोपगतमेतदधीनपापध्वंस सफलता दक्षासनस्य भज्यतेत्युक्तम् ।
न चेष्टापत्तिः ।
दक्षिणाभिमुखत्वमेव फल्या?पत्तेः ॥
अथ भक्ष्यभोज्यान्नपानादिलेह्यं शोष्यम्मनेकशम्(मनेकशः?) ।
ऊर्ध्ववक्त्रे तु दातव्यं यत्किञ्चिद्विधिचोदितम् ॥
इति वचनात् ईशानमुख एव साधकाभिमुखे नैवेद्यमस्त्विति चेन्न ।
नैवेद्यं दक्षिणहस्ते दद्यात् पानीयमुत्तमम् इति वचनेन नैवेद्यं स्वदक्षिणहस्ते दातव्यतया प्राक्(ग्?)दिगवस्थितहस्तेनैव दक्षिणदिक् प्रसारित नैवेद्यस्य दक्षिणाभिमुखेशान वक्त्रे निक्षेपस्सम्भवतीति वाच्यम् ।
देवस्य तथा भोजने हस्तक्लेशेन साधक वै मुख्यापत्तेः ॥
अपिचेशानवक्त्रस्य शिरोरूपतया तत्र नैवेद्यदा पक्षो लौकीकविरुद्धा ।
न हि लोकाश्शिरसा भुञ्जते ।
किन्तु मुखेनैव ।
तत्पुरुषास्य साक्षामुखरूप? तया शिवादिचतुस्स(स्सा?)दाख्यानां पि?
व्यापकीभूतकर्मसाय?दाख्यतया च तत्रैव नैवेदानां? साधीयः ॥
सूक्ष्मे आत्मार्थयजनप्रकरणे -
तत्पुरुषमुख? नैवेद्यप्रदानः विधानात् तस्मान्नित्यार्चने साधकाभिमुखस्य मुखतो वचना भावाद्दर्शितयुक्तीनामन्यतो?पपत्तेर्नैवेद्यदानविरोधाच्च ।
मृगेन्द्रे पद्धति पूजास्तवव्याख्यातृभ्यामुक्तं देवस्य दक्षिणमुखत्वमुपेक्षणीयम् ननु स्थण्डिले चललिङ्गे च साधभिमुखश्शिवः ।
इति वचनं दीक्षाविधि विषयमित्युक्तमनुपपन्नम् ।
तत्र चललिङ्ग प्रसक्त्यभावात् इति चेन्न ॥
तत्र चललिङ्गपूजायां विदो?षाभावात् ।
अन्यथा तत्र वक्तव्यं किमनेन वचनेन देवस्य साधकाभिमुख्यं साधकावस्थानात्पूर्वं प्रतिपाद्यते ।
अनन्तरं वा ।
नाद्यः ।
तदानीं साधकस्यैवाभावेन तदाभिमुख्यासिद्धेः ।
न द्वितीयः साधकावस्थानानन्तरमेव तदभिमुखस्य देवस्य पुनरावाहनै(ने?)नाभिमुख्य वै फल्यापत्तेः ॥
नचावाहनार्थव्याख्यानगताभिमुख्यस्य सावधानताकरणाद्यन्य एवार्थः ।
न तु तद्दिङ्मुखत्वमिति वाच्यम् ।
तह्य(र्ह्य?)स्याभिमुख्यवचनस्याप्यन्यार्थत्वस्यैवौचित्यादन्यार्थ त्व स्वीकारे च
भवदुक्तिविरोधाच्च ।
अथावाहनवचनमेतद्वचनं चैकार्थकः ।
तथा च वचनद्वयेनाप्या वाहनानन्तरं साधकाभिमुख्यं प्रतिपाद्यति? इति चेत् ॥
हन्त तस्यावाहनात्पूर्व पूर्वमुखत्वमस्मदिष्टमायातम् ।
न च ममापि तदिष्टमेवावाहनानन्तरमेवाहं साधकाभिमुखत्वं वि(व?)दामीति वाच्यम् ।
पूजारम्भकाले पूर्वमुखत्वेन स्थितस्य पुनरावाहनेन साधकाभिमुख्यकरणायोगात् ।
अन्यथापि परार्थेऽपि साधकाभिमुख्य प्रसङ्ग इत्युक्तम् ।
न च परार्थे परेषामेवेन(वानु?) ग्राह्यत्वान्न साधकाभिमुख्यमावाहनेन ।
आत्मार्थे तु साधकस्यैवानुग्राह्यतया तदभिमुखत्वमिति वाच्यम् ।
तर्हि परार्थे सकलदिग्गतानामनुग्राह्यतया नियतदिगाभिमुख्य प्रसङ्गः ।
किञ्चा वाहनात्पूर्वं पूर्वमुखत्वे पूजारम्भे दक्षिणमुखत्व प्रतिपादककिरणवचनोदाहृति विरोधः ।
अथ किरणवचनेन पूजारम्भे दक्षिणमुखं साधयामि(मी?)ति मतम(मतम्?) तस्यावाहनेन साधकाभिमुख्यप्रतिपादक वचनोदाहृति विरोधः ।
दक्षिणमुखस्य देवस्य पुनरावाहनेन दक्षिणमुखत्वकरण वै फल्यात् ।
नत्वा(न्वा?)स्तामुदाहरणविरोधः ।
आवाहनार्थोपन्यास एव स्वीक्रियते ।
कञ्चुकिरणेनैव? दक्षिणमुखत्वं साधयामीति चेन्न ।
तस्य दक्षभागावस्थानमात्रपरत्वमित्युक्तत्वात् ।
अन्यथा तत्रैवोत्तरत्र दत्त्वाथावरणान्निष्ठा साध्यानां पूजयेत्ततः ।
तदङ्गैरङ्गि(ङ्कि?)तं कृत्वा प्रणवे कमलासने ।
शिवस्य दक्षिणे भागे विभवेन तु पूजयेत् ।
मृगेन्द्रे -
याम्याब्जपत्रे प्राक्पश्चाद्भागयो स्त्रीनृविग्रहः ।
अघोरमोचनज्योतितं? मध्ये नान्यत्र कुत्रचित् ॥
देवदक्षिणदिग्भागे साध्यमन्त्राणां पूजाविधायकवचन विरोधः ।
साध्यमन्त्री पूजायां देवदक्षिणदिग्भागे देवतावस्थानस्य देवस्य पूर्वमुख्यता साधकत्वात् ।
तस्माद्देवनित्यार्चनां? दक्षिणमुखत्व साधक वचनाभावात् ।
सहजं पूर्वमुख्यमेव देवस्य सकलशैवैरभ्युपेयम् ।
अङ्गीकृतं चेदं लक्ष्यचद्रधाध्ययि प्रसृ(भृ?)तिभिः शैवसम्प्रदायप्रवर्तकैः क्रियापद्धतिधुरन्धरैराचार्यचरणैः ॥
तस्मात् परार्थे देवस्य द्वाराभिमुखम् ।
आत्मार्थे तु नित्यार्चने पूर्वाभिमुखत्वम् नैमित्तिक-
काम्येषु पूर्वमुखमुत्सर्गः ।
दीक्षादिनैमित्तिकेषु विशेषवचनैर्दक्षिणमुखत्वादि निरपपा(वा?)द इति सर्वं सुस्थुः? ॥
चिन्त्य विश्वसादाख्ये -
पञ्चशुद्धिक्रमेणैव पूजयेच्छिवमव्ययम् ।
आत्मशुद्धिं पुरा कृत्वा स्थानशुद्धिमनन्तरम् ॥
द्रव्यशुद्धि तृतीयं स्याच्चतुर्थं मन्त्रशोधनम् ।
पञ्चमं लिङ्गशुद्धि स्याद्देव(वं?) शुद्धिः? क्रमोदिता ॥
वातुले -
यो वेत्ति पञ्चशुद्द्धिस्तु(द्धीस्तु?) सं (स?) पूजां कर्तुमर्हति ।
भूत-शुद्धिः
अत्र भूतशुद्ध्य्-अन्तर्यजनावा?हन-ध्यान-समाधीनाम् आत्मशुद्धिहेतुत्वात् प्रथमं भूतशुद्धिरुच्यते ॥
दीक्षितेऽप्य् अपेक्षा
ननु पूर्वम् एव दीक्षया षड्-अध्व-गर्भितानि भूतानि शोधितान्य् एव ।
भूतशोधनेन किं साध्यते ?
सत्यम् ।
तानि भूतानि द्वि-विधानि स्थूल-भूतानि सूक्ष्म भूतानि चेति ।
तत्र तावद् दीक्षावसाने भोग्य-कर्मोपभोग-स्थानानि तत्त्व-रूपाणि स्थूल-रूप-बाह्य-भूतान्य् एव शोधितानि
न तु देह-रूप-सूक्ष्म-भूतानि ।
यथा -
सर्वज्ञानोत्तरे - दीक्षा-प्रकरणे -
पृथिव्यापस् तथा तेजो
वायुर् आकाशम् एव च ।
एतनि पञ्चतत्त्वानि
सर्वेषां व्यापकानि तु ॥न विना पञ्चभिस्तत्त्वैर्
देह-बन्धो विधीयते ।
स्थूल-सूक्ष्म-विभागेन
ज्ञात्वैतानि विशोधयेत् ।
इति ।
एवं चेद्, दीक्षया प्रयोजनं न दृष्टं?
तन्न ।
दीक्षया अनेकजन्मान्तरीयं कर्म मन्त्रैः दग्धं - बीजम् इव,
भविष्यत्कर्म च विष-शक्तिवन् निरुद्धम् ।
येन कमणा इदं शरीरं
तत्कर्मणो भोगतो नाशे
देहान्ते मोक्षः स्यात् -
प्रारब्धकर्मणः सद्यो विनाशाभावात् ॥
उक्तं किरणे -
जातायां घटनिष्पत्तौ
यथा चक्रं भ्रमत्य् अपि ।
पूर्व-संस्कार-संसिद्धं
तथा वपुर् इदं स्थितम् ॥अनेकभविकं कर्म
दग्धं बीजम् इवाणुभिः ।
भविष्यद् अपि संरुद्धं,
येनेदं +++(शरीरं)+++ तद्धि भोगतः ।
देहपाते विमोक्षः स्यात्
सद्यो-निर्वाणदापि वा ॥
इति ॥
तस्माद् दीक्षा-संशुद्धस्यात्मनः
प्राकृते पञ्च-भूतात्मके अशुद्धे देहे
मायीय-व्यक्ति-शक्ति-प्रेरित-कर्मोपभोग-स्थाने ऽवस्थानम् अयुक्तम् इति
मन्त्रशुद्ध्या स्वदेहो मन्त्रमयः प्रत्यहं प्रतिक्षणं च विधेयः -
चित्ते स्थैर्याभावात् ॥
उक्तं चाचार्यैः -
तस्माद्दीक्षा-विशुद्धस्य
प्राकृते पाञ्चभौतिके ।
देहेऽशुद्धे स्वकर्मोप-
भोगस्थाने स्थितात्मनः ॥प्रेरितस्य तदा माया-
शक्तिभिर् भोग-सन्ततौ ।
अ-युक्तं तद्-अवस्थानं
दुष्ट-पात्रे यथा मधु ॥तस्माच् छाक्तमयं देहं
भूतशुद्ध्यात्मनः सुधीः ।
कुर्यात् सा च सदा कार्या
यतः स्थैर्यं न चात्मनः ॥
एतत्सर्वं सिद्धान्तशेखरे +++(क्व लभ्यते??)+++
च स्पष्टमुक्तम् ।
तद् यथा -
अ(न?)नु भूतानि शुद्धानि
दीक्षया गुरुणाणुभिः ।
कृतानि पूर्वम् एतेषां
शुद्ध्या किं साध्यते ऽधुना ॥सत्यं भूतानि शुद्धानि
द्विप्रकाराणि तानि तु ।
अभ्यन्तराणि बाह्यानि
देहे चाभ्यन्तराणि च ॥षड्-अध्वस्थानि बाह्यानि
तानि शुद्धानि दीक्षया ।
देह-स्थितानि भूतानि
शोध्यानि स्युर् दिने दिने ॥निश्शेष-दग्ध-पाशस्य
भुक्ते? भोग्यस्य चात्मनः ।
निर्दग्ध-सञ्चिताङ्गानि
कर्मणो निर्मलात्मनः ॥माता-पितृ-मलोद्भूत-
देहे स्थानं न युज्यते ।
तस्मान् मन्त्रमयः कार्यः
क्रियते प्रतिवासरम् ॥धारणाशोधिते देहे
शिवः साक्षात् प्रदृश्यते ।
मायामयादि तत् कार्यः
स साक्षाच्छिव उच्यते ॥अन्तः शुद्धिर्विधातव्या
भूतानां देहवर्तिनाम् ।
सा शुद्धिर्धारणायत्ता
धारणा कालतत्परा ॥कालोऽत्र शुद्ध्यते भूत?
प्रातश्शुद्धि-विधायकः ॥
यद्वा -
दीक्षया स्थूल-सूक्ष्म-रूपोभय-विधशोधने कृतेऽपि
प्रारब्ध-कर्म-शोधनाभावेन
तत्प्रयुक्तानां देहाहिवित्त-शक्तीनां+++(=??)+++ मायात्मिकानां निरोधिनीनां विघ्न-रूपाणां मल-स्वरूपाणां नोरोधाय
तस्मिन् देहे शिव-शक्त्य्-अभिव्यक्तये च
प्रत्यहं प्रतिक्षणं भूत-शुद्धिर् विधेया चित्त-स्थैर्याभावात् ॥
एतत्-सर्वं बाल-ज्ञानरत्नावलीकारैः स्पष्टं प्रतिपादितम् ।
तद् यथा -
ततोऽब्जमुकुलं ध्यात्वा
सुधावारिपरिप्लुतम् ।
तत्रस्थं चिन्तयेत् कायं
दह्यमानं यथा पुरा ॥दाहो योगाग्निना प्रोक्तो
न व्यक्ते किञ्चुकर्मणाम्?? ।
सर्वमन्त्र-प्रसाध्यानां याः
स्मृता व्यक्तिशक्तयः ॥विघ्नरूपा विरोधिन्यस्
तासां दाह इहेष्यते ।
नाह?श्चाप्रसस् तासान्
निरोधो वरदा स्मृता ॥तस्योपायस्य तेनानु
इति तेनायमुच्यते ।एवं कृते निरुद्धास्तु
जायन्ते व्यक्तिशक्तयः ।
रुद्धासु तासु तस्यैव
तथैव शिवशक्तयः ॥आरोप्यन्तेऽथ मन्त्रैस्तु
न्यस्यमान्वे?? यथाक्रमम् ।
स्वस्थानं च वपुर्यादि?
समाप्ते कर्मणि ह्वयम्? ॥अहन्यहनि योगाग्नि-
सम्पर्काच् छिवशक्त्यः ।
नित्यमन्त्राम्बुसिक्तश्च
गच्छन्त्युपचयं क्रमात् ॥निरुद्धाश्च भवत्येवं
ताभिश्च व्यक्ति-शक्तयः ।
प्रयान्त्युपचयं शुद्धस्+++(=??)+++
सर्व दोषहताश्च यः ॥अपिव्यङ्गाश्च+++(=??)+++ सम्पूर्णा
भवन्त्येव न संशयः ।
क्रियाशक्त्याः शिवे योजनम्
ततस्त्रिः प्राणानायम्य
पूर्वोक्तक्रमेण करन्यासं कृत्वा
पूवम् अन्तर्गतं शुद्धं पूरक-कुम्भके
रेचक-पूर्वप्राणायामेनास्त्रमन्त्रेणोत्सार्य
बाह्येन शिवाधिष्ठितेन वायुना उदरं प्रपूर्य
पादाङ्गुष्ठद्वयारभ्य यावद् विस्तिया+++(=??)+++ भूतान्तत ऊर्ध्वं ब्रह्मबिलान्तम् एकीभूतां
हृत्कण्ठादिष्विडा-पिङ्गलाद्यां संयुक्ताम् अधोमुखपद्ममुकुलयुक्तां
सुषिररुपां शिवाधाम-सञ्ज्ञातां शरीरान्तराहु+++(=??)+++ विद्युल्लेखामिव भास्वरां सुषुम्नां सञ्चिन्त्य
तस्या एवान्तर्बहिः स्रवद्-अमृतधारां परमव्योम-रूपिणीं परमेश्वरस्य नित्याधिष्ठेयव्यापिनीं कण्डलिनीशक्तिं विभाव्य
सुषुम्ना मध्ये हूङ्कारज्वलन्तं सञ्चित्य
हृत्कण्ठतालु-भ्रूमध्ये ब्रह्मरन्ध्रेषु अधोमुखमवस्थितं पद्मबृन्दं
पूरकेण विकसितं कुम्भकेनोत्तम्भितं रेचकेणोर्ध्वमुखं कृत्वा
ततो मूलाधारप्रदेशदीपशिखोपमं हूङ्कारं ध्यात्वा
हुं फडिति सन्ततोच्चारणेन प्राणायामेन पञ्चग्रन्थीन् भित्त्वा
प्रतिनिवृत्त्य दक्षिणनाड्या वायून्विमुञ्चन्
पुनरपि शिखाबीजं पूर्वदेशे ध्यानपूर्वमुच्चार्य तस्मिन्मनस्सन्निवेश्य
पूरकवायुनाकृष्टं पुरुषं तृणाग्रबिन्दु भूतमेकाकिनं निरामयं ध्यात्वा
कुम्भकं कृत्वा वायुमूर्ध्वं प्रवर्तयन्
संहारमुद्रयान्तमादाय
ब्रह्मादिकारणत्याग क्रमेणैकोद्घातेन
ॐ हूं हां हूम् आत्मने नमः ।
इति भोग्यकर्मोपभोगार्थद्वादशान्त-पद्मस्थे परमकारणे शुद्धस्फटिकनिर्मले ज्योतिरूपे निष्कले शिवे योजयेत् ॥
तथा -
सूक्ष्मे -
प्राणायामत्रयं कृत्वा
भूतशुद्धिक्रमं चरेत् ।
कामिकतन्त्रसारे? -
प्राणायामं समासेन
कथयामि विशेषतः ।
तालैर्द्वादशभिर्जानो+++(=??)+++
द्विगुणो मध्यमो मताः ॥
त्रिगुणैरुत्तमः कालः
प्रत्येकं रेचकादिषु ।
अकारोकारमकारास्व्
अक्षराः परिकीर्तिताः ॥
रेचके(ये?)द्देहगं वायुम्
अशुद्धं व्योमसंस्थितम् ।
शुद्धं वायुः(युं?) पूरकेण
समाहृत्या(त्य?) शनैः शनैः ।
सम्पूर्ण कुम्भवत्तिष्ठेद्
रेचयेत्तदनन्तरम् ॥
करन्यासं ततः कृत्वा
सुषिरं देहमध्यमे ।
ध्यात्वा ज्वलन्तं हुङ्कारं
प्राणान् संयम्य निश्चलः ॥
फट्कारान्तेऽनेनैव
रेचकेण समन्वितम् ।
पञ्चग्रन्थीस्ततश्छित्वा
तस्मात् प्रतिनिवृत्त्य च ॥
सर्वज्ञानोत्तरे -
पूरकेणोपसंहृत्य
हृदयेन तु मन्त्रवित् ।
सान्तबीजमयं जीवं
न्यसेद्धूङ्कारमूर्धनि ॥
हूङ्कारस्य शिखान्तस्थं
पुरुषं बीजविग्रहम् ।
ध्यात्वात्वेकाकिनं सूक्ष्मं
बिन्दुभूतं निरामयम् ॥
कालोत्तरे -
आत्मानं योजयेत् पश्चाच्
छिवे परमकारणे ।
शिखाग्रे द्वादशाङ्गुल्ये
शुद्धस्फटिकनिर्मले ॥
शिवतत्त्वे परे सूक्ष्मे
ज्योतीरूपे तु निष्कले ।
संहारमुद्रया चैव
हृदयेन तु योजयेत् ॥
तथा सुप्रभेदे -
संहारमुद्रयात्मानं
शिखाग्रे द्वादशाङ्गुले ।
पद्मस्थं योजयेद् विद्वान्
दशार्णेन क्रमेण तु ॥
आत्म-विभुत्वे गमनागमनम्
नन्वात्मनोऽपि व्यापकत्वेन गमनासम्भवात्
पुर्यष्टकद्वारेणात्र गमनभ्यलप?गन्तव्यं
तस्यापि शोद्ध्यत्वाद्
आत्मन? एकाकिम् इत्युक्तत्वाच् चन्स्या?त्मनस् तत्-पुर्यष्टक-विरहे द्वादशान्तस्थे शिवयोजनं कथं स्यात् ॥
अत्रोच्यते ।
शिवशक्त्यधिष्ठितया * * * * क्रियाशक्त्या सूक्ष्मदेहात् नयनम् उपनयनं तदुक्तम् ।
समानतन्त्रे शक्त्या तु नीयते मि * * * * इति ।
पुर्यष्टक त्यागे तु मन्त्रबिजवृत्या बिन्दुभूतस्स * * * * धिष्ठात्र्या शिवशक्त्या शिवपदे प्रवेशमात्मनोऽनुसदध्यात्? ।
तदुक्तं सर्वज्ञोत्तरे -
एकलक्षसुयन्त्रितः ।
एकीभावसमायुक्तं
प्रविशेच्छिवमव्ययम् ।
बीजवृत्त्या शिवे लीनस्
तत्त्ववृत्त्या तु तत्त्ववित् ॥
शोधयेत्तत्त्वसङ्घाभं
भूतानि च परस्परम् ।
सूक्ष्म-तत्त्व-संहारः
एवं बीजवृत्त्या शिवे लीनस्
सूक्ष्मदेह शुद्धये
संहारक्रमेण स्वेषु स्वेषु कारणेषु
पृथिव्यादीनि तत्त्वानि बिन्दुपर्यन्तं तत्त्वसमूहं लयं नयेत् ।
तद्यथा गन्धे पृथ्वी, रसे जलं, रूपे अग्निः, स्पर्शे वायुः, शब्दे व्योम,
एतास् तन्मात्रास् तामसाहङ्कारे,
वाक्पादपाणिपायुपस्थानि राजसाहङ्कारे,
श्रोत्रत्वक्चक्षुर्जिह्वा-घ्राणाख्यानि मनश्च सात्त्विकाहङ्कारे,
स च बुद्धौ,
सा गुणेषु, गुण-तत्त्वं प्रकृतौ,
सा रागविद्ये, च कलायां
पुंस्तत्त्वं च कालो नियतिः कला च मायायां विलीनानि विभाव्य
शुद्धविद्यातत्त्वम् ईश्वर-तत्त्वे
तत् सदाशिवतत्त्वे,
तच्-छक्तितत्त्वे, तच्छिवतत्त्वे,
तदप्यक्षुब्धरूपे बिन्दौ विलीनं भावयेत् ।
आचार्यैरप्युक्तम् -
गन्धे भूस् सलिलं रसे हुतवाहो रूपे मरुत् स्पर्शने
शब्दे स्यात् खम्, अहङ्कृतौ पुनरिमास् तन्मात्रिकास् तामसे ।
कर्माक्षाणि च राजसे, सह मनो बुद्धीन्द्रियैस् सात्त्विके,
बुद्धौ तच्च, गुणेषु सा, गुणगणो ऽव्यक्ते लयं गच्छति ॥
तद् रागविद्ये च कलां प्रयाति
पुंस्त्वं च कालो नियतिः कला च ।
मायां, सुविद्येशम् असौ, सदेशं,
सा शक्तिम्, एषा शिवम्, एष बिन्दुः ॥
इति
अत्र शिव-शब्देन शक्ति-तत्त्व-मस्तक-स्थ बिन्दु-तत्त्व-भुवनम् उच्यते ।
सङ्क्षेपः
एवं सूक्ष्मदेहशोधनं शक्तानां विस्तसरेण कर्तव्यम् ।
अनवसराक्रान्तानां रोगिणां च सङ्क्षेपेण कर्तव्यम् ॥
तद्यथा हृदयादिपद्मे स्थित-कारणेश-ब्रह्मादि-पञ्चके
शब्दस्पर्श-रूपरसगन्ध-बुद्ध्यहङ्कारमनोरूपपुर्यष्टकं लयं नयेत् ॥
तद् उक्तं सार्धत्रिंशतिकायाम् -
शब्दस्पर्शरूपं च रसो
गन्धं च पञ्चकम् ।
बुद्धिर् मनश्चाहङ्कारः?
पुर्य्-अष्टकम् उदाहृतम् ॥यावदेतैर् ननिर्मुक्तः
कथं मुच्येत बन्धनात् ।
ब्रह्मणि स्पर्श-शब्दौ तु
रसं वै केशवे त्यजेत् ॥रूपगन्धौ त्यजेद् रुद्रे
बुद्ध्यहङ्कारम् ईश्वरे ।
मनोबिन्दुं शिवे त्यक्त्वा
त्वेभिर्मुक्तश्शिवं व्रजेत् ॥
स्थूल-देह-शुद्धिः - विस्तारेण
तदनु बाह्य-शरीर-शुद्ध्य्-अर्थं
स्थूलादीनि पृथिव्यादीनि पञ्चभूतानि क्रमेण परस्परं शोधयेत् ।
भूतानां परस्पर-शोधनम्
पृथिवी वायुना
पार्थिवमण्डलं, पीतं, कठिनं, वज्रलाञ्छितं,
चतुरश्रं, लबीजं,
सद्योजातब्रह्मणा चाधिष्ठितं,
कारणेश्वर-ब्रह्मणा युक्तं,
हृदय-मन्त्रेण संयुतं,
निवृत्तिकलोपेतं,
पादुकादि-मूर्धान्तं व्यापकं सञ्चिन्त्य
ॐ ह्लां निवृत्तिकलायै हः हुं फड्
इति पु(पू?)रकपूर्वं सुषुम्नाया यावद्द्वादशान्तं प्राणवायुं प्रेरयित्वा
प्रतिनिवृत्त्य दक्षिणनाड्या विरेचयेत् ।
इत्य् उद्घातेन पञ्चकेन
गन्धरसरूपस्पर्शशब्दगुणान् उत्सार्य
पृथिवीं
शिवशक्ति-विशेषाधिष्ठान-बलेन
शोधकत्व-शक्तियुक्तेन स्वविरुद्ध-वायुना ऽभिभूतां
तदाकारां चिन्तयेत् ।
अत्रोद्घातलक्षणमुच्यते -
प्राणेनोच्चार्यमाणेन
अपानः पीड्यते यदा ।
गत्वा चोर्ध्वं निवर्तेत
एतदुद्घात लक्षणम् ॥
उक्तं च -
सन्निरोधे कृते संयग्
ऊर्ध्वं वायुः प्रवर्तते ।
उद्घात इति चाख्यातः
स्वेच्छया तु कनीयस
इति प्रत्युद्घातं पूरकाद्यास् त्रयः प्राणायामा अर्थ-सिद्धा एव ।
यद् उक्तम् -
श्रीमत्-त्रयोदशशतिके -
एवं पञ्चदश प्रोक्ताः
प्राणायामास् तु भूतगाः ।
वरुणस्य दश द्वे च
वायुभूतं विशोधयेत् ॥
इति ।
आपस् तेजसा
कठिनादि-स्वभावं विहाय,
पवन-तद्-अन्याप्यमण्डलं,
शुभ्रद्रवम्, अम्भोजलाञ्चितम्,
अर्धचन्द्रं, वंबीजं,
वामदेव-ब्रह्मणा ऽधिष्ठितं,
कारेणेश्वरविष्णुना युक्तं,
शिरो-मन्त्रेण संयुक्तं,
प्रतिष्ठा-कलोपेतम्, आपादमस्तक-व्यापकं सञ्चिन्त्य
ॐ ह्वीं प्रतिष्ठाकलायै हः हुं फड्
इति पूरक-पूर्वक-सुषुम्नया
यावद्-द्वादशान्तं प्राणवायुं प्रेरयित्वा
प्रतिनिवृत्त्य दक्षिणनाड्यां विरेच्य
इत्युद्घात चतुष्टयेन
रसादि-गुण-चतु-ष्टयम् उच्चार्य
जलं शिव-शक्त्य्-अधिष्ठानवशात् शोधकत्व-शक्ति-युक्तत्वेन
स्व-विरुद्धाग्नि-नाभि-भूतं तद्-आकारं चिन्तयेत् ।
तेजो ऽद्भिः
ततो वह्निमण्डलं, रक्तं, स्वस्तिकलाञ्छितम्,
अश्रं, रबीजम्,
अघोर-ब्रह्मणा ऽधिष्ठितं,
रुद्रकारणेन युक्तं,
शिखामन्त्रेण, संयुतं,
विद्या-कलोपेतं
चरणादि-मूर्धान्त-व्यापकं सञ्चिन्त्य
ॐ ह्रूं विद्याकलायै हः हुं फड्
इति पूरकपूर्वं सुषुम्नाया यावद्-द्वादशान्तं प्राणवायुं प्रेरयित्वा प्रतिनिवृत्त्य दक्षिण-नाड्यां विरेचयेत् ।
इत्य् उद्घातत्रयेण
रूपादिगुणत्रयम् उत्सार्य
वह्निं शिवशक्त्यधिष्ठान-बलेन शोधयित्वा
शक्ति-युक्तेन स्व-विरुद्ध-जलेनाभिभूतं तद्-आकारं भावयेत् ।
वायुः पृथिव्या
पश्चाद् वायु-मण्डलं, कृष्णं, षडश्रं,
बिन्दुलाञ्छितं, यबीजं,
तत्पुरुषब्रह्मणा ऽधिष्ठितम्,
ईश्वरकारणेन युक्तं,
कवचमन्त्रेण, संयुतं,
शान्ति-कलोपेतं
पादादिमूर्धान्तव्यापकं सञ्चिन्त्य
ॐ ह्यैं शान्तिकलायै हः हुं फड्
इति पूरकपूर्वं सुषुम्नाया यावद्-द्वादशान्तं प्राणवायुं प्रेरयित्वा
निवृत्त्य दक्षिणानाड्या विरेचयेद्,
इत्युद्घातद्वयेन स्पर्शादि-गुण-द्वयम् उत्सार्य
वायुं शिव-शक्त्य्-अधिष्ठान-सामर्थ्यात् शोधकत्व-शक्तियुक्तेन
स्वविरुद्ध-पृथिवीतत्त्वेनाभि-भूत-स्वरूपं तद्-आकारं भावयेत् ।
आकाशः परबिन्दुना
तद्-अन्व् आकाशमण्डलं, वृत्तं,
धूम्रवर्णं,
बिन्दुं, शक्तिलाञ्छितं, त्यक्तलाञ्छनं,
हं-बीजं,
नेत्रास्त्र-मन्त्र-संयुक्तम्, ईशान-ब्रह्मणाधिष्ठितं,
कारणेन सदाशिवेन संयुक्तं,
शान्त्यतीत-कलोपेतं
पादादि-मूर्धान्त-व्यापकं सञ्चिन्त्य
एकोद्घातेन शब्द-गुणम् उत्सार्य
शून्यरूपं नित्य-शुद्धत्वादि-रूपं विमुच्य
शिवशक्त्याधिष्ठित-परबिन्द्वभिभूतं
शुद्ध-स्फटिक-सन्निभं नित्यत्व-व्यापकत्व–शुद्धत्वादि-युक्त-परमाकाश-स्वरूपं भावयेत् ।
प्रमाणानि
तदुक्तम् - कामिके -
पार्थिवमण्डलं पीतं
वेदाश्रं वज्रलाञ्छितम् ।
लबीजं ब्रह्म-दैवत्यम्
अजात-हृदयान्वितम् ॥
निवृत्त्यात्मकलोपेतं
ह्लाम् इत्युद्घातपञ्चकम् ।आप्यम् इन्दुसिताब्जाङ्कं
विष्णुदैवं वबीजकम् ।
वामशीर्षक-संयुक्तं
कलयोत प्रतिष्ठया ॥
युक्तं चतुर्भिरुद्घातैर्
ह्वीमित्युच्चारपूर्वकम् ।वह्नेस् त्र्यश्रं सप्तशिखं
रक्ताभं रुद्रदैवतम् ॥
रार्णाघोरशिवायुक्तं
विद्याख्यकलयान्वितम् ।
युक्तं तत्त्रिभिर् उद्घातैर्
ह्रूमित्य् उच्चारपूर्वकम् ॥वायव्यं रसकोणे तु
बिन्दुषट्कम् अथासितम् ।
ईशाधिपत्यं यार्णं तद्+++(-पुरुष)+++-
वक्त्रं कवचसंयुतम् ॥
शान्त्या युक्तं द्विरुद्घातं
हैमित्य् उच्चार-पूर्वकम् ।आकाशं वर्तुलं त्यक्त-
लाञ्छनं धूम्रवर्णकम् ॥
सदेशाधिष्ठितं हामीहार्णम्
ईशास्त्रातीतसंयुतम् ।
एकोद्घातेन हौमुक्त्वा यथा ध्यानं प्रयोजयेत् ।कृत्वाभिध्यानमादौ तु
दहेद् देहम् अनन्तरम् ।
स्वनाभावथ भूतानां
परस्पर-विशोधनम् ॥
दाह-प्लावने
इत्थं निर्वाहक-भूत-व्रातस्य
गुण-क्षय-वशात् क्षीण-शक्तिकस्य
भूत-समुदायात्मकस्यारब्ध-शरीरस्य शोषां+++(=शेषांशं??)+++
दक्षिण-पादाङ्गुष्ठोत्थितेन शिवशक्त्याधिष्ठित-कालाग्निना
हुम्-फड्-अन्तास्त्रेण प्रदग्धान् भावयित्वा
पुनस् तद्-भस्म सिक्तेन वायुना पिण्डीकृत्वा प्लावयेत् ॥
तदुक्तम् -
सुप्रभेदे -
पादाङ्गुष्ठाच् छिखां यावन्
निर्दहेच् छुष्क-काष्ठवत् ।
विचिन्त्य भस्मीभूतं तु
पिण्डीकृत्वानिलेन तु ।
तस्मिन् प्रागुक्तममृतं
स्रवन्तं भस्मनि स्मरेत् ।
स्थूल-देह-शुद्धिः - सङ्क्षेपः
यद्वा - अशक्तानां सङ्क्षेपेण भूतशोधः कर्तव्या ।
विपरीत-वटवृक्ष-कल्पनम्
तद्यथा स्वदेहं पृथिव्यादि-पञ्चभूत-बीजं
ब्रह्म-विष्णुभ्याम् उत्पादिताङ्कुरं
पूर्वार्जितधर्ममूलं
विद्येश्वर-परिपालितं
कलादि-तत्त्व-सारं
तन्मात्रेन्द्रिय-शाखोपशाखं
शब्दादि-विषयालोचन-पल्लवं
भाव-प्रपञ्च-कुसुमं
बुद्ध्य्-अध्यवसाय-सङ्कल्प-फलं
पुरुष-विहङ्गोपभोग्यं
भोग्य-भोक्तृत्व-रसम् एव
वट-वृक्ष-साधर्र्म्याद् वृक्षभूतं शरीरम्
ऊर्ध्वमूलम् अधश्शाखं विभाव्य
वृक्षनाशः
षण्मात्रा-पूरक-पूर्वर्धेन
पार्थिव्या धारणया ह्लाम् इत्युच्चार-पञ्चकेन
पत्र-पुष्प-फल-रहितं स्तब्धं विचिन्त्य
पूरकापरार्धेन जलधारणया
ह्वीम् इत्य् उच्चारचतुष्टयेन स्निग्ध-पत्रपुष्प-फलोपेतं विभाव्य
द्वादश-मात्र-कुम्भकेनाग्नि-धारणया
ह्रूम् इत्य् ऊच्चार-त्रितयेनाप्य+++(=??-)+++-पादाङ्गुष्ठोत्थित-कालाग्निना शुष्कं दग्धं च विभाव्य
रेचक-पूर्वार्धेन वायु-धारणया
ह्यैम् इत्युच्चारद्वयेन भस्मीभूतं
दशदिक्षु प्रलीनं विभाव्य
रेचकपरार्धेन नाभस्या धारणया
ह्लौम् इत्य् एकोच्चारेण
शुद्ध-स्फटिक-रूपं परम-व्योम-रूपं चिन्तयेत् ।
प्रमाणानि
तदुक्तम् -
सिद्धतन्त्रे -
स्वदेहं भूतबीजं च
ब्रह्म-विष्णु-भिद्-अङ्कुरम् ।
सुमा भावाः, कला सारं,
विषयोपदलसंयुक्तं
तन्मात्रशाखया युक्तं
पुंविहङ्गोप-भोग्यकम् ।
अचिन्त्यविश्वसादाख्ये -
अथवा स्वशरीरं च
वटवृक्षादिकं स्मरन् ।
ऊर्ध्वमूलम् अधःशाखं
कल्प्य संसारपादपम् ॥
कामिके -
पूरकार्धेन पार्थिव्या
हेयोपादेयवित् सुधीः ।
आप्यायितं तद्वदणुं
पूरकापरभागतः ॥पत्रपुष्पफलोपेतं
स्निग्धं वैराग्यशस्त्रतः ।
छेदयित्वा तदा वह्न्या
कुम्भकेन विशोष्य च ॥ज्ञानानलेन निर्दग्धं पादाङ्गुष्ठादिकान्तकम् ।
रेचकेनाथ वायव्य-
भस्मीभूतं दिशो दशः ॥
प्रलीनमन्यथा शुद्धं
निर्मलं व्योम भावयेत् ।
तथा - सिद्धान्तसारावल्याम् आचार्यैरप्युक्तम् -
स्वदेहं भूत-बीजं हरि-विधि-रचित-स्वाङ्कुरं कर्म-मूलं
भव्यं कालादिसारं विषय-दलगतं खादिशाखोपशाखम् ।
भावाशेष-प्रसूनं व्यवसित-सुफलं पुं-विहङ्गोपभोग्यं
न्यग्रोधं चोर्ध्व-मूलं विषय-रसम् अवाक् शाखिनं भावयेच्च ॥
कुम्भापूरक-रेचकार्ध-युगलैर् ह्लामादिमन्त्रान् पठन् पृथिव्यादिस्थगुणस्थितिं क्रमयुतं पुत्राद्ययोगाद्युतात् च्छो(शो?)षाद्दाहकभस्म तद्व्यपनयाच्छुद्धो नदो भावनात् ॥
इति ।
शरीर-प्लावनम्
ततोऽनु सर्वं वस्तु बन्धक-द्वयावृत्तम् ईषत्-कल्पम् इति विभाव्य
वौषड्-अन्त-मूलेन द्वादशान्तस्थं
शिव-शक्त्या नित्याधिष्ठेय-रूपस्य परमामृत-रूपस्य सर्वाधारत्वेन स्थितस्य शिखान्त-स्थस्यापर-बिन्दोः
सकल-नाडी-मुखं प्रविष्टाभिर्
अधोमुख-पद्म-स्रवद्-अमृत-धाराभिः सृष्टिक्रमेण सबाह्याभ्यन्तरं सर्वशरीरम् आप्लाव्य
सूक्ष्म-देह-प्रत्यानयनादि
ततः द्वादशान्तस्य संशुद्ध-विद्यात्मक-सूक्ष्म-देहस्यात्मनः
पुनर् अन्तर् हृदि विन्यासार्थम्
आधार-शक्ति–धर्म-ज्ञान–वैराग्यैश्वर्य-पद्मैः शुद्ध-विद्यात्मकं योगपीठम् आसनम्
अकारादि-मात्रा-त्रय-युक्त-प्रणवेन सङ्कल्प्य
कर्णिकायां पुर्य्-अष्टकं चतुष्-कले प्रणवेनावतीर्णं भावयित्वा
तस्मिन् पुर्यष्टक-देहे द्वादशान्त-स्थित-रूपं सान्त+++(=??)+++-बीजं यमात्मानं
पञ्चकलेन प्रणवेन पूरकेण
ॐ हूं हां हं हां हूम् आत्मने नमः
इत्यनेन मन्त्रेण
सृष्ट्या पुष्पेण समानीय
तत्रस्थं जीवं स्रवद्-अमृत-धारा-भेदित-ब्रह्म-र?न्ध्राद्
अ?धो-मुख-प्रणव-ध्यानेन सोम-मण्डलात्मके दिव्यामृत-जल-प्रवाहेणाभिषिञ्चेत् ।
तथा सर्वज्ञानोत्तरे -
धर्मं ज्ञानं च वैराग्यम्
ऐश्वर्यं च चतुष्टयम् ।
योगपीठं च पद्मं च
प्रणवेन तु विन्यसेत् ॥
तत स्वाप्यायनं कुर्यात्
प्रणवं ध्यायेद् अधोमुखम् ।
स्रवन्तम् अमृतधाराभिस्
सुषुम्नाभिन्न-मस्तकम् ॥
कर-चरणाद्य्-अवयव-न्यासः
अन्यत्र पुनर् आप्लावनं कृत्वा
करचरणाद्यवयव-न्यासं समारभेत् ।
तदनु विशिष्टायाः शान्तमूर्तेर्न्यासः करणीयः ।
तत्र क्रमः शिवासनं व्यक्तां शिवमूर्तिं च स्वमन्त्राभ्यां हृदये विन्यस्य क्रमेण पञ्चब्रह्मभिरङ्ग-
भङ्गिवक्त्रभङ्गीश्च विन्यस्य कलाभङ्गिन्यासं श्रीकण्ठन्यासं च कुर्यात् ।
तद्यथा - मुष्टेरङ्गुष्ठाग्रतः ॐ होम् ईशानाय नम इति मूर्तिवत् ।
अङ्गुष्ठतर्जनीभ्यां ॐ हें तत्पुरुषाय नमः इति मुखे ।
अङ्गुष्ठामध्यमाभ्यां ॐ हुम् अघोराय नमः इति हृदये ।
अङ्गुष्ठानामिकाभ्यां ॐ हिं वामदेवाय नम इति नाभौ ।
अङ्गुष्ठकनिष्ठिकाभ्यां ॐ हं सद्योजाताय नमः इति पादे विन्यसेत् ।
तदुक्तम् -
कामिके -
ईशानमूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ॥
सद्योजातं न्यसेत्पादे तत्तन्मुद्रासमन्वितम् ।
इति दण्डभङ्गिन्यासः ॥
अथ वक्त्रभङ्गिन्यासः -
ऊर्ध्वपूर्वदक्षिणोत्तरपश्चिमवक्त्रेषु खण्डान्येव ब्रह्माणि वक्त्रभङ्ग्या न्यसेत् ।
मुष्टिं बध्वा भद्रमुद्रया ऊर्ध्वमूर्ध्नि पुष्प पूर्वं ॐ होम् ईशानाय नमः इति विन्यस्य अङ्गुष्ठतर्जनीभ्यां ॐ हें तत्पुरुषाय नमः इति पूर्वमूर्धनि अङ्गुष्ठमध्यमाभ्यां ॐ हुम् अघोराय नमः इति दक्षिणमूर्धनि अङ्गुठानामिकाभ्यां ॐ हिं वामदेवाय नमः इत्युत्तरमूर्धनि अङ्गुष्ठकनिष्ठिकाभ्यां
ॐ हं सद्योजाताय नमः इति पश्चिम मूर्ध्नि एवं न्यसेत् ॥
यच्चा(द्वा?) - खण्डान्येव माला ब्रह्माणि विन्यसेत् ।
कामिके -
ऊर्ध्वेन्द्रयाम्यसौम्याप्य वक्त्रेष्वीशादितो न्यसेत् इति वक्त्रभङ्गिन्यासः ॥
अथ कलाभङ्गिन्यासः ॥
प्रयोग उच्यते ।
ॐ होम् ईशानः सर्वविद्यानां शशिन्यै नमः ऊर्ध्वमूर्धनि ।
ॐ होम् ईश्वरस्सर्वभूतानाम् अङ्गतायै नमः इति पूर्वमूर्ध्नि ।
ॐ हों ब्रह्माधिपति ब्रह्मणो धिपति ब्रह्मा इष्टायै नमः इति दक्षिणमूर्ध्नि ।
ॐ हों शिवो मे अस्तु मरिच्यै नमः इति वाममूर्ध्नि ।
ॐ हों सदाशिवो ज्वालिन्यै नमः इति पश्चिममूर्ध्नि ।
एवमीशान कलापञ्चकम् ॥
ॐ हें तत्पुरुषाय विद्महे शान्त्यै नमः इति पूर्ववक्त्रे ।
ॐ हें महादेवाय धीमहि विद्यायै नमः इति दक्षिणवक्त्रे ।
ॐ हें तन्नो रुद्रः प्रतिष्ठायै नमः इत्युत्तरवक्त्रे ।
ॐ हें प्रचोदयान्निवृत्यै नमः इति पश्चिमवक्त्रे ।
इति तत्पुरुषकलाश्चतस्रः ।
ॐ हुम् अघोरेभ्यस्तमायै नमः इति हृदये ।
ॐ हुम् अघोरेभ्यो मोहायै नमः इति
कण्ठे ।
ॐ हुम् अघोर रक्षायै नमः इति दक्षिणांसे ।
ॐ हुं घोरतरेभ्यो निष्ठायै नमः इति वामांसे ।
ॐ हुं सर्वतस्सर्वमृत्यवे नमः इति नाभौ ।
ॐ हुं सर्वेभ्यो मायायै नमः इति जठरे ।
ॐ हुं नमस्ते अस्तु रुद्र भयायै नमः इति पृष्ठे ।
ॐ हुं रूपेभ्यो ज्वरायै नमः इति वक्षसि ।
इति बहुरूपकलाष्टकम् ॥
ॐ हिं वामदेव नमो रजायै नमः इति गुह्ये ।
ॐ हिं ज्येष्ठाय नमो रक्षायै नमः इति वृषणद्वये ।
ॐ हिं रुद्राय नमो ऋत्यै नमः इति दक्षिण ऊरौ ।
ॐ हिं
कालाय पालिन्यै नमः इति वामोरौ ।
ॐ हिं कलाकाम्यै नमः इति दक्षिणजानुनि ।
ॐ हिं वकरणाय संयमिन्यै नमः इति वामजानुनि ।
ॐ हिं बल क्रियायै नमः इति दक्षिणजङ्घायाम् ।
ॐ हिं विकरणाय नमो बुध्यै नमः इति वामजङ्घायाम् ।
ॐ हिं बल कार्यैनमः इति दक्षिणास्फचि ।
ॐ हि प्रथमनाय नमो धात्र्यै नमः इति वामास्फचि ।
ॐ हिं सर्वभूतदमनाय नमो ब्रह्मण्यै नमः इति कट्याम् ।
ॐ हिं मनो मोहिन्यै नमः इति दक्षिणपार्श्वे ।
ॐ हिम् उन्मनाय नमो भवायै नमः इति
वामपार्श्वे ।
इति वामदेवकलात्रयोदश ।
ॐ हं सद्योजातं प्रपद्यामि सिद्ध्यै नमः इति दक्षपादे ।
ॐ हं सद्योजाताय वै नमो ऋद्धयै नमः इति वामपादे ।
ॐ हं भवे द्रु?वै नमः इति दक्षकरे ।
ॐ हम् अभवे लक्ष्म्यै नमः इति वामकरे ।
ॐ हम् अनादिभवे मेधायै नमः इति घ्राणे ।
ॐ हं भजस्व मां कान्त्यै नमः इति शिरसि ।
ॐ हं भवस्वधायै नमः इति दक्षिणबाहौ ।
ॐ हम् उद्भवाय नमो धृत्यै नमः इति वामबाहौ ।
इति सद्योजात कलाष्टकम् ।
एवं सकलीकरणात् स्वस्वमुद्राभिरष्टत्रिंशत्कलान्यासः ॥
अष्टत्रिंशत्कलान्यासं विन्यसेन्नन्दिकेश्वर ।
ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कलाः ॥
अघोरास्य कलाश्चाष्टौ वामदेवेन? त्रयोदश ।
अष्टौ सद्यकला ज्ञेया मकुटादिक्रमान्न्यसेत् ॥
ईशाशश्चेश्वरो ब्रह्मा शिवश्चेति सदाशिवा ।
तत्पुरुषो महादेवा तन्नोरुद्रः प्रचोदयात् ॥
अघोरश्चाथ घोरश्च ततोघोरस्तथैव च ।
ततो घोरतरेभ्यश्च सर्वतस्सर्व इत्यपि ॥
सर्वेभ्यश्च नमस्तेऽस्तु रुद्रश्चाष्ट कला स्मृताः ।
वामो ज्येष्ठश्च रुद्रश्च कालं कलविकरणस्तथा ॥
बल विकरणो बल प्रमथन सर्वभूतदमनस्तथा ।
मनश्च उन्मनश्चैव वामदेवकलाः स्मृताः ॥
सद्योजातश्च सद्यश्च भवश्चा भव एव च ।
तथानादिभवश्चैव भजस्वं भवदुद्भवः ॥
?
अष्टत्रिंशत्कलाः प्रोक्ताः कला शक्तिरथोच्यते ।
शशिनी चाङ्गदा चेष्टा मरीची ज्वालिनी तथा ॥
एताः पञ्च कलाशक्ति पञ्चमूर्ध्नोपरि न्यसेत् ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥
एवं चतुष्कलाशक्तिरीरिताश्चैव वक्त्रके ।
तमा मोहा क्षया निष्ठा धृतिः क्षान्तिः स्मृतिः क्षया ।
अघोरश्चाष्टशक्तिश्च वामदेवस्ततोच्य?ते ॥
रजा रक्ष्मा रतिः पाल्या माया संयमिनी क्रिया ।
[ध्यान पुरस्सरं कुर्यात्तदुक्तम् -
वायव्यसंहितायाम् -
/
।
यथामातृकमत्र लिखितम् ॥
परन्तु [ ] अत्रान्तर्गतो भागः अष्टत्रिंशत्कलान्यासनिगमने भविताय इति भाति ॥
] ॥
कलारूपाणि सर्वाणि त्रिणेत्राणि चतुभुजाम्? ।
अभयं वरदं चैव शूलं पारशु धारिणम् ॥
कलारूपेषु सर्वेषु वामाद्याश्शक्तयः स्मृताः ।
अष्टत्रिंशत्कलान्यासम् अष्टत्रिंशच्च शक्तयः ॥
एवं शक्तिसमोपेतं न्यासकाले तु विन्यसेत् ।
] बुद्धिः कार्या च धात्री च भ्रामिणी मोहिनीति च ॥
मनोन्मनीति चाख्याता वामदेवस्त्रयोदश ।
सिद्धिन्तुद्धिद्युतिर्लक्ष्मी मेधाकान्तिस्वधा धृतिः ॥
सद्यश्चाष्टकलाशक्तिरीरिता नन्दिकेश्वर ।
ईशानस्य कलाः पञ्च ऊर्ध्ववक्त्रादिपञ्चके ॥
अघोरं हृदये कण्ठे सव्यवामांसके तथा ।
नाभौ च जठरे पृष्ठे वक्ष्यस्यपि तथैव च ॥
वामदेवं च गुह्ये च तथैव वृषणद्वये ।
ऊरुद्वये च जान्वोश्च जङ्घागुम्मैस्तथैव च?(युग्मे तथैव च) ॥
स्फिद्वद्वे(स्फिग्द्वन्द्वे च?) कटीदेशे पार्श्वयोर्विन्यसेत्क्रमात् ।
सद्योजातं पदद्वन्द्वे पाणिद्वन्द्वे तथैव च ॥
नासिकायां शिरोदेशे बाहुयुग्मे च विन्यसेत् ।
सद्योजातकला योज्या मन्त्रान्ताश्च कला यथा ॥
चिन्त्ये -
अष्टत्रिंशत्कलान्यास कलाशक्ति समन्वितम् ।
कलाः पुमांसः स्युस्त्रिंशत्तत्कला शक्तयो भवेत् ॥
शिव शक्ति? तयोस्सोऽयम् एतश्च निष्कलो भवेत् ।
अष्टत्रिंशत्कलाशक्ति लिङ्गपूजकयो न्यसेत् ॥
महेशप्रतिमादीनामेकत्रिंशत्कला न्यसेत् ।
अष्टत्रिंशत्कले?ष्वेषु देवीनां पञ्चविंशतिः ।
अष्टत्रिंशत्कला ह्येवं सर्वेषां न्यासमुत्तमम् ॥
सिद्धान्तसारावल्यां -
मूर्धानः पञ्चवक्त्रा ह्यथ हृदयगलद्व्यंसनाभी च कुक्षिपृष्ठोरो गुह्यशिश्नौ ऊरू(रु?)युगलमपरो जानुयुग्मं च जङ्घे ।
द्विस्फिक् अन्या च पार्श्वे चरण करयुग घ्राणा मौली च बाहु स्थानानि स्युः कलना शिव तनुकरणे त्रिंशतामष्टकानाम् ॥
अथ श्रीकण्ठन्यासः ॐ अं श्रीखण्ठो पूर्णो?दर्यै नमः इति कान्ते ।
ॐ आम् अनन्ताय विरजायै नमः ललाटे ।
इं सूक्ष्माय शाल्यै नमः दक्षिणनेत्रे ।
ईं त्रिमूर्तये लोलाक्ष्यै नमः वामनेत्रे ।
ॐ उं महेश्वराय वर्तुलायै नमः दक्षिणश्रोत्रे ।
ॐ ऊम् अर्घीशाय दीर्घकोणायै नमः वामकरेणे ।
ॐ ऋं भारभूतये दीवत्मुख्यै नमः दक्षिणनासापुटे ।
ॐ ऋं तिथीशाय गोमुख्यै नमः वामनासापुटे ।
ॐ ऌं स्थाणवे दीर्घजिह्वायै नमः दक्षिणगण्डे ।
ॐ ॡं भाराय कण्ठोदर्यै नमः वामगण्डे ।
ॐ ऐं चण्डीशाय ऊर्ध्वकेशिन्यै नमः उत्तरोष्ठे ।
ॐ ऐं भौतिकाय विकृतमुख्यै नमः अधरोष्ठे ।
ॐ ॐ सद्योजाताय ज्वालामुख्यै नमः ऊर्ध्वदन्ते ।
ॐ औम् अनुग्रहेशाय उल्कामुख्यै नमः अधोदन्ते ।
ॐ अम् अक्रूराय श्रीमुखयै मूर्ध्नि ।
ॐ अः महासेनाय विद्यामुख्यै नमः आस्ये ।
ॐ कं क्रोधीशाय महाकाल्यै नमः दक्षिणबाहुमूले ।
ॐ खं चण्डीशाय सरस्वत्यै नमः कोर्परे ।
ॐ गं पञ्चान्तकाय सर्व सर्व सिद्धिगौर्यै नमः मणिबन्धे ।
ॐ घं शिवोत्तमाय त्रैलोक्यविद्यायै नमः पाणितले ।
ॐ डम् एकरुद्राय मन्त्रशक्त्यै नमः दक्षिण कराग्रे ।
ॐ चं कूर्मायात्मशक्तये नमः वामबाहुमूले ।
ॐ छम् एकनेत्राय भूतमात्रे नमः कोर्परे ।
ॐ जं चतुर्मुखाय लम्बोदर्यै नमः मणिबन्धे ।
ॐ झम् अजेशायद्राविण्यै नमः पाणितले ।
ॐ ञं शर्वाय नगर्यै नमः वामकराग्रे ।
ॐ टं सोमेश्वराय
खेचर्यै नमः दक्षिणोरुमूले ।
ॐ ठं लाङ्गलिने मञ्जर्यै नमः जानुनि ।
ॐ डं दारुकाय विरुपिण्यै नमः जङ्घाग्रे ।
ॐ टम् अर्धनारीश्वराय? विरिण्यै? नमः पादतले ।
ॐ णम् उमाकान्ताय काकोदर्यै नमः दक्षिणपादाग्रे ।
ॐ तम् आषाढाय पूतन्यै नमः वामोरुमूले ।
ॐ थं दण्डिने भद्रकाल्यै नमः जानुनि ।
ॐ दम् अतृतीय योगिन्यै नमः जङ्घाग्रे ।
ॐ धं मीनाय शङ्खिन्यै नमः पादतले ।
ॐ नं मेषाय गजिन्यै नमः वामपादाग्रे ।
ॐ पं लोहिताय कालरात्र्यै नमः दक्षिणपार्श्वे ।
ॐ फं शिखिने कुब्जिन्यै नमः
वामपार्श्वे ।
ॐ बं च्छगरण्डाय कपर्दिन्यै नमः पृष्ठभागे ।
ॐ भं द्विरण्डाय भद्रायै नमः नाभिदेशे ।
ॐ मं महाकालाय जयायै नमः हृदे(दि?) ।
ॐ यं त्वगात्मने बलिने सुमुख्यैश्वर्यै नमः त्वचि ।
ॐ रं रक्तात्मने भुजङ्गेशाय रेवत्यै नमः रुधिरगोचरे ।
ॐ लं मांसात्मने पिनाकिने माधव्यै नमः मांसे ।
ॐ वं मेदोमयाय खर्वीशाय वारुण्यै नमः मेदसि ।
ॐ शम् अस्थ्यात्मने बकेशाय वायव्यै नमः अस्थिनि ।
ॐ षं मज्जात्मने श्वेताय रक्षोवधारिण्यै नमः मज्जास्थाने ।
ॐ सं शुक्लात्मने भ्रुकुटीशायै नमः रेतसि ।
ॐ हं प्रणवात्मने लकुलीशाय लक्ष्म्यै नमः हृदये ।
अर्धनारीश्वरस्सोम स्कन्दश्चाषाढदण्डिनौ ।
अत्रिमीनश्च मेषश्च लोहितश्च शिखी तथा ॥
छगरण्डो द्विरण्डश्च महाकालस्य?गात्मनौ ।
भुजङ्गेशः पिनाकी च खड्गीशश्च वा पुनः ॥
रक्षश्शुकश्च लकुली शिव संवर्तक स्मृतः ।
पूर्णोदरी च विरजा तृतीयो शाल्मली भवेत् ॥
लोलाक्षी वर्तुला चैव दीर्घकोणा तथैव च ।
शाखिनी गर्जिनी कालरात्री कुब्जरथैव च ॥
कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी ।
रेवती माधवी चैव वारुणी वायवी तथा ॥
रक्षोवधारिणी चान्या तथैव सहजाचधः ।
लक्ष्मीश्च व्यापिनी माया चाख्याता वर्णशक्तयः ॥
एताभिश्शक्तिभिस्सार्धं विन्यसेदक्षरान्क्रमात् ।
अकारमूर्ध्नि विन्यस्य आकारमुखवृत्तके ॥
इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके ।
उकारं दक्षिणे कर्णे ऊकारं वामकर्णिके ॥
ऋकारं दक्षनासे च ॠकारं वामनासके ।
ऌकारं दक्षिणगण्डे ॡकारं वामगण्डके ॥
एकारं तु तथोर्ध्वोष्ठे ऐकारमधरे ततः ।
ओकारमूर्ध्वदन्तौघे औकारमधदन्तके ॥
अङ्कारतालुमूले च अःकारं तालुमध्यगे ।
एवं विधिः क्रमेणैव विन्यसेत्षोडशस्वरान् ॥
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ।
टवर्गं दक्षिणेपादे तवर्गं वामपादके ॥
पकारं दक्षिणे पार्श्वे फकारं वामपार्श्वके ।
बकारं पृष्ठदेशे तु भकारं नाभ्यधस्ततः ॥
नाभौ मकारं तस्योर्ध्वे यकारार्णादिसप्तकान् ।
त्वगसृङ्मांसे मेदोऽस्थिमज्जाशुक्लादिधातुषु ॥
हकारं हृदये न्यस्य लकारं गुददेशतः ।
क्षकारं गुह्यके न्यस्य न्यासमन्त्रसमन्वितम् ॥
अथवान्तर्यजनं कुर्यात् ।
सिद्धान्ते -
अन्तर्यागं पुरा कृत्वा बाह्यपुजामथारभेत् ।
ज्योतिर्लिङ्गं हृदिस्थायत् तथैवान्यर्च्यते बहिः ॥
यस्मात्तस्मात्पुरा कार्यम् अन्तर्यागमिहोच्यते ।
शिवधर्मोत्तरे -
अकृत्वा मानसं यागं योबहिर्यागमाचरेत् ।
वृथा परिश्रमस्तस्य शास्त्रजालेऽपि निश्चयः ॥
आत्मस्थं यश्शिवं त्यक्त्वा बहिष्ठं यजते शिवम् ।
हस्तस्थं पिण्डमुत्सृज्य लिहेत्कोर्परमात्मनः ॥
कामिके -
पूजाहोमसमाधीनां स्थानानि परिकल्पयेत् ।
हृदयेऽर्चाविधानं तु नाभौ होमं प्रकल्पयेत् ॥
ललाटे चेश्वरं ध्यायेद्वरदं सर्वतो मुखम् ।
हृदये कल्पयेद्धाम चैश्वरावाहन क्रमात् ॥
आसनं कल्पयेत्तत्र वक्ष्यमाणविधानतः ।
तदुक्तम् - निश्श्वासे -
कदलीपुष्पसङ्काशं हृदयं सर्वदेहिनाम् ।
सुप्रभेदे -
पार्थिवाण्डमयस्कन्दं माप्यादिं नालमेव च ।
प्रधान तत्त्वपर्यन्तं तन्नालं कण्टकान्वितम् ॥
निश्श्वासे -
पद्मनालं नवद्वारं समन्तात्परिकीर्तितम् ।
नालमष्टाङ्गुलं विद्याद् ग्रन्थि ग्रन्थि भिधीयते? ॥
शिवधर्मोत्तरे -
पद्मपत्राष्टकं ज्ञेयमणिमादिगुणावृतम् ।
भीमसंहितायाम् -
आवृतेषु दलेष्वष्टौ ॐ शिवाय नमो नमः ।
इन्द्रादीशानपर्यन्तं न्यसेदष्टाक्षरं क्रमात् ॥
कालोत्तरे -
मार्ताण्डोदयसङ्काशष्षोडशैर्दलशोभितम् ।
वतस्तिमात्रं पद्मं च कर्णिका चतुरङ्गुलम् ॥
पञ्चाशत्परमं बीजं गद्यो?नीं परात्परम् ।
निश्वासे -
अङ्गुष्ठपर्वतुल्या तु कर्णिका केसरैर्युतम् ।
मतङ्गे -
विद्यातत्त्वमयीं तस्य कर्णिकां परिचिन्तयेत् ।
मन्त्राश्च केसराणि स्युर्विद्याया ये प्रतिष्ठिताः ॥
निश्वासे -
किञ्चिद्धीनन्तरं? सूर्यं सूर्यात्सोमस्तथैव च ।
सोमादूर्ध्वं विजानीयाद्वह्निमण्डलमुत्तमम् ॥
कर्णिकायां भवेत्सूर्यास्तस्य मध्ये तु चन्द्रमाः ।
तस्य मध्ये भवेद्वह्निस्तस्य मध्ये महेश्वरः ।
सुप्रभेदे -
ततश्शिवमयं ध्यायेदष्टत्रिंशत्कलामयम् ॥
निश्वासे -
सदाशिवो महेशस्य तस्यापि परतः शिवः ।
उक्तं च ।
सदाशिवं महात्मानं तस्याप्यूर्ध्वं परात्परम् ।
सितं सुनिर्मलं दिव्यमग्राह्यं परमं शिवम् ॥
कामिके -
मनसा कल्पितं दिव्यैर्मनः कल्पे तु मन्दिरे ।
मनसा भावं नि?त्यं पूजयेत्परमेश्वरम् ॥
ध्यायन् गरुत्मतां यद्वत् गुरून्निर्वाणता फलम् ।
प्राप्नोति तद्वदत्रापि फलमिष्टमवाप्नुयात् ॥
सुप्रभेदे -
आसनादीनि सर्वाणि तथैवाभरणानि च ।
हृत्पद्मे कल्पयेद्विद्वान्यथोक्तं तु यथाक्रमः ॥
गन्धार्घ्यैरुपचारैस्तु मनसा कल्प्य पूजयेत् ।
तदुक्तम् - श्रीमत्किरणे -
वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः ।
वानस्पत्यं पुनष्षष्ठं प्राजापत्यं च सप्तमम् ॥
अष्टमं शिवपुष्पं तु शृणु तेषां विनिर्णयम् ।
वारिजम् सलिलं ज्ञेयं सौम्यं घृतपयोदधि ।
आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् ॥
पार्थिवं कन्दमूलाद्यं वानस्पत्यफलान्वितम् ।
प्राजापत्यं यतन्ना?ट्यं श्रद्धाख्यं शिवपुष्पकम् ॥
इत्येतैरष्टभिः पुष्पैः शिवं सम्पूजयेत्सदा ।
तथा कामिके -
पार्थिवाद्यष्टपुष्पाख्ये तत्त्वं प्रातस्समर्चयेत् ।
पार्थिवं सकलं गन्धो भवत्यापोऽभिषेचनम् ॥
ता एव पाने नैवेद्ये तैजसीन्दी?पमालिका ।
वायव्यं तालवृन्ताद्यं गीताद्यं व्योमसम्भवम् ।
एवं चेतरतत्त्वानि यथा योगं निवेद्य च ॥
शिवेनैकमतां ध्यात्वा तदाज्ञया नाभिकुण्डस्थं शिवाग्निं यजेत् ।
तदुक्तम् -
कामिके -
नाभिकुण्डे स्वभावोर्थे तर्पयेत्परमामृतैः ।
इदं? दीप्य च निजं वह्निं संरुध्यं पानवर्जितः ॥
चिन्त्यविश्वसादाख्ये -
पिङ्गलानाडिचारेण नाभिकुण्डे स्वकोदि?तम् ।
शिवाग्निं पूजयेत्तत्र बलिं याजनवत्क्रमात् ॥
इडाया पूरका कृष्य सुधया च शिवाणुभिः ।
उक्तं च -
ज्ञानानलं न्यसेत्तत्र सूर्यायुत समप्रभम् ।
हृत्पुण्डरीकमध्या?त्वा सुषुम्नेन पथानलम् ॥
द्वादशान्ते पदे योज्य तत्तेजः पुञ्जपिञ्जरम् ।
तेन विन्यस्तमात्रेण सर्वकर्मार्हको भवेत् ॥
अन्तः पूजितदेवाय तत्समर्प्य यथाविधि ।
अष्टपुष्पिकया पूज्य ततःश्रुपूजाणां समाप्य? च ॥
कामिके -
स्थाणुस्थाने स्मरेल्लिङ्गं स्फटिकाभं महोण्ज्वलम् ।
तम्माध्याङ्गं? शिवं ध्यात्वा तदेकं भावमाश्रितम् ॥
तथा चिन्त्यविश्वसादाख्ये -
शिवा बिन्दुप्रतीकाशं बिन्दुरूपं महेश्वरम् ।
ललाटे देशमध्यस्थं विकल्पं चिन्तयेत्सदा ॥
शिवधर्मोत्तरे -
माज्यमाणो यथा नित्यं दर्पणे निर्मलो भवेत् ।
ज्ञानाभ्यासात्तथा पुंसां बुद्धिर्भवति निर्मला ॥
अन्तर्यागं समाख्यातमात्मशुद्धिः प्रकीर्तितम् ।
अन्तर्यागोपचारेण यः पूजयति शङ्करम् ॥
ध्यानयज्ञेन सततं स याति परमां गतिम् ।
यद्वा वातुले -
नाभिमूलोद्भवं नालमष्टाङ्गुलमथायुतम् ।
द्वादशाङ्गुलविस्तीर्णं सितपद्मं विचिन्तयेत् ॥
धर्मज्ञानं तथा नालं वैराग्यं कर्णिका गुहे(ह?) ।
ऐश्वर्याष्टदलोपेत कर्णिकाकेसरैर्युतम् ॥
तत्पद्मकर्णिकामध्ये लिङ्गं मणिमयं शिवम् ।
स्कन्दकालोत्तरे -
प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ।
एतत्समाधिरुद्दिष्टं? प्रशंसन्ति मनीषिणम् ॥
तदनु स्थानशुद्धिं कुर्यात् ॥
तद्द्विविधम् स्थानशुद्धिः किमर्थमिति चेत् ।
उच्यते ।
उग्ररूपपिशाचरूप विघ्न निवृत्तिरस्यां प्रयोजनम् ।
तदुक्तं परमेश्वरे? -
उग्रभूतपिशाख्या इह मे भूमिघातकाः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥
अस्यायं क्रमः हृद्युर्ध्वमुखौ करौ कृत्वा ॐ हाम् अस्त्राय हुं फडिति तालत्रयं कृत्वा छोटिकया दशदिक्षु विघ्नानुत्सार्यास्त्रेण ज्वलदग्निवर्णं प्राकारं च कृत्वा तद्वाह्ये ॐ ह्यैं कवचाय नमः इति दक्षिणे तर्जनीभ्रमणेन खायिकां? कृत्वा वौषडन्तमन्त्रेण शक्तिजालमूर्ध्न्यो? यो विभाव्य महामुद्रां प्रदर्शयेत् ॥
कालोत्तरे -
बाह्ययागप्रसिद्ध्यर्थं स्थान शुद्धिमथाचरेत् ।
अस्त्रेणोच्चाटयेद्विघ्नान्ताल शब्दत्रयेण तु ॥
छोटिकाभिर्दिशाबन्धं प्राकारं चास्त्रमन्त्रतः ।
खायिकां कवचेनाथ कृत्वा बाह्याभ्यन्तस्थलम् ।
शक्तिमुद्रां ततो बध्वा शक्तिप्रोक्तमयं स्मरेत् ॥
॥
अथ द्रव्यशुद्धिः ॥
ननु द्रव्यशुद्ध्या किं साध्यते ।
जलादि द्रव्याणां स्वत एव शुद्धत्वादिति चेन्न ।
अशुद्धभुवनोत्पन्नमाये यस्य द्रव्यजातस्याशिवतया शिवभोगानर्हत्वात् ।
न च व्यापकशिवसम्बन्धाच्छिवत्वं तस्येति वाच्यम् ।
शिवस्य पुष्करपर्णानिनिर्ले?पतया द्रव्यसम्पृक्तत्वाभावात् ।
ततः शुद्धिरवश्यं कार्या ॥
तदुक्तं - क्रियासङ्ग्रहे -
मायेयरूपसन्त्यागादात्तशक्ति स्वरूपतः ।
शिवभोग्यं भवेद्द्रव्यं सा क्रिया द्रव्यशोधनम् ॥
तद्यथा -
अशिवश्शिवकर्माणि नैव कुर्यात्कदाचन ।
शिवेनाधिष्ठितं द्रव्यं शिवाय परिकल्पयेत् ॥
द्रव्याणि प्रोक्षयेत्तेन यज्ञार्थे कल्पिता न तु ।
अप्रोक्षितं न दातव्यमनिर्देश्यं च वै शिवे ॥
पूजाङ्गद्रव्याणि चोक्तानि यथा सुप्रभेदे
पाद्यं चाचमनं चार्घ्यं गन्धपुष्पं च धूपकम् ।
दीपं चाधि निवेद्यं च अष्टाङ्गं सम्प्रपूजयेत् ॥
अष्टाङ्गेन समायुक्तं पूजयेत्परमेश्वरम् ।
मतङ्गे -
अ?कृत्सितानि यज्ञार्थं पात्राणि कुसुमानि वा ।
औषध्यश्शुभधाश्शस्ता धूपा प्राण्यङ्गवर्जिता ॥
इति ॥
सूक्ष्मे -
शिङ्खाधारं च शङ्खं च पादाधारं? च पात्रकम् ।
गन्धपात्रसमायुक्तं पुष्पपात्रसमन्वितम् ॥
वस्त्राधारं च वस्त्रं च पुष्पाधारसमन्वितम् ।
लोहजं रज?तं चैव काञ्चनं रत्नसंयुतम् ॥
रुद्राक्षं च प्रवालं च मुक्तामालासमन्वितम् ।
नवरत्नं विचित्रेण महाभरण शोभितम् ॥
चित्रवस्त्रसमायुक्तं चित्राभरणशोभितम् ।
खण्डवस्त्रसमायुक्तं लिङ्गशोधनसंयुतम् ॥
जलद्रोणिसमायुक्तं जलोद्धारणपात्रकम् ।
स्नानवेदीं? च पादं च तीर्थपात्र समायुतः ॥
घण्टां च धूपदीपं च आरात्रिकमतः परम् ।
स्थिति दीपसमायुक्तमाज्यस्थालीं च स्रुक्स्रुवम् ॥
ततः पचनपात्रं च तथा व्यञ्जन पात्रकम् ।
स्थलिका स्थलिकाधारं पानीयाधारपात्रकम् ॥
ब्रीही चर्म च दर्वीं च काष्ठं त्रीपादसंयुतम् ।
नालिकेरकृतं चैव व्यञ्जनच्छेदि शस्त्रकम् ॥
पाद्यं मेवोक्तं द्रव्य * * * * सम्पाद्यमुच्यते ।
चन्दनागरुकर्पूरकुङ्कुमारक्तचन्दनम् ॥
हिमतोयं कृष्णगन्धं गोरोचनमदद्वयम् ।
कुसुमं पञ्चपुष्पं च अष्टपुष्पं च पत्रकम् ॥
कङ्कणं लम्बमाला च बिल्वदूर्वाक्षतं तथा ।
जलपूरितमेवं तु जलद्रव्यसमन्वितम् ॥
पाद्यद्रव्यादिसंयुक्तं सूपद्रव्यादिसंयुतम् ।
कपिलाज्यं शुद्धतैलं शिरीषं पिष्टचूर्णकम् ॥
पञ्चगव्यामृतं चैव नालिकेरं प्रयत्नतः ।
कदलीफलसंयुक्तं स्नानद्रव्यसमन्वितम् ॥
वस्त्रचिह्नानि विविधं वस्त्रकं तु प्रयत्नतः ।
पञ्चत्रिरेकवृत्तं वा तत्तु रुद्रादि च सङ्ख्यया ॥
अमृतं सप्तनालं वा पञ्चनालैक नालकम् ।
दीपज्वालासमायुक्तं गोघृतं वा सुतैलकम् ॥
द्विप्रस्थादि चतुर्द्रोणं शुद्धतण्डुलसंयुतम् ।
लवणं क्रमकं पक्वं च व्यञ्जनैरुपदंशकम् ॥
मरीचिलवणं चैव जीरकं सर्षपं तथा ।
क्रमुकं च सुपत्रं च श्वेतगन्धं च चूर्णकम् ॥
भस्माथ दर्पणं छत्रं चामरं तालवृत्तकम् ।
अंशुमति -
यजनद्रव्यमेवं तु सङ्ग्राह्य परिचारकैः ।
वामभागे तु संस्थाप्य दक्षिणे जलपात्रकम् ॥
चिन्त्यविश्वसादाख्ये -
पाद्यस्यादिं? सुपात्राणां लक्षणं शृणु साम्प्रतम् ।
पञ्चाङ्गुलं तदुच्छ्रायं विस्तारं च तथैव च ॥
ओष्ठिमेका?ङ्गुलं प्रोक्तं घनमर्धार्धकं बह्वेत् ।
पाद्यार्घ्याचमनं चैव पात्रं हेमादिरुच्यते ।
आसनार्थे तु तदर्धं वा तदर्धंवापि कारयेत् ॥
सर्वेषां कारणान्नां? च एतत्करणमुच्यते ।
शिवधर्मे -
तच्छ्रेष्ठं स्वर्णपात्रं च रजतं मध्यमं बह्वेत् ।
कन्यसं ताम्रपात्रं तु अलाभे मृण्मयं भवेत् ।
यदा मृण्मयं तदा प्रत्यहं नवतरं ग्राह्यम् ।
उक्तं च
मृण्मयं प्रत्यहं कार्यं तच्च भू(पू?)तनमिष्यते ।
एकदा सम्प्रयुक्तं यत्तत्तन्निर्माल्यतो भवेत् ॥
शिवधर्मोत्तरे -
दारुणा त्वर्घ्यपात्रेण दत्त्वा यं लभते फलम् ।
तस्माच्छतगुणं पुण्यं मृत्पात्रेण प्रकीर्तितम् ॥
ताम्रपात्रार्घ्यदानेन पुण्यं शतगुणोत्तरम् ।
पलाशपद्मपात्राभ्यां ताम्रपात्रसमं भवेत् ।
रौप्यपात्रेण विज्ञेयमर्घ्यं लक्षोत्तरं फलम् ॥
स्वर्णपात्रेण विन्यस्तमर्घ्यं कोटिगुणोत्तरम् ।
सुक्ष्मे -
पाद्यादि?रर्घ्यसंयुक्तं पात्रं सम्पूजयेत्ततः ।
अथवा पात्रमेकं तु पाद्यमाचमनार्घ्यकम् ॥
सुप्रभेदे -
उशीरं चन्दनोपेतं दूर्वासिद्धार्थसंयुतम् ।
चतुर्द्रव्यसमायुक्तं पाद्यमेतदुदाहृतम् ॥
एलालवङ्गकर्पूरं तिबुजातिफलं मुरम् ।
षडङ्गाचमनद्रव्यमर्घ्यद्रव्यमथोच्यते ॥
आपः क्षीरकुशाग्राणि तण्डुलास्सुमस्ति?लाः ।
अर्घ्याष्टाङ्गमिति प्रोक्तं यवसिद्धार्थकैस्सह ।
उत्तमादिक्रमेण पाद्यादि द्रव्यमानमुच्यते ।
कारणे -
द्रव्यनिरूपितम् ।
प्रत्येकं धारणं श्रेष्ठं तस्यार्धं मध्यमं भवेत् ।
तस्यार्धं कन्यसञ्ज्ञेयं पाद्यद्रव्यं त्रयो?दितम् ॥
पादादीनि मात्राणि तेष्वर्धार्धानि कीर्तितानि ।
तत्रैव धारणादिस्वरूपमुक्तम् -
द्विभुजं माषकं चैव धारणमाषविंशति ।
धारणाष्टौ पलं चैव पलं मुष्टिरिहोच्यते ॥
किरणे -
पात्राणामप्यलाभे तु शङ्खं वा शुक्तिकं तु वा ।
अंशुमति - तल्लक्षणमुक्तम् -
शङ्खं त्रिविधमित्युक्तं पुमान्नारी नपुंसकम् ।
मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् ॥
अग्रमूलसमं चेति पुमांश्चेति प्रकीर्तितम् ।
ताम्रवर्णोद्भवं? शङ्खमुत्तमं चेति कीर्तितम् ॥
गङ्गाया मध्यमं चैव नर्मदायां च कन्यसम् ।
एवं त्रिविधमित्युक्तं जातिश्रेष्ठमथोच्यते ॥
दक्षिणावर्तकं शङ्खं जातिश्रेष्ठमिति स्मृतम् ।
दक्षिणावर्तकं शङ्खं स्वप्रमाणं विधीयते ॥
कारणे तत्परिमाणविधिरुच्यते -
उत्तमं प्रस्थपूर्णं तु मध्यमं कुडुपद्वयम् ।
कनिष्ठिकं तु कुडुपं सुलभं शङ्खमुच्यते ॥
अंशुमति -
पुच्छाग्रे हेमरत्नानि भूषितं चाति सुन्दरम् ।
शङ्खं च क्षालयेद्धिमान्तु षदग्धेन शुध्यति ॥
शङ्खपादं त्रिकोणं च मध्यमे वलयान्वितम् ।
निश्वासे -
शङ्खमन्तश्शुचिकरं बहिरस्थिवदाचरेत् ।
तस्मात्सर्वप्रयत्नेन कर्तव्यं कनकादिना ॥
सूक्ष्मे -
शङ्खमूलं धरादेवी कुक्षीणां विष्णुदैवतः ।
धारयाघोरदैवं तु वलयं सूर्यदैवतम् ॥
मुखे च सप्त तीर्थानि प्रवेशे चन्द्रदेवता ।
त्रिपाद्यामधिदैवत्यं ब्रह्माविष्णुमहेश्वरम् ॥
वृत्तमाधारशक्तिश्च इत्येते अधिदेवताः ।
॥
अथ पञ्चगव्यम् ॥
तस्यकाल उच्यते सूक्ष्मे
अयने विषवे चैव ग्रहणे चन्द्रसूर्ययोः ।
अन्यपुण्यदिने चैव नित्यनैमित्तिकेऽपि च ॥
प्रायश्चित्ते च जन्मर्क्षे स्नपयेत्पञ्चगव्यकम् ।
चिन्त्यविश्वसादाख्ये -
पञ्चगव्यं च सङ्कल्प्य स्नपनार्थं विशेषतः ।
लिङ्गस्य पूर्वभागे वा ईशाने वापि कल्पयेत् ॥
गोधेनोपलव्याथ(गोमयतोपलिप्याथ?) मण्डलं चतुरश्रकम् ।
द्विहस्तं हस्तमात्रं वा स्थण्डिले दर्भसंयुतम् ॥
वातुले -
प्राक्सूत्रं युगसूत्रं च उदक्सूत्रं तथैव च ।
सूत्रात् सुत्रान्तरं तालं तालार्धं वापि लेखयेत् ॥
उत्तमं तु चतुःप्रस्थं मध्यमं तु तदर्धकम् ।
अधमं प्रस्थशालिं तु प्रत्येकं तु पृथक् पृथक् ॥
तण्डुलैश्च कुशैर्वाथ कल्पयेत्तदभावतः ।
उत्तराभिमुखो भूत्वास्त्वा?सीनं परिकल्पयेत् ॥
दर्भान्परिस्तरेद्बाह्ये पूर्वाग्रं चोत्तराग्रकम् ।
अग्रमग्रं? तु मै?शान्यां पृष्ठे पृष्ठं तु नैर्-ऋते ॥
मूलाग्रं तु समं कुर्याद्वायुरग्निस्तथैव च ।
मध्यमे शिवतत्त्वं तु पूर्वकोष्ठे सदाशिवम् ॥
विद्यातत्त्वं दक्षिणे च पुरुषतत्त्वं तथोत्तरे ।
पश्चिमे कालतत्त्वं तु पृथ्वीतत्त्वं तु पावके ॥
अप्तत्त्वं निर्-ऋतिकोष्ठे च वायुकोष्ठे मरुत्क्रमात् ।
ईशे प्रकृतिकोष्ठे च कोष्ठपूजा विधीयते ॥
उत्तमं स्वर्णपात्रं च मध्यमं कांस्यपात्रकम् ।
अधमं मृण्मयं चैव पात्रमित्यभिधीयते ॥
कालं भिन्नं च कोणं च कृष्णाभं चैव वर्जयेत् ।
कारणे -
नवपात्रं तु सङ्गृह्य क्षालयेद्गन्धवारिणा ।
प्रोक्षयेत्पुरुषेणैव कवचेनावकुण्ठयेत् ॥
वातुले -
मध्यमे सुप्रतिष्ठं च सुशान्तं पूर्वमेव च ।
तेजोवद्दक्षिणे चैव रत्नोदकमथोत्तरे ॥
अमृतपात्रं पश्चिमायां? व्यक्तं चैवेशकोणके ।
आग्नेय्यां व्यक्तपात्रं स्यान्नैर्-ऋते सूर्यपात्रकम् ॥
वायोस्संयोगपात्रं स्यात्पात्रपूजा विधीयते ।
कृष्णाया गोमयं मूत्रं नीलायाः कापिलं घृतम् ।
शुक्लायादधि ताम्रायाः क्षीरमाहृत्य यत्नतः ॥
विश्वसादाख्ये -
मध्ये क्षीरं त्रिकुडुपं पूर्वे प्रस्थार्धतोदधि ।
घृतं दक्षिणके चैककुडुबेन समन्वितम् ॥
उत्तरे प्रस्थगोमुत्रं गोमयं गोकुलाघृतम् ।
पश्चिमे जलसंयुक्तं पञ्चपादं भवेत्तदा ॥
कुशोदकं त्वैकदेशे पूरयेच्छुद्धवारिणा ।
षट्त्रिंशद्दर्भसंयुक्तमथवा पञ्चविंशति ॥
द्वादशं पञ्चकं वापि त्रिभिर्वा सम्प्रकल्पयेत् ।
कूर्चं प्रदक्षिणं तत्र हस्तमात्रं च दीर्घकम् ॥
ग्रन्थिद्वयङ्गुलम?ग्राणि चतुरङ्गुलमेव च ।
तालमात्रेण वा कूर्चं कुशाश? च कुशोदकम् ।
वातुले -
कपित्थफलमात्रेण पिष्टामलकमीरितम् ।
कदलीफलमात्रेण रजनीञ्च? प्रमाणकम् ॥
कारणे -
चा(शा?)लिपिष्टं तु चाग्नेय्यां स्थापयेद्देशिकोत्तमः ।
आमली निरुतौ? चैव वायव्यां रजनी तथा ॥
अंशुमति -
अलाभे दधिनि क्षीरं क्षीराभावे भवेद्दधि ।
गोमूत्रं गोमयालाभे तदलाभे तु गोमयम् ॥
पञ्चगव्येषु यस्य स्यादलाभस्तद्धृतं भवेत् ।
उत्तमे मध्यमे चैव गोमयं कुक्कुडाण्डवत् ॥
अथवा चाक्षमात्रं स्याज्जलेनैव प्रपूरयेत् ।
वस्त्रपूतं प्रकर्तव्यं स्थापयेद्विधिपूर्वकम् ॥
मध्ये क्षीरं तु संस्थाप्य तत्पूर्वे दधिरु?च्यते ।
दक्षिणे च? घृतं स्थाप्य गोमयं चोत्तरे न्यसेत् ॥
गोमूत्रं पश्चिमे न्यस्य सृष्टिन्यासक्रमेण तु ।
मध्यमे तु घृतं स्थाप्य तत्पूर्वे दधिरुच्यते ॥
दक्षिणे चैव गोमूत्रमुत्तरे गोमयं तथा ।
उत्तरे चैव गोक्षीरं स्थितिन्यासक्रमेण तु ॥
गोमूत्रं स्थापयेन्मध्ये गोमयं पूर्वतोन्यसेत् ।
दक्षिने तु दधिं चैव उत्तरे क्षीरमेव च ॥
पश्चिमे तु घृतं स्थाप्य संहारक्रममेव तु ॥
ऐशान्यां कुशोदकं च स्थापयेत्तु विशेषतः ।
पिष्टमामलकं चैव रजनीं च विशेषतः ।
अग्निकोष्ठादिवायव्यं हृदा कवचमेव च ॥
कालोत्तरे -
पञ्चभूतजयार्थं हि पञ्चगव्यं तदात्मकम् ।
क्रमात्तद्गुणसङ्ख्यातैरीशाद्यैरभिमन्त्रयेत् ॥
गृहस्थो ब्रह्मचारी चेदजाद्यैर्गोमयादितः ।
वातुले -
ईशानेन तु दुग्धं स्यात्पञ्चवाराभिमन्त्रयेत् ।
पुरुषेण दधिं चैव रससङ्ख्याभिमन्त्रितः ॥
कारणे -
अघोरेण घृतं चैव धातुसङ्ख्याः प्रकीर्तिताः ।
गोमूत्रं वामदेवेन सुरभिश्चिअव? कारयेत् ॥
गोमयं सद्यमन्त्रेण नवसङ्ख्याभिमन्त्रितः ।
कारणे -
पिष्ठं तु हृदये नैव आमलकं शिरसेन तु ।
रजनी वर्ममन्त्रेण अभिमन्त्रं सकृत् सकृत् ।
कुशोदकेन गायत्र्या षड्वारं ब्रह्मपञ्चकम् ॥
योगजे -
दधि सृष्टिक्रमं चैव घृतं वै स्थितिरुच्यते ।
गोमयादीनि संहारमार्गेणान्ते कुशोदकम् ॥
कारणे -
गोमयं गोजले क्षिप्य गोजलं घृतमेव च ।
घृत(तं?) दध्ना तु सङ्क्षिप्य दधि क्षीरे तु निक्षिपेत् ॥
हृदयेनाथ मूलेन क्षिपेत् तत्र कुशोदकम् ।
ब्रह्मभिश्च शिवाङ्गैश्च गायत्र्या च सकृज्जपेत् ।
रक्षां विधाय शस्त्रेण वर्मणा चावकुण्ठयेत् ॥
धेनुमुद्रां प्रदर्श्याथ पूजयेद्गन्धपुष्पकैः ।
धूपदीपं ततो दद्यादस्त्रमन्त्रं समुच्चरन् ॥
प्रायश्चित्तविषये मूलेनाष्टोत्तर शतमभिमन्त्रयेत् ।
तदुक्तं शिवधर्मोत्तरे -
कृत्वेकस्सं? शिवेनैव जपेदष्टशतं पुनः ।
अहोरात्रोषितः? स्नातश्शिवस्य पुरतस्सितः?(तःस्थितः?) ॥
ओङ्काराद्येकमन्त्रेण प्राङ्मुखैश्च शनैः पिबेत् ।
ब्रह्महत्यादिभिः पापैस्सर्वैरेव विमुच्यते ॥
केवलं हृदिनाकार्यदिति? क्वचिदुक्तं च गोशत्तुमु(कृन्मू?)माज्यं च दधि क्षीरं कुशोदकम् ।
पञ्चगव्यं हृदा लब्धः पूतं भूतगुणैरिति ।
उत्तमं तु प्रतिप(प्र?)स्थं त्रिपादं मध्यमं भवेत् ॥
द्विपादमधमं प्रोक्तं वैभवं तु प्रकल्पयेत् ।
तदुक्तम् - चिन्त्यविश्वसादाख्ये -
आत्मार्थे तु विशेषेण प्रस्थादिनि च कारयेत् ।
पञ्चगव्यमिदं प्रोक्तं पञ्चामृतमथोच्यते ॥
पञ्चगव्यस्य पुरतः पूर्ववत्स्थण्डिलं भवेत् ।
कोष्ठात्पात्राणि मन्त्राणि पूर्ववत्परिकल्पयेत् ॥
मध्ये दुग्धं दधि प्राच्यां दक्षिणे घृतमेव च ।
उत्तरे मधु संयोज्य शर्करा पँस्चिमे भवेत् ॥
कदली पनसाम्रं च गन्धोदं च तथैव च ।
अग्न्यादी?शानपर्यन्तं स्थापयेत्तु विशेषतः ॥
पञ्चामृतं ततः स्थाप्य प्रतिप्रस्थं विशेषतः ।
खण्डाभावेक्षुसारं तु मध्वभावे घृतं भवेत् ॥
रौरवे -
खण्डाभावे तु सङ्ग्राह्यो भवेदिक्षुरसस्तथा ।
खण्डश्चाभिषेके च जलेना लोडितो भवेत् ॥
अभिषेकः पृथक्प्रोक्तं तोयस्नानान्तरान्तरम् ।
सूक्ष्मे -
नित्यनैमित्तिके काम्ये स्नानान्ते तु महेश्वरम् ।
सहस्रधारया स्नानं श्रीसौभाग्यप्रदं ध्रुवम् ॥
अथवान्यप्रकारेण शृणुध्वं(त्वं?) तत्प्रभञ्जन ।
तत्पात्रं त्रिविधं प्रोक्तं मधमं त्रयमेव च? ॥
द्वादशाङ्गुलमेवं तु उत्तमं परिकीर्तितम् ।
सप्ताङ्गुल विस्तारं नीच मध्य प्रकीर्तितम् ।
पञ्चाङ्गुल सुविस्तारं नीचनीचं प्रकीर्तितम् ॥
त्रयङ्गु?लसुविस्तारं तदधः परिकल्पयेत् ।
एवं पात्रस्य विस्तार भित्तिरुत्सेधमुच्यते ॥
एकाङ्गुलसमुत्सेधमुत्तमं परिकीर्तितम् ।
अर्धाङ्गुलसमुत्सेधं मध्यमं तु प्रकीर्तितम् ॥
पादाङ्गुलसमुत्सेधं मध्यमं तु क्रमेण तु ।
यवत्रयघनं प्रोक्तं क्रमेणैब तु बुद्धिमान् ॥
पाणिभ्यां पात्रमादाय लिङ्गमूर्ध्न्य भिषेचयेत् ।
स्वर्णं रजतताम्रैर्वा चतुरश्रं च वृत्तकम् ॥
चतुरश्रवन्नवकोष्ठे? मध्येसुषिरमेत् युत्? ।
आवृतं चाष्टसुषिरं पदमेकं प्रयत्नतः ॥
पदबाह्ये सूत्रमध्ये महाशासु विशेषतः ।
सूचिमात्रप्रमाणेन श्रुतिरन्ध्रं प्रकल्पयेत् ॥
अन्यानि पदमध्येषु द्वादशं सुषिरं कुरु ।
अष्टोत्तरशतं प्रोक्तं पञ्चाशच्चे(च्चै?)कहीनकम् ॥
तत्पात्रं नवकोष्ठं तु मध्यकोष्ठे तु मध्यतः ।
आवृतं चाष्टसुषीरं तद्बाह्ये तु विशेषतः ॥
एकैकपदमध्ये तु शरसङ्ख्या च रन्ध्रकम् ।
पञ्चाशन्द्रमामेवो?क्तं पञ्चविंशति चोच्यते ॥
तत्पात्रं नवकोष्ठं तु मध्ये सुषिरमेकयुक् ॥
अन्यानि पदमध्ये तु ईदृशं सुषिरं कुरु ।
चतुरश्रमिति प्रोक्तं सुवृत्तमथवोच्यते ॥
पूर्ववत्पात्रमेवं तु साष्टपत्रं सकर्णिकम् ।
कर्णिकामध्यमेकं तु पूर्वादि वसुरन्ध्रकम् ।
तद्बाह्यदलमध्ये तु द्वादशं सुषिरं कुरु ॥
तद्बाह्य वृत्तमध्ये तु महाशासु युगं भवेत् ।
एवं सुषिरमाख्यातमष्टोत्तरशतः(तं?)क्रमात् ॥
पञ्चाशत्पञ्चविंशच्च पूर्ववत्परिकल्पयेत् ।
क्षुद्रमानमिदं प्रोक्तमात्मार्थं च परार्थकम् ॥
परार्थे भद्रमानं तु आत्मार्थं न विचारतः ।
मोहादज्ञानतो वापि भद्रपात्रेऽभिषेचयेत् ॥
आयुः कीर्तिपुष्टिं च शुक्ले पक्षे तु चन्द्रवत् ।
तत्पात्रं शङ्खतोयेन पूरयेन्मूलमन्त्रतः ॥
एवमेव क्रमेणैव प्रोक्तं धाराभिषेचनम् ।
कामिके -
चन्दनागरुकर्पूरं कुङ्कुमं गन्ध उच्यते ।
एतद्द्वयं त्रयं वापि कर्पूरेण चतुष्टयम् ॥
काश्मीगन्धकर्पूरं चन्दनेषु प्रकल्पयेत् ।
प्रत्येकं निष्कमात्रं वा तदर्धं वा तदर्धकम् ॥
तथा -
गोरोचनाकुङ्कुमचन्दनैला कर्पूरकृष्णागरुदेवकाष्ठैः ।
कस्तूरिकाद्यैरभिलिप्य शम्भुं प्राप्नोति पुण्यं हयमेधकोट्या ॥
देवदारुमयं गन्धं शिवाय विनिवेदयेत् ।
शिवलोकमवाप्नोति कल्पमेकं न संशयः ॥
बिल्वमूलमयं गन्धमुमामहेश्वराय वै ।
महदैश्वर्यमाप्नोति दत्त्वा शिवपुरं व्रजेत् ॥
आरग्वधमयं गन्धं लिपेन्मृत्युञ्जयं नरः ।
मृत्युजित्स भवेद्भक्तो गाणापत्यमवाप्नुयात् ।
तस्मात्सर्वोपचारेभ्यो गन्धपूजा विशिष्यते ॥
॥
अथ पुष्पापयुच्यते(न्ते?) ॥
षुप्रभेदे -
श्वेतरक्तो?सितानीह सात्त्विकादानि तानि च ।
पुष्पाणि पीतवर्णानि मिश्रका?णि विनिर्द्दिशेत् ॥
नीलोत्पलं विनान्यानि तामसानि विवर्जयेत् ।
नन्द्यावर्तं श्रियावर्तं श्वेतार्कमुदये हितम् ॥
करवीरं च पद्मं च द्रोणपुष्पं च मध्यमे ।
मल्लिकाकृष्णधऊर्धूर सायाह्ने चम्पकं हितम् ॥
कदम्बकनकं जाति द्विकर्णी चार्धरात्रिके ।
द्रोणं च श्वेतपद्मं च जाती च बहुपर्णिका ॥
नन्द्यावर्तं श्रियावर्तं मन्दारं शतत्रिका ।
श्वेतार्कं मालतीबिल्वपुन्नागं कुरवं तथा ॥
एवमादीनि पुष्पाणि सात्त्विकानि विनिर्दिशेत् ।
रक्तोत्पलं तथा पद्मं धुर्धूरं बृहतिद्वयम् ॥
पालाशपाटलादीनि राजसानि विनिर्दिशेत् ।
कर्णिकारं च धूर्धूरं चम्पका एवधादिकम् ॥
एवमादीनि पीतानि मिश्रकाणि विनिर्दिशेत् ।
करञ्जवकुलं शाखं शिरीषं केतकी तथा ॥
ताङ्गली डाडिमं चाम्यं श्रीपर्णी च विभीतकम् ।
बन्धूककुन्दयूथानि कर्पासं निम्बकण्टकम् ॥
किंशुकं च मदन्ती च कुमुदानि विवर्जयेत् ।
अपकवमतिपक्वं च मुकुलं च विवर्जयेत् ॥
केशकीटापविद्धानि लूतसूत्रो(त्रा?)वृतानि च ।
स्वयं पतितपुष्पाणि संयतान्यपि वर्जयेत् ॥
एकिहौषितपुष्पाणि? त्यजेदुपहितानि च ।
तथा -
नार्चयेदक्षतैर्विष्णुं न तुलस्या विनायकम् ।
न दूर्वया महेशानीं न केतक्या महेश्वरम् ॥
कालोत्तरे -
वर्जयेत्केतकीपुष्पं कूश्माण्डं निम्बसम्भवम् ।
पैशाचं शाल्मलीजातं गिरिकर्णं च वर्जयेत् ॥
निर्गन्धान्युग्रगन्धानि कुसुमानि विवर्जयेत् ।
अष्टपुष्पाणि वर्ज्यानि शिवस्य परमात्मनः ॥
केतकी माधवी कुन्दधूपिका मदयन्तिकाः ।
शिरिषसर्जबन्धूकमष्टपुष्पं विवर्जयेत् ॥
सुप्रभेदे -
उत्सवादिषु यात्रायां परिवेषक्रियासु च ।
सकलानामलङ्कारैर्वर्ज्या ग्राह्याश्च सर्वदा ॥
कृष्णक्राणि? च पुष्पाणि महिषाक्षी च पुष्पिका ।
शिंशुमारकपुष्पाणि उमादेवीं च पूजयेत् ॥
पलाशपुष्पैर्ब्रह्माणं तुलस्या खलु केशवम् ।
इन्द्रवल्ली च पुष्पाणि इन्द्रप्रीतिकराणि तु ॥
देवारामोद्भवं पुष्पं गृह देवाय नार्चयेत् ।
कारणे -
परार्थवत्पत्रपुष्पाणि दापयेत्तु यथाक्रमम् ।
शेषं नैमित्तिकं चैव काम्यं चैव न कारयेत् ॥
पत्रच्छेदैस्तु सम्पूजा राक्षसानां विनाशिनी ।
पुष्पच्छेदैस्तु सम्पूजा सर्वसिद्धिकरी भवेत् ।
॥
अथ धूपविधिरुच्यते ॥
अगरूञ्चैक भागं स्यान्निर्यास द्विगुणं भवेत् ।
चन्दनं त्रिगुणं प्रोक्तमीषत्कर्पूरमिश्रितः ॥
शीतारी नाम धूपायां मधुयुक्तः प्रशस्यते ।
गुग्गुलं घृतसंयुक्तं बिल्वं वा गुलमिश्रितम् ॥
कुष्ठं सचन्दनं वापि घृतमिश्रं सुधूपयेत् ।
कृष्णलोहं च निर्यासं चन्दनं च क्रमेण तु ॥
व्योमपक्षत्रिभागान्तमीषत्कर्पूरमिश्रितम् ।
उत्तमं धूपमाख्यातं मधुना च परिप्लुतम् ॥
उशीरं चन्दनोपेतं मधुयुक्तं मधुप्लुतम् ।
भागं तत्पूर्ववत्प्रोक्तं मध्यमं धूपमुच्यते ॥
गुग्गुलं घृतसंयुक्तं कन्यसं धूपमीरितम् ।
गोघृतेन च तैलेन कर्पूरवर्त्तिदीपिता ।
चतुस्त्रीद्वयङ्गुला?यामा दीपज्वाला विशिष्यते ।
कपिलाघृतेन दीपः स्यात् सितारक्ताघृतेन वा ॥
अजाघृतेन वा लाभे शुद्धतैलेन वा हितम् ।
कपिलाया घृतं श्रेष्ठं मध्यमं त्वन्यजं घृतम् ॥
अधमं स्यादजासर्पिश्शुद्धतैलं तथैव च ।
सात्त्विकं राजसं चैव तामसं च क्रमाद्भवेत् ॥
कर्पूरवर्तीकं दीपयेत्सर्व सिद्धिदम् ।
श्रेष्ठो युगाङ्गुला ज्वाला मध्यमस्तु गुणाङ्गुलम् ।
अधमो द्वयङ्गुला ज्वाला दीपे ह्येवं प्रकीर्तितः ॥
वृक्षबीजोद्भवैः स्नेहो(है?)श्शिवदीपं विवर्जयेत् ।
॥
अथ नैवेद्यविधिरुच्यते ॥
कामिके -
शालीनां तण्डुलाः? श्रेष्ठा यवव्रीह्यादिकास्समम् ।
व्रीहीनामवशिष्टानां तण्डुलश्चाधमो भवेत् ॥
सिततण्डुलका ये च ते सर्वेशाय स्मृताः? ।
इतरे व्रीहयः प्रोक्तां फलं तेषां पृथक् पृथक् ।
तथा - इतरेकफलं चैव शालर्दशगुणं भवेत् ॥
कामिके -
भक्त्या वितानुसारेण नैवेद्यं तु प्रकल्पयेत् ।
पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् ॥
अनिवेद्ये न भुञ्जीत भगवन्तं सदाशिवम् ।
अपूपकादि च यद्द्रव्यं भोज्यं दत्त्वा शिवस्य तु ॥
वर्धन्ते तस्य तद्धान्यं फलपुष्पादयस्तथा ।
अदत्त्वा तु हरस्याथ भुक्तं तत् क्षीयते धनम् ।
अल्पे महति वा तुल्यं फलमादरुद्रयोः? ॥
यथाशक्ति प्रकर्तव्यं भक्तिरेवात्र कारणम् ।
यावन्तस्तण्डुलास्तत्र नैवेद्यमथ कल्पते ॥
तावद्वर्षसहस्राणि शिवलोके महीयते ।
सूक्ष्मे -
द्विप्रस्थादि चतुर्द्रोणमात्मार्थे सम्प्रपूजयेत् ।
अंशुमति -
उत्तमं चाढकं प्रोक्तं षट्प्रस्थं मध्यमं भवेत् ॥
अधमं चाढकं चैव नैवेद्यं त्रिविधं भवेत् ।
अथवान्यप्रकारेण आढकं चोत्तमं भवेत् ॥
उत्तमादित्रयं चैव कुडुबान्तत उच्यते ।
प्रस्थस्यार्धफ(प?)लं चैव कुडुबार्धघृतं तथा ।
तदर्धार्धघृतं चैव पुष्पेणैव तु योजयेत् ॥
आज्यहीनं तु नैवेद्यमसुराणां निवेद्यकम् ।
तस्मात्सर्वप्रयत्नेन आज्ययुक्तं निवेदयेत् ॥
काम्यार्थं तण्ड?लं चैव नैवेद्यं स्वेच्छया ततः ॥
कारणे -
चरु प्रस्थद्वयं प्रोक्तं हविराढकमुच्यते ।
प्रस्थं कुडुबसंयुक्तं पैशाचाशनमुच्यते ॥
सकलानां तु नैवेद्यं भवेत्प्रस्थद्वयाधिकम् ।
प्रागुक्तविधिना पूर्वं स्नात्वा तु परिचारकाः ॥
शुक्लवस्त्रधराश्चैव शुक्लयज्ञोपवीतकः ।
पवित्रपाणिना कुर्याच्चरुपाकं यथाक्रमम् ॥
वस्त्रपूतैश्च तोयैश्च जलद्रोणं प्रपूरयेत् ।
पात्रशुद्धिं ततः कृत्वा क्षालयेत्तण्डुलान्हृदा ॥
जलेनैव तु षट्कृत्वो निष्पीड्य च मुहुर्मुहुः ।
कामिके -
षडङ्गैः क्षालनं कृत्वा सद्येन प्रक्षिपेज्जलम् ।
कारणे -
तण्डुलस्य प्रमाणस्य अर्धाधिकसमञ्जलम् ।
शोधयेद्बीजमुख्येन पात्रस्थं जलतण्डुलान्? ॥
कामिके -
प्रलिप्त गोमयाद्यैस्तु प्रोक्षितत्र महानसे ।
धर्माधर्मभुजाञ्चुल्लि? तण्डुलैरचयेद्धृदा ॥
उद्धृत्य वामदेवेन स्थापयेद्धृदयेन तु ।
विन्यस्याग्निमघोरेण वक्त्रेणाग्निं प्रदीपयेत् ।
पिपीलिकादिसञ्जुष्टैः कोटरकृमिसंयुतैः ॥
विस्फुलिङ्गयुतैश्चापि काष्ठैश्चैव नदी पूजयेत्? ।
कारणे -
केशकीटापविद्धं च शर्करातुषसंयुतम् ।
अतिपक्वमपक्वं च नैवेद्यं परिवर्जयेत् ॥
त्याज्यं तु वर्णगन्धाभ्यां शीतलं न निवेदयेत् ।
स्वायम्भुवे -
आच्छादनविहीने च पक्षीणां दर्शनं तथा ।
नैवेद्यं वर्जयित्वा तु तच्छेषं गृह्य बुद्धिमान् ॥
सन्ताने -
तुषेण युक्तं दारिद्र्यं पाषाणाद्व्याधिरेव च ।
केशेन मरणं विद्याद्वर्जयेत्तु विशेषतः ॥
शैवे वायव्यसंहितायाम् -
हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ।
पायसं दधिसंयुक्तं गुलं च मधुना प्लुतम् ॥
दधिमिश्रं गुलैर्मिश्रं मधुसम्मिश्रकं हविः ।
एतेष्वेकमनेकं वा व्यञ्जनेन तु संयुतम् ॥
वीरतन्त्रे -
पायसान्नं क्रमं वक्ष्ये मुद्गं वै तण्डुलार्धकम् ।
द्विगुणक्षीरमित्युक्तं पाचयेत्पायसान्नकम् ॥
गुलान्नं पाचयेद्विप्र क्षीरं वै तण्डुलार्धकम् ।
तण्डुलार्धङ्गुलं प्रोक्तमाज्यं चैव गुलार्धकम् ॥
गुलान्नमिति वि?ज्ञेयं कृसरान्नमथो शृणु ।
तिलं वै चूर्णितं तत्र तण्डुलस्य चतुर्थकम् ॥
तिलार्धं प्रक्षिपेदाज्यं कृसरान्नमिहोच्यते ।
तण्डुलस्य चतुर्भागमुद्गं तत्रैव योजयेत् ॥
नालिकेरफलैर्युक्तं मुद्गान्नं तदिहोच्यते ।
शुद्धोदनसहस्रेभ्यः पायसं च विशिष्यते ॥
पायसान्नसहस्रेभ्यः कृसरान्नं विशिष्यते ।
कृसरान्नसहस्रेभ्यो गुलान्नं च विशिष्यते ॥
गुलान्नस्य सहस्रेभ्यो मुद्गान्नं तु विशिष्यते ।
एवमेव क्रमेणैव सहस्रगुणितं फलम् ॥
॥
अथोपदंशविधानमुच्यते ॥
वातुले -
कदलीद्वौ तथा चैव बृहतीद्वौ तथैव च ।
कारवल्लीं तथा द्वौ च ऊर्वारुकद्वयं तथा ॥
पनसद्वयं तथा वत्स कूश्माण्डद्वयमेव च ।
लाबुनी च द्वयं चैव कोशातकीद्वयं तथा ॥
शिशुमूलं वल्लिमूलं कन्दमूलं च सूरणम् ।
आम्रं च तिन्त्रिणी तत्र यथालाभं ग्रहेद्गुह ॥
रौरवे -
द्विविधं शिवमुद्गान्नं कुलिस्थ? राजमाषकम् ।
माषं चैव गु(रु?)रो विद्यात्सतुषं वितुषं तु वा ॥
वीरतन्त्रे -
राजमाषाढकं चैव मुद्गशिम्बकुलस्थकम् ।
कामिके -
कूश्माण्डं पनसालाम्बु कालकं बृहतीद्वयम् ।
त्रपुषा कर्करीं चैव सतुषं वितुषं तथा ॥
एकैकमुपदंशानां प्रस्थस्यैकफलं भवेत् ।
सर्वोपदंशका उक्ता मरीचिलवणान्विताः ॥
जीरकादिरसोपेता यथा योगं पचेत्पृथक् ।
विश्वसादाख्ये -
स्मृत्यङ्गुलं तु विस्तारं विस्तारार्ध(र्धं?) न वर्धयेत् ।
ओष्ठमेकाङ्गुलं प्रोक्तं स्वर्णतारादिभिर्भवेत् ॥
तदर्धमधमं ज्ञेयं तदर्धं कन्यसं भवेत् ।
कामिके -
सौवर्णं रजतं ताम्रमथवा कदलीदलम् ।
शुद्धकांस्येन वा कुर्यात्पात्रमादाय बुद्धिमान् ॥
सूक्ष्मे -
गोमयालेपनं कृत्वा देवाग्रे मण्टपे न्यसेत् ।
स्थलिकाक्षालनं कृत्वा नैवेद्यं च प्रपूजयेत् ।
व्यञ्जनैरावृतं चैव लवणं पक्वोपदंशकैः ॥
फलादिगुलसंयुक्तं क्षीरं दधि च मध्यमे ।
आज्यावृतसमायुक्तम् अपिधानं तु वाससा ॥
नैवेद्योत्थापने मार्गं मार्जनप्रोक्षणं कुरु ।
अथ विधानमुच्यते - स्वर्णाद्येकतमं विशेषार्घ्यपात्रं हुं फडन्तास्त्रेण प्रक्षाल्य बिन्दुप्रसृतामृतधारामयेन शुद्धतोयेन वषडन्तहृदयेन पूर्य तद्द्रव्यं निक्षिप्य तस्मिन्नासनमूर्ति पञब्रह्म विद्यादेहनेत्रमूलाङ्गैः पुनर्मूले(लेन?) च सम्पूज्य संहितयाभिमन्त्र्यास्त्रेण दिग्बन्धनं
कृत्वा कवचेनावकुण्ठ्य वौषडन्तमूलेन धेनुमुद्रयामृतीकृत्य महामुद्रां प्रदर्शयेत् ।
ज्ञानरत्नावल्याम् -
पद्यमाचमनं चार्घ्यं निरोधं च यथाक्रमम् ।
स्वर्नाद्येकतमं पात्रं यन्त्रिकाधारसंस्थितम् ॥
अर्घ्यपात्रं ततो गृह्य हुम्फट्कारेण क्षालयेत् ।
बिन्दुस्थानं समाश्रित्य मध्ये पद्मं विचिन्तयेत् ॥
आपूर्य पञ्चभिर्ब्रह्मैश्शिवाङ्गैश्च शिवेन च ।
गन्धपुष्पसमायुक्तं तज्जलं मन्त्रसंस्कृतम् ॥
स्थानेषु कल्पनीयेषु बिन्दुबिन्दु प्रदापयेत् ।
कालोत्तरे -
पादे पाद्यं पुरा दद्यादागतस्य शिवस्य तु ।
मुखेष्वाचमनं दद्याच्छिरस्यर्घ्यं निवेदयेत् ।
मृगेन्द्रे -
निरोधान्ते विसर्गे च रोधार्घ्यमुपयुज्यते ।
शिवाभिधानं पूजान्तं पाद्यमाचमनीयकम् ॥
दीप्ते -
पाद्यमीश्वरतत्त्वान्तमाचमाख्यं सदेशकम् ।
शिवार्घ्यं शिवतत्त्वान्तं रोधार्घ्यं शक्तिगोचरम् ॥
तत्तोयेन वौषडन्तशक्तिमन्त्रेणात्मान(त्मनः?) शिरस्यभिषिच्य गन्धादिभिः पूजोपकरणद्रव्यजातम् अङ्गुष्ठानामिकान्तरेण गृह्य तन्मूलेन चक्षुषा समालोक्य हुं फडन्तास्त्रेण पताकया सम्प्रोक्ष्य तेन
मध्यमाङ्गुलिन ताड्य वौषडन्तकवचेन उत्तानपताकया रक्षावकुण्ठनामृतीकरणाइ कुर्यात् ।
कामिके -
रक्षणं मूलमन्त्रेण प्रोक्षणं चास्त्रमन्त्रतः ।
ताडनं चास्त्रमन्त्रेण वर्मणाभ्युक्षणं भवेत् ॥
अत्र निरीक्षणत्रैविध्यमुत्तमम्
पारमेश्वरे -
दृक्क्रियाच्छात्मकैरर्कवह्निसोमविलोचनैः ।
क्रमाच्छुष्कं तथा दग्धममृताप्लुतिसंयुतम् ॥
शुद्ध्यर्थं प्रोक्षितं शक्तितैजसान्ता?डनं ततः ।
अभ्युक्षणं क्रियाजातं ग्राह्यता भावसंयुतम् ॥
तथा तन्त्रसारे -
जडचिद्भेदनं विद्धि शिवदृष्ट्या निरीक्षणम् ।
योग्यतावाप्तिं जडाद्भिन्नस्य वस्तुना ताडनं तत्र चिद्व्यक्तिर्यथा पाषाणताडनम् ।
उत्पत्तिर्विस्फुलिङ्गानामभ्युक्षणमतः परम् ॥
सर्वत्र कीर्तितस्तस्य चितोऽचितस्सर्ववस्तुनि ।
जलादिगन्धपर्यन्तं सर्वद्रव्यसमायुतम् ॥
निरीक्षणादिक्रमं चैव द्रयशुद्धिप्रकीर्तितम् ।
इत्थं द्रव्यशुद्धिं विधाय स्वशिरस्यर्घ्यजलबिन्दु मन्त्रेण निक्षिप्यासने ॐ हां शिवासनाय नमः इति पुष्पं दत्त्वा मूर्ध्नि मूर्तिमन्त्रेण पुष्पं विन्यस्य फाले
चन्दनतिलकं विधाय शिरसि मूलेन पुष्पं दत्त्वा पशुभावमित्युक्त्वा शिववच्छुद्धोऽहमिति भावयेत् ।
एवमात्मपूजां निवृत्त्य तदविरुद्धं मौनमवलम्ब्य ह्रस्वदीर्घप्लुतमन्त्रेण हृदादि ब्रह्मरन्ध्रान्तं द्वादशान्तं वा यावच्छक्या मूलमन्त्रेण प्रणवादिनमोऽन्तमुचार्य ततो बिन्द्वन्तान्यानि ब्रह्माङ्गानि चोच्यते ।
तदुक्तम् -
द्रव्यशुद्धिं विधायैवं स्वशिरस्यर्घ्यसेचनम् ।
कृत्वास्त्रेणाथ मूलेन पुष्पमारोप्य मूर्ध्नि? ललाटे तिलकं क्र्त्वा चन्दनेन सुगन्धिना ।
आसनं मूर्तिमूलेन आत्मपूजां च कारयेत् ।
सर्वज्ञानोत्तरे -
शिवस्य यादृशं रूपन्ना(पन्दा?)दृशं चिन्तयात्मनि ।
शिवमन्त्रन्यासमिदमात्मनस्तु व(स?)दा कुरु ॥
प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ।
इयमात्मनश्शिवभावना पूजाकाले अवश्यं कार्या ।
शिवाद्यभावे पूजकत्वानुपपत्तेः ।
तदुक्तम् शिवधर्मोत्तरे - नारुद्रो रुद्रमर्चयेद् इति ।
तथा यावन्न तत्समो जातस्तावन्नाराधने क्षमः ।
शुद्धत्वाच्च शिवत्वाच्च देहं शिवतनुं स्मरेत् ॥
चिन्त्यविश्वसादाख्ये -
स्नाने जपे च यागे च भोजने पूजने तथा ।
याने चोद्धूलने चैव सन्ध्यावन्दनकेऽपि च ।
आवश्यकेषु सर्वेषु सदा वाचंयमी भवेत् ॥
बिन्दुनाथ? शिवाप्रान्तं मन्त्रमुचार्य शोधयेत् ।
ज्ञानशक्तिमयो मन्त्रश्शिवेनाधिष्ठितस्सदा ॥
सर्वसम्पत्कराश्शेषा बिन्द्वुरन्ता? सर्वकामदाः ।
सन्तानसंहितायाम् -
ओङ्कारं पूर्वमुच्चार्य नमस्कारान्तमेव च ।
ब्रह्माङ्गानि च प्रासादं शिवबीजं तथिअव च ॥
एकाशीतिमहामन्त्रमयुताक्षरमेव च ।
अन्यानि सर्वमन्त्राणि मन्त्रशुद्धिरुदाहृता ॥
ननु मन्त्रास्स्वभावतः शुद्धा वरदामोघशक्तयः इति वचनात् प्रकृत्या
शुद्धा मन्त्रास्तेषां शुद्धानामपि पुनःशुद्धिः क्रियते ।
तदानवस्थाप्रसङ्गः स्यादिति चेत् ।
सत्यम् ।
तेषामैश्वर्याधिकार उलोविद्यूतेन? (मलान्वितत्वेन?) तिरोहित शक्तीनां तेषां परशक्तिसम्पर्कात् स्वसामर्थ्योन्मीलनम् शुद्धिरिष्यत एव ।
उक्तं च
ज्ञानशक्तिमया मन्त्राः किन्त्वैश्वर्यमलान्विताः ।
शक्तिज्वलितसामर्थ्यास्सर्वेऽभीष्टप्रदा मताः ॥
एवं मन्त्रशुद्धिं विधाय पीठे तत्तत्स्थनेषु वृषेश्वरादिपरिवारदेवानर्चयेत् ।
तदुक्तम् अंशुमति -
खेटकान्नैरृते देशे गणेशस्यासनं ततः ।
सर्वेश्वरासनं चैव तत्तत्स्थाने समर्चयेत् ॥
खेटकान् सर्वबेराणां पृथग्ग्राह्य विचक्षणः ।
आच्छाद्य वस्त्रं गलितं प्रोक्षयेदस्त्रवारिणा ॥
निर्माल्यं च विसृज्याथ मानसं स्नानमाचरेत् ।
गणेशं नैर्-ऋते न्यस्य स्कन्दं वै वायुदेशके ॥
महेशं दक्षिणे देशे पूर्वाभिमुखमेव च ।
नृत्तमूर्त्त्यादिदेवानामुत्तरे दक्षिणाननम् ॥
चक्रस्यन्दक्षिणे? भस्माधाराक्षमालिकाम् ।
भस्माधारे तु मायाख्यं भसिते लकुलीश्वरम् ॥
वासुकीं चैव सूत्रे तु गन्धपुष्पैस्समर्चयेत् ।
लिङ्गाग्रे वृषभं न्यस्य पश्चिमाननमेव च ॥
पीठस्य वाम?भागे तु भोगशक्तिं च विन्यसेत् ।
तथा सूक्ष्मे -
वृषेश्वरं तथा पूर्वे वृषवामे तु भास्करम् ।
महेशं दक्षिणे देशे दक्षिणामूर्ति? दक्षिणे ॥
गणेशं नैर्-ऋते देशे तद्वामे कमलोद्भवम् ।
षण्मुखं वायुदेशे तु विद्यापीठं तु दक्षिणे ।
सम्ये तु नृत्तमूर्तिं च ईशाने क्षेत्रपालक ॥
कुबेरानिलयोर्मध्ये लिङ्गोद्भवं तु विन्यसेत् ।
सोमशङ्करयोर्मध्ये भक्तादीन् विन्यसेत्क्रमात् ॥
भक्तानां वामपार्श्वे तु एकाक्षरीं तु विन्यसेत् ।
एकाक्षर्याश्च वामे तु लकुलीशं तु विन्यसेत् ॥
पुष्प(ष्पं?) मूर्ध्नी(र्ध्नि?) तु विन्यस्य पश्चाद्ध्यानं समाचरेत् ।
गणेशादिक्षेत्रपालान्तमर्चयेत्स्वस्वमन्त्रतः ॥
यद्वा चिन्त्यविश्वसादाख्ये -
दक्षिणे दक्षिणामूर्तिमुत्तरे निधनेश्वरम् ।
ब्रह्मे?श्वरे च वारुण्यामाग्न्येय्यां महिषान्तकीम् ॥
वायव्यादिगाङ्गेयं पूजयेच्च समाहितः ।
एतेषां बेराणां शिलामयत्वे प्रत्यहं स्नपनं कर्तव्यम् ।
लोहमयत्वे पर्वणि स्नानं कारयितव्यम् ।
तदुक्तं - पौष्करे -
स्नानं बेरस्य संशुद्धिं कारयेदुक्तपद्म(वर्त्म?)ना ।
लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ॥
अंशुमति -
मूर्तिमावाहयेद्विद्वान्तत्तन्मन्त्रमनुस्मरन् ।
वस्त्रं गन्धं च माल्यं च पुष्प(ष्पं?) मूर्ध्नी(र्ध्नि?) च विन्यसेत् ।
तत्र मूर्तिरावाहनप्रकारश्च कामिके प्रदर्शितम् ।
तद्यथा -
सदाशिवो महेशश्च रुद्राश्चेति त्रिधा मताः ।
शिवदेह इति प्रोक्तो विद्यादेहस्स उच्यते ॥
या तस्य विमला शक्तिश्शिवस्य समत्रायिनी ।
सैव मूर्तिः क्रियाभेदात्सदाशिवतनुर्मता ॥
तदा माहेश्वरी मूर्तिः किन्तु सान्तस्वरूपिणी ।
तद्वद्रौद्री समाख्याता किन्तु साग्रस्वरूपिणी ॥
आसां कुण्डलिनी शक्तिः क्रियाख्या तनुकारणम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥
एते कारणदेवाः स्युः क्षेत्रजाः परिकीर्तिताः ।
ब्रह्म विष्णुश्च मूर्तिस्तु मायाकारणमिष्यते ।
रुद्रेश्वर सदेशानं क्रियाख्यतनुकारणम् ॥
इत्येतद्द्विविधा प्रोक्ता ईश्वरस्य सदाशिवम् ।
तस्माज्ज्ञानमयो देहः शिवस्य परिकीर्तितः ॥
तद्देहत्रयसिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत् ।
एवं परिवारार्चनमावाहनपुरः -
सरं कृत्वा तदनु लिङ्गशुद्धिं विदध्यात् ।
तत्र तावत्स्नानवेद्यास्तु स्वरूपं प्रदर्श्यते ॥
तथा -
स्वर्णरजतताम्रैर्वा मधूकत्रपुसीसकैः ।
एवं षड्द्रव्यमाख्यातं स्नानवेदिं प्रकल्पयेत् ॥
उपानं पद्म जगतीं कम्बं कर्णं च कपकम् ।
जगतीं वाजिन कृत्वा विस्तारायामतोऽपि वा ।
मानशुद्धिं ततः कृत्वा वामे नालं प्रकल्पयेत् ।
यद्वारक्षीरतर इत्थं तद्वेदाश्रं हस्तसम्मितम् ॥
तदर्धमुन्नतं रम्यं मेखलागोमुखान्वितः ।
अंशुमति -
कांस्यं च दारुजं चैव वृत्ताकार समन्तकम् ।
नालं च पादसहितं तन्मध्ये चोन्न्तं ततः ॥
स्नानार्थं लिङ्गमादाय स्नानवेद्युपरिन्यसेत् ।
एवं लक्षणकस्नानदेशे सौम्यनालामव स्थाप्य तन्मध्ये वस्त्रं प्रसाध्य तदुपरि ॐ हाम् अनन्ताय नमः इत्यभ्यर्च्य ॐ हाम् इत्याग्नेय्याम् ज्ञानाय नम इति नैर्-ऋत्याम् ॐ हां वैराग्याय नम इति वायव्याम् ॐ हाम् ऐश्वर्याय नमह् इत्यैशान्याम्
अभ्यर्च्यानन्तस्यै शान्याम् ॐ हां पद्माय नमः इत्थं षडुर्थं? चलासनं परिकल्पयेत् ।
तदुक्तम् - कारणे - त्वात्मार्थपूजायाम् अनन्तधर्मज्ञानादीन् पद्ममित्थं चलासनम् ।
तथा कामिके -
धर्म ज्ञानं च वैराग्यमैश्वर्यं च पद्मं च षडुत्थ? मिदमासनम् ।
चल प्रासादकं वक्ष्ये प्रासादकरणं ततः ।
प्रासादकथनं चाप्तं हैमं वा रौप्यकं तु वा ॥
ताम्रेण दारवोत्थेन शरावेणापि वा भवेत् ।
नेत्रेण वापि सूत्रेण क्रमादेवं तु कारयेत् ॥
घृतवारे बहिश्चैव मानाङ्गुल विजृम्भणात् ।
समन्ताद्वृत्त संयुक्तं चतुरश्रमथापि वा ॥
लिङ्गपीठं तथोच्छ्राय द्विगुणं गर्भगेहतः ।
सुदृढं भित्तिकं कुर्यात् सर्वशोभासमन्वितम् ॥
आयामोत्सेधकं वापि वर्धयेद्यङ्गु?लेन वै ।
लिङ्गपीठसमन्तन्तु कारयेल्लक्षणान्वितम् ॥
अत ऊर्ध्वं न कर्तव्यमुपानाद्यन्तत शृणु ।
तदुच्चमष्टधा कृत्वा वैकांशेन धरातलम् ॥
धरातलमधिष्ठानां वसुधारं मसूरगम् ।
एतानि वेदनामानि पर्यायवचनानि च ॥
पादार्धं नवसूत्रस्य द्विगुणं चेति कीर्तितम् ।
प्रस्तारं चरणार्थं तु तत्समं गलमुच्यते ॥
शिखरं चरणायामं तस्योत्सेधं तदर्धकम् ।
यदधिष्ठानमानं तु द्वादशांशेन भावयेत् ॥
जन्ममेकेन कर्तव्यं द्वाभ्यां चैव जगती भवेत् ।
तथैव कुमुधो(दो?)त्सेधं कम्पमेकेन कारयेत् ॥
पक्षांशं गलमित्युक्तमूर्ध्वं पत्रमथांशकम् ।
महापट्टिद्विभागेन वेत्रमंशेन कारयेत् ॥
अधिष्ठानं समाख्यातं पादबर्हमतः परम् ।
सम्मतारं चतुर्भेदमेकमेकैकतारकम् ॥
पादायामं चतुर्भागं वेदिमेकांशकं भवेत् ।
केवलं स्तम्भमात्रं तु तादिकादि विहीनकम् ॥
वस्वश्रं वा षडश्रं वा विमानाकृतिरुच्यते ।
ऊर्ध्वद्वारं प्रकर्तव्यमुत्तरान्तं प्रशस्यते ॥
प्रोक्षयेत्पञ्चगव्येन हृदयान्य?सेत्क्रमात् ।
चलप्रासादमेवं तु कल्पयेद्विधिवत्ततः ॥
अंशुमति - आत्मार्थपूजायाम् -
पेटकस्वरूपमुक्तम् ।
स्वर्णराजतताम्रैर्वा दारुणा चैव निर्मितम् ।
चतुरश्रायताश्रं च पेटकाकृतिमेव च ॥
अथवा वृत्तमेवं च गर्भगेहे च विन्यसेत् ।
एवं विधिनिर्मित चलप्रासादपेटिकाद्यन्यतमपिधानमुद्घाट्य भीमरुद्रं समर्चयेत् ।
उक्तमंशुमति -
गर्भगेहं प्रविश्याथ पिधानोद्घाटनं तथा ।
गर्भाग्रे भीमरूपं च स्थितं चैव समन्वितम् ॥
चतुर्भुजं त्रिणेत्रं च वरदाभयसंयुतम् ।
भीमरुद्रं समर्चयेत्तथा कामिके -
चतुर्भुजस्त्रिनेत्रस्तु वरदाभयसंयुतः ।
पिञ्छचामरसंयुक्तो भीमरुद्रस्समीरितः ॥
अंशुमति -
निशाचरान्तकृद्देव देवेशयजनार्थकम् ।
शुद्धद्वारस्य सव्ये तु गच्छत्वं हि प्रसीद मे ॥
एवं सम्प्रोक्ष्य तन्मध्यस्थितं देवं
महेश्वरम् ओन्नमो देवदेवेश सर्वलोकैकनायक ।
उत्तिष्ठ स्नानकर्मार्थमात्मरक्षार्थमेव च ॥
इति सम्प्रार्थ्य लिङ्गं? हस्ताभ्यां सङ्गृह्य वस्त्रं विसृज्य स्नानवेद्युपरि न्यसेत् ॥
अंशुमति - लिङ्गं सङ्गृह्यमतिमान्वस्त्रेणैव विसर्जयेत् ॥
सूक्ष्मे -
लिङ्गं हस्तेन सङ्गृह्य स्नानवेद्युपरि न्यसेत् ।
तदनु पूर्वार्चितां गायत्र्या सम्पूज्य सामान्यार्घ्येण स्वाहान्तमूलेन सद्यादिक्रमेण नैष्ठिकादिक्रमेण भोगी पञ्चशिरस्वर्घ्यं दत्त्वा धूपदीपं दत्त्वा सद्यादि ब्रह्मपञ्चकमीशानादिपञ्चकं कनिष्ठाद्यङ्गुष्ठान्तमङ्गुष्ठादिकनिष्ठान्तं विन्यस्य कनिष्ठानामिकामध्ये पुष्पं सङ्ग्राह्याङ्गुष्ठ तर्जनीभ्यां लिङ्गमस्तकात्पूजां हृदयेनावरोप्य तत्काले तत्पुष्पं लिङ्गं? मूर्ध्नि विन्यस्य
निर्माल्यमीशानादिशि हृदा शुद्धपाने? चण्डार्थं ? विन्यस्यास्तिम? लिङ्गं पाण्डुर?शास्त्रेण? पीठं प्रक्षाल्य सामान्यार्घ्य * * ? स्वाहान्तं हृदाभिषिञ्चेत् ॥
कामिके -
लिङ्गमूर्ध्निगतां पूजां पूर्वकाल प्रकल्पिताम् ।
गायत्रिया पूजयित्वा तु सामान्यार्घ्यं तु दापयेत् ॥
सूक्ष्मे च -
अर्घ्योदकेन सम्प्रोक्ष्य वक्त्रन्यासं समाचरेत् ।
अङ्गुष्ठादि कनिष्ठान्तं पञ्चब्रह्ममनु न्यसेत् ॥
ईशानादि तु सद्यान्तं वक्त्रन्यासक्रमं तदा ।
कनिष्ठानामिकामध्ये नवपुष्पं तु सङ्ग्रहेत् ॥
अङ्गुष्ठ तर्जनीभ्यां च निर्माल्यं च विसर्जयेत् ।
सूक्ष्मे -
विसर्जनस्य तत्काले पुष्पं मूर्ध्नि च विन्यसेत् ॥
कारणे -
न शून्यं मस्तकं लिङ्गं कुर्यात्येन कदाचन ।
ऐशान्यां स्थापयेत्पूजां मन्यग्रामश्चयाविताम्? ॥
कामिके -
अस्त्राम्बु नैव संशोध्य शिवाम�न्ग स वेदिकम् ।
सामान्यार्घ्य चाराभिकं समाचरेत् ॥
॥
अभिषेक * *? ॥
अस्त्राभिषेके पाशु%%%%
उन्च्लेअर् पगे ३७५-३७९
गन्धोदकेन संस्नाप्य शङ्खतोयाभिषेचनम् ।
अर्घ्योदकेन संस्नाप्य पुष्पं मूर्ध्नि च विन्यसेत् ।
गन्धं च लेपनं चैव हिमतोयाभिषेचनम् ॥
पञ्चब्रह्मषडङ्गैश्च बीजमुख्येन मन्त्रतः ।
शिवगायत्रिमन्त्रेण सहस्रधाराभिषेचनम् ॥
स्नानद्रव्येऽप्यलब्धे तु घृतेनैवाभिषेचयेत् ।
सर्वद्रव्येऽप्यलब्धे तु शुद्धतोयाभिषेचनम् ॥
अस्त्रमन्त्रं समुच्चार्य पुष्पं मूर्ध्नि च विन्यसेत् ।
शिवमन्त्रमनुस्मृत्य पद्मपीठपरिन्यसेत् ॥
सूक्ष्मे आत्मार्थपूजापटले -
पञ्चगव्यामृतैः स्नाप्य जलेनैवाभिषेचयेत् ।
क्षीरं दधि घृतं क्षौद्रं नालिकेरज?लं तथा ॥
इक्षुसारं तु शुद्धोदं गन्धतोयाभिषेचनम् ।
मन्त्रपुष्पं ततो दत्त्वा मन्त्रान्नं तु निवेदयेत् ॥
सहस्रे -
अभिषिच्य विशेषार्घ्यातु(द्?) धौतवस्त्रेण वेष्टयेत् ।
तथा - रामनाथपद्धत्याम् -
वर्मणा वाससामृज्य पीठे संस्थापयेच्छिवम् ।
लोहबेरे स्नानविशेषः सुप्रभेदे दर्शितः -
आसनावरणं त्यक्त्वा द्वारपालार्चनं विना ।
नित्यस्नानं विना लोहे स्नानं पर्वणि पर्वणि ॥
क्षणिकलिङ्गस्थाण्डिलभित्ति चित्रादौ यथोचितां शुद्धिं प्रोक्षणादिभिर्विदध्यात् ।
मृण्मये भित्ति चित्रै च दर्पणे
स्नानमाचरेत् तद्दुपीठस्य? वायव्यां दिशि यागविघ्ननिवारणार्थं प्रथमं दक्षिणाभिमुखं गणपतिं पूर्ववद्ध्यात्वा ॐ हां गणपतये नमः इति सम्पूज्य तस्य वामभागे याम्यदिङ्मुखीं लक्ष्मीं पूर्ववच्च कला? ॐ हां महालक्ष्म्यै नमः इति सड(म्य?)गभ्यर्च्य तस्य वामतः सदाशिवादि सप्तङ्गुरुन् ॐ हां सदाशिवादिगुरुभ्यां * * ?इत्यभ्यर्च्य सामान्यार्घ्यं दत्त्वा गन्धपुष्पादिभिरष्टदेवं सम्पूजयामीति सम्प्रार्थ्य लब्धानुज्ञः शिवं यजेत् ॥
पौष्करे -
अविघ्नार्थं तु यजनं गणेशस्य पुरा भवेत् ।
चिन्त्यविश्वसादाख्ये -
ताम्रपीठे च वायव्यां पूजयेत्तु गजाननम् ।
दक्षिणाभिमुखं भाव्य गन्धपुष्पादिभिर्यजेत् ॥
एवं गणेश्वरं पूज्य लक्ष्मीं पश्चात्तु पूजयेत् ।
ऐशान्यां गुरुपङ्क्तिं च पूजयेन्नन्दिकेश्वरम् ॥
आवाहनादिकं सर्वं स्वस्वमन्त्रेण कारयेत् ।
सदाशिवमनन्तं च श्रीकण्ठं पुनराम्बिकाम् ॥
गुहं कृष्णं च धातारं गुरून्सप्त समाश्रयेत् ।
मृगेन्द्रे च -
स्थित्वा पितामहः? स्थाने चानिलादिषु पूजयेत् ।
गणेशकमलास्त्वामि? पादुकाः कुसुमादिभिः ॥
प्रार्थयेदद्य?नुज्ञातं परमेशार्चनं प्रति ।
अथासनपूजां कुर्यात् ।
तस्यायं प्रकारान्तरं शिवासनं स्वरूपं पूजास्तवे स्पष्टमुक्तम् ।
तद्यथा -
धारिकाभिधशक्तिबीजमनुन्त पङ्कुजकूश्मलं धर्मबोध विरागभूतिपदं विलोमचतुष्टयम् ।
गात्रकञ्चन्दनद्वयं कमलं स केसरकर्णिकं शक्तिमण्डलसंयुक्तं नमामि शिवासनम् ॥
इति ॥
इदं च कमलरुपं शिवासनं सकलाध्वगर्भितं भवति ॥
यथा तत्रैव पृथ्विकन्दं कालतत्त्वान्तमित्यादि ।
एवं पृथ्व्यादिभिः कल्पितकन्दनालाद्यवय?वे कमलरूपे शिवासने पञ्चासनक्रमः कल्पनीयः ॥
उक्तं च योगजे -
अनन्ताख्यासनं पूर्वं सिह्मासनमतः परम् ।
योगासनं तृतीयं तु तुर्यं पद्मासनं भवेत् ॥
पञ्चमं विमलं प्रोक्तं कल्पयेदुपरि क्रमात् ।
इति ।
एतानि च कालानुगुणं कल्प्यानि ।
उक्तं श्रीमत्सन्ताने -
स्नाने सिंहासनं चैव अनन्तं वस्त्रवेष्टने ।
आल्प?गन्धपुष्पेषु पद्मासनमुदाहृतम् ॥
विमले च हविर्दद्याद्योगव्यादग्निरूढकम्? ।
आसनानि तु सम्भाव्य ज्ञात्वा यजनमारभेत् ।
एतेषां पञ्चासनानामपि सुप्रभेदे -
शिवासने अवधिकल्पर(न?)मुत्तमं यथा -
इह शक्त्यादि नालान्तमनन्तासनमीरितम् ।
गुणान्धर्मज्ञानादि सिंहाख्यं त्वासनं विदुः ॥
योगासनं तु तत्ख्यातं परमेश्वरस्य सर्वतम् ।
पद्मग्रन्थिं समारभ्य केसरान्ताब्जमासनम् ॥
शक्त्यन्तं केसरादूर्ध्वे कर्णिका विमलासनम् ।
एवमब्जासनं कल्प्य पूजयेत्स्वस्वनामभिः ॥
एवं सर्वाध्वमये पञ्चासनगर्भिते शिवासने शक्त्यादिशक्त्यन्तमर्चनं कुर्यात् ।
तस्यायं क्रमः -
तत्र प्रथमं देवस्य पीठे ॐ हां योगपीठासनाय नमः इत्यभ्यर्च्य तस्याधोभागे मध्यतः
अथ कूर्मशिलासीनां क्षीरोदसितविग्रहाम् ।
मौलौ बीजाङ्कुराकारां वरदामभयप्रदाम् ॥
पाशाङ्कुशधरां शक्तिं क्रियामाधाररूपिणीम् इति ध्यात्वा ॐ हाम् आधारशक्तये नमः ।
इत्यभ्यर्च्य प्रपञ्चव्याप्तितो ब्रह्मशिलास्थं मन्त्रनायकम् ।
मायापद्मासनं श्वेतमनन्तं प्रणमाम्यहम् इति ध्यानन् ॐ हाम् अनन्तासनाय नमः इत्यनन्तासनमभ्यर्च्य तदुपरि अनन्तं नीलसङ्काशं सहस्रफणमण्डितम् ।
हृदञ्जलिसमायुक्तमेकवक्त्रं चतुर्भुजम् ॥
इति विभाव्य ॐ हाम् अनन्ताय नमः
इत्यर्चयित्वा पीठस्याग्नेयनैर्-ऋतवायव्य ईशानकोणेषु -
सिंहाकाराः सितार्कांशुपीतकृष्णनिभाः शुभाः ।
अन्योन्यवीक्षणस्सिंहैरनेकैः? परिवारिताः ॥
दंष्ट्राकरालवदना स्त्रिणेत्रा भीमविग्रहाः ।
कृतत्रेतादिरूपेण शिवस्यासनपादुकाम् ॥
यद्वा -
धर्मस्तत्र वृषाकारो ज्ञानः सिह्मस्वरूपकः ।
वैराग्यं पीतभूतं स्यादैश्वर्यं श्वेतकुञ्जरम् ॥
इति ध्यात्वा ॐ हां धर्माय नमः ।
ॐ हां ज्ञानाय नमः ।
ॐ हां वैराग्याय नमः ।
ॐ हाम् ऐर्श्वर्याय नमः ।
इत्यनन्तसामर्थ्यरूपां(पान्?) धर्मादीन् सम्पूज्य धर्मादीनि चत्वार्यपि
प्रागादिषु सिंहासनस्य गात्ररूपाणि -
कृष्णश्वेतं पूर्वभागे श्वेतरक्तं तु दक्षिणे ।
रक्तं पीतं पश्चिमतः पीतकृष्णमुदग्दिशि ॥
चत्वारि गात्रकाण्येवमनन्तेशबलानि तु ।
अधर्मं दक्षिणशिरसमीशानपादमज्ञानम् पूर्वशिरः पश्चिमपादमवैराग्यमुत्तरशिरो दक्षिणपादमनैश्वर्यं पश्चिमशिरः पूवपादमिति ध्यात्वा ॐ हाम् अधर्माय नमः ।
ॐ हाम् अज्ञानाय नमः ।
ॐ हाम् अवैराग्याय नमः ।
ॐ हाम् अनैश्वर्याय नमः इति गात्राणि सम्पूज्य पीठस्योर्ध्वमेखलायामधो रक्तवर्णमधश्छदनं
विभाव्य नैर्-ऋते ॐ हाम् अधश्छदनाय नमः इत्यभ्यर्च्य मेखलादुपरि सितमूर्ध्वछदनं विचिन्त्य ईशाने ॐ हाम् ऊर्ध्वच्छदनाय नमः इति सम्पूज्य तन्मध्ये ऊर्ध्वदेशे - माणिक्कसदृशं कन्दं नालं नीलसमप्रभम् ।
कण्डकं तु प्रवालाभं वैरजतः प्रभं केसरं हेमवर्णाभमग्रे मुक्ताकृतीयुतम् इति ध्यात्वा ॐ हां कन्दाय नमः ।
ॐ हां बीजाय नमः ।
ॐ हाम् अङ्कराय नमः ।
ॐ हां नालाय नमः ।
ॐ हां कण्टकेभ्यो नमः ।
खल्वपत्रे ॐ हां दलेभ्यो नमः इति विद्येश्वराष्टकरूपाणि दलानि सञ्चिन्त्य
अभ्यर्च्य तन्मध्ये पीठोपरि ॐ हां केसरेभ्यो नमः इत्यभ्यर्च्य
तप्तचामीकरच्छायां पञ्चाशद्बीजगर्भिताम् ।
केसराणां चतुष्षष्ट्या कर्णिकां पूजयेत्ततः ॥
ॐ हां कर्णिकायै नमः ।
ॐ हां बीजेभ्यो नमः ।
इति समस्तरूपं पद्मं विभाव्य ॐ हां पद्माय नम इति स्थिरासनमभ्यर्च्य पद्ममुद्रां दर्शयेत् ।
तथा कारणे -
आधारशक्तिपद्मान्तं स्थिरासनमुदाहृतम् ।
ततः पूर्वादीशान्तकेसरेषु विद्येश्वराधिष्ठात्री शिवश्श?क्तिरेव वामाद्यष्टशक्ती
कोट्यादित्यसमास्सर्व(र्वा?) जटाखण्डेन्दुमण्डिताः ।
चतुर्भुजास्त्रिणेत्राश्च धृतचामरहस्तकाः ॥
वरदाभयहस्ताश्च शिवासक्तकराम्बुजाः ।
इति ध्यात्वा क्रमेण ॐ हां वामायै नमः ॐ हां ज्येष्ठायै नमः ॐ हां रौद्र्यै नमः ॐ हां काल्यै नमः ॐ हां कलविकरण्यै नमः ॐ हां बलविकरण्यै नमः ॐ हां बलप्रमथिन्यै नमः ॐ हां सर्वभूतदमन्यै नमः इत्यभ्यर्च्य कर्णिकायामीशाने -
मनोन्मनी महामुक्तिं? व्योमस्था व्योमगा शिवा ।
शुद्धस्फटिकवर्णाभा अक्षमालाधरी शुभा ॥
मुकुटादिभूषणैर्युक्ता सुस्तना च सुयौवना ।
इति ध्यात्वा मनोन्मनीमभ्यर्च्य -
दलाग्रवृत्ते कोट्यादित्यप्रतीकाशं शिवसूर्यस्य मण्डलम् ।
इति ध्यात्वा ॐ हां सूर्यमण्डलाय नमः इत्यभ्यर्च्य तदधिपतिम् - पञ्चवक्त्रं चतुर्बाहुं प्रतिवक्त्रं त्रिलोचनम् ।
तप्तचामीकराभासं सर्वाभरणभूषितम् ॥
नमो रुद्रान्वितं देवं सृष्टिकारणकारणम् ।
इति ध्यात्वा तु ब्रह्माणमात्मतत्त्वस्वरूपिणम् ॥
ॐ हां सुर्यमण्डलाधिपतये नमः इत्यभ्यर्च्य केसराग्रे वृत्ते कोटिचन्द्रद्युतियुतं कोटिचन्द्रसुशीतलम् ।
इति ध्यायन् ॐ हां सोममण्डलाय नमः इत्यभ्यर्च्य -
तन्मध्ये चादिविष्णुं च नीलजीमूतसन्निभम् ।
भस्मोद्धूलितसर्वाङ्गं सर्वाभरणभूषितम् ॥
एकवक्त्रं द्विनेत्रं च कर्णवेष्टनभूषितम् ।
चतुर्भुजं शङ्खचक्रं नमस्कार समन्वितम् ॥
पीताम्बरधरं विष्णुं स्थितिकारणकारणम् ।
किरीटमकुटोपेतं विद्यातत्त्वस्वरूपिणम् ॥
इति विचिन्त्य सोममण्डलाधिपतये विष्णवे नमः इति सम्पूज्य कर्णिकाग्रे अनन्ताग्निसमप्रख्यं शैवाग्निं तत्र कल्पयेद् इति ध्यात्वा ॐ हाम् अग्निमण्डलाय नमः इत्यभ्यर्च्य
रुद्रं? माणिक्कवर्णाभमेकास्यं च त्रिलोचनम् ।
चतुर्भुजं जटाचूडमिन्दुरेखाप्रसूनकम् ॥
भस्मोद्धूलितसर्वाङ्गं त्रिपुण्ड्रेन? विराजितम् ।
नमो रुद्रान्वितं देवं लयकारणकारणम् ॥
यद्वा -
अग्निबिम्बधरं श्वेतं नीलकण्ठं त्रिलोचनम् ।
व्यालमुद्रानलज्ञानं शूलहस्तं चतुर्भुजम् ॥
सर्पालङ्कारिणं नागराजयज्ञोपवीतिनम् ।
इति ध्यायन् अग्निमण्डलाधिपतये रुद्राय नमः इत्यभ्यर्च्य कर्णिकामध्ये कुटिलात्मिकां क्षीरोदनिभां गौरीं गायत्री संयुक्तामिच्छाज्ञान क्रियात्मिकां शक्ति मण्डलाय नमः इत्यभ्यर्च्य तदधिष्ठाय(न?)कमीश्वरम्
शक्तिमण्डलकेशानं व्यालयज्ञोपवीतिनम् ।
चन्द्रार्धशेखरं त्र्यक्षं शुद्धस्फटिकसन्निभम् ॥
खड्गत्रिशूलबाणाक्षमालाभयकरान्वितम् ।
कमण्डलुधरं देवं वरामम्बुरुह(म्भोरुह?) धारिणम् ॥
दक्षवामक्रमात् सिंहगजचर्मपरिच्छदम् ।
इति विचिन्त्य ॐ हां शक्तिमण्डलाधिपतये ईश्वराय नमः इत्यभ्यर्च्य तदुपरि क्षित्यादिकुटिलाप्रान्त व्याप्तिकम् इत्यासनं विभाव्य ॐ हा शिवासनाय नमः इति सम्पूज्य पुष्पाञ्जलिं हृत्प्रदेशे निधाय ॐ हां हं हां शिवमूर्तये नमः इति बिन्द्वन्तमुच्चार्य मूर्तिं सम्पूर्ण परमज्योतिरूपां दण्डाकारामविभक्तावयवां लिङ्गनाभे? विन्यस्य
तस्यां मूर्तौ दण्डभङ्ग्या मूर्ध्नो(र्धा?)दिपादान्तमीशानादीन्विन्यस्याष्टत्रिंशत्कलान्य असं श्रीकण्ठन्यासं च विदध्यात् ।
योगपीठं विभाव्यैवं मूर्तिं तस्मिन्निवेशयेत्
॥
आवाहनविधिः ॥
कामिके -
मूर्तिमीश्वरक?तत्त्वान्तं लिङ्गनाहेत? विन्यसेत् ।
हृत्सम्पुटश्च सान्तोऽयं मूर्तिमन्त्रमुदाहृदः(तः?) ॥
कलान्यासं ततः कुर्यात्तद्विधानमिहोच्यते ।
सदेशदेहसिद्ध्यर्थमष्टत्रिंशत्कला मताः ॥
अष्टत्रिंशत्कलान्यासः प्रागेव प्रतिपादितः ।
लिपिन्यासं तु वा कुर्यात् श्रीकण्ठादियुतं तु वा ॥
तस्मान्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् ।
या तस्य विमला शक्तिश्शिवस्य समवायिनी ॥
सैव मूर्तिक्रियाभेदात् सदाशिवतनुर्मताः? ।
षष्ठस्वरसमोपेतं बिन्दुनादसमन्वितम् ॥
सान्तं हृत्पुटितं स्मृत्वा विद्यादेहं प्रकल्पयेत् ।
बेरे सदाशिवे वापि लिङ्गेऽप्येवं समाचरेत् ॥
क्षित्यादिकुटिलाप्रान्तं मन्त्रसिंहासनस्थितम् ।
शुद्धस्फटिकसङ्काशं द्वात्रिंशल्लक्षणान्वितम् ॥
पद्मासनस्थं पञ्चास्यं प्रतिवक्त्रं त्रिलोचनम् ।
दृक्क्रियेच्छाविशालाक्षं ज्ञानचन्द्रकलान्वितम् ॥
धवलेशानवदनं पीतं तत्पुरुषाननम् ।
कृष्णाघोरमुखोपेतं रक्ताभोरक्तवक्त्रकम् ॥
सुश्वेतं पश्चिमास्येकं सद्योजातं प्रकीर्तितम् ।
नागोपवीतिनं शान्तं जटाखण्डेन्दुमण्डितम् ॥
दिव्यगन्धानुलिप्ताङ्गं दिव्यपुष्पैरलङ्कृतम् ।
शक्त्यसीशूलखट्वाङ्गवरव्यग्रकराम्बुजम् ॥
दक्षिणैरथ वामस्थै डमरुं बीजपूरकम् ।
नागाक्षसूत्रे नीलाब्जं बिभ्राणं पञ्चभिः करैः ॥
सञ्चिन्त्य मूर्तेरुपरि शक्तिमात्र विजृम्भणम् ।
लिङ्गाकारोपमर्देन भावने लिङ्गतां त्यजेत् ॥
इति मूर्तेरुपरि ॐ हां हौं हां विद्यादेहाय नमः ।
इति नादान्तं शक्त्यन्तमुच्चार्य सदाशिवतत्त्वान्तव्यापकं विद्युत्प्रभास्रगञ्जला? वापिभूतं? ध्यात्वा लिङ्गदैर्घ्ये विद्यादेहं
विन्यस्य ॐ हौं नेत्रेभ्यो नमः इति सर्वज्ञता बीजं नेत्रं मुखं पञ्चकनेत्रेषु विन्यस्यानन्तरम् ऋजूर्ध्वकायस्सन् पुष्पैरञ्जलिमापूर्य हृत्प्रदेशे निधाय स्वगुरुपदेशेन मूलमन्त्रमयं तेजः पुञ्जनिभं हृदयाग्रे परं शिवं द्वादशान्ते निष्कलं स्वप्रकाशं सर्वगुणसम्पन्नं परमशिवं सञ्चिन्त्य ततो रेचकेन मूलमन्त्रमति स्पष्टाकारोकारादिमात्रावाच्यं पृथिव्यादिसमानान्तपाशजालमतिक्रम्य उन्मना शक्त्यतीत परशिवमुच्चार्य वाच्यवाचकभावेन शिवसमरसीभूतं मन्त्रमेव तेजः पिण्डं
सर्वज्ञतादिषडङ्गोपेतं परामृतस्यन्दि बिन्दुरूपं शिवं सृष्ट्या पूरकेण समानीय भ्रूबिन्दौ शरदिन्दुसहस्रवदाभाव्य रेचकेन पुष्पाञ्जलिगतां ध्यात्वा तमावाह्य नमोमुद्रया मूलेन समानीय हृदयेनावाह्यस्थापिन्या विद्यादेह हृदम्बुजे संस्थाप्य सन्निधान्या मूलेन मूर्तिद्वयं व्याप्य सन्निधीभूतं विचिन्त्य सन्निधानार्घ्यम् दत्त्वा निष्ठुरया निरुद्ध्य निरोधार्घ्यं च दत्त्वा कालकण्ठ्यका(ण्ठ्या?) फडन्तास्त्रेण विघ्नानुत्सार्य लिङ्गमुद्रां हृदा ध्यात्वा स्वामिन्सर्वजगन्नाथ यावत्पूजावसानकम् ।
तावत्सम्प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधि भव ॥
इति विज्ञाप्य स्वागतार्घ्यं दत्त्वा कवचेनावकुण्ठ्य हृदाद्यङ्गैस्सकलीकृत्य मूलेनैकत्वं विधाय धेनुमुद्रया महामुद्रया च शक्ति मन्त्रेणामृतीकुर्यात् ॥
श्रीपराख्ये -
एवं शाक्तं वपुः कल्पि(ल्प्य?) तस्मिन्परमकारणम् ।
परमं शाश्वतं सत्यज्ञानानन्द सुखात्मकम् ॥
व्यापकं सर्वतत्त्वानामप्रमेयमनूपमम् ।
वाच्यवाचकरहित वाङ्मनातीतगोचरम् ॥
व्यक्तं कुर्याद्विशेषेण निष्कलं सकलात्मनि ।
परावाहनमित्युक्तं शिवमन्त्र नियन्त्रणात् ॥
इति ॥
तथा -
नवात्तेजसा?ह्वानं विधायाह्वानमुद्रया ।
स्थापिन्या स्थापनं कुर्याच्चक्तिविग्रहसंशये ॥
प्रणत्या सन्निधीकृत्य निरुध्याद्रोधमुद्रया ।
बिन्दुनाद समायुक्तसान्तं मात्रात्रयान्वितम् ।
निष्कलं परमं बिन्दुं तदूर्ध्वाधेन्मि?नान्तकम् ॥
मन्त्रमूर्तिं शिवं सृष्ट्या भ्रूमध्ये मनसा स्मरेत् ।
चन्द्रबिम्बसमप्रख्यं स्मृत्वा पुष्पाञ्जलिस्थितम् ॥
आवाहिन्या पुनर्नीत्वा स्थापिन्या स्थापयेद्धृदि ।
सूक्ष्ममूर्तिगतं देवं विद्यादेहं समन्ततः ॥
व्याप्य जीवमिवाश्लिष्टं देहदेह्यविभागतः ।
स्वस्मिन्नभिमुखीभूतं संस्मरेत् सन्निधानया ॥
पूजाविधि(धौ?) तु तत्रेशं रोधयेन्निष्ठुराख्यया ।
निरोधार्घ्यं तदा दद्यात् सन्निधानाय शम्भवे ।
कालकण्ठ्या फडन्तेन हेतिना पुष्पमुत्क्षिपन् ॥
अन्तायं समुत्सार्य लिङ्गमुद्रां प्रदर्शयेत् ।
हृदा बद्ध्वा नमस्कारं कवचेनावकुण्ठ्य च ॥
हृदये हृदयं शुक्लं शिरः पीतं शिरस्सु च ।
शिखां रक्तां शिखामध्ये तनुत्रं चास(सि?)तं हृदि ॥
अग्निज्वालानिभं शस्त्रमस्त्रवर्गेषु विन्यसेत् ।
इत्येवं सन्निधानेन सकलीकृतिरीरिता ॥
शिवैकवर्णतां ध्यायेदङ्गानां भिन्नवर्णिनाम् ।
पुष्पमारोप्य मूलेन परमीकरणं हि तत् ॥
अमृतीकरणं कुर्यान्मन्त्राणां धेनुमुद्रया ।
महामुद्रां हृदा बध्वा दीपनं च प्रकल्पयेत् ॥
स्वागतं ते महादेवेत्युक्त्वा सम्प्रार्थयेद्विभुम ।
ननु यद्यावाह्यते शिवः तदा तस्य विसर्जनं च भवति ।
ततस्सर्वगत्वहानिरिति चेत् ॥
मैवम् ।
व्यापकशिवस्यैव भक्त्या मन्त्रेणाभिव्यक्तीकरणमावाहनमुच्यते ।
उक्तं च -
सर्वत्र व्यापिनं शान्तं देवदेवं सदाशिवम् ।
अभिमुख्यकरणं यत्तदावाहनमिहोच्यते ॥
पूजापरिसमाप्तौ तु विमुखं न विसर्जनम् ।
ननु सर्वगस्य सर्वत्र सन्निहितत्वादिदमपि विरुद्धमिति चेत् ॥
नात्र तथा विधसन्निधानेन प्रयोजनाभावात्
इह पूज्यपूजक भावानुविद्ध साधकश्रद्धानुरूपमनुग्राह्यानु ग्राहकत्व लक्षणसन्निधानमावाहनम् ।
तच्च वाच्यवाचकयोरभेदाद्वाचकस्य मन्त्रस्य विशेषविन्यासाद्वाच्यस्यापि शिवस्य विशिष्टा सन्निधिर्भविष्यतीति न विरुद्ध्यते ॥
ननु तथापित्तस्य(पितस्य?) कथमेकत्राभिव्यक्तिरावाहनमिति चेत् ॥
सत्यम् ।
तथापि तरावामूलाग्रस्थितवह्नेरेकत्राभिव्यक्तिवदुपपत्तेः ।
काष्ठगतवह्नि व्यक्तेर्मथनापेक्षा वदस्या अपि शिवाभिव्यक्तेरावाहन क्रिया पेक्षोपपद्यते ॥
तर्हि पुनः पुनरावाहनं व्यर्थमिति चेत् ।
न कुण्डगताग्नेर्ज्वालनाय पुनः पुनर्वाय्वापेक्षा वदुपपत्तेः ॥
यथा कामिके तन्त्रसारे -
आमूलस्या(ला?)ग्रस्थितस्याग्नेरभिव्यक्तिर्यथा तरौ ।
तद्वदेकत्र चिद्व्यक्तिर्व्यापकस्य न बाध्यते ॥
तथा कामिके -
यथा काष्ठगतो वह्निर्व्यजयते मथनादिना ।
तथा मन्त्रप्रभावेन(ण?) भक्त्याभिव्यज्यते शिवः ॥
स्तनु?(सतनु?)स्तनु हिनो वा सर्वकृत्सर्वगश्शिवः ।
तथा सुप्रभेदे -
यथा कुण्डगतस्याग्नेर्वायुना ज्वलनं भवेत् ।
तथात्र लिङ्गे मन्त्रेण व्यज्यते भगवानपि ॥
कामिके -
यथात्मनस्तनुद्वारा स्यातामिह गमागमौ ।
तद्वन्मन्त्रतनुद्वारा शिवस्येष्टौ गमागमौ ॥
अचिन्त्य शक्तियुक्तत्वाद्व्यापकोऽव्यापकश्च सः ।
नन्वात्मनातीतगोचरस्यारूपस्य शिवस्य कथमेकत्र दृश्यतेति चेत् ।
सत्यम् ।
तथापि अदृश्यस्य राहोश्चन्द्रार्कमण्डले दृश्यत्ववदादर्शे स्वात्मन इव काष्ठमध्ये वह्निरिव तोयकान्ते जलस्येव सूर्यकान्तेऽनलस्येव मणिमध्ये द्युतेरिव घनमध्ये विद्युत इव पाषाणे लोहस्येव क्षीरे सर्पिष इव रात्र्यन्ते अर्कोदय इव शिवस्यापि द्रद्रश्यर्त्थो(दृश्यत्वो)पपत्तेः ।
वस्तुतस्तु शिवस्यावाहनन्तस्म(नं तत्स्म?)रणम् ।
विसर्जनं तद्विस्मरणमिति ज्ञेयम् ॥
यथा वातुले -
शिवं शुद्धरूपं(द्धस्वरूपं?) हि वाङ्मनातीतगोचरम् ।
कथमावाहनं तस्य स्थापनं सन्निरोधनम् ॥
ईश्वर उवाच -
अखण्डा(ण्डं?) सर्वग(गं?)व्योम अल्पपात्रे धृतं यथा ।
तथाप्यनन्तं सर्वत्र व्यापित्वं च न गच्छति ॥
अरूपं ध्यानसंयुक्तं रूपध्यानं न एव च ।
अरुपारुपयुक्तात्मावाहयेत्तु स्वरूपकम् ॥
अदृश्या दृश्यतामेति राहुश्चन्द्रार्कमण्डले ।
आत्मा सर्वगतो बुद्धौ दृश्यते व्याप्य संस्थितः ॥
आदर्शे निर्मले लोहे निश्चैतन्ये षडानन ।
पश्यत्यात्मानमात्मा च निर्मलांया(लायां?) धियामपि ॥
तथैव शिवरूपं हि ज्ञात्वा देहस्य मध्यमे ।
काष्ठमध्ये यथा वह्निस्तोयकान्तेजलं यथा ॥
सूर्यकान्तेऽनलं यावत्थिते भिन्नोपलिप्यते? ।
मणिमध्ये द्युतिर्यावद्घनमध्ये तु ज्योतिषु ।
पाषाणे लोहवज्ज्ञेयं क्षीरे सर्पिर्यथा तथा ॥
तात्र्यन्तेऽर्कोदयं यावत्तावदेहोदयं? गुह ।
गुरुपदेशमार्गेण स्मृतिरावाहनं भवेत् ॥
विस्मृतं च तथैवेह विसर्जनमिहोच्यते ।
एवमेव तु भावेन ए(भा?) वयेत्तु महाशिवम् ॥
एतदावाहनं त्रिविधं सालम्बं निरालम्बं सङ्क्रमं चेति ।
तथा
आवाहनं त्रिधा प्रोक्तं तथैवोद्वासनं त्रिधा ।
सालम्बं च निरालम्बं सङ्क्रमं चेति तत्त्रिधा ॥
नित्यार्चनार्थं सालम्बं धूपादा हनं विदुः ।
सर्वत्र च प्रतिष्ठासु स्थण्डिलेऽष्टदले जले ॥
रवौ पूजासु चैतासु निरालम्बनमग्निषु ।
उद्धृत्य सङ्क्षिप्य चार्चायां स्थापनं सङ्क्रमं विदुः ॥
तदनु स्वागतं ते भगवन्निति विज्ञाप्य विशेषार्घ्येण ॐ हां हौं शिवाय पाद्यं नमः ।
इति पादयोः पाद्यमाचमनं स्वधेति पूर्वयाम्य सौम्यपश्चिमोर्ध्वमुखेषु चाचमनम्
अर्घ्यं स्वाहेति ईशानादिपञ्चशिरस्स्वङ्गुष्ठानामिका मध्यमाङ्गुल्यग्रेणोत्तान मुखेनार्घ्यं दत्त्वा पुष्पं वौषडिति दूर्वा पुष्पाक्षतादिकं दद्यात् ॥
अंशुमति -
आवाहने तु तन्मूर्तिं? त्रवती द्रवहेमवत्? ।
तस्मादावाहने काले त्वर्घ्यं दद्याद्विचक्षणः ॥
उक्तं च -
पाद्यमाचमनं चार्घ्यं दूर्वापुष्पाक्षतादिकम् ।
सुस्वागत क्रिया पूर्वमपि कल्पेन कल्पयेत् ॥
तथा -
समुत्क्षिप्रविशेषार्घ्यं भाजनं वामपाणिना ।
पद्भ्यां निवेशयेत् पाद्यं दक्षहस्तेन सम्मुखः ॥
मुखेष्वाचमनं दद्यादर्घ्यं पञ्चसु मूर्धसु ।
दूर्वापुष्पाक्षतादीनि पश्चाल्लोकोपचारतः ॥
नमस्कारस्वधास्वाहावषड्गातियुजा हृदा ।
चतुष्टयमिदं तत्र परिपाद्यानिवेदयेत्? ॥
ततस्सहृदा स्वाहान्तमूलेन धूपदीपाचमनार्घ्याणि दत्त्वास्त्रेण पिण्डिकाधोभागं वामहस्तेन स्पर्शयन् दक्षहस्तेन नवपुष्पं गृहीत्वा तेन पुष्पेण पूर्वार्चितमपोह्य तत्पुष्पं च विसृज्य दक्षिणहस्तं प्रक्षाल्य चलासनोक्ताभ्यङ्गादिस्नपनाङ्गानि स्थिरासनस्थितेप्य? मनसा विभाव्य शिवगायत्रिमन्तेण हृदयेन वा जलं स्रावयित्वार्घ्योदबिन्दुना संस्नाप्य मन्त्रपूष्पेणाभ्यर्च्य दीप्यमानाग्निशमनार्थं मन्त्रान्नं च निवेदयेत् ।
तथा अंशुमति -
चलस्थिरासनं चैव स्नानं द्विविधमेव च ।
चलासने तु स्नानं स्यादभ्यङ्गादि विशेषतः ॥
स्थिरासितेभ्यमावाह्य? मानसस्नानमाचरेत् ।
तत्पीठं वामहस्तेन स्पर्शयेदस्त्रमन्त्रतः ॥
नवपुष्पं तु सङ्ग्राह्य तत्पुष्पं तु विसर्जयेत् ।
तत्पुष्पार्चितपुष्पं च वर्जयेत्तु विचक्षणः ॥
दक्षहस्ताद्विशेषेण जलोपस्पर्शनं कुरु ।
मन्त्रतोयाभिषेकान्तमन्त्रपुष्पं तु दापयेत् ॥
मन्त्रपुष्पं ततो दत्त्वा मन्त्रान्नं च निवेदयेत् ।
अग्नेर्दीपनमेवं च शमनार्थं निवेद्यकम् ॥
मन्त्रं रहस्यमित्युक्तमदनान्न?मुच्यते ।
रहस्योद्योतनं चैव मन्त्रान्नमिति कथ्यते ।
ततश्शिवमन्त्रमनुस्मृत्य गन्धपुष्पैरभ्यर्च्य हेमकौपीन मेखलोपवीत गोलकाघृतवारि मकुटादिरलङ्कृत्य पुष्पं मूर्ध्नि विन्यस्य इण्डाभिः पुष्पदामभिर्विभूष्यास्त्रेण घण्टां नादयन्धूपदीपाचमनार्घ्याणि दत्त्वा मनोरथमुद्रां दर्शयेत् ॥
तथांशुमति -
शिवमन्त्रनुस्मृत्य गन्धपुष्पं न्यसेत्ततः ।
गोलका घृतवारिं च मकुटं चैव योजयेत् ॥
सर्वाभरणसंयुक्तदामवृत्ताद्यलङ्कृतम् ।
दामाधारसमायुक्तं चित्रदामैरलङ्कृतम् ॥
तथा अन्यत्र
चन्दनागरुकर्पूरं कुङ्कुमादिविलेपनम् ।
कुर्याद्दक्षिणहस्तेन द्वाभ्यां वै नैव वामतः ॥
मध्ये कनिष्ठे चान्योन्यं वलिते स्वतलस्थिते ।
अनामिके प्रदेशिन्यौ सङ्गताग्रे समाय? च ॥
तन्मूलपर्वणो न्यस्येदङ्गुष्ठाग्रे मनोरथा ।
मृगेन्द्रे -
चलिते मध्यमाङ्गुष्ठौ विधी यस्य च हस्तयोः ।
तदन्तरे स्वतलके तर्जन्यौ सङ्गतो(तौ?) पुनः ॥
तन्मूले पर्वणोरग्रे निधाया?ङ्गुष्ठयोरिदम् ।
मुद्रा मनोरथा नाम प्रभोस्सान्निध्य कारिका ॥
अजिते च -
मध्यमे प्रसृतौ युक्ते कृत्वा तद्देशनी? च द्वयम् ।
अङ्गुष्ठमूले पर्वस्थं कृत्वाङ्गुष्ठद्वयं ततः ॥
अनामिका पृष्ठ संलग्ने कृत्वा कुर्यामनोरमाः? ।
पूजकेन प्रयोक्तव्या शिवसान्निध्यकर्मणि ।
॥
आवरण पूजा ॥
तदनु आवरणपूजामध्ये शिवादनुज्ञां लब्ध्वा पञ्चावरणमेकावरणं वार्चयेत् ।
नन्वार्थपूजायाम् सूक्ष्मे तन्मध्ये शिवमावाह्य पञ्चावरणमर्चयेद् इति वचनात् कथमत्रैकावरणस्य प्रसक्तिरिति चेत् ।
सत्यम् ॥
तथापि एकमावरणं प्रोक्तं
नित्यनैमित्तिके इति वचनात् एकावरणपुजा तु कालार्थं तु विशेषतः ।
इति सन्तान वचनाच्च नित्यनैमित्तिककाम्यसाधारणस्य एकावरणस्य नित्येऽपि प्रसक्तितस्सम्भवात् अंशुमति आत्मार्थपूजा प्रकरणे पञ्चावरणम् एकावरणं वा विकल्पेन कर्तव्यमिति स्पष्ट मुक्तम् ॥
तद्यथा -
ईशमूर्त्त्यादिरूपेण पञ्चावरणमर्चयेत् ।
अथवान्यप्रकारेण एकावरणमर्चयेत् ॥
कामिके -
एकावरणे कश्चिद्विशेष उक्तः -
एकावरणपूज्या(जा?)स्यारङ्गै(स्यादङ्गै?) ब्र(र्ब्र?)ह्मभिरेव च ।
अथवा केवलैरङ्गैः केवलैर्ब्रह्मभिस्तु वा ॥
इति ॥
ब्रह्माङ्गैर्लोकपैरस्त्रैर्भवेदावरणत्रयम् ।
तत्रैकावरणार्चने त्रीण्यासनानि ।
पञ्चावरणार्चने पञ्चासनानि कल्प्यानि ॥
उक्तम् सन्ताने -
एकावरणपूजायां त्रीण्यासनानि कल्पयेत् ।
सिह्मं पद्मं च विमलं कल्पयेदासनत्रयम् ॥
तत्र प्रथमावरणार्चनं लिङ्गमूले ।
द्वितीयावरणार्चनं पीठोर्ध्वभागे ।
पद्मदलाग्रेषु तृतीयावरणार्चनम् ।
पीठकण्ठे चतुर्थावरणार्चनम् ।
पीठपादे पञ्चावरणार्चनम् ।
पीठादाययो? ब्रह्मशिलोपरि कार्यम् ।
उक्तं सन्ताने -
गर्भावरणमेकं तु पूजयेल्लिङ्गमूलगः(तः?) ।
तथान्यत्र -
अनन्ताद्या दलाग्रेषु विद्येशांस्तत्र पूजयेत् ।
पीठकण्ठे गणेशांस्तु लोकेशान्पीठपादतः ॥
तदस्त्राणि त्वधोदेशे स्थिते ब्रह्मशिलोपरि ।
अत्र चललिङ्गार्चने आधारशिलाभावेऽपि ब्रह्मशिलास्थानीये पद्मपीठ एवार्चयेत् ।
एवं स्वव्याप्तिभेदेन प्रभोरावरणं नियोजयेत् ।
तत्र शिवस्य देहात्परितो वक्त्रेभ्यो वक्त्रमादायाङ्गेभ्योऽङ्गान्यादाय दीपाद्वीप ग्रहणमिव ईशानादिभिः स्वस्वमन्त्रैरङ्कुशमुद्रयाकृष्य तत्तस्थानेषु यजेत् ॥
उक्तं विजये -
पञ्चब्रह्म तदङ्गानि देवस्य परितस्ततः ।
वक्त्रेभ्यश्च तदङ्गेभ्यो दीपाद्दीपवदाहरेत् ॥
अत्र क्रमः - मूलेन शिवमभ्यर्च्य शिरः पञ्चके आ?द्यम् ईशानमादाय ॐ होम् ईशानमूर्ध्नाय नमः इति ईशान दले ।
स्फटिकाभं जगद्धेतुं त्रिणेत्रं चन्द्रमौलिनम् ।
सम्यं प्रसन्नमिशानं त्रिशूलाभयपाणिनम् ॥
इति ध्यात्वा पूजयेत् ।
वक्त्रपञ्चकेभ्यो वक्त्रमादाय ॐ हें तत्पुरुषवक्त्राय नमः इति पूर्वदले -
पीताम्बरोपवीतं च त्रिणेत्रं कनकप्रभम् ।
मातुलङ्गाक्षसूत्रे च दधानं चन्द्रमौलिनम् ॥
इति ध्यात्वा यजेत् ।
हृत्प्रदेशाघोरमादाय ॐ हुम् अघोरहृदयाय नमः इति दक्षिणदले
त्र्यक्षं मौलीन्दुहृत्सौम्यं कुण्डलालङ्कृतं ततः ।
वभ्रुश्मश्रुशिरोजं च दंष्ट्रालं विकटाननम् ॥
कपालमालाभरणं सर्पवृश्चिक भूषणम् ।
खट्वाङ्गं च कपालं च खेटकं पाशमेव च ॥
वामहस्त चतुष्के तु दक्षहस्तचौष्टये ।
त्रिशूलं परशुं खड्गं दण्डं चैवारिमर्दनम् ॥
ध्यायेन्नवाम्बुदाभासमघोरं सर्वकामदम् ।
इति ध्यात्वा समर्चयेत् ।
वामदेव गुह्यमण्डलमादाय ॐ हिं वामदेवगुह्याय नमः इत्युत्तरदले -
वामं रक्तं सुरक्ताभं माल्यवस्त्रोपवीतकम् ।
तुङ्गनासारुणोष्णीषं खड्गखेटकपाणिनम् ॥
इति ध्यात्वा वाह्येत् ॥
पादाद्यं पादाद्यङ्गात् सद्योजातमादाय ॐ हं सद्योजातमूर्तये नमः इति पश्चिमदले
स्तितस्रग(ग्ग?)न्धभूषाढ्यं सितोष्णीषं सिताम्बरम् ।
सौम्य मौलीन्दुसम्पन्नं बालाकारं त्रिलोचनम् ॥
सद्योजातं सितं ध्यायेद्वरदाभयहस्तकम् ।
इति ध्यात्वावाहयेत् ॥
यद्वा -
ईशानादिकान् पञ्च सं(स?)स्म्मितान् सौम्यलोचनान् ।
सुश्वेतस्वर्णभृ(शृ?)ङ्गा सृग्विमलानीश्वराननान् ॥
जटामकुटशोभाढ्यान्
सर्पबालेन्दु भूषणान् ।
वामैर्नागाक्षसूत्रौ च नीलाब्जं बीजपूरकम् ॥
शूलाभयवराशक्तिः सव्यैर्धारयते करैः ।
इति विचिन्त्य आवाहयेत् ॥
सर्वज्ञताबीजात्मकं नेत्रेभ्यो नेत्रमादाय ॐ हौं नेत्रेभ्यो नमः ।
इतीशानस्योत्तरभागे -
नेत्रं त्रिणेत्रसंयुक्तं श्वेतवर्णं दित्गाननम् ।
त्रिशूलं चाक्षसूत्रं च बिभ्राणं दक्षिणे करे ॥
कपालं कुण्डिकां सव्ये जटाखण्डेन्दुमण्डितम् ।
यद्वा -
अरुणाभं स्मरेन्नेत्रं दृक्क्रियेच्छात्मकं विभो ।
त्रितत्त्वरूपमावाह्य मण्डलत्रितयाश्रयः ।
हृदाद्यङ्गोक्तवदनः करधार्यादिसंयुतम् ॥
एकास्यं वा त्रिशूलाभिहस्तं योग शिवोक्तितः ।
इति विभाव्यावाहयेत् ॥
सद्भावज्ञानात्मकहृदयं हृदयमादाय ॐ हां हृदयाय नमः इत्याग्नेयदले यजेत् ।
सर्वेशितात्मलक्षणं शिरः शिरोदेशादाय ॐ हीं शिरसे नमः इति ईशानदले नेत्रस्योत्तरे ।
अनन्याधीनवशित्वरूपां शिखां शिखाया आहृत्य ॐ हूं शिखायै नमः इति नैर्-ऋतिदले पूजयेत् ।
परैरभेद्य तेजोरूपं कवचं सर्वाङ्गादादाय ॐ हैं कवचाय नमः इति वायव्यपत्रे ।
प्रतापरूपमस्त्रं हस्तेभ्यो(भ्य?) आदाय पूर्वादिचतुर्दिक्षु दलाग्रेषु तत्पुरुषादिभ्यो वामभागे ॐ हः अस्त्राय नमः इति यजेत् ।
तथा -
दक्षजानुसमीपस्थं हृदयं वह्निदिग्गतम् ।
वामजानुसमीपस्थमीशाने तु शिरो भवेत् ॥
दक्षांसनिर्गतं चूडावर्मा(र्म?) वामांससन्निधौ ।
पूर्वादिदिक्षु चत्वारि भीमान्यस्त्राणि विन्यसेत् ॥
कालोत्तरे -
हृदयं चन्द्रसङ्काशं शिरश्चामीकरप्रभम् ।
शिखा(खां?) सिन्धूरवर्णाढ्यां कवचं भृङ्गभास्करम् ॥
नेत्रं विद्युत्प्रतीकाशमस्त्रमग्नि समप्रभम् ।
ज्ञानरत्नावल्याम् -
पद्मासनस्थानर्धेन्दु जटामकुटधारिणम् ।
त्रिलोचनांश्चतुर्बाहून् सर्वाभरणभूषितान् ॥
कपालशूलहस्ता च? वरदाभयहस्तकान् ।
चतुर्वक्त्रानथास्त्रं च दंष्ट्रिणं पिङ्गलद्युतिम् ।
क्वचित्प्रोक्ताश्चतुर्वक्त्राश्चतुर्हस्तारस्त्र्यम्बकाः ॥
क्वचि? मे?कान नाः प्रोक्ता हृदादिनेकवक्त्रान्वा? चतुर्हस्ता हृदादयन् वरदान भयप्रदान् ? ।
त्रिशुलाब्जधरान्वापि मनसैव विभावयेत् ।
प्रोक्ताश्चतुर्हस्ता शूलाभयकरं चास्त्रं प्रज्वलच्छिखयोज्वलम् ।
इति ध्यायेत् ।
तथा सर्वज्ञानोत्तरे -
तदस्तु सकलं कुर्यादव्यक्तं व्यक्तलक्षणम् ।
वर्णरूपकसंयुक्तं पुनः पूजां प्रकल्पयेत् ॥
ईशानं पञ्चधा मूर्ध्ना वक्त्रं वक्त्रचतुष्टयेत्? ।
दीप्ततेजस्थितोक्तानां पञ्चमं प्रणवेन तु ॥
हृदयाङ्गैरघोरं तु गुहे वामं नियोजयेत् ।
पादादारभ्य सर्वाङ्गैस्सद्योजातं तु विन्यसेत् ॥
नेत्रं नेत्रेषु विन्यस्य ततोऽङ्गानि नियोजयेत् ।
पौष्करे -
सर्वज्ञताया बीजं युक्तस्तेन निरीक्षणः ।
सद्भावो हृदयं तस्य शिरस्सर्वोच्छ्रितो गुणाः ॥
शिवत्वमपराधीनं यच्छिखा सोपरिस्थिता ।
स्वभावगुप्तमन्येषां समर्थमपि गोपने ॥
तेजः कवच साधम्यात्तन्नाम्ना व्यपदिश्यते ।
योऽसावप्रसहः शम्भोः प्रतापो हेतिरुच्यते ॥
यथा राजा च राजपुरुषे नास्थित स्थितस्सन्न? शोभते ।
तथा शिवच्छाप्येकाकीत्मयस्थितो?
न राजते ।
अतः परमेश्वरस्य शोभार्थमावृतीरूपेणाङ्गपूजा युक्तैव ।
एतेषां शिववदावाहन स्थापन सन्निधान सन्निरोध पाद्याचमनार्घ्य पुष्पदानाख्याष्ट संस्कारपूर्वकं यजनं कार्यम् ।
अवकुण्ठनम् अमृतीकरणं न कार्यम् ।
तदुक्तं कामिके -
आवहनादीन्येतानि स्वमन्त्रक्रमशोऽर्चयेत् ।
नावकुण्ठनमेतेषाममृतीकरणं तथा ॥
संस्काराष्टकमेवैषां प्रत्येकं विहितं बुधैः ।
स्नपनं दीपराप्तिं? च न पृथत्वाङ्ग? भावतः ॥
यद्वा -
संस्काराष्टकसमुदितमेव स्मृत्वार्घ्यं दत्त्वा क्रियापूरणाय ईशानादीनां
ब्रह्मणां धेनुपद्मत्रिशूलमकरस्रगाख्या मुद्राङ्गानां सान्निध्यार्थं नमस्कारमुद्रां प्रदर्शयेत् ।
तदुक्तं मृगेन्द्रे
ततः प्रदर्शयेन्मुद्रां पूरणाय क्रियाविधेः ।
तासूर्म्मकर? शुलाब्ज सुरभ्यो ब्रह्मणां प्रभोः ॥
मनोरथो तदन्येषां नति सान्निध्यकारिकम् ।
मृगेन्द्रपद्धत्याम् -
स्पृष्टे कनिष्ठे चान्योन्यं परस्परतलाश्रिते ।
अनामिके च मध्ये द्वे प्रसार्यस्यां?ग्रसङ्गते ॥
तर्जन्यौ मध्यमा पृष्ठे लग्ने प्रान्ते च कुञ्चिते ।
अङ्गुष्ठौ मध्यमा लग्नप्रान्ते मुद्रा स्रगीरिता ॥
सम्मुखे तर्जनीयुग्मे कुञ्चितेऽनामिकाद्वये ।
ज्येष्ठाभ्यां पृष्ठतः कान्ते स्रगेव मकरी भवेत् ।
तथा श्रीजयमुद्राधिकारे -
उभयोर्हस्तयोरेव ज्येष्ठाङ्गुलिविरहिते ।
पृष्ठतोऽनामितो? कार्ये तर्जन्यौ तानने ॥
अङ्गुष्ठौ सुसंश्लिष्टावास्याकारप्रसारितौ ।
दंष्ट्राकारेऽन्तरे कार्ये अङ्गुष्ठौ तु कनिष्ठके ॥
मकरी नात्म(म?) मुद्रैषा सर्वविघ्नप्रदक्षिणी ।
करयोस्तर्जनीयुग्मे नामयुग्मे च पृष्ठतः ॥
लीने युग्ये त्रयोशिष्टे शिष्टे शूलं प्रसारिते ।
अङ्गुष्ठगभ्यौ संसित्तौ पाणीपद्मं घृताङ्गुली ॥
विदर्भपाणी संयोज्य तर्जनीमध्यमे मथः ।
कनिष्ठानामिको ज्येष्ठ धेनुमुद्राज्जलीन्नती ॥
ततः शिवाय मूलेन पुष्पं दत्त्वा पूजातामस्त्व(सत्व?) दोषपरिहाराय परमीकरणं कृत्वा भोगाङ्गद्वारेणार्चितानां सर्वेषामङ्गानाम् अङ्गिना शिवेन सार्धमेक्ष्मत्यं(मैकमत्यं?) शिवतेजसा व्याप्तित्वं भावयेत् ॥
तदुक्तं मोहशूरोत्तरे -
तामसी च भवेत्पूजा परमीकरणं विना ।
अत्र ज्ञानशिवेन? भोगाङ्गभोगैक्ष(क्य?)योः फलमुक्तम् ।
यथा - भोगाङ्गा पद्मस्था विविधायुधार्चनमात्मनश्शिवगुण प्राप्त्यर्थमैक्यं प्रभोरङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मन इति ॥
ततो द्वितीयावरणे अनन्तादीनष्टौ पूर्वादिदिक्षु संस्थितान् क्रमेण पूजयेत् ।
तत्र -
विद्येश्वराश्चतुर्वक्त्रा हरवद्दशबाहवः ।
खण्डेन्दुमौलयस्सौम्य पद्मस्था विविधायुधाः ॥
खड्गखेटधनुर्बाणाः? कमण्डल्वत्र्यक्षसूत्रिणः ।
वराभयकरोपेताः? शूलपङ्कजपाणयः ॥
इच्छारूपधरास्सर्वे भुक्तिमुक्तिफलप्रदाः ।
हेमाग्नी(ग्नि?) नीलभृङ्गेन्दुहिमरक्तासिताः क्रमात् ॥
यद्वा -
वरदाभयहस्ताश्च ज्ञानमुद्राअक्षमालिनः ।
एकवक्त्रास्त्रिणेत्राश्च शैव ज्ञानावतारकाः ।
त्र्यक्षाः शक्तिशूलाढ्या एकास्या वा जटान्विताः ।
इत्यनन्त सूक्ष्मशिवोत्तमैकनेत्रैकरुद्र त्रीमूर्ति श्रीखण्ठ शिखण्डीनामकानष्टौ विद्येश्वरान्ध्यात्वा ॐ हाम् अनन्ताय नमः इति पूर्ववक्त्रे (पत्रे?) यजेत् ।
ॐ हां सूक्ष्माय नमः इति दक्षिण पत्रे ।
ॐ हां शिवोत्तमाय नमः इति वरुणपत्रे ।
ॐ हाम् एकनेत्राय नमः इत्युत्तरपत्रे ।
ॐ हाम् एकरुद्राय नमः इत्यैशानपत्रे ।
ॐ हां त्रिमूर्तये नमः इत्याग्नेयपत्रे ।
ॐ हां श्रीकण्ठाय नमः नैर्-ऋतपत्रे ।
ॐ हां शिखण्डिने नमः इति वायव्यपत्रे ।
यजेत् ।
उक्तम् सुप्रभेदे -
अनन्तं पूर्वतः पूज्यं त्रिमूर्तिं वह्निगोचरे ।
सूक्ष्मं तु दक्षिणे भागे श्रीकण्ठं नैर्-ऋते तथा ॥
शिवोत्तमं तु वारुण्यां शिखण्डिं वायुगोचरे ।
एकनेत्रं तथा सौम्ये एकरुद्रं तथैशके ॥
कामिकेऽप्येवमुक्तम् ।
यद्वा पूर्वादीशानान्तं यजेत् ।
तदुक्तम् -
सूक्ष्मे -
विद्येशावरणं प्रोक्तम् इन्द्रादीशान्तमर्चयेत् ततः पीठकण्ठे पूर्वादिदिक्षु क्रमेण गणेश्वरान्यजेत् ।
तत्र पूर्वे -
रक्तो नन्दी चतुर्बाहुरेकवक्त्रस्त्रिदृग्जटी ।
साक्षसूत्रेस्त्र(त्रस्त्रि?) शूली च वराभयकरान्वितः ॥
इति ध्यात्वा ॐ हां नन्दिने नमः इत्यभ्यर्चयेत् ।
आग्नेये त्रिणेत्रः पीनकृष्णाङ्गो बभ्रुश्मश्रुशिरोरुहः ।
मुण्डखड्गौ खेटशूले महाकालो वहन्करैः ॥
इति ध्यात्वा ॐ हां महाकालाय नमः याम्ये -
निर्मांसविग्रहो भृङ्गीश्वेतो दण्डाक्षसूत्रधृत् ।
नित्यं त्रिणेत्रस्सशिखो देवालोकनतत्परः ॥
ॐ हां भृङ्गिणे नमः इत्यर्चयेत् ॥
नैर्-ऋते -
त्रिणेत्रो वामनाकारो गजवक्त्रो महोदरः ।
पाशाङ्कुशौ स्वदन्तं च पक्वमाम्रफलं वहन् ॥
शुण्डावामकराभ्यां च रक्ताङ्गो विघ्ननायकः ।
इति ध्यात्वा ॐ हां गणपतये नमः इत्यभ्यर्चयेत् ॥
वारुणे -
वृषो वृषाकृतिस्त्र्यक्षो रुद्रैकगतमानसः ।
साक्षाद्धर्मस्वरूपश्च शुद्धस्फटिकनिर्मलः ॥
इति ध्यात्वा ॐ हां विषभाय नमः इत्यभ्यर्च्य(र्च?)येत् ।
वायव्ये -
स्कन्दो निजाष्टबाहुभ्यां व्याघ्रचर्माम्बरो जटी ।
मुण्डी वा षण्मुखंश्याममशोषण्ड? पिङ्गलच्छविः ॥
चतुभुजो बालवेष स्कन्दः कनकसुप्रभा ।
शक्तिकुक्कुटहस्तिश्च वराभयसमन्वितः ॥
इति ध्यात्वा ॐ हां स्कन्दाय नमः इत्यभ्यर्चयेत् ॥
उत्तरे -
सिह्मोपरि स्थितां देवीं शूलाकी?दर्शकरद्वयाम् ।
करण्डमकुटोपेतां मुक्तादिभिरलङ्कृताम् ॥
इति ध्यात्वा ॐ हां देव्यै नमः इत्यभ्यर्चयेत् ।
ऐशान्याम् -
चण्डेश्वरश्चतुर्बाहुश्चतुर्वक्त्रस्त्रिलोचनः ।
बिभ्रत्कमण्डलुं शूलमक्षसूत्रं परश्वथम् ॥
महोरगोपवीताढ्यस्तन्निर्वर्तितकङ्कणः ।
ध्येयो नवाम्बुधाभाससमयादिनियामकः ॥
इति ध्यात्वा ॐ हां चण्डाय नमः इत्यभ्यर्चयेत् ।
विमानस्था गणास्तेषां मूषिकस्थो गजाननः ॥
मयूरवाहनः स्कन्दो वृषभः केवलः स्थितः ।
ननु गणेश्वरस्तृतीये तु कौबेरादितः क्रमात् ।
इत्युक्तत्वात्तत्र पूर्वादिक्रमो विरुध्यत इति चेत् ।
न ।
तन्त्रभेदात्क्रियाभेदेन विरोधाभावात् ॥
सुप्रधेदे -
विद्येशानां गणेशानां कालकण्ठीं तु दर्शयेत् ।
ततः पीठपादे पूर्वादि दिक्षु क्रमेण इन्द्रादीन्यजेत् ।
ऐरावतगजारूढं स्वर्णवर्णं किरीटिनम् ।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥
इति ध्यात्वा ॐ हाम् इन्द्राय नमः इत्यभ्यर्चयेत् ।
सप्तार्चितं च बिभ्राणम् अक्षमाला कमण्डलु ।
ज्वालामालाकुलं रक्तं शक्तिहस्तञ्चि?गासनम् ॥
इति ध्यात्वा ॐ हाम् अग्नये नमः इत्यर्चयेत् ।
कृतान्तं महिषारूढं दण्डहस्तं भयानकम् ।
कालपाराधरं कालं ध्यायेद्दक्षिणदिक्पतिम् ॥
ध्वात्वा ॐ हां यमाय नमः इत्यर्चयेत् ।
रक्तनेत्रं शवारूढं नीलोत्पलदलप्रभम् ॥
कृपाणपाणिमास्त्रौघं पिबन्तं राक्षसेश्वरम् ।
इति ध्यात्वा ॐ हां निर्-ऋतये नमः इत्यभ्यर्चयेत् ॥
नागपाशधरं हृष्टं रक्तौस(घ?)द्युतिविग्रहम् ।
शाशाङ्कधवलं ध्यायेद्वरुनं मकरासनम् ॥
इति ध्यात्वा ॐ हां वरुणायनमः इत्यर्भ्यर्चयेत् ।
आपीनं हरितच्छायं विलोलध्वजधारिणम् ॥
प्राणभूतं च भूतानां हरिणस्सं(स्थं?) समीरणम् ।
इति ध्यात्वा ॐ हां वायवे नमः इत्यभ्यर्चयेत् ॥
कुबेरं मनुजासीनं स?गर्वं खर्वविग्रहम् ।
स्वार्णच्छायं गदाहस्तमुत्तराशापतिं स्मरेत् ॥
इति ध्यात्वा ॐ हां कुबेराय नमः इत्यभ्यर्चयेत् ॥
ईशानं वृषभारूढं त्रिशूलं व्यालधारिणम् ।
शरच्चन्द्रावदातं च चन्द्रमौलिं त्रिलोचनम् ॥
इति ध्यात्वा ॐ हाम् ईशानाय नमः इत्यभ्यर्च
ऐशानस्य दक्षिणे -
पीनं पीतं चतुर्बाहुं ब्रह्माणं चतुराननम् ।
हंसावारं च बिभ्राणं दृष्टाक्ष स्रक्कुमष्ठभुः ? ॥
इति ध्यात्वा ॐ हां ब्रह्मणे नमः इत्यभ्यर्चयेत् ।
निर्-ऋतिरुत्तरे -
अनन्तं पुण्डरीकाक्षं प(फ)णादशशतैर्युतम् ।
विद्युदाभप्रतीकाशं कूर्मारूढं प्रपूजयेत् ॥
ॐ हां विष्णवे नमः इत्यभ्यर्चयेत् ।
कालोत्तरे लोकावरणं तच्चतुर्थं परिकीर्तितम् ॥
पञ्चमो(मं?) लोकपालास्रं पूजयेत्तु समाहितः ।
वज्रं पूर्वे तु सम्पूज्य शक्तिमग्नियगोचरे ॥
याम्यायां तु गदामिष्ट्वा त्रिशूलं शाङ्करे दिशि ।
पद्मास्त्रं पूजयेदूर्ध्वमैशान्यान्दिशिमाश्रितम् ॥
अधस्ताच्चक्रमात्पूज्य नैर्-ऋतान्दीशमाश्रितम् ।
कामिके -
जापे शक्तिगदे ज्ञेये वक्रपद्मे नपुंसके ।
शेषाः पुमांसी विज्ञेयास्वा(स्त्वा?)युधानां स्वरूपतः ।
ततः ब्रह्मशिलास्थानीयपद्मपीठोपरि पूर्वादीशान्तदिक्षु -
वज्रं तु पुरुषं स्थूलं दृढं कर्कशविग्रहम् ।
बालेनं वज्रमूर्धान दीप्तं प्राक्वमावृत्तौ? ॥
इति ध्यात्वा ॐ हां वज्राय नमः इत्यभ्यर्चयेत् ।
शक्तिं य योषिता(दा?)कारामाग्नेय्यां दिशि लोहिताम् ।
बिभ्राणं शिरसा शक्तिं त्रिकोणस्थामुपाश्रयेत् ॥
इति ध्यात्वा ॐ हां शक्तये नमः इत्यभ्यर्चयेत् ।
दण्डं च दक्षिणे भागे कृष्णं पुरुषाविग्रहम् ॥
दण्डाकारशिरोयुक्तं वन्दे लोहितलोचनम् ।
इति ध्यात्वा ॐ हां दण्डाय नमः इत्यभ्यर्चयेत् ॥
नैर्-ऋत्यां पुरुषाकारं खड्गं श्यामप्रभान्वितम् ।
खड्गालङ्कारमूर्धानमित्यं सङ्क्रान्तलोचनम् ॥
इति ध्यात्वा ॐ गां(हां?) खड्गाय नमः इत्यभ्यर्चयेत् ॥
नाभ्यधोभुजका(गा?)कारं न(त?)दूर्ध्वं पुरुषाकृतिम् ।
पाशं सप्तफणोपेतं मूर्धानं पश्चिमे भवे ॥
इति ध्यात्वा ॐ हां पाशाय नमः इत्यभ्यर्चयेत् ।
पपद्ये वायुदिग्भागे ध्वजमूर्ध्नि ध्वजान्वितम् ॥
पीतं च पुरुषाकारं व्यावृतास्यं महाभुजम् ।
इति ध्यात्वा ॐ हां ध्वजाय नमः इत्यभ्यर्चयेत् ॥
कन्यारूपां गदां पीतामापीततपनस्वलाम् ।
गदाकारशिरोक्तामुत्तरस्यान्दिशि स्थितिम् ॥
इति ध्यात्वा ॐ हां गदायै नमः इत्यभ्यर्चयेत् ॥
त्रिशूलं पुरुषाकारं दिव्यं श्यामकलेवरम् ।
त्रिशूलं शिरसा शश्वन्नमामीशानदिग्गतम् ॥
इति ध्यात्वा ॐ हां शूलाय नमः इत्यभ्यर्चयेत् ॥
ईशाने
शङ्खाभं पद्मकोशाकं(ङ्कम्?) मूर्धानं पुरुषाकृतिम् ।
नौमि दिव्यं विरिञ्चास्त्रं शुक्लाभं शुभलोचनम् ॥
इति ध्यात्वा ॐ हां पद्माय नमः इत्यभ्यर्चयेत् ।
नैर्-ऋते
चक्रं शतारचक्राङ्कम्मू?(ङ्कमु?)र्धानं पुरुषाकृतिम् ।
श्यामदेहं मुकुन्दास्त्रं सेवे निर्-ऋतिकोणकम् ॥
इति ध्यात्वा ॐ हां चक्राय नमः इति सम्पूजयेत् ।
यद्वा -
सर्वाण्यञ्जलिहस्तानि पद्मसंस्थानि सर्वतः ।
वज्राद्यङ्कितशीर्षाणि भावयेत्पञ्चमावृतौ ॥
विद्येश्वरादयस्सर्वे देवस्याभिमुखास्थिताः ।
कालोत्तरे -
अस्त्रावरणमेवं तु पञ्चमं परिकीर्तितम् ।
एवं सम्पूज्य विधिवद्गन्धपुष्पादिभिः क्रमात् ॥
सुप्रभेदे -
लोकेशानां तथास्त्राणां शूलमुद्राः प्रकीर्तिताः ।
ततः शिवाय धूपदीपमायपनीयार्ध्यं दत्त्वा देवस्य पुरतः गोमयेत चतुरश्रमण्डलं परिकल्पितं पिष्टपूर्णेरलकृत्य तेन दीपादीन्संस्थाप्य अस्त्रेण प्रोक्ष्य तदुपरि खण्ड वट्टुकवरेण सूर्पकन्दमूलं तारकादिमिश्रौपदंशादिसहितं सप्तसिक्तं क्षीरमालि?केर कदली पनसाम्रादिफलसहितरक्तशाल्यादि सिद्धपायसान्नादिनैवेद्यपरिपूर्णा स्थलिक ।
विन्यस्य बेराणां च पृथक् न्यस्य तदुपरि पत्रं विन्यस्य दृश्येन प्रोक्ष्य वालनयदिग्बन्धनाव कुण्ठन धेनुमुद्रां
विरच्यान्नमुद्रां प्रदर्श्य पूर्वमेकत्रिपञ्चवारम् एककरपूर्णमानजलं गण्डुषामार्थमस्त्रेण दत्त्वा अन्नोपरि विन्यस्य (स्त?)पनं विसृज्यास्त्रेण परिषिच्य हृदयेन प्रत्येकमापोशनं दत्त्वा सपुष्पैर्मध्यमानादिका�न्गुष्ठैर्गणेशमन्त्रेण पूर्वं नमतिषे? निर्वेद्य? तत्पुष्पं विसृज्य तस्य प्रत्यावनं? कृत्वा शिवस्य स्वागतान्तमूलेन पुरुषवक्त्रे नैवेद्यं दत्त्वा ब्रह्मा�न्गानां पृथक् पृथक् पात्रेषा एकपात्रेषा स्वेवेद्य? मनोन्मन्यादि महेशादि बेराणां पृथक् पृथक् पात्रे वा एकस्मिन् पात्रे वा निवेद्य
मनोन्मन्यादिमहेशादि बेराणां तत्तन्मन्त्रेण निवेदयित्वा पञ्चाच्छो *? पानीयं निवेदयेत् ।
तथा अंशुमति -
गोमयालेपनं कृत्वा चतुरस्रसमान्येषम् ।
पात्राधारं न्यसेन्मध्ये प्रोक्षयेदस्त्रमन्त्रतः ॥
नैवेद्यं वोपदंशं च स्थानि?कामध्यमे न्यसेत् ।
सूक्ष्मे -
व्या(व्य?)ञ्जनेनावृतं चैव लवणं पक्वोपदंशकैः ।
फलादिगुलसंयुक्तं क्षीरं दधि च मध्यमे ॥
चिन्त्यविश्वसादाख्ये -
सूपापूपोपदंशाद्यैः फलैर्नानाविधैरपि ।
पक्वैरपक्वैस्तद्भूरि परितः परिमार्जयेत् ॥
नैवेद्यं दापयेत्तस्माद्देव देवस्य पूर्वके ।
सूक्ष्मे -
गण्डुषार्थं जलं देयं करसम्पूर्णमानसः ।
एकत्रिपञ्चवारं वा विसृजेदस्त्रमन्त्रतः ॥
अनेकान्नावधैश्चैव अपिधानं तु वाससा ।
त्रिपाद्यूर्ध्वे न्यसेचैव बेराणां तु पृथक् पृथक् ॥
अंशुमति -
प्रत्येकपात्रविन्यासमोदने नैव पूरयेत् ।
तस्योर्ध्वे विन्यसेत्पत्रं प्रोक्षयेद्मृ?दयेन तु ॥
तालत्रयं ततः कृत्वा दिग्बन्धनं वावकुण्ठनम् ।
धेनुमुद्रां प्रदर्श्याथ पूर्वपत्रं विसर्जयेत् ॥
कालोत्तरे -
उत्तानौ तु करौ कृत्वा अ�न्गुष्ठे तर्जनी उभे ।
शेषा वै मुष्टिं बध्वा तु अन्तमुद्राः प्रकीर्तिताः ॥
भक्ष्यं भोज्यं च पेयं च लेह्यं च पञ्चधा ।
अंशुमति -
परिषिच्यास्तमन्त्रेणापोशनं * * * न? दा (च?) ।
मध्यमानामिका नैवा�न्गमाद्येम? या वदेत् ॥
दक्षहस्ते हविर्दद्यान्मूलमन्त्रं समुच्चरन् ।
तत्पुरुषं तु समारोप्य नैवेद्यं दापयेत्ततः ॥
तन्मन्त्रेण समुच्चार्य गणेशस्य निवेदयेत् ।
तत्पुष्पं तु विसृज्याथ हस्तप्रक्षालनं कुरु ॥
तत्परं लि�न्गनैवेद्यं पञ्चवारं त्रिवारकम् ।
अथवा एकवारं च नैवेद्यं दापयेत्ततः ॥
॥
पानीयम् ? ॥
पानीयं दापयेद्धीमान् हस्तप्रक्षालनं कुरु ।
तन्मन्त्रेण तु नैवेद्यमेकवारं निवेदयेत् ॥
प्रत्येकं तु विशेषेण हस्तप्रक्षानं कुरु ।
गणेश्वरादिबेराणां लि�न्गेनैव तु योजयेत् ॥
अथवा एकपात्रं च ओदने नैव पूरयेत् ।
नैवेद्यं दापयेच्छम्भोर्हृदयेन तु मन्त्रतः ।
निर्माल्यं तु विसृज्याथ स्थानशुद्धिं च कारयेत् ॥
ज्ञानरत्नावल्याम् -
भोगा�न्गानां पृथग्देयमभावादेक *? भवेत् ।
तथा ब्रह्मशम्भुपादैः -
तदर्थमस्य नैवेद्यं पृथक्पात्रेषु सम्भवे ।
पूतेस्वितरमेकस्मिन्निति ।
विश्वसारोत्तरे - पानीयम् -
एलावन्दन चन्द्राढ्यं पानीयं चातिशीतलम् ।
पाटल्युत्पलदानाद्यैर्वासितं च सगन्धिभिः ॥
सुप्रभेदे -
पानीयं पादकार्धं वा अर्धार्धकमथापि वा ।
उत्तमादिक्रमेणैव त्रिधा भेदमिहोच्यते ॥
नमोऽन्तं मूलेन देवशिरसि पुष्पं दत्त्वा असम्पूर्ण द्रव्यजातं सम्पूर्णं विभाव्य स्वधान्त स्वाहान्तमूलेना चमनार्घ्यौ दत्त्वा निवेद्य हस्तोद्वर्तनं कर्पूरतक्कोल जातीफलसुगन्धि मुखवास ताम्बूलं दत्त्वा अर्घ्यं? नमोऽन्तमूलेनाभ्यर्चयेत् ।
कामिके -
तृप्तामाचमनं दद्याद्धस्तोद्वर्तनकं ततः ।
हस्तोद्वर्तनसिद्ध्यर्थं चन्दनम् हस्तयोर्द्वयोः ॥
मुखवासं च ताम्बूलं देव योग्यं प्रदापयेत् ।
एला लवङ्गकर्पूरं जातीतक्कोलचूर्णयुक् ॥
मद्ध्वित्?(मध्विक्षु?) खण्डसम्मिश्रं मुखवासनिडं भवेत् ।
कामिके -
गन्धपुष्पं च धूपं च दीपं नैवेद्यमेव च ।
ताम्बूलं मूलमन्त्रेण दद्यात्तु परमेश्वरे ॥
शिवधर्मे -
पञ्चसौगन्धिकोपेतं यक्ष?स्ताम्बूलं निवेदयेत्
सुप्रभेदे -
पूगमेकं प्रतिप्रस्थं द्विगुणं त्रिगुणं तु वा ।
अधर्मादिक्रमेणैव पत्रं तत्त्रिगुणं भवेत् ॥
शैलचूर्णं समादेयमथवा शङ्खचूर्णकम् ।
वीरतन्त्रे -
मातुलङ्गफलादीनि दद्यात्ताम्बूलकैस्सह ।
सूक्ष्मे -
पुनरर्घ्यं ततो दत्त्वा यजेद्वै गन्धपुष्पकैः ।
॥
अग्निकार्यम् ॥
ततोऽग्निकार्याधिकारस्सम्पन्नोपकरणः शिवमग्निकार्यं करोमीति विज्ञाप्य लब्धानुज्ञोऽग्निकार्यं कुर्यात् ।
अग्न्याधिकारणं? पुत्रकसाधक आचार्यश्च ।
तदुक्तम् -
कामिके -
एवं समयदीक्षायां विशिष्टायां विशेषतः ।
वह्निहोमागमज्ञने योग्यः सञ्जायते शुशुम् ॥
सारसङ्ग्रहे -
अग्निकार्यं? यथाकार्यमभिषेकानन्तरं य ।
स्तेन?विनावार्या दीक्षादौ नाधिकारणः ॥
अग्निकार्यं न कुर्वन्ति देशिका ये प्रमादतः ।
वर्षाभ्यन्तरसङ्ख्याया कर्तव्यं लक्षसङ्ख्यया ।
यथाशुभेन मुच्यन्ते साधका जन्मबन्धनात् ॥
अत्र सन्यासि? नाधिकारः? तथा -
देविकालोत्तरे -
अग्निकार्यादिकार्याणि न सन्यस्य महेश्वरि ।
नार्चनं पितृकार्याणि तीर्थयात्रा व्रतानि च ॥
चिन्त्यविश्वसादाख्ये -
आचार्याणां विधकीनां? पूजायां किञ्चिदन्तरम् ।
परहंसयतीनां च *? परसक्त्यासितोर्द्वयोः ॥
अनयोरग्निकार्ये तु योग्यत्वं जा(न?)विधीयते ।
इदमग्निकार्यमर्य?नाङ्गमेव अंशुमन्सूक्ष्मादात्मार्थ? पूजाप्रकरण पूजामध्ये तद्द्विधानात् ।
अन्तर्यागेऽपि नाभिकुण्ड होमविधानाय ।
इदमग्निकार्यम् याम्यनैर्-ऋतवायव्येष्वन्य?तरस्यां दिशि कुण्डे स्थण्डिले वा कार्यम् ॥
कालोत्तरे -
ततस्सम्प्रार्थ्य देवेशं होमागारं ततो व्रजेत् ।
ज्ञानरत्नावल्याम् -
तत्र कुण्डं प्रकुर्वीत लिख्यते तद्यथागमम् ।
वह्निकार्यं द्विधाज्ञेयं कुण्डे वा स्थण्डिलेऽपि वा ॥
अश्राकृतिर्यथा कुण्डं सर्वकामार्थसाधनम् ।
स्थण्डिलं सर्वकामार्थं सिद्ध्यर्थं चेति कीर्तितम् ।
नित्यहोमे तु वेदाश्रमग्नेय्यां हस्तसम्मितम् ॥
विस्तारादुछ्रयादूर्ध्वं मेखलासहितं तथा ।
कुर्यात्कुण्डमथैशान्यां पूर्वे वा योगपीठतः ॥
ऐष्ठिकं? सुदृढं कुण्डं खात्तात् बाह्येङ्गुलस्तमः ।
? आद्या? वेदाङ्गुलोच्चाथ त्रियङ्गुलाद्वयङ्गुल क्रमात् ॥
मेखला च तदूर्ध्वे तु योनिरर्काङ्गुलं यता? ।
मङ्गलाङ्गुलविस्तारा नेमिरर्धाङ्गुलोन्नता ॥
ओष्ठमङ्गुष्ठवत्सर्वमश्वत्थदलवत्कुरु ।
योनेरभ्यन्तरे वाथ कुण्डरूपेण कल्पयेत् ॥
योनिमूले ततः किञ्चित्कुम्भी कुम्भवदुन्नता ।
कुण्डरूपानुसारेण योनिः कार्या न चान्यथा ॥
कारणे -
पक्षाङ्गुलसमुत्सेधं भूताङ्गुलं तु विस्तरम् ।
पद्माकारं तथा नाभिं कुर्यात्कुण्डस्य मध्यमे ॥
द्विभागं दलमानं तु एकभागं तु कर्णिका ।
इति नित्यविधौ कुण्डं यथाशोभं तथा कुरु ॥
कुण्डस्य लक्षणं प्रोक्तं स्थण्डिलं त्वधुनोच्यते ।
गोमयालेपितां भूमिं दर्भैस्संऋज्य वै हृदा ॥
अर्घ्योदकं समादाय प्रोक्ष्य सौम्ये विसर्पयेत् ।
शुद्धदेशोत्थसिकतैरनाद्यैर्हस्त विस्तृतम् ॥
अङ्गुलत्रयमानोच्च समं निम्नोन्नतं न च ।
भीमसंहितायाम् -
कार्यं तु सिकताभावे पांसुभिर्वा मृदापि वा ।
अंशुमत्यात्मार्थपूजायां स्थण्डिले विशेष उक्तः ।
गोमयालेपनं कृत्वा चतुरश्रसमन्वितम् ।
तद्दर्भं वर्जयित्वा तु लेपनस्पर्शनं ततः ॥
सिकतैः स्थण्डिलं कृत्वा चतुरश्रसमन्वितम् ।
विश्वसारोत्तरे -
स्थण्डिलं तदभावे तु कुर्याद्गोमयमण्डलम् ।
सम्पाद्योल्लेखनाद्यं तु कारयेत्तु विपक्षणम् ॥
इत्थं कुण्डं स्थण्डिलं मण्डलं वा समासाद्य पूर्वास्यो उत्तरास्यो वा समुपविश्य निरीक्षणादिचतुस्संस्कारशुद्धे कुण्डादौ मध्ये अस्त्रेण पूर्वाद्यं रेखात्रयं कुशेन सम्पाद्यमेकरेखामुत्तराग्रं च सम्पादयेत् ।
उत्तरास्यश्चेत्(द्?) रेखात्रयमुत्तराग्रामेकरेखां प्रागग्रां च सम्पादयेत् ॥
सर्वज्ञानोत्तरे -
प्रोक्षयित्वा पुरा प्राज्ञ कुण्डमस्त्रोदकेन तु ।
पुनर्लेखनं कुर्यादस्त्रबलिन षण्मुख ॥
तथा कालोत्तरे -
अस्त्रेणोल्लेखनं कुण्डे वर्मणाभ्युक्षणं मतम् ।
श्रीमत्पराख्ये -
रेखाः प्रागना(ग्रा?)स्त्रिस्रो दद्यादेकामुदङ्मुखाम् ।
तथा सोमशम्भुशिवाचार्यै?रुक्तम् -
रेखात्रयमुदकं कुर्यात्? एकां पूर्वानतामयम् ।
कुशेन शिवमन्त्रेण यद्वा तासां विपर्ययः ॥
अथ कवचेनाभ्युक्ष्य सर्वसंस्कारसम्पत्तिं विभाव्य तत्र हृदयेन दर्भकूर्चाविष्टरं कुण्डमध्ये ॐ हां वागीश्वरी वागीश्वरासनाय नमः इति दत्त्वा श्यामवर्णां सर्वालङ्कारसम्पूर्णाम् ऋतुमतीं ॐ हां वागीश्वर्यै नमः इति शक्तिमावाह्य सम्पूज्य रक्तं त्रिणेत्रं चतुर्भुजं वागीश्वरं ध्यात्वा ॐ हां वागीश्वराय नमः इत्यावाह्य सम्पूजयेत् ॥
तथा -
पुनरभ्युक्षणं पश्चात् कवचेन विधानवित् ।
कुण्डे वा स्थण्डिले वापि दर्भेण विष्टरं न्यसेत् ॥
तन्मध्ये तु संस्थाप्य वागीश्वरीं विशेषतः ।
मृगेन्द्रे -
देवीमावाहयेद्विद्वान्विधिवद्विश्वमातरम् ।
श्यामामृतुमतीं ध्यात्वा सद्वस्त्रमाल्यभूषणाम् ॥
प्रसन्नवदनां पद्म पत्राभनयन त्रयाम् ।
यद्वा -
वागीशी पद्मपुष्पाभां चतुर्हस्तां घनस्तनाम् ॥
व्याख्यानां पुस्तकानां च कमलं वक्षधारिणीम् ।
धार्ययेत्तु विशेषेण ऋतुस्नाता सुयौवनाम् ॥
नीलोत्पलदलाभासाध्यायेत्कर्मोक्तवत्सुधीः ।
इति ध्यात्वा ॐ हां वागीश्वर्यै नमः इति ।
वागीश्वरं तु रक्ताभं त्रिणेत्रं च चतुर्भुजम् ।
अभयावरदोपेतं पाशशूलधरान्वितम् ॥
इति वागीश्वरं देवं ध्यात्वा सम्पूज्यार्घ्यं दत्वा
पश्चादरण्यादिसम्भवं शुद्धवेश्मजनितं वा शुद्धवह्निं शुद्धपात्रे समानीय ॐ हाम् अस्त्राय स्वाहेति क्रव्यादांशमग्निखण्डं निर्-ऋतिकोणे निस्सार्य मूलेनाग्निं निरीक्ष्य हुम्फडन्तास्त्रेण प्रोक्षणताडनं च विधाय वौषडन्त कवचेनाभ्युक्षणं ॐ हां हं हां वह्निमुर्तये नमः इत्यनेन मन्त्रेण संहारमुद्रया स्फुरत्तारकाकारवह्नि चैतन्यमादाय पूरकवायुना बिन्द्वग्निना सहैकी? कृत्यं कुम्भकेन नाभ्यग्निना भौतवैन्दव वह्निद्वयमेकीकृत्य एतदग्नित्रयं पिङ्गलया रेचकेन बहिर्निस्सार्य
उद्भवमुद्रया प्रदीपकलिकोपमाग्नेय बीजचैतन्यं ॐ हां ह्रूं वह्निचैतन्याय नमः ज्वालामालाप्रज्वलदग्नौ दनि?वेश्य संहितया सम्पूज्य वौषडन्त शक्तिमन्त्रेण धेनुमुद्रयामृतीकृत्य कवचेनावकुण्ठ्य अस्त्रेण संरक्ष्य हृदयेनाभ्यर्च्य पारमेश्वरवीर्यामिति सम्भाव्य कुण्डस्योपरि योनिक्षोभार्थं प्रदक्षिणत्रयेण वारत्रयं परिभ्राम्य वागीश्वर बागीश्वरी(रा?) वीशदिग्गतशिरसौ ध्यात्वा वागीश्वरी गर्भनाड्यामात्मसम्मुखं वागीश्वरेणक्षिप्तमाणं विभाव्यम्? भूगतदक्षिण जानुस्सन् प्रक्षिपेत् ।
कामिके -
शुद्धात्मतत्त्वतद्वह्निमरणीजनितं क्षिपेत् ।
सूर्यकान्तां द्विजगृहात् प्रसून(त?) मथवानलम् ॥
अनुकल्पविधानेन मन्त्रपूतं नियोजयेत् ।
ताम्रपात्रे शरावे च वीक्षणाद्यैस्तु शोधयेत् ॥
क्रव्यादांशं परित्यज्य प्रोक्षयेद्दर्भवारिणा ।
कवचेनावकुण्ठ्याथ रौद्रमग्निमथ न्यसेत् ॥
सिद्धान्तशेखरे -
शुद्धमग्निं समादाय बिन्दुवह्नौ नियोजितम् ।
नियोज्य जारोग्नौक्ततन्त्री नग्निने न तु तः कृतान् ॥
यद्वा -
तदग्निचैतन्यं हृत्पुण्डरीकवह्निना संयोज्य तदुत्कलितं सुषुम्नारेचनमूलेन
परमशिवसम्पृक्तज्वलदग्नौ नियोज्य तस्मिन् ज्ञानाग्नौ होमं कुर्यात् ।
तदुक्तम् -
कालोत्तरे
ज्ञानानलं न्यसेत्तत्र सूर्यायुतसमप्रभम् ।
हृत्पुण्डरीकमध्या तु सौष्वम्नेन पयानलम् ॥
द्वादशान्ते पदे योज्य तत्तेजः पुञ्जपिञ्जरम् ।
तेन विन्यस्तमात्रेण सर्वकर्मार्हको भवेत् ॥
गर्भाधानादिकं कर्म निष्कृतिश्चाप्यपश्चिमा ज्ञानानलस्य पुरतः कलान्नासन्ति षोडशीम् ।
नित्ये नैमित्तिके काम्ये कार्यं ज्ञानानलार्चनम् ॥
सकृत्प्रोक्षणमात्रेण सृक्संस्कारकृतो भवेत् ।
एवं घृतस्य कर्तव्यमर्घ्यपात्रोदकेन तु ॥
सर्वसंस्कारसम्पन्नं सर्वकर्मार्हको भवेत् ।
अथवान्यप्रकारेण शिवाग्निं कारयेद्गुह ॥
आत्मविद्याशिवाख्यैश्च क्रियापूर्णां प्रदापयेत् ।
शिववग्निर्जन्मितत्तेन सर्वसंस्कारवर्जितः ॥
निक्षिप्य वह्निबीजेन संहितां तु ततो यजेत् ।
मूलेन वौषडन्तेन धेनुमुद्रायुतेन च ॥
अमृतीकृत्य सम्पूज्य कवचेनावकुण्ठ्य च ।
अस्त्रमन्त्रेण रक्ष्याथ हृदयेन समर्चयेत् ॥
सर्वज्ञानोत्तरे -
भ्रामयित्वा त्रिधा कुण्डं जानुभ्यामवनिं गतः ।
कामिके -
वागीशीगर्भनाड्यां तु स्वात्मानं सम्मुखं यथा ।
हृदा मूलेन वा क्षिप्य स्वात्मानं शिववत्स्मरेत् ॥
ततस्समूह्य देव्यैवास परिधायाशौचाचमनार्घ्यं जलेन त्रिधा हृदा दत्त्वा सद्यादिना समभ्यर्च्य स्वाहान्तमूलेनाहुतिपञ्चकं दत्त्वा ॐ हां शिवाग्निस्त्वं हुताशनेति नामं कृत्वा गर्भाधानादि पञ्चसंस्कृतमग्निं विभाव्य पितरौ हृदाभ्यर्च्य विसृज्य सामान्यार्घ्यजलेन वौषडन्तकवचेन कुण्डमेखलासु सम्प्रोक्ष्य मेखला चतुर्दिक्षु पूर्वोत्तराग्रान्दश दर्भान् कवचेनास्तीर्य तत्र पूर्वपश्चिमदक्षिणोत्तरदिक्षु ॐ हां ब्रह्मणे नमः ॐ हां विष्णवे नमः ।
ॐ हां रुद्राय नमः
ॐ हाम् अनन्ताय नमः इत्यभ्यर्च्य अग्न्यर्भ करक्षां विज्ञापयेत् ।
कामिके -
तोयबिन्दुं त्रिधा दत्त्वा समाच्छाद्य सदिन्धनैः ।
दद्यात् शौचाचमनानिमस्त्राण्यस्त्रेण चार्भकम् ॥
सद्यादिना तु वै दद्यान्मूलेनाहुतिपञ्चकम् ।
शिवाग्निस्त्वमिति ब्रूयान्मूलमन्त्रपुरस्सरम् ॥
पित्रोर्विसर्जनं कुर्यात्सूतक?स्य निवृत्तये ।
कुण्डमर्घ्याम्बुना प्रोक्ष्य प्रागग्रमुदगग्रकान् ॥
दर्भानास्तीर्य कुण्डस्य समन्तादस्त्रमन्त्रतः ।
मृगेन्द्रे -
त्रिंशद्दर्भदले(लै?) वे(र्वे?)णी ग्रथिता बाहुसम्मितैः ।
ब्रह्मग्रन्थियुता चाग्रे वित्तं सा विष्टरं शुभम् ॥
या विणीकेशपाशाकृत् स विष्टरन्तुत्यच्चते? ।
मतङ्गे -
प्रागुक्तविधिना मन्त्री सौम्याग्रा पूर्वतो न्यसेत् ।
पूर्वाग्रां दक्षिणे भागे पश्चिमे चाप्युदङ्मुखात् ॥
प्रागग्रानुत्तरे भागे पूर्वतश्चापि विष्टरम् ।
मृगेन्द्रे -
याज्ञीयद्रुमजा बाहुमात्राः परिधयः स्मृताः ।
कनिष्ठिका स्थूलमूला हरिता व्रणवर्जिताः ॥
एतान्पूर्ववत्परीधाय लोकपालान्यजेत् ।
कामिके -
इन्द्रादीन्लोकपालांश्च पूजयेत्परिधिष्विति ।
विष्टरेषु क्रमेणैव ब्रह्माणं रुद्रमेव च ॥
विष्णुवी(मी?)श्वरमभ्यर्च्य प्रागादिषु चतुर्ष्वपि ।
ततो ब्रह्मादयो देवा इन्द्राद्या लोकपालकाः ॥
निवार्य विघ्नसङ्घातं बालकं बा(पा?)लयिष्यथ ।
शैवाग्निं कथ्यते विप्र शृणु तस्मिन्समाहिताः ॥
पञ्चवक्त्रयुतं रक्तं सप्तजिह्वाविराजितम् ।
दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् ॥
रक्तवस्त्रपरीधानं पङ्कजोपरि संस्थितम् ।
बद्धपद्मासनासीनं दशायुधसमन्वितम् ॥
कनका बहुरूपा च अतिरक्तौ ततः परम् ।
सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी ॥
ऊर्ध्ववक्त्रे स्थितास्तिस्रश्शेषाः प्रागादितः क्रमात् इत्यग्निं ध्यात्वा ॐ हाम् अग्नये नमः
इति सम्पूज्य ॐ हां ह्रूम् अग्नये स्वाहेति तिलाहुतिपञ्चकं हु(जु?)यात् ।
कामिके -
अग्नेत्वमैश्वरं तेजः पावनं परमं यतः ।
तस्माद्द्वितीय हृत्पद्मे संस्थाप्य सन्तर्पयाम्यहम् ॥
इति कुण्डप्रमाणमग्नेरीप्सितमुखं विभाव्य अग्निहृत्पद्मे आधारशक्त्यादि शक्त्यन्तं सदेशं शिवं नित्यवत्पवित्रान्तं सम्पूजयेत् ।
कामिके -
यथाभिलषितं वक्त्रं कुण्डमानं प्रकल्पयेत् ।
अजिते -
ततश्शिवासञ्चोग्नौ पद्ममेकं प्रकल्पयेत् ।
पद्मासनायेत्युच्चार्य नमस्कारसमन्वितम् ।
तत्र लिङ्गे यथा देवः सदाशिव उदीरितः ॥
तत ध्यात्वात्र तं देवं पञ्चब्रह्माङ्गसंयुतम् ।
आवाहनादिकं सर्वं कृत्वा होमं समाचरेत् ॥
ततश्शिववक्त्राग्निवक्त्रयोस्सन्धानं कृत्वा स्वाहान्तमूलेन धृतादिनाशतं तदर्धं वा यथाशक्ति हुत्वा ब्रह्माङ्गानां दशांशतो हुत्वा ॐ हौं शिवाय वौषडिति ऊर्ध्ववक्त्रे पूर्णां दत्त्वा नैवेद्याय चरुं स्वाहान्तमूलेनान्नग्रासत्रयं ब्रह्माङ्गानामेकैकं हुत्वा पूर्णां दत्त्वा आचमनं चन्दनताम्बूलादीनि दत्त्वा
भस्मा पाद्याष्टपुष्पिकया सम्पूजयेत् ।
कामिके -
शतमर्धं तदर्धं वा विंसतिर्दश एव वा ।
शिवाद्दशांशतोऽङ्गानि तर्पयेच्च द्विजोत्तमाः ॥
आत्मार्थे वा परार्थे वा प्रत्यहं होममाचरेत् ।
एककालं द्विकालं वा त्रिकालं वा समाचरेत् ॥
वातुले -
एककालं द्विकालं वा त्रिकालं होममाचरेत् ।
त्रिकालमुत्तमं प्रोक्तं द्विकालं मध्यमं भवेत् ॥
अधमं चैककालं वा कारयेत्तु शिखिद्विज ।
समिदाज्यचरूल्लाँजान् सर्षपांश्च यवांस्तिलान् ॥
उत्तमं त्विति विख्यातं मध्यमं च ततश्शृणु ।
समिदाज्यञ्चरुञ्चैव सर्षपं मध्यमं विदुः ।
समिदाज्यचरुञ्चैव कन्यसं परिपत्यते ॥
घृतेन पयसा वाथ तिलैर्वा घृतमिश्रितैः ।
यवैर्वा व्रीहिभिर्वापि गुग्गुलेन घृतेन वा ॥
नित्यहोमः प्रकर्तव्यो यथावित्तानुसारतः ।
आज्यं वै कर्षमात्रं तु होतव्यं कर्मसिद्धये ॥
तिला मृश्या तु जुहुयान्वादीन्? कम्बुमुद्रया ।
पासु व्यञ्जनादीनि पताकेन तु होमयेत् ॥
कामिके -
आज्याभावे तिलैर्होमः कर्तव्यः कृष्णवर्णकैः ।
ब्रीहिभिर्वास्मिन्भिर्वा? दध्ना वापि यवैस्तु वा ॥
श्रीफलैर्बिल्वपत्रैर्वा पुष्पैर्वा याज्ञिकैश्शुभैः ।
अन्यैर्होमो विधातव्यश्श्रद्धावित्तानुसारतः ।
अजिते -
दशकं बाहुतीनां च मूलेन जुहुयात्क्रमात् ॥
पञ्चब्रह्मशिवाङ्गैश्च प्रत्येकं होममाचरेत् ।
किरणे -
स्वाहाकारं च होमे स्याग्रं स्याद्वौषडन्तिका ॥
कालोत्तरे -
प्रासादेन तु मन्त्रेण पूर्णाहुतिमथाचरेत् ।
चतुश्शतिकालोत्तरे -
ऊर्ध्ववक्त्रे महासेन तस्मिन्पूर्णाहुति स्मृताः ।
कामिके -
हविष्यं ग्रासमात्रेण ताम्बूलं विनिवेदयेत् ।
प्रदक्षिण्यनमस्कारं कृत्वा वा भक्तितस्ततः ॥
पराङ्मुखार्घ्यं दत्त्वा वह्निस्थं शिवमुत्थाप्य स्वमूर्तौ संयोज्य विधिवन्नाडीसन्धानेन लिङ्गे शिवे निरपेक्षैव? योजयेत् ।
सर्वज्ञानोत्तरे -
विसर्जयेत्ततो देवं पुनः पूजाविधान्तः ।
अथ विप्रादिस्त्र?याणां व्याहृतिचतुष्टयं जुहुयात् ।
चतुर्थश्चेन्मूलेन होमयेत् ।
पश्चाद्ब्रह्मादिभ्यो बलिं दत्त्वा वह्नि नमस्कृत्य
सप्तजिह्वान्वितं रक्तं पञ्चास्यं प्रज्वलच्छिखम् ।
वागीशीगर्भसम्भूतं शिवाग्निंशिवदम्भजे ॥
इति स्मृत्वा हुतं हुत्वोपरमेत्युक्त्वा ॐ हां ह्रूं शिवाग्नये नमः इति निष्ठुरया वह्निं स्वहृदि लिङ्गे वा योजयेत् ।
तदनु ब्रह्मादीन् लोकपालानपि क्रमेण विसृजेत् ।
यद्वा कुण्ड वान्यत्राग्निमुद्धृत्य नवभाण्डे वा जग्रमग्निं संरक्षयेत् ।
तदग्निर्निवाणश्चेत्प्रायश्चित्तं कुर्यात् ।
कामिके -
शिवं व्याहृतिभिः पश्चात्सन्तर्प्य शिवपावकम् ।
रोधयित्वा तु तत्रैव रक्षयेत्प्रतिवासरम् ॥
सूक्ष्मे -
निष्ठुरेणाग्निमादाय मूललिङ्गे समर्पयेत् ।
विष्टरं च समादाय ग्रन्थिं मुक्तवा विसर्जयेत् ॥
परिस्तरणमानीय आज्येनैव तु सेचयेत् ।
एकदर्भं समदाय शेषमग्रादिकं दहेत् ॥
तदेकमग्नौ निक्षिप्य तद्भस्म तिलकं कुरु ।
तद्भस्म धारणं प्रासां मायुः श्रीकीर्तिवर्धनम् ॥
विजयं रोगगाशार्थं सर्वाभीष्टफलप्रदम् ।
अंशुमती(ति?)
तद्भस्म तु ललाटे तु नेत्रमन्त्रेण विन्यसेत् ।
षट्सहस्रे -
ततोद्धृत्य शिवाग्निं तु स्थाप्यान्यत्र तु रक्षयेत् ।
निरोधनं तत्रैव कार्यं निष्ठुरमुद्रया ॥
कुण्डस्थमनलं शेषं नमस्कृत्य विसर्जयेत् ।
विजयोत्तरे -
वह्निं संरक्षयेन्नित्यम् चतुर्व्याहृतिहोमतः ।
यद्वा विसर्जयेद्वह्निं पुनः संस्कार योजयेत् ॥
कुण्डसंस्कारे भस्मापयन पूर्वकम् ।
कामिके -
यद्वा विसर्जयेत्कुण्डे वह्निमन्यत्र रक्षयेत् ।
रक्षितेऽग्नौ तु निर्वाणे जपेद्घोरमुपोषितः ॥
सशिवेऽपि हि निर्वाणे त्रिरात्रं समुपोषितः ।
जपेद्वा जुहुयाद्वाथ बहुरूपं प्रशान्तये ॥
स्वस्तिदक्षिणदिग्भागे बल्यर्थं हो(गो?)मयेन चतुरश्रमण्डलं कृत्वा मण्डलप्रान्ते पूर्वाद्युत्तरान्तदिक्षु ॐ हां रुद्रेभ्यो नमः ।
ॐ हां मातृभ्यो नमः ।
ॐ हां गणेभ्यो नमः ।
ॐ हां यक्षेभ्यो नमः ।
ईशादिकोणेषु ॐ हां ग्रहेभ्यो नमः ।
ॐ हाम् असुरेभ्यो नमः ।
ॐ हां राक्षसेभ्यो नमः ।
ॐ हां नागेभ्यो नमः ॥
मण्डलमध्ये ईशानाग्नेये नैर्-ऋतेषु ॐ हां नक्षत्रेभ्यो नमः ।
ॐ हां राशिभ्यो नमः ।
ॐ हां विश्वेभ्यो नमः ।
ॐ हां देवेभ्यो नमः ।
वायुवरुणयोर्मध्ये ॐ हां क्षेत्रपालाय नमः ।
इत्यभ्यर्च्यार्घ्यं दत्त्वा जलमिश्रान्नेन स्वाहान्तेन तत्तन्मन्त्रेण रुद्रादिभ्यो बलिं प्रदायाचमनं दद्यात् तथा -
कामिके -
तत्रैव वा बलिं दद्यात्कृत्वा मण्डलकं भुवि ।
रुद्रेभ्यः पूर्वतो दद्यान्मातृभ्यो दक्षिणे तथा ॥
गणेभ्यः पश्चिमे भागे यक्षेभ्यश्चोत्तरं बलिम् ।
ग्रहेभ्यश्च तथैशान्यामसुरेभ्योऽग्निगोचरे ।
पालश्यां पलभक्षेभ्यो? नागेभ्यो वायुगोचरे ॥
नक्षत्रराशिवर्गेभ्यस्तथा विश्वगणाय च ।
मण्डलाभ्यन्तरे देशे बलिं तेभ्यः प्रकामतः ॥
वायुवरुणदिग्भागे क्षेत्रपालबलिं क्षिपेत् ।
आत्मार्थेऽप्येवक(मु?)द्दिष्टं गृहादौ देवसद्मनि ॥
इन्द्रादिपरिवाराणां बलिं दद्यात् पृथक् पृथक् ।
इति वचनदिन्द्रादि बलि मन्त्रनविद्दद्ध्यात् ।
तथा अंशुमति
रुद्रेभ्यः पूर्वतो दद्याद् मातृभ्यो दक्षिणे तथा ।
पदद्यात्पश्चिमे भागे रक्षेभ्यश्चोत्तरेबलिम् ॥
ग्रहेभ्यश्चासुरेभ्यश्च राक्षसेभ्यस्तथैव च ।
नागेभ्यश्च बलिं दद्यादाग्नेयादि विचक्षणः ॥
मण्डलस्तु तन्मध्ये क्षेत्रपालबलिं ददेत् ।
सर्वमन्त्रं समूह्याथ एकवारं बलिं ददेत् ।
तथा पूर्वादिदिग्वासिभ्यो दिगीशभूतमातृगणरुद्रक्षेत्रपालादिभ्यो नमः इति दद्यात् ।
अथवा नैवेद्यान्ते परार्थवत् रुद्रादिभ्यो(भ्यस्त?) तदग्रे मण्डले बलिं दत्त्वा तदग्निकार्यं कुर्यात् ॥
तथा अंशुमति -
तदग्रे बलिदानं च मण्डलं चतुरश्रकम् ।
पाद्याचमनं चार्घ्यं गन्धपुष्पैः समर्चयेत् ॥
बलिविनवसनाने? तु अग्निकार्यं समाचरेत् ।
मण्टपाद्वाह्याङ्कणे ॐ हां वायसादिद्यं समयवेदिभ्य स्वाहेत्यभ्यर्च्य बलिं दत्त्वा ॐ हाम् अस्यादिभ्य स्वाहा ॐ हां सर्वेभ्यो गृहवास्तु देवेभ्यो स्वाहेति पृथक् पृथक् बलिं दत्त्वा हृदयेन सर्वान् विसृजेत् ।
तथा सिद्धान्तशेखरे -
तान्विसृज्य विनिर्गत्य बहिर्गोमयमण्दले ।
श्वभूतपतितप्रेतकादिभ्यो बलिं क्षिपेत् ॥
यदि वा सङ्क्षेपेणानेन मन्त्रेण बलिं दद्यात् ।
मृगेन्द्रे -
ॐ - ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ।
सौम्याश्चैव तु ये केचित्सौम्यस्थान निवासिनः ॥
मातरो रुद्ररुपाश्च गणानामधिपाश्च ये ।
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः ॥
सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमां बलिम् ।
सिद्धिं जुषि(ष?)न्तु नः क्षिप्रं भवेभ्यः पान्तु मां सदा ॥
इत्थं बलिं दत्त्वा मन्त्रान् स्वहृदि विन्यसेत् ।
तदनु कुण्डगतद्रव्यजातं भस्मावशेषं विधाय तदुद्धृत्य कुण्डं सबाह्याभ्यन्तरं गोमयवारिणा संलिप्य पुनरपि होमकाले कुण्डसंस्कारं विधाय तत्र स्थपितमग्निं प्रज्वाल्य तस्मिन् शिवं पूर्ववत् सम्पूज्य सन्तर्पयेत् ।
इत्येवं प्रत्यहं विदधीत ॥
तदुक्तम् -
पत्यहं विहितं कर्म कुण्डस्योल्लेखनादिकम् ।
जाग्रापये? ततो नाग्निर्नित्य नैमित्तिककर्मणि ॥
अत्र दीक्षाप्रतिष्ठेन विहितनैमित्तिकेन कर्तव्य इति ।
संस्कृते प्रत्यहं कुण्डे न्यसेत्प्राक् संस्कृतानलम् ।
इति ।
तथाग्ने शिवाग्ने धारणं पुण्यं यावज्जीवं शिवाज्ञया ।
कुण्डादुद्धृत्य यत्नेन स्थापयेद्भाजने दृढे ॥
तुषैश्शुष्कैपिलवैस्सान्द्र? पिण्डेनाग्निं सुरक्षयेत् ॥
संस्कृत्य पूर्ववत्कुण्डं प्रत्यहं च प्रदक्षिणम् ।
तत्र निक्षिप्य वह्निं तु तत्र सन्तर्पयेच्छिवम् ॥
कर्मान्ते पूर्ववद्रक्षा कार्या यत्नेन दीक्षितैः ।
एवं सुरक्षितं कृत्वा प्राणान्तं यः प्रतर्पयेत् ।
तस्य पुण्यफलं वक्तुं न केनापीह शक्यते ।
तेनैव वह्निना कार्यं तस्यै वान्तेष्टिकर्मणा ॥
नवेतरेषु तत्कार्ये न प्राकृतजन्तुषु ।
विसर्जनं यदा वह्नेर्देशदौस्थ्यात्कदाचन ॥
ज्ञानाग्नौ हृदये विन्दौ योजयित्वा विसर्जयेत् ।
तदावस्थानबीजं तु प्रायश्चित्तं समाचरेत् ॥
स्वस्थे चित्ते पुनः कुर्याद्यथापूर्वमुदाहृतम् ।
ततः स्तोत्र वन्दनादिकं कृत्वा सकलीकृत्य सामान्यार्घ्यहस्तः शिवान्तिकं गत्वा स्वासने समुपविश्य पूजाहोमादिकार्याद्यैस्सुकृतं यन्मया कृतम् ।
तत्पद(त्फलं?) परमेशान मया तुभ्यं समर्पितम् ।
तद्गृहाण स्वयं प्रीत्या नेदं भोगाय मेऽस्तुभोः ॥
कर्मणा मनसा वाचा त्वङ्गतिण्मे? महेश्वर ।
इत्युक्त्वा स्वाहान्तमूलेन पूजाहोमादिकं पुण्यफलं देवस्य वरदहस्ते अर्घ्यजलेन सह उद्भवमुद्रया भूमिष्ठजानुजि? मुमुक्षुर्निवेदयेत् ।
बुभुक्षुश्चेत् फलं मेऽस्तु देवेश भुक्तिमुक्तयर्थसाधनम् ।
इति पठित्वा समर्पयेत् ।
अंशुमति -
अथवान्यप्रकारेण जपमेव समाचरेत् ।
होमोपकरणवैकल्यादशक्तो वा तदन्यथा ॥
होमसङ्ख्यानि मन्त्राणि जप्त्वा दशगुणं तथा ।
तज्जपं वरदहस्ते तु तत्पुष्पं तु समर्पयेत् ॥
अर्घ्यं दत्त्वा विशेषेण शिवमन्त्रमनुस्मरन् ।
तदनु धूपदीपादीपनिरीक्षणादिभिः संस्कृत्य धूपदीपमुद्रां च प्रदर्श्य घण्टामुद्रां दत्त्वा घण्टामन्त्रेण नादयन्तं शिवाय दत्त्वा एकत्रिपञ्चसप्तनवार्युक्तशिवं निरीक्षणादिसंस्कृत धूपदीपमुद्रां प्रदर्शयित्वा क्ष? आत्मने वान्द मनःकायजनितमोक्षार्थं शिवसंयोगार्थं च दूर्वाक्षतकुशसहित पुष्पमञ्जलौ गृहीत्वा ॐ हां हौम् आत्मा-
धिपतये शिवाय नमः ।
ॐ हां हौं विद्यातत्त्वाधिपतये शिवाय नमः ।
ॐ हां हौं शिवतत्त्वाधिपतये शिवाय नमः ।
इत्थं नित्यपवित्रं मुमुक्षुर्दद्यात् ॥
बुभुक्षुश्चेच्छिवतत्त्वादिमन्त्रमुच्चार्य दद्यात् ।
अथवा ॐ हां हौं सर्वतत्त्वाधिपतये शिवाय नमः इति पवित्रं दद्यात् ।
तदुक्तम् -
पवित्रमुपदीभूतं शिरसस्याधिरोपयेत् ।
प्रत्यहं वाङ्मनःकायव्यापारजनितादलम् ॥
पतनात्त्रायते यस्मात्तदेतत् पवित्रकम् ।
कारणे -
दूर्वाकुशाक्षतोपेतैर्बलिपत्रैस्समन्वितम् ।
दद्यात्पवित्रं नित्यं मूलमन्त्रसमायुतम् ॥
आत्मतत्त्वाधिपतये शिवाय नम इत्यपि ।
तद्वद्दद्याच्छिवाख्यं च मूर्तिकामः स्मरन् पठेत् ॥
पवित्र तध मूर्ध्नि दद्याद्भोगी सशिवाइतः ।
अत्र भोगीति शब्ने(ब्देन?) दीक्षितः ।
तदुक्तं श्रीमद्रौरवे -
दीक्षाभूता गणपतिगुरोर्मण्डल जम्मवन्तस्सिद्धा मन्त्रैस्तुरुणदिनकृत मञ्जिलात् भासिदेह रीक्षया ।
भुक्त्वा भोगान् सुचिरममृतस्त्रीनिकायैरुपेताः स्रस्तोत्कर्णा शिवपदपरैश्वर्य पादो भवति? ।
पवित्रभूतस्य पवित्रदानं तापत्रयघ्नं सकलार्थसिर्द्धैः ।
इत्याचार्यैरप्युक्तम् ।
एतदकरणे पूजाया राजसत्वं भवति ।
तथा मोहशूरोत्तरे -
पवित्रेण विना पूजा राजसीति प्रकीर्तिता ।
इति ॥
नवपञ्चत्रयेकान्यतरे सङ्ख्यकर्पूरे वर्तिदीपयुक्तमारात्रिकं त्रिपाद्यां न्यस्य चतुस्सतुस्संस्कारं धूपदीपौ च दत्त्वा धेनुमुद्रां प्रदर्श्य समादाय स्वाहान्त हृदयेन प्रत्येकमयोमय्यो च क्रमेण त्रिस्त्रिः परिभ्राम्य अवतार्याचमनार्घ्यौ दत्त्वा कर्पूरमिश्रं
भस्म मृगमुद्रया सङ्गृह्य लिङ्गस्योपरित्रिः परिभ्राम्यारात्रिक पात्रे क्षिप्त्वा देवस्य देव्या बेराणां वा यथायोग्यमङ्गुष्ठानामिकाभ्यां वा भस्म धारयेत् ॥
तथा -
निर्धूमज्वलदङ्गार पूर्णपात्रोदरे दृशम् ।
दह्यमानेन धूपेन दीपयेत्तदनन्तरम् ॥
पञ्चसप्तनवेति वर्त्तिभिसृत दीपिकाम् ।
कालोत्तरे -
कनिष्ठाङ्गुष्ठसङ्कोचे शेषाश्चैव प्रसारयेत् ।
धूपमुद्रा भवेदेषा दीपमुद्रां ततः शृणु ॥
कनिष्ठानामिकामध्ये अङ्गुष्ठेन तु पीडयेत् ।
तर्जनीमूर्ध्वता? कृत्वा दीपमुद्रां प्रदर्शयेत् ॥
एकनादं च मोक्षार्थं विरक्तानां प्रशस्यते ।
घण्टाताडनमेवं स्याद्विनादं भोगमोक्षदम् ॥
जानुना भेरयो नादं कर्तव्यं तु न कारयेत् ।
नाभेरूर्ध्वं तु कर्तव्य महाघण्टाप्रताडनम् ॥
उत्तमं स्निग्धघोषं च मध्य मध्यमं तथा ।
अधमं घर्घराघोषमित्येते शब्दलक्षणम् ।
अजिते -
आरात्रिकमथो वक्ष्ये सर्वपापप्रशान्तये ।
नवदीपयुतं श्रेष्ठं पञ्चदीपं तु मध्यमम् ॥
कन्यसं त्र्येकदीपेन यत्नं पात्रक्रमाद्भवेत् ।
उद्धृत्योपरि देवस्य त्रिः परिभ्रामयेत्तदा ॥
तन्त्रसारे -
पादादिमूर्धपर्यन्तं त्रिस्त्रि भ्राम्य ततो न्यसेत् ।
ततो भस्म तु संहृत्य कर्पूरादि सुगन्धितम् ॥
गृहीत्वा मुद्रया दृश्या भ्राम्य लिङ्गोपरि त्रिधा ।
प्रक्षिपेद्दीपपात्रे तु ततो लिङ्गस्य मूर्धनि ।
अस्त्रेण विन्यसेदीषद्दक्षिणेन करेण तु ॥
कामिके -
श्वितं? पूतं सुगन्धिं च निर्वालुकमनन्तरम् ।
अङ्गुष्ठानामिकानां तु तिलकं पञ्चवक्त्रके ॥
[दीपमेकैकदीपे तु प्रोक्षयेत्तु शिवाम्भसा ।
बध्वा तु सुरभीं पश्चाद्दीपस्योपरि दर्शयेत् ॥
]
देवी व्यक्तस्वरूपा चेत् तिलकं च पुरोगले ।
ततो ललाटमूलेन हृदयेनाथवा नयेत् ॥
बेरे ललाटे हृद्बाह्वोः प्रदेशे तिलकं नयेत् ।
तन्त्रसारे -
फाललोचनमध्ये तु रक्षायां किं प्रयोजनम् ।
ललाटनयनस्योर्ध्वे रक्षां? देवस्य दापयेत् ॥
ततोरनन्तरान्तर? जलोपस्पर्शनं कृत्वा दर्पणछत्र चामरव्यञ्जन तालवृन्तानि पञ्चब्रह्मभिः क्रमेण दत्त्वा वेदपुराण पञ्चाङ्गश्रवणस्तोत्र शुद्धनृत्तरहितगीतवाद्य ध्वनिभिः सन्तोष्य भोगाङ्गसहितं तुष्टं शिवं ध्यात्वा मूलेन पुष्पाञ्जलिं? त्रिधा दत्त्वा महामुद्रां प्रदर्शयेत् ॥
उक्तम् अंशुमति -
जलोपस्पर्शनं कृत्वा दर्पणं दर्शयेत्ततः ।
छत्रचामरकं चैव व्यञ्ज(ज?)नं तालवृन्तकम् ॥
पञ्चब्रह्ममनु स्मृत्य योजयेत्तु क्रमेण तु ।
वेदैः पुराणमेवं च पञ्चाङ्ग श्रवणं ततः ॥
स्तोत्रनृत्तं च गीतं च वाद्यध्वनि समायुतम् ।
शिवधर्मे -
शिवस्य पुरतो दद्याद्दर्पण स्वच्छनिर्मितम् ।
कल्पायुतसहस्रं तु शिवलोके महीयते ॥
शरच्चन्द्रांशुविमलं मुक्तादामोपशोभितम् ।
मणिदण्डमयछत्रं दद्याद्वा काञ्चनामयम् ॥
छत्रेण सपवित्रेण धार्यमाणेन शोभितम् ॥
विमानशतसम्भोगैः स्थिरं शिवपुरे वसेत् ।
तन्त्रसारे -
शिवाय चामरं दद्यान्मणिदण्डविभूषितम् ।
हेमरौप्यादिदण्डं वा तस्य पुण्यफलं शृणु ।
चामरासक्तहस्ताग्र दिव्यश्रीपरिवारितः ॥
महाभोगविमानस्थः स्थिरं शिवपुरे वसेत् ।
सुप्रभेदे -
मयूरव्यञ्ज(ज?)नं कुर्याच्चमर्याश्चामरं तथा ।
हेमरत्नमयं दण्डं रौप्यं ताम्रमयं तु वा ॥
दन्तैर्वा दारुभिर्वापि दण्डं कुर्याद्विशेषतः ।
चिन्त्यविश्वसादाख्ये -
मूलमन्त्रेण कर्तव्यं पुष्पं शिरसि निक्षिपेत् ।
निबन्धयेन्महामुद्रानोपरि भ्रामयेत्करम् ॥
कामिके -
प्रार्थयित्वा जपं कुर्यादक्षसूत्रेण बुद्धिमान् ।
अक्षिणामक्षकल्पानां नियमोऽयं प्रसूयते ॥
दृष्टादृष्टफलावाप्तेरक्षसूत्रं तदुच्यते ।
तद्यथा - जपमालामादाय हस्ते विन्यस्तहृदा निरीक्ष्य ईशानेन प्रोक्ष्य अस्त्रेण दिशो बध्वा कवचेनावकुण्ठ्य कलामस्त्रैरभिमन्त्र्य गन्धपुष्पादिभिर्हृदा सम्पूज्य मालामुद्रां बध्वा आत्ममुद्रां मन्त्ररक्षां विधानज्ञो कनिष्ठानामिकामूले पुष्पं सङ्घृह्य वस्त्रेणाच्छाद्य मूलमन्त्र मष्टोत्तरशतं ततः तदर्धं वा जपेत् ॥
तथा अंशुमति -
अक्षमालां समादाय वामहस्ते च विन्यसेत् ।
ईक्षणं हृदयेनैव प्रोक्षणं बीजमन्त्रतः ॥
दिग्बन्धनं चास्त्रमन्त्रेण कवचेनावकुण्ठने ।
कलामन्त्राभिमन्त्रेण पञ्चसंस्कारसंयुतम् ॥
कालोत्तरे -
उभयोश्चन्द्रयोर्मध्ये स्वदेहं चिन्त्ययत्नतः ।
तेनामृतमयो देह उद्धृष्यमस्त्रदशैरपि? ॥
आत्मरक्षा समाख्याता मन्त्ररक्षा निगद्यते ।
शक्तिगर्भे न्यसेन्मन्त्रं न पुंसि न शिवे तथा ॥
अशक्ताः पुरुषस्थाः स्युः शिवस्थाः? शान्ततेजसः ।
तस्माच्छक्तिर्ग(ग?)ता मात्राः(मन्त्रा?) भुक्तिमुक्तिफलप्रदाम्(दाः?) ॥
नात्मनीनपरे तत्त्वे योजयेदिति ।
तथा -
न पुंसि न परे तत्त्वे शक्तु मन्त्रं नियोजयेत् ।
पुंस्तत्त्वे जडतां याति बेरे तत्त्वे तु निष्फलम् ॥
निप्रपञ्चे परे तत्त्वे मन्त्रो भवति निष्फलः ।
नाजप्तः सिद्ध्यते मन्त्रो नाहुतिस्तु फलप्रदम् ॥
नार्चते यच्छते कामं तस्मात्रतयमाचरेत् ।
इति ॥
शक्तिराद्या परा विप्रशैव फल प्रदाः ।
शिवादभिन्ना साज्ञेया सर्वदा रविरश्मिवत् ॥
मन्त्रमाता पराशक्तिराद्या कुण्डलिनी तु सा ।
हृत्प्रदेशे स्थिता [(अयमङ्कः मातृकायां दत्तः)नित्यं रविचन्द्राग्निसन्निभा ।
एकद्वित्रिधा तु विज्ञेया इडा पिङ्गलान्दिहेदतः ॥
सुषुम्नान्तर्गता गूढा ज्ञाता गुरुमुखेन तु] ।
-
-
-
-
-
-
- *? प्राणेन वर्तते * * * * ।
-
-
-
-
-
त्रिशूलामार्गतो याति द्वादशान्तं तु योगिनाम् ।
गमागम प्रभेदेन याति सा शाङ्करे पदे ॥
[आनाभे द्वादशान्तस्तं व्याप्ता]
परं भावं समाश्रित्य परानन्तं? समश्नुते ।
इति शक्तादिकं ज्ञात्वा मन्त्ररक्षाक्षमो भवेत् ॥
षट्सहस्रिके -
ईश्वरः -
शतेनाष्टोत्तरेणैव उत्तमं परिकीर्तितम् ।
तदर्धं मध्यमं शस्तं तदर्धात्कन्यसंहितम् ॥
रुद्राक्षजं महाभूत्यै मुक्तिदं परमं शुभम् ।
एकवक्त्रैस्त्रिवक्त्रैश्च चतुर्वक्त्रैश्च पञ्चभिः ॥
षड्वक्त्रैश्चैव कर्तव्यं तस्मा मिश्रैस्तु वर्जयेत् ।
मुखे मुखं प्रकर्तव्यं मूले मूलेन योजयेत् ॥
धात्रीफलप्रमाणेन श्रेष्ठमेतदुदाहृतम् ।
बदरस्य प्रमाणेन चणकं मध्यमाधमौ ।
नवतीतन्तुना प्रोक्तं कर्तव्यं पूर्ववच्छुभम् ॥
नागपाशं तु सावित्रं ब्रह्माख्यं वाथ ग्रन्थनम् ।
ग्रन्थ्यूर्ध्वे मेरन्तु मेराख्यं कर्तव्यं तं न लङ्घयेत् ॥
क्षालयेत्सद्यमन्त्रेण वामदेवेन घर्षयेत् ।
धूपयेद्बहुरूपेण लेपयेत्पुरुषेण तु ॥
मन्त्रयेत्पञ्चमेनैव प्रत्येकं तु शतं शतम् ।
मेरुं च पञ्चमेनैव तथा घोरेण मन्त्रयेत् ॥
मेरुं च पञ्चभिः पूज्य पूर्ववच्च यथाशिवम् ।
सूक्ष्मे -
कनिष्ठानामिकामध्ये पुष्पं सङ्गृह्य बुद्धिमान् ।
प्रच्छन्नपटमाच्छाद्य मूलमन्त्रमनुस्मरन् ॥
तथा चिन्त्यविश्वसादाख्ये -
मूलमन्त्रं जपेत् पश्चादक्षमाला समन्वितम् ।
वामहस्ते तु कुसुमं निक्षिपेद्दक्षपाणिना ॥
दक्षहस्त्रे पटेन्यस्य जपं कुर्याद्विशेषतः ।
मानसोपांशुभाष्याणां प्रथमं चोत्तमोत्तमम् ॥
उपांशु मध्यमं प्रोक्तमधमं भाष्यमेव हि ।
तस्माद्भाष्यं समुत्सृज्य मानसोपांशु वा जपेत् ॥
भीमसंहितायाम् -
उपांशु यजने प्रोक्तं वाचिकं होमकर्मणि ।
मानसं मन्त्रजप्तेन सर्वमन्त्रमुदाहृतम् ॥
कालोत्तरे -
अङ्गुष्ठानामिका चैव नित्यमेव जपेद्बुधः ।
अङ्गुष्ठानामिका चैव सर्वकामफलप्रदा ।
तथा षट्सहस्रे -
अङ्गुष्ठानामिकाग्रस्य जपं कुर्यात्तु मानसम् ।
अष्टोत्तरशतेनैव फलं कोटिगुणं भवेत् ॥
अक्षराक्षरसन्धानं न द्रुतं न विलम्बितम् ।
फलं सहस्रगुणितं प्राप्नयान्नानृतं वचः ॥
भुक्तये सृष्टिमार्गेण घर्षयेदक्षसूत्रके ।
ऊर्ध्वमार्गेण मुक्त्यर्थं घर्षयेत्तु शनैः शनैः ॥
मेरुं न लङ्घयेन्मन्त्री लङ्घनाद्दोषभाग्भ्गवेत् ।
सहस्रं बहुरूपस्य जप्तव्यं तेन शुध्यति ॥
प्रमादात्पतितं भूमौ जप्तव्यं तु शतद्वयम् ।
पतने च तथान्यत्र प्रायश्चित्तं न चेष्यते ॥
मेरुहीनाक्षमाले(ला?) तु कर्तव्या वा प्रयत्नतः ।
न स्यादुल्लङ्घनो दोषो यतो मेरुविवर्जितः ॥
तथा -
स्वं मन्त्रं चाक्षसूत्रं च गुरोरपि न दर्शयेत् ।
जपकाले तु गोप्तव्या जपमाला च षण्मुख ॥
परदृष्टिगता माला स्यान्निष्फलयो जपः ।
एवं यथोक्तं चाष्टशतं सपुष्पं जप्त्वा तत्पुष्पं जपकारि स्वदक्षिणकरतलाद्वाम करतले स्थाप्य अस्त्रकवच हृदयान्युपर्युपरि विन्यस्य हृदयकवचास्त्रैः सम्पूटीकृत्य अस्त्रेण रक्षितं कवचेना वकुण्ठितं दक्षिणहस्ते गृहीत्वा
हृत्प्रदेशे निधाय पूर्णचन्द्रोपमं हृदयचन्द्रिकाङ्कुरशक्तिस्थं जपं ध्यात्वा अर्घ्यजलमुद्भवमुद्रया भूमिष्ठदक्ष जानुर्भूत्वा प्रणव हृदयसहितं श्लोकत्रयमन्त्रमुच्चार्य जपकर्म च आत्मानं च क्रमेण चुलुकोदकेन शिवस्य वरदहस्ते निवेदयेत् ॥
चिन्त्यविश्वसादाख्ये -
सव्यजानुं क्षितौ कृत्वा जपं तस्मै निवेदयेत् ।
मन्त्रितं हृदयेनैव कवचेनानुवेष्टितम् ॥
अस्त्रेण रक्षितं चैव मुद्रयोद्भवसञ्ज्ञया ।
इति ॥
अजिते -
चुलुकोदकविधिं वक्ष्ये तच्छृणुष्व जनार्दन ।
अर्घोदकसमापाद्यं दक्षिणे हस्तसम्पुटे ॥
गन्धपुष्पाक्षतोपेतं हृदि तं सन्निवेश्य च ।
पठे मन्त्र्यमम्मन्त्री तच्छृणुत्वं समाहितः ॥
ओ हां गुह्यादिगुह्यगोप्तात्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवति मे येन त्वत्प्रसादात्वधिस्थिते ॥
ॐ हां यत् किञ्चित् कर्णहे देव सदा सुकृतदुष्कृतम् ।
तम्मे शिवपदस्थस्य भुङ्क्ष्वक्षपयशङ्करम् ॥
ॐ हां शिवो दाता शिवो भोक्ता शिवस्सर्वमिदं जगत् ।
शिवो यजति सर्वत्र यश्शिवस्सोहमेव तु ॥
अस्यात्वः(र्थः?) गुह्यादीनि शुद्धविद्यादीनि
तेषां गोप्ता त्वमेव च ।
अतस्सर्वगोप्तृत्वौ? मनस्मत्कृतं? जपं गृहाण ।
येन यस्मादस्मिन् जपे तुर्यवस्थिते सति त्वत्प्रसादादस्माकं भुक्तिमुक्तिलक्षणसिद्धिर्बह्वति नान्यथा तस्माद्गृहाणेति ।
हे देव सुकृतं दुष्कृतं वा यत् किञ्चिन्मे कर्मास्ति ।
शिवपदस्थस्य शिवस्य पदेकवसाये शिवोऽहमिति भावनाध्यवसाये स्थितस्य ।
पदं व्यवसितत्राणस्थान लक्ष्माङ्घ्रिवस्तुषु इत्यमरः ।
तत्कर्म भुक्ष्व ।
मोक्षान्तनाया(राया?) पभौरणाय?(पहरणाय?) सुकृतरूपं पाल क्षपय? ।
दुष्कृतरूपं नाशय ।
अथ मन्त्रान्तरम् -
शिवो दाता शोयस्थिता देशो यन इत्ययं धातुरत्र विवक्षितः ।
शिवो भोक्ता पालयिता शिवस्सर्वमिदं जगत् ।
ईष्ट इति शेषः ।
अधितिष्ठतीति वा ।
यस्तु दीक्षाया शिवश्शुद्धो भूत्वा सर्वत्र देशेष्वधिकरणेषु यजति शोधयित्रत्यादि विशिष्टं परमशिवं पूजयति ।
स आराधकः शिवोऽहमेव त्वं चाराध्य शिव इत्यनेन पूज्यपूजकयोः जगन्नाथ तवास्मीति यत्स्वीकारोपदर्शनमिति स्वस्वामिसम्बन्ध प्रदर्शनमुपपादयतीति
एवं मन्त्रं समुच्चार्य स्वनाममूलमन्त्रतः ।
लिङ्गमूले समायोज्य क्षमस्वेति विसर्जयेत् ॥
अस्त्रेण वर्मणाभ्यासात्सम्पुटीकृत्य चार्पयेत् ॥
तदुक्तं कारणे -
अञ्जलिं दक्षिणे हस्तं कुञ्चितं चतुरङ्गुलम् ।
पुष्पवारि गृहीत्वा तु पादमूले प्रदापयेत् ॥
चुलुकोदकमिति ख्यातं पूजान्ते तु प्रजापते ।
त्रिभिश्चुलुकैरिति क्वचित्तदुक्तं च -
दक्षजानु क्षितौ कृत्वा तज्जपं विनिवेदयेत् ।
शिवेन शिवसव्ये तु गन्धाम्बुचुलुकैस्त्रिभिः ॥
इति ।
तदुक्तं कामिके -
मूलाद्दशांशतोऽङ्गानां जपः कार्योऽत्र धीमता ।
तथा चिन्त्यविश्वसादाख्ये -
शिवाङ्गानां जपं चापि जपांश्च दापयेत्तदा ।
तदनु - सार्ध मन्त्रपूजकस्तदर्थं तु विज्ञाप्य लब्धानुज्ञश्शिवलिङ्गमध्ये पूजितस्य शिवस्यासनभूतपद्मस्य दक्षिणदलवामदक्षिण मध्येषु निरतिशयवीर्योत्त्कर्ष सम्पत्यर्थं प्राग्भागे स्त्रीरूपान् गौर्यादि मन्तान् न्यसेत् ।
पश्चिमभागे -
सुधाकलशमध्यस्थश्वेतपद्मासनस्थितः ।
चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ॥
व्याघ्रचर्मपरीधानो नागेन्द्रोनो?रगभूषणः ।
त्रिशूलं चाभयं चोर्ध्वे सुधाकलशमध्ययोः ।
दधानः षड्भुजश्चेत् स त्रिशूलं चा कृ(क्ष?)त्व मालया ॥
कपालगुलिकां वामे योगमुद्राकरद्वये ।
अनेन सदृशो मन्त्रो नास्तीति प्राणरक्षणे ॥
न भविष्यति भूतं च (तश्च?) सत्यमेतदुदाहृतम् ।
इति ध्यानपूर्वकं पुंरूपान् मृत्युञ्जयादीन्यजेत् ॥
मध्ये स्त्रीपुंरूपान् उमार्धं वामभागं तु हरार्धं दक्षिणं वपुः ।
स जटामकुटं दक्षं शश्यर्धाङ्कितमग्रजाः(जम्?) ॥
करण्डमकुटं वाममलकेन समन्वितम् ।
ललाटदक्षिणे भागे नयनार्धेन संयुतम् ॥
पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् ।
नागकुण्डलकं सव्ये तं विनावाथ कल्पयेत् ।
उमाभङ्गस्तापेतं? चित्रवस्त्रपरिच्छदम् ॥
व्याघ्राजिनाम्बरां सव्यपादं कुञ्चितमिष्यते ।
सुस्थितं वामचरणं नूपुरेणाप्यलङ्कृतम् ॥
इति ध्यानपूर्वमुमामहेश्वरार्धनारीश्वरादिमन्त्रान्यजेत् ।
तत्र साध्यमन्त्रदेवानां प्रणवेनासनमूर्तिं दत्त्वा हृत्सम्पुटितैः स्वस्व मन्त्रैरावाह्य सकलीकृत्य पाद्यादिभिः सम्पूज्य तत्तन्मन्त्रं सहस्रं शतं वाष्टोत्तरं यथाशक्ति जप्त्वा काम्यमन्त्रोपरक्ताय शिवाय समर्पयेत् ।
यद्वा आवरणपूजान्ते साध्यमन्त्रा -
नप्याराध्य पश्चात्स्थण्डिलेऽपि वा ।
तदेकमन्त्रा मन्त्रस्तु ध्येयास्सर्वाङ्गसंयुताः ॥
तथा - किरणे -
दत्त्वाथवरणानिष्ट्या साध्यानां पूजयेत्ततः ।
तदङ्गैरङ्कितं कृत्वा प्रणवे कमलासने ॥
शिवस्य दक्षिणे भागे विभवेन तु पूजयेत् ।
मृगेन्द्रे -
अथाभ्यर्च्य महेशानं साध्यमन्त्रं यजेच्छ्रियैः ।
सर्वथा सर्वदा गुप्तं साधको वक्ष्यमाणवत् ।
याम्याब्जपत्रे जपान्ते साध्यमन्त्रजपं कृत्वा पूर्वोक्तवन्निवेदयेत् ।
तदुक्तम् सर्वज्ञानोत्तरे -
तथाभ्यर्च्य महेशान लिङ्गाग्रे प्राक्पश्चाद्भागयोस्त्रीन्द्रविग्रहम् ।
अघोरलोचनज्योतिर्मध्ये नान्यत्र कुत्रचित् ।
प्रयातिभस्म सा मध्ये बहिर्यस्माद्विलुप्यते ।
अस्यार्थः शिवासन पद्ममध्येव साध्यमन्त्रं यदि पूजयेत्तदा भस्म भवति ।
तद्बहिर्यदि पूजयेत्तदा विनश्यति ।
तस्मात्तत्पद्मदक्षिणदलस्थात्पश्चिम मध्येष्वेव साध्यमन्त्रान्पूजयेदित्यर्थः ।
किरणे -
मुक्तामणिमयैर्माला रुद्राक्षैर्वरसिद्धिदा ।
शङ्खस्फटिकपद्माक्ष शक्राक्षैर्मध्यसिद्धिदा ॥
रीतिकात्रपुसीसाद्यैरधमं(मा?) सिद्धिरिष्यते ।
पुत्रजीवकमाला स्यात्सर्वकर्मार्थसाधनी ॥
गुह्यमन्त्र जप्तां तामष्टोत्तर शतान्विताम् ।
तदर्धं वा प्रकुर्वीत तस्याप्यर्धमथापि वा ॥
मध्यमानामिकाङ्गुष्ठकर्षणात्सिद्धिरुत्तमा ।
अङुष्ठतर्जनीयोगान्मध्यमा सिद्धिरुच्यते ॥
कनिष्ठाङ्गुलियोगेन सिद्धिरुक्ता कनीयसी ।
त्रिविधस्स च विज्ञेयः सिद्धित्रयसमागतः ॥
उपांशुर्मनसो(सा?) भाष्यस्तत्रोपांशुः? प्रशस्यते ।
सर्वज्ञानोत्तरे -
विस्पष्टस्तामसं(सः?) प्रोक्तो राजसापां?शुरुच्यते ।
मनसा सात्त्विकं विद्याज्जपं जप्यविदांवर ॥
तामसं क्रूरकर्माणां वश्यादिषु च राजसम् ।
सात्त्विकं दिव्यसिद्धीनां जपं पूज्याद्विचक्षणः ॥
पौष्करे -
उत्तमं मनसा मन्त्रम्मध्यमानप्युपांशुना ।
अधमानसिमन्त्रास्तु भाष्येणे जपेद्बुधः? ॥
सर्वज्ञानोत्तरे -
दिवाकृतामसं कुर्याज्जपं रात्रण तु राजसम्? ।
सन्ध्यायां सात्त्विकं प्रोक्तोजपस्सर्वार्थसाधकम् सर्वदा साध्यमन्त्रजपकाले तत्तत्साध्यमन्त्रसमानयः ।
मतामात्मनश्चिन्तयन्जपफलं चिरात् प्राप्नोति ।
न तु स एवाहमित्येत्य भावना तदानीम् ।
पूज्यपूजकभावस्य फलदातृसम्भवादद्वैतपक्षं त्यक्त्वा भावनाविशेषेण भावयेत् ।
तदुक्तं -
सर्वज्ञानोत्तरे -
अनन्यमानसो योगी मन्त्रे तन्मयतां गतः ।
अचिरात्सिद्धिमाप्नोति अद्वैतद्वैतमाश्रितः ॥
कथं पुनस्साधकोच्चारितेषु भूताकाशवायुप्रभवेष्वशुद्धेषु वर्णेषु शुद्धानां मन्त्राणां वाच्यत्वेन सान्निध्यम् ।
न तु साक्षात् ।
किं तु तेष्वङ्गारकस्थानीत्वेषु अभिव्यक्ता अग्निस्थानीयाः शिव-
कृताः शुद्धवर्णास्तेषां वाचकत्वेन सन्निधिहेतो(त?)वो भवन्तीत्यर्थः ।
काम्यमन्त्रजापको मन्त्रारम्भकाले गुरुणा सिद्धसाध्यादिकोष्ठेषु साधकशिष्यस्यानुकूल्यं नाम नक्षत्रं ज्ञात्वा गुरुणा जपादुपदेशः कर्तव्यम् ।
तदुक्तम् कामिके -
यस्यानुकूलो मन्त्रो(न्त्रः?) साधकस्य स सिद्धिदः ।
सिद्ध?स्साध्यसुसिद्धानि साधकाख्यानि माक्षरः ॥
एवमन्यत्र साध्यादौ चतुर्थीकल्पमामता ।
जपादिषु प्रदस्सिद्धस्सार्योच्चा जपतर्पणैः ॥
सुसिद्धः पाठमात्रेण साधकारिष्ठतो रिपुम्? ।
प्रचुरश्शस्त्रवर्णैस्तु मन्त्रो नाशकरः स्मृतः ।
शिष्योऽपि शीलसम्पन्नः पूत्रोवा शिवभक्तिमान् ॥
तस्य देयोऽभि गुरुणा सहस्रं ताज्जपेद्गुरुः ।
प्राप्तेषु तच्छलात्प्राप्तमग्रहीतं गूढरूपतम् ॥
प्रकारान्तरतः जपे प्राप्तं द्यति विनाशकृत् ।
जपाद्वादिक्रियासिद्धं मन्त्रैर्यस्साधकोत्तमः ॥
तस्याल्पसाधनादन्ये मन्त्रास्सर्वार्थसिद्धिदाः ।
एवं बीजजपः कार्यस्तद्द्वित्रिगुणसङ्ख्यया ॥
मालात्मकस्य मन्त्रस्य जपसङ्ख्या विधीयते ।
अनुक्तसङ्ख्या मन्त्रस्य शतं साष्टसहस्रकम् ॥
जपाद्दशांशतो होमस्त्वभिषेकविधौमतः ।
मूलाद्दशांशतोऽङ्गानामर्च(र्चा?) होमजपादिकम् ॥
जपाक्षराधिका मन्त्रास्तन्न्यूना बीजसञ्ज्ञकाः ।
पूरकाद्यक्षराणि यथाक्रमेण लिखेत् ।
उद्वनिरुद्रग्रहपक्षपेतमार्ताण्डदिक्षड्गजषोडशेषान् सप्ततिशिश्च विश्वेकोष्ठप्रदेशेष्वधमेव लिख्यः ।
इत्थं तत्तच्छेषाक्षर विन्यस्य
मालामन्त्राश्च विख्याता विंशत्यर्णाधिकाश्च ये ।
इति दञ्चविद्याः अथ रणिरणिभावक्रमः ॥
नामाद्यक्षरमारभ्य यावन्मन्त्रादिवर्णकः ।
त्रिषट्द्विपञ्चैकचतुर्नेति मन्त्रा यदि यतेः एक द्वे इति ज्ञेयं साधकाय प्रदीपते ।
अत्राधिष्ठेयमन्त्रोपाधिवशादधिष्ठाता
शिवोऽपि तावत् भेदेऽ?भिन्न उपचारेण भवति ।
तथा सर्वज्ञानोत्तरे -
प्राणिनां चित्तभेदान्तु(त्तु?) मन्त्रभेदैः परश्शिवः ।
संस्थितानुग्रहात्त्थाय साक्षिभूतस्तु कर्मणाम् ॥
स्थानं कर्म च भावं च देवताव्याप्तिमेव च ।
वर्तते वीक्ष्य विश्वात्मा फलक्षेत्र विभक्तिषु ॥
इति ॥
तदनु विद्यापीठं पूजयेत् ॥
तथा -
देवस्य पश्चिमे भागे विद्यापीठं ततो यजेत् ।
कामिके तु -
वायव्ये दक्षिणे वा विज्ञानकोशं प्रकल्पयेत् ।
कामिकादि शिवज्ञानं स्थानं याम्यदिशि स्थितम् ।
एतद्वचनं परार्थालये साक्षात्स्थापनविषयम् ।
तथा शिवधर्मोत्तरे -
शैलेष्टमृण्मयं वा विज्ञानकोशं प्रकल्पयेत् ।
दारुभिः? कृतमेवं वा कवाटार्गलसंयुक्तं प्रकारावाम? शोभितम् ।
कामिके -
त्रिहस्तं तु समारभ्य त्रयस्त्रिंशत्करान्तरम् ।
विद्याशाला विशाला स्यात्प्रासादो वाथ मण्टपम् ॥
एकशालादिभेदेन शाला वा लक्षणान्वितः ।
विद्यापीठस्य विस्तारं सप्ताङ्गुलविशालकम् ॥
विद्याङ्गुलविवृद्ध्या तु स्यादेकत्रिंशदङ्गुलैः ।
तेनायामः समाख्यातः पञ्चाशत्करजान्तकः ।
चतुरश्रसमा वास्यादायताश्रस्तु वा भवेत् ॥
अन्यदासन विध्युक्तमार्गेण सकलं नयेत् ।
शिवधर्मोतरे -
विद्यासिंहान श्रीमान्नागमान्तादिनिर्मितम् ।
सुवर्णरत्नरचितं दुकूलास्तरणान्वितः ॥
दण्डासनं वा श्रीमन्तं हेमरत्नोभशोभितम् ।
नागेन्द्रदन्तरचितं रक्तचन्दनदारुजम् ॥
स्थाप्य पुष्पगृहस्यान्तर्गन्धपुष्पैः प्रपूजयेत् ।
ॐ हां कामिकादि शिवज्ञानावतारकेभ्यो(भ्य?) आसनं नम इति सम्पूज्य पश्चात्तदुपरि विद्याकोशमञ्जूषं स्थापयेत् ॥
तदुक्तम् शिवधर्मोत्तरे -
यस्सौवर्णं सुसम्पूर्णं सर्वरत्नोपशोभितम् ।
सापिधानं समञ्जूषं विद्याकोशसमाश्रयम् ॥
कारयेद्वाथ रौप्येण ताम्रेण चतुरश्रकम् ।
कांस्यारकूटलोहैर्वा दारुवंशादिनिर्मितम् ॥
सत्कषायानुरक्तेन चर्मणाभिनवेन च ।
अन्तर्बहिश्च मठयेद्विद्यावासं गृहं नवम् ॥
सुद्वार कटकोपेतं मदृढ(दृढ?) सूत्रनिबन्धनम् ।
कुर्यात्तालकसंयुक्तं विद्यारत्तकरण्डकम् ॥
एवं वित्तानुसारेण कारयित्वानुरूपतः ।
प्रक्षाल्य गन्धतोयेन विद्याकोशगृहं परः ॥
कृत्वा वस्त्रगृहं दिव्यमन्तः पुष्पगृहाधिकः ।
विद्यासिंहासने तत्र स्थापयेद्विधिवद्बुधः ॥
तस्मिन्पुण्याहशब्देन विद्याकोशगृहेन्यसेत् ।
ततः सम्पूजयेद्विद्वान्महाविभवविस्तरैः ॥
अत्र विद्यापीठपूजा द्विविधा ।
अपरोक्षापरोक्षा चेति ।
तत्र प्रत्यक्षलिखितकामिकादितन्त्रविषया पूजापरोक्षा ।
मण्डलपद्मपीठादिविषया परोक्षा ।
प्रथमायामपि सर्वसंहिता स्वसंहिता वा पूजनीया ।
तथा -
ज्ञानरत्नावल्याम् -
विद्यापीठं कोटिमात्रं पूजयेद्वा स्वसंहिताम् ।
गन्धपुष्पादि नैवेद्यमालाभिः शिववत्सुधीः ॥
मृगेन्द्रे च -
विद्यापीठेऽपि मत्वैवमेकोच्चारेण पूजयेत् ।
स्रग्गन्धधूपनैवेद्यैः समाचरुचिरीश्वरम्? ॥
शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ।
यद्वा समुदितरूपेण ।
ॐ हां सर्वेभ्यो(भ्यः?) शिवज्ञानेभ्यो नम इति सम्पूज्य ॐ सर्वज्ञानप्रदं शम्भुं सर्वज्ञानविधातकम्? ।
कायेन मनसा वाचा विद्यापीठाश्रयं भजे ॥
इति स्मृत्वा क्षमस्वेति ब्रूयात् ।
चतुरश्रमण्डलपद्मे तु कर्णिकायां ॐ हौं शिवाय नमः ।
ॐ हां वागीशाय नमः ।
इति यजेत् ।
तदावृत पूर्वादिदशदलेषु ॐ हां कामिकाय नमः इति पूर्वे वह्न्यादिनवदलेषु योगजादिसुप्रभेदाख्यानि शिवभेदागमज्ञानानि ज्ञानार्थी पूजयेत् ।
शिवेन अधिकरणनिरपेक्षेण साक्षाद्भगवता
शिवभेदानामुच्चारितत्वाद् अनादिरूपादिरुद्राधिकरणे शिवेन विजयादीनां तन्त्राणां ह्युत्पत्तिः ।
अत्र तदावारकाष्टादशपद्म दलेषु पूर्वादिक्रमेण रुद्रभेदाख्यानि विजयादि वातुलान्तात्य(न्य?)ष्टादशतन्त्राणि तन्मन्त्रेण पूजयेत् ।
तथा
वातुले -
कृत्वा दशदलं पद्मं मण्डले चतुरश्रके ।
मध्ये शिवं सवागीशं ज्ञानार्थि(र्थी?) पूर्वदिक्क्रमात् ॥
दलेषु कामिकादीनि शिवज्ञानानि पूजयेत् ।
प्राग्वदष्टादशदले पद्मे पूर्वादितः क्रमात् ॥
रुद्रज्ञानानि तेष्वेव गुरुयागे प्रपूजयेत् ॥
इति
तदनु गुरुं पूजयेत् ।
तदुक्तम् -
शिवधर्मोत्तरे -
सम्पूज्यैवं शिवज्ञानं गुरुं सम्पूजयेत्ततः ।
शिवं पूजयेद्भक्त्या शिवज्ञान प्रकाशकम् ॥
इति ।
गुरुपूजा द्विविधा परोक्षभावना? चेति ।
गुरुं स्वपीठस्थं गत्वा पादकमले प्राक्षाल्य शिवमिव गन्धादिभिरभ्यर्च्य पुष्पाञ्जलित्रयेणाभ्यर्च्य सम्यगर्चयेत् ।
षट्सहस्रे -
अथ सन्निहितं चाथ पूर्ववत्पूजयेद्गुरुम् ।
शिवधर्मोत्तरे -
त्रिधा प्रदक्षिणं कृत्वा दण्डवत्प्रणमेत्क्षितौ ।
विज्ञापयेत् समुत्थाय जानुभ्यां धरणीं गतः ॥
कृताञ्जलिपुटो भूत्वा प्रणिपत्य गुरुं पुनः ।
मृगेन्द्रे -
न भुञ्जानं समाधिस्थं कर्मणां क्रिययोद्यतम् ।
स्थितं गुरुं? समीपे वा मतिमान्नाभिवादयेत् ॥
गच्छन्तं पृष्ठतो यायाद्विशन्तमनुसंविशेत् ।
तद्वशो नानुयुञ्जीत शयानं न प्रबोधयेत् ॥
कालोत्तरे -
ईश्वरः -
लभ्यते शाश्वता ज्ञानं गुरुप्रसादेन षण्मुख ।
देवालये गुरुर्यत्र तिष्ठते वै षडानन ॥
पूर्वं गुरुं वन्दयित्वा पश्चाद्देवं हि वन्दयेत् ।
शिवलोपे निष्कृतिश्चास्ति हीनं गुरुं प्राप्यतो म?क्तिमथाप्यति?
गुरुपुत्रं यदा योग्यं त्यक्त्वान्यं यदि कल्पयेत् ।
निष्फलं तस्य वै दीक्षा महाकल्पं व्रजन्त्यथः(धः?) ॥
चिन्त्यविश्वे -
ज्ञानहीनं गुरुं प्राप्य कृतोमुक्तिमथा प्रति? ।
तस्मात्सर्व प्रयत्नेन संश्रयेज्ज्ञानपारगम् ॥
मधुलुब्धो यथा भृङ्गो माध्वीपुष्पं वनान्तरे ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥
तल्लब्ध्वा विसृजेच्छिष्योऽप्यधः पतति निश्चयः ।
षट्सहस्रिके -
शिववच्च गुरुः पूज्यः पवित्रवद्देशिकः पुनः ।
साधकास्तद्वदेवाहुः पुत्रका भ्रातृवत्सदा ॥
मित्रवत्समयस्थाश्च द्रष्टव्या शिवमिच्छता ।
अत्र दीक्षाकर्ता गुरुः व्याख्याता देशिक इति मन्तव्यः ।
ये कुर्वन्ति गुरोर्निन्दां समयिपुत्रकादिषु ।
तस्मात्स्थानाद्यजेद्दूरं सद्योजातशतं स्मरेत् ॥
यो मोहाच्चैव पापिष्ठो गुरुणा शपथं वदेत् ।
ददाति चान्यो दुष्टात्मा ता वुभौ नरकं व्रजेत् ॥
प्रणम्य पुष्पपातेन प्रयत्नात्पूजयेद्गुरुम् ।
गोसहस्रं फलं प्राप्य गुरोः पादाभिवन्दनात् ॥
अथान्यानपि तपोधनान् सुविनीतान् सर्वसन्निधौ भक्त्या यथोचितं प्रणामं विदध्यात् ।
तथा मतङ्गे -
यथानुक्रमसंस्कारज्येष्ठो यः पूर्वदीक्षितः ।
पुत्रकः पुत्रकस्यापि साधकः साधकस्य च ।
गुरोरपि गुरुः प्रोक्तः समयोक्तिनिदर्शनात् ॥
दीक्षितस्समयस्थस्य दीक्षितस्यापि साधकः ।
साधकस्याप्यथाचार्यो ज्येष्ठस्स परिकीर्तितः ॥
वन्दयेदात्मनः श्रेष्ठान् गुरुभ्रातृगणानपि ।
अथान्यानपि संशुद्धाच्छैवान्वन्देत् तपोधनान् ॥
लौकिकादिषु मार्गेषु चतुर्ष्वपि समाशितान् ।
अपि विद्यातपोज्येष्ठान्मृ(न्व्र?)तस्थो नाभिवादयेत् ॥
संस्काराभ्यधिको ज्येष्ठो व्रतिनां शिवशासने ।
न तु जातिवयोवृद्धा विद्या ज्येष्ठत्वकारणम् ॥
विद्यमानौ? शिशौ ज्येष्ठेद?भिषिक्ते कनीयसा ।
गुरोश्च गुरुणा वापि कैश्चित्पश्चात्प्रतीक्षितैः ॥
अन्योन्यगौरवं तैस्तु कर्तव्यं वन्दनं विना ।
तथा -
दीक्षाभिषेक ज्येष्ठेन कनिष्ठस्य कदाचन ।
तपोविद्याधिकस्यापि कर्तव्यं नाभिवादनम् ॥
भ्रातृपुत्रे यथा वृद्धो यवीयान्गुरुपुत्रकः ।
प्रत्युत्थान गुरुस्तस्य नाभिवादनमर्हति ॥
इति ॥
अथ भवनाप्रकारः -
देवस्याग्नेयदिग्भागे यथा सम्भवमानं कमलं कृत्वा तन्मध्ये षडुत्थं? परिकल्प्य तत्र गुरु(रं?) मुक्ति(मूर्ति?)मन्त्रेण विन्यस्य तस्यां शिवमावाह्याङ्गानि न्यस्य पाद्यादिकं दत्त्वा गन्धपुष्पादीनि शिवपदमभ्यर्च्य ध्यात्वा
पाशान्विमोच्य कृपया निलिलाननादि(निखिलाननादी?)न्यो मां शरीरनिधने परमुक्तिभाजम् ।
चक्रे समस्तशिवशास्त्र विबोधहेतुं नित्यं तमेव गुरुनाथमहं प्रपद्ये ॥
इति स्तोत्रादिभिस्तोषयेत् ।
तथाग्नेयदिग्भागे योगपीठं ततो यजेत् ।
षट्सहस्रे -
सुमितं हस्तमात्रं तु कमलं वर्तयेच्छुभम् ।
कर्णिकादलसंयुक्तं तन्मध्ये स्वगुरुं यजेत् ॥
तत्रासनं तु सङ्कल्प्य मूर्तिं तस्योपरि न्यसेत् ।
शिवमावाहयेत्तत्र स ब्रह्माङ्गसमन्वितम् ॥
पुष्पगन्धादिभिः पूज्य हृन्मन्त्रेण प्रयत्नतः ।
विधानमेतत्कथितं गुरौशिवपदे गते ॥
आज्ञां गृहीत्वा यत्नेन ततः कर्म समारभेत् ।
तथा - किरणे -
प्रागुक्तं योगपीठं तु कृत्वा प्रागर्चितं गुरुम् ।
चतुर्थ्यन्तं न्यसेन्मूर्तिं सकलीकृत्य पूर्ववत् ॥
शिवमावाह्य तत्स्थाने न्यसेदङ्गानि पूर्ववत् ।
गन्धपुष्पादिभिः पूज्य हृदा गुरुवरं खग ॥
इति ॥
शिवधर्मोत्तरे -
शिवं सम्पूज्य विधिवत्तद्विद्यां पूजयेत्ततः ।
गुरुं च शिवभक्तया तु तुल्यमेतत्त्रयं यतः ॥
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ।
शिव विद्या गुरूणां च पूजायां सदृशं फलम् ॥
अत्र आचार्यपूजा प्रसङ्गेन मठादौ स्थापितशिव भक्तपूजाविधानमुच्यते ।
कामिके -
शिवभक्तिसमोपेता जीवन्तो वा मृतास्तु च ।
तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाप्य समर्चयेत् ॥
तथा तत्रैव -
ततः प्रकृतिमा? भक्तं पूजयेत्प्रत्यहं नरः ।
आवश्यकं तथा शौचं स्नानं सन्ध्याभिवन्दनम् ॥
कृत्वा प्रविश्य हर्म्यं तु परमात्मानमव्ययम् ।
वास्तुमध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ॥
कृतमन्त्रतनुः पश्चात्स्थान शुद्धिं विधाय च ।
परिकल्प्य विशेषार्घ्य कुसुमाक्षततोययुक् ॥
प्रोक्षयेद्द्रव्यजालं तु प्रागुक्तं विधिना नरः ।
प्रणवाद्यं पठेन्मन्त्रं नमोऽन्तं मन्त्रशुद्धये ॥
अस्त्रतोयेन संस्थाप्य हृदाय(हृदा च?) बिम्बशुद्धये ।
षडुत्थमासनं कृत्वा पूर्वोक्तविधिना ततः ॥
आधाराख्ये मनन्तं(नोऽन्तं?) च धर्माद्यानां चतुष्टयम् ।
सङ्कल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ॥
विद्याङ्गानि च पादस्य स्यादाख्यद्यर्णयस्तदा ? ।
मनुः -
आवाहनं ततः कृत्वा हृदयादीन्तदा न्यसेत् ।
पाद्यमाचमनं चार्घ्यं हृदयेन निवेश(द?)येत् ॥
संस्नाप्य गन्धतोयेन पञ्चगव्यादिभिस्तु वा ।
सम्मृज्य वाससा वस्त्रं(क्त्रं?) गन्धपुष्पं च धूपकम् ॥
नित्यस्नानं विना लोहे स्नानं पर्वणि पर्वणि ।
दीपेन सहितं दद्यान्नैवेद्यं सोपदंशकम् ॥
ताम्बूलं च त्रिसन्ध्यासु दद्यात्सन्ध्याद्वये तु वा ।
दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यानुरूपतः ॥
शिवं पुष्पाञ्जलित्रयेण अभ्यर्च्य स्तोत्रमिदं विज्ञापयेत् ।
श्रीमद्रौरवे -
समन्त्रपूतान्संस्पृश्य पुष्पपूर्णोज्ज्वलाञ्जलीन् ।
हर्षाभ्यागतरोमाञ्च प्राहवात्यमिदं कुरु ॥
स्वराधिपं नमस्कृत्य शशाङ्ककृतशेखरम् ।
कपालमालिनं देवं प्रणतोऽस्मि सदाशिवम् ॥
सर्वकृत्सर्ववेत्तारं सर्वज्ञमपराजितम् ।
सर्वभूतार्थभूतस्थं प्रणतोऽस्मि सदाशिवम् ॥
योऽसृजत्सर्वभूतानि ब्रह्मादींश्च पुरा सुरान् ।
तमहं सर्वकर्तारं प्रणतोऽस्मि सदाशिवम् ॥
वरं वरेण्यं वरदं वरिष्ठं वर वाहनम् ।
वरमालाधरं देवं प्रणतोऽस्मि सदाशिवम् ॥
प्रीतिमत्प्रीतिदातारं सुप्रियं प्रियदर्शनम् ।
उमाप्रियं सदाकान्तं प्रणतोऽस्मि सदाशिवम् ॥
धर्मधर्ममयं देवं सुखदुःखफलप्रदम् ।
बन्धमोक्षप्रदातारं प्रणतोऽस्मि सदाशिवम् ॥
मनोबुद्धिरहङ्कार तन्मात्रेन्द्रिय गोचरम् ॥
प्रधानपुरुषेशानं प्रणतोऽस्मि सदाशिवम् ।
ध्यायन्ति यं महात्मानो मुनयः संशितव्रताः ।
तमोङ्कारपरं सूक्ष्मं प्रणतोऽस्मि सदाशिवम् ॥
सूक्ष्मं सर्वगतं नित्यं सर्वविद्येश्वरेश्वरम् ।
सर्वतत्त्वाश्रयं देवं प्रणतोऽस्मि सदाशिवम् ॥
भूमिरापोऽग्निरनिलः खमात्मा चन्द्रभास्करौ ।
तस्मै परमदेवाय प्रणतोऽस्मि सदाशिवम् ॥
भक्त्या सम्पूज्य देवेशं यः पठेदग्रतः स्तवम् ।
स्तोत्रमेतदसौ याति शान्तवत्परमं पदम् ॥
इत्यादिभिः परमेश्वरं स्तुत्वा प्रदक्षिणं साष्टाङ्गं प्रणामं विदध्यात् ॥
तदुक्तं कामिके -
स्तुत्वा नैकविधैः स्तोत्रैर्ग्रन्थद्रविडपूर्वकैः ।
गर्तोदितैर्मुख्यतरैः प्रणिपत्य पुनः पुनः ॥
पूजान्ते प्रदक्षिणं न करोति चेत्तत्तत्फलमपि न लभते ।
तथोक्तम् -
पूजां कृत्वापि यश्शम्भोर्न करोति प्रदक्षिणम् ।
सा पूजा निष्फला तस्य वच पूजा विडम्बकः? ॥
भक्त्या करोति यस्सम्यक्केवलं तु प्रदक्षिणम् ।
पूजा सर्वकृता तेन स सम्यक् शिवपूजकः ॥
इति ॥
ततोऽष्टपुष्पिकया सम्पूज्य विशेषार्घ्यं दत्त्वा सद्यादिक्रमेण पञ्चशिरस्सु शिवमभ्यर्च्य शिरसि तिरोभावार्थनिरोधार्घ्येणाधोमुखहस्तेन स्वाहान्तमूलेन पूर्ववदूर्ध्वमुखो भवेति प्रार्थ्य पराङ्मुखार्घ्यं दत्त्वा अस्त्रादिहृदयान्तान्यङ्गानि
सम्पूज्य पूजाप्रातिलोम्येनार्घ्यं दद्यात् ।
यद्वा ॐ हां शिवाय साङ्गाय पराङ्मुखार्घ्यं स्वाहेति अर्घ्यं दद्यात् ॥
अंशुमति -
लयाङ्गयजनं कृत्वा पराङ्मुखार्घ्यं ददेद्बुधः ।
सद्यादीशान्तमभ्यर्च्य व्युत्क्रर्मेणैव योजयेत् ॥
चतुर्दिक्ष्वस्त्रमभ्यर्च्य सोमादीन्द्रान्तमेव च ।
नेत्रमग्रे समभ्यर्च्य कवचं वायुदेशके ॥
नैर्-ऋते च शिखां चैव शिरस्त्वीशानदेशके ।
आग्नेय्यां हृदयं चैव अर्चयेत्तु लयाङ्गकम् ॥
तथा कामिके -
पराङ्मुखं ततश्चार्घ्यं सद्योजातशिवावधि ।
अस्त्राद्धृदयपर्यन्तं गन्धधूपस्रगादिभिः ॥
पगे नो। ५४५ मिस्सिन्ग्
आवरणदेवेभ्यः काम्यमन्त्रेभ्योऽर्घ्यं दद्यात् ।
हुं फडन्तास्त्रेण करद्वयाङ्गुष्ठतर्जन्य ग्राह्यामू?र्ध्वं पुष्पं त्रिःक्षिपन् नारा च मुद्रयाङ्गानि उत्थाप्य संहारिण्या संहृत्य ॐ हां हं हां शिवमूर्तये नमः इत्यङ्गुष्ठानामिकाग्रगृहीतपुष्पद्वयया दिव्यमुद्रया शिवस्य हृदयादिस्थानेषु संयोज्यावरणदेवानां च मूर्तौलयं विभाव्य काम्यमन्त्रान् स्वाध्वावयौ संयोज्य मूर्तिमन्त्रेण सर्वान् मन्त्रान् मूर्तौ संयोजयेत् ॥
यद्वा सर्वमन्त्राणां मूलमन्त्रे लयम् मूलमन्त्रस्य बिन्दौ बिन्दोर्नादे नादस्य
ज्ञानशक्तौ तस्याः परे लयं भावयेत् ।
अंशुमति -
दक्षिणे मणिबन्धं च वामहस्तं तदूर्ध्वतः ।
मध्यमादित्रियङ्गुल्यं तलमध्ये तु योजयेत् ॥
अङ्गुष्ठतर्जनीयुक्तं पुष्पत्रयं विसर्जयेत् ।
तत्पुष्पं वर्जयित्वा तु निरोधेन तु मुद्रया ॥
एवं विसर्जनीमुद्रा शिरस्यज्जलिमाचरेत् ।
सुप्रभेदे -
कृत्वाञ्जलिकराभ्यां तु अङ्गुष्टानामिकाग्रतः ।
प्रसारयेत्ततश्शेषं मुद्रेयं दिव्यरूपिणी ॥
कामिके -
संहारमुद्रयास्त्रेण देवानावरणस्थितान् ।
उत्थाप्य मूर्तिमन्त्रेण योजयेन्मूर्तिसङ्गतान् ॥
अंशुमति -
आवरणार्चनदेवानां लिङ्गेनैव तु योजयेत् ।
आसनार्चनमन्त्राणि पीठेनैव तु योजयेत् ॥
कालोत्तरे -
विद्युद्वदुत्थितान्ध्यात्वा स्वस्वस्थाने लयं गतान् ।
लयस्थाने गतान्मन्त्रान्मूलमन्त्रे लयं गतान् ॥
मूलमन्त्रं ततो ध्यायेत् स्फुरद्विदौ(द्बिन्दौ?)लयं गतः ।
बिन्दोर्देवा लया नादे नादो विज्ञानशक्तिकम् ॥
आत्मशक्तिः परे लीना यो हृद्व्योम्नि व्यवस्तितः ।
तस्मात्पूजायते मन्त्रस्तत्रैव प्रविलीयते ॥
तदनु मूलेन शिवमभ्यर्च्य अर्घ्यं दत्त्वास्त्रेण संरक्ष्य कवचेनावकुण्ठ्य
वौषडन्तशक्तिमन्त्रेण धेनुमुद्रां प्रदर्श्योद्वासनमुद्रया प्रोच्य -
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षन्तव्यं भक्तवत्सल ॥
स्वामिन् क्षुद्रेण दासेन मलीमसधिया मया ।
कदर्थितोऽसि यद्भक्तिलेशात्प्रीतः क्षमस्व नः ॥
इति विज्ञापयेत् ॥
इदं सापेक्ष विसर्जनं चललिङ्गे भवति ।
स्थण्डिलादौ मूर्तिकरणानन्तरं हृदयेन पूरकसंहारिण्या हृत्पुण्डरीकमध्यस्थज्योतिर्लिङ्गे शक्त्यंशे नियोजयेत् ।
इदमनपेक्षविसर्जनम् ॥
उभयत्र वानपेक्षविसर्जनं कार्यम् ।
तथा -
कामिके -
चललिङ्गे तु सापेक्षोऽनपेक्षः स्थण्डिलादिषु ।
सर्वत्र वानपेक्षस्तु प्रत्यहं विहितो यतः ॥
सन्ताने -
करौ संशिष्य? देवेशि? सम्मुखं च तथैव च ।
अङ्गु * तल? म * स्थाप्यूर्ध्वं कृत्वा तलौ तथा ॥
उद्वासनमिति प्रोक्तस्सर्वकामार्थसाधनी ।
एतदुद्वासनं च त्रिविधम् निरालम्बम् सालम्बं सङ्क्रमं चेति ।
तथा -
स्थण्डिलादिस्वरूपेण पूजान्ते यद्विसर्जनम् ।
तन्निरालम्बनोद्वासनं? बिम्बारहहनि? कृतम् ॥
सालम्बस्तु समादिष्टेनष्टस्पृष्टि चलादिभिः? ।
हेतुभिश्शक्तिरन्यत्र संवेशं सङ्क्रमं विदुः ॥
ततः स्वगुरु विद्यापीठसप्तगुरु महालक्ष्मीं गणपतिद्वारपालांश्चार्चयित्वा तेषां पराङ्मुखार्घ्यं दत्त्वा स्वस्वमन्त्रेण संहारमुद्रयात्मनि विसृजेत् ।
तथा -
रामनाथपद्धत्याम् -
सामान्यार्घ्यं गृहीत्वा तु गुर्वादीनां पराङ्मुखम् ।
संहारमुद्रयात्मस्थ कृ?त्वार्घ्याण्युपसंहरेत् ॥
गणेश्वरादि क्षेत्रपालान्तबेराणां पराङ्मुखार्घ्यं दत्त्वा समन्त्रेण प्रत्येकं वस्त्रमाच्छाद्य पेटकस्य पार्श्वेऽस्त्रेण निवेशयेत् ।
तथा अंशुमति -
हस्तप्रक्षालनं कृत्वास्त्रमन्त्रमनुस्मरन् ।
प्रत्येकं वस्त्रमादाय पुष्पेणैव तु विन्यसेत् ॥
गणेश्वरादिबेराणां वस्त्रेणैव विधानकम् ।
पेटकस्यैव पार्श्वे तु विन्यसेदस्त्रमन्त्रतः ॥
तथा सूक्ष्मे च -
स पुष्पं वस्त्रमाच्छाद्य बेराणां तु पृथक् पृथक् ।
कारणे तु -
रक्तवस्त्रं दुकूलादि श्वेतानि कृष्णवस्त्रकम् ।
चित्रवस्त्रं तथा चैव बाह्यदृष्टांशुकं तथा ॥
आत्मार्थे बेरयुक्तं चेत् स्पृष्टिं चैव न दोषकृत् ।
नदीं बेरमथात्मार्थं? लङ्घयत्युभादिना ॥
पञ्चगव्याभिषिञ्च्याथ यजेत्पश्चात्क्रमेण तु ।
समुद्रलङ्घनं चेद्धि बेरशुद्धिमथाचरेत् ॥
स्नपनं शान्तिहोमं च कृत्वा सत्यग्यजेद्बुधः ।
इति ॥
शिवमन्त्रं समुच्चार्य पद्मपीठाल्लिङ्गमादाय तत्कालोचितवस्त्रेण संवेष्ट्य पेटकमध्ये विन्यस्य भीमरुद्रं स्मरन् रक्षां विज्ञाप्यापिधानं कुर्यात् तथा अंशुमति -
शिवमन्त्रमनुस्मृत्य लिङ्गं सङ्ग्राह्य देशिकः ।
चित्रवस्त्रेण संवेष्ट्य पेटकामध्यमे न्यसेत् ॥
अपिधानं तु संयोज्य भीमरुद्रं स्मरेत्तदा ।
शिरः कण्ठे च कक्षौ च कोर्परौ धारयेच्छिवम् ॥
ततश्चण्डपूजां कुर्यात् ।
॥
चण्डपूजा ॥
अत्र क्रमः देवस्यैशानदिग्भागे गोमयेन मण्डलं कृत्वा तस्मिंश्चण्डमन्त्रेण टङ्काभमर्धचन्द्राभं वा लिखित्वा षडुत्थासनं सङ्कल्प्य ॐ चण्डासनाय हुं फण्णम इति आसनं कल्प्य तदुपरि ॐ चण्डमूर्तये नमः हुं फण्णम इति मूर्तिं विन्यस्य
नीलाञ्जनसमच्छायां चतुर्वक्त्रार्कलोचनाम् ।
सर्पोपवीतकेयूरां मुखेर्थोग्रानलाच्छषम्? ॥
ज्वलज्जटार्धचन्द्राढ्यामतिभीमां चतुर्भुजाम् ।
शूलं कमण्डलुं वामे दक्षे टङ्काक्षमालिनीम् ॥
रुद्राग्निप्रभवां ध्यात्वा मूलेनावहयेत् परम् ।
अंशुमति -
यद्वा -
मण्डले चण्डमावाह्य तद्रूपं भावयेत्ततः ।
द्विनेत्रं चतुर्भूजं चैव शुक्लवस्त्रसमन्वितम् ॥
जटामकुटसंयुक्तं चन्द्रार्धकृतशेखरम् ।
लम्बितं दक्षिणं पादं शखितं? वामपादकम् ॥
जानूर्ध्वे वामहस्तं तु सव्यहस्तं तु टङ्कधृक् ।
अथवाञ्जलिहस्तं च एवं रूपं च भावयेत् ॥
इति ध्यात्वा ॐ ध्वनिचण्डेश्वराय हुं फट् स्वाहेत्यावाहनस्थापनादि विधाय ॐ चां चण्डहृदयाय हुं फण्णमः ।
ॐ चीं चण्डशिरसे हुं फण्णमः ।
ॐ चूं चण्डशिखायै हुं फण्णमः ।
ॐ चैं चण्डकवचाय
हुं फण्णंअः ।
ॐ चौं चण्डनेत्रेभ्यो हुं फण्णमः ।
ॐ चः चण्डास्त्राय हुं फण्णमः ।
इत्यङ्गैः सकलीकृत्य मूलेन परमीकृत्य धेनुमुद्रयामृतीकृत्य हृदा पाद्याचमनादिना पूजयेत् ।
यद्वा आसनमूलैः केवलं मूलेनावाह्याभ्यर्च्य देवाय दत्तं नैवेद्याद्युपहृत्य निवेदार्घ्ययित्वा लेह्यचोष्यान्नपानादि ताम्बूलं स्रग्विलेपनम् ।
निर्माल्य भोजनं तुभ्यं प्रदत्तं तु शिवाज्ञया ॥
इति पठित्वा शिवनिर्माल्यं समर्प्य ॐ सर्वमेतत्क्रियाकाण्डं मया चण्ड तवाज्ञया ।
न्यूनाधिकं कृतं मोहात्परिपूर्णं तदस्तुमे ॥
इत्थं चण्डेशं विज्ञाप्य पराङ्मुखार्घ्यं दत्त्वा पूरकान्वितमूलेन संहारमुद्रया स्वहृदियोजयेत् ।
तथा अंशुमति -
आत्मार्थपूजा -
यजनान्ते तु सन्ध्याः प्रति विशेषतः ।
देवस्यैशान दिग्भागे गोमयालिप्तभूतले ॥
टङ्काभमर्धचन्द्राभं लिखेच्चण्डस्य मन्त्रतः ।
ध्वनि चण्डेश्वरायेति हुं फडन्तेन मन्त्रवित् ॥
पद्मस्य मध्यमे ध्यात्वा पाद्यमाचमनं ददेत् ।
विलेपनं च दामं च दत्त्वा तन्मूलमन्त्रतः ।
नैवेद्यं चापि ताम्बूलं तन्मूलेनैव दापयेत् ॥
पराङ्मुखार्घ्यं दत्त्वा तु एवं प्रत्यहमाचरेत् ।
मोहशूरोत्तरे -
प्रत्यहं पूजयेद्यस्तु न स पापैः प्रलिप्यते ।
अंशुमति -
पराङ्मुखार्घ्यं दत्त्वा तु चण्डमुद्वासयेत्तदा ।
चण्डासनं च मूर्तिं च सङ्कल्प्येशाद्यणून्क्रमात् ॥
हृदाद्यङ्गं यथा स्थाने न्यस्य मूलेन चण्डपम् ।
पाद्या(द्यमा?)चमनं चार्घ्यं दत्त्वा हृदयमन्त्रतः ॥
आत्मार्थे च परार्थे च समानमिदमीरितम् ।
नित्येऽन्ये च समादिष्टा भुक्तिमुक्तिफलप्रदा ॥
आत्मार्थपूजायां केचन शैवसिद्धान्ते सर्वदा सर्वत्र शिवासने पूजनीय एवेति नियमः ॥
तथा च कालोत्तरे -
स्थिरे चले तथा रक्तम् उमृदारौ शैलकल्पिते ।
लोहे चित्रमये बाणे स्थितश्चण्डो नियामकः ॥
सिद्धान्ते नेतरे तन्त्रे न वामे न च दक्षिणे ।
अव्यक्तव्यक्तके लिङ्गे मण्डले स्थण्डिलेऽनले ॥
चण्डे स्थिते तथा रक्ते मणिचित्रादिके तथा ।
गन्धान्न सम्भवे लिङ्गे मृद्भस्मफलकल्पिते ॥
तथा पुष्पमये लिङ्गे चण्डपूजा नियामके ।
इति ॥
स्वायम्भुवे युक्तयुक्ताः? ।
अथान्यथा प्रवृत्तानां शिवाज्ञाभङ्गकारिणाम् ।
शास्ता चण्डेश्वरस्तेषां दीक्षितानामभि प्रभुः ॥
चण्डेश्वर प्रसन्ना ये न तेषां भयकारणम् ।
तस्मादाराधनं कुर्युश्शैवं पन्थानमाश्रिताः ।
इति शैवानां समस्तान्तरायक्षयहेतुत्वेन चण्डेन चण्डेश्वराधनस्य विशेषतः उपदेशान्नित्यं पूजावसाने चण्डेश्वरपूजा कार्येति शोधनावसरे निर्माल्यप्रसङ्गः उच्यते ।
निर्माल्यम् -
कामिके -
देवस्वं देवताद्रव्यं निवेद्यं च निवेदितम् ।
चण्डद्रव्यं च निर्माल्यं निर्माल्यं षड्विधं स्मृतम् ॥
ग्रामादिकं च देवस्वं देवद्रव्यं पटादिकम् ।
नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् ॥
चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ।
पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते ।
भक्षणं द्विविधं प्रोक्तं निवेद्यं च तदन्यथा ॥
देवदेवाय तत्राद्यदेवग्रामादि सम्भवम् ।
ब्रीहादि येनकेनैवोपाधीनाद्य भक्षणम् ॥
करोति यस्स सम्मूठो मद्धनस्तेयतुम्मतः ।
मदर्थी कल्पितं वाथ तण्डुलं चोदनं तु वा ॥
यः प्रयच्छति वा भक्ते योऽपि स्तेयकृदुच्यते ।
नैवेद्यं कल्पयित्वा तु शिवायेति तदुत्थतः ।
निवेद्य मह्यमुच्छिष्टं भुङ्क्ते प्रत्यहमादरात् ।
सोऽयं मत्सदृशः प्रोक्तश्चरुभुग्यस्तथा भवेत् ॥
भक्षयेद्योनरो भक्तया पवित्रमिति शंसितः ।
शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति ।
तद्विधानं कारणे - स्पष्टमुक्तम् ।
तद्यथा - लिङ्गं चेन्मानुषं लिङ्गं शिष्टलिङ्गं द्विधोच्यते ।
स्वयम्भूर्दैविकं बाणं गाणपञ्चार्षकं तथा ॥
शिष्टलिङ्गमिति ख्यातं पूजां पूर्ववदाचरेत् ।
शिष्टलिङ्गं तु वा चेत्तु विशेषं किञ्चिदस्ति हि ॥
तन्निवेदित निर्माल्यं शैवानां भोजबहितम् ।
शुभदं द्वि संस्कारमायुष्यं बलवर्धनम् ॥
निर्माल्यं निर्मलं शुद्धं निर्मलात्मा परिग्रहेत् ।
तस्माच्छिवस्य नैवेद्यं शुद्धद्रव्यामिति स्मृतम् ॥
मलबद्धशरीरस्य निर्माल्यं तु न भोजयेत् ।
शिवेन दीक्षितश्चैव शिवब्राह्मण उच्यते ।
शिवश्शुद्धमरूपं हि वाङ्मनातीतमुच्यते ॥
तस्माच्छिवद्विजो विप्रश्शुद्धब्राह्मण उच्यते ।
निर्माल्यं तस्य योग्यं तु अन्येषां तु न योग्यकम् ॥
अन्येषां सङ्गृहीतं वेत्वतिकृच्छ्रं समाचरेत् ।
स्वायम्भुवे -
निर्मालं निर्मलत्वं च निर्मलात्मानुभोजनम् ।
दीक्षितस्य त? कर्तव्यं न मान्येषां प्रशस्यते ॥
कारणे -
विनायकस्य तु नैवेद्यं विप्रादीनां तु भोजनम् ।
सुब्रह्मण्यस्य नैवेद्यं भोजनं च जयार्थिनाम् ॥
उमादेव्यान्न नैवेद्यं सर्वेषां भोजनं ततः ।
सकलानां तु नैवेद्यं सर्वेषां भोजयेत्ततः ।
विष्णुनैवेद्यं यश्शुद्धब्राह्मणादिस्तु भोजयेत् ॥
भास्करस्य तु नैवेद्यं भुक्तं व्याधिक्षयं भवेत् ।
अभोज्य भानु भक्तानां नैवेद्यं भास्करस्य तु ॥
तथा वीरतन्त्रे -
दिवाकरस्य नैवेद्यं सर्वेषां भोजनं भवेत् ।
अभोज्यं? सूर्यभक्तानां ज्येष्ठासरस्वत्ययोरपि ॥
श्रीदेवी भूदेव्योश्च नैवेद्यं भोजनं भवेत् ।
कारणे -
दुर्गायां च नैवेद्यं यद्भोज्यमारोग्यवर्धनम् ।
ज्येष्ठायां तु नैवेद्यं यद्भोज्यं तच्छ्रीविवर्धनम् ।
नैवेद्यं तु महामोट्यां भोज्यं पुत्रविवर्धनम् ॥
धमनीं चैव निर्माल्यं नारीणां भोजनं शुभम् ।
मातॄणां चैव नैवेद्यं ब्राह्मणामभोज्यकम् ॥
क्षेत्रपालस्य नैवेद्यमभोज्यं रोगवर्धनम् ।
वागीश्वर्यास्तु नैवेद्यं भोज्यं ज्ञानविवर्धनम् ॥
ब्राह्मणानां तु भोज्यं हि ब्रह्मणश्च निवेदनम् ।
नैवेद्यं लोकपालानामारोग्यं क्रुरुते सदा ॥
मन्मथस्य निवेद्यं तत्सर्वेषां भोज्यमुच्यते ।
दीप्ते -
अभोज्यं ब्राह्मणानां तु सदाशिवस्य निवेदनम् ।
कारणे -
परिवारादि सर्वेषां नैवेद्यं भोजयेत् ततः ।
लिङ्गं तन्मानुषं लिङ्गं निर्माल्यं तु न संशयः ।
प्रमादाद्भोजनं कृत्वा स्पर्शनं लङ्घनं तथा ।
शमीपत्रकुशाग्रं च भक्षयेत्पञ्चगव्यकम् ॥
निर्माल्यलङ्घनं दानं भक्षणं नरकं व्रजेत् ।
प्रमादाल्लङ्घनं यत्र प्राजापत्यं चरेत्सुधीः ॥
स्पर्शने पाणिपादौ च प्रक्षाल्याचमनम् कुरु ।
तिलार्धं तस्य निर्माल्यं नरकं चन्द्रभास्करौ ॥
जलैर्वा पशुजैर्वापि भूमौ वा चाग्निमेव वा
सुप्रभेदे -
सदाशिवस्य निर्माल्यं मनुष्याणां न भोजनम्
पशूनां च गजादीनां जले वाथ विनिक्षिपेत् ।
अथवा वह्निना दस्याद्भूमा वा खातयेद्बुधः ॥
सकलानां तु नैवेद्यं परिचारकभोजनम् ।
तदाप्यन्यञ्जनैश्चैव भोजनेन्वथ दोषकृत् ॥
इत्यादि बहुभिर्वाक्यैर्निषेधवचनं मानुषलिङ्गस्यैव ।
न तु स्वायम्भुवादेरिति मन्तव्यम् ॥
आत्मार्थनिर्माल्य स्वरूपमुच्यते ।
तद्यथा कामिके -
स्वेष्टलिङ्गे च यद्दत्तं चरुवत्तन्न संशयः ।
नैवेद्येमभ्रातृपुत्राणां भगिनीनान्यदापयेत् ॥
कारणे च -
आत्मार्थं चललिङ्गं च निर्माल्यं तु कथ्यते ।
पगे नो। ५६८ उन्च्लेअर्
अथ प्रकृतमुच्यते निर्माल्यमुद्वास्य गोमयवारिणा तत्स्थानं संशोध्य ॐ हुम् अस्त्रायफडिति सम्प्रोक्ष्यार्घ्यादिकं विसृज्य करादिकं प्रक्षाल्याचम्य भस्म धृत्वा संहितया जप्त्वा समस्तन्यूनातिरिक्तदोषतात्पर्यं पूजाफल लाभार्थं वा घोरमेकवारं जपत्य? तथा
कालोत्तरे -
वस्त्रान्नगन्धपानार्घ्य निर्माल्याति पवित्रकैः ।
विसृज्य चार्घ्यपात्रं च समापम्योपसंस्पृशेत् ॥
न्यासं कृत्वा यथा शक्त्या सप्तव्या शिवसंहिता ।
कामिके तु -
स्थण्डिले संहरेत्पूजां त्रिभिर्गोमयमो * *? ।
च्युतस्खलित शुद्ध्यर्थमभ्यरोन्मल संहिताम्? ॥
न तस्य तिष्ठते पात्रं * * * * * क्रमः? ।
तस्मात्सन्नि संहितं * * * * * * * * * ॥
?
एको जप संहिता * * भक्तदा * * * * ।
? नाशयत्याशु पापानि * *
इति ॥
षट्सहस्रिके -
त्रिसप्तवारमावर्त्त्य पूजान्ते नियमेन तु ।
पूजाफलं समाप्नोति प्राप्नुयाच्छास्त्र भावितम् ।
अघोरान्न परोमन्त्रो कालिमासाय सिद्धिदः ।
अघोरार्पितचेतस्थो मुक्तिभाक् स च नान्यथा ।
तस्मात्सर्वप्रयत्नेन अघोरं सर्वदाभ्यसेत् ।
अत एवं पूजान्ते मन्त्रमावश्यकं जप्तव्यमिति ।
एवमात्मार्थयजनमिति क्रियाकाण्डं समाचरेत् ॥
सूक्ष्मे च -
एवं दिने दिने पूज्य अर्चयेत्पूर्ववत्क्रमात् ।
कालोत्तरे -
किं तु देहावसानं तु यः पूजयति भक्तितः ।
स शिवस्सषुकृद्यक्त्वा जीवमुक्तस्स कथ्यते ॥
इत्यात्मार्थपूजापद्धत्याम्
आत्मार्थपूजाविधिः
कपिल(ला?)पूजा
केचिदीशार्चनान्ते कपिलार्चनमिच्छन्ति ।
तद्यथा सुप्रभेदे -
गावः शिवपुरात्पञ्च शिवं प्राप्ता शिवेतसा? ।
सुरासुरैर्मध्यमानात्क्षीराब्धेश्च विशेषतः ॥
पञ्चगावः समुत्पन्नाः सर्वलोकस्य मातरः ।
नन्दा भद्रा च सुरभिस्सुशीला सुमनास्तथा ॥
कपिलं कृष्णश्वेतं च धूम्ररक्तं तथैव च ।
नन्दादिसुमनान्तानां वर्णमेवं प्रकीर्तितम् ॥
सर्वलोकोपकारार्थं देवानां तर्पणाय च ।
गोमातरस्तथा भूमौ स्नानार्थं हि शिवस्य तु ॥
गोमयं रोचना मूत्रं क्षीरं दधि घृतं गवाम् ।
षडङ्गानि पवित्राणि सर्वसिद्धिकराणि च ॥
गोभिर्यज्ञाः प्रवर्तन्ते गोभिर्देवाः प्रतिष्ठिताम् ।
गोभिर्वेदाः समुत्कीर्णास्सषडङ्गपतक्रमाः ॥
इत्यां गावस्समालोक्य पञ्चगव्यार्थमद्बूताः ।
ग्रासपूर्वं समभ्यर्च्य स्वस्वनाम्ना ध्रुवेण च ॥
गन्धपुष्पपवित्राद्यैर्वन्दयेन्मन्त्रपूर्वकम् ।
ॐ कपिले नन्दे नमः ।
ॐ कपिले भद्रे नमः ।
ॐ कपिले सुशीले नमः ।
ॐ कपिले सुरभे नमः ।
ॐ कपिले समने नमः ॥
सौरभेयि जगन्मातर्देवानाममृतप्रदे ।
गृहाण वरदे ग्रासमीप्सितार्थं च देहि मे ॥
वन्दितासि वसिष्ठेन विश्वामित्रेण जह्नुना ।
कपिला हर मे पापं यन्मया दुष्कृतं कृतम् ॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव मे ।
गावो मे हृदये वापि गावम्मध्ये वसाम्यहम् ॥
एतन्मनः जपेन्मन्त्रं त्रिसन्ध्यं नियतश्शुचः ।
विमुक्तस्सर्वपापेभ्यो(भ्यः?) शिवलोकं स गच्छति ॥
अथवा -
अमृतमथनोत्पन्ने सुरभे लोकधारिणि ।
ददा ग्रासं गृहाणत्वम् इदं मे व्रतमुत्तमम् ॥
गवां ग्रासे यथा देवस्सौरभेयाश्च चैव तु ।
तुल्यमेतत्फलं दृष्टं किं तु मन्त्रं पृथक् पृथक् ।
सर्वलोकधराहेत(ता?) जीवितान्न प्रदायिनः ।
ग्रासं ग्रासं गृह्णात्वं ष्टास्ते एतन्मे व्रतमुत्तमम् ।
नित्यमापोगवे दद्याद्गृहीत्वा दुर्लभं व्रतम् ॥
रक्षन्ति च भयाद्घोरात्स्पर्शने पापनाशनम् ।
स्तुत्वैवं परया भक्त्या ततो गोभ्यो विचक्षणः ॥
ग्राहयेत्पञ्चगव्यानि यद्वा तासामभावतः ।
एकस्या मे गृह्नीयात्पूजा पूर्वोक्तशम्बरैः ॥
भवेदत्रापि सर्वासां कपिला च प्रशस्यते ।
इत्यात्मार्थपूजापद्धत्यां
कपिल(ला?)पूजाविधिः
॥
शिवालयसेवाक्रमः ॥
अंशुमति -
परार्थालयं प्रवेश्याथ लिङ्गदर्शनमेव च ।
प्रदक्षिणनमस्कारं यथा सङ्ख्याविधानतः ॥
लिङ्गस्य दर्शनं पश्चात्स्वगृहं सुप्रवेशयेत् ।
पुराणागमवाक्यानि समालोक्य यथामति ॥
शिवालयस्य सेवायाः क्रमं वक्ष्येऽधुना स्फुटम् ।
शिवालयसमीपवासि (सी?) चेद्यथोक्तानुष्ठानपूजानन्तरम् देवालयं सेवते ।
सेवार्थं नियमेन दूरादगच्छेद्दूरतो विमानं दृष्ट्वा प्रथमं नमत ।
दर्शनस्थाने पुण्यतीर्थे स्नात्वा शुद्धवासाः कृताह्निकः सोपवासः
सुपुष्पाद्युपहारः पादप्रक्षालनं कृत्वा शिवसेवां कृत्वा शिवसेवां कुर्यात् ।
ततथा शैवपुराणे -
स्वगृहादेव सङ्कल्प्य यात्रां व्याघ्रपूरस्य तु ।
देवदेवं समभ्यर्य्य भोगागत्वा? द्विधानपि ॥
सम्प्राथ्य तैरनुज्ञातो निर्गतो भक्तिसंयुतः ।
परान्नं वर्जयेद्धीमान्तथा नैव प्रतिग्रहम् ॥
कामक्रोधादिकान्दोषान्विशेषेण विवर्जयेत् ।
उपवासादिकान्कुर्यात्कारयेद्वपनं तथा ॥
स्नानं तु विधिवत्कुर्याद्ध्यात्वा देवं त्रियम्बकम् ।
कृत्वा हिरण्यश्राद्धं तु पिण्डं दत्त्वा विधानतः ॥
यथाशक्तिधनं धान्यं वस्त्रं चान्यं तथैव हि ।
भूमिं हिरण्यां गां कन्यां वित्तशाठ्यविवर्जितः ।
दद्यात्तु शिवभक्तेभ्यो तद्द्विजेभ्यो विशेषतः ॥
इतरक्षेत्रेष्वप्येवमनुसन्धेयः ।
तत्रापि पञ्चाष्टकस्थानस्थितानि तीर्थानि परमपुण्यानि तत्र रुद्रसालोक्यप्रदायकानि -
आदिगुह्याष्टका रुद्र अतिगुह्याष्टकास्तथा ।
गुह्याद्गुह्याष्टकाश्चैव पवित्राष्टक एव च ॥
स्ना(स्था?)नाष्टकाश्च पञ्चैते नियोगाद्भूमिवासिनः ।
अनुग्रहाय लोकानां लिङ्गभूताः प्रतिष्ठिताः ॥
तेषामेव समीपस्थं यद्यत्तोयं षडानन ।
तत्तीर्थं परमं पुण्यं तत्र स्नात्वा शिवं व्रजेत् ॥
तत्र द्रगलोक्यं प्राप्नोतीत्यर्थः ।
तत्र प्राप्तै भारते वर्षे मानुषाणां हिताय वै ।
निर्मितानि पुरा यात्रा येषु सन्निहितो हरः ॥
इति ॥
सुप्रभेदे -
दूरतः शिखरं दृष्ट्वा नमस्कुर्यात्तु यो नरः ।
मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगः ॥
तथा ब्रह्माण्डपुराणे -
विमान दर्शनस्थाने स्नात्वा तीर्थे कृताह्निकः ।
शुक्लवासास्सोपहारः प्रविशेच्छिवमन्दिरम् ॥
देवालयानां दृश्यन्ते विमानं गोपुराणि च ।
यावद्देशेषु परितस्तावत्कैलासभूतलम् ॥
श्रूयते वाद्यघोषाश्च यावद्दूरा शिवालयात् ।
तावच्छिवपुर साक्षात् दनवद्ये मनोन्मनी ।
सूतस्तोत्रारवा यावद्दूरे शम्भोर्जयध्वनिः ॥
श्रूयते राजतगिरेश्शिखरं तावदुच्यते ।
अंशुमातत्रे(मत्तन्त्रे?) -
स्थूललिङ्गं नमस्कृत्य आलयं तु प्रवेशयेत् ।
स्थूललिङ्गं विमानं स्यात्सूक्ष्मलिङ्गं सदाशिवम् ॥
बलिपीठं भद्रलिङ्गं लिङ्गत्रयमिहोच्यते ।
सूक्ष्मे -
देहं प्रासादमित्युक्तं देहि लिङ्गमिति स्मृतम् ।
उभयोरन्तरं नास्ति तस्मादित्थं प्रभावयेत् ॥
स्थूललिङ्गं विमानं च सूक्ष्मलिङ्गं सदाशिवम् ।
सदाशिवस्य तन्मध्ये शिवमेवं विचिन्तयेत् ॥
अथवान्यप्रकारेण स्थूललिङ्गे सदाशिवम् ।
अन्तर्लिङ्गे शिवं ज्ञेयं भावयेद्देशिकोत्तमः ॥
व्यापकव्याप्तिरूपेण लिङ्गमेव विमानकम् ।
हेमादि स्थूपिपर्यन्तं शिवरूपमिति स्मृतम् ॥
आग्नेयपुराणे -
बेरे लिङ्गे विमाने च भूतपीठे शिवालये ।
शिवस्सन्निहितो नित्यं नमस्येत्तत्रदं सदा ॥
पुष्पाद्यं स्वार्जितं श्रेष्ठं मध्यमं वन्यमुच्यते ।
अधमं तु क्रयक्रीतं पारत्यमधमा धमम् ॥
पुष्पवनोद्भावनं च शिवाश्रमादुत्तरप्रदेशे कार्यम् ।
तथा
शिवधर्मे - नन्दिकेश्वरेणोक्तम् -
सर्वेषामेव वर्णानां शिवाश्रमनिषेविणाम् ।
शिवधर्माश्शिवेनोक्ता धर्मकामार्थमुक्तये ॥
ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रो वाऽप्यथाश्रमात् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ॥
स्वाश्रमादुत्तरे कुर्यात्पुष्पारामं सुशोभनम् ।
पुष्पैररण्यसम्भूतैः पत्रैर्वा गिरिसम्भवैः ॥
अपर्युषितनिश्छिद्रैः प्रोक्षितैर्जन्तुवर्जितैः ।
आत्मारामोद्भवैश्चापि पुष्पैस्सम्पूजयेच्छिवम् ॥
कामिके -
पुष्पाराममठादीनां स्थानं सर्वत्र कल्पयेत् ।
इति वचनाद्यथा सम्भवदेशेनोद्भावनं कुर्यात् ॥
ततः शिवालयं सेवेत ।
तत्रायं क्रमः -
देवालयसमीपमागम्य गोपुरद्वारबाह्यतो वा वृषस्याग्नेयभागतो वा पूर्वं स्थूललिङ्गं नमस्कुर्यात् ।
अंशुमानि(मति?)ति -
स्थूललिङ्गं नमस्कुर्याद्गोपुरद्वारपूर्वतः ।
प्रणामः स्थूललिङ्गस्य महापीठस्य बाह्यतः ॥
अथवा वृषपृष्ठे तु किञ्चिदाग्नेयमाश्रितः ।
तत्रैव पूजाप्रकरणे -
स्थूललिङ्गं नमस्कारमालयस्य प्रवेशनम् ।
शिवाग्रे परितः स्थित्वा महापीठाग्रदेशि(श?)के ॥
प्रणम्य दण्डवद्भूमौ नमस्कारक्रमं ततः ।
अयमाग्नेयभागनियमः पूर्वद्वारविषयः ।
प्रणामकाले स्वदेहं वस्त्रेणाच्छाद्य न प्रणमेत् ।
शिवस्याग्र पृष्ठवामगर्भगृहेषु नमस्कारं न कुर्यात् ।
शिवालये तैलाभ्यङ्गादिकं च वर्जयेत् ।
तथा - अंशुमति
वस्त्रेणच्छाद्य देहं स्वं यो नरः प्रणमेत्तु माम् ।
त्रिजन्म जायते मूकः सप्तजन्मसु निर्धनः ॥
स्वायम्भुवे -
अग्रतः पृष्ठतो वामे गर्भागारे तथैव च ।
जपं होमं नमस्कारं न विदध्यात्कदाचन ॥
उत्तरद्वारपश्चिमद्वारयोरीश्वरनमस्कारादिकं वामभाग एव कुर्यात् ।
तथा -
प्रत्यङ्मुखे चोत्तरादिमुखे च वामे स्थितोऽन्यत्र तदन्यपार्श्वे ।
ईशान पूजा प्रणतीश्च कुर्यद् दोषाय नो चेन्न फलायताः? स्युः ।
रौरवे -
प्रच्छन्नपटकाले न कर्तव्यं लिङ्गदर्शनम् ।
तत्काले दर्शनं मोहाद्भार्यापुत्रविनाशनम् ॥
स्कान्दे -
तैलाभ्यङ्गकृताभ्यङ्गं शिरसो वेष्टनं तथा ।
कञ्चुकावरणं चापि वर्जयेच्छिवमन्दिरे ॥
क्षुध जृम्भणहिक्कादि मोहानि(न्नि?)ष्ठीवनानि च ।
उत्सर्गादीनि च नरो वर्जयेच्छिवमन्दिरे ॥
उपानत्सातपत्रादिरहितः क्षमयान्वितः ।
तथा रामायणे च -
शिवालयमुपागम्य यस्तु दूषयते नरः ।
मलमूत्रैश्च निष्ठीवैः स वेतालो भविष्यति ॥
यस्तु देवालयगतो वाहनाद्यधिरोहति ।
सोऽपि ते नैव दोषेण जातिपङ्कुर्भविष्यति ॥
सोपानात्कोऽपि यः कश्चिद्देवालयमुपेष्यति ।
सह पादिकयाभि पादो दुःखमुपेष्यति ॥
यदि वाभ्यर्चनाकाङ्क्षी शिवद्रव्याणि पति ।
स ब्रह्मराक्षसो भूत्वा शून्यारण्येषु रोदिति ॥
तदनु ध्यानपूर्वकं बलिपीठं नमस्कुर्यात् ।
अजिते -
भूतपीठं नमस्कुर्यात्प्रथमध्यानपूर्वकम् ।
मुखपञ्चसमवक्त्रसमनासि नयने(नं?)न्द(द?)शकर्णदशबाहुदशशूलवरधृक् ।
गलमेकं हृदयेक(यैकम?)तिरि(र?)क्तवर्ण(र्णं?) द्वयपादमिति भूतबलिपीठबलिभुक् ॥
अथ ध्वजस्तम्भमपि सध्यानपूर्वकं नमस्कुर्यात् ।
तथा - ध्वजदण्डनमस्कारं कुर्याद्ध्यानपुरस्सरम् ।
एकास्यपादं? द्विकरं त्रिणेत्रं रोमावलीराजितदर्भमालः श्वेताङ्गरूपं स्वकरासिकायमारूढ पद्मासनदण्डरूपम् ॥
उत्सवे ध्यानविशेषः -
पतिस्तम्भमिति ख्यातं पशु पटमिति स्मृतम् ।
रज्जुः पाशमिति प्रोक्तं त्रिविधास्ते भवन्ति च ॥
एवं स्व(स?)ध्वजदण्डं प्रार्थ्य नमस्कृत्य वृषनायकं ध्यानपूर्वकं नमस्कृत्य प्रार्थयेत् ।
ब्रह्माण्डोपपुराणे -
ईश्वराभिमुखं देवमासानं वृषनायकम् ।
प्रणम्य प्रार्थयेदेवं कुसुमाभ्यर्चिताङ्घ्रिकम् ॥
आनन्दं जगतां शिवं च कलयन्देवोऽष्टमूर्तेर्वृषोऽधिष्ठानो रजताचलेन्द्रसदृशो(शः?) शृङ्गीककूर्मत्पतिः(ककुद्मत्पतिः?) ।
देवैरष्टविधैर्गणैः परिवृतो निश्वासयू(धू?)ताम्बुदः प्रीतोऽस्मानवतु प्रसादसुमुखः प्रज्ञामयो धर्मराट् ॥
अन्तः प्रदेशे शिवदर्शने च शिवार्चने तत्फलसिद्धलाभे ।
देह्यस्यनुज्ञां भगवत्प्रसन्नः त्वत्पादपद्मप्रणताय मह्यम् ॥
इति वृषनायकं सम्प्रार्थ्य शिवस्य पुरतो दण्डवत्प्रणमेत् ।
तथा सम्प्रार्थ्य धर्मेशं पशोः पशुपतेः परः ।
प्रणम्य दण्डवद्भूमौ साष्टाङ्गं कुसुमं क्षिपेत् ॥
अंशुमति -
पशोः पशुपतेरग्रे दण्डवत्पतितो भुवि ।
पतन्ति पातकास्सर्वे नोत्तिष्ठन्ति पुनस्सह ॥
देहसंसक्तरेणूनां यावत्सङ्ख्याभिगण्यते ।
तावद्वर्ष सहस्राणि शिवलोके महीयते ॥
दीप्ते - अस्य नमस्कारस्य चातुर्विधमुत्तमं तद्यथा -
अष्टाङ्गैश्चैव पञ्चाङ्गत्र्यङ्गुञ्चैकाङ्गकम् ।
शिखा हस्तौ च कर्णौ च चिबुकं बाहुयुग्मकम् ॥
अष्टाङ्गं च नमस्कारं पञ्चाङ्गं च ततश्शृणु ।
शिरौ(रो?) हस्तौ च बाहू च कृत्वा जानुनि संस्थितौ ॥
इदं पञ्चाङ्गमेवोक्तं त्र्यङ्गं च ततश्शृणु ।
हस्तौ बध्वा तु मुकुलं मूर्ध्नि देशे नियोजयेत् ॥
त्रयङ्गलक्षणं चेदं नमस्कारस्य सङ्ख्यया ।
एकाङ्गं तु नमस्कारं शिरसैव कृतं भवेत् ॥
त्रीणि पञ्च च सप्तापि नव द्वादश सङ्ख्यया ।
भक्त्या कृत्वा नमस्कारं शिवस्याग्रे ततो नरः ॥
अश्वमेधस्य सदृशं लभते फलमुत्तमम् ।
भक्तिहीनैर्नरैश्शाठ्यादपि बाधाय वै कृतम् ॥
नमस्कारं च सतुच्चापि पापहरं भवेत् ।
तस्माल्लिङ्गं सकृद्भक्त्या यो लिङ्गं प्रणमेन्नरः ॥
सर्वान् कामानवाप्यासौ शिवेन सह मोदते ।
तदनु पादान्तरितपदकमनि? निश्चलितकरं स्तुतिमुखं ध्यानन्यसिकमानसं घृततैलकुम्भगर्भिणी गमनतुल्यं चतुरङ्गं प्रदक्षिणं पुमान्मत्वा स्त्री वा कुर्यात् ॥
कारणे -
विप्रक्षत्रिय विट्च्छूद्रैः पुरुषैः स्त्रीभिरेव वा ।
सुस्नातैर्भस्मलिप्ताङ्गैस्सुव्रतैस्साक्षसूत्रकैः ॥
मौनव्रतधरैर्नान्यचित्तकैः शिववंशकैः ।
प्रदक्षिणं कार्यमिति शेषः ।
अंशुमति -
प्रदक्षिणक्रमं वक्ष्ये श्रूयतां रविसत्तम ।
सर्वपापहरं चैव सर्वदानफलप्रदम् ॥
सर्वरोगविनाशार्थं प्रदक्षिणमथाचरेत् ।
तत्र प्रदक्षिणनिर्वचनश्लोकः -
प्रछिनत्ति भयं सर्वं दकारो मोक्षसिद्धिदः ।
क्षिकारात्क्षीयते रोगोणकारः श्रीप्रदायकः ॥
प्रदक्षिणान्नसंयोगात्प्रदक्षिणमिति स्मृतम् ।
पादात्पादान्तरं गच्छेत्करौ चलनवर्जितौ ॥
स्तुतिर्वाचा हृदिध्यानं चतुरङ्गं प्रदक्षिणम् ।
स्वायम्भुवे -
आसन्नप्रसवे(वा?) नारी तैलपूर्णं यथा घटम् ।
स्वहन्ति(न्ती?) शनकैर्याति तथा कुर्यात्प्रदक्षिणम् ॥
अस्य कालफलं तत्रैव प्रोक्तम् ।
पूर्वाह्ने व्याधिनाशः स्यान्मध्याह्ने वाञ्छितार्थदम् ।
सायाह्ने सर्वपापघ्नमर्धयामे विमुक्तिदम् ॥
अजिते -
अष्टम्यां च चतुर्दश्यां पञ्चदश्यां त्रिजन्मनि ।
आर्द्रायामर्कवारे च करणे वृष्टिसञ्ज्ञके ॥
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
सङ्क्रमे चोत्सवे चैव स्नात्वा कृत्वा प्रदक्षिणम् ॥
प्रणमेद्यश्शिवं भक्त्या सर्वान्कामानवाप्य सः ।
लभेच्छतगुणं पुण्यं केवलान्नात्र संशयः ॥
एवमुक्तेषु कालेषु भक्तिश्रद्धासमन्वितः ।
सूर्योदयं समारभ्य यावदस्तं रविर्भवेत् ॥
तावत्प्रदक्षिणं कृत्वा सर्वान्कामानवाप्नुयात् ।
अथाहोरात्रकं वापि कालेष्वेतेषु योनरः ॥
प्रदक्षिणं प्रकुर्वीत सोऽनन्तफलमश्नुते ।
दूरमार्गात्समागम्य फलाशारहितोऽपि यः ।
कृत्वा प्रदक्षिनं भक्त्या प्रणमेच्छिवमव्ययम् ॥
तस्य मार्गसमुद्भूता या गतिश्चापि केशव ।
प्रदस्क्षिणफलं नॄणां ददात्येव न संशयः ॥
प्रवासी पथि कृत्वा तु शिवलिङ्गं प्रदक्सिणम् ।
नमस्कृत्वा तु पूर्वोक्तान् फलं पञ्चगुणं भवेत् ॥
योगजे -
उत्सवे बलिकाले तु यथा कुर्वन्प्रदक्षिणम् ।
पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥
अजिते -
गर्भगेहेच्च(च?) तस्योक्तं दीक्षितस्यैव बाह्यके ।
प्रदक्षिणं नृणां नोक्तमन्तर्मण्डलके सदा ॥
अन्तर्हारं(रे?) कृतं प्रोक्तं फलमेकप्रदक्षिणम् ।
त्रिगुणं मध्यहारे तु मर्यादायां चतुर्गुणम् ॥
महामर्यादिकं चैव कृतं पञ्चगुणं भवेत् ।
क्षेत्रावधि कृतं बाह्ये भवेच्छतगुणं नृणाम् ॥
स्वायम्भुवे -
दशाश्वमेधजं पुण्यं गर्भगेहे प्रदक्षिणम् ।
तस्माद्दशगुणं पुण्यमन्तर्मण्डलदेशके ॥
अन्तर्हारादिसालेषु तत्तद्दशगुणं भवेत् ।
सव्यापसव्यमार्गेण पूजान्ते तु प्रदक्षिणम् ॥
अथ प्रदक्षिणसङ्ख्या -
कृत्वा प्रदक्षिणं भक्त्या शिवस्यैकं समाहितः ।
अश्वमेधस्य यज्ञस्य सुखेन लभते फलम् ॥
एकविंशतिसङ्ख्यातमुत्तमं तु प्रदक्षिणम् ।
तिथि सङ्ख्या मध्यमस्याप्यधमं मुनिसङ्ख्यया ॥
पञ्चसङ्ख्याकृतं यत्तदधमे मध्यमं भवेत् ।
अधमाधममित्युक्तं गुणसङ्ख्याकृतं तु यत् ॥
तस्मादप्यवरं प्रोक्तं कृतमेकं प्रदक्षिणम् ।
स्वायम्भुवे -
एकदण्डनमस्कारमेकम् चापि प्रदक्षिणम् ।
शतं सहस्रमयुतं नियुतं प्रयुतं तु वा ।
कोटिं वा कारयेदिष्टसिद्ध्यर्थं तु प्रदक्षिणम् ॥
लिङ्गविशेषफलं निरूप्यते -
मानुषस्य तु लिङ्गस्य फलमुक्तं प्रदक्षिणम् ।
नमस्कारेण तस्माद्वै द्विगुणं चार्षके भवेत् ॥
त्रिगुणं दैविके लिङ्गे फलं गाणेश्वेरे च तत् ।
चतुर्गुणं समुद्दिष्टं फलं पञ्चगुणं भवेत् ॥
स्वयम्भूतस्य लिङ्गस्य तथा संस्पर्शनैश्शनैः ।
तत्प्रदक्षिणं चतुर्विधम् सव्यम् अपसव्यम् सव्यापसव्यम् अङ्गप्रदक्षिणं चेति ।
तथा अंशुमति -
प्रदक्षिणप्रकारस्य लक्षणं शृणु सुव्रत ।
सव्यं तु प्रथमं प्रोक्तमपसव्यं द्वितीयकम् ॥
सव्यापसव्यमपरं स्वतस्त्वङ्गप्रदक्षिणम् ।
सव्यं? प्रदक्षिणं प्रोक्तमपसव्यं प्रदक्षिणम् ॥
अजिते -
सव्याप सव्यस्सोम सूत्रालङ्घनतः कृतम् ।
सव्यापसव्यमित्युक्तं दीक्षितानां तु तद्भवेत् ।
अङ्गप्रदक्षिणं यत्तु सर्वाङ्गैः परिकल्पितः ।
सोमसूत्रस्वरूपम् -
अंशुमति निरूपितम् -
प्रासादस्य तु विस्तारं तन्मानं सोमसूत्रकम् ।
लिङ्गमूलस्य पार्श्वे तु योजयेत्सौम्यदेशि(श?)के ॥
यावत्सूत्रान्तमेवं स्याद्वर्जयेत्तु प्रदक्षिणम् ।
सङ्कटे प्रासादार्धसमं वा परिहृत्य कर्तव्यम् ।
प्रासादार्धसमं वापि प्रासादसमयेत्यक्तत्वात् ॥
कारणे -
शम्भोः प्रदक्षिणं कुर्यात् सोमसूत्रं न लङ्घयेत् ।
लङ्घनादेकमेकं स्यादलङ्घेद्ययुतत्रयम् ॥
अलङ्घ्यप्रदक्षिणं सव्यापसव्यम् ।
विलङ्घ्यप्रदक्षिणं सव्यादिसव्यादिमेकमेकम् ।
सव्यापसव्ये एकमयुतत्रयं भवेदित्यर्थः ॥
याम्नच्छायामपि सोमसूत्रवन्न लङ्घयेत् ।
कारणे -
महायामस्य सूत्रेण छायां चैव न लङ्घयेत् ॥
छायाधस्तात्प्रकर्तव्यं विमाने तु प्रदक्षिणम् ।
तथान्यत्र -
छायातिलङ्घने प्राप्ते कथं कुर्यात्प्रदक्षिणम् ।
अन्ते त्र्यंशं विभाधादौ संवरेद्यंशके बुधः ॥
तथा -
लिङ्गच्छायां तु पीठं च प्रासादं प्रतिमां तु वा ।
उत्सवे बलिकाले च तथैव गुरुसेविते ॥
प्रदक्षिणक्रियाकाले छायादोषो न विद्यते कुत्रचिदपसव्यं निषिद्धम्
सोमसूत्रद्वयं यत्र यत्र वा विष्णुमन्दिरम् ।
अपसव्यं न कुर्वीत कुर्यादेव प्रदक्षिनम् ॥
सव्यादिस्वरूपमंशुमत्तन्त्रे स्पष्टमुक्तम्
इन्द्रादिन्द्रपर्यन्तं सव्यं प्रोक्तं प्रदक्षिणम् ।
यथासव्यप्रकारेण अपसव्यं समाचरेत् ॥
सव्यापसव्यमार्गेण प्रदक्षिणमतः शृणु ।
यथा -
वृषादि चण्डनाथं च वृषभं सोमसूत्रकम् ।
पुनर्वृषभं चण्डनाथं नालदेशस्य पार्श्वतः ॥
पुनः प्रयायाश्चण्डं च तथैव वृषपृष्ठकम् ।
एवं सव्यापसव्यं तु प्रदक्षिणमिहोच्यते ॥
एवं सव्यापसव्यप्रदक्षिणं कृर्वन्वृषं चण्डानुज्ञैव? प्रदक्षिणं कुर्यात् ।
तथाचागमः -
आद्यन्तं वृषदेवस्य चतुस्स्थानमुदाहृतम् ।
त्रिचण्डस्थानसंयुक्तं पक्षाद्यां सोमसूत्रकम् ॥
आत्मप्रदक्षिणं कुर्यात्तत्तत्स्थानैक सङ्ख्यया ।
तथैव नवसङ्ख्या च एवमेकं विधीयते ॥
अङ्गप्रदक्षिण स्वरूपमजिने प्रदर्शितम् ।
अङ्गप्रदक्षिणं कुर्वन् कृत्वा भूमौ निजां तनुम् ।
दण्डवद्बाहुयुग्मेन सह बध्वा कृताञ्जलिः ॥
कृत्वा दण्डनमस्कारं शिवाग्रे तु सकृन्नरः ।
प्रदक्षिणं तथा कुर्यादेकं वा त्रयमेव वा ॥
पञ्च वा सप्त वा चैव सर्वपापनिवृत्तये ।
कृत्वा पुनस्तथाग्रे तु नमस्कारं च भक्तितः ॥
उत्थाय प्रणतिं भूयो भूयः कृत्वा समापयेत् ।
अंशुमति -
कराग्रौ बन्धयित्वा तु पादौ स्वस्तिकमाचरेत् ।
नेमिवद्भ्रमणं कृत्वा प्रासादात्परितस्तथा ॥
अङ्गप्रदक्षिणं प्रोक्तमेवमेवं प्रदक्षिणम् ।
प्रदक्षिणं सहस्रं स्यादेकमेकं प्रदक्षिणम् ॥
एवमन्यान्यपि च पद्मसिंहशृङ्खलनागप्रदक्षिणाद्य(न्यं?)शुमति द्रष्टव्यानि ॥
स्वायम्भुवे -
अपसव्यं यतीनां तु सव्यं तु ब्रह्मचारिणाम् ।
सव्यापसव्यमार्गेण वानप्रस्थगृहस्थयोः ॥
स्वायम्भुवे -
गर्भगेहेऽपि सव्यापसव्यविधिरुत्त(क्तः?)मः ।
यथा -
गर्भे प्रदक्षिणं किं तु पूजकस्य विधीयते ।
तत्रापि देवदेवस्य छायानिर्माल्यलङ्घनम् ॥
सोमसूत्रं च तत्काले परिहृत्य समाचरेत् ।
सव्यापसव्यमार्गेण कर्तव्यं तत्प्रदक्षिणम् ॥
कालोत्तरे -
नियमद्वयमुक्तम् ।
सव्यापसव्यमार्गेण अन्तर्मण्डलके कुरु ।
बाह्यप्राकारदेशे तु सव्यमार्गं प्रदक्षिणम् ॥
अत्र पूर्वार्धेन सव्यापसव्यदेशनियम उक्तः ।
अपरार्धेन बाह्यदेशस्य सव्यनियम उक्तः ।
यत्र यत्रावृतौ किं तु बलिपीठवृषस्थितिः ।
तत्र तत्रावृतौ कुर्यात्तत्प्रधानं प्रदक्षिणम् ॥
यत्र प्रदक्षिणं तत्र बलिपीठं वृषौरवेत् ।
तद्बाह्यस्थौ समाधृत्य कृती कुर्यात्प्रदक्षिणम् ।
देवेशवृषयोर्वापि बलिपीठेशयोस्तु वा ॥
अन्तरा गमनं कुर्यात्तत्तदावरणे सुधीः ।
इत्थं भूतं प्रदक्षिणं निवृत्त्य पूर्ववच्छिवाग्रे नमस्कृत्य उत्त्थाय भूयो भूयः प्रणम्य समापयेत् ॥
अजिते -
कृत्वा पुनस्तथाग्रे तु नमस्कारं च भक्तितः ।
उत्थाय प्रणतिं भूयो भूयः कृत्वा समापयेत् ॥
तदनु द्वितीयावरणपालकौ ध्यानपूर्वं प्रणम्य प्रार्थयेत् ॥
तथा -ब्रह्माण्डे -
द्वितीयावरणद्वारपालकौ गणनायकौ ।
नत्वाभ्यर्च्यान्तः प्रविसेत्स्तुत्वैव शिवभक्तिमान् ॥
ध्यानम् -
बिभ्राणौ निजबाहुभिर्वरगदाभितर्जनीमुद्रकाश्चण्डांशुप्रतिमषौ गणवरौ रुद्रालयद्वारपौ ।
कोटीराङ्गदहारनूपुर कटिसूत्रविताहीश्वरौ वन्देऽहं प्रणतार्तिनाशनकरौ गौरीशसेवाप्तयोः(ये?) ॥
तदनु ध्यानपूर्वं गाणपत्यं नन्दिकेश्वरं प्रणम्य प्रार्थयेत् ।
बिभ्राणं परशुं मृगं करतलैरीशप्रणामाञ्जलिम् भस्मोद्धूलनपाण्डरं शशिकलागङ्गाकपर्दोज्ज्वलम् ।
पर्यायं(य?) त्रिपुरान्तकं प्रमथपश्रेष्ठं गणेन्द्रैर्वृतं ब्रह्मेन्द्राच्युत वन्दिताङ्घ्रिकमलं श्रीनन्दिकेशं भजे ॥
अत्र प्रार्थना -
अन्तः प्रवेशे शिवदर्शने च शिवार्चने तत्फलसिद्धिलाभे ।
देह्यभ्यनुज्ञां भगवन्प्रसन्नस्त्वत्पादपद्म प्रणतायमह्यम् ॥
प्रार्थयित्वेति तं पश्चाद्भावयित्वा शिलादिजम् ।
एवं नन्दिकेश्वरमनुज्ञाप्यान्तः प्रविश्य प्रथमं विघ्नराजं नमस्कुर्यात् ।
विघ्नराजं नमस्कुर्यात्स्तोत्रमुच्चारयन्भुवि ।
विकीर्य पादयोः पुष्पं मस्तकाहतिमुष्टिकम् ।
स्तुवन्वह्यस्थितिं? कुर्यात्कर्णायोरर्पिताङ्गुलिम् ॥
ततो मण्डपान्तः प्रविश्य देवदेवं नमस्कृत्य स्तोत्रं कुर्यात् ॥
तथा -
अंशुमति -
मण्डपान्तः प्रविश्याथ शिवाग्रे तु विशेषतः ।
देवदेवं नमस्कृत्य स्तोत्रं चैव समुच्चरन् ॥
मस्तके हृदये चैवत(त्व?)ञ्जलिं चैव विन्यसेत् ।
नमस्कारमुद्रा सुप्रभेदे दर्शिता ।
तथा
सतताङ्गुलिसंलग्नौ हस्तौ हृद्देशमाश्रितौ ।
सर्वेषां बन्धनं कार्यं वामाङ्गुष्ठनिपीडितम् ॥
नमस्कारे विज्ञेया सर्वकर्मणि कारयेत् ।
तत्तद्वर्णाश्रमानुगुणं स्तोत्रं कामिके प्रदर्शितम् ।
वेदाध्ययनमन्यद्वा स्तोत्रपाठादिकं तु वा ।
उत द्राविडभाषाद्यं गाननु(नृ?)त्तयुतं तु वा ॥
अष्टादशाख्यभाषोत्थं गानं वा परिकल्पयेत् ।
विप्रादीनां यथाचितं पुष्पाञ्जलिप्रदानमंशुमति प्रदर्शितम् ।
देशिकेन प्रकर्तव्या गर्भगेहे प्रवेशनम् ।
पुष्पेणैवं सम्भ्यर्च्य शिवमन्त्रमनुस्मरेत् ॥
विप्राणां च प्रवेशं च अर्धमण्डपमाविशेत् ।
क्षत्रियस्य विशेषेण पुष्पाञ्जलि क्रमेण तु ॥
मण्डपं तु प्रविश्याथ मुखद्वारे स्थितिर्भवेत् ।
आत्मतत्त्वयं चैव अर्चयेद्गुरुमार्गतः ॥
वैश्याश्चैव तु शूद्राश्च वृषाग्रे वृषपृष्ठके ।
गोमयालेपनं कृत्वा चतुरश्रसमन्वितम् ॥
अर्चयेन्मूलमन्त्रेण गुरुमार्गेण कारयेत् ।
शैवे -
वस्त्रं धनं भूमिदासी दिव्यान्याभरणानि च ।
धूपदीपोपहाराद्यं महानिवेद्यमेव च ॥
दद्याद्देवाय देव्यै च यथाशक्त्यानुसारतः ।
यत्किञ्चिदपि देवाश्वत्वणुमात्रं तु वानरः ॥
दत्त्वैव प्रणमेद्देवान्नान्यथा शम्भुवल्लभः ।
धनादिरहितो देवं पत्रपुष्पफलादिकम् ॥
दत्त्वैव प्रणमेद्देवमन्यथा तु कदाचन ।
देवालयस्थं निर्मालं(ल्यं?) तृणाद्यं वा मलादिकम् ॥
विशोध्य वापि देवेशं प्रणमेन्नान्यथा क्वचित् ।
सर्वाभावे वाक्सहायमपि कृत्वा नमेद्धरम् ॥
शम्भु भक्तो नान्यथा स्यादिति वेदानुशासनम् ।
एवं कृत्वा यथाशक्ति पश्येद्देवं च भक्तितः ॥
निःश्वासे -
इन्दुनिभपञ्चमुखहस्तदशयुक्तं शूलधरटङ्कमसि वज्रमभयं स्यात् ।
पाश वरदाङ्कुशमणिर्दहन वामेश्वेतकमलासनसदाशिवस्वरूपम् ॥
उपानः पादुकं चैव जगरुं(तिं?) जघनमेव च ।
कुमुदं कुक्षिरित्याहु बाहुभ्यां कम्पकेन च ॥
कण्ठं कर्णमिति ज्ञेयमधरे अधरं स्मृतम् ।
महापट्टिललाटं स्यात्केशान्तं घृतवारिणा ।
एवं ध्यात्वा नमस्कृत्य तत्पुष्पं वर्जयेत्ततः ॥
लिङ्गस्य दर्शनं प्रातर्नैशमंह्ये व्यपोह्यति ।
आजन्म जन्ममध्याह्ने [(अयमङ्कः मातृकायां दत्तः?) सायाह्ने सप्तजन्मनि ॥
एवं यः कुरुते मर्त्थं(र्त्यः?) सोऽन्ते सायुज्यमाप्नुयात् ।
लिङ्गपुराणे च
यः प्रातर्देवदेवेशं शिवलिङ्गस्वरूपिणम् ।
पश्व?(श्यन्?) श(स?) याति सर्वस्मात्(द?) अधिकां गतिमेव वै ॥
मध्याह्ने] च महादेवं दृष्ट्वा यज्ञफलं भवेत् ।
सायाह्ने सर्वयज्ञानां फलं प्राप्य विमुच्यते ॥
अर्धमासकृतं पापं दृष्ट्वा पर्वणि सन्त्यजेत् ।
अष्टम्यामष्टदिवसैः कृतं पापं त्यजेन्नरः ॥
प्रदोषे शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते ।
मानसैर्वाचिकैः पापैः कायिकैश्च महत्तरैः ॥
तथोपपातकैश्चैव पातकैस्सम्प्रमुच्यते ।
सङ्क्रमे देवमीशानं दृष्ट्वा लिङ्गाकृतिं विभुम् ॥
मासेन वै कृतं पापं त्यक्त्वा याति शिवं पदम् ।
अयने चार्धमासे च दक्षिणे चोत्तरे तथा ॥
विषुवे चैव तं दृष्ट्वा प्रयाति परमं पदम् ।
नृत्तमूर्त्यादिदेवानां तत्तद्ध्यानपुरस्सरम् ॥
तत्तत्पुष्पोपहारेण कुर्यात्तु प्रणतिं ततः ।
ब्रह्माण्डे व(च?) पुराणे
तत्रस्थं दक्षिणामूर्तिं सोमास्कन्देश्वरं शिवम् ।
वृषारूढं चन्द्रचूडं नमस्कुर्यान्नटेश्वरम् ॥
मातृसप्तापि दुर्गां च वटुकं प्रणमेद्रविम् ।
तथा -
अपस्मारतदूर्ध्वे तु स्वस्थितं सव्यपादकम् ।
कुञ्चितं वामपादं तु सव्ये डमरुकं तथा ॥
वामे चाग्निधरं देवं जटानामष्ट सप्त च ।
सव्ये गङ्गाधरं देवं वामरूपेन्दुसमन्वितम् ॥
सर्वावयवसम्पूर्णं सर्वालङ्कारशोभितम् ।
जपाकुसुमसङ्काशमेव ताण्डवविग्रहम् ॥
एकमुखवेदकर विद्रुमस्वरूपं कृष्णमृगटङ्कवरदाभयचतुष्कम् ।
लोचन तृतीयवरवस्त्रपरिधानं चन्द्रधृतमौलि सहगौरि सहसून(नु?)म् ॥
पद्मासनं रक्ततनुं द्विनेत्रं श्वेताब्जयुक्तांसकहस्तयुग्मम् ।
रक्तम्बरालेपनमाल्य भूष्यं स्थितं सहाङ्गैश्शिवसूर्यमीडे ॥
रौरवोत्तरे -
विघ्नेशं दक्षिणामूर्तिं विष्णुमूर्तिं तथैव च ।
ब्रह्ममूर्तिं च दुर्गां च पञ्चमूर्तिं तु वन्दयेत् ॥
वटविटपिसमीपे भूमिभागे निषण्णः सकलमुनिजनानां ज्ञानदतान्यमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥
ब्राह्मी महेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा सप्तमातरः ॥
वीरविघ्नस्थिता एताः प्रणतार्तिभयावहाः ।
शुद्धस्फटिकसङ्काशं गजवक्त्रं चतुर्भुजम् ॥
लम्बोधरं त्रिणयनं पाशाङ्कुशधरं परम् ।
वरदाभयहस्तं च चलत्कर्णं सदा स्मरेत् ॥
पीतं शक्तिं च घण्टां ध्वजमथ कमलं कुक्कुटं प्रा?सदण्डौ बिभ्राणा वायुभागे वरमभयधनुर्बाणटङ्कांश्च हस्तैः ।
षड्वक्त्रं द्वादशाक्षं शिखिनि शरभयं पाणिभिर्वा चतुर्भिर्वक्त्रैक्यं शक्त्यभिभ्यां भजतरयुतं कुक्कुटं चादधानम् ॥
कालवर्ण चतुर्भुजयुक्तं शूलडुण्डुभटङ्ककपालम् ।
मौलिवह्नित्रिणेत्रसन्ग्नं क्षेत्रपालमिमं कमलस्थम् ॥
ब्रह्माण्डोपपुराणे - विशेष उक्तः
उत्कर्षमीशस्य पठेत्स्तवं च स्तोत्रावसाने ग्रह भस्म शम्भोः ।
आदाय धृत्वा पुनरेवमेकं प्रदक्षिणान्ते किल चमेत्य? ॥
प्रणम्य चाभ्यर्च्य कृतस्तुतिस्सन् त्रिस्ताडयित्वा करकं करेण ।
सम्प्रार्थ्य सेवाफलमीश्वरस्य वृषस्य शृङ्गान्तरमीशलिङ्गम् ॥
अथ ध्वनिश्चण्डेश्वरं सेवेप्त -
द्विनेत्रं द्विभुजं चैव शुक्लवस्त्रसुधारिणम् ।
जटामकुटसंयुक्तं शश्यर्धकृतशेखरम् ॥
लम्बितं दक्षिणं पादं शयनं वामपादकम् ।
जानूर्ध्वो वामपादं तु सव्यहस्तं तु टङ्कधृक् ॥
पीठादि चण्डपर्यन्तं सेवां कुर्यात्तु दिशिकम् ।
ब्रह्माण्डे -
अपि सकलतीर्थे राश्रिताण्डद्वयोद्य- द्भवभयमनुत्राहि मान्द्रिष्टलिङ्गम् ।
इति सम्प्रार्थ्य तत्पार्श्वे सन्निविष्ट उदङ्मुखः ।
पञ्चाक्षरजपं कृत्वा ध्यानेनैव सदाशिवम् ॥
एवं देव्यालयमपि सेवेत -
कामिके -
देव्यालयेऽपि कर्तव्यं पूर्वोक्तेन विधानतः ।
सिंहो वा वृषभो वापि वाहनः परिकीर्तितः ॥
ईश्वराभिमुखं देवमासीनं वृषनायकम् ।
प्रार्थयित्वा तु तत्पश्चात्(द्) भावयेद्द्वारनायिकौ ॥
देव्यास्तु द्वारपालौ तु खड्गखेटकहस्तकै ।
जटामकुटसंयुक्तौ रक्तश्यामविभूषणौ ॥
खड्गखेटकधारिण्यौ द्विभुजौ वा चतुर्भुजौ ।
देव्योक्तद्वारपालान्हा सर्वाभीष्टफलप्रदान् ॥
ततो देवं नमस्कृत्य स्तोत्रं चैव समुच्चरन् ।
पद्माक्षमालाभय ऊरुहस्तां श्यामाङ्गनेत्रत्रयसुन्दराढ्याम् ।
किरीटवक्त्रेन्दु जटाप्य च चूड्या श्रीकामकोष्ठश्शिवशक्तिमीडे ॥
दिग्देवासुदेव्यास्तु रूपभेदाः प्रकीर्तिताः ।
शिवायतनदेवान्वा गण षण्मुखोऽपि वा ॥
याम्नि दिग्देवता स्थाप्यास्तद्देवीरूपविग्रहः ।
वामाद्याश्शक्तयो वापि परिवारा व्यवस्थिताः ॥
निर्माल्यधारिणीं देवीं यमनीमीशगोचराम् ।
कारणे -
भुजद्वयद्विनेत्रं च श्यामला शुभमेव च ।
वामहस्ते तु जानूर्ध्वे सव्यहस्ते नु पुष्पधृक् ॥
अथवाञ्जलितं हस्त द्विहस्ते पुष्पधारयेत् ।
चण्डेशीं यमनीं चैव ध्यायेदुक्तक्रमेण तु ॥
कामिके -
सा देवी श्यामला हस्तद्वयाखिलविभूषिता ।
यमनीत्याख्यया ख्याता धृतनीलोत्पलावरा ॥
इत्थं पीठादिचण्डान्तं नमस्कृत्य सन्निधिं कृत्वा अपराध निवृत्तये यथा शक्ति मूलमन्त्रं जपेत् ।
देवस प्रवेशे च स्थितौ देवस्य सन्निधौ पुनश्च निर्गमे पृष्ठीकरणं शुभं शिवनन्दिनोः ।
भुक्तिर्निद्रा ह्यधीतिश्चाभिचारक्रिया ततः ।
गोपुरप्रतिमाछाया लङ्घनस्पर्शने तथा ॥
निर्माल्यलङ्घनस्पर्शौ देवपीठान्तरा गतिः ।
प्रमदाभूषणं तत्र स्पर्शनं रागनीक्षणम् ॥
एकहस्तप्रमाणं च एकं चापि प्रदक्षिणम् ।
अकालदर्शनं चैव द्यथा सम्भाषणं तथा ॥
असत्यभाषणं तद्वदसह्य श्रवणं तथा ।
उद्वासन स्थितिश्चापि सन्निधावासनं परम् ॥
वृथा हासो वृथा गानं वृथागानश्रुतिस्तथा ।
देवद्रव्ये रागबुद्धिस्तथा विग्रहविस्पृशि ॥
असतां भाषणं तद्वत्सतां वै भू(दू?)षणं तथा ।
सोत्तरीयनमस्कार प्रदक्षिणकृती उभे ॥
देवस्य वामभागे तु नमस्कारक्रिया जपः ।
दुर्देवतोपासनं चेत्यपराधाः परि(प्र?)कीर्तिताः ॥
अज्ञानतः कृतानेतान् सहते करुणानिधिः ।
सु(स्व?)तन्त्रमावर्तयतां शतरूद्रीयजापिनाम् ॥
बुद्धिपूर्वतां(कृतां?) भोगेनैवा(व?) स(न?) संशयः ।
शैवपुराणे -
देवालयस्थितं वस्तु तृणाद्याव्यापि नोहरेत् ।
देवस्यानुप्रयुक्तं च हृत्वा यान्त्युत्वणं तमः ॥
देवालयगतं पत्रं पुष्पाद्यं च तथैव च ।
आग्नेय पुराणे -
शिवकार्यविधाती च शिवद्रव्यापहारकः ।
रौरवं नरकं याति यावदाभूतसम्प्लवम् ॥
क्षणं क्षणार्धमर्चयोमर्त्य शिवकार्यपरो भवेत् ।
दिव्यं चतुर्दशं वश्येत् शिवलोक(के?) महीयते ॥
निष्कं निष्कार्धमात्रं वा वित्तं देवार्थ्य ययेत् ।
गोसहस्रफलं लब्ध्वा शिवलोके महीयते ॥
मतङ्गे -
लिङ्गं माहेश्वरी प्रीत्या नमस्कारेण येऽप्यथम्? ।
पूजयन्ति नराः शूरास्तेऽपि सिद्धा गणेश्वराः ॥
रमन्ति विविधैर्भोगैः प्रास्थानमुमापतेः ।
शतरुद्रान्तिकस्थानं सकृल्लिङ्गार्चनंल(नार्ल्ल)भेत् ।
आलये शिवलिङ्गस्य भक्त्या निर्वक्त्यते शुभे ॥
श्रीकण्ठपदमारुह्य सुखमत्यद्भुतं लभेत् ।
एवं भक्तिविभागेन लिङ्गे वापि रतस्सदा ॥
शिवधर्मोत्तरे -
ये कुर्वन्ति नमस्कारमीश्वराय क्वचित् क्वचित् ।
सम्पर्कात्कौतुकाल्लोहात्तद्विमानं लभन्ति ते ॥
नामसङ्कीर्तनं वापि प्रसङ्गेन शिवस्य यः ।
कुर्याद्वा तन्नमस्कारं न तस्य विफलं भवेत् ॥
इत्येता गतयः प्रोक्ता महत्यः शिवकर्मणाम् ।
अत्यल्पाल्पतरेणापि पुंसामीशानु भावतः ॥
तारारूपविमानानां दृश्यन्ते खलु कोट्यः ।
अष्टाविंशतिरेवोर्ध्वं सुदीप्तास्सुकृतात्मनाम् ।
इत्थं सेवां निर्वत्य शिवालयान्निर्गत्य मार्गस्थान्विघ्नानस्त्रेणान्विरेच्यास्त्रपञ्जरमध्यगोगृहं गच्छेत् ।
अंशुमत्तन्त्रे -
आलयान्निर्गमं कृत्वा स्वगृहं प्रविशेत्ततः ।
तथा कामिके -
व्रजेद्देवालयान्विप्रान्गृहस्वात्मीयमुत्तमम् ।
इत्यात्मार्थं पूजापद्धत्यां
शिवालयसेवाक्रमविधिः
॥
सिधान्तश्रवणम् ॥
यावन्मध्याह्नं तावच्छैवसिद्धान्तशास्त्रश्रवणादिकं कुर्यात् ।
तदुक्तम् -
क्रियाकाण्डे -
अथ विद्यास्समभ्यर्च्य पुष्पगन्धस्रगादिभिः ।
सम्यक् सम्पूजयेद्भक्त्या गुरोश्चरणपङ्कजे ॥
मध्याह्नं समयं यावत्कुर्यात्स्वाध्यायमीप्सितम् ।
इति ॥
स्वच्छन्दे -
संहितां चिन्तयेन्नित्यमुभयार्थफलप्रदाम् ।
आह्निकत्वतुल्यं वेदं सन्ध्यां चैव वरानने ॥
अदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिम् ॥
तथा वीरतन्त्रे -
अदीक्षितैर्न श्रोतव्यं न देयं न प्रकाशितम् ।
शिष्याणां चैव दातव्यं समासार्करसामिते? ॥
चिन्त्यविश्वसादाख्ये -
यावत्कालाच्छिवज्ञानं दृढीभवति तस्य वै ।
तावत्कालं च कर्तव्यं श्रवणादि विशेषतः ॥
इति ॥
कालोत्तरे -
उल्काहस्तो यदा कश्चिद्द्रव्यमालोक्य तां त्यजेत् ।
परं चैवाविबोधाख्यं परं शास्त्रमुत्तमम् ॥
अस्य ज्ञानस्योत्पत्ति प्रयोजने -
स्वायम्भुवे निरूपिते यथा
कथात्ममलमायाख्य कर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्तस्य शिवज्ञानं प्रवर्तते ॥
कामिके -
शिवरुद्रात्मकं तन्त्रमष्टाविंशति सङ्ख्यकम् ।
यद्यप्येको भवेद्वक्ता श्रोतृभेदादनेकथा ॥
अवतीर्णमिदं मेरौ प्रणवाद्यवतारकैः ।
क्रियाचर्यासमोपेतं योगज्ञानान्वितं परम् ॥
मकुटे -
श्रोतारश्शिवभेदानां पारम्पर्यात्त्रयस्त्रयः ।
द्वौ द्वौ तु रुद्रभेदानां षष्ट्युत्तरषडुत्तरा ॥
पस्ता(सप्ता?)धिकद्विशतसङ्ख्या तदुक्तम्
मकुटे -
त्रिभेदं कामिकं प्रोक्तं पञ्चभेदं च योगजम् ।
षड्भेदं चिन्त्यतन्त्राणि सप्तभेदं तु कारणम् ॥
अजिताख्यं चतुर्भेदं दीप्तं च नवभेदकम् ।
सूक्ष्ममेकमिदं प्रोक्तं दशभेदं सहस्रकम् ॥
अंशुमान्सूर्यभेदं स्यात् सुप्रभेदं तु भेदकम् ।
अष्टभेदं तु विजयं निश्वासं चाष्टभेदकम् ॥
स्वायम्भुवं द्विभेदं स्यादाग्नेयं तु द्विभेदकम् ।
वीरतन्त्रं विशेषेण भेदाश्चैव त्रयोदश ॥
षड्भेदं रौरवं प्रोक्तं मकुटं तु द्विभेदकम् ।
विमलं तु कलाभेदं चन्द्रज्ञानं चतुर्दश ॥
तिथिभेदं बिम्बतन्त्रं प्राद्गीते षोडश स्मृताः ।
ललितं गुणभेदं स्यात् सिद्धं च युगभेदकम् ॥
सन्तानं सप्तभेदं च शार्वोक्तं पञ्चभेदकम् ।
पारमेशं सप्तभेदं किरणं नवभेदकम् ॥
वातुलं रविभेदं स्याद्वक्ष्यते तु पृथक् पृथक् ।
उपभेदक्रमाः प्रोक्ताः सप्तोत्तर शतद्वयम् ॥
तथा सिद्धान्तशेखरे -
सप्ताच्चाभूतषड्भिर्मुनिजलनिधिभिदन्त शीतांशुदिग्भिस्तश्माच्चिस्सोम भोगेद्विरदतहुतवहैर्यश्य कामर्तु नेत्रैः ।
पश्चात् वाकं कलाभिर्मनुदिनसकला वह्निना चाब्धिधर्मैर्बाणैर्लोकैसरन्ध्रैस्तपनसुगुणितैरागमानां विभेदाः ॥
एतानि ज्ञानानि प्रत्येकं ज्ञानक्रिया योगचर्याभिश्चतुस्पदानि ।
एतेषां ज्ञानपादे तु परमेश्वरस्य(स्व?) रूपं च विज्ञान -
कलाप्रलयाकले तु सकलानां स्वरूपं च आणवकाम्यमायाबैन्दवरोध शक्त्यात्मजपाशस्वरूअं च शिवतत्त्वमारभ्य पृथिवी तत्त्वान्तं षट्त्रिंशत्तत्त्वानां सृष्टिप्रकारं च एतैरात्मानां भोगसाधनानैर्भवितव्यनाञ्च भुवनानां भुवनेश्वराणां स्वरूपं च भुवनानां योजनापरिणामानि च प्रथमप्रलय मध्यमप्रलयमहाप्रलयानां स्वरूपं च तत्प्रलयानन्तरं सृष्टेः प्रकारं च पाशुपत महाव्रतकापाल शास्त्रवसनं च तत्त्वं च तत्प्रोक्तर्थं पूर्वपक्षीप्यप्रमेय नियमश्च प्रोच्यन्ते ॥
योगपादेन तु एतानि षट्त्रिंशत्तत्त्वानि च तत्त्वेश्वराश्चात्मा च परमेश्वरश्च शक्तिश्च जगत्कारणभूतमाया महामाया प्रभावं च विषयतत्त्वसिध्यप्रेक्षणा मणिमादि सिद्धिसम्भवश्च प्राणायाम प्रत्याहार ध्यानधारणाजपसमाधिप्रकारश्च मूलधारादि क्षुधारण मवस्थानं च प्रोच्यते ॥
चर्यापादे तु प्रायश्चित्तं पवित्रारोपणम् प्रतिष्ठा च शिवलिङ्गलक्षणं च उमामहेश्वरादि व्यक्ताव्यक्त लिङ्गलक्षणं च स्कन्दनन्द्यादिगणेश्वराणां लक्षणं च जपमालायोगपट्टदण्ड कमण्डवादि लक्षणं च
अन्त्येष्टिशिवश्राद्धादि चोच्यते ॥
क्रियापादेन तु - संस्कार निर्वाण दीक्षाभिषेकश्च तन्त्रावतात्मानां भोगमोक्षोपायदीक्षा च प्रोच्यन्ते मन्त्रोद्धार स्नान सन्ध्यावन्दन पूजा जपहोमार्चनं च भूमि परिग्रहं समविशेष एतानि ॥
अथ शिवज्ञानानि ताम्रादिनिर्मितपत्रैर्वा भूर्जपत्रैर्वा श्रीतालपत्रैर्वा
यथा आयादिसम्भवं सलक्षणं पुस्तकानि सम्पाद्य तेषु सलक्षधा लेखिन्या वा मष्यादिना वा नागरादि लिपिना विलिख्य पठितव्यानि तदुक्तम् सन्ताने -
इदानीं पुस्तकं वक्ष्ये समासाच्छृणु सुव्रत ।
द्वाविंशत्यङ्गुलं दैर्घ्यं मानाङ्गुलेन कारयेत् ॥
तत्पुस्तकस्य विस्तारं चतुरङ्गुलमुच्यते ।
एभिस्तु लक्षणैर्युक्तं लक्ष्मीपत्रमिति स्मृतम् ॥
एकविंशतिरङ्गुल्यं विस्तारं तु त्रयङ्गुलम् ।
श्रीकरं तं विजानीयादुत्तमा मध्यमान्वितम् ॥
विंशत्यङ्गुलदीर्घं स्याद्यवहीनं त्रियङ्गुलम् ।
चन्द्रकान्तमिति ज्ञेयमुत्तमाधमं त्विदम् ॥
मध्यमस्योत्तमं वक्ष्ये शृणु सर्वाङ्गसुन्दरी(रि?) ।
अष्टादशाङ्गुलायामं सार्धम�न्ग्यङ्गुलं तथा ॥
नलिनं त्विति विख्यातं मध्यमं वक्ष्यतेऽधुना ।
सप्तदशाङ्गुलायामं त्रयपञ्चाङ्गुलद्वयम् ।
श्रीनिवासमिति ज्ञेयं श्रीभद्रमधुनोच्यते ॥
षोडशाङ्गुलमायामं द्विधपञ्चाङ्गुलद्वयम् ।
मध्यमत्रयमेवोक्त * * * * मथ शृणु ॥
पञ्चदशाङ्गुलायामं ससवञ्चाङ्गुलद्वयम् ।
लक्ष्मीनिवासमित्युक्तमधमोत्तममुच्यते ॥
चतुर्दशाङ्गुलायाममङ्गुलद्वयविस्तरम् ।
उमाभद्रमिति ख्यातं मध्यमस्य तु मध्यमम् ॥
त्रयोदशाङ्गुलायामं वह्नीनद्वयाङ्गुलम् ।
शचीभद्रमिति ज्ञेयं नवधा प्रोच्यतेऽधुना ॥
एभिस्तु लक्षणैर्युक्तं सर्वसम्पत्करं नृणाम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्शर्व एव च ॥
कालरुद्रो नीलरुद्रः प्रलयानलः सर्व?दाशिवः ।
अधिदेवास्समाख्याताः शक्तयोऽप्यधुनोच्यते ॥
वामा ज्येष्ठा च रौद्री च काली कलविकारिणी ।
बलविकारिणी बलप्रमथनी सर्वभूतमनोन्मनी ॥
विश्वामित्रोऽथ वाल्मीकः(कि?) काश्यपश्चाङ्गिरास्तथा ।
गौतमो गालवो गार्ग्यो वसिष्ठश्शौनकस्तथा ॥
देवताः शक्तयश्चैव ऋषयः कीर्तिताः क्रमात् ।
मोघादि यत्कर्म यत्नेन तु परीक्षयेत् ॥
एभिस्तु लक्षणैर्युक्तं पुस्तकं सङ्ग्रहेद्बुधः ।
भूर्जपत्रेण कुर्यात्तु मेरुपत्रमथापि वा ॥
अथवा तालपत्रं तु गृह्णीयात्तु विशेषतः ।
तथा चिन्त्यविश्वसादाख्ये -
स्वप्रमाणेन कर्तव्यं तालपत्रादिना भवेत् ।
ताम्रेण वाथ कर्तव्यं सुषिरद्वयसंयुतम् ॥
पत्रमानं चतुष्कृत्वा तत्पुनस्त्रिविधं भवेत् ।
चतुस्त्रिभागयेन्मध्ये मध्यं च सुषिरं भवेत् ॥
आयामं पञ्चधा कृत्वा तद्द्विभागेन वा भवेत् ।
त्रिभागेनैव भागेन कर्तव्यं युक्तिपूर्ववत् ॥
सन्ताने -
जातीं च क्रम(मुकं?) चा वापि उशीरं नालिकेरकम् ।
पत्रायां समा(यामसमं?) कृत्वा यावन्मात्रघनं भवेत् ॥
पार्श्वयोस्तु प्रयोक्तव्यं दर्पणोदरवत्कृतम् ।
जातिलिङ्गहरिश्यामे(मै?)श्चित्रयेल्लँक्षणान्वितम् ॥
कार्पाससूत्रं गृह्णीयाद्रज्जुं कृत्वा विशेषतः ।
सप्तविंशतिसूत्रैस्तु उत्तमा रज्जुरुच्यते ॥
अष्टादशे च सूत्रेण मध्यमा रज्जुरुच्यते ।
नवसूत्रेण संयुक्ता अधमा रज्जुरुच्यते ॥
अचिन्त्यविश्वसादाख्ये -
रज्जुप्रमाणं लेखिनी प्रमाणं च प्रदृश्यते त -
यवोदर प्रमाणेन रज्जुं कुर्याद्विशेषतः ।
षोडशाङ्गुलविस्तारं पीठिकाकृति मध्यमम् ॥
समं ह्रीलिनालस्य लक्षणं चोदयं भवेत् ।
तीक्ष्णेनैव च कर्तव्यं सुदृढं दोषवर्जनम् ॥
सुलुप्ययोस्तु नाराच सन्तारं समन्वितम् ।
सन्ताने च -
लेखने क्रमणं वक्ष्ये यथावदन(नु?)पूर्वशः ।
शुद्धासेन कर्तव्यं नाराचं तालमात्रकम् ॥
यद्वा -
चतुरङ्गुलि पत्रिस्याद्वयङ्गुलेन तु पीठकम् ।
षोडशाङ्गुलमालं स्यात् इत्येते(त?)ल्लेख्यलक्षणम् ॥
अथवा ऋषीणां चैव कुलिकाभिर्विशेषतः ॥
शिवज्ञान(ना?)सनं दीप्ततन्त्रे प्रदर्शितम् ।
तत्रासनाय दण्डस्य दैर्घ्यमष्टादशाङ्गुलम् ॥
द्व्यङ्गुलं च परीणाहं सर्ववृत्तं तु वाश्रकम् ।
सुवर्णैरजतैर्वापि ताम्रैर्वारकुटैरपि ॥
दण्डाग्रे मुकुलं कुर्यात्पद्मपत्रविचित्रितम् ।
पञ्चधा विभजेद्दण्डमेकांशं चोर्ध्वजस्यजेत्? ॥
तन्मानं विसृजेत्पादं त्रिभागैरज्जुमुण्डनम् ।
सुषिरद्वयसंयुक्तं द्वारैरज्जुविनिर्गमम् ॥
नानातन्तुसमायुक्तं नानाग्रन्थिसमायुतम् ।
एवं तत्रासनं प्रोक्तं युक्त्या शेषं तु कल्पयेत् ॥
शिवधर्मोत्तरे -
शरयन्त्रासनासीनं तन्मध्ये पूज्य पुस्तकम् ।
एवं लिख्ये द्वायवेद्वा कृत्वा पूजा दिने दिने ॥
चतुरश्रसमैः शृङ्गैर्नातिस्थूलैर्नवा कृशैः ।
सम्पूर्णावयवस्निग्धैर्नातिविक्षिप्त संहतैः ॥
मात्रानुसा(स्वा?)र संयोगह्रस्वदीर्घादिलक्षितैः ।
नन्दिनागरकैर्वर्णैर्लेखयेत्येव पुस्तकम् ॥
कामिके -
लिखेत्र लिखयावापि देशिकश्शिष्य एव वा ।
शुभवारक्षयोगादावारभेदेऽनुकूलके ॥
पशुना लेखयेनैतच्छिवज्ञानं प्रयत्नतः ।
नानादेशसमुद्भूतैरक्षरैः कान्तिसंयुतैः ॥
लेखये लेखयेद्रजुपसृत्यातं स्त्रीप्रान्तेन लेखयेत् ।
गन्धाद्यैश्शिवमभ्यर्च्य मातृकां शिवरूपिणीम् ॥
वस्त्राद्यैर्देशिकं चेष्ट्या पत्रिकामपि पूजयेत् ।
नाशुद्धं लेखयेद्विद्वान् यथालिखितपाठकैः ॥
शिवज्ञानस्य कालेन प्रणष्टस्य प्रमादतः ।
न्यूनातिरिक्तवर्णस्य लिखितस्य प्रमादिनः ।
प्रमादादधितस्य नाशिताल्पबुद्धितः ।
अल्पज्ञानसमोपेतैराचार्यैश्शोधितस्य च ॥
व्यर्थैः पदैरुपेतस्य पुनरुक्तं सुचार्थतः ।
पूर्वोत्तरविशुद्धस्य स्वसिद्धान्तविरोधिनम् ॥
छन्दसा दीपनष्टस्य शब्दार्थं निहिताय च ।
इत्येवमादिनिर्दोषैरुपे तस्य क्वचित्क्वचित् ॥
यः करोति पुमान्सम्यक् संस्कारं देशिकस्सुधीः ।
शिवतत्त्वार्थ विद्वान्यस्स विद्यापरमेश्वरः ।
एतज्ज्ञानमवलम्ब्य पञ्चप्रकारोऽपि ज्ञानयज्ञः प्रवर्तते ।
तथा -
शिवधर्मोत्तरे -
अध्ययन् व्याख्या श्रवणचिह्नम्? ।
इति पञ्चप्रकारोऽयं ज्ञानयज्ञः प्रकीर्तितः ॥
सर्वेषामपि यज्ञानां ज्ञानयज्ञो विमुक्तिःद्व(क्तिदः?) इति ॥
तत्र प्रथममर्थ जिज्ञासा साकले श्रवणम् शास्त्रार्थप्रवर्तकाले तकेकणचिन्तनम् अर्थनिश्चयानन्तरं निदिध्यासनम् एतत्त्रिषु सत्सु स?माप्तिकाले ज्ञानस्यति निष्ठाद्वदेत् ।
तदुक्तं तत्रैव -
आरम्भकाले श्रवणं क्रियाकालेऽपि चिन्तनम् ।
निश्चयोद्भावनं तस्य निष्ठा काले प्रसन्नता ॥
इति ॥
अथ व्याख्यानक्रमः -
अजीर्णादिदोषरहितो कुररुपलेपनादि पवित्रिते अदीक्षितश्रवणे वर्जिते भूतले तच्छोद(ध?)नक्र्त मध्यादात्मकपद्ध्येन्तरस्थं परमेश्वरं गुरुं गणेश्वरं चाभ्यर्च्य व्यामो?क्रियोपयोगी सूत्रादि पुस्तकं गुप्तसत्सूत्रं विधायोपरि कस्यचित्?
ब्रूयादङ्ग पुरस्त्वेति कृतामर्थं प्राङ्मुखः ।
प्रारभेत गुरुर्व्याख्यां सम्बन्धायोक्तपूर्वकम् ॥
स्रोताघृतुयादनु स्रोतोभेदात् सङ्ख्यानमेव च ।
प्रवृत्तये गुरुं स्वञ्च ते यस्यात्त प्रकीर्तनः ।
? स्रोतांसि कामिकादूर्ध्वं सिताङ्गादि प्रदक्षित ॥
?
सम्मोद्युत्तरं प्राच्यन्त्रोतालादि सुविस्तरम् ।
आप्यं चण्डाधिसारासिदि चण्डनाथ परिग्रहम् ।
शैवमन्त्रेश्वरं गाणं दिव्यमार्षं च गौह्यकम् ।
योगिनीसिद्धकौलं च स्रोतांस्यष्ट विदुर्बधः ॥
प्रतिश्रोतो यायिनिनातानि ब्रूयाद्विभागशः ।
मतङ्गे
पठेत्तु तदनुज्ञातश्शुचौ देशे शुचि स्थले ।
प्रच्छन्ने विजने रम्ये भावितेनान्तरात्मना ॥
समीपेन श्रयानां तु न कुर्याद्ध्यापनं? बुधः ।
तथा सर्वज्ञानोत्तरे -
विविक्ते निज(र्ज?)ने रम्ये पूज्ये विद्याधरं गुरुम् ।
जितेन्द्रियः शुचिस्नातः शिवज्ञानं श्रावये ॥
श्रोतव्यं च तथा भूतैस्तच्छस्तैस्तत्परायणैः ।
आदावन्ते च संयोज्यं गुरुं सद्भावनोवि(नान्वि?)तैः ।
तथा किरणे -
विधिवन्नम्य नः पश्चात्पठेद्वा शृणुयाम(द?)पि शिवशास्त्रमथान्यं वा सामान्यं सेश्वरं च येत् योगपीठं गुरोः कार्यं दैर्घ्यं षट्त्रिंशदङ्गुल चतुरङ्गुल विस्तीर्णं पत्रवली विचित्रितः ॥
हस्तमात्रो भवान्दाकं कृत्वा तद्गतकोणयोः ।
शन्त्रय कृताटोप बाह्ये पद्मत्रयोत्तलम् ॥
उन्च्लेअर्
याथावद्बुध्यते * * * * * * * * * * ।
? शिष्टोऽपि सम्मुखं * * *
शृणुयादेकचित्तो * * * * * * * * * ।
? प्रटव्य संशये ज्ञानेन *
प्रतिबन्धन्न वि * * * * * * * * * * ।
?
मृगेन्द्रे -
शैवानां कामिकं पूर्वमधोद्भवमचिन्त्यकम् ।
कारणज्ञानमचि(जि?)तं दीप्ताख्यं सूक्ष्मकं परम् ॥
सहस्रमंशुमान्सञ्ज्ञं सुप्रभेदे शशं विपुः(दु?) ।
रौद्राणां विजयं पूर्वं निश्श्वासं पारमेश्वरम् ॥
स्वायम्भुवं तथाग्नेयं वीरभद्रं सरौरवम् ।
मकुटं विमलाख्यं च चन्द्रभासाख्यमेव च ॥
मुखं बिम्बकमुद्गीतं ललितं सिद्धमित्यपि ।
सन्तानं नारसिंहं च परं किरणमेव च ॥
तदारभ्य चिरं नाति व्याकुर्यात्प्रथमेऽहनि ।
प्रारम्भोऽपित सम्प्राप्त प्रतिपन्नातिमात्रकम् ॥
त्रीणि मूलाहि(नि?) सूत्राणि द्वेतयैकमथापि वा ।
विधायोपरमेदूर्ध्वं वद(यावद्वि?)र्विघ्नैर्निरुध्यते ॥
यत्र बीज इवारूढो महामन्त्रार्थपादपः ।
आहा(भा?)ति मूलसूत्रं तदथशब्दाद्यलङ्कृतम् ॥
तस्याद्दे(दे?)शकमन्यत्? स्यात्सङ्ख्यासञ्ज्ञाति(दि?) वाचकम् ।
तल्लक्षणस्वरूपोक्तिस्तदन्यो भष्यसंरहः (भाष्य सङ्ग्रहः?) ॥
ब्रूते एवं धोयी तोता पुभौ हतकल्मषौ ।
लोके प्राप्य यशो दीप्तं विंशेतां धर्मशासनम् ॥
तदूर्ध्वदिनेषु अध्वाकनिराधार प्रमादितां सा क्षत्रधृक् व्यापक पालगालवपौरेयानुमिति पावकाम् ।
अपि चारयिनामकारमिष्व सुरक्षित शोभन सूत्र पूर्वोक्तपीठ न यन्त्रोपरि निधाय देशिकः स्वयं प्राम्भिमुखोवासिनः कृन्तार्थं कृष्या
सम्मुखमवस्थाप्यां(प्य?) भो-इत्यामन्त्र्य पठेत्यादिश्य संस्कृत प्राकृतादितत्तद्देशोचित भाषानुरूपैश्शिष्यानुरूपैर्वाक्यैः पर मदन्तरालदिव्यादिव्यरूप षट्प्रकार सम्बन्धाभिधेय प्रयोजनवर्णनपुरस्सरं व्याख्यामुपक्रम्य कामिकाद्यूर्ध्वे स्रोतोऽष्टं सिताङ्गानि दक्षिणस्रोतस्वमे माहात्युत्तर स्रौतालादिप्राच्य स्रोतश्चण्डापिधरादि पश्चिमस्रोतोरूपाणि पञ्चस्रोतांसि प्रतिस्रोतोऽष्टविधानि वै मन्त्रेश्वरगणादि व्याषगौह्ययोगिनी कालकाख्यानि अनुस्रोतं विवस्व गुरुक्रमं च शास्त्रप्रवृत्तिहेतुं वदेत् ।
तदुक्तं कामिके -
गोमयालिप्तभूभागे रङ्गरेखासमन्विते ।
प्रकीर्णपुष्पप्रकरैः सुधूपेन च धूपिते ॥
ज्वलद्दीप समोपेत शुद्धशैवसमावृते ।
न समीपे पशूनां तु न कुर्यादध्ययनं बुधः ॥
अध्यापयेच्छनैश्शिष्यान् शिवभक्तिं प्रबोधयेत् शिवविद्यानुसारेण विद्यादानं तदुच्यते ।
अत्र लौकिकशब्दैश्च यश्शिष्यमनुरूपतः ।
देशभाषाद्युपायैश्च तथा भूतागमैरपि ॥
प्रदेशवर्तिभिः सर्वदेशस्थं बोधयेद्बुधः ।
तथा मृगेन्द्रे -
व्याकुर्याच्छिव भक्तेभ्यस्तत्रार्थं गतमानसः ।
य तोन्यायवर्तिभ्यः पालयन्गुरुसन्ततिम् ॥
ना जीर्णाम्यरसोद्गारे न च विण्मुत्रबाधने ।
न च्छद्यान्नातिसारे च नास्नातः कृतमैथुनः ।
पूते महीतले स्थित्वा पशुश्रवणवर्जिते ॥
परित्यन्तस्थितिं चेष्ट्वा शिवं प्रणवविग्रहम् ।
गणाध्यक्षं गुरुं चैव कारकं च क्रियाश्रयम् ॥
पुस्तकं गुप्तसत्सूत्रं विधायोपरि कस्यचित् ।
ब्रूयादङ्ग पठस्त्वेति कृतार्थं प्रागुदङ्मुखः ॥
प्रारभेत गुरुर्व्याख्यामम्बरार्योक्तिपूर्वकम् ।
अत्र सम्बन्धलक्षणम् -
सिद्धान्तसारावल्याम् -
सम्बन्धाश्च परेणुनाथ शिवयोरनन्द सोमोमहान् सोमाद्देवगतोन्तरालविदितो दिव्यामनिष्वागमः ।
अन्यत्र पञ्चमप्रकार उक्तः ।
तद्यथा -
विरोमहास्तथा दिव्यो दिव्यादिव्यस्तथैव च ।
अदिव्यश्चेति पञ्चैते सम्बन्धाः परिकीर्तिताः ॥
अद्ध्वालङ्कादीं स्त्रयोदशविधाश्शिष्यान् सम्यक् परिज्ञाय तत्तद्बुद्धानुगुह्येन(ध्यानुगुण्येन?) अनध्यायदिनानि वर्जयित्वा बोधयेत् ।
तथा मतङ्गे -
अध्वालको निराधारः प्रमादी तमसोपरः ।
क्षत्रधृक्च्यावकश्चिव पालको गालवस्तथा ॥
पौरयो नुमनुश्चैव पावको पुश्च कीर्तिताः ।
विचारधीश्च विज्ञेयाश्शिष्यास्सन्ति त्रयोदश ॥
सर्वतन्त्रार्थमार्गेऽस्मिन्सम्प्रविश्यावगाहनः ।
ततश्चैतैश्च सम्बन्धात्(द्?) असम्बन्धिवचोक्तिषु ॥
प्रविश्यादालको योऽभिप्रोक्तस्सोध्वालकः शिशुः ।
गृहीतस्याप्यथार्थस्य स्थातुर्नास्तिमवमाश्रयः ॥
प्रोक्तोऽप्याधारदौर्बल्यान्निराधारो महामुनेः ।
नोत्सहेत त्वमालस्य श्रोतुश्चैव तु निश्चयात् ॥
प्रमादी सोच्यते तन्त्रे शिष्यः कारणचोचिते ।
प्रयत्नादपि युक्तस्स्रोतुर्निद्रावशस्सदा तिष्ठते ॥
पूर्णमानोऽपि स शिष्य स्तामसो मतः ।
आदावन्ते च निपुणो यो ज्ञात्वा शास्त्रमैश्वरम् ॥
ईश्छत्रमनुप्राप्य विधायोपरि कुर्वते ।
स ज्ञेयः क्षतदृक् शिष्यः पञ्चमं शिष्यसन्ततौ ॥
व्रतान्तवन्मनोऽन्यत्प्राक् प्रच्युतार्थं स्वतोऽन्यतः ।
प्र(पृ?)च्छेद्यश्चावकः प्रोक्तः शिष्यः श्रावकवर्त्मनि ॥
तूष्णीं नित्यं विजानोऽसौ न जानुन्नपि संशयम् ।
न पृच्छेत् स्वल्पमप्यर्थं पाति वागित्वमात्मनः ॥
स पालक इति प्रोक्त स्ववर्त्मपरिरक्षणात् ।
अवधार्य गुरोस्सम्यक् शास्त्रमाम्नायदर्शनात् ॥
न मदा किञ्चिदप्यस्माच्छ्रितं स्याद्गालवश्शिशुः ।
इतश्चेतश्च पुरतो व्याख्याकाले कृतोद्यमी ॥
उत्कृष्टवाक् सुसान्तैद्ध्यात् गुरोः पौरेयकस्तु सः ।
पृष्टौ वाप्यथवा पृष्टौ प्रच्छका चार्ययोरपि ॥
अजानन्नप्यथैवं स्याद् ब्रूयादनुमतस्सदा ।
यथोक्तं गुरुणा सर्वं सुविचार्याग्निवत्सदा ॥
ग्रसते ऋजुमार्गेण स शिष्यः पावको मतः ।
नि(नी?)यते येन मार्गेण यत्र यत्र विचारतः ॥
प्रयाति हृष्टवदनः सोम्बुरम्बुरिव स्मृतः ।
परिचर्यधिया सम्यक् गृह्णात्यर्थान्? यत्स्सदा ॥
विचारधीस्समुद्दिष्टः प्रवरः शिष्यसन्ततौ ।
एते शिष्याः समाख्याता गुरोरत्र महात्मनः ॥
मुमुक्षवस्सर्व एते शिवशास्त्रविशारदाः ।
येन येन प्रकारेण समर्थाश्चावधारितुम् ॥
व्याख्या कर्तव्य गुरुणा सदा यो पधारवितुं मुक्तः पदोक्तिविधिदर्शनात् ।
तस्य कृत्वा पदच्छेद समासश्चाप्यनन्तरम् ।
निकृष्टार्थो यथान्यायो वक्तव्यस्सुविचारतः ॥
पूर्वोत्तरपदार्थानां विरोधोक्ति न दर्शनात् ।
विशेषवस्तुनो यत्र कोटिद्वयपदक्रमात् ॥
दृश्यते ग्वत्र तेनार्थो वस्तुनास्साम्यतां व्रजेत् ।
तेन मार्गेण तद्देयं पदं सूत्रमथापि वा ॥
वाक्योक्तिदर्शनात् विद्धेर्वस्तुनो यत्र निर्णयः ।
न दृश्यते समीपस्थो वाक्येन मुनिपुङ्गवाः ॥
तत्रात्थितेन कर्तव्येध्येषणासु निश्चयः ।
षट्सहस्रिकायाम् -
विरुद्धं वाक्यासदिग्धं मदुक्तं विषमं समम् ।
शास्त्रं युक्त्या प्रकर्तव्यं न स्वाभिप्रायतो दिशेत् ॥
अपेतः कारकाणां तु प्रयोगे दृश्यते तदा ।
स्वाद्युद्देशस्तु कर्तव्यो विभक्तानां गुरूत्तमैः ॥
षष्ट्यर्थे सप्तमी योज्य सप्तम्यर्थे तु सा पुनः ।
अनेन क्रमयोगेन व्यभिचारं समाचरेत् ।
अर्थानुसारतो योज्याः कारकास्सप्त कर्मभिः ॥
श्रुतेनानुमतेनैव तथा प्याहारतस्सदा ।
व्याख्या कार्या प्रयत्नेन पदे वाक्ये पुरोहिताः ॥
इति ॥
सर्वज्ञानोत्तरे -
पौर्णमास्याममावास्या चतुर्दश्यष्टमीषु च ।
नाध्यापयेच्छिव ज्ञानग्रहणाय न सन्धिषु ॥
अत्र सन्धिस्सङ्क्रान्तिः ।
तथा मृगेन्द्रे -
नाध्यापयेच्चतुर्दश्यामष्टम्यां पक्षयोर्द्वयोः ।
प्रतिपत्पञ्चदश्योस्तु चतुर्दश्यामर्कसङ्क्रमे ॥
निघातोल्कमहीकम्पं पश्चाच्चापेषु वासनम्(र?) ।
सन्ध्यास्तनितदिगाहे परिवेषो बलेषु च ॥
नीहारप्रात् धनुर्व्योम पुरेष्वेते तद्दर्शनात् ।
निर्वघात अन्तरिक्षशब्दम् ।
उल्का दण्डाकारतेजोरूपा ।
महीकम्पो भूमिकम्पः ।
पश्चाच्चापो वारुण्यां दिशि धनुः ।
एतेष्वेकवासरोक्तोऽनध्यायः ।
कीलके च रवीन्दुस्थे त्र्यहं स्वहानुदर्शने ।
चन्द्रार्कबिम्बस्थाः कीलकाकृत्युत्पाताः
तद्दर्शने राहुदुष्टौ च त्र्यहमनध्यायः ।
पञ्चारात्रं हरिमुखे पवित्रे च मखद्विषः ।
हरिमुख इति इन्द्रोत् व हरिप्रबोधादौ व परमेश्वरपवित्रारोहणे च पञ्चाहम् ।
बिलालव्यालभेकेषु गतेष्विवान्तरतो दिनम् ।
व्यालत्रिभ(फ?)णिनित्र्यहं द्विफणिदर्शने द्वयहम् ॥
अन्तश्रवश्रुतौ दाहे शवगन्धे खरानिले ।
तद्विरामे विना ख्यात जनुमृत्यौ च वासरम् ॥
गुरौ मासं शिवीभूते भ्रातृशिष्यादिके त्र्यहम् ।
शैवराजनि सप्ताहं त्रिरात्रं पशुधर्मिणि ॥
षट्सहस्रे -
पूर्णा रिक्ताष्टमीभूतषष्ठी च प्रतिपद्द्वयम् ।
व्यतीपातेषु सङ्क्रान्तौ तिसृष्वष्टकलासु च ॥
सन्ध्यासमितनिधाते शूशान्ताहे विशेषतः ।
मृते मुनिजने सिद्धे मृते महति राजनि ॥
तारकोल्कानिपातौ च धूमकेतु निदर्शने ।
नीहारेति बलावाधौ तथाकालप्रवर्षणे ॥
कृकलासाख्य मण्डूकैर्मार्जारैस्त्वन्तराकृते ।
अनद्धं योगते सर्पे त्रिरात्रं दान पूजनम् ॥
मृतकुर्यस्यने युद्धे समीपे स्त्रीप्ररोदने ।
दृष्टे तथा नृपे क्रूरे कारिकाणां च दर्शने ॥
सुदूराङ्गगते चेष्टे गोष्ठे चैव नृपोत्सवे ।
गणिकारम्भगीते च वान्तश्रान्त्योस्तथान्तरे ।
अनध्यायोऽखिलो ज्ञेयो बोधव्यमर्चनद्वये ॥
इति ॥
मतङ्गे -
पञ्चदश्यामथाष्टम्यां चतुर्दश्यां च पर्वसु ।
महोत्सवेषु सर्वेषु सन्ध्यासु च महामुने ॥
पर्वसन्धिषु सर्वेषु नाध्येयं साधकात्मभिः ।
गुरुं विमानसं दृष्ट्वा भ्रातरं वाथ कुत्रचित् ॥
नाध्येयं भक्तियुक्तेन कारणज्ञानमुत्तमम् ।
पुण्यकालेषु नाध्येयं नाशोत्पन्नेषु सुव्रत ॥
आपत्सु शिवभक्तानां राज्ञां वा सुमहात्मनाम् ।
एषोस्याध्ययने कार्यस्साधकस्य मयोदितः ॥
मृगेन्द्रे -
अनध्या स्वतन्त्रोक्तविधिता शृणु ते मृषा ।
शैवं विदन्निहाल्पायुर्मृतप्रेतत्वमश्नुते ॥
इदं शिवज्ञानं पशुशास्त्रमिव वादिभिन्नि न्नयन्नि निनानीयम् ।
अशुद्धजन सहायान्नोदाहरणीयम् ।
भक्तिश्रद्धायुताय शक्तिपातपरिशुद्धाय शिष्यायैव दातव्यम् ।
तथा -
सर्वज्ञानोत्तरे -
न जल्पं शिवशास्त्राणां प्रकुर्वीत कदाचन ।
न चोदाहरणं कुर्यादशुद्धजनसंसदि ॥
यस्य देवे परा भक्तिर्नित्यं गुरौ च षण्मुख ।
नान्यशास्त्रे यथा शक्तिर्ज्ञानं तस्मिन्नियोजयेत् ॥
शिवधर्मोत्तरे -
असम्पूज्य शिवज्ञानं येऽधीयन्ति लिखन्ति वा ।
अन्यायतः प्रयछन्ति शृण्वन्त्युच्चारयन्ति च ॥
विमुडन्नि च लोभेन कुज्ञाननियमेन वा ।
असंस्कृत प्रदेशेषु यथेष्टं स्थापयन्ति च ॥
शिवज्ञानकथोपेक्षां कृत्वान्यत्र प्रभाषते ।
नाधीयते समर्थस्सन्यः प्रमोदं करोति च ॥
अशुचिश्चाशुचौ स्थाने यः प्रवृत्तिं शृणोति वा ।
इति ।
सर्वाङ्ग समासेन ज्ञानं निन्दासमं स्मृतम् ॥
रत्नत्रये -
सिद्धान्तः सेव्यते सद्भिश्शक्तिपातपवित्रितैः ।
सर्वज्ञानोत्तरे -
उत्तमं सर्वशास्त्राणां शिवशास्त्रार्थं गुह ।
गुहात्(ह्याद्?) गुह्यतरं गुह्यातव्यं प्रयत्नतः ॥
नाशिष्याय प्रदातव्यं नाभक्ताय न नास्तिके ।
न गुरुद्वेषिणे चैव नान्यशास्त्ररताय च ॥
कृत्स्ना नास्तिकक्रूरा सन्त्याः कलहप्रियाः ।
मया शाठ्य समोपेतं भुमन्त्रे तन्त्रहारिणः ।
पृच्छन्ति मधुरैर्वाक्यैरोषमुत्पाद्य वा पुनः ॥
तेषां न विश्वसेद्धीमान्यदिच्छेत्सिद्धिमात्मनः ।
तथा निश्वासकारिकायाम् -
प्रकटस्रोतमुज्ञानं? मद्भक्तानातु वरानने ।
रक्षणीयं प्रयत्नेन तस्करेभ्यो धनं यथा ॥
मतङ्गे -
समाप्तौ तु गुरोः पादौ प्रणम्य विरमेत्सुधीः ।
कृत्वा चैवाङ्गशुश्रूषा(षां?) पादौ सम्यक् समाप्यते ॥
एवं यः कुरुते व्याख्यां प्रसन्नवदनस्सदा ।
स गुरूत्ता?रयेच्छिष्यानस्मात्संसार सागरात् ॥
यश्चैवं शृणुयाद्भक्तः शिवार्पितमनाः सदा ।
स योग्यो गुरुसन्तानमार्गमत्र प्रलापितुम् ॥
शिवधर्मोत्तरे -
अधीत्य यश्शिवज्ञानं परित्यजति मूढधीः ।
सुरापानसमं ज्ञेयं तस्य पातकमुत्तमम् ॥
यः शृणोति शिवज्ञानं न्यायतः स्यात्प्रवृत्ति च तौ गच्छत शिवज्ञानं नरकं तद्विपर्यये ।
अपि श्यो(श्लो?)कं तदर्धं वा शिवज्ञानस्य यः पठेत् ॥
अन्येभ्यः श्रावकेभ्यश्च तस्य पुण्यफलं शृणु ।
त्रिपुदत्ता महीं पुण्यं सर्वरत्नैस्तु यत्फलम् ॥
श्लोकार्थमीश्वर ज्ञानात्पठंस्तत्फलमाप्नुयात् इति ।
शिवधर्मोत्तरे -
यावदक्षरसञ्ज्ञानं शिवज्ञानस्य पुस्तके ।
तावत्कल्पसहस्राणि दाता शिवपुरे वसेत् ॥
दश पूर्णान्समुद्धृत्य दश वश्याश्च पश्चिमान् ।
स्वर्गे स्थाप्य स्वयं गच्छेद् दिव्यं शिवपुरं महत् ।
मातापितृस्वसा पुत्र धर्मस(सु?)हृज्जनैः? ।
सान्तः पुरपरीवारसर्वभृत्यसमन्वितः ॥
दिव्यं शिवपुरं गच्छेद्विद्यादानप्रभावतः ।
यत् श्रीमत्पुस्तकवरमलेख्यं विनिवेदयेत् ।
शिवज्ञानाभियुक्ताय तस्य पुण्यफलं शृणु ॥
यावत्तत्रपत्रसङ्ख्यानं सञ्चयेऽतीव शोभने ।
तावद्युगसहस्राणि शिवलोके स पूज्यते ॥
यः पत्रमाद्यसूत्राद्यं मषीभाजिनलेखिनीम् ।
शरशन्त्रासनाद्यङ्गं शर्यां? तत्(द्?) भक्तवेतनम् ॥
इत्येवमादि यच्चान्यत्तदर्धमुपयुज्यते ।
यद्वा तद्वामहत्सूक्ष्मे विनाशेन तु तद्भवेत् ॥
तदेकमपि विद्याङ्गं श्रद्धावित्तानुसारतः ।
निवेद्य स महाभोगैश्शिवलोके महीयते ॥
सूतसंहितायामपि दर्शितः -
लेखनं शिवविद्यायाः प्रदानं पुस्तकस्य तु ।
शिवभक्तिरिति प्रोक्तं शिवशास्त्रविशारदैः ॥
शिवपुस्तकनिक्षेप स्नाननिर्माणमास्त(स्ति?)कैः ।
शिवभक्तिरिति प्रोक्ता शिवदृष्टविशारदैः ॥
उक्तं च पुण्डरीकपुरमाहात्म्ये -
शिवशास्त्रं विलिखितं(दं?) यः पत्राणि प्रयच्छति ।
द्विजाय शिवभक्ताय स मैवं लोकमाप्नुयात् ॥
शिवपुस्तकसूत्रं वा मषीं वा लेखिनीं तु वा ।
पुस्तकस्य तु रक्षां वा दत्त्वा शिवपुरं व्रजेत् ॥
शिवशास्त्रं त्वन्यदीयं रक्षित्वा राष्ट्रविप्लवे ।
यः प्रयच्छति पश्चात्स शिवसायुज्यमाप्नुयात् ॥
इत्यात्मार्थपूजापद्धत्यां
सिद्धान्तश्रवणविधिः ॥
श्रीशालीवाटीश्वरो रक्षतु ।
॥
माध्याह्निक पूजा विधिः ॥
अथ मध्याह्नसमये स्नानादिकं विधाय पूर्ववच्छिवं विस्तरेण पूजयेत् ।
अशक्तश्चेदष्टपुष्पिकया देवं सम्पूजयेत् ।
तथागमः -
मुहूर्तैः पञ्चभिर्यागैः कृत्वा मध्याह्निकविधिम् ।
षट्सहस्रे -
प्रातर्मध्याह्नसमये तथा चास्तमिते रवौ ।
पूजयेत्परया भक्त्या अष्टपुष्पविधानतः ॥
दरिद्राणामनाथानां बालस्त्रीबालिशेषु च ।
भोगिनां व्याधिजुष्टानां तथाध्ययननापतात्मनाम्? शिवशास्त्रानुरक्तानां नान्नासिद्धि? हितात्मनाम् ।
अनुरक्तविरक्तानां कथिताष्टपुष्पिका ।
अत्र क्रमः - आचम्य सकलीकृत्य अर्घ्याणि दत्त्वा देवमभिषिच्य पीठे विन्यस्य एकेन पुष्पेणासनं परेण मूर्तिं पञ्चभिः पुष्पैर्नेत्रं विना पञ्चाङ्गानि प्रकल्प्य मूलेन सम्पूज्य यथाशक्तिविशेषोपचारान् विदध्यात् ।
तत्रैव आसने प्रथमं पुष्पं दातयं शुद्धचेतसा मूर्तिदानं हृदा कार्यं पुष्पेणैवापरेण तु ॥
पञ्चपुष्पप्रदानेन पञ्चाङ्गानि प्रकल्पयेत् ।
शिवं तथाष्टमेनैव कथितं चाष्टपुष्पिका ॥
तथा आसनमूर्तिमूलाङ्गनेत्रहीनाष्ट पुष्पिका ।
एतानि चाष्टपुष्पाणि सर्वसाधारणानि तु ॥
सर्वसिद्धिप्रदानीह तथा सर्वाश्रमेषु च ।
यद्वा पूर्वार्चित पीठस्थं देवमष्टपुष्पिकया पूजयेत् ।
तथा क्रियाकाण्डे -
पूजयेत्परमेशानं कृत्वा स्नानादि पूर्ववत् ।
पूर्वार्चितेऽथवा देवे प्रदद्यादष्टपुष्पिकाम् ॥
अथवा प्रातः कालार्चिते देवे तत्काल सङ्ख्ययाष्टपुष्पिकया पूजां कृत्वा विसर्जनं कुर्यात् ॥
रामनाथ पद्धत्यां -
अशक्त प्रारसर्च्य सन्ध्यां माध्यन्दिनीमपि ।
अष्टपुष्पं तदेवार्च्चन्नपि कृत्वा विसर्जयेत् ॥
यथा कथं चित्कुतश्चिद्वैकल्पात्परार्चिते लिङ्गे नित्यविधिः किरियते तदानीमपि तुल्या निष्ठा नीचेत्सङ्क्षिप्तौ विधिः ।
कार्या नु न कदाचिदपि मिश्रो विधिः कर्तव्यः ।
उक्तं च -
अत्वरस्तनुलिङ्गादौ कुर्यान्नित्यं परार्चिते ।
तुल्यानिष्ठानि वा ।
पुष्पिका विधिं समापयेत् ।
क्रियाविद्भिः क्रिया कार्या सिद्धान्तोक्ता न चेतरा ।
यो मिश्रां शरु तन्त्राभ्यां क्रियां कुर्याद्विमूढधीः ॥
सुरापानसमं ज्ञेयं तस्य पातकमुक्तम् ।
इति ।
अथ साधारणलिङ्गपक्षे साधारणमन्त्रैरेवाअर्चनं कार्यम् ।
तथा -
प्रणवो मातृका मधा(या?) व्योमव्यापि षडक्षरैः ।
प्रासादो घोरमन्त्रश्च सप्तसाधारणा मताः ॥
एभिः सम्पूजयेद्विद्वान्सर्वसाधारणं शिवः ।
एवं माध्याह्निकविधिं निर्वृत्य भोजनं विदधीत ।
इति मध्याह्निकविधिं कृत्वा भुञ्जीत नान्यथा ।
तदनिवृत्तयोश्शनिस्वरं? सुरपूजितम् ॥
मन्त्रास्तन्नधिष्ठन्ति योगपीठव्यवस्थिताः ।
इत्यात्मार्थपूजापद्धत्यां -
माध्याह्निक पूजाविधिः
॥
भोजन विधिः ॥
[॥
सान्तानिक भिक्षा भोजनविधिह् ॥
]
अथ भोजन विधिः ।
सान्तानिकभिक्षाभोजनं भिक्षाभोजनमिति द्विविधम् ।
तत्रायं सान्तानिकभिक्षाभोजनविधिः ।
चिन्त्यविश्वसादाख्ये -
शिष्यादिः सन्ततिश्शैव सन्तानं तन्निवेदितम् ।
द्रव्यं यद्गुरवे सा च भिक्षा सान्तानिकि स्मृता ॥
तथा ज्ञानरत्नावल्याम् -
गुरुभिर्यः(भ्यो यत्?) क्रियादत्तं शिष्यैर्भक्त्याधृ(हृ?)तं धनम् ।
धान्यं ग्रामादिकावन्यैर्भक्तै श्शुद्धैर्द्विजादिभिः ॥
भक्त्या दत्तं सदा ग्राह्यं नेतरैर्मद्यपादिभिः ।
देवद्रव्यं गुरुद्रव्यमन्त्यजस्वं विसर्जयेत् ॥
आत्मार्थे पचते यस्तु ब्रह्महा सा च कथ्यते ।
देवाचार्याग्निकार्यार्थं तथाचातिथि पूजने ॥
पाकः प्रोडाश इत्युक्तं(क्तः?) स्वयं शुष्कैरये(थे?)न्धनैः ।
कीटमध्यादिनिर्मुक्तैः शुद्धे लिप्ते महानसे ॥
स्वयं पाकः प्रकर्तव्यः शुद्धैरन्यैश्च वा मतः ।
शिवधर्मोत्तरे -
शिवाय सर्वपाकाग्रं निवेद्याग्नौ च होमयेत् ।
कलयेच्च गुरोर्भागमित्ययं सततं विधिः ॥
शिवाग्निगुरुप्रेद्यस्सर्वपाकाग्रमन्वहम् ।
यो निवेद्यात्मना भुङ्क्ते स रुद्रो नात्र संशयः ॥
अनिवेद्य तु भुङ्क्ते यः स भुङ्क्ते किल्विषं नरः ।
कृष्यवार्धुष्य वाणिज्य क्रोधासत्यार्जनादिभिः ॥
प्रासां? पापानि वर्धन्ते सूनादोषैश्च पञ्चभिः ।
सम्मार्जनाञ्जनं तोयमग्निमन्थनपेषणे ॥
सूना पञ्च गृहस्थानां नित्यं पापानि वृद्धये ।
शिवाग्निगुरुपूजाभिः पापैरेतैर्न लिप्यते ॥
अतश्च पातकैर्घोरैस्तस्मात्पूजयेत्त्रयम् ।
शिवाग्निगुरुदेवेभ्यो यावत्सित्ताभिसङ्ख्यया ॥
तावद्वर्षसहस्राणि दाता शिवपुरे वसेत् ।
शिवधर्मे -
देवाग्न्यतिथिभैक्षार्थं पचेन्नैवात्मकारणम् ।
आत्मार्थं यः पचेन्मोहान्नरकार्थं स जीवति ॥
देवार्थं पचनं येषां सन्तानार्थं च मैथुनम् ।
स्वर्गार्थं जीवितं तेषां नरकार्थं विपर्यये ॥
ज्ञनरत्नावल्याम् -
सिद्धे पाके गृहे लिप्ते पाके नीते शुचिर्गुरुः ।
कृतन्यासो घटैस्तोयैः पाकमभ्युक्षयेत्क्रमात् ॥
तत्पाकाग्रं समुद्धृत्य शिवायार्धं निवेदयेत् ।
शेषार्धेन ततो गत्वा तां च चुल्लीं विशोध्य च ॥
तत्र ज्ञानानलं कृत्वा हृदा सम्पूज्य तत्र च ।
क्रियाकाण्डे तु - अन्याचुल्लिकाहोम -
विधानायोपक्रमः ।
अत्र क्रमः -
विशोध्य विधिना वह्नि चुल्यं तद्वह्नि पूरकाहृतम्? ।
कृत्वाद्यग्निना? चैक्यं ततो रेचकवायुना ॥
वह्निबीजं समादाय कातिस्थानमतिक्रमात् ।
शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्निं निवेशयेत् ॥
तदधिष्ठातृ सद्योजाताद्युद्भाव -
कारादिस्थान त्यागक्रमादित्यर्थः ।
ब्रह्मशम्भुपादे च -
तद्बीजेन क्रमात्सद्यवामघोरनरेश्वरान् ।
इत्यादि वेशयेद्भूयः शिवाग्निरथ चुल्लिक ॥
इति ॥
ॐ हाम् अग्नये नमः ।
ॐ हां सोमाय नमः ।
ॐ हां सूर्याय नमः ।
ॐ हां बृहस्पतये नमः ।
ॐ हां प्रजापतये नमः ।
ॐ हां सर्वेभ्यो देवेभ्यो नमः ।
ॐ हाम् अग्नये स्विष्टकृते नमः ।
इत्यादि पूजान्तं सम्पूज्य स्वाहान्तैरेभिराहुतीर्दत्त्वा क्षमयित्वा विसर्जयेत् ॥
ततः ॐ हां धर्माय नमः ।
इति चुल्ल्या दक्षिणबाहौ ।
ॐ हाम् अधर्माय नमः इति वामबाहौ ।
ॐ हां सरयपरिवर्ताय नमः इति काञ्चन्यादि सन्धान भाण्षेषु ।
ॐ हां जलाश्रिताय वरुणाय नमः इति जलभाण्डेषु ।
ॐ हां महाविघ्नराजाय नमः ॐ हां सरस्वत्यै नमः ।
ॐ हां महालक्ष्म्यै नमः इति द्वारशाखाय(यां?) तङ्गृह(तद्गृह?) प्रधानद्वारे ऊर्ध्वोदुम्बरे ।
ॐ हां सुभि(भ?)गे नमः इति पेषिण्याम् ।
इति [अत्र ग्रन्थपात इव भाति] ।
रौद्रकोट्टगिरिके नमः इति व्यूलत्रखेले(उलूखलै?) ।
ॐ हां बलभद्रप्रियाय प्रहरणाय नमः इति मुसले ।
ॐ हां मृत्यवे
देवचोदिताय नमः इति सम्मार्जन्याम् ।
ॐ हां कूमा(र्मा?)युधाय नमः इति शयनीयशिरसि ।
ॐ हां स्कन्दाय नमः गृहाधिपतये नमः इति गृहमध्यस्तम्भस्य(स्या?)धस्तात् इति वास्तुबलिं विदधीत ।
तथा -
धर्माधर्मशरीरं च चुल्लीं संस्थानभाण्डकम् ।
तोय कुम्भं तथा यन्त्रीमिलामुसलसंयुतम् ॥
उलूखं(उलूखलं?) च मार्जनीयुक्त(क्तं?) पेक्षिणी (षिणीं?) भजिनीं तथा ।
गृहप्रधानद्वारे तु विघ्नेशं च सरस्वतीम् ॥
लक्ष्मीं च द्वारशाखायां द्वारमध्ये महेश्वरम् ।
द्वारयोर्दुम्बरे शक्तिमयारा?ख्यं गृहस्य च ॥
मध्यस्तम्भादधः स्कन्दं तदधो वास्तुनायकम् ।
कामं स्वशयनाग्रे तु खङ्गे खङ्गं तथासनम् ।
यानस्य वाहनं चैव कुमारी दीपवज्वलम् ।
गन्धपुष्पाक्षतं तोयधूपदीपान्नकादिभिः ॥
पूजयन्त्याश्रमस्थाश्च सर्वसम्पत्कराय च ।
इति ॥
अथ धौतपादः समाचम्य कृतन्यासो गोमयालेपनं शुद्धं पिष्टचूर्णालङ्कृतं सवितानं सदीपं भोजनस्थानं प्रविश्याचार्घ्यादयः यथाक्रमं चतुस्त्रिद्ये(द्व्ये?)करेखाङ्कित यथोक्त प्रमाणपीठ स्थितः स्वस्वपुरोभागे हस्तमानकल्पित चतुरश्रमण्डलेषु भस्मकृत चतुस्त्रिद्व्येकरेखा परिषडा? प्रागक्षण पश्चिमोत्तरास्यास्सर्वे
प्रागननाया? देशिकादयः पङ्क्तिपावकैः सवर्णैरेकपङ्क्त्युपविष्टा यथा सम्भवं कनकरौप्यताम्रलोहपात्रेषु सप्तधा भसित शोधिताघोराभिमन्त्रितकांस्य पात्रेषु? वा निषेधरहितरम्भादिपात्रेषु वा जानुमध्यकरवन्धवीरासना वा वर्जित भोजनानुपयोगिवात्ता(र्ता?) भुञ्जीरन् ।
ज्ञानरत्नावल्याम् -
धौतपादः समाचम्य कृतन्यासस्समाहितः ।
स्थानमासाद्य पूर्वोक्तं भोजनार्थमुपक्रमेत् ॥
षट्सहस्रे -
केशानां धारणं शस्तमनं वा? यथेच्छया ।
जटाधरस्तु तयो भस्माङ्कित शरिरिणाम्? ॥
जटानां वेष्टनं कुर्यात् शिरोमुण्डं न वेष्टयेत् ।
सुप्रभेदे -
तत्स्थान गोमयालिप्तं शुद्धं कृत्वा विशेषतः ।
पिष्टचूर्णैरलङ्कृत्य सवितान समीपकम् ॥
अंशुमति -
गोमयालेपनं कृत्वा चतुरश्रसमन्वितम् ।
आसनं चैव विन्यस्य सापिधानं सदीपकम् ॥
किरणे -
भोक्तव्यं चोदितस्थाने कृतपीठेन(तु?) मन्दिरे ।
पीठं तद्देशिकानां तु कर्तव्यं लक्षणान्वितम् ॥
सट्त्रिंशदङ्गुलं पीठं गुरोर्वा त्रिंशदङ्गुलम् ।
साधकस्याङ्गुलान्यष्टौ पुत्रकस्य तु विंशति ॥
कर्तव्यं सम्मयाहस्य चतुर्विंशत्तदङ्गुलम् ।
चतुस्त्रिद्व्येकरेखां गुर्वादिसमयान्तकम् ॥
बाह्यं वक्त्रमनाकुर्या समुखं योगपीठवत् ।
षट्सहस्रे -
हस्तमात्रं तु वेदाश्रं चतु(तू?)रेखां तु मण्डलम् ।
आचार्यस्य तु कर्तव्यं भोजनार्थे तु नित्यशः ॥
एकैकरेखया हीनं साधकादिषु कीर्तितम् ।
क्रियाकाण्डे -
अग्रे परिष्कृतिं कृत्वा परितो भस्मरेखया ।
गुरुः पूर्वमुखः स्थित्वा पुत्रकः पश्चिमाननः ॥
साधको दक्षिणावक्त्रः समयी चोत्तराननः ।
ज्ञानरत्नावल्याम् -
साधकस्सौम्यवक्त्रस्स्याच्छेषाः प्रत्यङ्मुखस्थिताः ।
एषामेकतमो वापि नाश्नीयाद्दक्षिणामुखः ॥
प्रमादाद्यदि भुङ्क्तेऽसौ व्याधिभिः परिपीड्यते ।
कामिके -
यो वेष्टितशिरोभुङ्क्ते यश्च वै दक्षिणामुखः ।
सो तल्पायोश्च? भुङ्क्ते त चै राक्षसभुञ्जित ॥
इति ॥
क्रियाकाण्डे -
शिवभक्तैस्सदाचारैश्शुद्धैश्शैवैस्तपोधनैः ।
परस्परमसङ्कीर्णैः समुत्कृष्टैरनालुलैः ॥
शुद्धाद्याय? समुद्भूतैर्विनीतैर्गुरुवत्सलैः ।
सुवर्णैरेकया पङ्क्त्या भुञ्जीतान्तर्मना मुनिः ।
किरणे
भो(भा?)जनं यद्गुरोर्हेमं रौप्यं स्यात्साधकस्य तु ।
ताम्रकं पुत्रकस्योक्तं लोहजं समयिना ॥
अभावात्ताम्रमेवं वा कांस्यं वा न हि दापयेत् ।
अभावात्कांस्यजं प्रोक्तं घोरजप्तं तु तत्समम् ॥
क्रियाकाण्डे -
चतुर्दिगाननो मौनी पात्राभावे तु ताम्रजे ।
साधारणेऽथवा कांस्ये सप्तधा भस्मशोधिते ॥
ज्ञानरत्नावल्यां -
रम्भा पद्मपलाशाम्रमधूकैः पनसैर्दलैः ।
कुम्भिचम्पकपुन्नाग कुटजादिसमुत्कटैः(द्गतै?) ॥
एवमादिभिरन्यैश्च प्रसिद्धैरेकजातिषु ।
अश्वत्थे (भैरण्ड मल्लात?) न्यग्रोधार्कविही(भी?)तकैः ।
शाकोदुम्बरसर्जाद्यैर्नस्याद्भोजनभाजनम् ॥
किरणे -
एरण्डाश्वत्थतुम्बर्क वटाश्वत्थ प्लक्षकेतक पूर्णेषु न भुञ्जीयात् ।
कदाचिञ्च भूमौ शस्तं हि भोजनम् ।
जानुमध्येकरो वाथ वद्धवीरासनोऽथवा ।
किरणे -
मौनमस्थाय भोक्तव्यं साधकादित्रयेण तु ।
भोक्तव्यं प्रभुणा यद्वादाचार्येण यथेच्छया ॥
अत्र वीरासनलक्षणम् -
सुप्रभेदे -
द्विभुजपतितं वामं पादं तद्दक्षिणोपरि ।
स्थितं वीरासनं प्रोक्तं भुक्तिकाले विशेषतः ॥
ततः पात्रं प्रक्षाल्य घृतेनोपरिस्तीर्य शुद्धान्नेनापूर्य सव्यञ्जनमन्नमस्त्रेण प्रोक्स्य ॐ जुं सः मृत्युञ्जाय वौषडिति सप्तधाभिमन्त्र्याम्भसा नामकेनास्त्रेण प्रोक्ष्य कवचेनाभ्युक्ष्य सव्यभागे गोमयालिप्तमण्डले ग्रासार्धमात्रेणान्नेन नागादिभ्यो बलिं नागः कूर्मश्चक्रकरो देवदत्तो धनञ्जयेभ्यः उपप्राणवायुभ्यः स्वाहेति दत्त्वा सव्यहस्तकनिष्ठिकाचुलिकायो(धो?)गलितं(त?)जलेन निवेद्य
माषमग्नं शिष्टजलमोहमृ?तोपस्तरणमसि स्वाहेति निश्शब्देन प्राश्य ततः प्राणाग्निहोत्रं विदध्यात् ।
तद्यथा - ॐ हां प्राणाय स्वाहा ।
ॐ हाम् अपानाय स्वाहा ।
ॐ हां व्यानाय स्वाहा ।
ॐ हाम् उदानाय स्वाहा ।
ॐ हां समानाय स्वाहा ।
इत्यङ्गुष्ठ मध्यमानामिकाग्रेण? वामकरगृहीतपात्रस्सन् प्राणादीन् सन्तर्प्य शेषान्नमुदराग्निस्थित शिवाग्नौ मूलेन जुहुयात् ।
ज्ञानरत्नावल्याम् -
घोरेन सप्तधा जप्ते ध्यात्वा मृत्युञ्जयामृतम् ।
तत्राभिसाध्यभक्तादिः प्रोक्ष्य मृत्युञ्जयादिभिः ॥
नेतत्सप्तधालभ्य पानीयं च प्ररोचयेत् ।
कामिके -
ॐ जुं सः इति मन्त्रोऽयं देवमृत्युञ्जया भवम् ।
एव एवामृते यस्यादादौ तु कुटयुतं त्वधा ॥
भोजनं चाथ कर्तव्यं त्र्यक्षीरेणामृतीकृतम् ।
तेनामृतं भवत्याशु खादितं मृत्युजिद्भवेत् ॥
अमृतेशेन देवेन जलं सङ्गृह्य यत्नतः ।
शतजप्तः पिबेत्तोयममृती भवति ध्रुवम् ॥
इति तथा अंशुमति -
पात्रप्रक्षालनं कृत्वा तन्मध्ये स्रावयेद्धृतम् ।
शुद्धानं पूरयित्वा तु घृतन्तू?रभिधार्य च ॥
व्यञ्जनेन समायुक्तं तदन्नं परिषिच्य च ।
आत्मनः सव्यभागे तु गोमयं(यालि?)लिप्तमण्डले ॥
भूमौ ग्रासार्ध मात्रं तु नागादिभ्यो बलिं क्षिपेत् ।
चुलुकोदकं स्रवेद्धीमान्नागादिभ्यो निवेदयेत् ॥
परिषेचनं ततः कृत्वा अन्नं प्राणेन संस्पृशेत् ।
अमृतोपस्तथा चैव एवमापोशनं ततः ॥
तथात्मनि स्थितोऽपाने संस्थिता भूतयोनवः(य?) ।
उदाने संस्थिता देव(वाः?) समाने पितरः स्थिताः ॥
व्यानेन संस्थिता नागास्तथा पातालवासिनः ।
अङ्गुष्ठमध्यमान्ताग्रैर्दक्षहस्तस्रवाग्रकैः ॥
आस्य कुण्डान्तरस्थाग्नेर्ज्वालामध्ये व्यवस्थितान् ।
एकैकाहुतिभिर्दन्ता न स्पृशन्त(शंस्त?)र्पयेदिमान् ॥
घृतव्यञ्जनसम्मिश्रशेषमीशाय होमयेत् ।
प्राणाग्निहोत्रमित्युक्तमग्निहोत्रशताधिकम् ॥
पात्रं च वामहस्तेन स्पर्शयेत्तु विशेषतः ।
मनस्तृप्त्यवसानं तु यावद्भुञ्जीत वाग्यतः ॥
सुप्रभेदे -
पञ्चप्राणाहुतिं हुत्वा प्राणमन्त्रैस्तु पञ्चभिः ।
तत्पात्रं(त्रस्य?) स्पर्शनं कृत्वा पश्चाद्भुञ्जीत बुद्धिमान् ॥
सर्वज्ञानोत्तरे -
ततः प्राणाहुतिं दत्त्वा शिवहोमं पुनः क्रमात् ।
अस्य प्राणाग्निहोत्रयजमान पत्नी वेदीपरिस्तरणरूपकानि सुप्रभेदे
प्रतिपादितानि ।
तद्यथा -
आत्मा तु भि? यजमानोऽसौ बुद्धिस्तत्पत्निका स्मृताः ।
हृत्पुण्डरीकवेयां च अन्तस्थाग्नौ सुपूजयेत् ॥
रोमदर्भान्परिस्तीर्य ओङ्कारश्शि(रंशि?)वसंयुतम् ।
उच्चार्य परिषिच्याथ पात्रमभ्युक्ष्य मन्त्रवत् ॥
अमृतोपेतिमन्त्रेण चुलुकेन जलं पिबेत् ।
तीक् प्राणाग्निहोत्रेत्वा अग्रञ्जन शाकादिलशुनच्छत्रकादीनि शास्त्रान्तरनिषिद्धानि विवर्जयेत् ।
भुञ्जानो लवणाज्येन तदीत परहस्तेन नाशनि(श्नी?)यात् ।
पीतशेषं न पिबेत् ।
मक्षिकादिदूषितैरणुष्ठांशमुद्धृत्य शेषमम्बुनाभ्युक्ष्य भस्मना घृतेन घृते वापि ।
सुशोध्य भुञ्जीत ।
तदानीमसच्छूद्रश्वानरजस्वलादीन् नावलोकयेत् ।
तद्वाक्यं न कुर्यात् ।
स्वनं च न शृणुयात् ।
प्रमादादवलोकिते? भुक्तमुद्गीर्य जलेऽवगाहयेत् ।
अर्धोच्छिष्टे दर्शने स्नानमेव कुर्यात् ।
तद्वाक्यश्रवणे वत्तृस्त(वक्त्रस्थं?) वि? ज्या (विसृज्या?)चामेत् ।
परिमितं सुस्निग्धमन्नं निश्शब्दं सव्यपाणिना भुञ्जीत ।
तथा किरणे -
त्यक्त्वाग्रजना? शाका लशुनच्छत्रकादिकम् ।
मत्स्यमांसादिकं चैव भोज्यायश्च * * * * त्? ॥
ज्ञानरत्नावल्याम् -
तथाशिग्रफलं म * लशुनं कावकामिषम् ।
गञ्जनं मधु मत्स्यं वा प्रत्यक्षलवणं न च ॥
रवकच्छत्राकमिश्रं च रक्तनालं फलण्डु(पलाण्डु?) च ।
लशु * * * श्वे * * * क्षाद्रं तथैव च ।
उच्छिष्टोपरि नादद्यादाज्यं सामुद्रकं तथा ॥
नाद्यात्पर्युषितं तैलपक्वं विनापरम् ।
पानीयं न तु पानीयक्षालितेन तु पाणिना ॥
पात्रे क्षि तोयं * * * * * * * तद्विवृताननः परहस्तेन नाश्नीयात्पीतशेषजलं न तु ।
जृम्भकासन्न वैजल्पच्छिन्द *
मत्स्यकण्टक चम्बूक नखकेशकपर्दकैः ।
प्रमादान्मक्षिकाद्यैश्च दृष्टेतग्रद्विमुद्धरेत् ॥
शेषं भस्माम्बुनाभ्युक्ष्य शोध्याक्षालितपाणिना ।
असच्छूद्रान्त्यजश्वानपुष्पस्त्रीखरसूकरान् ॥
चण्डालचर्मकारादींस्तदा नैवावलोकयेत् ।
तद्वाक्यश्रवणं नेष्टम् ।
तथा तत्तुर्यजातिध्वनि प्रमादादवलोकश्चेद्वात्वातो तोयेऽवगाहयेत् ।
अर्धोच्छिष्टे यदा पश्येत्स्नानमेव तदा मतम् ।
श्रुत्वा तद्वाक्यमास्यस्थं त्यक्त्वा चाचममाचरेत् ॥
आदायेयैवमाद्यं च वर्जयन्समुपस्थितः ।
स्वल्पं स्वस्निग्धं मायान्निश्शब्दस्सह पाणिन् ॥
शिवधर्मोत्तरे -
मक्षिकाकेशसंस्पृष्टं पादातोपहतं च यत् ।
रजः पिपीलिकायुक्तं भुञ्जानेन्नमवक्षतः ॥
सरीसृपाणि सर्वाणि अन्ने मक्षिकमत्कुणाः ।
पूयुकाम्र उदंशाश्च शेषाच्छुध्यन्तभस्मिनः ॥
दधि क्षीरं घृतं चैव तैलं मधु गुलं तथा ।
नालिकेरं च सलिलमुदकं चैव षदंशकः? ॥
केशादिभिश्च दुष्टं हि आभ्योन्नं तम्मयं च तत्? ।
तावन्मात्रं समुद्धृत्य भस्मक्षेपेण शुध्यति ॥
शिवधर्मे -
गर्भादिकर्मसंस्कारे श्मशाने नैव भोजनम् ।
रजस्वलादिसंस्पृष्टं शिवभक्तो विसर्जयेत् ॥
मतङ्गे -
गर्भाधानादि चूडान्त संस्कारेधे प्रकीर्तितम् ।
संस्कारात्तेषु विप्रेन्द्र न भोक्तव्यं कदाचन ॥
ज्ञानरत्नावल्यां -
सिद्धे पाक इति ।
किरणे -
तच्चकार्यं यथा भावात्परोच्छिष्टं विसर्जयेत् ॥
षट्सहस्रे -
परोच्छिष्टं न भुञ्जीत भार्तृदत्तेन दोषभाक् ।
कालोत्तरे -
गुरून्न भोजयित्वा तु स्वयमेव तु भोजनम् ।
तद्भोजनसमस्तं हि विष्ठामेवं तु भोजनम् ॥
सद्यः पतति सेनानिरेके चैव तु गच्छतु ।
तस्मात् सर्वप्रयत्नेन गुरुभोज्यं तताश्नुते ॥
गुरोस्तु शेषममृतं शास्त्रज्ञैस्समुदीरितम् ।
परोक्षे निवेद्य भुञ्जीयाच्चतुराश्रमसंस्थितैः ॥
एवं भुक्त्वा किञ्चिदुच्छिष्टान्नमादाय प्रेतनरकवासिभ्यः स्वाहेति भूमौ निवेद्य प्रक्षालितं हस्तेन चूलुकं
गृहीत्वा ॐ हाम् अमृतापिधानमसि स्वाहेति प्राश्य तच्छेषजलं कनिष्ठाङ्गुलिना ग्राह्य कुल्यस्थचूर्णादिभिर्हस्तादिकं विशोध्य पादौ प्रक्षाल्य तच्छिष्टजलं विहायान्यजलेनाचम्य भुक्तदोषविशुद्ध्यर्थं ॐ हां कालाग्निरुद्राय स्वाहेति दक्षिणकराङ्गुष्ठाग्रप्रसृतजलेन दक्षिणपादाङ्गुष्ठाग्रस्थकालाग्निरुद्रमभिषिच्य भस्मना स्नात्वा सकलीकृत्य परिघामुद्रां बध्वा नाभि वामदेवेन नधावत्त्य(नवधावर्त्य?) घोरं सप्तधा जप्त्वा मौनं विसृज्य ताम्बूलादिना मुखं शोधयेत् ।
तथा प्रेतनरकवासिभ्यः
स्वाहेत्युच्चार्य कमन्त्रकं? भूमौ क्षिप्त्वाल्पमुच्छिष्टं सम्प्रक्षालितपाणिना
अंशुमति -
आपोशनाभिधानं च तच्छिष्टं भूगतं सृजेत् ।
आस्यं च जलपात्रं च भृङ्कारकजलैर्युतम् ॥
हस्तप्रक्षालनं कृत्वा आस्यमार्जनमेव च ।
कुलिस्थचूर्णसम्मिश्रम् अथवा मुद्गचूर्णकम् ॥
पादप्रक्षालनं कृत्वा तच्छेषं वर्जयेज्जलम् ॥
पुनर्जलं च सङ्गृह्य आचम्य विधिना बुधः ।
यावदश्नाति पिण्डानि तावत्पापेन लिप्यते ॥
अल्पमेव ततोऽश्नीयात्प्राणरक्षणमात्रकम् ।
तत्पापस्य विशुद्ध्यर्थं दक्षपादनखाग्रके ॥
कालाग्निरुद्र हृन्मन्त्री सव्याङ्गुष्ठेन सेचयेत् ।
चुलुकोदकमेतत्स्यात् स्वात्मनः पादमूलतः ॥
आरोप्य वामहस्तस्य कनिष्ठान्नाभिमण्डले ।
सामवेद्द?क्षहस्तस्य वामाङ्गुष्ठेन योजयेत् ॥
विततौ च करौ कृत्वा दक्षाङ्गुष्ठे न्यसेन्मुखे ।
परिघेयं समाख्यता दुष्टाहार विनाशिनी ॥
प्राणाग्निहोत्रमित्येवं नित्यमेवमुदाहृतम् ।
शिवमन्त्रमनुस्मृत्य हृदा वामेन संस्पृशेत् ॥
अन्यगृह भोजनेन्न्यस्याहृत? शिवगायत्रीजपपूर्वं भुञ्जीत ।
धर्मसङ्कीर्तनं चैव पुराणश्रवणं ततः ।
यद्वा -
वामपादाङ्गुष्ठाग्र जलेन ॐ आत्मतत्त्वाय नम इति सेचयेत् ॥
किरणे -
भुक्त्वैवं वामपादस्थम् अङ्गुष्ठं वारिणा प्लवेत् ।
दक्षहस्तसमुर्त्थे?नाङ्गुष्ठेनाधोमुखेन तु ॥
सेचयेदात्मतत्त्वं तु प्रणवादि नमोऽन्तकम् ।
भद्र?वाले तु एकहस्तेन मुद्राबन्धविधानाच्च दक्षिणेनैकहस्तेन परिघां बध्नीयादिति केचित् ।
अथोद्धूल्य कृतन्यासो गुरुदेवं प्रणम्य च ।
अघोरं सप्तधा जप्त्वा मौनं पश्चाद्विसर्जयेत् ॥
इति ॥
इत्यात्मार्थपूजापद्धत्यां
सान्तानिकभिक्षा भोजनविधिः
भिक्षा भोजनविधिः
अथ नैष्ठिकसाधकादि वृत्त्यर्थं भिक्षाटनं कुर्यात् ।
तत्र तावत्(द्?) भैक्षं चतुर्विधम् ।
सान्तानिकम् अयाचितम् स्वयं भक्तं(दत्तं?) माधूकरमिति ।
तदुक्तम् पौष्करे -
भैक्षं चतुर्विधं प्रोक्तं साधकानां महात्मनाम् ।
माधूकरं स्वयन्दत्तं सान्तानिक मयाचितम् ॥
तत्र सान्तानिकभिक्षास्वरूपं पूर्वमुत्तमम्(क्तम्?) ।
अयाचित स्वयन्दत्त स्वरूपम्
चिन्त्यविश्व सादाख्ये -
प्रदर्शितम् अयाचितं तु शुद्धान्नमादरेण समन्वितम् ।
अन्नादिभूमिपर्यन्तं सा भिक्षास्यादयाचितम् ॥
किरातनटकैवर्तगोपालपुरुषादिभिः ।
पतितैश्चादि(भि?) शस्तैश्च त्यजेद्दत्तमयाचितम् ॥
भिक्षायै सम्प्रविष्टाय भ्रमते स्वयमेव वा ।
उपनीता स्वयं दत्ता भिक्षा निष्परिग्रहा ॥
पौष्करे -
स्वयं दत्तं साधकस्य भैक्षं पात्रस्य पूरणम् ।
गृहाद्गृहं पर्यतोसि भैक्षं माधूकरं स्मृतम् ॥
अचिन्त्यविश्वसादाख्ये -
यथमध्वाददानोऽपि भृङ्गं पुष्पं न बाधते ।
तद्वद्भिक्षां क्षमी भूत्वा चाददीत गृहाधिपात् ॥
एतल्लक्षणसंयुक्तं युक्तम् उपवासस्सदामतम् ।
सदोपवासश्रेष्ठं हि भिक्षान्नं नन्दिकेश्वर ॥
भिक्षाविधौ विशेषेण माधूकरमनुत्तमम् ।
चातुर्वर्णं चरेद्भैक्षमभिशस्तं विवर्जयेत् ॥
एकान्नं नैव भुञ्जीत बृहस्पतिकुलादपि ।
प्रार्थनाभ्युपरोधाद्वा भिक्षा कार्या न दोषकृत् ॥
अज्ञानिना गृहे वापि शुद्धा माधूकरा स्मृता ।
इति ॥
इयं माधूकरी द्विविधा कणभिक्षा चान्नभिक्षा चेति ।
तत्र कण? भिक्षा नाम तण्डुल भिक्षा ।
सा बुगुक्षमुविषया(बुभुक्षुमुमुक्षविषया?) पूर्वाह्न एव कार्या ।
द्वितीया तु मुमुक्षुविषया ।
प्रत्यकस्थे दिवाकरे कार्या ।
तत्र ताम्रलोहजब्रह्मवृक्षादिपत्रजानि
बुबुक्षुभिक्षापात्राणि ।
तुम्बकादीनि मुमुक्षु मुमुक्षुपात्राणि ।
तानि -
द्वादशाङ्गुल विस्ताराण्यष्टाङ्गुलोच्छ्रयाणि च ।
कर्तव्यं प्रत्यहं त्या(प्रो?)क्ष्यमौनाद्भिक्षाटनं परम् ॥
भ्रात्या(न्त्या?) पादेन तत्तावद्भिक्षा सास्मिन्निगम्य(द्य?)ते ।
कणभिक्षाथवाकार्या बहु देशिका न वा? ॥
तदा पाकः स्वयं कार्यां त्रिधा वा शुद्धाया यदि ।
सर्वज्ञानोत्तरे -
यदा तु वित्तसम्पन्नश्च दिग्भुक् सततं भवेत् ।
वित्तहीनश्चरेद्भैक्षां कणपक्वान्नकीमथ ॥
एतद्व्याख्यायामपि कणभिक्षां पक्वान्नभिक्षां वेत्यर्थः इति ॥
मतङ्गे -
अथ भिक्षाटनं वक्ष्ये निर्वृत्या यतिभिर्यथा ।
कर्तव्यमखिलं कृत्वा प्रत्यक्स्थे तु दिवाकरे ॥
मध्याद्वेदिकरणे -
भिक्षापात्रं तदावश्यं ताम्रं लोहं तथापि वा ।
तदष्टाङ्गुलकोज्ञाय(च्छ्रायं?) द्वादशाङ्गुलविस्तृतम् ॥
तथा -
भिक्षार्थं ताम्रजं लोहं ब्रह्मवृक्षादिपत्रजम् ।
बुभुक्षोर्विहितं पात्रं मुमुक्षोस्तुम्बकादिकम् ॥
भिक्षापात्रं प्रकर्तव्यं ताम्रं वा पत्रकल्पितम् ।
ब्रह्मवृक्षः पलाशः ।
तथा -
कालोत्तरे -
पलाशमधुकपत्रैश्च कदम्बाम्रञ्च? पत्रकैः ।
वर्जयेच्च वटाश्वत्थ पिशाचाक्षादिकेसरम् ॥
चिन्त्यविश्वसादाख्ये -
अलाभेऽलाबुकं पात्रं सकामस्य हितं भवेत् ।
मुमुक्षोस्तुम्बकं श्रेष्ठं पूर्वोक्तमथवा हितम् ॥
अथ पादौ प्रक्षाल्याचम्य भस्मना स्नातः कौपीनं परिवर्त्य धृतोत्तरीयस्सन्नद्धजटस्समाचम्य कृतन्यासः स्वोदितं पात्रं हृदा सङ्गृह्यास्त्रेण प्रक्षाल्य निरीक्षणादिभिस्संस्कृतकवचेनाभिमन्त्र्य काषायादि शुद्धवस्त्रेणावकुण्ठ्य तन्मध्ये ऐशानमस्त्रगायत्रीभ्यां सह चिन्त्य वस्त्रदण्डे गायत्रीछत्रे विन्यस्य दक्षिणकरे दधानः सोपानत्कः शिवं गुरुं
द्यात्वान्नं? कणेमिति विज्ञाप्य लब्धानुज्ञो गृहीतमौनो ज्वलदस्त्रेण जवलन्तं पात्रं चिन्त्य महास्त्रादिकं गृहाणननः(ह्नानः?) पतिताभिशस्तशिवद्रव्योपणीत्यादिवग्रहवदज्यं(गृहतत्म्?) चतुर्षु वर्णेषु शुद्धगृहेषु भिक्षामटेत् ।
तदा निष्ठीवन कुत्सनकोपविदाधानीन्न कूर्वीत ।
भिक्षार्थं गृहाङ्कणं प्राप्य भिक्षां देहि स्वपादाङ्गुष्ठाग्रमपश्वरवत्स्वं? गोप्राप्तकालावधि स्थित्वा गृहान्तरं यायात् ।
गच्छन्नाहूतो न पुनरागच्छेत् ।
तत्रैव स्थित्वा भिक्षां गृह्णीयात् ।
न च दार्वादिदत्तामददीत ।
भिक्षामटतो भिक्षान्नं दद्यात् ।
एवमन्योन्यपि(नि?)षिद्धानि वर्जयित्वा भिक्षां गृह्नीयात् ।
ज्ञानरत्नावल्याम् -
किं प्रतिग्रहदोषेन(ण?) किं वा दानफलेन च ।
पाकाये(या?)सेन किं कार्यं बहुदोषाश्रयेण तु ॥
इत्येतेषु विरक्तश्चेन्महापुण्यजिगी(चिकी?)र्षया ।
तीर्थे -
स्त्रीलिङ्गानाश्रये कृत्वा तृणपर्णमयीं कुटीम् ।
तावत्परिकरो भूयाद्यावन्मन्त्रेण वर्तते ॥
देहपादव्यवहितं प्रतीक्षन्पादमव्ययम् ।
बोधायनमयन्नित्यशिवास्त श्रीशिवाश्रया ॥
विशुद्ध भस्मना स्नातः कौपीनं चोत्तरीयकम् ।
परिवर्त(त्य?) समाचम्य मौनी ध्यात्वा शिवं गुरुम् ॥
सर्वज्ञानोत्तरे -
व्रतिना ग्रहणं कुर्यात्पात्रस्य सततं बुधः ।
क्षालयित्वास्त्रबीजेन कवचेन तु वेष्टयेत् ॥
ईशानं चिन्तयेन्मध्ये गायत्र्यस्त्रं च मन्त्रवित् ।
अस्त्रं तु जपयेन्नित्यं भिक्षामावर्तयेच्छुचिः ॥
अस्त्रं दण्डे तु विन्यस्य छत्रे गायत्रीमेव तु ।
ततो भिक्षामटेन्नित्यं पतिताशस्तवर्जितम् ॥
अशस्ता ग्रामह्या(ण्या?)दयः ।
मतङ्गे -
वैद्यनापितगोपालमण्ड शौण्डकका(जा?)लकान् ।
सन्त्यजेद्भैक्षभुङ्नित्यं गृहं ग्रामणिकस्य तु ॥
आसीद वाद्धृ(र्धु?)षी कुण्डकोलकांश्च परित्यजेत् ।
वृषलीपतयश्चैव कुशीला ग्रामयानि? चकाः ।
तथा देवलकाश्चान्ये भ्रष्टशौचाश्चये नराः ॥
अन्यायवृत्तयस्सर्वे त्याज्या भिक्षांशुजां(क्षाभु?) सदा ।
मद्यामिषप्रमोदाढ्यं त्याज्यं तद्वेश्म यत्नतः ॥
कुक्कुटश्च(श्व?) खरोष्ट्राणां गृहे यत्र परिग्रहः ।
तद्गृहं न प्रवेष्टव्यं यच्च स्त्रीकल्मषं मुने ॥
चातुर्वर्णमटेद्भिक्षां भिक्षार्थी साधकोत्तमः ।
दुष्टसङ्गोन यस्त्रास्मि(त्रास्ति?) न च स्वाम्नायवर्जनम् ॥
देवाग्न्यतिथिपूजाद्यं पात्रशुद्धिश्च दृश्यते ।
तस्मिन्ग्राह्या मुने भिक्षा अविचाख्यं(र्य?) सुमेधसा ॥
तैलाभ्यक्तौ(क्ता?) च या नानी(री?) निर्गुणी वाथ कुत्सिता ।
तस्या भिक्षा सदा वर्ज्यानुपादेयं तु पाणिना ॥
क्रियाकाण्डे -
न दर्वा?(र्प्या?) न श्च(च?) हस्तेन कांस्येनाथ न मदीयताम् ।
वृषली गर्भिणी ज्वानवक्त्राणान्तकरेण वा ॥
तदा प्रमाण निष्ठीव स्पर्शमुन्मार्ग सप्फणः ।
कुत्सनं च न कुर्वीत त्यजेश्वा(च्छ्वा?)नादिं सङ्कुलम् ॥
नङ्गस्त्ये न च ब्राह्मं देवदेव्योपजीविनः ।
चातुर्वर्णां शुद्धवर्णां समासाद्य गृहाङ्कणम् ॥
भिक्षां देहीति सञ्जल्प्य पादाङ्गुष्ठाग्रलोचनः ।
तावत्कालं प्रतीक्षेत यावद्गौर्वत्सयोगतः ॥
प्रस्तपं(स्रवं?) समवाप्नोति ततोऽन्यत्र व्रजेन्मुनिः ।
व्रजन्नपि समाहूतो नागच्छेत्तत्प्रदेशतः ॥
यजमानजनानीतां भिक्षां तत्रैव चाहरेत् ।
न भिक्षां चरतो भिक्षां न दद्यान्न विगर्हिताः ॥
किरणे -
पात्रे प्रपतितं भैक्षं भूगतं यद्विसर्जयेत् ।
यावत्पात्रपूरणमात्मतृप्तिमात्रकं वा भिक्षामादाय तत्र ग्रामवासिनां शुभं स्मृत्वा स्वाश्रमं प्रविशेत् ।
निर्माल्याद्युपहतश्चेद्भिक्षापात्रसहितः स्नायात् ।
चिन्त्यविश्वसादाख्ये -
भिक्षित्वा पात्रपूर्णान्तमथवा तृप्तिमात्रकम् ।
जगतां शोभनं ज्ञात्वा व्रजेत्स्वाश्रममुत्तमम् ॥
भिक्षापात्रं शुद्धिस्थले स्थाप्य पादासि प्रक्षाल्य च उद्धूल्य सकलीकृत्य भैक्षं हृदा सम्प्रोक्ष्य मृत्युञ्जयेनाभिमन्त्र्य
मनसा त्रिधा विभज्य देवाय गुरवे निवेद्य शेषस्य परिमितग्रासस्य भागमेकजलेन भागमेकं वायुसञ्चारार्थं भागमेकं च पूरयेत् ।
नोदकद्यां पूर्वोक्तवद्भुञ्जीयात् ।
तदुक्तम् -
सिद्धान्तशेखरे -
ग्रासैः परिमितैः पश्चाद्धूपयुक्तैर्घृतैर्युतैः ।
पूरयेस्यदुदरस्यार्धि तदर्धमुदकेन च ॥
प्राणावायु प्रचारार्थं तच्छेषं च न पूरयेत् ।
भिक्षाभोजननियमवतो क्वचिदप्येकान्नं न भुञ्जीत ।
बहिर्हस्तं प्रक्षल्य
दन्तकाष्ठेन दन्तान्विशोध्य विधिवदाचाम्योद्धूल्य शिवं ध्यात्वा पत्रादिना मुखं शोधयेत् ॥
किरणे -
भिक्षामानीय तामे संस्थाप्य स्थाने सिते समे ।
प्रक्षाल्य हस्तपादादि पूर्ववद्वावमेत्पुनः हृदा सम्प्रोक्ष्य तां दद्याच्छिवस्वगुरवे पुनः ॥
भोजनं तु ततः कुर्याक्षुरेण अभिमन्त्रितः ।
तेनामृतं भवत्याशुतद्भुक्त्वा मृत्युजिद्भवेत् ।
मौनमास्थाय भोक्तव्यं न चात्यन्तविरोधकृत् ॥
मतङ्गे -
स्वगृहे याचितं भक्त्या यदानीतपराणि तु ।
पूर्वोक्तमखिलं कृत्वा भोक्तव्यं नान्यथा क्वचित् ॥
इति ॥
षट्सहस्रिकायाम् -
एवं भिक्षाटनं प्रोक्तं सर्वसामान्यलक्षणम् ।
नास्ति भिक्षासमं पुण्यं नास्ति भिक्षासमं तपः ॥
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
सर्वदाने तु यत्पुण्यं तथा चान्द्रायणादिषु ॥
तत्फलं कोटिगुणितं भिक्षाशी प्राप्नुयान्नरः ।
पाके निवर्तिते यत्रातिथिर्याति पराङ्मुखः ॥
देवाश्च पितरस्सर्वे यान्ति तस्मात्पराङ्मुखाः ।
प्राप्ते काले तु तद्दानमविचारेण यत्नतः ।
कुलानुद्धरते सो हि दश पूर्वान्दशापरान् ॥
सर्वेषां चैव पात्राणां पात्रं चैवातिथिः परः ।
हीनाङ्गो वाथ पूर्णाङ्गोऽप्य शुद्धिश्शुचिरेव वा ॥
अविचारेण पूज्योऽसौ सोऽश्वमेधफलं लभेत् ।
सम्प्राप्तकाल(ले?) यो भैक्षं दूरतः परिवर्जयेत् ॥
तस्य पुण्यफलं सर्वं गृहीत्वा याति सोऽतिथिः ।
अतिक्रूड यदा काले योत्थयेदविचारतः ॥
ब्रह्महा कथ्यते सो हि बहुरूपस्सदाशुचिः ।
एवं ज्ञात्वा प्रयत्नेन कार्यं भिक्षाटनं सदा ॥
सिद्धयस्तस्य सिध्यन्ति भिक्षाशी यो जितेन्द्रियः ।
सर्वे प्रतिग्रहाः प्रोक्ता विनाभिक्षां शिखिध्वज ॥
तथा -
भिक्षादानं महादानं भिक्षा नैव प्रतिग्रहः ।
उभयोस्तत्फलं तुल्यं दातृ ग्राहकयोरपि ॥
तस्माच्छ्रद्धां समादाय भिक्षां कुर्यात्सदा व्रती ।
शिवधर्मे -
माधूकरं च भैक्षं च सिकान्नं? परिवर्जयेत् ।
उपवासं च यद्भैक्षमेकान्नं गृहीणां स्मृतम् ॥
अत्र तु -
मध्यं दिनेऽथवा नक्तमव्रजीभुञ्जीत नान्यथा ।
भोक्तव्यं गृहीणां वारद्वयं वीर्यविवृद्धये ॥
सर्वज्ञानोत्तरे -
आचम्य हि निष्क्रान्तो भक्षयेद्दन्तधावनम् ।
इति ।
मुख संशोधनं कुर्याद्यदि पथ्यादिना सह ।
न सेवेत कदाचिच्च ताम्बूलं रागकारणम् ॥
इत्यात्मार्थपूजापद्धत्यां
भिक्षाभोजनविधिः ॥
हरिः ॐ
शुभमस्तु ।
शालीवाटीश्वरो रक्षतु ।
करकृतमपराधं क्षन्तुमर्हन्ति सन्तः ।
बहुधान्य नामसंवत्सरं कृत्तिकामासं श्रीमतु? शिवसहायम् ॥
इन्दुनिभपञ्चमुखहस्तदशयुक्तं शूलधरटङ्कमसिवज्रमभयं स्यात् ।
पाशवरदाङ्कुशमणिर्दहन वामे श्वेतकमलासन सदाशिवस्वरूपम् ॥
बिभ्राणं परशुं मृगं करतलैरीश प्रणामञ्जलिं भस्मोधूलनपाण्डरं शशिकलागङ्गाकपर्दोज्वलम् ।
पर्यायत्रिपुरान्तकं प्रमथपश्रेष्ठं गणेन्द्रैर्वृतं ब्रह्मेन्द्राच्युतवन्दिताङ्घ्रिकमलं श्रीनन्दिकेशम्भजे? ॥
शिवाय नमः ।
शुभमस्तु ।
हरिः ॐ