ॐ
श्री सुन्दरगणपतये नमः
परार्थपुजाविधिः ऋए-३०४८२
नित्यपूजाविधि अरशूरी त्यागरायगुरु
स्व हस्तलुखितम्।(फ़्१ब् इस् ब्लन्क्)
परार्थपूजाविधि(धिः)
क्षेत्रपालसन्निधौ उपागम्या(म्य) द्वारपूजां विधाय स्नानाद्यभिषेकार्चननैवेद्यधूपदीपार्घ्यं
दत्वा प्रार्थयेत् स्वामिन्सर्वजनान्भूमौ रक्षार्धं क्षेत्रपाकलम्।
शिवपूजाविधानाङ्गमुद्रादण्डं
प्रदेहि मे। इत्यङ्कुशमुद्रादि(दिद)ण्डं गृहीत्वा शयनालयद्वारमुपागम्य शिवशक्ति
नयनोन्मीलनार्थं द्वि(द्वा)रपार्श्वे रुद्रगणिकागीतवाद्यं वाचयित्वा द्वारपूजनेन
कवाटोद्घाटनं कृत्वा विघ्नत्रयं निवार्यन्तः प्रविश्य अर्घ्योदकेन अस्त्रेण
ॐ च अवृत
तिरोधानपटं सम्प्रोक्ष्य वर्मणाभ्यर्च्य मञ्चोर्ध्वे निक्षिप्य अस्त्रेण मूर्तिं सम्प्रोक्ष्य निर्माल्यं विसृज्य
पादहस्तशुध्यर्थम् अस्त्रेण जलं दत्वा स्नानार्थं मूलेन अर्घ्योदकेन सम्प्रोक्ष्य
अन्यत्वस्त्रगन्धमाल्यादिभिरलकृ(ङ्कृ)त्य
मूलब्रह्माङ्गमन्त्रैः सम्पूज्य नैवेद्यधूपदीपार्ध्यं दत्वा शक्तिं विना देवं
शिबिकाम् अरोप्य सर्वाद्यो(सर्व वाद्यो)पचारपरिजनैश्च लिङ्गसन्निधिमुपागम्य तन्मूर्धिं(र्ध्नीं) पुष्पेणोद्भवमुद्रया
लिङ्गे संयोज्य यथास्थाने मूर्तिं संस्थाप्य पूजार्थं स्नपनं कूर्मासनोपरि स्थित्वा
स्नानशुद्धिम् आचरेत्
अर्घ्योदकेन भूमिं सम्प्रोक्ष्य अस्त्रेण चतुरश्रं कृत्वा
भूमिदेव्यासनादिभिः आवाहनं विधाय
ध्यानं -
द्विभुजाञ्च द्विनेत्राञ्च करण्डमकुटान्विताम्।
वराभयकरां देवीं सर्वाभरणभूषिताम्॥
इति ध्यात्वा हृदया(य)अस्त्रेणसम्पूज्य नैवेद्यार्घ्यं दत्वा
एवं स्थलशुद्धिः। शङ्खार्घ्य-आचमनीय-पाद्यपात्र-पुष्पान्यपात्राणि अस्त्रेण प्रक्षाल्य
हृदयेन स्थाप्य विलोक्य अमृतीकृत्य वर्धन्यां शङ्खपात्रे मूलेन जलमापूर्य शिवमन्त्रेण वर्धनीं
सम्पूज्य
ब्रह्मागै(ङ्गै)रभ्यर्च्य अभिमन्त्र्य अधो(धः) अस्त्रमन्त्रमभ्यर्च्य लिङ्गपद्ममुद्रां प्रदर्श्य शङ्खोदकस्य
पञ्चशुद्धिं विधाय मूलेनाभ्यर्च्य एकादशवारं दशबीजेनाभिमन्त्र्यि(त्र्य) अधो(धः) अस्त्रमहामुद्रां प्रदर्श्य धूपदीपं
दत्वा
तज्जलेन द्रव्याणि सम्प्रोक्ष्य विशेषार्घ्यपात्रपाद्याचमनीय(य)पात्राणि साधयेत्।
तेषु
उक्तद्रव्याणि निक्षिप्य अर्घ्योदकम् अस्त्रब्रह्मागै(ङ्गै)रभ्यर्च्य अभिमन्त्र्य पाद्यपात्रं हृदयेनाभ्यर्च्य प्रणवेन
सप्तधा अभिमन्त्र्य आचमनीय(य)पात्रं दशबीजेनाभिमन्त्र्य तत्सङ्ख्याभिमन्त्र्य धेन्वादिपञ्चमुद्रां प्रदर्श्य धुपदीपं
दत्वा द्रव्यशुद्धिः।
शिवहस्तभावनार्थं दे(द)क्षिणकरतले मूलेन-गन्धपुष्पाक्षतान्विधाय वामहस्तेन
गन्धपुष्पाक्षतान् विधाय वामहस्तेन निरीक्षणाद्यमृतीकरणान्तं कृत्वा धर्माद्यासनमूर्तिमभ्यर्च्य
मूलब्रह्माङ्गानि विन्यस्य ज्योतीरूपं ध्यात्वा
शिवमन्त्रेण शिरसि न्नि(नि)क्षिप्य
हस्तद्वयं प्र(प्रा)सादेन दिव्यदृष्ट्या विलोक्य शिवहस्तं भावयेत् पञ्च॥॥॥पश्चिमभागे शालिभिः।
हस्तमात्रं चतु॥।(रस्त्रं) विधाय अधीतवेद॥॥ मध्ये रविसङ्ख्यकृतासु रेखकोष्टानि तत्व
समवीथिषु पञ्चकेषु
तत्राद्यविधिमपहाय द्वितीय(य)पङ्क्तिं स्स(स)म्माज्य(र्ज्य) पूर्वमपि च उक्तरानन्दसङ्ख्या एवं
उल्लिख्य मध्यपदे शिवत्वकोष्ठाय नमः। पूर्वे सदाशिवतत्वकोष्ठाय नमः। दे(द)क्षिणे विद्यातत्वकोष्ठाय नमः।
उत्तरे पुरुषतत्वकोष्ठाय नमः।
पश्चिमे कालतत्वकोष्ठाय नमः।
आग्नेयाम् ईश्वरतत्वकोष्ठाय नमः। नैऋते पा(पाद)तत्वकोष्ठाय नमः। वायव्ये नियतितत्वकोष्ठा नमः।
ऐशान्यां प्रकृतितत्वकोष्ठाय नमः। एवं कोष्ठान्यभ्यर्च्य धूपदीपाख्यं दत्वा
नवपात्राण्यस्त्रेणावृत्य हृदयेन प्रक्षाल्य
अस्त्रेण सम्प्रोक्ष्या विमूणा(वर्मणा) धूपदीपार्घ्यं दत्वा
कोष्ठमध्ये पात्राणि सम्स्थाप्य मध्ये ॐ हां सुप्रतिष्ठितपात्राय नमः। पूर्वे ॐ हां
सुशान्तपात्राय नमः। दे(द)क्षिणे तेजोवत् पात्राय नमः उत्तरे रत्नोदकपात्राय नमः पश्चिमे अमृतात्मकपात्राय
नमः
ऐशान्याम् अव्यक्तपात्राय नमः। आग्नेयादिवायव्यान्तम् अमृतात्मकपात्राय नमः इति सम्पूज्य
गन्धादिभिरलकृत्य मध्यपात्रस्य ,,,ध्यास्यदेशेषु ब्रह्मविष्णुरुद्रमूर्तीन् सम्पूज्य
तस्य पूर्वादि उत्तरान्तं गणपतिषण्मुखनभिमहाकालान् सम्पूज्य विदिक्षु चतुर्वेदान् अभ्यर्च्य
धूपदीपार्घ्यं
दत्वा आप्यायस्वेतिमन्त्रेण मध्यमपात्रे क्षिरमापूर्य दधिक्राविण्नोतिवै दधिदक्षिणे
शुक्रमसीतिघृतम् उत्तरे सावित्रागोमूत्रं पश्चिमे गन्धद्वारेति गोमयम् ऐशान्यां देवस्यत्वेति कुशोदकं
आग्नेय्यादि वायव्यन्तम् अस्त्रेण तैल-पिष्टामलक-रजनीद्रव्याणि सम्स्थाप्य
कूर्चपल्लवरत्न नालीकेराणि विन्यस्य पुण्याहजलेन सम्प्रोक्ष्य क्षीरादिकुशोदकम्
ईशानस्सर्वविद्यानामिति मन्त्रेण पञ्चपात्रेषु पञ्चचतुस्त्रीणियुग्मेकमन्त्राभिमन्त्र्यावाह्य यथोक्तमुद्रां
प्रदर्श्य नैवेद्यधूपदीपार्घ्यं दत्वा अन्यपात्राणि षडङ्गेनाभ्यर्च्य महामुद्रां प्रदर्श्य
मूलब्रह्माङ्गव्याहृतिं दशबीजैसङ्क्षीरादि कुशोदकान्तं तैलादिरजन्यान्तं भिक्रममन्त्रेणाभिमन्त्र्य
पूर्वादिपञ्चपात्रस्थितद्रव्यपात्रक्रमं मध्यपात्रे सम्योज्य मूलेन अष्ठोत्तरशतं जप्त्वा दिगीश्वर
धनावकुन्ठनौ विधाय मानस्तोकेतनयेति मन्त्रेण त्रिवारनिमुध्य वामदे(द)क्षिणहस्ताभ्यां
नादोच्चारणेन नासाग्रमुध्र(द्धृ)त्य मूलमन्त्रेण स्थाप्या(प्य) अर्चयेदिति पञ्चगव्यम्।
अथ पञ्चामृतं तत् पश्चिमभागे शालिभिस्तण्डिलं कृत्वा मध्ये नवपदं विधाय आग्नेय्यादिचतुष्पदान् यजेत्
मघ्यपदे ॐ हां प्रथिवीतत्वकोष्ठाय नमः। पूर्वे ॐ हाम् अप्तत्वकोष्ठाय नमः। दक्षिणे
ॐ हां वह्नितत्वकोष्ठाय नमः। पश्चिमे ॐ हां वायुतत्वकोष्ठाय नमः। उत्तरे ॐ हां व्योमतत्व
कोष्ठाय नमः। इत्यभ्यर्च्य पात्राणि तन्तुनावेष्ठ्य अस्त्रेण प्रक्षाल्य हृदयेन धूपदीपं दत्वा
पात्राणि कोष्ठेषु विधाय मध्ये ॐ हां गन्धतत्वपात्राय नमः। पूर्वे ॐ हां
रसतत्वपात्राय नमः।
याम्ये रूपतत्वपात्राय नमः। पश्चिमे स्पर्शतत्वपात्राय नमः। उत्तरे
शब्दतत्वपात्राय नमः। इति सम्पूज्य मध्ये पयः, पूर्वे फलं, याम्ये मधु, सर्प वा प्रदीच्यां
शक्रागुलंह, उत्तरे इक्षुसारं वा नालिकेरसलिलं वा ब्रह्ममन्त्रैस्सम्पूज्य पूर्ववत्
ब्रह्मागे(ङ्गे)नाभिमन्त्र्य आवाह्य पञ्चमुद्रान्प्रदर्श्य धूपदीपार्घ्यन्दत्वा
पूर्वादिचतुर्दिक्षु पात्रस्तदृव्यणि
मध्यमपात्रे सम्योज्य मूलेनाभिमन्त्र्य दिग्बन्धनावकुन्ठनं विधाय वैदी(दि)कब्रह्माङ्गमन्त्राभ्याम्
अभिमन्त्र्य(न्त्र्या)दितिपञ्चामृतम्। स्नपनं तत् पश्चिमभागे द्रोणत्रय-व्रीहि-तण्डुलधान्योपरि
पञ्चतालमात्रं चतुरश्रं पदम् आलिख्य तदुपरि पद्मासनम् अभ्यर्च्य
नवकुम्भान् वर्धनीं
सूत्रेणावेष्ठ्य हृदयेन प्रक्षाल्य अस्त्रेण धूपदीपं दत्वा उदकेनापूर्यासुगन्धद्रव्य
रत्नकूर्चप्लवनालिकेरफलकुसुमदामादिभिः गन्धाक्षतवस्त्रेण अलङ्कृत्य अस्त्रेण
पद्मोपरिसम्स्थाप्य अभ्यर्चयेत् मध्ये शिवासनमूर्तिं सम्पूज्य आवाहनस्थापनादि
पञ्चमुद्रां प्रदर्श्य
वर्धन्यां मनोन्मनिमन्त्रेणावाह्य स्थापनादि पद्मयोनिमहामुद्राञ्च
प्रदर्श्य पूर्वादिदिक्षु अनन्तेशादिशिखण्ड्यान्तम् अभ्यर्च्य नैवेद्य धूपदीपार्घ्यं दत्वा मातृकादि
कलाभङ्गीं विन्यस्य इति स्नपनम्।
अथ सौरपूजा-
अथ सौरपूजा इन्द्राग्नियोर्मध्ये ईशे वा सूर्यम् अभ्यर्चयेत्
सूर्याग्रे उत्तराभिमुखो प्रणवेनार्घ्यं सम्स्थाप्य द्वारमस्त्रेण सम्प्रोक्ष्य द्वारदक्षिणवामपार्श्वयोः।
दण्डिने नमः ॐ हां पिङ्गलाय नमः गणपतये नमः गुरुभ्यो नमः अन्तङ्गत्वा आसने ॐ हां प्रभूतासनाय
नमः
गर्भावरणे नैऋत्यादि ईशानान्तं विमलाय नमः साराय नमः आराध्याय नमः परमसुखाय नमः।
पद्माय नमः इति पद्ममुद्रां प्रदर्श्य तस्य मुखाग्राद्यष्टदिक्षु ॐ रां दीप्तायै नमः ॐ रीं सूक्ष्मायै नमः ॐ
रुं जयायै नमः ॐ रूं भद्रायै नमः। ॐ रें विभूत्यै नमः। ॐ रैं विमलायै नमः ॐ रोम् अमोखा(घा)यै
नमः।
ॐ रौं विद्युतायै नमः। कर्णिकायामीशाने ॐ रः सर्वतोमुख्यै नमः। विस्पुरमुद्रां
दर्शयित्वा ॐ हाम् अर्कासनाय नमः ॐ हाम् अर्कमूर्तये नमः। ॐ खं खषोल्काय सूर्यमूर्तये नमः।
ॐ हां भानुनेत्राभ्यां नमः। ॐ ह्रां ह्रीं सह शिवसूर्याय नमः। इति मन्त्रेणावाह्य स्थापनादि पञ्चमुद्रां
प्रदर्श्य धूपदीपार्घ्यं दत्वा
ध्यानम् �
आदित्यं सर्वकर्तारं कलाद्विदश सम्युतम्।
पद्महस्तद्वयं *वन्दे सर्वलोकैकसाक्षिणम्॥ इति *
ध्यात्वा गायत्रीं विन्यस्य अङ्गानि सम्पूज्य बिम्बजलेनाभ्यर्च्य
सम्पूज्य त्रिति(तृती)यावरणे दशलोकपालान् सम्पूज्य नैवेद्यधूपदीपार्घ्यं दत्वा वामतो
तेजश्चन्डेश्वराय नमः। इति सम्पूज्य पुनर्मूलेन मूर्ति(र्तिं) हृदयेन विन्यस्य नमस्कारं विधाय।
इति सूर्यपूजाविधि(धिः) समाप्तः।
अथ गणेशपूजा ः-
गणेशाग्रमन्टपे सौम्यास्योपविश्य प्राणायामादि
सकलीकृत्याचम्य व्यापक(कं) न्यसेत् ॐ गं सर्वेश्वराय नमः इति शिरसि ॐ गिं विघ्नहन्त्रे नमः इति नेत्रे
ॐ गुं
गजमुखाय नमः कट्यां ॐ गैम् आखुवाहनाय नमः इति ऊर्वोः ॐ गौं विघ्नेश्वराय नमः।
जान्वो(न्वोः) ॐ गं गणेश्वराय नमः
इति पादयोः पञ्चश्शि(शि)रोमुखवक्षगुह्यजानुपादेषु गणानान्त्वेति पञ्चमन्त्रैः सार्धं विन्यस्य
षडङ्गं विधायाद्विरमन्त्रौ सम्प्रोक्ष्य ऊर्ध्वे गणपतिसरस्वतिमहालक्ष्मीं सम्पूज्य पार्श्वयोः
भुवङ्गपतङ्गकूश्माण्डकुम्भोदरान् नमोन्तं सम्पूज्य मूलेन चितोमणिपीठे पद्मासने
समभ्यर्च्य
गामित्यादिबीजस्य द्वारपालान् सुपूज्य अग्रे महासूरमूषिकमभ्ययर्च्य उपचारं विधाय अन्तर्गत्वा
नैऋत्यादीशानान्तं वा सुतदेवसरस्वतीलक्ष्मीविजया इति पाशाङ्कुशत्रिखण्डयोनि-महा
मुद्रान्नमस्कारमुद्रां प्रदर्श्य
ध्यानं-
गजाननं त्रिणेत्रञ्च कुङ्कुमाभं चतुर्भुजम्।
पाशदन्तं च सव्ये तु वामे त्वं कुशलड्डुकौ॥
इति ध्यात्वा अभ्यङ्गादि स्नपनोदकद्रव्योदकेन अभिषिच्य
वस्र(स्त्रा)दिभिरलङ्कृत्य पूर्ववत् सम्पूज्य पार्श्वयोः सिद्धलक्ष्मीवल्लभाभ्यां नमः इत्यभ्यर्च्य द्वितीयावरणे
गणेशाष्टमूर्तीन् जपेत् ।
योगजे-
विघ्नेश्वरमहाखण्डं गजवक्त्रं महोदकम्।
एकदन्तं
महाकायं विनायकगणाधिपम्। इति सम्पूज्य त्रिति(तृती)यावरणे।
चिन्त्यतन्त्रे ः-
बालो भक्तश्च शक्तिसर्वार्थसिद्धिदः।
पिङ्गलोच्चिष्टरक्तश्च क्षिप्रो हेरम्ब एव च ॥
लक्ष्मी विजयनृत्तस्तु ऊर्ध्वामह(हा)गणस्तथा।
हरिद्रषोडशा ज्ञेयाः स्त्रि(तृ)तीयाः प्रति पूजयेत् ॥
चतुर्थावरणे आग्नेयातिपन्तानतरुमूलेन सरस्वतीसमेताय
ब्रह्मणे नमः। नैऋत्यां मन्दारतरुमूले लक्ष्मीसमेताय विष्णवे नमः वायव्यां कल्पतरुमूले भवानी
समेताय महेश्वराय नमः ऐशान्यां चन्दनतरुमूले रत्यां समेताय कामदेवाय नमः। पञ्चमावरणे इन्द्रादि
लोकपालान् सम्पूज्य
नालिकेरादि नानाविधान्ने मोदकलड्डुकादि नैवेद्यधूपदीपार्घ्यं
दत्वा द्वारपालादिमूषिकोऽष्टदिक्षु देवताबलिं निक्षिप्य बलिपीठे सर्वविघ्नगणरूपाय
नमः इत्यभ्यर्च्य ॐ हां सर्वविध्नगणेभ्यस्वाहेति बलिं दत्वा अग्रे निरोधार्घ्यं
प्रक्षिप्य सर्वोपचारान्विधाय इति विघ्नेश्वरपूजा॥
स्वामि पूजै(जा) ः-
अथ देवद्वारमुपागम्य दे(द)क्षिणपार्श्वे नालिकेराद्युपचारैः सम्पूज्य अर्घ्योदकेन द्वारमस्त्रेण
सम्प्रोक्ष्य
अभिषिच्य दक्षिणोत्तरमध्येषु गणपतिसरस्वतिमहालक्ष्मीम् अभ्यर्च्य मध्ये दक्षिणपार्श्वे ॥।ने नमः
गङ्गाय नमः उत्तरपार्श्वे महाकालाय नमः यमुनाय नमः अथ ऊर्ध्वशिलयोः भुवङ्गपतङ्गाभ्यां नमः।
दक्षिण
वामस्तम्भयोः। [उत्कार]पताकाभ्यां नमः। कवाटयोः विमलाय नमः सुबाहुवे नमः। पट्टिकायां
स्कन्दाय नमः। वलयोः चन्द्रसूर्याभ्यां नमः। सुषिरे नवशक्तिं सम्पूज्य अग्रे अस्त्राय नमः दक्षिणभित्तिपार्श्वे
अस्त्राय द्वारपालाय नमः। दण्डिने नमः।
अरुणकिरणरूपं च अस्याभिमन्त्रिणेत्रं जटमृगवदनोर्ध्वं
न्यस्य पादोर्ध्ववक्त्रं विकसितकरयुग्मं स्मयं दण्डहस्तं जयमणिमालिकाड्यां डिण्डिरूपं भजामि
इति ध्यात्वा उत्तरपार्श्वे अस्त्राय द्वारपालाय नमः। मुण्डिने नमः।
अनलतनुनिभाङ्गं वक्त्रभीमं जटोर्द्धम्(र्ध्वम्)।
वरहसितकरण्डं वास्तुमुद्राग्रहस्तम्॥ *
कटितटिबन्धपाशं कङ्कणं नागभूषम्।
मुनिसुरनरसेव्यं मुण्डिरूपं भजामि॥ इति
ध्यात्वा अर्घ्यं दत्वा अग्रे वृषभेश्वराय नमः।
ध्यानम् ः-
रजतनिभशरीरं वेदपादं मुखोर्घ्वम्।
अरुणमुदितशृङ्गं अग्निवर्णं त्रिणेत्रम्॥
गणमणिमालिकाभ्यां किङ्किणीदामभूषम्।
हरितनुधर्मरूपम् आदिदेवं वृषेशम्॥
इति ध्यात्वा मूलेनाभ्यर्च्य यस्य शृङ्गस्य वृषभेति मन्त्रेण अवाह्य गायत्रीं विन्यस्य
सर्वेभ्यो नैवेद्यं दत्वा। द्वारसमीपे दिव्यन्तृक्षभूमिष्ठत्रिविधं विघ्नं निवार्य(र्या)काशे दिव्यदृष्यावलोक्य
अन्तेऋक्षेकात्मना च मुद्रया हुम्फट् इति पुष्पं विन्यस्य
दक्षिणपादाङ्गुष्ठेन त्रिवारं भूमिम् अस्त्रेण स्पृष्ट्वा
विघ्नत्रयोच्चाटनार्थम् अस्त्रेण घाटं(घण्टां) स्त्रि(त्रिः)ताड्य सौम्यभागे
याम्यपादपूर्वं सद्योजातेन अन्तःप्रविश्य मकुटे द्वारपान्तस्थितादेवाः पूजते प्रकृति- मुखाः।
बलिदानोत्तरे काले निजताविकृतिमुखाः प्रच्छिन्नपटं हृदयेन प्रसार्य स्थाणवे नमः।
ध्यानम् ः-
नीलवाजिसमारूढां वस्त्रमाल्याविभूषणाम्।*
निद्राछा(च्छा)दितत्रैलोक्यं भजे खट्वास्त्रधारिणीम्॥
इति ध्यात्वा अभ्यर्च्य गर्भगृहं प्रवेश्य गर्भदेहल्याम् अस्त्रेणाभ्युक्ष्य नैऋत्यादीशानान्तं
गर्भावरणं पूजयेत् नैऋतोक्तं ब्रह्माण इति मन्त्रेण वास्त्वधिपतये ब्रह्मणे नमः इति सम्पूज्य
पश्चिमे निषस्थितं गणपतिं गणमभ्यर्च्य वायव्ये प्रणतसरस्वतीमन्त्रेण सरस्वतीमभ्यर्च्य
उत्तरे हिरण्यवर्णाम् इति मन्त्रेण लक्ष्मीं सम्पूज्य गोमुखे देवीम्वाचमिति मन्त्रेण वामादिनवशक्तिं सम्पूज्य
ऐशान्यां सब्रह्मसशिव इति मन्त्रेण सदाशिवमनन्तञ्च श्रीकन्ठं चाम्बिकां
गुरुं गुहञ्च विष्णुधातारं गुरू सप्तसु पूजयेत् इति सप्तगुरून् सम्पूजयेत् अभिषेकपात्रं
अस्त्रेण सङ्ग्राह्य मूलेन जलमापूर्य्य तन्मध्ये इमम्मेवरूणमिति गङ्गमन्त्रेण
नवतीर्थमावाह्य धूपदीपार्घ्यं दत्वा ब्रह्माङ्गमेकविम्शति एवं जपेत् अस्त्रेण दिग्भ(ब)न्धनामृतीकरणं
विधाय मूलेन अभिषेकोदकेन सम्पूज्य लिङ्गस्य मस्तकोपरि योरूद्रेतिमन्त्रेण
रुद्रमभ्यर्च्य
अङ्गुष्ठतर्जनीभ्यां निर्माल्यं सङ्ग्राह्य नमोवःकिरिकेभ्यो इति हृन्मन्त्रेण ईशानदेशे
सम्स्थाप्य प्रमुञ्चधन्वनेति अस्त्रमन्त्रेण अर्घ्यं(र्घ्यां)भसा लिङ्गं सम्प्रोक्ष्य पुष्पमेकं शिरसि विन्यस्य ॐ श्रीं पं शुं
हुं पट् पाशुपदास्त्रमन्त्रेण लिङ्गं प्रक्षाल्य वौषडन्तमूलेन कूर्चिकया लिङ्गं पीठञ्च
सम्शोध्य इति लिङ्गशुद्धिः।
मूलाधारे स्थण्डिलं विचिन्त्य ललाटे हृत्गु(द्गु)ह्येन तिलकं कृत्वा शिखायां
मूलेन पुष्पं विन्यस्य मन्त्राशौचनिवर्त्यर्थं नादान्तं सुषुम्णान्तर्गतं मूलादिमस्तकान्तम् अम्भकेनोच्चार्य
शिवमन्त्रं दशवारं जपन् ब्रह्माङ्गमेकमभिमन्त्रियेत् इति मन्त्रशुद्धिः। दन्तताल्वोष्ट सञ्चारात्
मन्त्रात्मशूचिताङ्गतः
तद्दोषपरिहारार्थं नादान्तोच्चारणं स्मृतम् अथ पञ्चासनार्चन आधारशिलायां
ॐ हाम् आधारशक्तये नमः।
अधःकूर्मशिलासीनां क्षिरोदसितविग्रहाम्।
मौलौबीजाङ्कुराकारां *वरदामभयप्रदाम्॥
पाशाङ्कुशधरां शक्तिं क्रियामाधाररूपिणीम्।
इति ध्यात्वा द(त)दूर्ध्वे
ध्यानम् -
कुन्देन्दुवर्णां वरदां त्रिणेत्रां कोटिरहाराङ्वदाभया॥जाम्।
पाशाङ्कुशौ दक्षिणवामहस्तां आधारशक्तिं रविचन्द्रमौलीम्॥
इति ध्यात्वा ब्रह्मशिलायां पूर्वादिचतुर्दिक्षु अनन्तवासुकीतक्षककार्कोटकान्
सम्पूज्य आग्नेय्यादीशानान्तं शख(ङ्ख)पालगुलिकपद्ममहापद्मान् सम्पूज्य ऐशाने
ॐ हाम् अनन्तासनाय नमः। इति अनन्तासनं पीठपूर्वपट्टिकाद्यनुकण्ठान्तं सिह्मा(सिंहा)सनं विभाव्य
आग्नेय्यादीशान्तं
धर्माय नमः ज्ञानाय नमः वैराग्याय नमः।
ऐश्वर्य्याय नमः इत्यभ्यर्च्य तस्य पूर्वाद्युत्तरान्तम् अधर्माय
नमः। अज्ञानाय नमः अवैराग्याय नमः अनैश्वर्याय नमः त्यजेत्। ऊर्ध्वकण्ठावृतदक्षिणोत्तरमध्ये
र(रा)जस्तामस्सात्विकानि सम्पूज्य पुनराग्नेय्यादि चतुर्दिक्षु कृतत्रेतद्वापरकलियुगानि
सम्पूज्य मध्ये ॐ हां सिम्ह्मासनाय नमः इति योगासनम् ऊर्ध्वानुकन्ठादि ऊर्ध्वपट्टिकान्तम्
ईशपूर्वयो मध्ये ॐ हाम् अव्यक्ताय नमः दक्षिणाग्नयोर्मध्ये नियतिष्ठाय नमः नैऋतिवरूणयोः
मध्ये कला॥।। वायुसोमयोर्मध्ये केशवाय नमः। इति सम्पूज्य तैः ते अधश्चदनाय नमः ऐशान्याम्
ऊर्ध्वछदनाय नमः। ईशाने योगासनाय नमः। इति योगासनम् ऊर्धपट्टिकोपरि विकसि[सित]पद्मासनं विभाव्य
पट्टिकामूलाधारदेशे पूर्वादीशानान्तम्।
कन्दबीजाङ्कुरा(र)नालकण्टक-दलकेसरकर्णिकान्तं
अष्टदिक्षु सम्पूज्य मध्ये ॐ हां पद्मासनाय नमः इति पद्मासनम् अष्टदले अष्टदिक्षुना
अर्चयेत् ॐ हां वामाय नमः। ॐ हां जेष्ठायै नमः ॐ हां रौद्रियै नमः ॐ हां काल्यै नमः ॐ हां
कलविकरण्यै नमः ॐ हां बलविकरण्यै नमः
ॐ हां बलप्रमधि(थि)न्यै नमः ॐ हां सर्वभूतदमन्यै नमः।
ॐ हां मनोन्मन्यै नमः। कर्णिकायां नमस्कारमुद्रां दर्शयित्वा पट्टिकान्तर्गतकेसराग्रवृत्ते मध्ये
मूलान्तं वृत्तत्रयं विचिन्त्य अग्रवृत्तस्य दक्षिणपार्श्वे आत्मतत्वाय नमः आत्मतत्वाधिपतये ब्रह्मणे नमः उत्तरे
विद्यातत्वाय नमः विद्यातत्वाधिपतये विष्णवे नमः।
मध्ये शिवतत्वाय नमः। शिवतत्वाधिपतये रुद्राय नमः।
वृत्तषारिमध्यकर्णिकां विभाव्य तन्मध्ये मण्डलत्रयं विचिन्त्य प्रथममण्डले सूर्यमण्डलाय नमः
सूर्यमण्डलाधिपतये ब्रह्मणे नमः द्वितीयमण्डले सोममण्डलाय नमः सोममण्डलाधिपतये विष्णवे नमः।
त्रितीय मण्डले अग्निमण्डलाय नमः। अग्निमण्डलाधिपतये रुद्राय नमः।
मण्डलान्तस्थितलिङ्गोपरि रुद्रभाग
मूलोर्ध्वे आ॥॥। सदाशिवमण्डलमावाह्य
ध्यानम् ः-
देविशिरदेक्षिमणोत्तरसुपादं गोमुखपदान्तकृतवारिभुजयुग्मं योनि॥।मध्यपदसम्स्थुतटलिं
गन्स्थापितसदाशिवमनोन्मनिस्वरूपम्। इति ध्यात्वा ॐ हां सदाशिवमण्डलाय नमः सदाशिवमण्डलाधिपतये
(३न्द् लिने ) सदाशिवाय नमः
ध्यानम् ः-
महदपिमहमन्योमातृका दिव्यरूपे सह॥वः।
इति बिजे सर्वमन्त्रप्रकाशे
महदपिमहमन्योसेन्मनी शुद्धविद्ये सकृदपि परिवारे सुन्दरीं त्वान्नमामि ॐ हां शक्तये नमः।
इति शक्तिं सम्पूज्य कारणे पूजाम्शन्तु त्रिधाकृत्वा रुद्राम्शम् अथ बाषकं मध्यभागेश्वरम्पूज्य
अग्रभागे सदाशिवं वह्निस्सोमरविं शक्तीं शिवशक्तीसुखासनं पूजयेत्
रुद्रभागोर्ध्वेतदक्षिणं पञ्चसङ्ख्यया
विभजेन् मण्डलं पूज्यपञ्चकृत्वोधारणम् अस्यादो विष्णुभागे च पद्मयोगासनम्यजेत् अथ स्सिह्मासनायान्तु
ब्रह्मभागेसु पूजयेत् मूहशाम् ईश्वरम्पूज्य अग्रदेशे सदाशिवं पूजयेत् दण्भङ्ग्यादि विनाङ्गं
मुण्डमाचरेत् इत्येवं क्रमेणाभ्यर्च्य
ॐ हां शक्तिमण्डलाय नमः शक्तिमण्डलाधिपतये ईश्वराय
नमः ॐ हां विमलासनाय नमः इति पञ्चासनं तदुपरि सदाशिवभागे सदाशिवासनाय नमः ॐ हां हं हां
शिवमूर्तये नमः ॐ हां हौं विद्यादेहाय नमः ॐ हां हौं नेत्रेभ्यो नमः ॐ हां हौं शिवाय नमः इत्यभ्यर्च्य
ईशानादिक्रमेण ईशानादि पञ्चब्रह्मागं सम्पूज्य कारणे आवाहनार्थं भोगार्थं सम्पूज्य
मूलेन पुष्पमेकं वामहस्तेन सम्स्थाप्य पञ्चशुद्धिं विधाय अङ्गुष्ठादिकितिष्ठन्तं पञ्चब्रह्मबीजैसमीशानादि सद्योजातं
विन्यस्य तत्व(त्वा)दिर्घबीजेन कनिष्ठादि अङ्गुष्टान्त षडङ्गानि विन्यस्य अस्त्रेणदिग्बन्धनावकुन्डनं विधाय
अन्जलीमुद्रां विधाय सदाशिवं ध्यात्वा आवाहनासनो योगिस्थाने सिम्ह्मासनं भवेत् अर्चनात् महापद्मं
विमलाख्यन्तुभोजिने स्त्रोत्रन्नृत्ते च गीते च अनन्तासनमुच्यते इन्दुनिभपञ्चमुखहस्तदशयुक्तं
शूलधृतटङ्कमसि वज्रमभयंस्यात् पाशपरदाङ्कुशमणिर्दहनवामे श्वेतकमलासनसदाशिवस्वरूपम् इति ध्यात्वा
कामिकोस्वयम्भु देविका॥न्तु आवाहनविधिक्रमम्। अङ्गुषाञ्चैव लिङ्गानां विधिरावाहनं स्मृतं
अन्यलिङ्गेत्यावाहनम्। स्वहृदयेन गलपुटा,, भृवोर्मध्ये मस्तकोर्ध्वं द्वादशान्तस्थाने शिवासनं शिवमूर्तिं
प्रासादेन ब्रह्मविष्णुरूद्रमहेश्वरसदाशिवमूर्तिं विचिन्त्ये रेचकेन एकीकृत्य कुम्भकेन न्यस्त पुष्पोपरि
सदाशिवं सम्योज्ये कोटिचन्द्रप्रकाशितं कुसुमं ध्यात्वा नमोवःकिरिकेभ्यो इति स्थापनं
हृदयासनम् अञ्जलिमानीय बिन्दुरूपं विचिन्त्य पटाग्रमारोप्य रेचकेन दिव्यदृष्ट्यावलोक्य तत्र
वसूनां हृदस्थादुद्भवमुद्रया मूलेन नमोन्तं लिङ्गस्य मस्तकोपरि आवाह्य दक्षिणहस्तेन
सम्स्थाप्य दण्डभङ्ग्या क्रमेण
ब्रह्माङ्गानि विन्यस्य दिग्बन्धनममृतिकृत्य पञ्चवक्त्रषडङ्गमूलेनार्घ्यं दत्वा
॥स्तिकादि रुद्रदेशान्तं दण्डभङ्ग्या क्रमेण पञ्चब्रह्मं विन्यस्य महेश्वरस्थाने शिवासनं शिवमूर्तीं
विद्यादेहं विन्यस्य शिवाम्शे नेत्रत्रयं विन्यस्य मस्तकादिरुद्रभागान्तम् ईशानपञ्चकं विन्यस्य पुनश्शिवासनं
विधाय षोडशाङ्गं विन्यस्य
दिग्बन्धनामृ(नममृ)तीकृत्य मात्रका कलाभङ्ग्या यथाक्रमं विन्यस्य अनन्तं
वामहस्ते पुष्पं विन्यस्य पूर्ववत् पञ्चशुध्यादि अञ्जलिमुद्रां कृत्वा ॥॥।नस्सर्वविद्यानामिति
आदि सद्योजातं प्र॥।न्त मन्त्रेणावाह्य स्थापनादि दिग्बन्धनान्तहृदयेनाद्यस्त्रमन्त्रैः विन्यस्य
नमोवःकिरिको(के)भ्यो इति स्थापनम्
अस्मिन् हस्तेनवेदिति सन्निधानं यातेरुद्रेति निरोधनम् अध्यवो॥।
इत्यवकुण्ठनं त्रियम्बकम्यजामहेति परमीकरणं प्रमुञ्चधन्वनेति दिग्भन्धनं विधाय अर्घ्यं दत्वा
शिवगायत्रिमन्त्रेण पुष्पाञ्जलित्रयं दद्यात् पञ्चवक्त्रेषु ईशानादिपञ्चमुद्रां प्रदर्श्य मध्ये षडङ्गैः
पञ्चमुखीमहामुद्राञ्जलिं प्रदर्श्य
ॐ हां शिवाय स्वधेत्याचमनम् ॐ हां शिवाय स्वाहा
इति अर्घ्यं पाद्यार्घ्याचमनादि धूपदीपं दत्वा रूद्रसूक्तादि पदमन्त्रम् एकवारं जपेदिति आवा॥।
अभिषेकार्थं सिह्मासनं सम्पूज्य वौषडन्तमूलेन लिङ्गमस्तकोपरि पुष्पं विन्यस्य देवं
प्रार्थयेत् देवदेव जगन्नाथ पञ्चवक्त्रस्वरूपिणे अहरक्षाभिषेकार्थम्
ऊर्ध्वस्य
अभिमुखो भव एवं प्रार्थ्य मूलेन अभिषेकपात्रमादाय पात्रपृष्टमध्योष्टमध्ये सोमसूर्याग्नि
मण्डलं सम्पूज्य मूलेन सम्पूज्य चन्द्रसूर्यकालं दृष्वा(दृष्ट्वा)भिषेचयेत् भीमसम्हितायां सोमार्कनाशने
काले पूजनं सर्वसिद्धिदं तत् कालरहिते काले यजनं निष्फलं भवेत्
ऊर्ध्वप्रान्ते स्त(त)थादित्यः अधः प्राणस्तु चन्द्रमाः। तयोर्निरोधनं कृत्वा चन्द्रकारहितं स्मृतं
एवं क्रमेण ऊर्ध्वाधप्राणवायुं निरुध्य मूलमन्त्रकालोत्तर-सङ्ख्यया पूरितजलं
परिमलमिश्रं कलशात् पूरकेण सङ्ग्राह्य रेचकेणाहृत्य तत् पद्माद्योर्ध्वं कुम्भकेन
वामदक्षिणहस्ताभ्यां सम्बध्वा लिङ्गमस्तके चतुरगुलाय गोश्रिङ्ग-प्रमाणेन अभिषिच्य
पुनस्तैलं हृदयेनाभिषिच्य कवचेन पिष्टामलकं लिङ्गपिन्डिकामनुलिप्य शुद्धोदकमभिषिच्य
व्योमव्यापिनाभिमन्त्र्य धूपदीपार्घ्यं दत्वा अस्त्रेण क्षीरदधिघृतमधुइक्षुशबिल्व
अस्त्रेण
अर्घ्योदकं भुवनकलातत्व मन्त्रेणाभि[षि]च्य रजनीमिश्रजलं शान्तिमन्त्रेण पिठोपाभिषिच्य(पिठे वा अभिषिच्य)
मूलेन गन्धोदक-मभिषिच्य विशेषार्घ्योदकं मूले मृगमदकर्पूरकुङ्कूमपङ्कजमिश्रगन्धोदकं
लिङ्गपिण्डिकामनु(कामु)पलिप्य हृदयेन पुष्पमभ्यर्च्य
नैवेद्यधूपदीपार्घ्यं दत्वा उदकेन
अभिषिच्य मूलेन सहस्रधाराभिषेकेन नवकलशस्नपनोदकं शङ्खोदकं पञ्चब्रह्माङ्गेन शुद्धोदकम्
अभिषिच्य। मस्तके पुष्पम् एकं विन्यस्य ।
अभ्यङ्गादि पिष्टामलकादि पञ्चगव्य
मृतायदुग्धदधिञ्चैवासपि मधु च लक्षुफलनालिकेर सुगन्धाधासनपनं शन्खं
धौतवस्तेणोनर्तनं कृत्वा विरतन्त्रे कृतमुद्वर्तनं धौतवस्त्रे शुद्धिं समम्भवेत् न कुर्यात्
उपवस्त्रेण कृतवा सूर्यप्रदर्शनं कलायोग्यवस्त्रगन्धः पुष्पमालोपवीतैसार्धं पट्टमकुण्डल
हारदाम् अदिभिः
लिङ्गदेहे विधिवत् अलङ्करणं कृत्वा कारणे पूर्वाह्ने पीतवस्त्रन्तु मध्यान्हे
रक्तवस्त्रकं सा॥॥॥।स्त्रन्तु अर्धयामेतु ॥।वत् अभावे वस्त्रन्तु कारयेत्सर्वकालकं
लिभोत्सथं च मानेन एकाशम्वस्त्रवेष्टिं द्वितीय्यं भूषणं चैव त्रितीय्यं पुष्पशोभितं चतुर्धं
गन्धलेपतं सर्वाङ्गमनुलेपयेत्
मूलेनपूष्पं समर्प्य नमस्कारमुद्रां प्रदर्श्य
अजिते लिङ्गपीठं तथा मध्ये पञ्चप्रत्यं च येत्सुधिः मस्तकेशानमीशन्तु पूर्वे
पुरुषवक्रकम् अघोरं देक्षिणे वक्त्रे वामदेवञ्च तोत्तरे पश्चिमे सद्रिवक्त्रन्तु पूजयेत्
॥॥॥।गिकम् आग्नेय्यां हृदयं पूज्य शिरःप्रजन्तु नोऋते वायव्यान्तु शिखाम्पूज्य
ईशेवर्मञ्च पूजयेत् नेत्रस्थानं न्यसेन्मध्ये तद्दिशामस्तमस्तके नमोन्तं
हृदयेन्यत्स्वाहावैषठृत् स्तथा वौषडोहुफडन्तेति मस्तकोर्ध्वेन्तु पूजयेत्
उत्येवं प्रथमं पूज्य द्वितिय्यं पिण्डिकोपरि विद्यरान् दलमध्येतु ऊर्ध्वपट्या प्रतन्त्वति
गणेशाकर्णपूज एदावृतत्रयम् अधोपट्यान्तु दुक्पालान् चतुर्धवृतम् अर्चयेत् आयधानि
शिलायान्तु प॥॥॥ सुपूजयेत् इत्येवं वक्त्रभङ्गी च देहभङ्गीस्तथोच्यते सदाशिवमहेश्वर
रुद्रविष्णु विधीश्वरात् पूजयेत् वक्तपूर्वादि ईशानान्तम् ईशानाद्यदिपञ्चकं पञ्चवक्त्रं भवेत्
पञ्चविम्शति पञ्चदेहं पूजयेत् देवदवेश अधोवक्त्रं तथा सृतम् इत्येवं क्रमेण मस्तकम् ईशानभागे
ॐ होम् ईशानाय नमः पूर्वे तत्पुरुषवक्त्राय नमः
दक्षिणे अघोरहृदयाय नमःउत्तरे
वामदेवगुह्याय नमः। पश्चिमे सद्योजातमूर्तये नमः इत्यभ्यर्च्य अम्शुमतिगौरीगङ्गाणार्थ
अम्बिका पञ्चशक्तयः। इत्येवं पञ्चशक्तिञ्च ईशानादिषु पूजयेत् आग्नेय्यां हृदयाय
नमः। नैऋते शिरसे नमः स्वाहावायवे शिखायैवौषट् ईशाने कवचायहुं मध्ये
नेत्रत्रयाय वैषट् तस्येशाने हस्त्रयहुफट् इत्यभ्यर्च्य महेश्वरभागे विद्यादेहाय नमः
सूक्ष्मेवामिनीचाग्नि देशेतु नीलिनिऋति गोचरे शक्तीचानलदेशेतु पाशङ्किमुशदेशके खट्यगिनिमस्तके
देशेगङ्भिनेमीशगोचरे विद्याहे च वाग्निश्च पूजयेत् सप्तशक्तिकाः द्वितीय्यावरणे
पिठोर्ध्वपट्टिको परिपूर्वाद्यष्टदलेषु
ॐ हाम् अनन्ताय नमः ॐ हां सूक्ष्माय नमः ॐ हां
शिवोत्तमाय नमः ॐ हाम् एकनेत्राय नमः। ॐ हाम् एकरुद्राय नमः। ॐ हां त्रिमूर्तये नमः।
ॐ हां श्रीकण्ठाय नमः ॐ हां शिखण्डिने नमः इत्यभ्यर्च्य इति अष्टविद्येश्वरान् सम्पूज्य शक्तिमर्चयेत्
धृतिस्वधा च क्षा॥॥पुष्टि चतुर्थकश्रुतिः कूर्तिञ्च मेधाच शक्तिनामाष्टकं शुभम् इति
सम्पूज्य
कर्णदेहपूर्वादि चतुर्दिक्षु द्वयसङ्ख्ययाम् अर्चयेत् त्रितीय्यावरणे इन्द्रीशानयोर्मध्ये
ॐ हां नन्दिने नमः। इन्द्रग्नयोर्मध्ये ॐ हां महाकालाय नमः। यमाग्नयोर्मध्ये ॐ हां भृङ्गिणे
नमः यमनैऋतयोर्मध्ये ॐ हां गणपतये नमः।नैऋतिवरुणयोर्मध्ये ॐ हां वृषभाय नमः।
वायुवरुणयोर्मध्ये ॐ हां स्कन्दाय नमः वायुकुबेनयोर्मध्ये देव्यै नमः
ईशान
कुबेरयोर्मध्ये चण्डाय नमः। इति सम्पूज्य शक्तिमर्चयेत् कन्ठी च कालकन्ठी च मोहिनीमालिनी तथा
नन्दिनी च वनावल्लीमतिभूताष्टशक्तयः इत्यभ्यर्च्य चतुर्थावरणे अथ पट्टिकां प्रक्यां पूर्वे ॐ हां लं
इन्द्राय नमः। रम् अग्रये नमः।यं यमाय नमः � क्षं निऋत्ये नमः। सं वरुणाय नमः। वं वायवे नमः।
हं कुबेराय
नमः शम् ईशानाय नमः � ईशानस्य दक्षिणे ॐ हां ब्रह्मणे नमः नेऋत्युत्तरे ॐ
हां विष्णवे नमः इत्यभ्यर्च्य शक्तिं पूजयेत् शचीस्वाहा कालकण्ठिजाताचाहरिरन्जना दग्धा
जिवाच वर्गदेवीश्रियछ देशशक्तयः इत्यभ्यर्च्य पञ्चमावरणे आधारिलायां पर्वादिदेशदिक्षु
ॐ हां वज्राय नमः शक्तये नमः दण्डाय नमः
खटुगाय नमः पाशाय नमः अङ्कुराय नमः गदाय नमः
त्रिशूलाय नमः चक्राय नमः पद्माय नमः सम्पूज्य शक्तिमर्चयेत् विलासूरूपिणीचैव धारिणी विमुखी
तथा निर्मलिदुर्मलीदेवि मतिश्रीश्च समा॥निसुदाविहम्समाली च अयुधानाञ्च शक्तयः
इत्यभ्यर्च तेपञ्चावरणे कारणे ब्रह्मागानां प्रथमं पुरस्तद्विद्येश्वराणाञ्च गणेश्वराणां
दिक्पालकानाञ्च दशायुधानाम् ईशस्य पञ्चावरणक्रमेण अथ
ब्रह्मपटिकोधः प्रात्याः पूर्वेतु प्रकृतितत्वाय नमः मनस्तत्वाय नमः बुद्धितत्वाय नमः।
अहङ्कारतत्वाय नमः शक्तितत्वाय नमः श्रोत्रतत्वाय नमः त्वक्तत्वाय नमः चक्षुस्तत्वाय नमः
जिह्वातत्वाय नमः प्राणतत्वाय नमः पादतत्वाय नमः पादतत्वाय नमः पाणितत्वाय नमः पायुतत्वाय नमः
उपस्थतत्वाय नमः स्पर्शतत्वाय नमः रूपतत्वाय नमः रसतत्वाय नमः गन्धतत्वाय नमः आकाशतत्वाय
नमः
वायुतत्वाय नमः अग्नितत्वाय नमः कालतत्वाय नमः प्रथिवितत्वाय नमः इत्यभ्यर्च्य ॐ हाम् आत्मतत्वाय
नमः (३र्द् ) आत्मतत्वाधिपतये सृष्टिरूपाय सरस्वतीसमेताय ब्रह्मणे नमः ब्रह्मजज्ञानं
इति मन्त्रेणाभ्यर्च्य
सिद्धान्तरत्नाकरे ः-
ध्यानम् ः-
ब्रह्माणञ्च चतुर्वक्त्रं चतुर्बाहुं जटोर्ध्वकम्।
गण्डिदण्डसमायुक्तं वराभयकरं शुभम्॥
इति ध्यात्वा गायत्रीमभ्यर्च्य । कन्देशादि ऊर्ध्वपट्टिकायाः
ऊर्ध्वपट्टिकाधः पर्यं(पर्यन्तं) विष्णुभागे पूर्वपलावृत्या मायातत्वाय नमः पुरुषतत्वाय नमः।
रागतत्वाय नमः विद्यातत्वाय नमः कलातत्वाय नमः नियतितत्वाय नमः कलातत्वाय नमः इत्यभ्यर्च्य ॐ
ह्रीं विद्यातत्वाय नमः
विद्यातत्वाधिपतये विष्णवे स्थितिरुद्ररूपाय लक्ष्मीसमेताय विष्णवे नमः इदं विष्णुरिति मन्त्रेणाभ्यर्च्य
ध्यानम्-
नीलाख्यरूपञ्च मुखारविन्द॥ताम्बराभीतिवरोरूहस्तम्।
चक्रायुधं शङ्खकिरीटमौलीं नमामि शान्तं परवासुदेवम्॥
इति ध्यात्वा गायत्रीं विन्यस्य
ऊर्ध्वपट्टिकादिरुद्रभागे पूर्वादि पूर्वान्तमावृत्य शिवतत्वाय नमः शिवत्वाधिपतये सम्हाररूपाय नमः
रुद्राणि समेताय रुद्राय नमः योरुद्रो इति मन्त्रेणाभिमन्त्र्य
ध्यानम्-
नयन नवगुणाढ्यं नागयज्ञोपवीतं कररसपदयुग्मं कालकण्ठाग्निकेर(श)म् ।
अभयवरदशूलं अक्षमालाग्निवामे मृगधरस्थितरूपं रूद्रमूर्तिं नमामि ॥
इति ध्यात्वा गायत्रीं विन्यस्य इति त्रितत्वत्रयार्चनम्
अथ ऊर्ध्वमहेश्वरभागे पुर्यष्टकमर्चयेत् अहङ्कारतत्वाय नमः मनस्तत्वाय
नमः बुद्धितत्वाय नमः गन्धतत्वाय नमः रसतत्वाय नमः रूपतत्वाय नमः स्पर्शतत्वाय नमः शब्दतत्वाय
नमः इत्यभ्यर्च्य तिरोभावरूपाय महेश्वरीसमेताय महेश्वराय नमः
योवेदादौ स्वरप्रोक्तः
वेदान्ते च प्रतिष्टि(ष्ठि)त इति मन्त्रेणाभिमन्त्र्य
ध्यानम्-
चतुरस्याष्टहस्तश्च नेत्रद्वादशसम्युतम् ।
कङ्कालडिण्डिमं पाशम् अङ्कुशं गण्डधूपकम्॥
वराभयकरोपेतं यज्ञसूत्रविराजितम्।
रक्ताभं पादुकपदं जटामकुटमण्डितम् ॥ *
इति ध्यात्वा गायत्रिमभिमन्त्रिय(न्त्र्य) सदाशिवभागे स्थूलतत्वाय नमः सूक्ष्मतत्वायनमः कालतत्वाय नमः
इत्यभ्यर्च्य अनुग्रहरूपाय मनोन्मनीसमेताय सदाशिवाय नमः। ईशानस्सर्वविद्यानामिति मन्त्रेण
अभिमन्त्रिय(न्त्र्य)
ध्यानम्-
शरच्चन्द्रनिभाकारं पञ्चवक्त्रसमन्वितम्।
दशबाहुसमायुक्तं हृगलञ्चैवमेव च॥
द्विपादे चित्रवस्त्राद्यं सर्वाभरणभूषितम्।
जटामकुटसंयुक्तं टङ्कशूलसमन्वितम्॥
अस्तिवज्रसमायुक्तम् अभयं दक्षिणे धृता।
सपाशं वरदं घण्टां दहनं चाङ्कुशं भवेत्॥
वामहस्ते धृतं* देवाः तन्मध्ये ज्योतिरूपकम् ।*
इति ध्यात्वा गायत्रीं विन्यस्य पुर्यष्टकगुणे तत्वं महेशं चैव
राम्शकं पूजयेन् मन्त्रयुक्तेन सर्वसिद्धिकरं शुभम् इति भोगाङ्गशिवासने
मूर्तिमभ्यर्च्य विद्यादेहनेत्रत्रयादिब्रह्माङ्गैरभ्यर्च्य आवाहनं विधाय मातृकादिकलाभं
विन्यस्य धेन्वादिपञ्चमुद्रां प्रदर्श्य धूपदीपौ दत्वा अस्त्रेण पाद्याचमनीयं
विधाय विजये भोगाङ्गं दण्डभङ्गी च मूलाङ्गं मुण्डभङ्गिकं विधाय पूजयेत्
सकलान् अर्चनाक्रम(मं) तद्वत् नैवेद्यार्घ्यं विमलासनमभ्यर्च्य त्रिपादिकोपरि
हविस्थालीं सव्यजानु (व्यञ्जानु) संस्थाप्य अस्त्रेण घण्टां ताडयित्वा।
कारणे-
असुराराक्षसाश्चैव पिशाचा ब्रह्नराक्षसाः।
मणिशब्दनिनादेन गम्यन्ते दूतस्तथा॥
द्वारे विघ्नेश्वरस्य
हविस्ताम्बूलं निवेद्य पश्चात् देवसन्निधौ हविस्तालिकाम् अस्त्रेणाभ्यर्च्य पञ्चशुद्धिं विधाय
हविर्मध्ये पुष्पं विन्यस्य धेन्वादि महामुद्रां प्रदर्श्य कवचेनामृतीकृत्य भूर्भुवस्वरिति प्रोक्ष्य
परिषिच्य भोजना(नं) विधाय प्राणाय स्वाहेति मन्त्रेण अन्नसूक्तं जपित्वा स्वहस्तप्रदक्षिण्येन
गौरिहस्तेनां(न) दत्वेति भावयित्व अन्नं शिवहस्तयोजनार्धं प्रकृतिहस्तेन संयोज्य
सूक्तां ते उत्तरापोशनं दत्वा स्थालिकामन्यदेशे विन्यस्य करस्य पादप्रक्षालनार्थं शुद्धोदकेन
त्रिवारं निक्षिप्य।
कामिके-
शुद्धान्नमूर्ध्ववक्त्रे तु गुलान्नं पूर्ववक्त्रके।
तिलान्नं देक्षिणेवक्त्रे मुद्गान्नञ्च तथोत्तरे॥
पश्चिमे पायसान्तञ्च पञ्चवक्त्रं निवेदयेत्।
कपित्थस्य फलं सारं यावत् कुञ्जरभक्षणम्॥
तथा चरेद्यथाभुक्तं लिङ्गवक्त्रं निवेदयेत्।
आचमनार्घ्यपात्रम् एकपञ्चसङ्ख्याभि(भिः) हस्तोर्ध्वं
पादयोर्दत्वा आस्योद्वर्तनार्धं मुखवासं दर्शयेत् एलालवङ्गकर्पूरगुलिकाभिस्सार्धं
ताम्बूलं निवेद्य उपचारार्धम् अनन्तासनं सम्पूज्य धूपदीपादि मात्राक्रमेण पञ्चवक्त्राङ्गै
सन्दर्श्य प्रार्थ्य विसृज्य हस्तं प्रक्षाल्य आरात्रिकादिनीराजनं भस्म-दर्पण-च(छ)त्र-चामर-व्यजन- ताम्बूल-
प्रस्तार्घ्यपात्र-पाद्याचमनिय-मन्त्रपुष्पाशीर्वादान् यथाक्रमेण उपचारं विधाय अनन्तरं चतुर्वेद-
अद्य(ध्य)यन-सूत्र-पुराण-द्राविडस्तोत्रविज्ञ्यापन-गीतादिक्रमेण वाचयित्वा नृत्तमन्टपे ताल-मद्द-वाद्य
गीत-नृत्तोपचारादि विज्ञापयेत् इति शिवार्नविधिः।
भोगशक्तिपूजै ः-
अथ अग्रमण्टपोत्तरे उमामन्त्रेणा(ण) आसनमूर्त्यादि
मुलेनावाह्य स्थापनादिपञ्चमुद्रां प्रदर्श्य मात्रु(तृ)का पञ्चविम्शतिकलान्यासं विधाय शक्तिं मूलेन अभिषेकार्थं
अर्घ्योदकेन सम्प्रोक्ष्य पूर्वं वस्त्रं परिहृत्य वस्त्रेणा(णो)द्वर्तनं कृत्वा वस्त्रगन्धमालादिभः अलङ्कृत्य
हेमाभरणधामादिभिरलङ्कृत्य पद्मासनमभ्यर्च्य आवाह्य
गायत्रीं हृदोपरि देशवारमभिमन्त्र्य
ध्यानम्-
शा(श्या)माभां चित्रवस्त्रां सरसिजवदनां शान्तकुभाङ्गभूषाम्।
केशं बद्धं त्रिभङ्गीं स्तनभरनि(न)मितां दीर्घपादान्यवक्त्राम्॥
योगाङ्गी भोगशक्तिं कुमुदकरतलावामहस्ताम्बुजाताम् ।
देवीं नित्यप्रसन्नां जयवरनयनां देवदेवीं नमस्ते ॥
इति ध्यात्वा शक्तिमनुसमेतम् ईशानादिब्रह्माङ्गेन सम्पूज्य द्वितियावरणे पूर्वाद्यष्टदिक्षु वामादिसर्वभूतदमनान्तम्
अभ्यर्च्य मध्ये महेश्वरीं सम्पूज्य इन्द्राद्यष्टदिक्षु इन्द्रादिशक्तिं सम्पूज्य ईशानदक्षिणतः सरस्वती
नैऋत्युत्तरतः महालक्ष्मीम् अभ्यर्च्य नैवेद्य धूपदूपार्घ्यं दत्वा इति भोगशक्त्यार्चनविधिः।
अग्निकार्यम् ः-
ऐशान्ये यागमण्टपे व(वा)
पचनालये व(वा) चतुरश्रं वृत्तं कुन्डं वा हस्तमात्रत्रिमेखलो सहितं विधितिनोन्नतं परिकल्प्य
पूर्वास्युत्तरास्यो वा ऊर्ध्वमेखलोपरि नाभिं परिकल्प्य नाभिदेशास्यमुपविश्य प्राणायामादि सकलीकृत्य
पवित्रपाणिः प्रणवेन समान्यार्घ्यं साधित्वा कुण्डम् अर्घ्यजलेन प्रोक्ष्य तत्क्षेत्रमस्त्रेण गोमयेनोपलिप्य
मार्जनं विधाय प्रदक्षिणस्थितद्रव्याण(णि) पञ्चशुद्धिं कृत्वा पञ्चचूर्णैरलङ्कृत्य कुण्डे विधिवत्
अष्टादशसंस्कार(रं) विधाय पूर्वदक्षिणपश्चिमोत्तरमध्ये कलापञ्चकम् अभ्यर्च्य अस्त्रेण त्रितन्तुनावेष्ट्य
ब्रह्मविष्णु
अनन्तादीन् सम्पूज्य स्वदर्भहस्तेनोल्लेखनमन्त्रैलिख्य लिखितमध्ये चतुष्पादमस्त्रेण सम्पुज्य मध्योत्तरदक्षिणेषु
रुद्रविष्णुब्रह्मादिदेवान् सम्पूज्य अन्यरेखोपरि रौद्रीं लक्ष्मीं सरस्वतीं सम्पूज्य तन्मध्ये चतुष्पदान्या
सार्धं कुशमस्त्रेण पूर्वोत्तराग्रं विन्यस्य दू(द)र्भेरक्षकपाटं कवचेन सम्स्थाप्य मध्यदेशे
कुर्चद्वयोपरि व(वा)गीशीवागीश्वरौ सम्पूज्य गन्धादिभिरभ्यर्च्य पचनालयाग्निं मृत्पात्रे ताम्म्रपात्रे वा सम्स्थाप्य
अग्निम् आदाय कुण्डस्य सव्यभागे निधाय मूलेनाभ्यर्च्य ततो अग्निमध्ये भूताग्निं सुषुम्नानाडीमार्गेण
अग्निबीजैस्समं तत्कुम्भकेन प्रक्षिप्य रेचकेन बैन्दग्निं समरीकृत्य अग्निं सम्योज्य अभ्यर्च्य शिवाग्निं
विभाव्य मूलेन सम्पूज्य अग्निपात्रम् आग्नेय्यादि ऐशान्यां वा निधाय क्रव्यादाम्शम् अग्निशकले नैऋतदेशे
निस्सार्य्य अग्निमध्ये तत्वत्रयादिसम्हितां सम्पूज्य मूलेनावाह्य चैतन्यरूपं भावयित्वा अग्निपात्रे
नाभेरुपरि सम्स्थाप्य कुण्डमध्ये कूर्चोपरि वागीश्वरीवागीश्वरौ यौवनरूपौ विभाव्य
ध्यानम्
श्यामरूपशशिरसुयौवनां सोममालशिरकेशभूषितम्।
पूर्णसोमवदनामृतुमतीं भावयामि *परमाग्निमातरम्॥
इति ध्यात्वा आं हां वागीश्वर्य्यै नमः। इति सम्पूज्य तत्समीपे वागीश्वरमभ्यर्च्य
ध्यानम्-
त्रिणेत्रं पञ्चवदनं श्वेतवर्णं चतुर्भुजम्।
वराभयाक्षमालाब्जं धरं वागीश्वरं विभुम्॥
इति ध्यात्वा ॐ हां वागीश्वर्यै
नमः। इत्यभ्यर्च्य अग्निं सम्हितामन्त्रेणावकुण्ठ्य परिभ्राम्य मूलेन भूमिष्टजानूर्ध्वधः।
ऊर्ध्वहस्ताभ्याम् अग्निना साग्रमुदृत्य योनिमार्गेण सम्योजयेत् पात्रं कुण्डनाभिदेशे सम्स्थाप्य
जलेन सम्प्रोक्ष्य पुष्पाक्षतान् विनिक्षिप्य अन्यदेशे निधायाशौचाचमनशुध्यर्थं हृदयेन जलबिन्दुं
निक्षिप्य
वर्मणा सदिन्धनैराछाद्य अस्त्रेण प्रज्वाल्य मूलेन गर्भाग्निं नमोन्तेन सम्पूज्य
अस्त्रेण गर्भरक्षार्थमभिमन्त्रिय कवचेन देवीहस्ते दर्भकङ्कणं बध्वा सद्योजातेन गर्भादानार्थम् अभ्यर्च्य हृदयेन
तिलाहुतित्रयं दत्वा। तृतीये मासि पुम्सवनार्थं वामदेवेन
सम्पूज्य शिरमन्त्रेण तिलाहुतित्रयं दत्वा अम्भसा त्रिबिन्दुं निक्षिप्य षष्ठे मासि सीमन्तोन्नयनार्थं
अघोरेणाभ्यर्च्य शिखामन्त्रे[ण] तिलाहुतित्रयं हुत्वा
पुनः वक्त्राङ्गकल्पनार्थं तन्मन्त्रेण त्रिवारमभिमन्त्रिय दशमे मासि तत्पुरूषेण जननार्थं सम्पूज्य तिलाहुति
त्रयं कवचेन हुत्वा पुनः वक्त्राङ्गकल्पनार्थं तन्मन्त्रेण त्रिवारमभिमन्त्रिय जननार्थं सम्पूज्य अग्निजातं भावयेत्
गर्भाशौचस्नानार्थम् अग्निं दर्भाद्यै सन्दुक्ष्य देवीहस्तपूर्वकङ्कणं
मूलेनोन्मृज्य बालरक्षार्धं
हेमकङ्कणं देवीवामहस्ते बध्वा हृदयेन सम्पूज्य सूतकविमोचनार्थं कुण्डमस्त्रेण सम्पूप्रोक्ष्य
दर्भेण सन्ताड्य वर्मणाभ्युक्ष्य अग्निसम्रक्षार्थं प्राच्यादि सप्तदर्भैम(र्म)ध्यमेखलाया
परिस्तरणं निधाय अस्त्रेण चतुर्दिक्षु परिधीन् सम्स्थाप्य अग्नीम्लालापनोदनार्थं पञ्चसमिधः।
मूलाग्रयोः आज्यं सिक्त्वा अग्निमन्त्रेण स्वाहेति हुत्वा
पूर्वादिचतुर्दिक्षु परिधिदेशे
ब्रह्मविष्णुरुद्रअनन्तमूर्तीन् सम्पूज्य पूर्वे अघोरेण अस्त्रेण समिधौ ऊर्ध्वाधौ रक्षार्थं विन्यस्य विष्टरो
पूर्वे इन्द्राय नमः। इति क्रमेणाष्टदिक्षु ईशानान्तं सम्पूज्य यधोक्तवत् ब्रम्ह्मविष्णुमभ्यर्च्य अग्निं
परिषिच्य बालाग्निं ध्यायेत्-
बालाग्निरूपं तनुक्तवर्णं षण्णेत्रवक्त्रं द्वयसप्तजिह्वासु।
आज्यपात्रस्य जनञ्च घटां शक्त्याक्षमाकरतोमराद्यम् ॥
ॐ हां बालाग्नये नमः इति बालाग्निं
सम्पूज्य सृक्सृवादूर्ध्वा अधोमुखं ग्राह्य पञ्चशुद्धिं विधाय दर्भमूलमध्याग्रेण
सृक्सृवमूलमध्याग्रान् प्रत्येकं ब्रह्मविष्णुरुद्रान् सम्स्पृश्य अग्नौ परिभ्राम्य दर्भाग्नौ
परिहृत्य मूलादिपादान्तं तत्तस्थानेषु तत्देवतामूलेना(न) अभिमन्त्रिय सव्यभागे कुशोपरि सम्स्थाप्य
तयोरुपरि शिवशक्तिं सम्पूज्य कवचेन त्रितन्तुनावेष्ट्य ।
ध्यानम्-
सृक्सृवं शक्तिशम्भु *द्वयमुखसुषिरं शुद्धविद्यात्मरूपं।
अग्रं नादान्तनादम् अमृतमयपदम् अन्नमन्नादिमूलम् ॥
शम्शक्तां *मन्त्रपूतं समगलरविशं श्याद्यनालं सुषि- *
पतङ्गण्डादौ नाभिदण्डापजनितसुरभिमडतत्वम् अनाद्यम्॥
इति ध्यत्वा स्थालीं वामपार्श्वोध्वमेखलोपरि सम्स्थाप्याज्यमापूर्ववत् शुधिं कृत्वा नाभिसमीपे
किञ्नोपरि विन्यस्य शुद्धीकरणार्थं दर्भाग्रं प्रज्वाल्य आज्यं परिभ्राम्य अग्नै क्षिप्त्वा
अस्त्रेण दर्भाग्रद्वयम् आज्यमद्ये निक्षिप्य आज्यस्थालीं नाभेरुपरि सम्स्थाप्य अग्निं
सम्योज्येत्। तदनु अतिधावनमतिश्रवण॥॥॥न होमार्थं स्वात्मानं
ब्रह्मविष्णुरुद्रमयं ध्यात्वा तत्तन्मन्त्रेण
दर्भाग्रै(ग्रैः) दक्षिणीशाननाभिदेशे घृतपात्रं सम्स्थाप्य कुशाग्रेण जुहुयात्
प्रादेशमात्रं द्विदर्भेण मध्यग्रन्थिपवित्रकम् आज्यमध्ये निक्षिप्य हृदा अस्त्रेणो(णा)प्लवनं वामदक्षिण
कनिष्टाङ्गुष्ट(ष्ठ)मूलाभ्याम् अग्रमूलसमङ्गृहीत्वैव त्रिधोप्लवनं परे पूर्ववत् अस्त्रेण सम्प्रोक्ष्य
अस्त्रेण त्रिधा कृत्वा तत् पवित्रग्रन्थिमुन्मुच्य अर्ध्यजलेन सम्प्रोक्ष्य अग्नौ क्षिपेत्
पवित्र॥रणार्धम् अस्त्रेण एकदर्भेनाग्निं प्रज्वाल्य आज्यहविद्रव्यपात्राणि सन्दृश्य परिभ्राम्य
अग्नौ परि विसृजयेत् पुनर्द्विदर्भैः पवित्रमाज्यमध्ये सम्स्थाप्य इडापिङ्गलासुषुम्नायमाज्यं
परिकल्प्य अग्निं मूलेनाभिमुखं भावयित्वा अस्त्रेण मृगमुद्रया सृवं सङ्ग्राह्य
सृवेण आज्यदक्षिणभागे
सङ्ग्राह्य अगये(ग्नये)स्वाहा इति दक्षीणनेत्रे वामभागादाज्यमादाय ॐ हां सोमाय स्वाहा
इत्यग्निवामनेत्रे मध्यभागे आज्यमादाय ॐ हाम् अग्नीषोमाभ्या स्वाहा इत्यग्निमध्यनेत्रे ॐ हां
अग्नये स्विष्टकृते स्वाहेति इत्यग्निवक्त्रे च स्वाहेति हुत्वा कृष्णपक्षे तु
ॐ हां सोमाय
स्वाहा इति अग्निवामनेत्रे वाभा(वामभा)गादाज्यमादाय ॐ हाम् अग्नये स्वाहेति अग्निदक्षिणनेत्रे मध्यादादाय
ॐ हाम् अग्नीसोमाग्निभ्यां स्वाहा इति अग्निमध्यनेत्रे ॐ हाम् अग्नये स्विष्टकृते स्वाहा इति
अग्निवक्त्रे च पूर्ववत् स्वाहेति हुत्वा आज्यशेषम् आज्येन सम्योजयेदिति शुक्लकृष्णपक्षमाज्यशोधनं
पुनस्सम्हितया अभिमन्त्र्य दिक्बन्धनावकुण्डनं विधाय सुरभिमुद्रयामृतीकृत्य मूलेनाभिमन्त्रय हृदयमन्त्रेण
घृतबिन्दुक्षेपादाज्यशुद्धिं विधाय तदनु ॐ हां सद्योजाताय स्वाहा ॐ हां वामदेवाय स्वाहा
ॐ हुम् अघोराय स्वाहा ॐ हां तत्पुरुषाय स्वाहा ॐ होम् ईशानाय स्वाहा इति मन्त्रेण एकाहुतिं हुत्वा
ॐ हां हिं सद्योजातवादेवाभ्या(भ्यां) स्वाहा ॐ हीं हुं वामदेवअघोराभ्यां स्वाहा ॐ हुं हें
अघोरतत्पुरुषाभ्यां स्वाहा ॐ हें हों तत्पुरुषीशानाभ्यां स्वाहा इत्याहुत्या
मुखं सम्योगं विधाय मुखैकरणार्धं सद्यादीशानान्तम् आग्नेय्यादिवायव्यन्तं
नैऋत्यादि ईशानान्तं स्वाहेति सृवेण आहुतिं हुत्वेति वक्त्रैकीकरणं विदध्यात्
नामकरणार्थम् ईशेनाभ्यर्च्य
अस्त्रेण आहुतित्रयं हुत्वा शिवाग्निस्त्वं हुताशनेति नामकृत्वा हृदयेन अग्निमातरपितरौ
नमोन्तं सम्पूज्य प्रसूनैरभ्यर्च्य उद्वास्य जिह्वासन्धानार्थं वन्निमध्ये पूर्वदक्षिणपश्चिमोत्तरम्
ईशाननैऋतिमध्ये देशेषु हिरण्यादिबहुरूपान्तम् आहुतिं हुत्वा पूर्ववत् मुखसम्योगकरण
क्रमेण
ॐ हुम् इति बीजेन स्वाहान्तमाहुतिं हुत्वा जिह्वानामेकीकरणं विभावयेत् यज्ञेश्वर
चरुप्राशनादिविवाहान्तं कर्म सम्स्कारोक्तवत् तत् कर्मार्थं षडङ्गमन्त्रेण प्रत्येकम् आहुतित्रयं हुत्वा कुण्डविशालं
यथाभिलिषितं सङ्कल्प्य मध्यजिह्वायां वौषडन्तं मूलेन सृक्सृवाभ्यां यथोक्तवत् पूर्णाहुतिं
हुत्वा सृक्सृवमाज्यं यवप्रमाणधारया अग्नौ क्षिपेदिति पुर्णाहुतिं हुत्वा
उपविश्य
अग्निं परिषिच्य मूलेन शिवासम्हितामन्त्रेणाभ्यर्च्य पालाशोद्धृतान् अभ्यर्च्य आवाह्य पूर्वमुद्रां
प्रदर्श्य अग्निं ब्रह्माङ्गै(ङ्गैः) सम्पूज्य।
ध्यानम्-
पिङ्गलाङ्गं त्रिणेत्रञ्च जटामकुटमण्डितम्।
गण्धाक्षसव्यपार्श्वे दूर्वामे सृतसृवशोभितम्॥
वृषासनसमारूडं शुक्लयज्ञोपवीतकम्।
व्याघ्रचर्माम्बरं देवं नित्याग्निं वृद्धरूपकम्॥
इति ध्यात्वा आवरणं सम्पूज्य चरुद्रव्यैरावरणादि दत्वा त्रियाहुतिं हुत्वा
अग्निं परिषिच्य मूलेन आज्यद्रव्यैस्सार्धं षोडशसङ्ख्याहुतिं हुत्वा प्रायश्चित्तार्तम् अस्त्रेण
आहुतित्रयं हुत्वा व्याहृतिं हुत्वा सम्पाताहुतिं हुत्वा परिदिदेवतानभ्यर्च्य आधारसमिधादि
परिधीन् सङ्ग्राह्य अग्नौ क्षिप्त्वा इन्द्रादीन् सम्पूज्य बलिं निधाय अन्तर्बलिबहिर्बलिं
दत्वा देवतान् उद्वास्य अग्निं परिषिच्य परिस्तरणं सङ्ग्राह्य अर्घ्योदकेन सम्प्रोक्ष्य
लोकपालान् विसृज्य ले(लो)पकार्यविधानग्नौ दर्भान् दग्ध्वा आज्यपात्रं सृक्सृवेणोद्धृत्य मूलेन
आहुतिं हुत्वा उपस्थानं कृत्वा अग्ने नमस्काराञ्जलिमुद्रां प्रदर्श्य धूपदीपार्घ्यं दत्वा स्थालिकोपरि
रक्षां सङ्ग्राह्य अग्निमूर्तिमूलमन्त्रेण सङ्ग्राह्य रक्षां विन्यस्य
स्वस्तिघोषै(षैः)
सर्ववाद्यैरुपचारजनैश्च देवाग्रमुपागम्य मन्त्रपुष्पाञ्जलिं विधाय देवस्य मस्तके॥
क्षां विधारयित्वा ब्रह्माङ्गैरभ्यर्च्य धूपदीपार्घ्यं दत्वा तद्वत् सर्वेश्वराधारयित्वा स्वल॥टे
भूसुरैस्सह रक्षा धारयेदिति नित्याग्निविधिः॥
नित्योत्सवविधिः ः-
आचारः(चार्यः) परिजनैः सार्धं बलिविधानोक्तं सन्निधीमुपागत्य सामान्यार्घ्यम् अस्त्रेण
सम्प्रोक्ष्य
आसनमभ्यर्च्य आवाहनं विधाय स्थापनं पूर्ववत् मुद्रां प्रदर्श्य धूपदीपार्घ्यं दत्वा अभिषेकं विधाय
सुगन्धमाल्याभरणादिभिरलङ्कृत्य देवं रङ्गोपरि विन्यस्य सर्वद्रव्यं सम्बध्यासनं
पूर्ववत् सम्पूज्य वायव्यगायत्रीमभ्यर्च्य
मातृकादिकलान्विन्यस्य पूर्ववत् शक्तिं सम्पूज्य
ध्यानम्-
सव्यहस्तं त्रिणेत्रञ्च जटामकुटमण्डितम्।
वरामृतकरं वामे सव्ये परश्वभीतिकम्॥
सर्वाङ्गं सुन्दरं देवं व्याघ्रचर्मोत्तरीयकम्।
वामे उमां च नेत्रे च करण्डमकुटान्वितम्॥
सव्येत्सवधरादेवीं त्रिभङ्गीं म॥।न्विताम्।
इति ध्यात्वा ईशानादिषडङ्गेनाभ्यर्च्य द्वितीयावरणे अष्टमूर्तीमभ्यर्च्य तृतीयावरणे लोकपालानभ्यर्च्य
गौरीवत् देवीं सम्पूज्य नैवेद्य धूपदीपार्घ्यं दत्वा पुनः वस्त्रपुष्पदामादिभिरलङ्कृत्य छत्रचामर।ल॥न्तयजन
धूपदीपाद्यैर्सर्वोपचारपरिजनैश्च देवमारोप्य प्रथमावरणं ब्रा(भ्रा)मयित्वा आचार्य
अभिषेकपात्रं सङ्ग्राह्य परिचारक हविस्थाल्या सह घण्टां
श्रीं ह्रीं क्लीम् इति मन्त्राभि॥ताड्य स्वस्तिमङ्गल
वाचकैस्सार्धं द्वारस्याधशि(श्शि)लापां(यां) दक्षिणकरमध्योक्तकं विन्यस्य तस्योर्ध्वो(र्ध्वे) पुष्पं विन्यस्य
सम्रक्ष्यावकुण्ठनादिमुद्रां प्रदर्श्य सूक्ष्मे मयुराण्डसमं प्रोक्तं मध्यमल्लिकुचम्फलं कन्यसामलकं मानं
सङ्ग्रहेत् पञ्चमाङ्गुलिं वृत्ताकारं तु देवानां गणपानां तु
दीर्घकं भूतानां त्रिपुटाकारं शक्तीनां वर्तुलं भवेत्
मुनीन॥।गं निभां यक्षाणां मुष्टिमात्रकं राक्षसां शकटाकारं पैशाचं शूलरूपकं मनुष्यमङ्गुली धृत्वा
बलिमानं विधीयते एवं गृहीत्वा ॐ हां विघ्नाय स्वाहा ॐ हां विघ्नेश्वराय स्वाहा ॐ हां विघ्नराजाय
स्वाहा इति बलिं दत्वा दक्षिणे ॐ हां दण्डिने स्वाहा उत्तरे ॐ हां मुण्डिने स्वाहा अन्तः
वृषभाग्रे ॐ हां वृषभाय स्वाहा तत् पृष्ठदेशे सर्वत्र भूताय स्वाहा इति दत्वा देक्षिणे ॐ हां
कुण्डोदरभूताय स्वाहा तद्दक्षिणे ॐ हां ब्रह्मण्यदेव्यै स्वाहा इति चण्डिकादे॥व्य स्वाहा इति
पर्यन्तं बलिं दत्वा तस्य पूर्वपश्चिमे वीरभद्रविघे(घ्ने)श्वराभ्यां स्वाहा इति बलिं दत्वा नैऋते दीर्गभूताय स्वाहा
तत् पश्चिमे महागणपतये स्वाहा विमानपृष्ठे ह्रस्वदेवभूताय स्वाहा वायव्ये सिह्मभूतरूपाय स्वाहा
तत् पश्चिमे गुहभूताय स्वाहा तस्य प्राच्यां जेष्ठायै स्वाहा उत्तरे गजमुखभूताय स्वाहा तद्दक्षिणे
दुर्गायै स्वाहा तत् पूर्वे सूर्याय स्वाहा ऐशान्यां ब्रह्मभूताय स्वाहा इति द्वितीय
बलिं दत्वा द्वितीयावरणे तद्वारस्य दक्षिणोत्तरे आमोदाय स्वाहा
प्रमोदाय स्वाहा द्वितीयवृषभाग्रे
पूर्ववत् दत्वा इन्द्राय स्वाहा इति बलिसमं धूपदीपश्रुतिज्ञानगीतवाद्यादि विज्ञाप्य ईशानान्तं बलिं दत्वा
तस्यदक्षिणे
क्षेत्रपालाय स्वाहा तृतीयावरणार्धं पुनः तृतीयावरणे नैऋते विष्णवे स्वाहा ऐशान्यां
ब्रह्मणे स्वाहा इत्येवं दत्वा भूतपीठस्य पूर्वदेशे बेरम् उत्तराभिमुखं नीत्वास्योदकेन पीठं प्रक्षाल्य
कुमुदोपरि
अष्टदिक्षु इन्द्रादिदेवतान् सम्पूज्य तदुपरि पट्टिकायाम् उत्तरदेशे ब्रह्मणे नमः ब्रह्मणैशानयोः। मध्ये
आदित्येभ्यो नमः ईशानिन्द्रयोर्मध्ये भास्करक्षेत्रपालाय नमः इन्द्राग्नयोर्मध्ये अप्सरगणेभ्यो नमः।
वायुवरुणयोर्मध्ये मुनिभ्यो नमः। वायुसोमयोर्मध्ये वसुभ्यो नमः। सोमैशानयोर्मध्ये
रुद्रेभ्यो नमः
इत्यभ्यर्च्य पीठबाह्ये प्राक् पिशाचगणेभ्यो नमः। दक्षिणे यक्षगणेभ्यो नमः।
पश्चिमे रक्षेभ्यो नमः। उत्तरे गन्धर्वेभ्यो नमः। पुर्वेत्तरेभूतेभ्यो नमः। इति सम्पूज्य उपरि दलाष्टकेष्वष्टशक्तिं
सम्पूज्य कर्णिकामध्ये अविघ्नाय नमः। पूर्वदले आमोदाय नमः। याम्ये प्रमोदाय नमः पश्चिमदले
प्रमुखाय नमः उत्तरदले विमुखाय नमः
इत्यभ्यर्च्य एवं देवेभ्यो नमः। नमोन्तेन
स्वाहान्तेन बलिं दत्वा मध्ये नालिकेरप्रमाणानाम् अन्नबलिं दत्वा सर्वोपचाराणि विज्ञापयेत् पुनर्मूलेन
देवं सम्पूज्य पादुकार्चन(नं) विधाय इति बलिदानविधिः।
उपपीठे चाष्टनागगज[द्वायु]गणावृतं
कुमुदं भूतरूपञ्च कुण्डराक्षसमेव च पट्टिका चोर्ध्वमित्युक्तं शतरुद्रोपशोभितं मुखपञ्च
समवक्त्रसमनासिनयनं दशकण्ठदशबाहुदशशूलदशदृक्ग(ग्ग)लमेकहृदयम् अतिरक्तवर्णं द्वय(द्वि)पादं
इति भूतबलिपीठरूपम्।
आमोदश्च प्रमोदश्च प्रमुखो विमुखो विमुखस्तथा।
अविघ्नो विघ्नकर्तारो षडै(डे)ते भूतनायकः॥
॥बलि दैविके तु भवादीनाम् इन्द्रादीनां तु मानुषे।
भूतादीनां स्वयम्भूते आर्षे तु परि॥षकम्॥
वसूनां बाणलिङ्गे च यक्षादीनां तु राक्षसे।
अनन्तदिव्यलिङ्गे च सप्तलिङ्गे बलिं भवेत्॥
देवली॥बलिभव॥सतधैशानो पशुपत्युग्रमेव च।
रुद्रो भीमो महादेवो अष्टमूर्तिरिति स्मृतम्॥
मनुष्यलिङ्गबलिः इन्द्रादि स्वयम्भुलिङ्गबलि उत्तमम्।
पूर्वादिगर्भगे आग्नेय्यां तु चतुर्मुखं कुण्डोदरं दक्षिणे च॥
नैऋत्यां सुप्रभोदकं वारुण्यां सिह्मवक्त्रञ्च वायव्यां तु अधोमुखम्।
सोमं तु एकपादञ्च ऐशान्याम् इष्टपादकम्॥
इत्येते चाष्टभूतानां परिवारे बलिं क्षिपेत्।
आर्षलिङ्गबलि वृषञ्च नन्दीधरशक्त्रवं हि॥
ब्रह्मादि शक्तिं गणपं कुमारं ज्येष्ठां च दुर्गां धरणीजयन्तम्।
श्री नीलरुद्रं बलिपीठपदे मसत्वबाणलिङ्गबलि॥
धरे धृवश्च सोमश्च आपश्चैवालिलोनलः।
प्रत्युषश्च प्रभेसश्च वसवोष्टौ प्रकीरितताः(प्रकीर्तिताः)॥
राक्षसलिङ्गबलि -
अनन्तेशस्तथासूक्ष्मशिवोत्तम्प्ये(मप्ये)कनेत्रकम्।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठञ्च शिखण्डिनः।
मन्त्रन्यासश्च होमश्च परिवारार्चनं बलिम्॥
त्रिकालं चाथ(था)ष्टकालम् उक्तसन्ध्या तु अर्चयेत्।
बलिप्रमाणम् उत्तमं बाहुले प्रोक्तं मध्यमम्॥
मुष्टिमात्रकम् अधमं स्वाहुति प्रोक्ता इत्येवं बलिरुच्यते अथ पादुकाराधना स्थालिकोपरि विन्यस्या
सनमभ्यर्च्य नैवेद्यधूपदीपार्घ्यं दत्वा आवाह्य आसनादिवस्त्रमाल्याभरणैरलङ्कृत्य तन्मन्त्रेण वृषभमन्त्रेण
पट्टिकाराधनं कृत्वा सम्पूज्य सम्रक्ष्यावकुण्ठ्य अधो वास्त्रलिङ्गमहामुद्रां प्रदर्श्य।
ध्यानम्-
धाडिमीकुसुमप्रख्यम् *ऊर्ध्वकेशन्त्रिणेत्रकम्। *
पाशाङ्कुशधरं देवं शूलकल्हारमस्तकम्॥
श्वेतार्कमल्लिकाभूष्यं *पीतवस्त्रधरं ब(भ)रम्। *
पादुकारूपमित्युक्तं ध्यायेद्देवं विभावयेत्॥
इति ध्यात्वा अभ्यर्च्य नैवेद्यधूपदीपार्घ्यं
दत्वा परिचारकशिरस्यारोप्या(य) सर्ववाद्युपचारैस्सह देवाग्रं न्यस्त्वा आचार्यः पुष्पैस्सह मन्त्राणां
पुलकोदकं विसृज्य ॐ हां गुह्यादिगुह्य गुहत्वातन्तं(गोप्तात्वं) ग्रहाणास्मिन् कृतां क्रियां सिद्धिर्भवतु मे
येन त्वत्प्रसादात् त्वयिस्थिते
ॐ हां यत्किञ्चित् कर्म हेदेव सदासुकृतदुष्कातं तन्मे शिवपदस्तस्य
भूक्ष्वे क्षपय शङ्करा ॐ हां शिवो दाता शिवो भोक्ता शिवस्सर्वमिदं जगत् शिवो यजति सर्वत्र यश्शिव
सोहमेव तु
शिवस्य सव्यहस्ते तु चुलुकोदकं निवेदयेत् आत्मानञ्च जपं कर्म दक्षहस्ते निवेदयेत्
किञ्चित् विशेषोक्तः अञ्जलिं दक्षहस्ते च कूजितम्।
चतुरङ्गुलपुष्वं वा गृहीत्वा तु पादमूले॥
निवेदयेत्।
चुलुकोदकं समाख्यातं पूजान्ते तु प्रजायते ।
स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम्।
तावत्वं प्रीतिभावेन लिङ्गेस्मिन् सन्निधिर्भव ॥
इति मन्त्रेण प्रार्ध्या(र्थ्य) मूलेन देवं क्षमस्वेति अष्टपुष्पेण
सम्पूज्य पूर्वकाले पुष्पलिङ्गं मध्यान्हे अन्नलिङ्गकं सायाह्ने अक्षतं लिङ्गं लिङ्गमिध्याः
प्रकीर्तिताः। स्थलिकोपरि मूलेन सम्पूज्य पाशुपतेनाभ्यर्च्य आव(वा)हनादि धूपदीपनैवेद्य अर्घ्यं दत्वा
ध्यात्वा ।
चतुर्भुजं त्रिणेत्रञ्च जटामकुटमण्डितम्।
हरिटङ्कसमायुक्तम् अभयं वरदान्वितम्॥
शुक्लयज्ञोपवितञ्च शुक्लमाल्या विभूषितम्।
इति ध्यात्वा सम्हितान् अभ्यर्च्य स्थलिकां वस्त्रेण प्रत्यशुद्धणिशव॥।
यित्वान्तरावृत्यः पूर्वे पाद्यैस्सार्धं मूलेमन्त्रेण वृतं निशौ वृषभेश्वर
स्कन्द(न्दं) सम्योज्य मध्यन्दिने जलेन सम्योजयेत् पुनश्च देवप्रीत्या भरतोक्तवत्
शुद्धनृत्तं कारयित्वा देशिक शिवमूर्तिं देवतानां विधिवत् प्रदक्षिणनमस्कारस्तोत्रजपान्विधाय
लिङ्गदेव पूर्वपदे तु पुष्पैरभ्यर्च्य निरोधार्घ्यं दत्वा तिरस्कारिणीं विधाय बहि उपागम्य
चण्डपूजां विधाय चण्डेश्वरालये निर्माल्यमानीयाग्रे तानि स्थाप्य चण्डबिम्बं शुद्धोदकेन
अभिषिच्य ध्वनिचण्डासनाय नमः इत्यासनमभ्यर्च्य आवाहनस्थापनाद्युक्तवत् मुद्रां प्रदश्य वस्त्रगन्ध
दामादिभिरलङ्कृत्य सर्वं सम्भूष्या(य) अभ्यर्च्य
ध्यानम्-
द्विनेत्रं पीतवर्णञ्च जटामकुटमण्डितम्।
परशुं दक्षिणे हस्ते उर्ध्वहस्तञ्च वामके॥
लम्बितं दक्षिणे पादे वामपादं तु शयम्।
यज्ञसूत्रमलङ्कारं चण्डेशञ्च महाप्रभुम् ॥
इति ध्यात्वा ध्वनिचण्डेश्वराय हुं फण्णमः
इत्यभ्यर्च्य अङ्गानि सम्पूज्य देवस्य निर्माल्यान्तपानादिताम्बूलं निवेद्य इत्यनुज्ञां प्राप्य
चण्डमूलेन अर्घ्यं दत्वा पुनर्मूलेन हृदयाय हुम्फट् स्वाहेति नमस्कारं कृत्वा परान्मुखार्घ्यं
नीलकण्ठपदाम्
भोजपरिस्पुरितमानसशम्भोः पूजाफलं देहि चण्डेश्वर नमोस्तु ते इत्येवं करवस्पोट्यं
प्रार्थनं(नां) विधाय इति चण्डपूजा विधिः।
मनोन्मनि पूजै ः-
पातसमुध्धाय(प्रातस्समुत्थाय) स्वगुरुं गणेशं शिवार्चनं ध्यात्वा मलोत्सर्जन-दन्तधावन-भस्मस्नान- सन्ध्यादिकं
विधाय पादौ प्रक्षाल्य आचम्य मनोन्मनिभवनं प्रविश्य द्वारसन्निधौ उत्तराभिमुखं रुचिरासनं
त्रिपुण्ड्रधारण-प्राणायामत्रयञ्च कृत्वा करन्यासं विधाय ॐ हाम् अस्त्रायपठ् इति
हस्ततलपृष्ठे सम्शोध्य वौषडन्तशक्तिमन्त्रेणाप्लाव्य ॐ हां मनोन्मन्यासनाय नमः।
ॐ हां मनोन्मनिमूर्तये नमः इति कनिष्ठायोरङ्गुष्टौ विन्यस्य अङ्गुष्ठयोस्तर्जनीभ्याम्।
ॐ हां हृदयाय नमः कनिष्ठानामिकामध्यमासु ॐ ह्रीं शिरसे नमः। ॐ हूं शिखायै नमः। ॐ हैं कवचायै
नमः।
हस्ततलयोर्मध्यमाङ्गुलिभिः
ॐ ह्रूं नेत्रेभ्यो नमः सतर्जन्याः ॐ अः अस्त्राय नमः।
इति विन्यस्य कवचेनावकुण्ठ्य सम्योज्य हृद्यासनमूर्तिमन्त्रान् विन्यस्य दक्षिणाङ्गुष्ठकनिष्ठादिषु
हृदयशिरश्शिखायां
स्तनयोरतयोरतरभतर्जनीभ्यां कवचमध्यमाङ्गुलीभिः त्रयेण त्रिणेत्रेषु विन्यस्य तालत्रयदिग्बन्धनञ्च
वज्रकवचेनावकुण्ठ्य मूलेन पापकं कृत्वा
आत्मानं मनोन्मनिरूपं भावयेत् तदनु कृतभूतशुद्धिः
॥कलामातृकलान्यासं पूर्वमङ्गन्यासं विधाय पाद्याचमनपात्रैरस्त्रैरस्त्रेण प्रक्षाल्य
वौषडन्तं हृदयेनापूर्य मनोन्मनिमूर्तिमूलेनाङ्गैः अभ्यर्च्या इत्वा निरिक्षणादिचतुस्संस्कारं
कृत्वा मूलाङ्गैरभिमन्त्रिय(न्त्र्य) दिग्बन्धनादिकं कृत्वा गोस्तनि-योनिमुद्रां प्रदर्श्य
अस्त्रेण अर्घ्यजलेन द्रव्य
जलं सम्प्रोक्ष्य चतुस्सम्स्कारैस्सम्स्कृत्य विधिवदात्मानम् आसनमूर्तिं मूलेनाभ्यर्च्य मूलमन्त्रमुच्चार्य पुण्याहं
वाचित्वा पञ्चगव्यं सम्साध्या विघ्नेश्वरं सम्पूज्य तोरणद्वारोर्ध्वादुम्बरदक्षिणवाममध्ये
महालक्ष्मीं निर्मितां सरस्वतीं द्वारदक्षिणपाश्वयोः गङ्गायोगिन्यौ द्वारवामपार्श्ववामदक्षिणयो
यमुनाडाकिन्यौ दक्षिणकवाटयोः सिन्धु-गोदावरि(र्)यौ अधोदुम्बरे वेदिमग्रे वृषभं च
गन्धपुष्पधूपदीपादिभिरिष्वा(ष्ट्वा) मूलास्त्रपाशुपतास्त्रैर्विघ्नत्रयं निवार्य किञ्चिद्वामशाखायां समाश्रयन्
दक्षिणपादपुरस्सरमन्तःप्रविश्य देहल्याम् ॐ हाम् अस्त्राय
द्वारपालाय नमः। इति द्वारपालं सम्पूज्य नैऋते वास्तुब्रम्हाणमभ्यर्च्य गौरिगायत्रिया(त्र्या)
मनोन्मनीं सम्पूज्य धूपदीपार्घ्यं दत्वा निर्माल्यं विसृज्य गौरीगायत्रिया(त्र्या) मनोन्मनीं सम्पूज्य
धूपदीपार्घ्यं दत्वा निर्माल्यं विसृज्य गौरीगायत्रिया(त्र्या) मनोन्मनीं सम्पूज्य धूपदीपार्घं दत्वा अस्त्राम्बुना
मूर्तिम् आसन्पुज्य सम्शोध्य आधारशक्तिम् अनन्तधर्मादिचतुष्टयं कृत्वा
अधश्चदन ऊर्ध्वछदनं सम्पूज्य युगचतुष्टयमध्यपादे
केशवम् अव्यक्तनियतिकलाकालात्मकं
कालिकाचतुष्कमध्ये कन्दबीजाङ्कुरनालकेसरकर्णिकौ पद्मानि मण्डल- चतुष्टयमासनौ सम्पूज्य
मूर्तिमावाह्य �॥(ब्लन्क्)
मूर्ध्नि चक्षुहृदयगलबाहुद्वयजं रमाभियौनिगुह्योरुजानुजङ्घाद्वयप्रष्ठ
पार्श्वपादास्त(न्त)स्तनद्वयेषु ताराविद्यामृत्युशुद्धाजरामेधास्वधास्वस्तिबालिनीज्वालिनी कृष्णा धृतिं
कामा मतिः प्रजाचिन्ताभूमिक्षयाशान्तवामदेवकला उमाश(शा)न्तिर्दान्तिर्दयासूति स अव्यदि सद्योजाः
पञ्चविम्शति कलां विन्यस्य विद्यादेहनेत्रञ्च सङ्कल्प्य मूलेनावाह्य
आवाहनस्थापन
सन्निदानसन्निदानसन्निरोधन- स्वागतार्घ्याणि दत्वा नेत्रहने हृदयाद्यङ्गानि शिरस्नानान्विन्यस्य
दिग्बन्धनादिकं विधाय नमस्वधास्वाहान्त- मन्त्रेण पाद्याचमनार्घ्याणि दत्वा अभ्यङ्गोद्वर्तनपञ्चगव्यादिना
गन्धा(न्धां)बुना सम्स्नाप्य आचमनार्घ्यं दत्वा सूक्ष्मवाससायां मृज्य
वस्त्रगन्ध
मकुटत॥।कहाटकेयूरगन्धमाल्यादिभिरलङ्कृत्य मुलेन पुष्पाञ्जलिं दत्वा अर्घ्यित्वा
धेनुपद्मयोनिमुद्रां प्रदर्श्य भोगाङ्गपूजां प्रार्थयेत् प्रथमावरणे अग्निईशाननैऋतिवायव्य
- पूर्वदलमूलेषु दयादिनेत्रां तानि अङ्गानि चतुर्दिक्षु द्वितीयावरणे पूर्वादि
चतुर्दिक्षु शुभाशुभवती विजया सुमालिनी त्रि(तृ)तीयवरणे
पूर्वादीशानान्तदिक्षु
वामादिशक्ति। चतुर्थावरणे अष्टदिक्षु ईशननैऋतयोः ब्रह्मादि मातृका भृङ्गि-
वीरभद्रविघ्नेश्वरान् पञ्चावरणे प्रागादिदिक्षु वृभ(वृषभ)विनायकसृष्टिस्कन्दशनैश्वरक्षेत्र
पालभास्करानपि सम्पूज्य अर्घ्यं दत्वा देवी(वीं) मूलेन पुष्पाञ्जलिम् अर्घ्यधूपदीपनैवेद्य
पानीय-
आचमनताम्बूलादि दत्वा परिवारबलिं दधेत् द्वारदक्षिणवामशाखयोः। अग्रे च शङ्खनिधि
पुष्पपूर्वादिदिक्षु जम्भिनीस्तम्भिनीमोहिनीभेदिनीरमणीभद्रकालीदुर्गाचण्डेश्वरी
गोपुरदक्षिणपार्श्वे दण्डिमुण्डि महापीठे पूर्वादि- चतुर्दलेषु कर्णिकायां
चकाशेमाग्रभूतमात्रुलोकमात्रदेवमातुरक्तमातरश्चै॥।क्षालनप्रोक्षणावाहन
पाद्याचमनार्घ्यगन्धपुष्पधूपदीपमुद्रपुरस्सरं बलिं दत्वा अर्घ्योदकसहृदयाञ्जलिं दत्वा
अर्घ्योदकञ्च कुर्यात् पश्चात्पचनालयं प्रविश्य योनिकुण्डेन नित्यकर्म देवीमासाद्य
धूपदीपारात्रिकभस्मदर्पणछत्रचामरव्यञ्जनानुपाहृत्य ऋग्वादिवेदसूक्तार्घ्ययित्वा
अस्त्रेण प्रदक्षिणपुराणवाचा ज्ञानं विज्ञाप्य यथाशक्ति जपं विधाय वामहस्ते
अर्घ्यजलेन॥।र्प्य तद्दशाम्शतो अङ्गानि च जपित्वा अष्टपुष्पिकया सम्पूज्य
अर्घ्यं दत्वा अस्त्रेण प्रदक्षिणनमस्कारं कृत्वा क्षमस्वेत्यभिदाय मूलेन
समभ्यर्च्य पराङ्मुखार्घ्यं दत्वा हुफडन्तास्त्रेण अङ्गानुत्थाप्य मूर्तिमन्त्रेण मूर्तौ सम्योज्य
मूलेनैक्यं सम्भाव्य सम्पूज्य दिग्बन्धनादिकं विधाय पाद्यादिमन्त्रान् उपसम्हरेत् ततश्चण्डेश्वरी
तदनु उपागम्य विरतार्घ्य हस्तं मूलैरभ्यर्च्य विसृज्य अभिच्य तदासनमूर्ति
मूलाङ्गौरभ्यर्च्य पाद्यादि दत्वा निर्माल्यं समर्प्य निवेदयेदिति नैवेद्यार्घ्यौ दत्वा तत अर्घ्यम्
उपसम्हरेत् इति मनोन्मनि पूजाविधिः।
नित्योत्सवपूजा लक्षणम् ः-
पाद्यं तु पापनाशं स्यात् आचमन्यं श्रियावहम् अर्घ्यं तु कर्मसाफल्यम् आसनं पुत्रवर्धनं तोयं तु
शान्तिकं प्रोक्तं गन्धतैलसुखप्रदं पञ्चगव्य(व्यं) पवित्रं तु पञ्चामृत(तं) जयं भवेत् घृतं
मोक्षप्रदं चैव क्षीरमायुष्यवर्धनं प्रजावृद्धिदधिप्रोक्तं षष्ठं वै ऋणमोचनं रजनी राजवश्यं
रोगनाशं तथा मलम् इक्षुसारं तथारोग्यं क्षौद्रं स्वारस्वतं भवेत्
धाडिमी क्रोधनाशञ्च
कुलञ्जी शोकनाशनं फलं पञ्चामृतं चैव कदली सस्यवर्धनं पनसं लोक॥॥ । आम्रं
सालोक्यं बिल्वसारं तु सामीप्यं मन्त्रपूजनं धूपदीपं तु सारूप्यं सायुज्यं गन्धतोयकं
कटनोभिषेकसौभाग्यं
दिग्जयं हिमतोयकं दारिद्रिय(द्र्य)मोचनं वस्त्रं कर्पूरं भवनाशनं
अक्ष॥लनाशं च सा पुण्यं शङ्खपूजायां मार्जनं तु रिपुक्षयं धूपे दहति
पापनि दीपं मृत्युविनाशयः घटदीपं महाशान्ति निराजन(नं) महत् फलं भस्मं त्रैलोक्यरक्षार्थं
दर्पणं ज्ञानतं(दं) भवेत् छत्रं राजप्रदं चैव चामरं भाग्यपदं यजनं तालवृन्तं तु
सर्वकल्याणशोभनं
नादगीतञ्च वाद्यञ्च राजा राष्ट्रविवर्धनम् एवं शिवेन सम्पूज्य अन्ते
सायुज्यमाप्नुयात् वेदिके गर्भगेहे च दर्च(र्श)ने स्पर्शनेऽपि वा मृद्भाण्डानि परित्यज्य मूर्तिहोमं तु
कारयेत् लिङ्गशुद्धिं ततःकृत्वा स्नपनैरभिषेचयेत् ॥
फ़्४२ब् ब्लन्क्
फ़्४३अ,ब् ब्लन्क्