सोम-शम्भु-पद्धति-व्याख्या

… लेभे सेकोत्तरां दीक्षां अस्माद् अस्मत्-पितामहः ॥

नाम्ना सदाशिवो लोके सभापतिरिति श्रुतः ।
स महाभाग्ययोगेन महादेवमजीजनत् ॥

सोऽपि लब्धाधिकारोऽस्मात् अभूत्सिद्धान्तपारगः ।
ईशानशिव इत्यन्यद् दीक्षायाम् अपि भक्ति यः ॥

विद्वत्सन्देह-नाशाय निर्विचारः प्रवर्तते ।

सर्वाध्वोर्ध्वपदे स्थितं परशिवं भक्तिं गते शं गुरुन् नत्वा सोम-शिवोक्त-पद्धति-परं दुर्बोधको ऽधोशकः+++(=??)+++ ।
ज्ञात्वा सद्-गुरुतश् च शास्त्र-समया+++(=??)+++ ज्ञात-प्रसङ्ग-क्रमाद् आमर्दाश्रम-देशिकान्वय-भव-श्रीनेत्र-शम्भुस्फुटम् ॥

तत्र तावद् आमर्दाचार्यः प्रारब्धेप्सितप्रबन्धस्यापि विघ्नपरिसमाप्त्यर्थं वक्ष्यमाणकर्मकलापोदयमूलभूतं परमाद्येन नमस्कृत्य द्वितीयेन तत्प्रतिबन्धप्रतिपाद्यं नित्यादिकं प्र्तिजानीते - विश्वबोधविधातारमित्यादि विश्वेषां चिदचितां भूतानाञ्च बोधो विश्वबोधः ।

तत्र चितां बोध द्विविधः ।
कर्मनिबन्धनः पाकनिबन्धनश्चेति ।
आद्यो मोगलक्ष्यः ।
तदुक्तं श्रीमत्स्वायम्भुवे -

कर्मतस्सर्वमेवेदं सुखदुःखात्मकं फलम् ॥

इति ।

भोगोऽस्य वेदना पुंसस्सुखदुःखात्मलक्षणा ॥

चेति ।

प्।
२) श्रीमृगेन्द्रे -

इति बुद्धिप्रकाशोऽयं भावप्रत्ययलक्षणः ।
बोध इत्युच्यते बोधव्यक्तिभूमि तथा पशोः ॥

इति ।
तथाऽन्यत्रापि -

बुद्धिबोधः प्र * * * मायादि च तदर्थतः ।

अथ मोक्षलक्षणः अस्य सर्वज्ञानव्यक्तिलक्षणः ।
तदुक्तं

श्रीमन्मृगेन्द्रे -

ततश्शक्त्यधिकारस्य निवृत्तेस्तत्परिच्युतौ ।
व्यन * * * * नन्तु जगद्बन्धुरणोश्शिवः ॥

मोक्षकारिकायामपि -

मलादिपाशविच्छित्तिः सर्वज्ञानक्रियोद्भवः ।
मोक्षस्तत्कारणं शम्भुंरिति ॥

तथा वा चितां मलमायादीनां बोध उद्बोध उत्तेजनमिति यावत् तदेकप्रकारं तत्र मलस्योद्बोधक खणाञ्च क्रमौ ।
संसारमायायाश्च उद्बोधकारेण शक्तिरूपेण स्थितानां सृष्टौ स्वव्यापारसमर्थाधाराञ्च ।
एतदेव हि सर्वानुग्रहलक्षणमित्युक्तं भोजदेवेन -

भुक्तिमुक्तिमणु * * * * * * पदने समर्थाधारा जडवर्गस्य विधत्ते सर्वानुग्राहकश्शम्भुरिति ।
एवं विधस्य बोध्स्य विधातारमनेककर्तृत्वमुक्तं स्यात् ।
सर्व किं रूप इत्याह -

प्।
३)

ज्ञानं विश्वज्ञानं विश्वं विशेषेण ज्ञायतेऽनेनेति ज्ञानम् ।
करणं रूपसामर्थ्यं ।
तथा चादिष्टम् -

करणञ्च न शक्त्यन्यच्छक्तिन्नाचेतना चितः ।

इति ।
तद्विग्रहो यस्य स तथोक्तं भवति ।
तत्तच्छरीर - कार्यकरणोपाधि भेदभिन्ना चिद्रूपाश्शक्तय एवास्य शरीरम् न तु मन्त्रेश्वरादिवद्बैन्दवादिकं ।
तथा च श्रुतिः -

इत्थं शक्तिः कुर्वन्देहाभावादुच्यते देहशब्दैः

इति ।
अवधूतदेवेनाप्युक्तं -

गौणग्राहनिकग्रन्थममलं विग्रहं विना ।
शक्तिदेहोपरस्स्वक्त स्वाधिकारकरा इति ॥

एवं विधस्स किं परमाणु इत्याह - विश्वरूपमिति ।

शिवादिक्षित्यन्तसर्वतत्वजातं नित्याधिष्ठेयत्वाद्रूपमिव रूपं यस्य स तथोक्तं ।
तदुक्तं श्रीमन्मृगेन्द्रे -

रूपे वा रूपके यत्ना सर्वाधिष्ठानयोगिनः ।
सर्वदा सर्वभूतानां सर्वाकारोपकारिणः ॥

तथाऽन्यत्राऽपि -

न सा भावा कला काचित् सन्तानद्वयवर्तिनी ।
व्याप्ति * शिवकं * स्वामधिष्ठात्री न विद्यते ॥

इति

किं विश्वसमानदेहत्ववासनेत्याह - ररिमिति ।

प्।
४)

प्।
४) परमा कारणात्परं सर्वातिशायिनम् ।
बिन्द्वादीनपि व्यापकत्वात् स्वस्वव्यापाररहिताच्च ।
तदुक्तं रत्नत्रये -

व्यापको भुवनादीनामभिव्याप्तिस्स बिन्दुना ।
बिन्दुशक्त्या शिवेनैषा नान्येन व्याप्यते शिवः ॥

इति ।
एवंविधं मुक्तात्मनाममुक्तात्मनामप्यस्तीति तद्व्यावर्तर्या

विश्वेषाञ्चिदचिदात्मनां ईशं तस्यैव हि विस्वेशत्वमुपपन्नम् ।
मुक्तानामपि तत्प्रसाद एव स्वरूपलाभादित्युक्तम एवं विधञ्चास्य स्वरूपं ।
कारणेश्वरवत् बिन्द्वादि वा कदाचि ॥


यवन्नेत्याह - अव्ययमिति ।
तदुक्तं श्रीमत्स्वायम्भुवे - अव्ययं परिपूर्णत्वादिति ।
तद्व्यक्तावपि यद्यदि तद्व्ययवत् भवेत्कदाचिदुक्तमप्युपलभ्यतेति ।
श्रीमद्विशति कालोत्तरेऽपि ।
तत्परं शान्तमव्ययम् इति ।
एतत्पञ्चिकायामपि ।
व्ययो भिन्ना विनाशः प्रच्युतिं व्यक्तानां शक्त्यात्मनामवस्था प्रसिद्धानां यत्र ।
तदुक्तमभि यु॥


णुरिक्तता वा सकलगुणोपयोगात् तत्त्वान्तराणां सम्भाव्यते ।
न तु शिवतत्वस्येति ।
एवं विधः किं विधान इत्याह - शिवमिति ।
शिवशब्देनाभिनिमित्त परेति ।
पेषा महेश्वर एवं सञ्ज्ञात्वेन प्रसिद्धा ।
नान्यत्र ।
तदुक्तमभियुक्तैः - लोकोपेते च निमित्तपेषादिति ।
प्रसिद्धोऽपि शिवस्त्वमेकः ।
शिवलोके शिवोमातु परप्रसिद्धा फलाद्दृतेऽन्यच्छि प्रसिद्ध्यति ।

प्।
५)

न सञ्ज्ञायाऽन्यस्य शिवङ्करस्य शब्देन भाव्यं ।
शिवतावकेन सञ्ज्ञाभि सञ्ज्ञान्तरमन्तरेण भवति ।

शब्दास्सदः सञ्ज्ञायान्ये दीशः प्रणश्यन्ति ।
भीमावृतासु न भास्वता चन्द्रमसा बभूवे ॥

तवाऽस्तु जातो मणिनेषु भास्वान् भासन्तमीक्ष्य स वदन्ति हीत्थम् ॥

इति च ।
निमित्तसुखदुःखाभावात्महेतुत्वं लोकवेदप्रसिद्धम् तथा च श्रुतिः -

शिव एको ध्येयश्शिव क इति पावकोऽस्मभ्यं शिवो भवेति ।
अघोर चक्षुरपदिद्व्येऽधिश्शिवाऽप इभ्यस्सुमना इति ।
शास्त्रप्रसिद्धा तु त्रिधात्मकत्वविशुद्ध तदुक्तं शिवधर्मशास्त्रे -

अज्ञानं शिवतत्वं स्यात् सर्वतत्वालयं यतः ।
स्वभावात्तदवाप्तं हि तस्माद्रुद्रः परश्शिवः ॥

इति ।
श्रीमत्पौष्करेऽपि -

शिवत्त्वमतिशुद्धं स्यात् पशुत्त्वमिति सामलम्

इति च ।

ज्ञानक्रिये शिवः प्रोक्तः सर्वार्थे निर्मले परे

इति च ।

एवं विधं शिवं नत्वा कायवाङ्मनोभिः तस्मिन् प्रह्वीभुयः

प्।
६)

सर्वज्ञतादिमहिमा स्वभावकैः षड्भिः हृदादिरङ्गैः विशिष्टमङ्गिनं शिवं नत्वेति व्याख्येयं ।
तथा चोक्तं विवाहवार्तिके -

सर्वज्ञतादिमहिमस्वभावैर्हृदयादिभिः ।
षड्भिरङ्गिनमन्त्रानेव न मन्तव्यं शिवमूचिरे ॥

इति विश्वबोधविधातारमिति पदं सर्वज्ञतां प्रतिपादयति यथा विश्वविषयो बोधो विबोधः ।
हृदये स्मृताह्यस्य चितिक्रियामपि ।
क्रियाकर्तृता तृप्तिं रूपं शिरः पूर्णरूपताप्रतिपादकं विशेषेण परं यत्तु वृते तेनोयमीश्वरः ।

विश्वविज्ञानदेहत्वं शिखामुपरिवर्तिनं ।
अनादिबोधतां वर्ति विश्वेशमित्यतः पदम् ॥

अनन्तशक्तितां नेत्रमयीमभिदधाति च ॥

विशेषणं विश्वरूपमिति शाम्भवशासने ।
स्वशक्तिप्रचयो विभुमस्येत्येवं प्रगीयते ॥

अलुप्तशक्तितामस्त्रस्वभावञ्चास्य गीयते ।
पदमव्ययमित्येतन्नेत्रास्त्रे पात्रवास्तुतः ॥

इत्यादि ।
तत्र विश्वबोधविधातारमिति पदं सर्वज्ञतां प्रतिपादयति ।
यथा विश्वविषयो बोधो विश्वबोधः ।
तस्य विशेषेण धातारं परमिति पदं प्रपालनं पूरणयोरिति धातौ निष्पन्नत्वेन पूर्णवाचिकत्वात्तृप्तिं लक्षयति ।

प्।
७)

विश्वविज्ञानविग्रहमिति पदं विश्वे विज्ञानं विशेषेणानादित्वाद्गृह्णातीति व्युत्पत्त्या अनादिबोधतां शक्तिविवेशमिति पदेन शुद्धाशुधात्मनः सर्वस्य कर्तृताप्रतिपादकत्वात् स्वतन्त्रता प्रकाश्यते ।
अव्ययमिति पदं अक्षीणशक्तित्वेनालुप्तशक्तितां प्रतिपादयति ।
विश्वरूपपदमनन्तभेदभिन्नं विश्वरूपमयमिति व्युत्पत्या अनन्तशक्तितां प्रतिपादयति ।
एते सर्वज्ञतादयो गुणा यथाक्रमं हृदाद्यङ्गरूपा इत्यागमविदः षडङ्गेन सङ्कीर्णं बिन्दु रूपं परं शिव इति वक्ष्यमाणत्वादेषा व्याख्या युक्तैवेति गुरवः केचिदेतत्पदषट्कं अनेकप्रकारेण योजयन्ति ।
तत्प्रकारतः क्रिञ्चित्क्रियते ।
तद्यथा - विश्वबोधविधातारं विश्वेषां कामिकादीनां ज्ञानानां कर्तारं यद्वा विश्वस्य प्रपञ्चस्य स्वायम्भुवादौ बोध्येनातः पुरुषज्ञानव्यञ्जकः तस्य स्रष्टारं ।
यद्वा विश्वस्य प्रपञ्चस्य चक्षुरादिरूपादि कर्तारं ।
यद्वा - विश्वबोधश्च तद्विषयज्ञानं तयोर्विधातारं विश्वविज्ञानविग्रहं विश्वविज्ञानं सर्वज्ञत्वं विग्रहो रूपं यस्य तं ।
यद्वा - विश्वानि ज्ञानानि कामिकादीनि मूर्धादिविग्रहो यस्य तं कामिकर्मा ज्ञानविग्रहमित्यर्थः ।
तथोक्तं षट्सहस्रिकायां -

स्तनाश्यां चन्द्रभासाख्याञ्च भेदं निर्गतं विभोः ।
हृद्ग्रीवा करवीरभद्राख्यं तद्विभेदं प्रचक्षते ।
आग्नेयं वातुलाख्यञ्च * * रोदेकभागिकं ॥

प्।
८ )

विसरं पार्श्वयोर्जातं नाभेदं शिवकायतः ॥

रौरवं पृष्ठदेशोक्तं भेदैकेन व्यवस्थितम् ।
मकुटं कटितो जातं त्रिभेदं तच्च शाङ्करी ॥

एकभेदन्तु किरणं * पुना तु विनिर्गतं ।
ऊरुयुग्मा तु ललितं तद्भवेत्तद्विभेदजम् ॥

द्विभेदं सौरभेयञ्च जानुभ्यां परमेष्ठिनः ।
अष्टादशैते विज्ञेयाः प्रधानात्त्रिनायकाः ॥

इति च ।

शान्त्यतीतेः कामिकाख्यं शान्तेर्वै योगजं विभोः ।
अचिन्त्यं विद्धि विघातः प्रतिष्ठा कारणात्मकम् ॥

निवृत्तेरजितन्नाम शिवस्य वदनानि तु ।
दीप्तं शिवस्य हृदयं सूक्ष्माख्यन्तु शिरस्तथा ॥

सहस्रन्तु शिखां शम्भोः अंशुमान् स्यात्तनुत्तृकम् ।
सुप्रभं लोचनं ज्ञेयं सोमसूर्याग्निसन्निभम् ॥

इति ।

मूर्ध्नितो विजयं जातं ललाटात्परमेश्वरम् ।
नेत्रेभ्यश्चैव निश्वासं मुखसन्निर्गतं पुरा ॥

श्रवणाभ्यामथोद्गीतं द्विखण्डं (क) भुक्तिमुक्तये ।
त्रिंशत्प्रकारं विज्ञेयं मुखाच्च मुखबिम्बकम् ॥

प्।
९)

त्रिस्कन्धौ (*?) तथा सिद्धं ग्रीवांसाभ्यां समुत्थितम् ।
द्विखण्डञ्चैव सन्तानं कुक्षिदेशाद्विनिर्गतम् ॥

यद्वा - विश्वेषामात्मनां विज्ञानं येन तद्विश्वं ज्ञानं आणवमल इति यावत् ।
तस्य विग्रहो वीरो यो यस्य तं विश्वरूपं

विश्वं प्रपञ्चलक्षणं व्याप्यतया स्वरूपं यस्य तं ।
यद्वा विश्वं षड्विधोध्वा तत्तद्व्ययतया रूपं शरीरं यस्य स तया षड्विधविग्रहमिति यावत् ।
तथोक्तं -

शान्त्यतीतकला मूर्धा शान्तिर्वक्तसरोरुहम् ।
विद्यावितयवक्षोङ्गं प्रतिष्ठा गुह्यमण्डलम् ॥

निवृत्तिजानुजङ्घाङ्घ्रिभुवनाध्वा तनूरुहम् ।
वर्णं त्वड्मन्त्ररुधिरं पदं मासविराचितम् ॥

तत्वास्थिमज्जाशुक्रादि धातुसद्भोगमोक्षदम् ।
शिवान्ततत्वगर्भाध्वव्यापिनं सर्वदा शिवम् ॥

इति ।

तदुक्तं - ध्यायेदध्वान्तगं देवमिति ।
विश्वेशं सृष्टिस्थितिसंहारादिभिः विश्वं जगद्यष्टविश्वेशं शिवं शान्तमिति ।
तदुक्तं -

शान्तत्वात्सर्वकर्तृत्वभावात्परमकारणात् ।
शिव उक्तो मन्त्रे * * भेदो विद्भिः सदाशिवः ॥

इति ।

प्।
१०)

तन्नत्वेति सम्बन्धः ।
संवीक्ष्येति ।
शिवशास्त्राणि संवीक्षपर्यालोच्य ।
ननु शास्त्राणीति बहुवचनमनुपपन्नं क्रियादि भेदेन तन्त्रभेदो यतस्मृतः ।
तस्मात्तन्त्रं यथवोक्तं कर्तव्यं नान्यतन्त्रत इति नियमात्तन्न ।
एकी शास्त्रस्यैव मूलत्त्वे ।
शब्दसामर्थ्यादिभिस्सिद्धानां क्रियादीनामन्यतो विग्राह्यत् तदुक्तं -

शब्दसामर्थ्यलभ्यं यदध्वसामर्थ्यतोऽपि वा ।
यस्तु शक्त्याऽथवा प्राप्तं तद्ग्राह्यं * * * * * ॥

संहितान्तरादिभिः कथं सर्वज्ञवाक्यं विवक्षितुं शक्यमित्यत आह -

सदाचार्योपदेशत इति ।
आपरमेश्वरादविच्छिन्नसम्प्रदायकवदाचारोपदेशत इत्यर्थः ।
क्रमबोधविवृद्धये श्रुत्यर्थं प्रथमप्रवृत्तिकाण्डमुख्यलक्षणं निधायन्निजं स्वानुष्ठानमार्गत्वादिति ज्ञेयं ।
तथाऽभिधास्यमानेषु प्रथमं करणीयमाह - प्रातरित्यर्थेन ।
प्रातर्निशायाः पश्चिमभागे शिवायमङ्गलाय अस्य कालस्य लक्षणँच वक्ष्यति ।
प्रातस्तारकितेऽम्बर इति शिवं शान्तं लयावथमिति यावत्

अत एवाहमक्षरमिति स्वाभाविकौ वाऽथ अक्षयादिदोषरहि निष्कलमिति यावत् ।
यद्वा अक्षरं नादात्मकं तथोक्तं निश्वासकारिकायाम् -

अक्षरात्क्षरितं नित्यं वर्णाद्यं नैव तत्क्षरम् ।

इति ।

प्।
११)

स्वयमुच्चरते देहे अव्यक्तध्वनिरक्षरः ॥

ममातीयमिदं सूक्ष्मं शरीरं नादकं पशोः ।
पाशापनोदाय प्रकाशीकृतमद्भुतं ॥

इति च ।

शिवं भोगावस्यं सदाशिवसञ्ज्ञं सञ्ज्ञसकलनिष्कलमिति यावत्तदुक्तं -

अधिकारी स भोगी च लयाख्याद्युपचारतः ।

इति ।
तथा -

ईशस्सदाशिवश्शान्तः कृत्यभेदाद्विभिद्यते ।

इति ।
यद्वा - अक्षरं अक्षविशिष्टं पञ्चवक्ताद्याकारं रातिर आदाने गृह्णाति यः मतं अधिकारावस्थितं सदाशिवाधिष्ठातृत्वात् ।
सदाशिवपर्यायमीश्वरसञ्ज्ञं सकलरूपमिति यावत् ।
तदुक्तं श्रीमन्मतङ्गे -

ईशश्शब्दे भगवान् कीर्तितस्सदाशिवः ।

इति ।
एतदवस्थात्रयं वक्ष्यमाणसन्ध्या यावदधिकारभेदेन कर्त्व्यत्वादुपपन्नमिति गुरवः ।
तथोक्तं -

परव्योममयं शम्भुं देशालम्बनवर्जितं ।
यद्वा ब्रह्मबिले नादं ज्योतिर्लिङ्गमनाहतम् ॥

हृदम्भोरुहसंस्थं वा ज्योतीरूपं परापरम् ।
अङ्गुष्ठमात्रं वा स्थुलरूपं सदाशिवम् ॥

इति ।

प्।
१२)

यद्वा - अक्षररूपं पूर्वोक्तावस्थात्रयविशिष्टशिववाचकत्वात् शिवं प्रासादमिति यावत् ।
तदुक्तं श्रीमत्कालोत्तरे -

प्रासादं नादमुत्थाप्य स्तन्तु जपेदिति ।
तथा सार्ध - त्रिशतिकेऽपि - एष मन्त्रेश्वरः पुत्र प्रासादः कथितो मयाऽयं विदित्वा विमुच्यन्ते ।
सप्तजन्मकृतैरथैरिति ।
निश्वासकारिकायामपि -

मन्त्रपूर्तिं परं ज्ञात्वा भुक्तिमुक्तिमवाप्नुयात् ।

इति ।

अनेन ध्यानसामर्थ्यरचितां तद्वाचिकचिन्तादिनापि तत्फलसिद्धिः सूच्यते ।
अत्र परमार्थ्स्य शिवस्य तदाराधानोपायभूतस्य तद्वाचकमन्त्रस्य पदा उपदेशकृतो अवधेयः ।
अथ मलोत्सर्जन शौचादिविधिवदित्यन्तेन मलमूत्रादित्यादि शब्देन ।
दृक्श्रोत्रनास्यनखपादाङ्गगतानां मलसरान्तरापनेयानां मलानामप्युद्देशः क्रियते ।

तदुक्तं शिवधर्मोत्तरे -

मलैर्द्वादशभिः किट्टा भिन्नदेहाद्वहिर्व्रजेत् ।
कर्णाक्षनासिका जिह्वा दन्तशिश्नगुदन्नखः ॥

मलाश्रया कफस्वेदौ विण्मूत्रे द्वादश स्मृतं ।

इति ।

तत्र मलमुत्रादिविसर्जनयोग्यदेशं गत्वा ।
अतो योग्यदेशगमनं

प्।
१३)

तन्निषेधस्सूच्यते ।
तथोक्तं ब्रह्मशम्भुपादैः -

नदीभस्मगर्ताम्बुशष्फगोमयवर्त्मसु ।
कृष्टैकवृक्षशृङ्गाट श्मशानोद्यानकादिषु ॥

इति ।
एतद्व्यतिरिक्तदेशं गत्वेत्यर्थः ।
दिवा सन्ध्यास्त्वित्य दिवा शब्देन सन्ध्याव्यतिरिक्ताहः कथ्यते ।
सर्वदा अन्वहं नासाग्रन्थस्तलोचनः ।
नासाग्रे न्यस्तं लोचनं यस्य सः ।
तथा नासिकाग्रैकाहितलोचन इति भावः ।
एवं मनसो व्यापारान्तरनिषेधाय ।
अत एवाह - एकचित्त इति ।

एकस्यां प्रस्तुतायां क्रियायां चित्रं यस्य तथा ।

अन्यथा -

विक्षिप्तमनयोर्मलस्सुखं न निस्सरेद्यतः सच्चिन्नमूर्धा

इति ।

मूर्धाग्रहणमुक ॥


ध्वकायस्य तदङ्गे दुर्गन्धपातादिस्पर्शनिषाधै तत् ।
तृणच्छ्न्नमहीतल इति ।
भूदेवता - पकारनिषेधायैवमुक्तं ।
द्विजातीनामसम्मुख इति ।
आदिग्रहणात् सूर्यादीनामपि ।
तथोक्तं ब्रह्मशम्भुपद्धतौ -

गोविप्रलिङ्गिनां स्त्रीणां सम्मुखं चन्द्रसूर्ययोः ।
महाभूतविकाराणां शनैरेवोत्सृजेन्मलं ॥

इति ।

सान्तरया करशुद्ध्यर्थान्तरमृत्तिकया सहितया ।

प्।
१४)

तदुक्तं षट्सहस्र कालोत्तरे -

तिस्रस्तिस्रोऽन्तरेण पाणाविति ।
भावशुद्धिपर्यन्तमिति ।
मनश्शुद्धिः सा च बीभत्सानि वृत्तिरेव ।
उक्तसङ्ख्यया अधिकरण एव तात्पर्यण् न तु ह्रासे ।
तथा सति सङ्ख्याविधाना नर्थक्यप्रसङ्गात् ।
विधिवद्वीक्ष्यमाणाचमनप्रकारवत् ।

अथ दन्तधावनविधिः ॥

शुध इति विधायेत्यन्तेन आचम्येत्युक्तेऽपि पुनश्शुद्धग्रहणमशुद्धदशायामेतन्निषेधाय ।
चिरि बिल्वः ॥


प्रकीर्य चिरि बिल्वः करजः रक्तमालाः करं जस्यादिति करजः ।
शैरीषं * ककुभशब्देनोक्त इति चेत् अपरे तु शुक्लरक्तकुसुमभेदाभेद इति वदन्ति अतिमुक्ता माधवी शुद्रान्त्यजातिषु शुद्र एवान्त्यजातिः ।
यद्वा - वर्णचतुष्टयोत्पत्ति समनन्तरत्वादनुलोम इति केचित् ।
नत्त्वन्त्यो जन इति व्याख्येयं ।
तेषामत्रानुष्ठाना दर्शनात् ।

दशाङ्गुलसमुद्दिष्टं क्रमादेकैकह्रासनात् ।

इति ।

अत्र विप्रादीनां सर्वेषां विशेषण एकैकह्रासस्य प्रतीतौ सर्वेषां नवाष्टादिक्रमेण दन्तधावनमुद्दिष्टम् इति केचित्

प्।
१५)

सेल्यं श्लेष्मातकः न च * * *? धात्रि * * * *? धवः * * *? - परसः * * * *? क्षीररीजलादनः * * * * * * * *? निम्बः प्रसिद्धः ।
आकुली - आविरे ।
शिमरुन्वाते ।
वानीरं वञ्चि ।
पैशाचं * * *? त्ति ।
काशः बाणः * * * *?

अथ वारुणस्नानविधिः ।

स्नानमित्यादि शुद्धय इत्यन्तेन सिन्धुसङ्गमः नद्योस्सङ्गमः नदीसमुद्रसङ्गमश्च कासारः - महासरः तटाकः पद्माकरत्वायोगेन जलाशयः ।
ब्रह्मखातो जलाधार इति केचित् ।
नदः पश्चिमप्रवाहो नदीविशेषः ।
हृदो अशुष्यज्जलो नदीमध्यगस्तोयाशयः ।
पल्वलं निम्नप्रदेशवर्तुलसरः ।
प्लवनं निर्झरः ।
नालकज्जलनिगमपद्धतिः ।

यं विदित्वा विमुच्यन्ते सप्तजन्मकृतैरघैः ॥

निश्वासकारिकायामपि -

मन्त्रमूर्तिं परं ज्ञात्वा भुक्तिमुक्तिमवाप्नुयात् ।

इति ।

अनेन ध्यानसामर्थ्यरचितानां तद्वाचकचिन्तादि तत्फलसिद्धिस्सूचयति ।
अत्र परमार्थापरमार्थस्य शिवस्य तदाराध पायभुतस्य तद्वाचकमन्त्रस्य पादा उपदेशः कृतोऽवधेयः

प्।
१६)

अथ मलोत्सर्जन शौचादिविधिवदित्यन्तेन मलमुत्रादि आदिशब्देन दृक्श्रोत्रनासा - * पदाङ्गगतानां मलस्नानान्तरापनयानो मलानामप्युद्देशः क्रियते ।
तदुक्तं शिवधर्मोत्तं

मलैर्द्वादशभिः किट्टं भिन्नदेहाद्बहिर्व्रजेत् ।
कर्णाक्षिनासिका जिह्वा दन्तशिश्नगुदन्नखः ॥

कफस्वेदौ विण्मुत्रे द्वादश स्मृताः ॥

इति ।

तत्र मलमुत्रादिविसर्जनयोग्यदेशं गत्वा ।
अतो योग्यदेशगमनं तन्निषेधः सूच्यते ।
तथोक्तं ब्रह्मशम्भ्वादयः वापी दीर्घिका ।
कुण्डश्चतुष्कोणो बृहत्कूपः ।
उदपानं सन्निधौ कूपोद्धृतोदकाधारः ।
ततः परं अस्मात्परं अर्धलिप्तायां भुवि दीक्षितैः ।
इति ।
परमुत्तमं नास्ति तदनुत्तमम् ।
गृहस्नानप्रकार उक्तः ।
श्रीमत्पौष्करे -

नवाष्टपञ्चभिः कुम्भैश्शिवमन्त्रप्रकल्पितैः ।
स्नानं गृहेऽपि कर्तव्यं लिप्तायां भुवि दीक्षितैः ॥

आनाभिं नाभिमारभ्य अस्त्रसन्ध्यां अस्त्रमुद्दिश्य या सन्ध्य श सास्त्रसन्ध्या प्रकीर्तितेति ।
शिवास्त्रेणार्घ्यं दत्वा जप्तवा निवेदयेत् ।
केचित्तु तद्गायत्र्येति सारस्वतादितीर्था नामिति आध्यातिकानां सारस्वतीति ।
गङ्गायमुनादीनां

प्।
१७)

एकध्यामिति ।
पदमेकयेत्यत्र एकत्र ममुद्ध्यादेने निष्पन्नम् ।
अत्र संहारमुद्रालक्षणं भोजदेवेनोक्तं - सा हि कनिष्ठादितर्जन्यन्तानां अङ्गुलीनां क्रमात् सङ्कोचनेनाङ्गुष्ठमूलचालनात् ।
संहारमुद्रेति षण्मुखेनेति करणेनेति चक्षुश्श्रोत्रनासिकापिधानं विवक्षितं ।
चन्द्रार्क करयुग्मेनेति ।
चन्द्रार्कतया भावितेन करयुग्मेन षडङ्गेन मूलसहिताङ्गपञ्चकेन ।
तदुक्तं द्विशतिकालोत्तरे -

प्रथमं हृदयं विद्याद्द्वितीयन्तु शिरस्स्मृतं ।
तृतीयन्तु शिखादेवी चतुर्थं कवचं भवेत् ॥

पञ्चमन्तु शिवं विद्यात् षष्ठमस्त्रं विनिर्गतम् ।
षडङ्गमेतत्कथितं शिवेन परमात्मना ॥

चक्रवर्त्युपचारेण शङ्खतूर्यादिना राजोपचारेण ।
एवमुक्तेऽपि अस्य गन्धामलकादिभिरिति वचनमामलका देखश्यं भावित्त्वं विधिस्नानेन समनन्तरकरणीयञ्च दर्शयति ।
तथोक्तं श्रीमन्मृगेन्द्रे विधिस्नानसमनन्तरं -

तथोद्वर्तनकैः पश्चात् सुगन्धामलकैरपि ।
गायत्र्या मन्त्रितैर्मन्त्री स्नायाच्छिवमनुस्मरन् ॥

इति ।

सुगन्धामलकादिभिरिति - गृहस्नानप्रकारः कथ्यत इति केचित् ।
तदयुक्तं ।
सुगन्धामलकादिभि स्नात्वोत्तीर्येत्युद्धारणविधानात् ।

प्।
१८)

गृहस्नानस्य तदनुपपत्तेः किञ्च सुगन्धादि पदस्य ब्रह्नाङ्गवाचकत्वमिति ।
लाक्षणिकत्वादेतैस्साधितैः कुम्भैः इत्यध्याहार्यत्वाच्चानुपपन्नमिति न्यायविदः ।
नत्वेवञ्चेत् गृहस्नानमनुक्तमित्युद्दिष्टस्य गृहस्नानस्य प्रकारः कुतो लभ्यत इत्युच्यते ।
तदभिमतव्याख्यान - स्वीकारेऽपि शास्त्रान्तरादपेक्षणीया ।
तत्वात्तस्माद्देवं सर्वं लभ्यत इति ।
कपोतः * * * * * *? आततायीजलकाकः ।
कङ्कः * * *? गृध्रः तदुद्भुताङ्गवैकृतै प्रागुक्तकपोति सम्भूताङ्गविकारैः पक्षातुण्डरोमखुरास्थिभि भोजकैरिति क्षत्रगोलकैः ।
तदुक्तं - भोजः क्षत्रगोलका इति बौद्धार्हतादिभिः ।

अथ भस्मस्नानविधिः ।

अथात इत्यादि प्रतीत्यन्तेन अथात इति अस्माद्वारुणस्नानादान्तर भस्मस्नानमाचरेदिति सम्बन्धः ।
अन्यथा भस्मस्नानेप्यानधिकारो यतः ।
यथोक्तं श्रीमन्मतः

एवं सकृद्यथा शक्तिः स्नातोम्भसि दिने दिने ।
भस्मस्नानेधिकारी स्यान्नान्यथा मुनिपुङ्गव ॥

इति ।

अत्र हि चतुर्विधो भस्मभेदः ।
तदुक्तं ब्रह्मशम्भुपद्धतौ -

प्।
१९)

आग्नेयं भस्मना कुर्यात् भुक्तिदं मुक्तिदन्नृणाम् ।
वस्तुत न विद्धेन तच्च भस्म चतुर्विधम् ॥

कल्पं तदनुकल्पाख्यमुपकल्पमकल्पकम् ।
पूर्वं पूर्वं गुणोत्कृष्टमेषां लक्षणमुच्यते ॥

इत्यादि ।

श्रीमत्पौष्करे -

अभूतलनिसृष्टेन कपिला गोमयेन तु ।
सद्योजातगृहीतेन सितस्य वृषस्य वा ॥

स्थापितेनान्तरिक्षे तु वामदेवेन धीमता ।
शुष्केन साञ्चितेनाथ विधिवद्बहुरूपिणा ॥

शिवानलप्रदीप्तेन वक्त्रेण तु यथाविधि ।
निवाते श्वदग्धन्तु ईशानेन सप्ता * * * ॥

इति ।

कपिला वृषभाऽभावात् आरण्यन्तु समाहरेत् ।
शुचीनफलकान् शुष्कान् सद्योजातेन मन्त्रवित् ॥

संस्थाप्य वामदेवेन चिह्नीयाद्बहुरूपिणा ।
वक्त्रेण निर्दहेत्प्राज्ञं ईशानेन समाचरेत् ॥

इत्यनुकल्पम् ।

अग्निदग्धेष्वरण्येषु गोवाटेषु गृहेषु वा ।

आपके स्विष्टकानान्तु ॥













प्।
२० )

गोमूत्रात्तन्तु तद्भस्म वामदेवेन कारयेत् ॥

चिह्नीयाद्बहुरूपेण निर्दहेत्पुरुषेण तु ।
ईशानेन तु सङ्गृह्य परिकल्प्य शिवेन वा ॥

इति ।

उपकल्पम् ।
अकल्पलक्षणमित्युक्तं ।
ब्रह्मशम्भुपद्धतौ -

जातिसङ्करसंस्पर्शकर्मभावपरिग्रहैः ।
अदृष्टं कीर्तितं शेषमेतदेव विचक्षणैः ॥

इति ।

शेषमकल्पमित्यर्थः ।
अत्र अकल्पादित्रयाणां अवान्तरभेदानादरेण विधि सिद्धत्वाविशेषाद्विधिसिद्धेन्त्येत्येकरूपेण सङ्ग्रहः ।
निवृत्यादिविशुद्धेनेत्यकल्पकस्य तुरीयस्य सङ्ग्रहः ।
तस्यैव सोत्पत्तिकशुद्ध्ययोगान्निवृत्यादिभिः शुद्धिराभाव्येतिः संहितामन्त्रितेनेत्युभयत्र साधारणं संहिता शब्दः ।
द्विशतिकालोत्तरे - दृशा मूलाद्यस्त्रान्तमन्त्रषट्कवाचकः ।
सार्द्धत्रिशतिका तु दृशा तु ब्रह्माङ्गवाचकः ।
अस्यास्तु पद्धतेः द्विशति - कालोत्तरमूलत्वात्तदुक्तैव सङ्घाता ग्राह्या ।

अत औपत्तिकशुद्धयोगिना त्रिविधेन भस्मना इतरेण च स्नायादिति ।
अत एकैकेनापि स्नानस्य निष्पत्तेस्तुल्यार्थत्वादितरेषां बाधः ।
यदाहुः -

प्।
२१)

अर्था तुल्यार्थतां प्राप्य बाधो गोदोहादिवत् ।

इति ।

तत्राऽपि पूर्वं पूर्वं गुणोत्कृष्टं इत्युक्ता मुख्यसन्निधौ गौणस्य बाधः ।
उद्धूलयेदिति एतद्वृत्तिविष्यमेव ।

तदुक्तं -

यतिरुद्धूलयेदङ्गं त्रिपुण्ड्राद्यैः गृहाश्रमी ।

इति ।

चर्या भिक्षाचर्या स्त्रियं स्वस्वजातीयां नपुंसकमपि ।
तद्वत् शूद्रः सच्छूद्रः आचार्यानधिष्ठितमिति यावत् ।
अन्यान् कृकलासादीन् ।

आमहेन्द्रस्नानमाह - सूर्येत्यादिभिश्चतुर्भिः पावनं वायव्यं मूलमन्त्रोच्चारिताक्षोभितकुटिलाशक्ति परिसृतामृतधाराभिर्मानसस्नानमाचरेत् ।
तथोक्तं -

मूलमन्त्रपरिक्षिब्ध शक्तिपीयूषधारया ।
सबाह्याभ्यन्तरस्सेकान् मानसस्नानमाचरेत् ॥

इति ।

सर्वत्रेति ।
सर्वेषु स्नानेषु एतेषु वारुणमाग्नेयञ्च नित्यं ।
इतराणि नैमित्तिकानीत्युक्तं ।
ब्रह्मशम्भुपद्धतौ -

माहेन्द्रादिचतुष्कं यत्तन्नैमित्तिकमिति स्मृतं ।

निमित्तञ्च्चस्माभिः विस्तरेण तद्टीकायां निरूपितं ।

प्।
२२ )

तत एतदवधेयं ।

अथाचमनप्रकारमाह - सम्प्रक्षाल्येत्यादि स्पृशेत्यन्तेन ।
ब्रह्मतीर्थेनेत्यङ्गुष्ठमूलेन वक्ष्यति चैतद्ब्रह्ममङ्गुष्ठमूलस्थमिति शम्बरैर्मन्त्रैः मध्यमाभिरङ्गुलीभिरिति शेषः ।
मुहुर्जलैरिति मुहुः प्रतिस्पर्शजलैस्सहेत्यादि करणीयं ।
तलेन करतलेन वक्षस्स्पृशेत् ।
अथ सन्ध्या ध्यानार्थं पूर्वकरणीयमाह - सकलीकरणमिति ।
द्वाभ्यां विधाय श्रोत्रवन्दनमिति ।
अमन्त्रकमनुप्रत्याम्नार्थं पूर्वं श्रोत्रवन्दनं विधाय पश्चात्समन्त्रक आचम्येऽन्वयः ।

अथ समयाद्यधिकारिभेदेन सन्ध्याध्यानं वक्तिब्रह्माणीमित्यादि उच्यत इत्यन्तं ।
अत्र ब्रह्मादि उपाधिभेदभिन्ना तदुपाधिकृतवर्णवाहनायुधविग्रहा शिवशक्तिरेव सन्धि ज्ञेया ।
तदुक्तं ब्रह्मशम्भुपद्धतौ -

ब्रह्माणी वैष्णवी रौद्री भेदाद्भिन्ना विभाति सा ।
साक्षिणी कर्मणां शम्भोः शक्तिः सन्ध्येति गम्यते ॥

इति

तत्प्रभामण्डलाभोगप्रतिष्ठं तासां प्रमाणां मण्डलं समूहस्तस्याभोगो विस्तारः तत्प्रविष्टां ज्ञानिनां निर्वाण दीक्षितानां यद्वक्षयति इति मलमायादि पाशानां विशेषः क्रियते ।
यया ज्ञानञ्च जन्यते ।
शिष्ये सा दीक्षितेत्यभिधीयते इति ।

प्।
२३)

उक्तञ्चानि ॥



यास्तु क्रियादिभिश्शाख्याश्शक्तयश्शुद्धवर्तमनि ।
एताः कालवशात्प्रोक्ताः सन्ध्यास्तिस्रः परापराः ॥

निर्वाणदीक्षितैर्ध्येयाः हृत्फालकविलेषु च ।
पराख्याऽथ समाख्याता सा तुर्योन्मना तथा ॥

इति ।

परे परस्मिन् द्वादशान्ते सत्वादिसंयुक्ता इत्यत्र प्रातरादिसन्ध्यानां ब्रह्माद्यधिदैवतत्वादाद्येन क्रमेण तत्तन्नियत रजस्सत्वतमस्संयोग इति केचित् व्याचक्षते ।
अन्ये तु पूर्वादि - सन्ध्यानां सत्वादिवृत्तित्वेनोक्तप्रकाशप्रवृत्तिनियमहेतुक्रमवशात् पाद्यक्रम एव क्रम इति व्याचक्षितत्वात् ।
सूर्यचन्द्रमसोः ऊर्ध्वाधः प्राणरूपयोः तथोक्तं -

ऊर्ध्वप्राणो दिनेशस्यादधः प्राणस्तु चन्द्रमाः ।

इति ।

इडा पिङ्गला नाड्योः चन्द्रसूर्या सञ्ज्ञा ।
तदुक्तं धन्योऽभिषेकः ।
इन्दुः सौरः खर्वा वह्निः सन्धाने ध्यानाद्यो विषुवत् ।

इति ।

अथ एतदुपाधेरुपरतौ प्राणयोगिनां हंसयोगिनां ।
तदुक्तं -

हकारस्तु स्मृतः प्राणस्ववृतौ हलाकृतिः

इति ।

प्।
२४)

परशिवबोधः सूर्योपाधिविदुरः द्वादशान्तस्य परशिवसंविदनुभवः ।
तत्रात्मशिवयोस्सन्धिध्यानं तत्सामरस्यं तद्भवा सन्ध्या उक्ताभ्यस्सर्वाभ्यः परमा शिवबोधपरा धातु सेति वा पाठान्तरं ।
अत्र अव्ययमेवार्थः ।
अत्र समयिनां सन्ध्या स्थूला ।
निर्वाणदीक्षितानां सूक्ष्मा ।
तेष्वपि योगिनां परज्ञानिनान्तु परा ।
तेभ्य अधिकारभेदेन च तस्य सन्ध्या विहिता ज्ञेयाः ।
वक्ष्यमाणतर्पणार्थं करस्थानि तीर्थानि दर्शयति ।
ब्रह्ममिति सार्धेन ।

अथ सन्ध्यावन्दनं ब्रूते ।
तत इत्यादि विधि - पूर्वत इत्यन्तेन ।
शिवात्मकैः शिवतदङ्गवाचकैः वामया इडया पिङ्गलया आरेच्य रेचयित्वा॥


ष्टिना अस्त्रेण शिवसूर्यबिम्बस्थाय तदुक्तं श्रीमन्मृगेन्द्रे -

ततस्तीक्ष्णांशुबिम्बस्थं ध्यात्वा देवं सदाशिवं ।
विना जलाञ्जलिर्मन्त्रं विना चेतसा स्मरन् ॥

अथसूर्यपूजार्थं तद्दानविधिः ।

समाचम्येत्येकेन ।
मन्त्रीत्यत्र मत्वर्थयोर्नित्ययोगे ।

भूमिनिन्दाप्रशंसासु नित्ययोगेऽतिशायिने ॥

संसर्गे स विवक्षायां भवन्ति तु

पटीयवचनात् ।

अतस्समयसंस्कारसमनन्तरं नित्याधिष्ठेयत्वेनोपदिष्टं ।

प्।
२५ )

योगमन्त्रयोगिनां समयादिदेशिकान्तानां सर्वेषामप्यनेनाभिधानमिति ज्ञेयं ।
तत्र सिधये मन्त्रसाध्यप्रयोजनसिद्ध्यर्थं सूर्यपूजाविधिमाह - अथ इत्यादि अर्चनाविधिरित्यन्तेन ।
एतत्सूर्यपूजाकामनाविषयं मुमुक्षुरकर्तव्येति केचित् ।
स तु नित्यं पूजयेत् ।
श्रीमत् षत् सहस्रकादावुक्तत्वात् ।
मुमुक्षूणामपि कर्तव्येति ।
गुरुदेवेन्द्रानलयोर्मध्ये रविं नित्यं पूजयेत् इति वचनात् तस्मिन् स्थाने प्रपूजयेत् ।
तत्रापि -

ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।

आदित्यः सर्वसत्यश्च इति वचनात् वास्तु - पूजान्ते स एव आदित्यपूजनमिति ।
पुनः ललाटाकृष्ट - बिन्दुना ललाटादाकृष्टामृतबिन्दुना तोयेनेत्यध्याहार्यं ।
तथा च वक्ष्यति शिवार्घ्यकरणे -

बिन्दुप्रसृतपीयुषरूपतोयाक्षतादिना ।

हृदापूर्येति ॥

कर्तृकामध्येति कर्णिकेशानभागे तु साक्षान्मध्ये तत्र सूर्यस्थिते वक्ष्यमाणत्वात् ।
विस्फुरामिति एतन्मुद्रालक्षणमुक्तं भोजदेवेन - सम्मुखहस्ताकुँचिताङ्गुल्यग्रे पर्यङ्गुष्ठद्वयचालनात् ।
विस्फुरेति आवाहिन्यादि लक्षणञ्च तत्रैवोक्तं ।
हस्ताभ्यामञ्जलिं कृत्वा

प्।
२६)

अनामिकापूर्वाङ्गुष्ठसंयोजनेनावाहिनि इयमेवाधोमुखि स्थापिनी ।
संलग्ना मुष्ट्यार्चिताङ्गुष्ठौ करौ कृत्वा मध्येङ्गुष्ठौ कर्णिकारौ विन्यसे इति ।

पद्ममुद्रा पद्ममुद्रैव प्रसारिताङ्गुठसंलग्नमध्यमाङ्गुष्ठा बिम्बमुद्रेति एकत्वमङ्गाङ्गिनो न पृथग्भावः ।
खषोल्किना ॐ हां खषोल्काय नम इति तत्प्रयोगः ।
भानुनेत्राभ्यां नम इति ।
मध्ये तदग्रे धेनुमुद्रादिलक्षणमपि भोजदेवेनोक्तं -

अन्योन्यग्रथिताङ्गुली कनिष्ठाऽनामिकयोर्मध्यमातर्जन्ययोश्च संयोजनेन गोस्तनाकारश्च संयोजनेन गोस्तनाकारयोर्मुद्राबद्धमुष्टेर्दक्षिणहस्तस्य मध्यमातर्जन्योर्विस्फुरेति च ।
प्रसारणेन गोविषाणाबद्धमुष्टिर्दक्षिणहस्तस्य प्रसारिततर्जन्या वामहस्ततल ताडनेति त्रासिनीति ।
संलग्नौ दक्षिणाङ्गुष्ठाक्रान्त वामाङ्गुष्ठौ नमस्कारमुद्रेति च ।
राजावर्तः कृष्णवर्णः पुष्पविशेषः पराङ्मुखार्घ्यं विसर्जनार्थं देयम् ।
तदुक्तं सर्वज्ञानोत्तरे -

विसर्जने तु गाङ्गेयं देयमर्घ्यं पराङ्मुखम् ।

इति ।

अर्ण संस्था इति ।
तन्मन्त्रसङ्घातं शिवसूर्ये व्यवहितव्याप्तिरुक्ता॥


काष्ठाप्रतिष्थायां ईशानदिशि या

प्।
२७)

प्रतिष्ठा स्थितिर्यस्य स तथा तस्मै ।
अथ शिवपूजार्थं द्वारपूजावर्ति ।
अथेत्यादि वामशाखायमित्यन्तं ।
पूर्वोक्त सौरभावनानि प्रत्यर्थं एतदाचमनानन्तरं सकलीकरणं कर्तव्यमिति पूर्वमेवोक्तविधानेन पात्रप्रक्षालनपूजनपूरणाभिमन्त्रणप्रणवार्घ्यकराम्बुजः ।
प्रणवकृतार्घ्यपात्रहस्तः ।

अत्र दक्षिणवामभागः पूजकापेक्षया मन्तव्यं ।
तदुक्तं भोजदेवेन - नन्दिगङ्गे महाकालयमुने चात्मनोर्दक्षिणवामशाख्योः इति ।

एतद्द्व्रारपालानां ध्यानमुक्तं पञ्चावरणस्तवे मद्गुरुभिः -

ऊर्ध्वोदुम्बरमुखदक्षिणे निविष्टं इयामाङ्गं गणपतिमाश्रये दधानं ।
वामे लड्डुकपरशुकराब्जयुग्मे दधतञ्च स्वकमपरत्र चाक्षमालम् ॥

ऊर्ध्वोदुम्बरमुखवामतो निविष्टां वन्देऽहम् ।
धवलरुचिं सरस्वतीञ्च वामे पुस्तकं अथ दक्षिणे मालां मुद्राणां करयुगले वराभये च तन्मध्यतः कमलमध्यसुखोपविष्टां हस्तिद्वयोद्धृतघटां कृताभिषेकां सव्ये वराब्जसहितां महतीञ्च लक्ष्मीं वामे तु बिल्वफलपद्मधारां सुपीतां शूलाक्षमालेति दधतं कराभ्यां वामेतराभ्यां जटिलं त्रिणेत्रं द्वारदक्षिणस्थं समवाप्य शाखां रक्तं स्थितं नन्दिनमाश्रयामि

प्।
२८)

तदुत्तरे तत्र निविष्टौ मूर्तिं गङ्गाञ्च शुक्लं मकराधिरूढां हस्तद्वये दक्षिणवामसंस्थे नीलोत्पलं पूर्वघटं वहन्तीं तद्वामशाखास्थितकृष्णमूर्तिं नागोपवीतं जटिलं सुदंष्ट्रं कपालशूलान्वितवामसव्यकरं महाकालं प्रपद्ये ।

यमुनां दक्षिणे तस्य श्यामां कूर्मस्थितां भजे ।
वामदक्षिणहस्तस्य पूर्णकुम्भासितोत्पलाम् ॥

अथ विघ्नोच्चाटनं दिव्येति ।
ताभ्यां दिव्यदृष्ट्या न्यस्तमूलदृष्ट्याऽत्र अभिघातैरित्यत्र पाशुपतास्त्रेणेति गुरवः ।
शिवधामप्रवेशनं तदनन्तरकरणीयमाह - देहलिमित्यादि दद्यादित्यन्तेन वामशाखां समाश्रयन् ।
दक्षिणशाखेन प्रविश्ये तत् शाखागतं देवानुसरणार्थं ज्ञेयं ।
अस्त्रस्य वास्तुपतेश्च ध्यानमुक्तं पञ्चावरणस्तवे -

कल्पान्ताग्निप्रभञ्चास्त्रमयोदुम्बरगं भजे ।
दिव्यान्तरिक्ष भुमिष्ठविघ्नसङ्घनिवारकं ॥

हंसाब्जस्थं तुन्दिलं लम्बकूर्चं गौरः ।
वन्दे युक्तमास्यैश्चतुर्भिः हस्तद्वन्द्वे कुण्डिकां सृक् समवेतां वामे अन्यस्मिन् साक्षां मालां स्रवश्च तं वास्तुपतिरिति कोणगतमिति ।

अथ शिवस्नानजलाहरणप्रकारः
निरिक्षणादिभिर् इति द्वयेन पवित्राङ्गप्रजप्तेन
पवित्रैः ब्रह्मभिरङ्गैः हृदयादिभिः प्रजप्तेन
भुतशुध्युपक्रमः गड्डुकेत्यादि सम्प्लाव्येत्यन्तेन।

प्।
२९)

किम् अत्र भूतशुद्ध्यादिना क्रियत इति चेत् उच्यते ।
समयिनां तावत् सर्वमन्त्रप्रसिद्धानां
या स्थिता व्यक्तिशक्तयः -

विघ्नरूपा हि नो धान्य-न्यस्ता सन्निरोधो वा तदा - स्मृतः इति ।

निर्वाणदीक्षितानान्तु अनेकभविकं कर्म दण्डबीजमिवाणुभिः भविष्यदपि संरूढं येनेदं तद्धि भोगात इति ।
दीक्षायामपि तस्य प्रारब्धकार्यस्य कर्मणः प्रत्यहं उपभोगेन क्षीयमाणस्यापि वासनात् ।
या सम्भवा तस्यास्तदनुरोधेन सितस्य भोक्तृत्वविषयासक्तिजनकस्य मलांशकस्य तत्साधनशरीरेन्द्रियजनकस्य मायांशकस्य प्रत्यहमंशांशिकया पचयः क्रियते ।
इत्युक्तं श्रीमत्सूक्ष्मस्वायम्भुववृत्तौ देवदक्षिणदिग्भागे देवेस्याध्यस्य याम्यदिग्भागावस्थितस्य देवानुकूल्येन देवस्यानुपपत्तेः उत्तरस्यामेव रुद्रदेवत्यत्वात् तदाराधकस्य तदाभिमुख्येनैव वास्तव्यमिति भावः ।
तथा चाभियुक्तैः दुष्टः परमाददीपः पश्येह्येतो दक्षिणतो मुखास्यं पुराणञ्चात्र भवति ।

अजातमिवमेवैकत्वं मत्वा जन्मनि भीरवः ।
रुद्रस्याऽस्य प्रपद्यन्ते रक्षार्थं दक्षिणं मुखम् ॥

इति ।

एवं हि श्रुतिः एषा वै रुद्रस्य दृगित्यादि अजात इत्येवं

प्।
३०)

भीरुप्रभेद्य रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यमिति च एवं स्थिते ऊर्ध्ववक्तस्य साधकाभिमतदिगाभिमुख्यमिति तत्पुरुषादिमुखानान्तु स्वस्वदिगव्यभिचारित्व श्रुतेः ।
साक्षित्वेन लिखितं देवस्य प्रसादो भवति ।
यया काष्ठं यदि करं तत्पुरुषादिमुखानि तु न जहाति ।
पूजादिदिक् संस्थं लिङ्गं वा प्रतिमां वाऽपि क्रियते ।
तेऽन्यद्वा कर्तृभा तस्यां तस्यां यज्वा यज्येत ।
शिवमुत्तरमुखमिति ।
सुखासने मृदुस्पर्शे कृष्णाजिनादौ सन्निविष्टस्सम्यक् ।
शास्त्रीयेण पद्मकस्वस्त्यादिना निविष्टः विनीतः ।
इन्द्रियार्थेभ्य आहत आत्मा मनो लक्षणो येन सः तथा चोक्तं -

आत्मशब्दशरीरे च सद्भिर्मनसि चेष्यते

इति ।

मूर्तिमन्त्रेण शिवमूर्तिमन्त्रितया उद्धृतेन आत्मानमिति निर्देशाश्चतुर्थ्यन्तयुक्तात्मा शब्दावसानेनेति गुरवः ।
भोग्यकर्मोपभोगार्थं वर्तमानदेहभोग्यत्वेन दीक्षायामक्षपितस्य कर्मणो भोगार्थं पुनरप्यादाय न तु स्वेच्छोत्कान्तिवदपुनराद्यत्रय इति भावः ।
विधानज्ञः हृदयाद्याधारस्थानाभिविधानज्ञः ।
एतद्ध्यानं पौष्करादवधेयञ्चास्माभिः ब्रह्मशम्भुटीकायां ।
द्वादशान्तनिवेशनं निर्वाणदीक्षिते यामेवेति केचित् ।

प्।
३१)

पाणिकच्छपिकालक्षणमुक्तं ज्ञानरत्नावल्याम् -

सर्वहस्ततलं वामे * * * * * * * * ।
अङ्गुलीभिरथान्योन्यं क पृष्थं निरुध्य च ॥

हङ्कारं तदुपरि हृदयसम्पुटमात्ममन्त्रञ्चोच्चार्य तस्योपरि पुनश्च तां हुङ्कारमुच्चरेदिति हुङ्कारं तारकाकारमिति पाथार्थः हृदयसम्पुटं हुङ्कारं ताटकाकारं नक्षत्रसमानरूपं जीववाचकत्वाज्जीवः ।
पूरकाहृतचैतन्यं हुं शिखोपरि हुङ्कारसशिखोपरि विन्यसेत् ।
हङ्कारं मूर्ध्नि विन्यसेदिति पाठेऽपि पूरकाहृतचैतन्यं हृदयसम्पुटन्तं वाच्यशक्ति शक्तिमध्यसंश्रितजीवमात्मानं हङ्कारं ऊर्ध्ववाचकमूर्ध्नि विन्यस्य तदारूढं तदधिष्ठितं कृत्वा तादृग्रूपं पूर्ववत् हुं शिखोपरि विन्यसेदिति योजनीयम् ।

कुम्भकं कृत्वा संशुद्धान्मायीयसूक्ष्मदेहादिरहितं कथं तद्रहितं तस्योन्नयनमिति ।
अत आह बिन्दुभूतं बिन्दुकार्यनादशक्त्यधिष्ठिततत्वात्तन्मयं नादस्य पुर्यष्टकविरहेम्यविनाभावं ।
यदाहुः -

स्वरूपज्ज्योतिरेवान्तस्सूक्ष्मवागनपायिनी ।
पुरुषे बोधकाले तामाहुः अमृताह्वयाम् ॥

इति ।

एकोद्घातेन वायोरेकोद्यकृतेनोर्ध्वेनोद्घातेन ऊर्ध्ववाहेनेति यावत् ।

प्।
३२ )

तदुक्तं -

सन्निरोधे कृते सम्यगूर्ध्वं वायुः प्रवर्तते ।
स उद्घात इति ख्यातो स्वेच्छया तु कनीयसः ॥

शिवे द्वादशान्तस्थे योजयेत् ।
अत्र हृदयपानिकच्छविकयोर्योजनप्रकारस्य कथनं सुकरत्वादिति केचित् ।
अनन्तरं बीजवृत्या पूर्वोक्तप्रकारेण शिवे लीनः ।
व्याप्तिरूपेण तत्तुल्यतां गतः ।
यच्छ्रूयते - लयस्तु तुर्ययोगिना इति ।

प्रतिलोमं संहारक्रमेण स्वेषु कारणेषु तत्वादि पृथिव्यादीनि षट्त्रिंशत्सङ्ख्यानि ।
बिन्दुपर्यन्तं शक्तितत्वोर्ध्वस्थितबिन्दुसञ्ज्ञकुटिला ।
शक्तिपर्यन्तं लयक्रमश्चोक्तोऽस्मद्गुरुभिः

गन्धे भूस् सलिलं रसे हुतवाहो रूपे मरुत् स्पर्शने
शब्दे स्यात् खम्, अहङ्कृतौ पुनरिमास् तन्मात्रिकास् तामसे ।
कर्माक्षाणि च राजसे, सह मनो बुद्धीन्द्रियैस् सात्त्विके,
बुद्धौ तच्च, गुणेषु सा, गुणगणो ऽव्यक्ते लयं गच्छति ॥

तद् रागविद्ये च कलां प्रयाति
पुंस्त्वं च कालो नियतिः कला च ।
मायां, सुविद्येशम् असौ, सदेशं,
सा शक्तिम्, एषा शिवम्, एष बिन्दुः ॥

इति

प्।
३३ )

अत्र शिवशब्देन शक्तितत्त्वमस्तकस्थं बिन्दुभुवनमुच्यते इति ज्ञेयं ।
एवं सूक्ष्मदेहं शोधयित्वा स्थूलदेहशुद्धये तदारम्भकाणि भूतानि शोधयेत् ।
अविरोधेनेति अर्थादितरेषां तं शोध्यशोधकान्तरयोः परस्परत्वं सिद्ध्यमिति गम्यते ।
हवामित्यनेन बीजेन ध्यानेनोच्चारितेन वा निवृत्तिकलामयं निवृत्तिकलाधिष्ठितं तन्मात्रसहितोच्चारसहितोऽर्धरेचकाणामुद्घतानां पञ्चकेन पृथिव्याः पञ्चगुणनाशाय पञ्चोद्घताः प्रोक्ताः ।
अन्येषान्तु स्वस्वगुणनाशाय स्वस्वगुणसङ्ख्याता उद्घाताः क्रमेण ज्ञातव्याः वाममन्त्रेण केशवाधिष्ठातृवामदेव ब्रह्मणा पुरुषान्तं कारणमिति पाठान्तरं ।
पुरुषान्तं पुरुषतत्वान्तव्याप्तिकमेतत् प्रतिष्ठाकलाधिष्ठातत्वादधिष्ठात्राऽधिष्ठेयत्त्वेन भेदोपचारेणोक्तं अकारणं विष्णुकारणं ।

अकारो विष्णुरादित्यो वासुदेवो महाबलः ।

इत्येकाक्षरस्य विष्णुदैवत्यवचनादेतत् कारणेशस्य विष्णोस्तदधिनायकस्य वामदेवस्य चाधिष्ठानयुक्तत्वाभिधानं अनुक्तानां पृथिव्यादीनां कारणेशानां ब्रह्मादीनां तदधिनायकानां सद्योजातादीनाञ्च उपलक्षणं ज्ञेयं ।
घोरेण परिग्रहस्य घोरत्वादघोरात्रिरूपचारत इति श्रुतेः ।
नागो भूतं बिन्दुमयं इति ।

प्।
३४)

आकाशस्यामूर्तत्वेन स्वतो ध्येयाकारासम्भवात् ।
तत्कार्यावशत्वेन ध्येयतत्वात्तस्य च द्यावापृथिव्यान्तरालवर्तिनो नक्षत्राद्याधारत्त्वात्तदौपाधिकानेकबिन्दुमयतत्वं अतस्तद्भेदाद्गगनमपि बिन्दुमयमिति केचिदाहुः ।
तथा हि -

निर्गुणं साञ्जनातीतं ग्रहनक्षत्रवर्जितं ।
शुद्धस्फटिकसङ्काशं परमव्योम चिन्तयेत् ॥

इति ।

निश्वासकारिकावचनात् परव्योम्नः ग्रहनक्षत्रसंयुक्तं साञ्जनत्रयत्वञ्च सिद्धं ।
अत एवोक्तं रत्नत्रये -

किञ्चातिशायिकं प्राहुस्तमम्बरमनश्वरं ।
शिवनाम समैश्वर्यभाजां भोगाधिकारयोः ॥

ज्योतिर्गणनामाकाशमिव भूतादिकारणं ।

अन्ये तु -

बिन्दुक्षुब्धस्तदिच्छातश्शब्दराशिरभूत्ततः ।

इति श्रुतेः ।
बिन्दुशब्देनोपचारात् कार्यशब्दो विवक्षितः ।
अतो बिन्दुमयं शब्दगुणमिति व्याचक्षते ।
बिन्दुप्रसरद्विभूषितं कुटिलाशक्त्यधिष्ठितं ।
एतच्छुद्धस्फटिकनिर्मलमित्यस्मात् अनन्तरसम्बन्धनीयं व्योमाकारं लौकिकानां व्योमकत्वेन प्रसिधावकाशाकारममूर्तद्रव्य भावात्मकशून्याकारमिति यावत् ।
अत एव ह्याकाश धारणाय जन्याङ्कितत्वं

प्।
३५)

चपलत्वञ्च शास्त्रेषु श्रूयते ।
एवं परस्परविरुद्धानि पृथिव्यादीनि शास्त्रबीजेन भ्रमपीठान्ते निवृत्यादिकलामन्त्रा स्वस्वगुणसङ्ख्यातैरुद्घातैश्च प्रति स्वीकारगुणानुत्सार्य स्वविरुद्धभूतानां तन्मयी कुर्यादविरुद्धन्तु गोभूतं स्वकीयेन मन्त्रेण एकोद्घातेनोत्सारितशब्दगुणं शुद्धस्फटिकनिर्मलं परं व्योमाधिष्ठितं भावयेदिति बाह्यदेहमपि शोधयित्वा तदा?नन्तरं मुतसारितभूत दोषं सर्वशरीरमाप्लावयेत् ।
केन मन्त्रेण किं भूतेनेत्याह ।
अमृतवर्षिणा नादान्तोच्चारितकुटिला शक्तिः प्रसृतामृतवर्षयुक्तेन सृष्टिक्रमादागते ।
सर्वत्राप्यनयनस्यादनान्तरीकत्वञ्च प्रसिद्धेस्तदप्यत्र कार्यमिति केचित् ।
यथोक्तमात्रमेव कार्यमित्यन्येन्द्रियक्रियाशक्तिमयीं सूक्ष्ममूर्तिं ।
तदुक्तं श्रीमन्मृगेन्द्रे -

निर्दहेत्पाशमूर्तिञ्च सदाशिवपदस्पृहाम् ।
तद्भस्मवायुना शाके नाचनीयावलोकयेत् ॥

दिनकृन्मण्डलाकारं दृक्क्रियामण्डलाञ्चितं ।
तदेव वपुरस्येतदव्यक्ताङ्गमिष्यते ? ॥

इति ।

तस्या मूर्तौ शिवमयं शिवाधिष्ठितत्वात् ।
अत एव तस्यावाहानं शिवमन्त्रेण ।
तथोक्तं ब्रह्मशम्भुपादैः -

प्।
३६)

आविष्कुर्यात्प्रसादेन तस्यां रूपं परापरं

इति

अथानन्तरं तां मूर्तिं शिवमन्त्रेण चतुर्थ्यन्तशाक्तशब्दयुक्तेन मूलमन्त्रेण दिव्यामृतेन निष्कलशक्ति प्रसृतेन ।
तदुक्तं -

निष्कलशक्तिक्षोभात् सृतबलामृतस्य सलिलस्य मध्ये प्लवन ।

स हंसः पुनरागच्छन् ततोध्येय * * * * ॥

इति ।

सकलीकरणं कूर्वीतेति पादेन अथ तल्लक्षणं ।
हृदयादीन्येकेन हृदयादिकरान्तेषु हृदयशिरश्शिखास्तनान्तरहस्ततलेषु कनिष्ठाद्यङ्गुलीषु कनिष्ठायाः आदि हस्ततलं कनिष्ठाद्यश्च अङ्गुलयश्चेति कनिष्ठाद्यङ्गुलयः ।
तासु हृदि मन्त्रविन्यासं हृदयस्यादधो हृदयः ।
हृदयमादि येषामिति विग्रहद्वयेन हृदादिशब्देनासनमूलमन्त्रेण हृदाद्यस्तान्तमन्त्राश्च विवक्षिता इति गुरुवः ।
अत्र करन्यासे करतल एवासनमूर्तिमूलानां न्यास इति गुरवः ।
अङ्गन्यासे हृदये(ने)वेति हृद्यासनमिदं दत्वा तदन्ते च पूर्वमेवोक्तत्वात् ।
केचित्तु -

नाभावे तत्करन्यासं कुर्वन्निक्षिपेदित्यादि सार्द्धश्लोकद्वयस्थानशुद्धिपरमिति केचित् ।

प्।
३७)

प्राकारञ्च तनुत्राणेत्यादि दर्शनात् ।
अपरे तु सकलीकरणाङ्गमिति दर्शयित्वा महामुद्रामिति तदङ्गदर्शनात् ।
तदुक्तं भोजदेवेन सकलीकरणविधाने - अस्त्रं दत्वा परमीकरणं कृत्वा महामुद्रया प्ररोच्यति ।
उभयलिङ्गदर्शनादुभयपरमेवेति गुरवः ।
तालत्रयपुरस्सरमिति ।
एतल्लक्षणमुक्तं श्रीमन्मृगेन्द्रे -

तालस्त्रिराहुतिः पाण्योस्साट्टहासोऽन्तरायनं ।

इति ।
अथान्तर्यजनहवनध्यानान्याह - भावेति ।
सार्धद्वयेन पीयुषहविषा स्वतस्सिध इत्येतत् ।
कुण्डेन लेलुब्धयोरपि सम्बन्धनीयं ।
एतेन कुण्डाग्निसंस्कारयोरकरणीयत्वं दर्शयति ।
तं हृदयपूजितं शिवं तर्पयेत् ।
प्रीणयेत् ।
निर्भर्त्सितशरच्चन्द्रबिन्दुरूपमिति - निर्भर्त्सितः अति प्रसन्नेन सौम्येतरेण तेजसाऽभिभूतशरच्चन्द्रो येन स तथा ।
निर्भर्त्सितशरच्चन्द्रश्चासौ बिन्दुश्चेति कर्मधारयः ।
स अधिष्ठेयत्त्वाद्रूपमिव रूपं यस्य तमिति तथा ललाटपट्टमध्यस्थं

प्।
३८)

भ्रूमध्ययुगलान्तरपर्यायबिन्दुस्थानगतं विग्रहं मन्त्राष्टशुद्धिविग्रहं सकलरूपमिति यावत् ।
अत्रायमन्वयः ।
शुभ्रविग्रहं महेश्वरं ललाटपट्टं मध्यस्थं निर्भर्त्सितशरच्चन्द्रबिन्दुरूपं चिन्तयेदिति ।
अयमाशयः ।
हृत्पद्मे च शिवानलेऽर्पितं सकलरूपं तं महेशं पूर्वोक्तमन्त्रात्मकावयविभागरहितं निषकलशिवं बिन्द्वधिष्ठानं तं बिन्दुरूपं चिन्तयेदिति ।
अथ शिवार्घ्यकरणं वक्ति एकमिति सार्धद्वयेन ।
अष्टाङ्गं अष्टाङ्गादीन्यङ्गानि यस्या तदुक्तं -

आपक्षीरकुशाग्राणि तण्डुलास्सुमनास्तिलाः ।
अर्घ्योष्टाङ्ग इति प्रोक्तो यवैस्सिधार्थकैस्सह ॥
(इति)

अर्घ्यकृतैरान्तरकरणीयमाह - अभिषिञ्चेदित्यर्द्धेन ।
अथ द्रव्यशुद्धिः तत्रेत्यादिना मुद्रामित्यन्तेन ।
पिण्डैः ब्रह्मभिः अथ केन किं द्रव्यमालभनीयमित्याशङ्कायां तत्तद्द्रव्योपयोगाद्भावा यव वाचकेन ब्रह्मणा तत्तद्द्रव्यमालभनीयं ।
शेषन्तु हृदयेनेति नियमम् ।
तदुक्तं शम्भुपादैः -

प्।
३९)

हृदयेन पवित्रैर्वेत्युपक्रम्य -

विलेपनमजातेन वस्त्रं वामदेवेन चालभेत् ।
रूपिणा भरणाद्यातान्नैवेद्यं पुरुषेण तु ॥

ईशानेन तु पुष्पाणि इत्यादि ।

अथात्मपूजां पुष्पं दत्वेत्यादि योजयेदित्यन्तेन विधाय तिलकमित्यत्र ललाट इत्यध्याहार्थः ।
अत्र प्रसङ्गात्स्नानादिषु मानं कार्यमित्याह - स्नान इकेन यागस्तत्र दीक्षा लक्षनं ।

अथ मन्त्रशुद्धिः - नादेति शोधयित्वेत्यन्तं अत्र शब्देन तत्सूक्ष्मरूपत्वेन वक्ष्यमाणशक्त्याद्युन्मन्यन्तकलाकलापो विवक्षितः ।
मन्त्रश्शिववाचकः ।
तत एव अङ्गानामुद्भवात् तदभावेन तेषां शुद्धिरिति भावः ।
शोधयित्वा मायीयशब्दव्यङ्ग्यत्वजनितस्पर्शलक्षणदोषं परितत्वसमाश्रयः क्षपयित्वा तथोक्तं -

मन्त्रशुद्धिर्भवेदेवं शुद्धतत्वसमाश्रये ।
इति ॥

अथ लिङ्गशुद्धिः पुरेत्यादि शोधयेदित्यन्तेन ।

प्।
४०)

अत्र सामान्यार्घ्योपकरणं गायत्रीति केचित् ।
स हृदा मूलेनेत्यन्ये ।
ब्रह्मपञ्च्कमावर्त्येति ।
एतत्सद्यादिशिरस्पर्शनक्रमेणेति मन्तव्यं ।
सद्योजातादिभिः पूतैरावर्त्येति ब्रह्मशम्भुवचनात् निवेदयेदिति ।
तत्पूजाकाले निवेदयिष्यामीति पीठिकादौ कल्पयेत् ।
तथोक्तं अर्घ्यजलैः ब्रह्मशम्भुपादैः -

ईशान्यां पीठिके स्थाप्य चण्डेशाय प्रकल्पयेत् ।

इति

ॐ हां चण्डेशायेदं निर्माल्यं इत्यैशा दिशि स्थाप्येत्यर्थः ।
अर्घ्यपात्राम्बुना सामान्यार्घ्यजलैः पश्चादभिषिञ्चेत मन्त्रमिति वचनात् ।

एवं पञ्चशुद्ध्यकरणे शिवपूजनं न कार्यमित्याह इत्थमित्येकेन ।
तत्रेत्यादिना गणपतिगुरुपूजा ।
एतत्प्रयोजनमुक्तं श्रीमत्पौषकरे -

अविघ्नार्थन्तु यजनं गणेन्द्रस्य पुरो भवेत् ।

इति

प्।
४१)

श्रीमृगेन्द्रे -

गणनाथाम्बिकां स्वामिन् पादुकायां जगद्गुरुम् ।
यजन्तमनुजानीथ यथा सम्पन्नकारणम् ॥

इति

पीठस्य वायव्यामैशान्यां इति च तद्वयमेव का न ब्राह्मणः ।
प्राच्यां षट्पदायां मरीचिरयमिति व्याख्येयं ।
अथ शिवमुक्तप्रकारेण परमगुरोश्शिवस्य स्वगुरोश्च पृथगेव ।

सदाशिवमनन्तञ्च श्रीकण्ठं पुनरम्बिकाम् ।
गुहं कृष्णञ्च धातारं गुरून् सप्त स्मरन् यजेत् ॥

इति

अथ शिवासनपूजा तत इत्यादि शिवासनाय नम इत्यन्तेन ।
कूर्मशिलासीनां कूर्मशिलाधारभूतशिला ।
क्षिरोदसितविग्रहामित्यत्र केचिद्द्वादशशब्दमित्याहृत्य -

चन्द्रांशुनिर्मला सौम्य चतुर्वक्ता चतुर्भुजा ।

इत्यादिशास्त्रान्तरोक्तशरीरमिति व्याचक्षते ।

प्।
४२)

अपरे क्षीरोदसितस्वरूपामिति वर्णविधिपरत्वेन बीजाङ्कुराकृतेर्विशेषणतया व्याचक्षते ।
बीजाङ्कुराकारां बीजाङ्कुराणामाकार इव आकारो यस्यास्स तथोक्ता कुटिलात्मकेति यावत् ।
तस्या एवाङ्कुरोपमान श्रवण तथा हि श्रूयते श्रीकालोत्तरे -

चन्द्राग्निरविसंयुक्ता आद्या कुण्डलिनी तु या ।
हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारवात्स्थिता ॥

इति

अस्याह्यशुद्धानां जगदङ्कुराणामाधारतया शुद्धानां उपादानतया च जगदधिष्ठानतस्तदाकारत्वोपमानमुपपन्नम् ।
सेयमाधारशक्तिः शिवशक्तिरधिष्ठिता कुटिलेति विस्तरेणास्माभिः ब्रह्मशम्भुटीकायां साधितम् ।

पयोजमुकुलाकृतिं पद्ममुकुलाकृतिं ब्रह्मशिलारूढं आधारशिलारूढम् ।
अनन्तं वक्ष्यमाणपङ्कजरूपस्थानं तस्येदमनन्तासनं तदधिष्ठेयो शुद्धाध्वा यतः तदुक्तं श्रीमत्किरणे-

प्।
४३)

शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तो सितो प्रभुः ।

इति ।

अत एव तन्मुकुलाकृतित्वञ्च शूद्धाध्वापेक्षया ।
मायी यस्य किञ्चित्त्ज्ञत्वादि हेतुत्त्वान्मोहकत्वाच्च ।
विचित्रकेसरिप्रख्यान् विचित्रसिह्मनिभान् अन्योन्यं पृष्ठयितारः ।
न तु द्रष्टारः ।
एषां कृतत्रेतद्वापरकलियुगरूपत्वयुगचतुष्टयनिबन्धनमिति श्रीमत्पौष्करादाववधेयं ।

एते धर्मादयोऽनन्तसमार्थ्यविशेषा इत्युक्तं ।
श्रीमत्पराख्ये -

तस्य भावि दिशो ॥






दा गात्रकाणि दिशो मता ।

इति

तस्येत्यनन्तस्य भाः तेजसः ।
विदिशामधिष्ठायकाश्शक्तयः ।
पादा दिशामधिष्ठायका गात्रकाणि तद्वृत्तौ कथितं ।
एषां धर्मादिसञ्ज्ञा च ।
धर्माद्यधिष्ठानाद्धारणादि व्यापारहेतुत्वात् विज्ञेयं ।

प्।
४४)

तदेवेति ।
यस्यासनतयाऽध्वा पथो मुकुलाकृतित्वेन पूर्वं पूजितं तदनन्तपङ्कजमेवाऽधुना पूजयेदिति सम्बन्धः ।
अत्रानन्तो विद्येशानां प्रथमः ।
तस्य शरीरं कर्मजत्त्वाच्छुद्धकारणमयं ।
तदुक्तं श्रीमत्पराख्ये -

शुद्धयोनिमयं तस्य वपुरुत्तमकर्मजं

इति ।

अतस्तदवयवैरपि तवावस्थाविशेषात्मकैश्शुधैः पृथिव्यादिभिः भाव्यं ।

शिवासनपङ्कजस्य शुद्धविद्या च शोभितं

इति श्रुतेः ।

शुद्धविद्यामयत्वं तदवयवभूतानां नालादीनामपि शुद्धविद्यावस्थात्मकशुद्धपृथिव्याद्याधारस्थितं ।
अथः पद्मावयवभूतानामनन्तशरीरावयवभूतानाञ्च पृथिव्यादीनां एतच्छरीरशरीरिणोरव्यतिरेकत्वाच्छरीरिणः प्राधान्याच्चानन्त एव पङ्कजरूपेण स्थित इत्युक्तं ।

अत्र अन्येषामपि सप्तानां विद्येशानामेवं विधत्वं

प्।
४५)

अनन्तस्य तत्प्रभुत्त्वादुपलक्षणत्त्वाच्च तद्ग्रहणात्तेषामपि सङ्ग्रहणं ।
अत एवोक्तं अष्टदलमिति ।
श्रीमत्किरणेऽपि -

विद्येश्वरदलाक्रान्तात् इत्युक्तं ।

उत्पलत्वमपि सितत्वञ्चास्य विद्यामयत्वमेव द्योतयतस्तस्य सर्वज्ञत्त्वादिहेतुत्त्वेन विकासकत्वं शुद्धत्वञ्च यतः पञ्चाशद्वीजगर्भमित्यत्र पञ्चाशद्बीजानि पञ्चाशद्वर्ण एवोक्तं श्रीमत्पौष्करे ।
तथा हि -

पञ्चाशद्बीजानि कर्णिकायां ककारादीनि मकारान्तानि पँचविंशतिः ।
ककारादि विसर्गान्ता षोडश यकारादि यकारादि षकारान्तानि नवेति ।
श्रीमत्किरणे -

कर्णिकाबीजानि शिवशुद्धात्मकमित्युक्तं

शिवशक्ते द्वयारब्धकर्णिकाबीजराहित्यमिति ।
केसराणां चतुष्षष्ठ्येति ।
मकाराहित ककारादि पञ्च वर्गः ।
अन्तस्थोपकरणश्च आद्यकरणादिक्रमेण प्रत्येकं मकारबिन्दुयुक्ता द्विरुच्चारत एव केसराणाञ्च चतुष्षष्ठ्येत्युक्तं ।

प्।
४६)

श्रीमत्पौष्करे -

क्षित्यादिशुद्धविद्यान्ततत्वव्यापकमासनं

इति ।

निर्देशा व्यापकासन एव पूजा ।
एतद्व्यापकानामनुक्तानां गात्राद्यवयवानां सूर्यादिमण्डलानाञ्च पूजा कृतैव स्यादिति भावः ।
अत्र शुद्धविद्या कुटिला शक्तिः ।

परा वागीऽस्वरी विद्या मायाऽविद्या परस्मृता ।

इति श्रुतेः ।

शक्त्यादि शक्तिपर्यन्तमासनमिति प्रतिष्ठायां वक्ष्यमाणत्वात् ।

पीठमेवं विधं सङ्कल्पविशेषाध्वा विनिर्मितं

इति श्रुतेश्च ।

शक्तितत्वञ्च पर्यायान्तरे सत्यपि शुद्धविद्यातत्वान्तिमं तत्वानां मायेय शुद्धविद्यातत्त्वग्रहं बुभुक्षोर्विषये शिवासनस्य तदा ज्ञापनमितिं केचित् ।
अर्घ्याम्बु॥





षकृद्वुभुक्षुविषयभेदेन कर्मणां विधानमुभयमप्याचार्यस्यानुमतमेव ।
अथ मूर्त्त्यावाहनं ।

प्।
४७)

अत्रेत्यादि अनेनैवेत्यन्तेन द्वाविंशल्लक्षणोपममिति ।

पञ्च दीर्घं चतुर्ह्रस्वं पञ्च सूक्ष्मं षडुन्नतं ।
सप्त रत्नमृगं गीरं द्विविस्तीर्णं प्रशस्यते ॥

इत्यादि सामुद्रिकालक्षणेऽवधार्यं ।

सदाशिवमिति सकलविग्रहं विद्यादेहमिति यावत् ।
कथमेतदिति चेत् - अस्मिन् शास्त्रे परमेश्वरस्य ज्ञानक्रियात्मिकं स्वशक्तिरेव मूर्त्तिः सा च तं ।
अभेदनिबन्ध पञ्चब्रह्मात्मिका ।
तथा चोपदेशः -

मूलाद्यसम्भवात् शान्तवपुर्नेतादृशं विभोः ।
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ।
ईशतत्पुरुषाघोरवामजैर्मस्तकादिकं ।

इति ।

इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः ।

इति च ।
श्रीमन्मतङ्गे -

मन्त्राङ्गो नु होत्साह इति ।

प्।
४८)

तत्तद्दृक्क्रियारूपेति च ।
श्रीमत्पराख्ये -

आसनं कारणान्तन्तु मूर्तिं शक्तिस्वरूपिणीम् ।

इति ।

इच्छाशक्तिमयीमूर्तिं कल्पयेत्कारणस्य च ।

इति मोहशूरोत्तरे ।

मूर्तिरस्योपचारेण * मन्त्रमयी शिवेति ।
पञ्चमन्त्रतनुर्देवस्सकलः परिपठ्यते ॥

इति श्रीमन्मतङ्गे ।

सकलाभिः पञ्चमन्त्रावान्तरभेदरूपाभिः विवर्तितः

इति तद्वृत्तौ च ।

ततो देवस्य साकल्यनिबन्धनभेदानां कृत्यत्त्वाच्च तस्य चाधिष्ठेय भेदनिबन्धनत्वादधिष्ठेयस्य विधेत्वाध्वनि ।
निष्कलशिवादधस्तात् स्थितस्य तस्य सदाशिवशब्दवाच्यत्वं ।
तदधिष्ठाननिबन्धनञ्च साकल्यं ।
तदुक्तं श्रीमन्मृगेन्द्रे -

ईशानातीत्य शान्तान्तं तत्वसादाशिवं स्मृतं ।

प्।
४९)

भुवनान्यपि नादादिकला नान्यः पदाश्शिवात् ।

इत्युपक्रम्य

इति सादाशिवं तत्वं व्याख्यातं लेशतस्तव ।
शक्त्याप्येवमित्येषस्सकलः कृत्ययोगतः ॥

कृत्यन्तादिविषयं निष्कलोऽन्यत्र सर्वदा ।

इति ।

अतस्साकल्यनिबन्धनत्रितत्वसमुदायवाचिकया सदाशिवसञ्ज्ञया विद्यादेहापरपर्यायसकलविग्रहो विवक्षित इति साधूक्तं ।
एवमेवोक्तं रत्नत्रये -

या तस्य विमला शक्तिः शिवस्य समवायिनी ।
सैवमूर्तिं क्रियाभेदां सादाख्यं तत्वमुच्यते ॥

इति ।
मूर्तिमिति ।
मूर्तिमित्यनेन व्यक्तोभयात्मकमूर्तिद्वयं तन्त्रेणोच्यते इति गुरवः ।
तत एतन्मन्त्रप्रयोगोप्येक इति शक्त्यन्तगोचरामिति ।
आसना शिवेनोक्तायाः शक्तेरन्तं शिवतत्वापरपर्यायत्वं परबिन्दुतत्वं तद्गोचरा विषयो व्याप्यत्वेन यस्यास्तामत एवोक्तरीत्या सदाशिवशब्दवाच्येषु तत्वत्रयेषु शिवतत्वमेव मुमुक्षुभिः

प्।
५०)

शिवमूर्त्त्युपाधितया भावनीयं गुरवः ।
तत्रासनमूर्त्त्यावाहनानां व्याप्तिस्वरूपादिनिरूपणमस्माभिः ब्रह्मशम्भुटीकायाम् विस्तरेण कृतं ।

अथ शिवावाहनं सर्वज्ञमित्यादि आवाह्येत्यनेन ।
बोधानन्दमयमित्यत्रानन्दशब्दं परिपूर्तिवाचकबोधशब्दस्तं ।
तस्य जडरूपतानिरासपरः ।
ब्रह्मादिकारणत्यागात् ।
ब्रह्मादि वाचकाकारादि वाचकारादि कलास्थानहृत्कर्णादिस्थानत्यागात् ।
शिवास्पदं शिवस्थानं द्वादशान्तः -

द्वादशान्ते परे तत्वे परमानन्दलक्षणा ।

इति च वक्ष्यमाणत्वात् ।
ततः इत्यस्मात् हृदि क्रमेण ललाटमध्यस्थं ध्यात्वा एतदत्रापि सम्बध्यते ।
षडङ्गेन सर्वज्ञतादिरूपेण हृदयादिना निष्कलङ्का षट्कोणसर्वज्ञतादीनां हृदयाद्यङ्गरूपत्वं प्रथममेव निरूपितं ।
तथोक्तं -

सर्वज्ञता तृप्तिरचनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः

प्।
५१)

अनन्तशक्तिश्च विभोर्विजिज्ञा षडाहुरङ्गानि महेश्वरस्य इति ।
समाकीर्णं समेतं बिन्दुरूपं तदधिष्ठानात्तद्रूपं ततः प्रवहन्नाडीमार्गेण पुष्पाञ्जलिमतं एतदावाहनसम्प्रदायः तत्वसारादवधेयं ।
आवाहनं बिन्दाविति केचित् ।
तदुक्तं -

लक्ष्यमूर्तौ निवेशयेदिति गणाणां तथोक्तं -

व्यक्तं कुर्याद्विशेषेण निष्कलं सकलात्मनि ।
परावाहनमेवोक्तं शिवमन्त्रनियन्त्रणात् ॥

इति ।

अथ स्थापनादिविधिः ।

स्थापनेत्यादि अवकुण्ठयेदित्यन्तं ।
आस्थाप्येत्यत्र आग्रहणं ल्यबर्थं असमासे ल्यबो अनुपपत्तेरन्तिकं अन्तिकस्थसन्निहितमिति यावत् ।
आवाहनादि मुद्राः पूर्वमेव दर्शिताः ।
कालकर्णिका लिङ्गमुद्रयोर्लक्षणं भोजदेवेनोक्तं -

बद्धमुष्ट्योः करयोः संलग्नसम्मुखाङ्गुष्ठयोः

प्।
५२)

कालकर्णिका ।
वामाङ्गुष्ठमधोमुकुलीदक्षिणहस्तमुष्टिप्रक्षिप्तवामहस्तं तर्जन्यङ्गुष्ठयोर्मध्ये दक्षिणाङ्गुष्ठपद्मगतं कृत्वा वामहस्ताङ्गुलीभिः दक्षिणहस्तवेष्टनेन लिङ्गमुद्रा ।
मुष्टिना अस्त्रेण अवकुण्ठनमङ्गसकलीकरणम् इति ब्रह्मशम्भुपञ्चिकायामुक्तं ।
कवचवेष्टनमित्येके ।
आवाहनादिस्तत्वकथनं सादरमिति चतुर्भिः सम्मुखी भावः ।
अभिमुखीभावः पूजायामनुज्ञापनमिति यावत् तदुक्तं श्रीमन्मृगेन्द्रे -

आवाहनं न सान्निध्यैर्पूजा न जप्तयेन्वहं ।

इति ।

तत्रेति ।
कर्मकाण्डे निवेशनं ।
तत्कर्मानुगुण्येन स्थितिः ।
सन्निधा सन्निबाद्ध्यते केन प्रकृतितत्वविभुत्त्वेन न बाध इति पाठेऽपि तत्वं विभुत्त्वमिति व्याख्येयं ।
अत्र सम्मुख्यार्घ्यं निरोधार्घ्यञ्चेति यमिति केचित् ।
तदुक्तं सर्वज्ञानोत्तरे -

ऊर्ध्ववक्त्रे तु दातव्यं सम्मुखञ्च पराङ्मुखम् ।

प्।
५३)

आगतस्य * ते वस्य सम्मुखं परिकल्पयेत् ।
विसर्जने तु गाङ्गेयदेयमर्घ्यं पराङ्मुखं ॥

इति ।

श्रीमन्मृगेन्द्रे च -

निरोधान्ते विसर्गे च रोधार्घ्यमुपयुज्यते

इति ।

अथ सम्मुखीकरणादौ मन्त्रन्यासाय तत्प्रयोजनञ्चाह - सङ्कलीकरणमिति द्वाभ्यां ।
तत्राथ शब्दो अपि शब्दार्थः ।
यथायोगं षड्भिर्मत्रैः सकलीकरणमेकार्थमपि कृत्वाऽमृतीकृतिं विदद्ध्यादित्यन्वयः ।
षट्सु मन्त्रेषु हृदाद्यङ्गपञ्चकेन सकलीकरणम ङ्गवाचकेन ।
केचित्तु एकार्थं धेनुमुद्रयाऽमृतीकरणमिति इत्याद्याधारज्ञानादि विधानज्ञं ।
एतद्ध्यानं पौष्करादाववधेयं ।
तदुक्तं -

अविभिन्नस्वभावानां यदभिन्नं प्रयोजनं ।
अङ्गानामङ्गिना सार्द्धममृतीकरणं हि तत् ॥

अस्मिन् पक्षे अथ शब्दः पादपूरणार्थमेव ।

प्।
५४)

अथ हृदयादिस्तत्वकथनं हृदयामिति द्वयेन ।
अत्रैश्वर्याष्टविधत्वमणिमादिप्रवृत्तत्वादौपचारिकं ।
नत्त्वेतद्रूपतया ।
तस्य शरीरेन्द्रिय धर्मत्वेन तद्रहितस्य शिवस्य तदसम्भवात् ।
तदुक्तं श्रीमन्मतङ्गे -

त्रितयं कार्यतास्सिद्धमैश्वर्यमणिमादिकं ।
प्राप्त्यादयोः गुणाः पञ्च ते चोक्ताः कारणात्मिका ॥

इति ।

अत एव दृक्क्रियात्मकमैश्वर्यमित्युक्तं ।
श्रीमत्पराख्ये -

दृक्क्रियात्मकमैश्वर्यं यस्य तद्धातृपूर्वकं ।

ईश्वरस्सोत मन्तव्यः इति ॥

अथ पाद्यादिविद्धिः ॥

नम इति द्वाभ्याम् ।
अत्र विशेषार्घ्येणैव पाद्यादीनी दद्यामित्युक्तं ।
श्रीमन्मृगेन्द्रे -

शिवाभिधानं पाद्यान्ते पाद्यावाचमनीयकं ।

इति ।

प्।
५५)

एवमावाहनादि संस्कारपूजनं कार्यमित्याह - एवमित्येकेन ।
एवमुक्तैर्दशभिः आवाहनाद्यैः पुष्पप्रदानान्तेन ।
तथाचोक्तं -

आवाहनस्थापनञ्च सान्निध्यं सन्निरोधनं ।
सकलीकरणमेकत्वं पाद्यमाचमनार्घ्यकं ॥

पुष्पदानमितीमानि पूजाकाले शिवस्य तु ।

इति ।

पञ्चभूतोपचारेण

पार्थिवं गन्धपुष्पाद्यं कन्दमूलफलादिकम् ।
आप्यं वारिपयोवस्त्रं दधिगोमूत्रकादिकम् ॥

आग्नेयं हेमरत्नादि दीपमाभरणादिकम् ।
पाद्यं चामरं धूपं व्यजनं वातकारणम् ॥

नादसङ्गेयवाद्याद्यं घण्टानादस्वनादिकम् ।
एते पञ्चोपचारास्तु कथिता शास्त्रवेदिभिः ॥

इति ।

अथ स्नानं ।

प्।
५६)

अभ्यज्येति ।
पञ्चभिराजिका सर्षपः ।
अतो न बन्धमुक्तये मुद्रयामिति ।
स्तनद्वयादधो मुद्रां न बन्धयेत् ।
तदुक्तं -

स्तनद्वयादधः कृत्वा करमुद्रां न बन्धयेत् ।
मुद्रादाने ततश्शम्भोः हृद्देशे तन्निवेदयेत् ॥

इति ।

तथार्घ्यदानादावपि देवस्योपरि करं न भ्रामयेत् ।

तदुक्तं -

अर्घ्यं सव्यापसव्येन दद्यात्पञ्चसु मूर्धसु ।

इति ।

अथ स्नपनानन्तरकरणीयान्विधत्ते - चन्द्रेति ।
त्रिभिः चन्द्रशब्दं कर्पूरः काश्मीरवचनं कुङ्कुमवाचि ।
आरात्रिकोक्तप्रकारेणान्विते वेदितव्यः ।

अथोक्तं -

आरादिकज्जलोद्दीपैर्नवपञ्चाष्टभिर्युतं ।
सौवर्णं राजतं वाऽपि दधिदूर्वाक्षतार्चितं ॥

प्।
५७ )

अत ऊर्ध्वक्रमेणेशसन्निधौ तां शनैश्शनैः ।
त्रिवारं तमनुभ्राम्य शीताम्बुचुलुकत्रयं ॥

इति ।

अथ पूजाङ्गविधिः ।

प्रणम्येत्यादि निवेद्येत्यन्तं दंष्ट्राकरालं दंष्ट्राभयङ्करं ।
पाद्याचमनार्घ्यञ्चेति चकारात् आवाहनादि संस्कारान्तानपि सूचयति ।
तदुक्तं ब्रह्मशम्भुपादैः -

आवाहनादिनैतानि स्वमन्त्रैः क्रमशोऽर्चयेत् ।
नावकुण्ठनमेतेषां अमृतीकरणं तथा ॥

संस्काराष्टकमेवैषां प्रत्येकं विहितं बुधैः ।
स्नपनं दीपपक्वञ्च न पृथक् चाङ्गभावतः ॥

भोजनन्तु प्रभोः पार्श्वे तेषां तस्य च कीर्तितं ।

इति ।

प्।
५८)

अथावरणपूजानन्तरं करणीयानाह - धूपेति ।
संसार्द्धेन परिवारायेति ।
परिवारा हृदाद्यैस्संहिताया एकपात्रे साङ्गाय शिवाय निवेदयेत् ।
तथोक्तं ब्रह्मशम्भुपादैः -

तदर्धस्य नैवेद्यं पृथक् पात्रेषु सम्भवेत् ।

पूजितेष्वितरन्देकस्मिन्

इति ।
तन्त्रस्त्नावल्यामपि -

भोगाङ्गानां पृथग्देयमभावादेकतो भवेत् ।

इति ।

अथ पवित्रारोपणं शिरसीत्येकेन ।
एतदकरणे पूजायास्तामसत्वमित्युकं मोहशूरोत्तरे -

पवित्रेण विना पूजा तामसी परिकीर्तिता ।

इति ।

अथ जपतद्दानयोर्विधिः ।

मानसेत्यादि निवेद्य चेत्यन्तेन मानसादिलक्षणमुक्तं ।

प्।
५९)

अन्यत्र यथा -

मानसं मनसा कार्यं प्राणप्रतिनिरोधितः ।
ओष्ठस्पन्दनमात्रेण उपांशुः परिकीर्तितः ।
परेषां शृण्वतां भाष्यो यश्शब्दजनकस्मृतः ॥

मानसं सात्विकं विद्यात् राजसञ्च द्वितीयकं ।
विस्पष्टः तमसः प्रोक्तः तामसः क्रूरकर्मणि ॥

राजसं पुष्टिवश्यादौ सात्विकं दिव्यशुद्धये ।
सप्तविंशतिभिश्चाक्षैः पञ्चवक्तैः स कर्णकै ॥

मेरु ऊर्ध्वमुखः कार्यः प्रत्यक्षं नागपाशकं ।
अङ्गुष्ठदर्शनीभ्यान्तु मध्यमायां व्यवस्थितं ॥

मन्त्रमुच्चारयन्नक्षमेकैकं कर्षयेच्छनैः ।
ततो मेर्वासनन्तु नगेन्द्रं परिवर्जयेत् ॥

शतमष्टोत्तरं जप्यं सहस्रं वाऽर्द्धमेव वा ।
न सङ्ख्यन्न परिभ्रान्तं न द्रुतं न विलम्बितं ॥

गुह्येति ।
गुह्यादीनि शुधविद्यादीनि ।

प्।
६०)

तेषां गोप्तात्त्वमेव ।
अतः सर्वगोण्तृत्वादस्मत्कृतं जपं गृहाण ।
येन यस्मादस्मिन्जपे त्वय्येव व्यवस्थिते सति त्वत्प्रसादादस्माकं भुक्तिमुक्तिलक्षणसिद्धिर्भवति ।
नान्यथा तस्माद्गृहाणेति ।
भोगी भौतिकदीक्षया दीक्षितः स्वभोगानन्तरं मोक्षभाक् ।
तदुक्तं श्रीमद्रौरवे -

दीक्षा पूता गणपति गुरोर्मण्डले जन्मवन्तः सिद्धा मन्त्रैस्तरुणदिनकृन्मण्डलोद्भासि देहाः ।
भुक्त्वा भोगान् सुचिर मम ॥

स्त्रीनिकायैरूपेता ? स्रस्तोत्कण्ठाश्शिवपदपरैश्वर्यभाजो भवन्ति ॥

हे देव सुकृतदुष्कृतं यावत् किञ्चिन्मे कर्मास्ति शिवपदस्थस्य शिवस्यावसायेन स्थितस्य पदं व्यवस्यति ।
तृणावस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः ।

तत्कर्म भुङ्क्ष्वे मोक्षान्तरायापहरणाय सुकृतरूपं पालय ।
अपालनवृत्तेरपि भुजेरात्मपर एव परमेश्वर त्वात् सोढव्यम् ।
दुष्कृतरूपं क्षपय नाशय ।

प्।
६१)

अत्र भुङ्क्ष्व इति पाठान्तरं तत्तु कर्मद्वयनाशकं ।
बीजद्वयरूपं मन्त्रान्तरं ।

शिवो दाता शोधयिता शिवो भोक्ता पालयिता शिवस्सर्वमिदं जगत् ईष्ट इति शेषः ।
अधितिष्ठति वा ।
यद्दीक्षया शिवऽस्शुद्धो भुत्वा सर्वत्र देशेष्वधिकरणेषु यजति ।
शोधयितृत्वादिविशिष्टं परमशिवं पूजयति ।
आराधकश्शिवोऽहमेव त्वञ्च आराध्यश्शिव इति ।
इत्यनेन पूज्यपूजकयोः जगन्नाथ तवास्मिति यत् स्वीकारोपदर्शनमिति प्रागुक्तं ।
स्वस्वामिसम्बन्धप्रदर्शनमुपपादयति ।

अत एवैतदात्मनिवेदनमिति ।
ब्रह्मशम्भुभिरुक्तं

निवेद्यैवं सदात्मानं जपं पूजाञ्च भक्तितः ।

इति ।
जपनिवेदनानन्तरं करणीयान्विधत्ते अर्घ्येति सार्द्धेन ।
अथोपसंहारः समाधिनेति द्वयेन ।
अत्र समाधिः ध्यातृद्ध्यानावभासा विधुरं ध्यापैकनिर्भासलक्षणञ्च चरमयोगाङ्गम् ।
तदुक्तं -

प्।
६२)

तदर्थमात्रनिर्भासं स्वरूपं शून्यमिव समाधिरिति प्राणायामस्तपस्तत्त्व त्रि प्राणायामः परन्तप

इति श्रुतेः ।

प्रत्याहारस्यापि इन्द्रियनिग्राहकत्वं तपोरूपमिति केचित् ।
द्ध्यानं प्रत्यैकतानता लक्षणं ।
उक्तञ्च - तत्र प्रत्येकतानता ध्यानमिति धारणहृदादिदेशचित्तसम्बन्धनं ।
तदुक्तं -

देशबन्धस्य चित्तस्य धारणा

इति ।
भावना मानसो व्यापारः जपस्तु ध्येयसम्मुखीकरणार्थं तद्वाचकमन्त्रभाषणं ।
तदुक्तं श्रीमन्मृगेन्द्रे -

जपस्तद्भाषणध्येयसम्मुखीकरणम्

इति ।
तथा अन्यत्रापि -

जपेन देवता नित्यसूर्यमाना प्रसीदति ।

प्रसन्ना विपुलान् भोगान् दद्यान्मूर्तिञ्च शाश्वतीम् ॥

इति ।

प्।
६३)

एतैस्साधनभुतैर्वक्ष्यमाणाधिकरणभेदेन बहुधा यजनं यथाभिष्टमुदाहृतमित्यन्वयः ।

अत्र प्राणायामप्रत्याहार धारणानां भूतशुद्ध्यादाप्रयोगं ध्यानसमाध्योरन्तर्यागे बहिर्यागे च जपस्यापि उभयत्र भावनयात्मनः शिवभावनाय पुष्पादि द्रव्याणां शक्तिमतापादने चित्राद्याकारेणानुचितानां चोपचाराणां करणे च उपयोग स्पष्ट एव पुस्तके विद्यापीठे ।

तदुक्तं -

विद्यापीठे विमत्वेवं एकोच्चारेण पूजयेत् ।

इति ।

विद्यापीठं कोटिमात्रं पूज्येद्वास्य संहितां ।

इति ।

सलिले कुम्भस्ये अर्घ्यपात्रस्थे चालने शिवाग्नौ चित्रादौ आर्द्रग्रहणाल्लिप्ये अनन्तविजयादिमण्डले चललिङ्गे अत्यन्तमुत्तमं ।
तदुक्तं षट् सहस्रिकायां - सर्वत्र संस्थितः पूज्यः सर्वथा सर्वदा * * ।

प्।
६४)

तत्रापि लिङ्गे भगवान् पूजाग्रान् गृह्नाति धूर्जटिः ।
असम्पूर्णा कृता पूजा मन्त्रद्रव्यप्रयोगतः ॥

तथापि लिङ्गपूर्णा तु पूजा भवति षण्मुख ।
न च न्यूनाधिका कर्या पूजा वै स्थण्डिले सुत ॥

न्यूनाधिका तु या पूजा फलहीना प्रकीर्तिता ।
एतस्मात्कारणाद्वत्स लिङ्गाराधनमारभेत् ॥

इति

अत्र निजमूर्त्याद्यनलान्तात्पञ्चाधिकरणपूजा लिङ्गात् अधिकरणपूजाया अङ्गभूताः क्वचित् ।
प्रधानस्तु ता विचित्राद्यधिकरणपूजा प्रधानभूतो वैकल्प्येति ।
केचिद्विभागः ।
एवमुक्तायाः शिवपूजायाः विसर्जनविधानविधौ अग्निकार्याधिकारिणा तत्समाप्त्यनन्तरमेव कार्यमिति ज्ञापनायाथेति ।
अथाग्निकार्यार्थं तत्स्थानगमनविधिः ।

अथेति द्वयेन अत्राधिकारिणो वक्ष्यति ।
एवं समयदीक्षायां विशिष्टायां विशेषः -

वह्निहोमागमज्ञानयोग्यस्सञ्जायते शिशुः ।

प्।
६५)

अग्निकेतनं कुण्डं आग्नेय्यां दिश्यवस्थितं ॥

इति ।

तदा लयमिति केचित् ।
तदुक्तं ब्रह्मशम्भुपादैः - प्रार्थयेदनलाश्रयं प्रासादमानमाग्नेय्या॥




टि दूरे -

मण्टपान्तरे वासरन्ध्रकैश्चिदिष्यते ?

इति ।
सं सम्भारं सोपकरणं क्रिया विशेषणमेतत् ।
योगोपकरणं वामसव्यभागयो स्थितं ।
यद्वक्ष्यति -

निविष्टो विधिना तस्मिन् नव्यगन्धघृतादिकं ।
वामे सव्ये तु विन्यस्य समदर्भतिलादिकं ॥

इति ।

अथ कुण्डसंस्कारविधिः ॥

निरीक्षणमिति सार्द्धैश्चतुर्भिः ।
निरीक्षणन्तु दिव्यदृष्टि निपातेनेत्युक्तं ।
पते च चक्षुषा स प्रसादेनेति प्रोक्षणं ।
सार्घ्यजलेनोत्तानपादेन पताकाकारेण हस्ततलेन

प्।
६६)

अभ्युक्षणं अधोमुखेन तेन कुशैरपि प्रोक्षणाभ्युक्षणयोरपि सम्बन्धनीयं ।
पूरणं समतामपीत्यपि शब्देन खड्गेन केचित्तु सर्वात्मना समादाय पुनस्तेनैव पूरयेदिति स्नानप्रकरणबद्धृदयेनेति ।
तदुक्तं ज्ञानरत्नावल्यां -

हुम्फडन्तास्त्रेण खननोद्धारणे हृदयेन पूरणे समीकरणे ।
इति त्रिसूत्रीपरिधानञ्च परिधानञ्च वर्मणेत्यत्र चकारस्सम्मार्जनसमालेपने समुच्चिनोति ।
तथोक्तमत्र कवचेन सम्मार्जनोपलेपनेति ।
कलारूपप्रकल्पनन्तु समाख्याबलं निवृत्यादिभिरिति सिद्धं ।
तासां विपर्ययः तासां रेखाणां विपर्यासः प्राङ्मुखाः तिस्रो रेखाः उत्तरानन चैकेति यावत् ।
एतत्पूर्वानन - कुण्डविषय इति केचित् ।
वज्रीकरणमस्त्रेण हृदा दर्भैश्चतुष्पथमिति ।
अत्र वज्रीकरणमुभयत्र त्रिशूला - कृतिना दर्भत्रयेण ।
चतुष्पथन्तु पूर्वोत्तराग्रावस्थित दर्भद्वयेन विदद्ध्यात् इति गुरवः ।
एवं संस्कृते कुण्डे अक्षपाटनविन्यासपूर्वं वागीश्वरीत्यावाहनं विदधाति ।

प्।
६७)

अक्षपाटनमिति सार्द्धेन अक्षपाटस्तिरस्करणी ।
सा तत्रापि दर्भैरित्यनुवर्तते ।
अक्षपाटं कुशैः कण्ठ इति ।
विष्टरं आसं दर्भकॢप्तं ।
अथ वह्निविन्यासः वह्निमित्यादि क्षित्यादित्यन्तेन ।
समाश्रयानीतं समश्चासावाश्रयश्चेति समानाश्रयश्चैतच्च विवक्षाद्वयेनारणीसूर्यकान्ताद्विजगृहादीनां स्वीकारः ।
तथोक्तं -

अरणे सूर्यकान्ता द्वा द्विजातेर्वा गृहादथ ।

इत्यादि ।

क्रव्यादांशत्यागो नै-ऋत दिशि हुम्फडन्तास्त्रेण कार्यः इति ज्ञानरात्नावल्याम् ।
वह्नित्रयैकीकरणे तु औदर्यं वैन्दवं भौतमिति उक्त एव ।
क्रम इति केचित् ।
वक्ष्यमाणक्रम इति अन्ये ।
द्वयोरपि सृष्टिसंहाररूपप्रकरभेदत्वादन्यतरेण कार्यमिति गुरवः ।
धेनुमुद्राकृतमित्येतत् कवचेनावकुण्ठितमित्थस्मादनन्तरं सम्बन्धनीयम् ।
वह्निविन्यासादान्तरकरणीयान्वा तत इति द्वाभ्यां सम्प्रति समाच्छादनं परिधानस्य वस्त्रस्य

प्।
६८)

तदानुषङ्गिकगर्भाधानादिसंस्कारविधिः ।
गर्भाधानायेत्यादि शिवाग्निस्त्वं हुताशनेत्यन्तेन ।
सद्योजातेनेत्यत्र तद्रूपशिवस्मरणपूर्वकं पूजनं कार्यमित्युक्तं षट्सहस्रिकायां -

योनौ तु बीजान्निक्षिप्य सद्योमन्त्रं शिवस्मरन् ।
सद्योजातेन तु हृदा दद्यादाहुति पञ्चकं ॥

गर्भादानं भवेदेवं इति ।

एवं पुंसवनादिष्वपि ।
वामदेवादिरूपशिवस्मरणपूर्वकं पूजनं कार्यमिति तत्रैवोक्तमनुसन्धेयं ।
अम्बुकणदाने तु जीवाभिसन्धानं कार्यमित्युक्तं ।
श्रीमन् मृगेन्द्रे -

किन्तु पुंसवने बिन्दुमपादर्भेण निक्षिपेत् ।
जीवमित्यनुसन्धाय जुहुयाद्भावयेत्पुमान् ॥

इति ।

वक्तोद्घाटनमास्यरन्ध्रात् भेद निष्कृतिः ।

निश्शेषकरणं शोधनमिति केचित् ।
तदुक्तं श्रीमन्मृगेन्द्रे -

प्।
६९)

जातकर्मणि निष्पन्ने वक्त्रोद्घाटनशोधने ।

विधायेति ।
स्वर्णकङ्कणमित्यत्र दर्भकङ्कणमोचकपूर्वं कार्यमित्युक्तं तत्रैव ।
मुक्त्वा कङ्कणं कङ्कारादित्यत्र पूर्वादिकसम्बन्धमात्रविषया ब्रह्मशङ्करादिक्रमो दर्शितः ।
अर्चायाञ्चार्धेन क्रमेण पूर्वपश्चिमदक्षिणोत्तरदिक्षु ब्रह्मविष्ण्वादीन् पूजयेत् ।
तथोक्तं श्रीमन्मृगेन्द्रे -

ततश्शुरेशवरुणप्रेतनक्षत्रभर्तृषु ।

मेखलांशेषु रक्षायै ब्रह्मादीन् क्रमशो यजेत् ॥

इति ।
सृक्स्रुवाविति ।
एतल्लक्षणं प्रतिष्ठायां वक्ष्यति ।
दर्भमूलमध्याग्रकै स्पृशेदित्यत्र मूलमध्याग्रकादित्येव गम्यते ।
तापयित्वा तापनाख्यसंस्कारं कृत्वा अधिश्रवणाख्यसंस्कारबद्धृदयाणुना आज्यबिन्दुं ब्रह्मणे जुहुयात् ।
नादौ धृत्वेत्युद्वासनं संस्कारे विशिखायाः रुद्रायाज्यबिन्दुं दद्यादिति गुरवः ।
तथोक्तं -

स्वकां ब्रह्ममयीं मूर्तिं ध्यात्वादाय कुशाग्रतः ।
ब्रह्मणे जुहुयाद्बिन्दुं स्वाहान्ते हृदयाणुना ॥

प्।
७०)

तापनन्तु समाख्यातं पुनर्विष्णुमयं स्वयं ।
ईशकोणे घृतं ध्यात्वा विष्णवे जुहुयात्तथा ॥

इत्यधिश्रयणं ख्यातं नाभौ घृत्वा तथा घृतम् ।
रुद्रौ रुद्राय तद्दद्यादुद्वासनमितीरितं ॥

क्वचिदेतत्रयं प्रोक्तं हृच्चिरश्चुलुकाणुभिः ।

इति ।

पवित्रीकरणादिसाधनभूतां दर्भां तत्तत्क्रियातः पश्चात् वह्नौ क्षिपेत् ।
एतद्दर्भद्वयं ग्रन्थिमुच्य वह्नौ क्षिपेदिति गुरवः ।
प्रादेशमात्रं दर्भाभ्यामित्यत्र मध्यग्रन्थियुताभ्यामिति शेषः ।
उपप्लवनमाचरेदित्यत्र त्रिधेति गुरवः ।
तदुक्तमग्निमग्निज्वालेन मुखं त्रेधोदीरणं हृदा लब्धदग्धदर्भशास्त्रक्षेपात् ।
हृन्मन्त्रस्य दग्धस्य शास्त्रमन्त्रेण यः प्रक्षेपः ।
तेन तदाज्यं पवित्रीकुर्यात् ।
पक्षद्वयमित्येत स्वदक्षिणवामक्रमेण भाव्यं ।
ऐहितद्भाग इत्याज्य तद्भागः ।
कृष्णपक्षे तु विमलो मतो जुहुयादिति गुरवः ।

प्।
७१)

शुक्लपक्षे विधिह्येवं कृष्णपक्षे विलोमतः ।
सोमाय वह्नये ताभ्यां वह्निवामेतरोध्यतः ॥

इत्यभिमन्त्र्येत्यादायार्थ एव क्रमः केचित् ।

वक्त्राभिधारो वक्त्रदीपनं ।
तथोक्तं षट्सहस्रिकायां -

इत्यमीशानवक्त्रैकीकरणवत् अन्येषु वदनेष्वपि पश्चिमे शिष्यसंस्कार नैमित्यौ होमौ समाचरेदित्यादौ वक्ष्यमाणकृत्यानुगुणे वदने अन्यवक्त्राणामेकत्वकार्यं ।
तथोक्तं ध्यात्वा वक्त्राणि पञ्चाग्नेयेन यत्कर्म वाञ्च्छितं तन्मुखमूर्ध्वे कुर्वीत ।
तत्स्थाने चोर्ध्वगं मुखं ।
अन्तर्भाव्यानि वक्त्राणि ।
तच्च कुण्डप्रमाणकमिति ।
अथ तत्र प्रयोगः ।
ईशानादिबीजान्युच्चर्यं ।
ईश तत्पुरुषाघोरवामसद्योजाते स्वाहा ।
अत्रान्तरे प्रसङ्गात् एकैका हुतिदानेन दीपनमाचरेदिति केचिद्विस्तररुचयः ।

द्विरेफावन्तिमौ ॥

वौ रेफषष्ठस्वरान्वितौ ।
इन्दुबिन्दुशिखायुक्तौ जिह्वाबीजान्यनुक्रमात् ॥

प्।
७२)

अथाग्निसंस्कारकरणीयानि हृदेकेनात्र देवीं सन्तर्प्य संहृत्येति श्रुतेराहुतिदानमिति कर्तव्यमिति केचित् ।
विधिपूरणीमिति केचित् ।
तथोक्तं ज्ञानरत्नावल्यां -

शेषसंस्कारसिद्ध्यै च पश्चात्पूर्णां प्रदापयेत् ।
निष्क्रामणान्नप्रदेशञ्च ॥

व्रतं धनमेवे च ॥

चूडा गोदानपर्यन्त व्रतान्तं पूर्णया कृतं ।

इति ।

अथाग्नौ शिवयजनपूर्वं होमविधिः ।
तत इत्यादिना धारयेत्यन्तेन ।
अत्राग्नि हृदि प्रवेशनं पूर्वमेतत्कार्यमित्युक्तं ।
श्रीमन्मृगेन्द्रे -

ततस्तद्विग्रहं नाड्या प्रविश्य हृदि शङ्करम् ।
इष्ट्वा सन्धायेति ।
कर्षक इति कर्षः फलस्य तुर्यांशः ।
समाषैः व्रीहयः ते ।
तथोक्तं -

माषो दशार्द्धकं ज षोडशमाषो निगद्यते ।

कर्ष इति शक्तिः ।

प्रसृत्यर्द्धा भवेच्छक्तिः अङ्गुलीभिः सुमुद्धृता ।

इति ।

प्।
७३)

तद्विदः ।
प्रसृतिश्च विधृताङ्गुलिः पाणिः वक्ष्या ।
हरीतकी सूक्ष्माणि तिलादीनि कला यः ।
हाटकी * * * *? बदास्थिबदरीबीजं ब्रह्मबीजपदैः ब्रह्मणामीशानादीनां वाचकत्वेनोद्धृतबीजैः सान्तारूढैः ह्रस्वैः ।
तदुक्तं - ह्रस्वा ब्रह्माणि विज्ञेयानिति पादैः ईशानमूर्धादित्यादि - व्योमव्यापि मध्यपठितैः ।
अत एव ब्रह्मणां योगे बीजपदमन्त्रसमुच्चयः कार्य इति गुरवः ।
पूर्णानन्तरं करणीयानाह - आचाममित्येकेन प्रभृति गृहाणां मुखवासादि ।
अथवास्य शिवविसर्जनं ।
तत इति द्वयेन वह्निं वह्निस्थं शिवमभ्यर्च्याष्टपुष्पं दत्वा शम्बरान् वक्ष्यमाणवन्मूर्तिमन्त्रेणाहृत्य मूर्तौ संयोज्य क्षमस्वेत्यभिधायातीये हृदयाम्बुजे स्थापयेदिति व्यवहितेन सम्बन्धः ।
अत्र हि मन्त्राणां वक्त्रलयौ ज्ञानशक्तिः परे लीनाया हृद्येग्नौ व्यवस्थिता तस्मात्प्रजायते ।
मन्त्रस्तत्रैव प्रविलीयते इति श्रुतेः ।
अभिधानाय चेत्यत्र चकाराद्वक्ष्यमाणसङ्क्षिप्ताग्निकार्यावसानरूपव्याहृति व्याहृति होमानन्तरं वह्निमपि विसृजेत् ।

प्।
७४)

परिधिस्थांश्चेति चकारात् विष्टरस्थांश्चोक्त्वा(व)दुत्थाप्य स्व हृदि स्थापयेत् ।

अथ बलिविधानं ॥

सर्वेत्यादि निवेशयेदित्यन्तेन ।
अथ सङ्क्षिप्ताग्निकार्यविधिः ।
अथ इत्यादि मतमित्यन्तेन ।
स्थण्डिलेवेत्यद्विस्तारपक्षेऽपि तुल्यं ।
तदुक्तं विश्वसारोत्तरे -

स्थण्डिलं तदभावे तु द्विधा गोमयमण्डलं ।

सम्पाद्यालोक्येति वीक्ष्येत्यत्र कुण्डस्थमिति शेषः ।
कुण्डस्थापके न्यस्येति वक्ष्यमाणत्वात् ।
उत्तानशिथिल शिथिलमुष्टिः ।
वह्न्यादि प्रक्षेप उद्भवमुद्रेति भोजदेवः - धृवाद्येन प्रणवाद्येनात्र ब्रह्मादीनां पूजाक्रमः ।
पूर्वपीठे द्रष्टव्यार्घ्यस्येतत्सञ्ज्ञया अथाग्निकार्यानन्तरकरणीया - न्याह तत इत्यादि उक्तेनेत्यन्तेन ।
अर्घ्यं पराङ्मुखं विसर्जनसमये सद्योजातादिक्रमेण देयं स्यात् ।
तथोक्तं -

विसर्जने तु दातव्यं सद्योजातसिवावधि ।

प्।
७५)

अस्त्राद्धृदयपर्यन्तं गन्धपुष्पसृगादिभिः ॥

इति ।

उभयतर्जन्यङ्गुष्ठाग्रतः पुष्पक्षेपणं नारा च मुद्रया ।
संसक्तानामिकाङ्गुष्ठाग्रयोरात् परिताभिमुखभ्रामणेन संयोजनं मूर्तिमन्त्रेण संयोजयेदिति सापेक्षविसर्जनं ।
सापेक्षविसर्जने तु स्थण्डिल एवेति स्थण्डिलेत्वेति ।

अथ चण्डपूजनमाह -

विदद्ध्यादित्यादि ।
विधिरन्तेन गर्भस्य ईशानरुद्राग्निरिति ।
रुद्रवायुः रद्राग्निः ।
यद्वा रुद्रस्थाग्निः ।
क्रोधनञ्च सङ्क्रोधाद्विनिर्गतमिति श्रुतितः ।
तस्मात्प्रभवं प्रकृष्टो भवो जन्म यस्येति ।
सर्वमेतदिति विज्ञापनेन शिवाराधकानां सर्वेषां चण्डपूजा कार्या ।
अन्यथा पूजापरिपूर्तिः न युज्यत इति गुरवः ।
अत्र केचित् ।
बाणलिङ्गे चले रोहा इतीत्यादि प्रतिष्ठाप्रकरणे ।
अनन्तरं कपिलार्चनमाह - अथेत्यादि इति कपिलार्चनमित्यन्तेन ।

गावः शिवपुरात्पञ्च क्षितिं प्राप्ताः शिवेच्छया ।

प्।
७६)

पञ्चगावः समुत्पन्नास्सर्वलोकस्य मातरः ।
नन्दा सुदुद्रा सुरभिः सुशीला सुमना यतः ॥

कपिलं कृष्ण श्वेतञ्च धूर्मं रक्तं तथैव च ।

इति ।

नन्दादीनामवतारो लोकहिताय ।
उक्तञ्च तथा -

सर्वलोकोपकारार्थं देवानां तर्पणाय च ।
गोमातरः स्थिता भूमौ स्नानार्थन्तु शिवस्य तु ॥

इति ।

सौरभाय सुरभेरपत्याय ।
अथ विद्या गुरुपूजा ।
अथेत्येकेन विद्यां विद्याभियुतं ।
तदुक्तं श्रीमन् मृगेन्द्रे -

विद्यापीठेऽपि मात्रेवमेकोच्चारेण पूजयेत् ।
सृग्गन्धधूपनैवेद्यैः समासरुचिरीश्वरं ॥

इति ।

गुरुपूजाप्रकारश्च किरणे प्रोक्तं -

प्रागुक्तं योगपीठन्तु कृत्वा प्रागर्थितं गुरुं ।

प्।
७७)

चतुर्थ्यन्तं न्यसेन्मूर्तिं सकलीकृत्य पूर्ववत् ।
शिवमावाह्य तत्स्थाने न्यसेदङ्गानि नोक्तवत् ॥

गन्धपुष्पादिभिः पूज्य हृदा गुरुपरं खग ।

इति ।

अथ शास्त्राध्ययनविधिः ।
मध्याह्नेत्यर्थेन ईप्सित - गुरोरभिमतेन तु स्वस्य गुरुपादसेवनात् प्रभृति सर्वत्र गुरुवाक्यादेव प्रवर्तितव्यं नान्यत इति गणनात् ।
श्रुता - ध्ययनयोः पूर्वमधि विज्ञापयेत् ।

गुरुमाख्यात् यत्तच्छृणुयादधीतश्च पण्डितः

इति श्रुतेश्च ।

अथ माध्याह्निकविधिः ।

अर्चयेदिति सार्द्धेन ।
अथाऽनन्तरकरणीयान्याह - विधिमिति त्रिभिः ।
ततश्च्छुल्लिकाहोमं बलिञ्चाह - विशोध्येत्यादि दत्त्वेत्यन्तेन विधिना चतुस्संस्कारेण चुल्लि सा वह्निं ॥


कारिस्थानविधिक्रमात् ।
तदधिष्ठातृवाचकसद्योजाताद्युद्भवाकारादिस्थानत्यागक्रमादित्यर्थः ।
तथोक्तं ब्रह्मशम्भुपादैः -

प्।
७८)

तद्बीजेन क्रमात्सद्य वामाघोरनिरीश्वरात् ।
नीत्वा निवेशयेद्भूयाश्शिवाग्निरधिच्छुल्लिकः ॥

इति ।

अथ शरीरस्थित्यर्थं भोजनोपक्रमः ।
धौतेत्यादि भोजनविधिरित्यन्तेन ।
पूर्वकं रम्यो भोजनमन्दिर इति प्रागुक्तं शुद्धशैवः स्रोतोऽन्तमेलनारहितैः असङ्कीर्णैः तृणादिव्यवधानस्पृशरहितैः ।
अनाकुलः कार्यान्तराकारवश्यरहितैः अन्तर्मनाः तदेकचित्तं यथाक्रममग्रे परिहृतमिति ।
आचार्याधिक्रमेण चतुस्त्रिद्विरेकरूपया भस्मरेखया कृत्वा ।
तदुक्तं श्रीमत्किरणे -

चतुर्भिस्त्रिभिर्द्वाभ्यां एकरेखाख्यया क्रमात् ।
बाह्ये च क्रमनत्कुर्यात्तं मुखं योगपीठवत् ॥

इति ।

चतुर्दिगानन इति ।
अत्राप्याचार्यस्साधकः पुत्रस्समयी च यथाक्रममित्यनुवर्तते ।
तदुक्तं -

पूर्वाभिमुखो गुरुस्थित्वा पुत्रकः पश्चिमाननः ।

प्।
७९)

साधको दक्षिणास्यश्च समयीचोत्तरामुखी ॥

पात्राभावे आचार्यादिक्रमोक्तसौवर्णादिपात्राणामभावे च चतुर्णामपि भोक्तव्यत्त्वेन विहितत्वात् साधारणे ।
ताम्रजे पात्रे मुञ्जीत ।
अथवा तस्याप्यभावे सप्तधा भस्मशोधिते ।
सप्तधारेण मन्त्रिते कांस्ये वा भुञ्जीत ।
नन्वत्र पलाशपत्रादिषु भोजनविधिरयुक्तं ।
स्मृतिषु निषेधात् ।
तन्न ।
तस्यापि गृहस्थविषयत्वात्तस्य ।
तथा च स्मृतिः - गृही भुक्तेवं चरेत् इति ।
अत्राऽपि मुनिरिति निर्देशात्तपस्विनः तद्भुक्तौ न च गृहस्थस्यापि संस्कारशेषादत्र निषेध इति केचित् ।
अन्यैश्चानन्दितैरिति अनिषिद्धैश्शास्त्रान्तरोक्तैः ।
तथा चोक्तं श्रीमत्किरणे -

शरावं पद्मिनीपत्रं शाकजं ब्रह्मवृक्षकम् ।
राजानोत्पलरम्भोर्थमाम्रकं भीतरुद्भवं ॥

पात्रं सङ्गृह्य भोक्तव्यमेकमेव यथो * येत् ।

इति ।

प्।
८०)

अनिन्दितैरित्यविहिताप्रतिषिद्धैरिति केचित् ।
तुल्यजातिभिरित्यनेन विजातीयपत्रसहस्रतिथैर्न भोक्तव्यमिति दर्शयति ।
वातारि एरण्डः सज्जः सालं भल्लातकं चम्पकं ।
बद्धवीरासन इति लक्षणमुक्तं ।
श्रीमत्किरणे -

दक्षिणञ्चोर्ध्वतस्थित्वा वामपादतलस्थितं ॥

द्विगुणं वर्णितञ्चात्र वीरमिति ।
मौनीत्येतत् आचार्यव्यतिरिक्तविषयः ।
तथोक्तं तत्रैव -

मौनमास्थाय भोक्तव्यं साधकादित्रयेण तु ।
भोक्तव्यं प्रगुणा यद्वदाचार्योयं यथेच्छया ॥

इति ।

पूर्ववदिति मृत्युञ्जयेन ।

कवकं छत्राकं मधुक्षौद्रं शिशुश्वेतनालं पलण्डु लशुनं क्रञ्जनं रक्तनालं स्यात् ।
इति निघण्डुः ।
हस्तदत्तञ्चेति चकाराद्व्यञ्जनान्यपि ।
प्रभुञ्जान इति

प्।
८१)

निर्देशाद्भुक्तेः पूर्वमेव लक्षणादि ग्राह्यमिति दर्शयति ।
मूर्धा पिधानं मस्तकस्य पिधानं आच्छादनमौत्कुट्यं उत्कुटीभावं उत्कुटिस्नानं कर्तव्यमिति ।
जृम्भणं गात्रमोटनं ।
क्षालि हस्तेन स्पृष्टभस्मना सहाद्भिः प्रोक्षेत्यन्वयः ।
पादस्य दक्षिणमङ्गुष्ठं दक्षिणपादस्याङ्गुष्ठमिति यावत् ।
आत्मेत्यादि पठित्वा सिञ्चेत् ।
परिघाह्वयामीति ।
एतल्लक्षणमुक्तं -

आरोप्य वामहस्तस्य कनिष्ठान्नाभिमण्डले ।
तामेव दक्षहस्तस्य वामाङ्गुष्ठे नियोजयेत् ॥

विततौ च करौ कृत्वा दक्षाङ्गुष्ठे न्यसेन्मुखे ।
परिघेयं समाख्याता दुष्टाहारविनाशिनी ॥

इति ।

परिघामिति भोजनस्योक्तत्वात् ।
श्रीमत्किरणे -

पत्रपा वाम इत्येकेन हस्तेन मुद्राबन्धविधानाच्च ।
दक्षिणेनैकेन हस्तेन परिघां बध्नीयादिति केचित् ।
सान्तानिकभिक्षालक्षणमुक्तं ब्रह्मशम्भुपद्धतौ -

प्।
८२)

शिष्यादिसन्ततिर्मेव विसन्ता तन्निवेदितात् ।
?

द्रव्यं यत्सुरसेवादिभिक्षा सान्तानिकी स्मृता ॥

इति ।

अथ याचितभिक्षालक्षणमुक्तं आनीयेत्यादि परिवर्जयेदित्यन्तं ।
धर्मो निनीषया धर्मो नयनेच्छया ।
यमाशयः -

इत्येतामाहृतां भिक्षां पुरस्तादप्रचोदितां ।
भोज्यान्मेने प्रजापतिरपि दुष्कृतकारिणः ॥

न तस्य पितरोऽश्नन्ति दशवर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निः यस्तामभ्यधिमन्यतः ॥

इति ।

अयाचितपरित्यागे पितृदेवोद्देशेन तु तस्य धर्मस्य हानेरुक्तत्वात् तद्धर्मोन्नयनेच्छया विपतितादिभ्य याचितां इति सोमवदादेया सोमलतावदेयाः ।
अयमाशयः अथ सा याज्ञिकैर्विहितकालक्रमेणदीयमाना पावना भवति ।
नत्त्वन्यथा ।
एवमेता अपि भिक्षा विहितेन

प्।
८३)

क्रमेण विहितमात्रया देवाः ।
अन्यथा अपावना इति ।
अत्र एता इति आसामिति च बहुवचनसामर्थ्यादयाचितपदेन श्रीमत्पौष्कराद्युक्तौ स्वयं दत्ताख्याभिक्षोपलक्षिता माधूकरीपदेन निष्परिग्रहा चेति प्रतीय इति गुरवः ।
तथोक्तं श्रीमत्पौष्करे -

भैक्षं चतुर्विधं प्रोक्तं साधकानां महात्मनां ।
माधूकरं स्वयं दत्तं सान्तानिकमयाचितम् ॥

गृहाद्गृहं पर्यटतो भैक्षं माधूकरं स्मृतं ।
स्वयं दत्तं साधकस्य भैक्षं पात्रस्य पूरणम् ॥

इति ।

स्वयं दत्ता या निष्परिग्रहा ।
तस्याश्च लक्षणं ।
ब्रह्मशम्भुपद्धतावप्युक्तं -

भिक्षायै सम्प्रविष्टाया भ्रमते स्वयमेव वा ।
उपनीता स्वदत्ता सा भिक्षात निष्परिग्रहा ॥

इति ।

एतदर्थनिरुपणमस्माभिः विस्तरेण तट्टीकायामुक्तत्वात् ।
नेह प्रपञ्च्यते ।

प्।
८४)

सदैकान्नन्तु वर्जयेदित्यत्र सदा ग्रहणात् ।
कादाचित्कं तद्भोजनमनुमतम् ।
प्रार्थनाद्युपरोधत इति ।
आदिशब्दवत् ।
बालकस्वात्मनापरेण च प्रवृत्तत्वात्तथोक्तं ।
तत्र स्वात्मना वा परेण वेति ।
अथ भिक्षाचरणप्रकारः ।
भिक्षार्थमित्यादि आत्मन इत्यन्तेन ।
पात्रलक्षणमुक्तं -

द्वादशाङ्गुलविस्तीर्णामुच्छ्रायादङ्गुलाष्टकं ।
भिक्षापात्रं प्रकर्तव्यं ताम्रं वा पात्रकल्पितम् ॥

इति ।

तुंवकादिजं कलब्दादिजं शुद्धवेश्मसु सदाचारवतां गृहेषु निष्ठीवं आस्यमलोद्गिरणं स्पर्शं यस्य कस्यापि स्पर्शं उन्मार्गसर्पणं अवगमनं चतुर्णां शुद्धवर्णानामिति ।
तदुक्तं ब्रह्मशम्भुपद्धतौ -

ब्रह्मक्षत्रियविशां भिक्षां अभिशब्दाभिवर्जिताम् ।
अमद्यपास्तु ये शूद्राः शौचाचारसमन्विताः ॥

तेषामेव चरेद्भिक्षा नान्येषान्तु कदाचन ।

इति ।

प्।
८५)

वृषाणि मासि गुर्वीणि भिक्षाटनानन्तरं करणीयं भिक्षामात्रामिति त्रिभिः त्र्यक्षरेण मृत्युञ्जयेन ।
अथ भुक्तेरनन्तरं करणीयं ।
अथेत्यर्थेन यावदस्तमयं स्वाध्यायाध्यायं कार्यमित्यर्थः ।
अथ सायन्तनविधिः ।
स्नानमित्यर्थेन ततश्शयनविद्ध इति द्वयेन ।
अक्षरात्मानं प्रातरित्यादावृत्तरूपं ।
अथार्धरात्रविधिः ।
तत इत्येकेन निशीथे अर्धरात्रे यथा पुरेति ।
ब्रह्मशम्भुपादैः -

अर्धरात्रे तु सम्प्राप्ते कुर्यात्सायन्तनं विधिः ।
आचम्योद्धूलयन् * * श्वपेत्पूर्ववदीश्वरम् ॥

इति ।

अत एव निशीथपूजायामशक्तस्य ध्यानं कुर्यादिति गुरवः ।
तदनन्तरकरणीपुनरिति पादेन यथोद्दिष्टं क्रियाकाण्डं प्रत्यहं करणीयमित्यादिशति प्रातरिति आचरेदित्यन्तेन ।
उपसंहारः परेत्येकेनेति ।
शुभं ।

इति त्रिलोचनशिवाचार्यविरचितायां क्रियाकाण्डक्रमावलीटीकायां नित्यकर्मविधिः समाप्तः ॥

पवित्रारोहणम्

एवमनुदिनमनुष्ठेयं नित्यकर्मविधिक्रममभिधायाधुना प्रत्यब्दमनु नित्यं भगवत [आ: भगवतस्य प] पवित्रारोहणाख्यस्य कर्मणोऽपि क्रममभिधातुं तस्यावश्यकर्तव्यतामुपपादयति ।
सर्वेत्येकेन ।
सर्वेषां निजमूर्त्त्यधिकारभेदेन [आ: मूर्ताद्यधिकारभेदेन] बहुविधत्वेन प्राक्प्रतिपादितानां नैमित्तिककाम्यभेदभिन्नानां [आ: निमित्तक्काम्य] पवित्रारोहणकालात् पूर्वमनुष्ठितानां साङ्गोपाङ्गानां पूजाविधिना [आ: पूजाविधिना च्छि] छिद्राण्यन्तरायद्वाराणि असम्पूर्णकरणादिलक्षण॥



ष्टादिसञ्ज्ञात्वेन वक्ष्यमाणापूरणाय कर्तव्यकत्वेन [आ: कर्तव्यकेन] समर्यादि [आ: समार्यादि] देशिकान्तेन मन्त्रिणा ।
तथा च श्रुतिः -

सर्वच्छिद्रहरश्चान्यो विधिरेषा [आ: विधिरेषां] निगद्यते ।
यः प्राप्तस्तपसा दैवे॥


रा [आ: देवै॥



ॠआ] स्व विधिपुष्टयः ॥

इति ।

वार्षिकमुच्यते कृत्य इति ।
विप्लवरणविधेरिति ।

प्।
८७)

उक्तवैकल्यतो घोरात् [आ: घोरात् पुनातीत् पवित्रकमिति ।
] पवित्रकमिति ।

काननस्थै गुहायां वा रुद्राराधनतत्परैः ।
गृहस्थैर्देशिकाद्यैश्च भुक्तिमुक्तिफलार्थिभिः ॥

इति ।

नैतत्कार्यं [आ: नैतत्कार्या न] न केति च ।
अन्यथेति तदकरणे मन्त्रीति पदं यदा यदा समाचामेदित्यत्र देशिकान्तवाचकमिति प्रागेव निरूपितं ।
सिद्धिर्भृशं ।
भोगमोक्षलक्षणायाः सिद्धेर्भृशं तदुक्तं श्रीमन्मतङ्गे [आ: श्रीमन्मये ॥

ट्र]॥




ट्र विषये -

प्रायश्चित्तमकुर्वाणो मन्त्री विधिविलङ्घने [आ: वलङ्घने] ।
सिद्धिर्भृशमवाप्नोति [आ: सिद्धिभ्रंश] देशिको रोगभाक् [आ: रोधभाक्] भवेत् ॥

इति अथैतत्कालविधिः ।
आषाढेति त्रिभिः ।
आषाढस्सोरदृशो [आ: आषाढर्स्सोर] उत्तरायणान्तिममासो मिथुनराशिः ।
तदुक्तं निश्वासकारिकायां -

माद्यमासादितः कृत्वा आषाढान्तेन शोभने ।
विज्ञेयं लौकिकं आ: लौकिकं कालदक्षिणायनमुत्तमम् कालं दक्षिणानयनमुत्तमम् ॥

इति ।

प्।
८८)

माघादिमासानां [आ: मधादिमासानां] मकारादि [आ: मकरादि] सञ्ज्ञा च तत्रैवोक्ता ।
यस्मिन् [यास्मिन्नृशो स्थितो भानुर्मधमादि करोति सः ।
मकरः कुम्भमीनौ च मेषऌषभस्तथा ॥
] राश्ये षण्मासादि कीर्तिता ।

कर्कटस्सिंहकन्ये च कलावृश्चिक एव [आ: मिथताः कथितष्ष्श्चो राउथ ष्ण्मासि कीर्तिदा ।
] च ।
धनुश्चैव समाख्यातो दक्षिणे भास्कराश्रयः ॥

इति ।

तथाऽयुर्वेदविद्भिरपि -

मासैर्द्वे [आ: मासै॥



खैर्मधाद्यै] सङ्ख्यैर्माघाद्यैः क्रमात् ।

षडृततिनैपण्डुकैरपि [आ: षड्रतति] -

द्वौ द्वौ माघादिमासौ स्याद्दृतुतैरयनन्त्रिभिः [आ: दृतुस्तैश्यनं त्रिभिः] ।
अयने द्वे गतिरुदक् दक्षिणास्य [आ: दक्षिणार्कस्य] वत्सर ॥

इति ।

चान्द्रदृशा तु शुक्लप्रतिपदादिक आषाढनक्षत्रयुगप्रतिपौर्णमासि [आ: नक्ष॥




यु॥



यौर्णमासि] मध्ये अमावास्यां ।
तदुक्तं -

पुष्ययुक्ता पौर्णमासी पौषी मासेव यत्र सा ।
नाम्ना स पौषो माघद्याश्चैवमेकादशाः परे ॥

इति ।

प्।
८९)

अमरं -

दत्तदर्शावधि मासमशान्तिचान्द्रं सौरं तथा भास्करराशी च मरादिधीतः [आ: दीधीतः] ।
स शेखरे -

मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते ।
चान्द्रो मासस्तदन्तः स चैत्रादिक इति स्मृतः ॥

इति ।

ज्योतिषसङ्ग्रहे -

अतश्चान्द्राषाढः कर्कटसौराषाढस्तु मिथुनराशिः ।
इति ।
पर्वमेवोपपादितं ।

राशिमासञ्च [आ: मासं च सौरं च] सौरञ्च द्वौ विज्ञेयौ विशेषतः ।
चान्द्रेण व्यवहारार्थं सौरेण शुभकर्मसु ॥

इति ज्योतिर्विदाननियमात् ।

रोगादिवृद्धिसंयुक्तः प्रवासी राजपीडिता [आ: राजपीडा ता] ।
उक्तमासे त्रये कुर्यात् सूत्रारोहणं॥





? ॥

असौ कन्यागते भानौ ज एवा दक्षाणुना युतं ।
कुर्यात्पवित्रकं शम्भोः तुलायां न कथञ्चन ॥

इति ।

प्।
९०)

श्रीकालोत्तरे -

उत्तममध्यमत्त्वेनोक्तस्याषाढादि मासत्रयस्य [आ: मासत्रथस्य ॥





पूर्वत्व] काले पूर्वत्त्वकथनात्तस्मात् प्रायश्चित्तकरणविधानाच्च सौराषाढयोः पवित्रारम्भं गुरवः ।
तत आषाढसम्बन्धिनी आषाढी सैवादि चतुर्दशीत्याषाढचतुर्दश्यां [आ: चतुर्दशी ऽसुक्लचतुर्दशीत्याषाढ] ।
अत्राथेति शब्दारम्भार्थे विकल्पारम्भमङ्गलमिति केचित् ।

अथ शब्दस्यानन्तर्यमभिप्रेत्यकाषाढमासे शुक्लचतुर्दश्यनन्तरं [आ: चतुर्दश्यानन्तरं] कृत्वा अष्टमी सम्भवेत्तस्याः पवित्रान्नारम्भणीयमित्याहुः ।
तदयुक्तं ।
आषाढादित्रयेष्वेवेति नियमत्रयस्य वक्ष्यमाणत्वात् ।
अन्यथा तच्चतुष्टयं स्यात् ।
कृष्णाष्टम्यामपि पवित्रं न(न)करणीयं ।
तथोक्तं विमलावत्यां -

आषाढाद्यं ज्येष्ठं मध्यमाधमं कार्यं द्विपक्षतः

इति ।

भोजराजीयेऽपि -

आषाढश्रवणभाद्रपदान्यतममासि सितासितपक्षयोः एकस्मिन्

इति ।

प्।
९१)

एतेन सौरत्वेन श्रुतिषु मिथुनकर्कटसिह्मराशिषु आशाढादि त्रयेष्वेवेति नियमात् ।
तदर्धमासपवित्रकरणं निषेधविधिः निषेध इति ।

भद्रादूर्ध्वं [आ: त॥





ष्ठित सिधान्ते] तदनुष्ठितसिद्धान्ते दोषभाग्भवेत् -

इति श्रुतेः ।

अत एव कन्याराशौ प्रायश्चित्त पूर्वमेव करणीयं पवित्रं ।
तुलायाञ्च [आ: कलायां] न कथञ्चनेति ।
षट्सहस्रिकायामुक्तं -

सुप्त एव जनार्दन [आ: जनार्दन इति जनार्दनस्वायात्माक्तरकाकरणनिषेधात्] इति प्राक् तत्करणनिषेधात् ।
तथा चोक्तं मोहशूरोत्तरे -

मोहादज्ञानतो वाऽपि अप्रसुप्ते जनार्दने ।
पवित्रं कारयेद्यस्तु स पापी पापमोहितः ॥

(इति)

पाञ्चरात्रं निराहारो जपेत् पञ्चायुतं हर

इति ।

तत्स्वापकास्वधिमासरहिते वत्सरे मिथुनगतराशौ शुक्लद्वादशी तदशक्ते तु कर्कटकस्तैः तदुक्तं स्यात् परं गुरुभिः ।

प्।
९२)

द्वादश्येव स्तारवेण(रवौ) मिथुनगे निद्रां विधत्ते हरेः(रिः) [आ: हरेस्तां सांस्यैव करोति] तां सांस्यै करोति कर्कटकरवौ मेषादि षड्राशिषु ।
एकाऽपि अधिमासता [आ: अधिमासितिअ यदि हरणसुप्ते] यदि हरौ सुप्ते पवित्रक्रिया प्रायश्चित्तमथोन्यथेति विदितं श्रीमन्मोहशूरोत्तरे ॥

इति ।
तथा -

दर्शद्वयं भवेद्यत्र रविसङ्क्रान्तिवर्जितं ।
अधिमासस्स विज्ञेयो विष्णुस्वपति कर्कटे [आ: कर्कटक इति] ॥

इति ।

श्रीमोहशूरोत्तरे तथा -

मिथुनस्थो यदा भानुः अमावास्या द्वयं स्पृशेत् ।
द्विराषाढस्सविज्ञेयो विष्णुस्वपति कर्कटे ॥

इति ।

दर्शद्वयमतीत्येव [आ: मतीद्ध्येव] यदा सङ्क्रमिते रविम् [आ: रविः] ।
मलमासस्स विज्ञेयः सर्वकर्मबहिष्कृतः ॥

माधवादिषु षट्स्वेकमासी दर्शद्वयं यदा ।
द्विराषाढः स विज्ञेयश्शेते च श्रावणेऽच्युतः ॥
इति च

प्।
९३)

ज्योतिश्शास्त्रे [आ: ज्योतिश्शास्त्रे - पवित्रं] च ।
पवित्रं विदधीतैवेति नियमस्तस्याः [आ: नियमस्तस्यावश्यकर्तव्यतां दर्शयति] आवाश्यकर्तव्यता दर्शयति ।
तथोक्तं श्रीमत्किरणे -

नियमोऽपि क्रियाङ्गत्वात् कार्यो दोषोऽन्यथा भवेत् ।

इति ।

श्रीमत्पौष्करे -

आपत्वपि च कर्तव्यं पञ्चरात्रं त्रिरात्रिकं [आ: त्रिरात्रिक इति] ।

इति ।

अत्रापि वक्ष्यति -

आषाढादित्रये दैवादविधाय पवित्रकं ।
लक्षद्वयमरोरस्य [आ: मघोरस्य] जप्त्वा चान्द्रायणञ्चरेत् ॥

इति शास्त्रे शैवागमे ।
नन्वत्र त्रयेति [आ: त्रिधेति] वक्तव्यं नियमान्तरस्यापि सम्भवात् ।
तथोक्तं मोहशूरोत्तरे -

दीक्षादिस्थापनञ्चैव [आ: स्थापनं चैव] पवित्रादि शतक्रतोः ?।
अधिमासे न कुर्वीत यदिच्छेच्छुभमात्मनः ॥

इति ।
तन्न - विधिरूपनियमापेक्षया त्रिधेत्युक्तं न तु निषेधरूपनियमापेक्षया इति विरोधः ।

प्।
९४)

अत एवाषाढादिष्वन्यतमस्मिन्नधिमाससम्भवे आषाढमासाधिमासे [आ: आषाढमास्यधिमासे च पवित्रान्] च पवित्रं नारम्भणीय इति गुरवः ।
एतत्सर्वं पवित्रकनिर्णयेऽस्मद्गुरुभिः [आ: गुरुभिर्विस्तरेण] विस्तरेण साधितं ।
अथ पवित्रस्य नित्यनैमित्तिककाम्यप्रायश्चित्ताख्येषु कर्मसु [आ: कर्मसु क॥

मस्मिन्] कतमस्मिन्नन्तर्भाव इति निरूपयति ।
प्रत्यहमिति - चतुर्भिः विष्णुस्वापादिनियतकालनिमित्तयोगतः कर्तव्यत्वान्नैमित्तिकं [आ: नैमित्तिकन्तु नियत] ननु नियतकालत्वान्नैमित्तिकमनुपपन्नं [आ: नैमित्तिकमित्येतदनुपपन्नम्] ।
अव्याप्तेरतिव्याप्तेश्च [आ: अव्याप्तेरिति व्याप्यैश्च] ।
तथाहि - अनियतकालस्य दीक्षादेरपि नैमित्तिकश्रवणात् लक्षणस्य ।
व्याप्तिश्च -

दीक्षा चैव प्रतिष्ठा च नैमित्तिकमिति द्विधा ।

इति ।

तथा प्रातरादिनियतकालकर्तव्यानां सन्ध्यावन्दनादीनामपि नैमित्तिकत्वप्रसङ्गात् [आ: प्रसङ्गादतिव्याप्ति] ।
अतिव्याप्तिरुद्दिष्टः ।
एत बोद्यमनवधृतां(तामभि) हि प्रायाणां नान्येषां तथाऽपि सूत्रारोपणस्य [आ: सूत्रारोपणस्या प्रत्यब्दमनु] प्रत्यब्दमनुष्ठेयत्वेऽपि प्रत्यहमनुष्ठिताद्दैवसिकाद्वा [आ: प्रत्यहमनुष्ठेयत्वादेवस्यकाद्वा] नित्याद्वैलक्षण्यं ।
सर्वच्छिद्रहरत्त्वेऽपि नियतकालत्वात् ।

प्।
९५)

नियतकालकर्तव्यत्वात् प्रायश्चित्ताद्वैलक्षण्यञ्चास्ति ।
इति ज्ञापयितुं नैमित्तिकमित्युच्यते ।
न तु नैमित्तिकलक्षणयोगात् [आ: नैमित्तिकलक्षणयोगात्] नैमित्तिकमिदं [आ: नैमितिकमिदन्विदधेति दीक्षा] विषयेति दीक्षाप्रतिष्ठयोरेव नैमित्तिकत्त्व - नियमात् ।
तथा [आ: तथा च विघ्ना] विघ्नापहारपूर्त्या इत्यनेनापि प्रायश्चित्तादस्य [आ: प्रायश्चित्तादास्या काल] काल इव फलतोऽपि वैलक्षिण्यं [आ: वलक्षणं] ज्ञाप्यते ।
तद्धि विहितेतरानाचरणरूपस्य [आ: विहितेतरानचरणरुपस्य] कर्मणोऽनङ्कुरप्रसवतामात्रजनकम नत्त्वेतत्पूरकं [आ: नत्त्वतत्त्पूरकं ।
] ।
इदन्तु तदुभयजनकं [आ: तदुभयजनकवार्षिकान्मुच्यते] वार्षिकमुच्यते ।
कृत्यविप्लवात्पूरणविधे रित्यादिश्रवणात्ततः प्रायश्चित्ताद्वैलक्षण्यमेव कामनानधीनत्वात् न काम्यमिति स्पष्टमेवेत्यत्र तद् परामर्शः ।
ततश्च ततो नित्याङ्गमेव तदाहुः -

पवित्रारोपणन्तु [आ: रोहणं तु] यत् इति श्रीकालोत्तरे -

श्रुतेर्वार्षिकनित्याङ्गत्वेऽपि पवित्रस्य नित्यादि सर्वकर्मच्छिद्रहरत्वनिबन्धनप्रधानज्ञापनार्थं नैमित्तिकोक्तिः ।
न तु नैमित्तिकलक्षणयोगात् ।
अत एव नैमित्तिकशब्दस्य स्वार्थकप्रत्ययान्तं निमित्तत्वमेव नैमित्तिकान्ततत्वं [आ: नैमित्तिकान्ततत्वं] वार्षिकनित्याङ्गानां स्नानादीनां [आ: स्वानादीनां] मध्ये प्रित्रस्य प्राधान्यात् ।

प्।
९६)

शम्भोः पवित्रमासाद्य पूरयेद्वार्षिकं विधिम् [आ: विधिम्मिति] ।
निधना(म)परस्सोऽपि नियमो [आ: निधनामपरस्सोऽपि] गुह्यकाश्रयः ॥

इति श्रूतेश्च ।
एषोऽर्थो अस्मद्गुरुभिः श्रीमन्मोहशूरोत्तरव्रतः ।
पवित्रस्वरूपनिरूपणलक्षणञ्चास्मत् [आ: चास्मत् (तत् इति वार्षिकां) ? देवसि पवित्रेति ततो वा वेयः ? ।
] पवित्रेति ततोऽवधेयः ।

ततश्च नित्यञ्चेष्ट सर्वेषां स्वकीय तीथ्याभावे [आ: तिथ्याभावे] अष्टम्यां चतुर्दश्यां वा पवित्रमारोपणीयं ।
तथोक्तं षट्सहस्रे -

चतुर्दश्यां तथाष्टम्यां [आ: अथष्ठमूढां सर्व] सर्वसाधारणं हि तत् ।

वार्षिकां देवसिकाख्यभेदात् [आ: कश्यभेदा ज्ञापते] ज्ञापिते ।
अतः पवित्रं नित्याङ्गमेव ।
तत् द्विविधं दैवसिकं वार्षिकञ्चेति दैवसिकापेक्षया वार्षिकं प्रधानञ्चेति सिधं ।
अथ प्रसङ्गात् स्वातन्त्र्येण वह्यद्याधाराणां पवित्रारोपणमिति नियमः ।
पतिद्वयेन प्रसङ्गात् ।
कृतादि युगचतुष्टयेऽपि पवित्रस्य प्रकृतिद्रव्यनियमः ।
सौवर्ण नित्य ।
अनेन वा शब्दात् कलियुगे कार्पासजस्यासम्भवे पटादिकमवग्राह्यमिति सूचयति ।

प्।
९७)

देवरुद्रविषये मुञ्जादिक्रमत एव आह - यथा शक्तिरिति ।
कार्पासकॢप्तिप्राकारः कृन्तितमित्येकेन [आ: कर्तितमित्येकेन] ।
द्विजकन्याभिरित्यत्र द्विजशब्दो विशेषसंस्कारविषयः ।
तदभावे त्रैवर्णिकविषयश्चेति गुरवः ।
कन्याशब्दस्तु विधवानिवृत्तिपर एव ।
अन्यदपि सच्छूद्रकन्याकृन्ततमपि [आ: कृत्ततमपि] शुभं दोषरहितं ।
तथोक्तं षट्सहस्रे -

समजं जनयेत्पादं दग्धं राजभयङ्करम् ।
मृत्युरच्छन्नतन्तु स्यात् ग्रथितं गुल्मयुक् तथा ॥

इति ।
वा शब्दसूचितान्यपि प्रकृतिद्रव्याणि वक्ति [आ: पर्तीपट्टमित्येकेन] ।
पट्टमित्येकेन कार्पासेऽभावे पट्टादीनां सर्वविषयत्वं ।
पट्टलक्षणमधोस्तु [आ: पट्टक्षौप्तर्यस्तु] साधकविषयत्वेन प्राशस्त्यं ।
तथा दर्भस्य यति विषयत्वेन शेषं दरिद्रविषयं ।
तन्तूनामधिदेवानाह - प्रणव इत्येकेन ।
सर्वदेवा विश्वेदेवा विन्यस्या इति शेषः ।
पवित्रकरणे सूत्रसङ्ख्याविकल्पानाह अष्टोत्तरशतेनेति ।

प्।
९८)

पादोनद्वयेनेत्थं त्रीणीत्यत्र त्रित्वमेकत्वमित्युक्ते सहैव न तु व्यतिरेकेण चतुर्थं सर्वदैवतमिति वक्ष्यमाणत्वात् ।
एकत्र त्रयं वलयाकारं कर्तव्यमित्युक्तं मोहशूरोत्तरे -

कर्तव्यं वलयाकारं पवित्रत्रितयं हर ।

इति ।

रत्नजादि [आ: रत्नजातिविषयमेतदिति वक्ष्यति ।
] त्रितयमिति वक्ष्यति ।
तथोक्तं मोहशूरोत्तरे -

अष्टोत्तरशतैः कुर्यात् स्थण्डिलादौ पवित्रकम् ।
तस्यार्धेन तदर्धेन यथा लाभेन वाहन [आ: वाहन] ।

इति ।

स्थण्डिले चललिङ्गे च स्वयम्भुवि तथिव च ।


ॠऔ हादौ नियमे नास्ति यथा पूर्वमुदाहृतम् ॥

इति च ।

अत्रोत्तमादि भेदेनाष्टोत्तरादि विकल्पः ।
तथोक्तं ज्ञानरत्नावल्यां -

अष्टोत्तरशतेनाग्रे मध्यमं [आ: मध्यमा स्यात्तदर्धकम्] स्यात्तदर्धकम् ।
कन्यसं सप्तविंशत्या ॥
इति ।

प्।
९९)

एकाशीत्यादि चात्र तथैव पक्षान्तरं ।
केचित्तु पीठप्रासादभेदभिन्नेषु बाणादिषु मुमुक्षविषयमेतदिति ।
तदुक्तं श्रीमन्मये॥



विधान्यां [आ: श्रीम॥


ये धविधयां कला ?] कलासङ्ख्यामध्यानां वर्णलक्षिताज्ज्येष्ठानां [आ: ज्येष्ठानां पदसङ्ख्यातास्तन्तवस्तु मु] ख्यातास्तन्तवः मुमुक्षवः इति ।
अत्र पञ्चाशतान्वेति ।
पदः [आ: एकाशीत्येतदनन्तर] एकाशीत्या तदनन्तरयोजनीयम् ।
एषां त्रयाणां कङ्कणानां ग्रन्थिसङ्ख्या तदनन्तरालानि प्रत्येकन्तु [आ: प्रत्ये(कं)तुल्यप्रामाण्याण्येव] प्रमाण्येव कार्याणीत्याह तुल्येति पदेन [आ: पादेन] ।
अथैषां विस्तारमानभेदानाह -

द्वादशेत्येकेनात्र द्वादशाङ्गुलादि चतुरङ्गुलान्तं विकल्पमुत्तमादिभेदेन स्थण्डिलादिविषयं लिङ्गविस्तारमानानिति प्रथुतरवाणादिविषयम् [आ: प्रथतर] ।
अथ गङ्गावतारनिर्माणमाहतथेत्येकेन ।
तथा शब्दः कङ्कणगतसूत्रसङ्ख्या परामर्शकः ।
पिण्डिकास्पर्शपिण्डिकान्तावलम्बि ।
तदुक्तं पिङ्गलमत टीकायाः नारायणकण्ठेन -

पीथान्तं पीठव्यापीति ।
एतदुक्तं भवति ।

प्।
१००)

पीठस्यावधिर्यावत् तावद्दैर्घ्यमित्यर्थः ।
श्रीमत्किरणेऽपि

शोभार्थं लम्बनं कार्यं यथा शोभा तथा भवेत् ।

इति ।

एतद्द्राष्ट्रबाणादिविषयं [आ: एतद्द्राष्ट] वक्ष्यमाणघटितल्लिङ्गविषयं च त्रयेषु ।
यथोक्तं -

ग्रन्थिषु तदनन्तरानुगुणप्रमाणमर्थात् सिद्धमिति ।
नोक्तमाचार्यैः ।
स्थण्डिलादौ तु विशेषः ।
षट्सहस्रिकायामुक्तं ।
यथा -

लिङ्गमानेन सङ्कल्पं पवित्रं स्थण्डिले तथा ।
चित्रवैगन्धलिङ्गे तु तद्वत्तात्कालिके हितं ॥

कलशे वा जले वह्नौ हस्तमात्रं प्रकल्पयेत् ।

इति ।

सार्वदैवतं सर्वदेवताधिष्ठितं ।
तत्र सर्वदेवता परशिव [आ: परमशिव] एव ।
ब्रह्मादीनान्तु एकत्व [आ: एकतत्त्वपतित्वेन] पतित्वेन सर्वपतित्वानुपपत्तेः ।
यद्वा लिङ्गाद्यधिकरणन्यस्ततत्वतत्वेश्वरमूर्तिमूर्तीश्वरादीनां सर्वेषां देवतानां प्रीणनहेतुत्वात् सार्वदैवतं ।

प्।
१०१)

अतिसुन्दरं स्वानुगुणग्रन्थि तदानन्तरालकरणातिशयशोभनं [आ: कारणातिशय] ।
सूत्रक्षालनादिषु मन्त्रविधिः -

रत्नेत्येकेन [आ: रक्तेत्येकेन] गैरिकं रत्नधातु [आ: रक्तधातु रञ्जेदिति] ।
रणेदिति पदं रज राग इति धातु निष्पन्नं ।
न तु रञ्ज राग इति ।
तस्य निर्झीकरणत्वात् [आ: र्निझ करणत्वात्] ।
यदुक्तमनेकविकरणधातुव्याख्याने -

रजते रञ्जनीत्येवं [आ: रन्धनीत्येवं] रज्यते रजतीत्यपि [आ: रज्यतीत्यापि]

रागाअर्थे शब्दतोरित्यत्र ग्रन्थि निष्पन्नाद्यमण्डनं [आ: ग्रन्थिं निष्पाद्यमण्डनम् ।
] भाव्यं ।
तदुक्तं श्री मोहशूरोत्तरे -

ग्रन्थिस्थाने ततः शुक्रपवित्रं मण्डयेत्सुधीः ।

अथ ग्रन्थिसङ्ख्यां तदन्तराले [आ: तदन्तराल्ल्मानम्] मानं तद्देवताञ्च वक्ति ग्रन्थयन्तृभिः [आ: ग्रन्थयतृभिः] तन्तुसङ्ख्याऽत्र -

ग्रन्थिभिर्दशभिर्युक्तं नवभिर्वा समान्तरं ।

इति ।

शास्त्रान्तरोक्ता नव सङ्ख्यैव विवक्षिताः ।
श्रीमत्किरणाद्युक्तः सप्तविंशत्यादि सूत्रसमानसङ्ख्याय स्वधिका चेत्यत्र वक्ष्यमाणत्वादन्तरं ग्रन्थीनामन्तरालं तत्तन्मानानुगुण्येन व

प्।
१०२)

एकत्र द्वित्रि चतुरङ्गुलं कर्तव्यमिति [आ: कर्तव्यं अत्यन्ता] ।
अत्यन्ताधिकमाने न्यूनमाने तु शोभानुगुणमुक्तत्वात् ।
अधिकान्यूनं [आ: अधिकान्न्यूनं] व्यान्तरालं कार्यमिति वा शब्दार्थः ।
सर्वतो मुखित्यस्मादनन्तरमेयाश्शक्तयो दश ग्रन्थिषु देवतात्वेन क्रमेण न्यस्त्वा इत्यध्याहार्यं ।
ग्रन्थिनवकपक्षेऽपि प्रकृत्यादि मनोन्मन्यन्तशक्तय एव न्यस्तव्याः ।
केचित्तु वामादि शक्तयो न्यस्तव्या इति ।
गणशब्दस्तु अधिकपक्षे तु प्रकृत्यादि शक्तय एव यथासम्भवमावृत्यान्यसनीयाः [आ: भवमावृत्य न्यथ रतनीयाः] यद्वा केवलमवशिष्टग्रन्थिषु व्यापकत्वेन सर्वतोमुखि - न्यसनीया ।
तस्याः सर्वतो मुखत्वादेव सर्वाधिष्ठातृत्वसिद्धेः ।
तदुक्तं सर्वज्ञानोत्तरे -

निष्कलस्थापना [आ: निष्कलस्था पराशक्तिः] शक्तिरचिन्त्या सर्वतोमुखी ।
सुसूक्ष्मा निर्मला नित्याऽनन्ता निर्वाणदायिनि ॥

सा विजृम्भति तत्त्वेषु सर्वतत्वेषु चैव हि ।
तया धृतं जगत्सर्वं एकयानेकरूपया [आ: रूपक्षा ।
? नुति अधिका वेति] ॥

इति ।

प्।
१०३)

अधिका वेति दशसङ्ख्यातोऽधिका प्रागुक्तसप्तविंशत्यादिसूत्रसमानसङ्ख्या ग्रन्थयः कार्याः ।
तदुक्तं श्रीमत्किरणे -

यावत्सूत्रकॢप्तिस्स्यात्तावत्कल्पनेति [आ: तावद्ग्रन्थिविकल्पनेति] ।
समा इति पवित्रचतुष्टयेऽपि ग्रन्थिसमानसङ्ख्या इति केचित् ।
गुर्वस्त्वेवमाहुः ।
तत्वत्रये ग्रन्थयस्समाः ।
ते [आ: केचिद्राविष्ठ] चिद्गाविष्ठबाणादिलिङ्गविषयसूत्रकॢप्तानुसारेण [आ: लिङ्गविषये सूत्र] यथा शोभं कार्यं ।
तदितरविषये [आ: तदितरलिङ्गविध्ये च यथाशोभमुक्तान्तरालका दशसङ्ख्या ग्रन्थयः] यथा शोभं मुक्तान्तरालेकादश सङ्ख्या ग्रन्थयः कार्या ।
तदुक्तं श्रीमन्मृगेन्द्रे -

पूजा प्ररोचनं मूर्ध्नि त्रयं तत्वत्रयात्मकं ।
तदिष्टग्रन्थिसङ्ख्यातं [आ: सङ्घाता शोभिकार्यं विपश्चिता इति] शोभकार्यं विपश्चिता ॥

इति ।
गङ्गावतारे तु सूत्रकॢप्तानुसारेण [आ: कॢप्त्याशारेण] यथाशोभं कार्यं ।
तदुक्तं श्रीमन्मृगेन्द्रे -

ग्रन्थयस्तन्तु सङ्ख्याता तेषु आदिप्रलम्बिषु इति

प्।
१०४)

तत्र रत्नजातं वेतेष्वन्यतमप्रकारेण [आ: वेतान्न?न्यतमं प्रकारेण] पवित्रं कार्यमित्याह - रत्नजेत्येकेन ।
तदुक्तं [आ: तदुक्तं पवित्रचण्डेशादीनामिति दश] चण्डेशादीनामपि दशश्चण्डेत्येकेन ।
सूत्रसम्पाद्य [आ: सूत्रं सम्पाद्य विनिज] निजमूर्त्त्यादावेकमेव कार्यमिति नियमयति ।
निजेत्येकेन ।
अङ्गादिषु हृदयादिषु ।
घटितलिङ्गविषये पवित्रकरणमाह - दृस्तेति द्वाभ्यां ।
सूत्रक्रमात्पाठे अष्टाविंशत्यादि सूत्रसङ्ख्याक्रमेण समसङ्ख्या ग्रन्थयः कार्या ।
हस्तलिङ्गविस्तारासममिति कङ्कण विषयमेव ।

गङ्गावतारमानस्यापि पिण्डिकास्वशीति पूर्वमेवोक्तत्वात् न परामर्शं ।
तद्ग्रन्थिसङ्ख्या च श्रीमोहशूरोत्तरे क्रमेणैव [आ: क्रमेण पञ्चाशत्] पञ्चाशत्प्रभृति चतुष्टयह्रासे अष्टादशान्तं ग्रन्थयः कार्या इत्याहुः ।

बिन्दुर्वाणं [आ: बिन्दुर्घाणं] समारभ्य यावत्स्यान्नागचन्द्रकम् ।
युगह्रासात्समाख्याता [आ: युगं] ग्रन्थयस्सुरसत्तम ॥

श्रेष्ठादिकन्यसः प्रान्ते पवित्रे सार्वदैवत ।

इति

प्।
१०५)

अष्टादशग्रन्थिकरणप्रकारश्चोक्तओऽन्यत्र यथा भागं -

गङ्गावतारसञ्ज्ञे तु यथा ग्रन्थिचतुष्टयं ।
वितस्त्यन्तरमानेन पुनः कुर्याच्चतुष्टयं ॥

एवं [आ: एव *? मा] समाप्यत्वे ? यावद्ग्रन्थिद्वययुतं पुनः ।

इति ।

एवमनेन क्रमेण ऊर्ध्वमपि ग्रन्थ्यादिघटनं बुद्ध्यानुसन्धाय कार्यं ।
एतत्सर्वदेवताः प्रासादमन्त्रगत षोडश कलाः शिवशक्तिभ्यां सह न्यस्तव्या इति केचित् ।
ताभ्यां सह शशिन्यादयो न्यस्तव्या इत्यपरे ।
कला -

शशिनी शाकिनी लक्ष्मी कामिनी च प्रभा तथा ।
पुष्पिणी सुभगा चैव सुभगा वरदा तथा ॥

आश्वासिशायिनी [आ: आश्वाधिशायिनी] विद्या मोहिनी च प्रमोहिनी ।
विकारिणी [आ: विकरणी] तथा सौम्या अमृता षोडशी कला ॥

इति ।

द्विविंशत्यादि [आ: द्वाविंशत्यादिडु(षु?) एता] तु एता एव कला [आ: कलावृत्या एकदेशेनाकार्त्स्न्येना यथायोगं] व्याहृत्या एकादेशेन कार्त्स्न्येन यथायोगं न्यसनीयाः ।

प्।
१०६)

केचित्तु - अष्टादि नव विकल्पेषु तत्तद्ग्रन्थिसङ्ख्यानुरूपं पञ्चाशद्वर्णास्तदभिमानिने रक्तं वा न्यसनीयाः [आ: न्यसनीया गृह्णन्ति] गृह्णन्ति ।
युक्तादावप्येवमेव कार्यमिति पृथग्जनोक्तमाचार्यैः ।
तदुक्तं षट्सहस्रिकादौ -

एवञ्च व्यक्तलिङ्गेषु यथाऽव्यक्ते तथा हितं ।

इति ।

विद्यापीठे [आ: शृङ्गपृष्ठानमृगं वृषे] प्रतिप्रान्तं शृङ्गपृष्ठानं मृगं वृषे ।
? रवितन्तुसमग्रन्थि कर्तव्यं सर्वतत्वगम् [आ: गमिति ।
अथाधिवासाच्च] ॥

इति ।

अधिवासाच्च मण्टपपूजाविधिमभिधातुं तत्पूर्वकरणीयानाह - सप्तम्येति द्वयेन ।
नैमित्तिकमिति पवित्रारोहणं निमित्तेन कर्तव्यं ।
तदुक्तं ज्ञानरत्नावली [आ: ज्ञानरत्नावल्यां - पवित्रारोहणे कार्या वा सन्धातं निमित्ततः ।
] काकुः -

पवित्रारोहणे कार्या या सन्ध्यानं निमित्ततः ।
तेन नैमित्तिकी प्रोक्ता न नैमित्तिककर्मतः ॥

इति ।

नित्यां सन्ध्यां विधाय पश्चान्नैमित्तिकी सन्ध्यामाचरेदित्यर्थः ।

प्।
१०७)

काले हि कर्म चोद्यते न कर्मणि काल इति न्यायेन सायन्तनकाल एव नित्यसन्ध्यासमनन्तर पवित्राधिवासार्थं पुनरपि सन्ध्यावन्दनं कार्यमेतद्विधिसामर्थ्यादेव तर्पणस्यापि सिद्धौ पुनर्विशेषग्रहणं श्रीमन्मृगेन्द्राद्युत्रं [आ: मृगेन्द्रद्युक्ता विस्तार] विस्तारद्योतनाय ।
यथा -

ततश्च पुनराचम्य पाण्डुग्रहणे [आ: पाण्डग्रहणे] गुणोत्तमम् ।
ब्रह्मादिपञ्चकं सर्वान् विद्याविद्येश्वरानपि ॥

चतुर्थ्यन्ताभिधानेन स्वाहा प्राक्तेन तर्पयेत् ।
ततो यज्ञोपवीतेन मुनीन् कर्णावलम्बिना [आ: कण्ठावलाम्बिना] ॥

सनकादीन् स भृग्वादीन् स गोत्रप्रवराधिपान् ।
कनिष्ठामूलमार्गेण भूतादीन् पर्वसन्धिभिः ॥

तथाऽपसव्येन पितृन् स [आ: सपत्नीकान्] पङ्क्तिमान् पितामहान् ।
पुमांश्चैव [आ: पूर्वांश्च गुरुनेव] गुरुनेव शोधकान् बोधकान् परान् ॥

भ्रातॄन् सखीनुपाध्यायान् स मातामहमातुलान् ।
स्वधान्ते नाभिधानेन तीव्रान्तेन [आ: मति प्रान्तेन] मध्यमात् ॥

इति ।

प्।
१०८)

अत्र भुः परिग्रहप्रकारं प्रतिष्ठाप्रकरणे दर्शयिष्यामः ।
सूत्र इति मण्डलं कुम्भसूर्यपूजाकुण्डस्थाभिव्यक्तये द्विभाजिते ।
तथोक्तं श्रीमत्किरणे -

चतुरश्रसमं कुर्याद्विषमं यागमण्टपम् ।
नवस्त्रिदशहस्तं वा तथा सप्तदशात्मकम् ॥

एकविंशतिहस्तं (वा) सप्तहस्तमथापि वा ।
पूर्वोत्तरगतैस्सूक्तैः विभज्य नव भागिकम् ॥

इत्यादि ।

ततस्सूर्यार्चनं वास्तुनाथं गते तत्पदे कार्यमिति पूजायामुक्तं ।
अथ द्वारतत्पालाद्यर्चनं ।
आचाम्येत्यादि पूजयेदित्यन्तेन ।
नित्यवद्द्वारपालौ गणपत्यादेः पश्चात् पूज्यगङ्गादेश्च ग्रहणं ।
नित्यवत्पादसामार्थ्यादेवास्य वास्तुनाथं पूजतः पूर्वकरणीयत्त्वेनोक्तमस्त्रार्चनमपि सिद्धमितिज्ञेयं ।
शिवहस्तकरणात्पूर्वं कर्तव्यानाह - भूतशुद्धमित्येकेन ।
अत्र भूतशुद्ध्यन्तयागमप्युपलक्षयति स्वशिरः प्रोक्षणादिकमित्यादि शब्देन

प्।
१०९)

स्वात्मपूजामन्त्रशुद्धिपञ्चगव्यज्ञानखड्गकीरणाभिमन्त्रणानि विवक्षितानि ।
शिवहस्तकरणं तदधिरोपणञ्च वक्ति दर्भेत्येकेन ।
अत्र हृदादिभिरिति पदं आसनमूर्तिमूलाङ्गवाचकमिति पूर्वमेव दर्शितम् ।
अथ शिवभावना शिव इत्येकेन ।
आदि सर्वज्ञ आदिश्चासौ सर्वेषामनन्तादीनां गुरुणां सर्वज्ञश्चेति इत्यादि सर्वज्ञः ।
यदाहुः -

स पूर्वेषामपि गुरुः कालेनानवच्छेदात् इति ।

अथ मण्टपसंस्कारः ।

नै-ऋतमिति पादोर्ध्यानद्वयेन ।
तदनन्तरकरणीयानाहविक्षिप्येत्यादि पूजयेदित्यन्तेन वास्तुगीर्वाणानीति ।
बहुबचननिर्देशादेकैकश समुदायेन वा पूजयेदिति केचित् ।
सर्ववास्तुदेवता सहितं तदधिपं ब्रह्माणमेव पूजयेदिति गुरवः ।
पूर्ववन्नित्याङ्गवास्तुपूजनमुक्तं ।
इदानीन्तु नैमित्तिकमिति भेदः ।
शिवकुम्भवर्धनीपूजां तत् तत् पाते करलोकपादपूजयेह वक्ति पूजयेति ।

प्।
११०)

पश्चिमेति सप्तभिः विष्णुब्रह्मावसानकानिति विष्णुब्रह्माणौ अवसानकौ येषान्ते तथा ये ते तु निरतिशयोर्यथाक्रममुत्तरदक्षिणयोः पूजां इत्युक्तं ।

ब्रह्मणा वर्तयेत्पद्मं ईशेन्द्रान्तरयोर्लिखेत् ।
कृपाणपाशयोरन्तरे सुदर्शनं हरेल्लिखेत् ॥

इति ।

घटस्य पृष्ठतयाऽग्रगामीति ।
यदाऽनुगन्तुं सेवितुं शीलमस्या इति घटपृष्ठानुगामिनी ।
वामत इति ।
अत्र वामभाग कुम्भस्य पश्चिमाभिमुखेनोक्तत्वात् दक्षिणदिग्भाग एव सङ्ग्राहके ।
आधारशक्त्यादिसम्पूर्णा सा के अत एव स्थिरासनमित्युक्ता च ।
चालनात्पूर्वं पूजितस्यासनस्य चलासनमिति सिद्धं ।
अत्र भगलिङ्गसंयोगेति कर्तव्या ।
दीक्षायां वक्ष्यति ।
बोधासि निवेदने तु ब्रह्मशम्भुरुक्तो विशेषः कार्यं ।
यथा -

यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ।
एष ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधं ॥

इति ।

प्।
१११)

रक्षाविज्ञापनस्योक्तं दीक्षायां यथेदमिति ।

अथाविघ्नार्थं गणेशपूजाविधिः ।

गणेशमित्येकेन गुरुपूजा वा आक्षिप्यते ।
ऐशान्यामित्येकेन ।
अत्रैव गन्धपवित्रारोपणावसरे विनायकमभ्यर्च्य गुरुपादाम्बुजे ततः इति वक्ष्यमाणत्वात् ।
अत्र

शिवयागे समारब्धे शिवः पञ्चांशकस्थितः ।

इति ।

कुम्भस्थः कर्करीस्थश्च ।
वह्निस्थः ।
स्थण्डिलस्थितः ।
देशिकस्थश्च सर्वोयं पाशमोचक रः स्मृतः ॥

इति च श्रीमत्पराख्ये ।
श्रूतिबलात् -

वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे ।
नाडीसन्धानरूपेण विधिना योजयेत्ततः ॥

इति ।

गन्धपवित्रानन्तरं वक्ष्यमाणत्वाच्च ।
इष्टलिङ्गसमाराधनात्पूर्वं मण्डले स्थण्डिलेऽपि वा शिवः पूज्य इति गुरवः ।

प्।
११२)

यथेष्टलिङ्गार्चनविधिः ।

पञ्चामृतेत्येकेन तदनन्तरकरणीयानाह - कृत्वेति ।
द्वाभ्यामत्र चरुकरणेतिकर्तव्यता दीक्षायां अवधेया ।
दत्वा भागं शिवाग्निभ्यामित्यत्रायमनुष्ठानक्रमः ।

शिवाग्नौ शिवकुम्भस्य शेषं तेषां तथात्मनः ॥

इति किरण श्रुतेः ।

शिवकुम्भादिभ्योऽपि निवेद्यत्वात् शिवाय कल्पितं भागं पञ्चधा विभज्य कलशकर्करी स्वेष्टलिङ्गाधिकरणस्थाय शिवाय दत्वा शेषां व्रताङ्गनिवेदनकाले निवेदनीयां ।
तथाग्न्यर्थं भागं पञ्चधा विभज्य एकं दद्यात् ।
कुम्भस्थण्डिले हृदाणुना संविभज्यात्मशिष्ययोः निधापयेदिति पराख्यश्रुतेश्च ।
ततस्थालीं न्यस्य च निवेदनानन्तरं भुक्त्वा द्वितीयलीनत्वात् ।
पराख्य श्रुतेश्च -

ततस्थालीगतं त्रेधा दर्भेण विभजेच्चरुम् ।
तदेकं भागमादाय पात्रे सम्पूजितं हृदा ॥

शम्भवे स्थण्डिलस्थाय दद्यात्कुम्भस्थिताय च ।

प्।
११३)

कर्करिस्थाय चास्त्राय भागद्वित्रावसौ परं ।
स्रुवेण जुहुयाद्विद्वान् शिवायानुमते मनाक् ॥

हुतशेषं पुनस्थाल्यां निधायाघट्टयेद्धृदा ।

इति ।
इति मृगेन्द्रे श्रुतेश्च शिवकुम्भादिभ्योऽपि निवेदयेत ।

शिवायकल्पितं भागं पञ्चधा विभज्य कर्करी मण्डलस्वेष्टलिङ्गाधिकरणस्थाय शिवाय दत्वा शेषं व्रताङ्गनियमनकाले निवेदनीयं ।
तथाग्न्यर्थभागं चतुर्धा विभज्य एकं भागं निवेदनस्य चरुनिवेदनानन्तरं हुत्वा द्वितीयोऽन्तर्बलिं दत्वा तृतीयमग्नौ पवित्रारोपणकाले हुत्वा तच्च दत्वा तुर्येण बलिर्देयः ।
देयमिति नवभिः आग्नेयादिदिक्षु देयानां द्रव्याणां मन्त्रास्तद्दिक् पूजा हृदयायैव ।
एतदुक्तं मृगेन्द्रपद्धतौ -

तत्तद्दिक्स्थित मन्त्रेण पूर्वतो दन्तधावनं

इत्यादि ।

चतुस्सममिति ।
चत्वारि समानीय यस्मिन् सदा येत् ?

प्।
११४)

चतुस्समन्तानि चत्वारि चन्दनादिद्रव्याण्युक्तमस्य अस्मद्गुरुभिः ।
मृगेन्द्रपद्धतौ -

चन्दनागरुकर्पूरकुङ्कुमानि च मारुत ।

इति ।

सानुगन्धादिकमिति ।
हस्तोद्वर्तनमुखवासादिसहितं तत्पुरुषं देयमिति ।
दन्तधावनमृद्भस्मजलगव्यहोमद्रव्यदण्डाक्षसूत्रादिकव्रतोपयोगि द्रव्यजातं व्रताङ्गं व्रतवृद्धये देयम् ।
रोचनाकुङ्कुमताम्बूलादि भोगाङ्गभोगवृद्धये देयं ।
किञ्चान्यत्र तस्योपयुज्यते न्यसेत् ।
तत्पुनः सर्वं यथा समानविभागवदिति मृगेन्द्रश्रुतेः ।

अथ पवित्राधिवासनेतिकर्तव्यता पवित्राणीति त्रिभिः संवत्सरात्मकमिति संवत्सरपवित्रारोपण दिवसात् प्रभृत्यद्य यावत्स कालाः संवत्सरः सर्वात्मना शरीरमधिष्ठेयत्वेन यस्याऽसौ संवत्सरात्मकः ।
साक्षिणां संवत्सराणां सर्वकृत्यानां गोप्तारं तत्फलानामप्ययं परिपूर्णं तदधिष्ठेयमिति परिपूर्णमपि

प्।
११५)

देवस्य गन्धपवित्रारोपणार्थं तत्पूर्वकरणीयानाह ये तु षट्चतुर्भिः इतोऽत्रस्यापि ग्रहणं सिद्धं ।
तस्यापि तत्फलत्वात् प्रवेशानन्तरमेव तद्देवमित्यर्थ सिद्धत्वात् ।
न तथा निर्देशः ।
ब्रह्मणेऽपीति ।
अपि शब्दात् तदनन्तरपूजिता महालक्ष्म्या अपि सङ्ग्रहः ।
विघ्नविनायकमभ्यर्चयति ।
त्त्वदाज्ञया अविघ्नमेतत्कर्म भवेदिति प्रोक्ष्यगुरुपादाम्बुजे ।
तत इत्यनन्तरं पङ्क्तिगुरुभ्योप्येवमेव कथ्यतामित्यर्थः ।
अस्मिन्नवसरे मण्डलेशस्यापि पवित्रमारोपणीयमिति गुरुवः ।
अथ देवस्य पवित्रारोपणप्रकारः अथेति सप्तभिः सर्वौषधिलिप्तमिति ।
तदुक्तञ्च मोहशूरोत्तरे -

मुरा मांसिवचाकुष्ठशैलेयं रजनीद्वयं ।
मुसलीचैव मुञ्च॥


षर्वौषधिगणस्मृतः ॥

इति ।

मानोन्मानविवर्जितमिति विस्तारश्च योनिधरहितं यथा लाभं विस्तारदैर्घ्यमित्यर्थः ।
अल्पतन्तुकमिति

प्।
११६)

तत्तदधिकारेणार्चितपवित्रगतं तन्तुसङ्ख्याहीनतन्तुयुक्तं ।
चतुर्वर्गफलोपायमिति धर्मार्थकाममोक्षोपायम् ।
आमन्त्रिणं पवित्रकमिति ।
आमन्त्रिणमित्यत्र पदशब्दोपलक्ष्यवाचकं ।
यथा हि अमरः दत्तः -

पदं व्यवसिति त्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ।

इत्यमरः ।

आमन्त्रणं द्या तत् वाक्य समूहातकं ममत्रं पाठादित्यर्थः ।
तदुक्तं मये -

पठेत् मन्त्रोत्तमं विद्वान् आमन्त्रणपदात्मकं

इति

ओमिति मन्त्रदीपनार्थं समस्तविधि (वद्वि) पुरणेशसर्वक्रियाव्यतिकरपरिपूर्णाक्षमं प्रभाविति पाठे यज्ञं प्रतिस्वामिन्निति व्याख्येयं ।
त्त्वदिच्छावाप्तिकारकः त्वदीयाज्ञया लब्धोपकरणमामन्त्रयामि ।
विशेषसपर्याग्रहणायानुज्ञापयामि ।
यच्छ्रूयते -

आवाहनं न सन्निध्यै पूजानुज्ञप्तयेऽन्वहम् ।

इति ।

प्।
११७)

तत्सिद्धं पवित्रमाख्यमिति कर्मफलनिष्पत्तिम् ।
अथवेति आमन्त्रणप्रकारान्तरम् ।
नियममिति व्रतावधे नियमम् ।
शिवान्तं द्वादशान्तावधि ।
शिवायाङ्गसहितया तत्साहित्येनार्चनस्य उक्तत्वात् ।
अङ्गेषु सप्तकेत्युक्तत्वाच्च ।
गन्धपवित्रानन्तरकरणीयानाह - जपमित्यर्धेन ।
अग्न्यधिकरणेऽपि तत्क्रियामाह - हुत्वेतित्यर्थेन च मारज्यर्थमपि भक्तस्य चरो अंशमिति प्रागुक्तं पवित्रशिवाग्नय इत्येतल्लक्षणाय तदधिकरणाय शिवायेति व्याख्येयं ।
यच्छ्रूयते -

आधारे कारणे कार्ये समीपे चोपकारके ।

इति ।

वक्ष्यति च -

पावकस्थे शिवेप्येवम् ।

इति ।

अथ बलिविधाना तत इत्यादि जगुर इत्यन्तेन ।
बहिर्बलिमित्येतदन्तर्बलेरप्युपलक्षणम् ।

प्।
११८)

अन्तर्बलिं पवित्रञ्च रुद्रादिभ्यो निवेदयेत् ।

इति वक्ष्यमाणत्वात् ।
केचित्तु द्वयोर्बल्योरपि तन्त्रेण निधानमिति व्याचक्षते ।

अस्मिन्पक्षे बहिरिदं कुण्डान्मण्डपाच्चेति व्याख्येयं ।
एषां गन्धपवित्रमपि देयमित्यर्थः सिद्धम् ।
अनन्तरकरणीयानाह - समाचम्येत्येकेन ।
होममित्यत्र मूलेनाष्टोत्तरशतमित्येतदध्याहार्यम् ।

न्यूनादिदोषमोक्षाय मूलेनाष्टोत्तरं शतम्

इति ।

शिष्याधिवासावसाने वक्ष्यमाणत्वात् ।
पूर्णानन्तरमाचमनादि पूर्ववदुपतिष्ठते ।
इति व्याहृति होमञ्च इत्यत्र च शब्देन सूचयति ।
रोधानन्तरकरणीयानाह - वह्नीत्येकेन शिवस्य वह्नितोऽपि मण्डले विशेषावस्थानं भवेदित्यर्थः ।
हविरादानरूपस्य प्रयोजनस्य तदानीमभावात् सामान्यावस्थानमेव तत्र तदानीं स्यादिति तात्पर्यम् ।
अथ सपातसंस्कृत्यस्य पवित्रस्य संस्कारानन्तरं रक्षणञ्चाह -

प्।
११९)

पूत इत्यादि चतुर्भिः सुसङ्कटवचनं ।
जगदीशाय कुम्भस्थाय कलशे यज्ञ रक्षक इति वक्ष्यमाणत्वात् ।
अथ विद्या गुरुपूजा ।
पूजित इत्येकेन तदनन्तरकरणीयानाह - निर्गत्येति त्रिभिः ।
पवित्राधिवासविधिः ।

एवं पवित्राधिवासनमुक्त्वा निरन्तरदिवसे पवित्रारोपणात् ।
करणीयानाह - अथेति पञ्चभिः कृतसन्ध्यार्चनः कृतसन्ध्यावन्दनः ।
विसृजेदित्येतदष्टपुष्पिका पूजा वक्ष्यति तृतीयदिने अष्टपुष्पिकया देवं पूजयित्वा विसर्जयेत् इति ।
नित्याह्निकद्वयं प्रातर्मध्याह्निककृतद्वयम् ।
अत्र पूजायां पवित्रदानसमये गन्धपवित्रमपि देयमिति गुरवः ।
अस्मिन्दिने तु पूर्वदिनवन्नैमित्तिकं सन्ध्यावन्दनं विशेषतर्पणञ्च कुर्याच्छिवे मण्डलस्थे स्वेष्टलिङ्गस्थे च ।
मण्टपस्थितेति देवानां पवित्रारोहणविधिः ।
पवित्रमपि द्वाभ्यां द्वारपालानि द्वाराणि तत्पाअलाश्चेति द्वारपालाः ते आदयोरिति समासद्वयेन द्वारतत्पालवास्तुलक्ष्मीनां ग्रहणम् ।
शब्दान्मण्डलेशे च सन्निधाने अग्रे दक्षिण भाग इति यावत् ।

प्।
१२०)

देव दक्षिणदिग्भागे सन्निविष्टः सुखासनः ॥

इति प्रागेवोक्तत्वात् ।
अत एव दक्षस्य दक्षिणाभिमुखत्वपक्ष एवाभिमतोऽस्याचार्यस्येति गुरवः ।
अथवाऽस्य पवित्रारोपणेति कर्तव्यता पवित्रादिकमित्यादि दत्वा गङ्गावतारकमित्यन्तेन ।
अथ व्रतभोगाङ्गद्रव्यनिवेदनानन्तरम् ।
तथोक्तं श्रीमन्मृगेन्द्रे -

यथा विभवतः पूजां कुर्यान्नित्यादनन्तरम् ।
दन्तधावनसद्भस्म मृद्धात्रिफलपावनान् ॥

ऐन्द्रादि शङ्करान्तासु दिक्षु पात्रेषु विन्यसेत् ।

इति ।

श्रीमन्मये -

न्यस्ते च दन्तकाष्ठादौ यथास्थानं गुरूत्तमः ।

इति ।

अत्र द्रव्यनिवेदने जलकुङ्कुमपञ्चगव्यताम्बूलचरवो नूतना एव देयाः ।
इतराणि पूर्वदिनदत्तान्येव ।
कालात्मकं कुटिलवनिमेष - काष्ठकलामुहूर्तघटिकायामहोरात्रपक्ष -

प्।
१२१)

मास-ऋतु - त्त्वयन - संवत्सर - युगमन्वन्तर - कल्पमहाकल्पाख्याष्टादशावयवः काल आत्मा शरीरनित्याधिष्ठेयत्वेन यस्य तम् ।
मामके विधौ मदीये व्यापारे ।
यत्क्लष्टम् तत्कृतं असम्पूर्णमनुष्ठितम् ।

यच्च समुत्सृष्टं अज्ञानादिना यत्किञ्चन कर्म संस्कारमुपेक्ष्य कृतं यत्त्यच्च वा हृदा कार्यवशात् बुद्धिपूर्वमव्यग्रतया वा स्वावसर॥

पि कृत्यकृतं यच्च वा शुभम् ।
वित्तशाठ्येन कृतं दुष्कृतमपि प्रायश्चि(त्ता) भावाकल्पज्जया (भावालप्त्वया वा ?) वा गोपितं तत्त्क्वचिद्द्रष्टाकर्मक्लिष्टमस्तु असत्कृतं पुष्टमस्तु सृष्टहृतगुप्तानां तन्त्रेणाभिधानं सर्वेषामसकृत् कृतत्वाविशेषात् ।
सर्वात्मना आत्मतत्वादिरूपत्वेन सर्वव्यापकत्वेन सर्वपूरकेणेति यावत् ।
अमुना पवित्रेण कृष्टाद्युपलक्षितसर्वकर्मच्छिद्राणि पूरय पूरय ।
मखो यागः व्रतं कृष्णाष्टम्यादि नियमः अक्रोधादयः स्वयं कल्पितौ वा ।
तेषामीश्वरः तस्मै ।
स्वाहेत्यत्र स्वशब्दं स्वात्मवाचि ।
विकिरसामान्यानि ब्रुयात् ।
धान्यादाहरणवाचकः ।
अतः स्वात्मनामाहरामीति निवेदयामीत्यर्थः ।

प्।
१२२)

तदुक्तमभियुक्तैः -

आत्मो व्यतां ब्रह्मणा चात्मनोऽन्यं नमस्यतस्त्वामधिहस्तास्ति ।

इति ।

आत्मतत्वन्तु मायान्तमिति बहुशः श्रुतेर्मन्त्रव्याप्तेर्मायान्ततत्ववचनाच्चात्र प्र्कृतिशब्देन शुद्धाध्वनः परं प्रकृतिर्मायोच्यते इति गुरवः ।
क्षित्यादि मायान्ताध्वांशव्यापकमात्मतत्वमिति भावः ।
अत्र सर्वत्र सप्तमीनिमित्तार्थे केचित्तु अधिकरणार्थैर्वा सप्तमी ।
तत्रत्त्वधिष्ठातारं शिवमित्यध्याहृत्य व्याख्येयमिति भणन्ति ।
पद्मयोनिना ब्रह्मणा एष ब्रह्मा श्रीमत्किरणाद्युक्तवत् शुद्धाध्वाव्यवस्थितः शुद्ध एव न तु प्राकृता इति केचित् ।
अणुशक्तिशम्भुभेदेन मन्त्रमन्त्रेश्वराणामिव कारण्योशकानामपि त्रिविधत्वात् ।
ब्रह्माद्यधिष्ठानयुक्तशिवशक्तिविशेषा एवात्र ब्रह्मादिशब्दोद्धृता इति गुरवः ।
तदुक्तं श्रीमत्पराख्ये -

एको वा नामभिर्भेदैः पञ्चधा सप्तवस्थितः ।

इति ।

प्।
१२३)

मायान्तं अत्र मायाशदेन तत्राध्ववद्द्योतिकामूलमनुगता कलोच्यते ।
विद्यान्त इति ।
श्रीमन्मृगेन्द्रादावपि ईश्वरतत्त्वस्य शुद्धविद्यायामन्तर्भावश्रवणात् ।
ईश्वरान्तं समुच्चार्येति लिङ्गेन चात्र लक्षणया विद्याशब्देन ईश्वरतत्त्वं विवक्षितं ।
तत्त्वाध्वांशकव्यापकं विद्यातत्वमित्याशयः ।
तदधिष्ठातारं शिवं ध्यात्वा ईश्वरान्ताध्वनोर्द्योतकवशान्मन्त्रमुच्चार्य लिङ्गमूर्ध्नि पवित्रमारोपयेत् ।
शिवान्त इति शिवशक्तिः ।
अन्तमवधिः यस्य तत्तथा ।
शक्तितत्त्वान्ताध्वव्यापकं शिवतत्वमिति यावत् ।
तस्मिन्नधिष्ठातारं शिवं ध्यात्वा तस्मै ।
सदाशिवान्तद्योतका नादकलान्तमुच्चार्य पवित्रकं दद्यात् ।
प्रातिस्वीकरणाधिष्ठितं तत्त्वांशतत्त्वाध्वांशव्यापकतत्वत्रयाधिष्ठानयुक्ताय शिवाय पूजनमुक्त्वाऽधुना सामस्त्वेव सर्वतत्त्वाधिष्ठातृतयाऽवस्थिताय पूजनमाह - सर्वकारापाल्येषु पितृभिः ।
लयान्तद्वादशान्तावधि ।
मुमुक्षूणां नैष्ठिकदीक्षाभाजां ।
भौतिकदीक्षाभाजां न तु गृहस्थानां ।
एतद्भेदो दीक्षायां स्पष्टयिष्यमाणत्वान्नैह प्रपञ्च्यते ।

प्।
१२४)

अत्र बुभुक्षुविषये केचित् ऊर्ध्वस्थायि शिवतत्वपवित्रस्य स्वाधोवर्ति विद्यातत्वात्मकपवित्रादधोवस्थानुपपत्या ।
प्रथममारोपितं शिवतत्वपवित्रकं विद्यातत्वपवित्रारोपणानन्तरमुद्धृत्य तस्मादुपर्यवस्थाप्य एवं विद्यातत्त्वमपीति भणन्ति ।
तदयुक्तं तथाविधश्रुत्यदर्शनात् ।
कङ्कण - त्रयमानभेदेनैवोर्ध्वाधोवस्थानव्यत्यासासम्भवाच्च ।
तदुक्तं षट्सहस्रिकायाम् -

लिङ्गमूर्धपरीणाहं यथाचैवात्मकं तथा ।
विद्यात्मकपरीणाहं ततो भागद्वयं विना ॥

तस्माद्भागद्वयान्न्यूनं शिवाख्यं यत्पवित्रकम् ।

इति ।

आचार्य इत्युपलक्षणं ।
साधकस्यापि साधिकारदीक्षितत्वात् सर्वदेवानां यागमण्टपस्थितानाम् ।
इति केचित् ।
इतरे नित्यकर्मणि पूजितानां देवानमेव पवित्रारोपणं कुर्युरिति भावः तदनन्तरकरणीय माह - पुष्पेत्यर्धेन विज्ञापनमन्त्रत्त्वमित्यादि गर्भितमित्यन्तम् ।
गतिः मुक्तिलक्षणा ।

प्।
१२५)

तथोक्तं श्रीमत्स्वायम्भुवे -

दग्धसंसारबीजस्य या पुंसः पश्चिमा स्थिता ।

सा गतिस्तस्य विज्ञेया न देशानन्तरस्थितिः ॥

इति ।

श्रीमत्पराख्येऽपि -

प्राप्तिस्या सा मता स्यात्त्विति ।

परमेश्वरस्य गतित्वासम्भवात्तद्धेतुत्वेन गतिशब्दवाच्यत्त्वमिति ज्ञेयम् ।
सर्वप्राणिणां चराचरे स्थावरजङ्गमे संस्थितः लक्षणाय दोषवचनाय तन्निवृत्तये च अधिठातृतया स्थितम् ।
अन्तश्चारेणान्तर्यमीति या ।
द्रष्टा शुभा शुभकर्मसाक्षि ।
कर्मणा कायव्यापारेण ।
मनसा ध्यानादिहेतुना ।
वाचा स्तुत्यादि रूपया ।
गतिः गन्तव्यं ।
मदीयानां कायमनोवाक् साद्ध्यातां क्रियाणां त्त्वमेव विषय इत्यर्थः ।
अत्र तु न मच्युत सन्ध्योपासनादि यत् तद्वाक्यहीनं स्वागतविज्ञापनादिवाक्यम् ।
सम्पूतः सासुष्ठुः अतिशयेन शुद्धः अनादिनिर्मल इत्यर्थः ।

प्।
१२६)

पवित्रं पतनत्राण हेतुः पापनाशनं पापस्य मलादेर्नाशनं स तु त्वमेव ।
अत एव त्त्वया सर्वं पवित्रम् ।
मया यद्व्रतं वैकल्ययोगतः खण्डितं विच्छिन्नं तत्सर्वं तवाज्ञासूत्रेण ग्रथितं एकी भवतु ।
विज्ञापनानन्तरं करणीयमाह - जपमित्यादि आहुतिचतुष्टयमित्यन्तेन चतुरस्त्रीनय द्वौवेत्यत्र मासमासौ विशेषः ।
अत्र चातुर्मास्यादिविधानं सुप्त एव जनार्दने इति विहितत्वात् स्वापान्तावधिकमेव ।
तदवधिस्तु कार्तिकशुक्लद्वादश्यामेव ।

कृत्तिकाशुक्लद्वादश्यां कुरुते बोधनं हरिः

इति वचनात् ।
अत एव श्रीमत्किरणे कृत्तिका शुक्लनवम्यामेव पवित्रनियमावधिरित्यादिष्टं

यथाहि चतुरो मासान्नियमेव नयेत् खग ।

अवधिं कार्तिकिं कृत्वा नवमीं शुक्ल एव तु ॥

इति ।

अत एव तत्तिथिपर्यन्तमेव यथा सम्भवं यथारुचि चातुर्मास्यादि

प्।
१२७)

व्रतग्रहणनियमो ग्राह्यः ।
एतन्नियमप्रकारश्च पौष्करादावुक्तं ।
यथा -

सङ्कल्प्य चतुरो मासान् स्थानमाश्रित्य वाञ्च्छितम् ।
कार्यो नियमितैस्तैस्तु मृद्भस्मादि परिग्रहः ॥

आर्द्रच्छेदमथा ध्वानं गुरुरन्यत्र वर्जयेत् ।

इति ।

मोहशूरोत्तरेऽपि -

न गन्तव्यं सहस्राक्ष पवित्रेत्त्वविसर्जिते ।
विसर्जिते तु गन्तव्यं स्वेच्छं वै यत्र रोचते ॥

गुरुणा वा यथोद्दिष्टमिति परवधित्वेनोक्तकालत्वात् ।
पूर्वं यथोक्तकालव्यतिरेकेण गुरुणा स्वयं यो नियमकालावधि सोऽपि वा ग्राह्यः ।
प्रायश्चित्तहोमः अष्टोत्तरशतमस्त्रेण प्रायश्चित्तं शराणुना इत्युक्तत्वात् ।
प्रायश्चित्तं ततोऽस्त्रेणेति वक्ष्यमाणत्वाच्च ।
पायसञ्च (चरु) लक्षणम् ।
विसृजेदित्यत्र सापेक्षमिति शेषव्यापितहृदि मन्त्रपाठो होमं व्याहृतिभिरित्यत्र कर्षणीयः ।
अग्नये स्वाहेत्यादि च अग्न्यादिभ्य

प्।
१२८)

इत्यत्र अथ गुरुपूजां सदस्य पूजाँच ।
गुरुरित्यादि चतुर्भिः अथाङ्गिनं पवित्रमभिधाय ।
इदानीमेकाहपक्षे द्वितीयदिनकरणीयानाह - प्रातरित्यादि सार्धद्वयेन ।
अथ कर्मसमर्पणम् ।
भुक्तीति सार्द्धेन केन बन्धनमोक्षप्रति बन्धकम् ।
अथ यागविसर्जनं वह्निस्थितमिति स पाद द्वयेन शिवमण्डलस्थे ।

वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे ।

इत्युक्तत्वात् ।
अणुसङ्घातं शिवतदङ्गवाचकं ।
मन्त्रसङ्घातं परिधिविष्टरस्थ(श्च) मन्त्रसङ्घातञ्च ।
समाचम्येति सामर्थ्यादत्र बलिविधानमपि सिद्धमिति गुरवः ।
शिवे मण्डलथे नाडीयोगेन संयोज्य तत्र विशेषसन्निधानसम्भाव्येत्यर्थः स्वाभिषेकार्थकलशस्थं सामान्यसन्निधनं शिवं सापेक्षमेव विसर्जयेत् ।
अवसरे मण्डलस्थ शिवस्य निरपेक्षविसर्जनं ।
स्वेष्टलिङ्गस्य शिवस्य सापेक्षविसर्जनञ्च कार्यमिति गुरवः ।
लोकपालादीनित्यादि शब्देन मण्टपपूजितसर्वदेवग्रहणं ।

प्।
१२९)

अतो गुरुगणेशादि भानुपर्यन्तान् पूजाक्रमविपर्यासे निरपेक्षं विसृजेदित्यर्थः ।

आदायेत्यादि विशोध्येत्यन्तमेतः चण्डं पूजातद्विसर्जनभूतशुद्धिविधानं ईशानादिषु स्वेष्टलिङ्गाद्यधिकरण स्यात् पवित्रं चण्डेश्वरवह्निनमित्युक्तक्रमेण तदर्थकल्पितं तत्पवित्रम् ।
तन्निर्माल्यं पर्युषितपूजया चण्डार्थमवतार्य स्थापितं पुष्पमालादिकं ।
स पवित्रमिति निर्माल्यशब्देन ईशादवरोपितस्य पवित्रस्यापि ग्रहणे सिद्धेऽपि पुनस्तद्ग्रहणमरोपित शुद्धपवित्रायापि तस्मै निर्माल्यपवित्रारोहमवश्यं कार्यमिति ज्ञापनाय ।
भूमिशोधनानन्तरं क्रियाविधानं शुद्धेत्यादि यजेदित्यन्तेन ।
शुद्धदेह इत्यत्र पूर्वोक्तशिवकुम्भस्थाम्बुनेति शेषः ।
तदुक्तं मृगेन्द्रे पवित्रावसाने -

ततो विसृज्य चण्डेष्टिं विधायावभृयं भजेत् ।

इति ।

शिवं स्वेष्टलिङ्गस्थ पवित्रावरोपणाय कृतपर्युषितपूजितत्वात्

प्।
१३०)

निर्माल्यपरिशोधनार्थं स्वेष्टलिङ्गं नित्यवत् स्नापयित्वा पूजयेत् नियमान्ते पुनः पूर्ववद् यागं विधायोक्तक्रमेण ।
विसृज्येष्टिकुर्यादिति ।
एतत्पवित्रकरणं सन्निधावेव कार्यमित्याह पञ्चेत्येकेन ।
अथैतत्प्रकरणोपसंहारः परेत्यादिना ।

इति त्रिलोचनशिवाचार्यविरचितायां क्रियाकाण्डक्रमावलीटीकायां पवित्राविधिः समाप्तः ॥

इत्थं वार्षिकं नित्याङ्गभूतपवित्रारोपणमभिधाय दमनपूजामभिधातुं तत्कर्तव्यतायां करणं पुरावृत्तमितिह्रासमाह - हरेत्यादि पञ्चभिः ।
हरकोपहेतुः अकाण्डजगद्गर्भक्षयकारी परस्परमदमत्सरयुद्धमेवेति दान्ता इत्यादि वाक्यसामर्थ्यादवगम्यते ।

तेन एनेङ्गितज्ञेन भैरवेण महावलदानवाः सुराश्च दान्ताः पराक्रमादुपशमिताः तदुपशमनकारणात् प्रीतेन शिवेनेत्थं स भैरवे पूर्वं ज्ञापितं यथेत्याह -

प्।
१३१)

भूतले विटपो भव इति ।
दमनविटपं स्व देहाभिमानेनाधि तिष्ठस्वेत्याशयः ।
अथ विटपप्रयोजनं मद्भोगायेति तत्पत्रपुष्पादिपूजया लिङ्गाद्यधिकरणस्य मम भोग्यो भविष्यसीत्यर्थः ।
पूजयिष्यन्तीत्यादिना दमनकरणाकरणयोः शुभाशुभफलकथनं तदवश्यकरणीयत्वोपपादकम् ।
स्वच्छन्दिनां मिश्राचारो न कर्तव्य इत्यादि वाक्यभयात् अकर्तव्यमित्याकाङ्क्षापरिहारः ।
इह समानत्वात् इह सिद्धान्ते समानत्वात् ।
पुरवृत्तस्येतिहासार्थस्य इहापि समानत्वात् ।
नह्येकोक्तस्येतिहासार्थस्यान्यत्र कथनमात्रेण मिथ्यात्वं कथयितुं युक्तं ।

तथात्वे सर्वपुरावृत्तानां सर्वत्र कथनमात्रेनां सत्यत्वप्रसङ्गेन तन्मूलधर्मानुष्ठानप्रवर्तितं सर्वमसमञ्जसं स्यादिति ।
यद्वा दामपूजाविधेरपि कथितत्वेन समानत्वात् ।
तदुक्तं बृहत्कालोत्तरे -

ततो दमनकैः पूज्य शिवं परमकारणम् ।
धूपं कृष्णागरुं दद्यात् चन्द्रकुङ्कुमसन्निभम् ॥

इति ।

प्।
१३२)

चतुर्दश्यां शुक्लपक्षे वैशाखे तु प्रयत्नतः ।
शिवं पूज्य विधानेन महास्नप्नपूर्वकम् ॥

कुङ्कुमेनैव दमनैरर्चयेत्परमं शिवम् ।

इति ।

अत्र वैशाखशब्द सौरदृशा मेषराशिवचनमेवेति पूर्वमेव समाधितम् ।

अतो दमनपुष्पैस्तु शिवं सम्पूज्यभक्तितः ।

अत एव ब्रह्मशम्भुपादैः पवित्रोत्सवे दमनोत्सेऽपि दीक्षा कार्ये इत्युक्तं -

चातुर्मांस्यनिमित्तानि वैशाख दमनोत्सव

इति ।

अथ दमनकानन्तरामन्त्रणप्रकारः कथ्यते ।
सप्तम्यामित्यादि साध्यैश्चतुर्भिः ।
मन्त्रविदाचार्यः तस्यैव यथात्मवेदनमवश्यमपि यतः अथ एव तदामन्त्रणादिकर्म(चा)चार्यकृतम् ।
इतरेषां तदारोपणमात्रामिति ।
भवनं व्रजेत्यत्र दमनायेति शेषः ।

प्।
१३३)

अथाधिवासनविधिः ।
सायाह्नेति सार्द्धेन ।
अत्रापि यथा विध्यादीति वाक्यानन्तरं विदध्यात् अधिवासनमिति अस्य समन्वयः कार्यः ।
यथा विधि पवित्रोक्तविध्यनतिक्रमेण पवित्रकविधानेनेति वक्ष्यमणत्वात् ।
द्वारपूजापुरस्सरमित्यर्थः ।
सूर्यं शङ्करपावकानिति ।
अत्र कुम्भमण्डलस्वेष्टलिङ्गशिवोऽपि विवक्षितः ।
अनन्तरं दमनकस्य पवित्रवदधिवासनं सम्पातसंस्कारञ्च कुर्यादित्यर्थः ।
एतत्संस्कारानन्तरकरणीयानाह् - पश्चिमेति त्रिभिः तस्येति ।
दमनकस्य एतन्नालादित्वं सम्बध्यते ।

अथ विज्ञापनपुरस्सरं गन्धदमनारोहणं पञ्चेति त्रिभिः ।
अत्र मण्टपपूजितदेवानां दमनकदानमित्थं सिद्धमिति नोक्तमाचार्यैः ।

पञ्चाङ्गं मूलनालपत्रपुष्पफलसञ्ज्ञानि पञ्चाङ्गानि यस्य तत्तथा ।
प्रातः कालमित्येतत्कर्तव्यमस्मात्पूर्वं सम्बन्धनीयम् ।
दाम पर्व दामोत्सवः कुसुमाञ्जलिं पूर्वोपात्तपत्राद्युपेतम् ।
जपादिकमिति आदिशब्दात् प्रदक्षिण नमस्कारादि ।

प्।
१३४)

अवशिष्टदमनावस्थापनप्रकारमाह - शेष इति सार्धेन ।
शिवाय कुम्भस्यायं स्वेति निवेदयेत् ।
समीपे निवेशयेदित्याशयः ।
अनन्तरकरणीयानाह - हविरित्यनेन हविश्चरुलक्षणम् ।

एवमङ्गभूतं दमनाधिवासनमभिधाय प्रातः कृत्यादि पूर्वमङ्गिनो दमनारोपणस्य प्रकारमाह - प्रातरित्यादि दमनेन्तेन स्नात्वेत्युपलक्षणं सन्ध्यावन्दनस्यापि स्नानस्य तदविनाभावात् ।
जगन्नाथं स्वेष्टलिङ्गस्यं नित्यं प्रातर्मध्याह्नसम्बन्धिनीं नैमित्तिकं विषयम् ।
ध्यायन्नभिमुखमित्यनेन देवसाधकाभिमुख्येनावस्थानं इति दर्शयति ।
पवित्रकविधानेनेति ।
आत्मादितत्वव्याप्तिचिन्तादि पुरस्सरम् ।
पावकञ्च चकार दमनारोहणञ्चान्तर्बल्यादि ॥


देवमपि तद्देयमिति सूचयति ।

अत्र मण्टपस्थदेवविसर्जनपूर्वं चण्डपूजनं कार्यमिति गुरवः ।

अथ गुरुपूजनं कार्यमित्याह - एवमित्येकेन ।

प्।
१३५)

परितोषकरमित्यनेन वस्त्रवित्तभूषनैरुक्तं स्मारयति ।
एतत्कर्म कर्तुः प्रयोजनमाह - ब्रह्मचारीत्येकेन ।
अथोपसंहारः परेत्येकेन ।

इति त्रिलोचनशिवाचार्यविरचितायां क्रियाकाण्डक्रमावलीटीकायां दमनकविधिः समाप्तः ॥

एवं दीक्षितानां नित्याङ्गञ्चाभिधायाधुना तेषामाचारदोषलोपोद्धारणायाधुना गुरुणा प्रायश्चित्तं वक्तव्यमित्याह - स्वकीयेत्येकेन ।
अत्र मानवशब्देन मनुभिः शिवमन्त्रैः संस्कृतो विवक्षितः ।
न तु केवलो॥



ंअर्त्यः तस्यानधिकारात् ।
अत्र क्रव्यादयोनम् ।
तच्छ्रुयते -

आज्ञाविलङ्घनात्पूर्वं क्रव्यादत्वं शतं समाः ।

अत्राज्ञाशब्देन परमेश्वरं शास्त्रमुच्यते ।
किञ्चिदिति एकस्मिन्पापे अनेकप्रायश्चित्तश्रवणाद्यस्य यद्योग्यदं तस्य तदेकं वदेत् गुरुरिति शेषः ।

प्।
१३६)

अत्र प्रायश्चित्तं नाम तत्कृतस्य कर्मणोऽङ्कुरानर्हत्वापादकं स्नानजपादिकर्मोच्यते ।
अत्यन्तेत्येकेन ।
आदि शब्दं महोत्पाताग्नि दाहादि गृह्यन्ते ।
गुरुदेवाग्निकार्येषु गुरुदेवाग्निसम्बन्धकार्येषु अग्निसम्बन्धकार्याणि तदग्निकुण्डादिकरणं समिदाद्याध्याहरणं होमद्रव्यसम्पादनञ्चाह ।
तत्राधिकारभेदेन प्रायश्चित्तनियमः ।
गृहस्थ इत्यादिना द्वभ्याम् ।
अत्र वानप्रस्थसन्न्यासिनोरन्तर्भाव इत्याशयः ।
केचित् ब्रह्मचारिण्येवान्तर्भाव इति वदन्ति ।
स कामाकामभेदेनेति - अत्र कामः स्ववशः ।
इतरस्तु देवादिना परवशः ।
तथाचोक्तं -

दैवाद्रोहात्तथामोहाच्चोरराजभयादिभिः ।
एतैर्दोषैरकामित्वं शेषैज्ञेयन्तु कामिता ॥

इति ।

अत्र गृहस्थब्रह्मचारिणौ भौतिकदीक्षाविशेषाभ्यां लोकधर्मिणि शिवधर्मिणिभ्यां दीक्षितौ साधकावेव तद्विषयत्वेन प्रकृतभूतप्रायश्चित्तस्य प्रवृत्तेः ।

प्।
१३७)

इतरेषान्तु तदादेशतः ताद्वृद्धिह्रसश्च तत्प्रवृत्तेश्च ।
तथोक्तं श्रीमन्मृगेन्द्रेप्रायश्चिताख्यावसाने -

साधकोक्तं वृतं कूर्यात् गुरुरस्ववशोऽव्रती ।
द्विगुणं स्ववशस्तावच्चरेदचारादस्ववशो व्रति ।
स्ववशः त्रिगुणं त्र्यंशं विना तत्पुत्रकश्चरेत् ॥

पुत्रकार्धन्तु समयी पूर्वोक्तानुक्तपाप्मनाम् ॥

इति ।

अत्र भौतिकनैष्ठिकौ प्रागुक्तौ गृहस्थब्रह्मचारिणामेव ।
वृद्धादिविषये प्रायश्चित्तलाघवमाह - यस्य वृद्धस्य अशीति वर्षाण्यतीतानि योऽपि वालः षोडशवर्षादूनकश्च ।
याश्च स्त्रियः ये च व्याधिपीडिताः ते च सर्वे स्नानुगुणात्प्रायश्चित्तादर्धमर्हन्ति ।
तत्राऽपि च तेषां परिक्लेशं ज्ञात्वा उक्तप्रायश्चित्तात्पादमात्रं कल्पयेत् ।
अक्षमेऽपि कर्तुं सुदुष्करञ्चेदन्यैः प्रायश्चित्तरूपो जपो द्विगुणः कार्यः ।
सर्वेषां देशकालादिभेदेन प्रायश्चित्तो वक्तव्यः ।
इत्यादेशमित्येकेन सुदुष्करदेशकालाद्यनुगुण्येन प्रायश्चित्तम् ।

प्।
१३८)

सुकरे यथोक्तम् ।
विशिष्टदेशकालयोस्तु पुण्यवृद्धिहेतुत्वात्तदनुगुण्येन पादादिन्यूनं प्रायश्चित्तमेव कार्यम् इति केचित् ।
शक्तिरत्र कायगता द्रव्यादिनिबन्धना वा ।
जातिभेदेन प्रायश्चित्तभेदोप्यस्ति ।
यद्वक्ष्यति -

पादहीनं भजेद्राजेत्यादिना ।
भक्तेः समुत्कर्षे लघुप्रायश्चित्तमपकर्षे गुरुः ।
वक्ष्यति -

बलानां वृधानामातुराणाञ्च पादतः ।
प्रायश्चित्तं प्रदातव्यं यदि भक्ता सदाशिवे ॥

इति ।

एवं कर्मप्यऽपि न्यूनमधिकं वा विचार्यतेषाऽयं ।
तत्रेतरकर्मानुष्ठाना(न)वसरे यथोक्तात्पादादिकान्यूनं प्रायश्चित्तं तदितरास्मिन् यथोक्तमेव प्रायश्चित्तं दद्यात् ।
द्विगुणमन्यत इत्येतद्विषय भेदेन नियम इति प्रायश्चित्त इत्येकेन ।
एतेन बहुतरप्रायश्चित्तेऽपि पित्रादिभिः विभज्य विधातव्यमिति सूच्यते ।
अन्यास्मिन् शास्त्रे दृष्टः प्रायश्चित्तस्य पापस्य श्रुत्यादिभ्योऽपि ज्ञात्वा प्रयश्चित्तं विधातव्यमित्याह - यथेत्येकेन

प्।
१३९)

स्वसिधान्ताविरोधेन वेदादिसामान्यशास्त्रेषु यद्यथा - श्रुतं तथा विधातव्यं ।
ततः श्रुतमपि स्वसिद्धान्तावि - रोधेन शिष्टाचारे यद्यथा दृष्टः तदपि तथाविध एव ।
तस्मिन्नप्यदृष्टं गुरुभिः स्वसिधान्ताविरोधेन यद्यथा निबन्धनं तत्तथा विधातव्यं ।
वेदादेरपि धर्मोपदेशे सामान्यशास्त्रत्वेनाभ्युपगमात् ।
यथोक्तं श्रीमोहशूरोत्तरे -

वेदस्मृतिपुराणाद्या आगमा धर्मदर्शकाः ।

इति ।

सामान्यञ्च विशेषञ्च शैवं वैशेषिकं वचः ।

इति च ।

श्रीमत्स्वायम्भुवेऽपि -

धर्मसाधनभूतसम्प्रवृत्तिराम्नायादेव जायते ।
? तन्मूलत्वात् स्मृतेश्चापि ताभ्यामेवापरस्य तु ।

इति ।

केचित्तु द्वयवचनं प्रायश्चित्तविषयतया व्याचक्षते ।
कथं स्वसिधान्ताविरोधेन सामान्यशास्त्रे शेषे पाययथा -

प्।
१४०)






श्रुत्यादनुष्ठेयं तद्विलङ्घ्य विलङ्घ्नम् ।

इति ।
क्रमणं भवेत् ।
नेतरयेति ।
साधकस्य निशायां वर्ज्यावर्ज्यपूजाविशेषकथनपूर्वं प्रतिष्ठितकरणे प्रायश्चित्तमाचष्टे ।
रात्राविति सार्धेन ।
अत्र बुभुक्षुरिति लोकधर्मिणी भेदभिन्नाया भौतिकदीक्षातो गृहस्थ विरक्तभेदेन द्विविधः साधको विवक्षितः ।
इति ।
सिधसमीहित इति लिङ्गाग्निर्विधीयते तनुः नैष्ठिकदीक्षया दीक्षितो गृहस्थोऽपि तस्य देहान्तरे महत्कर्मफलव्यतिरेकेण दीक्षा साध्यभोगानभिलाषेण यदीयदेहपातानन्तरं मोक्षेच्छया बुभुक्षुत्वायोगात् ।
ऐहिकभोगेच्छायोगस्य देहारम्भकर्माधीनत्वेन व्रतिनोऽपि समानत्वात् इत्यादि श्रीमन्मृगेन्द्रे स्वायम्भुवव्रादौ द्विशति पञ्चिकायां ब्रह्मशम्भुपद्धतौ च द्रष्टव्यं ।
चन्द्रोपरागस्सोमग्रहणं एतदुपलक्षणं सङ्क्रान्त्यादेरपि ।
तथाचोक्तं श्रीमत्कालोत्तरे -

त्रिकालपूजनं येषां तेषां सार्धार्कमण्डले ।

प्।
१४१)

प्ररब्धाअत्तु भवेत्पूजा यावत्स्याद्घटिकात्रयम् ।
तदूर्ध्वेनैव कुर्वीत विनेन्दुग्रहसङ्क्रमैः ॥



ंअन्त्रा सायं काले च कृष्णाष्टम्यामि पर्वसु ।
शिवरात्रिव्रते चैव रात्रौ पूजा न दोषदा ॥

सिद्धिसमीहितं सिद्धिरभिलाष इति यावत् ।
पूजा हि प्रतिदिवसं कर्तव्या काम्यानि निमित्तकर्तव्या चेति प्रकारात्तत्र कामना निमित्तापि दिवसरात्र्युभयनिमितायत्तत्वे त्रिप्रकारा एव विहिताञ्च पूजाम् ।
तथा भूतं दानञ्च विघ्नायान्यानि पूजादानादि बुभुक्षुः परिवर्जयेदित्यर्थोऽपगन्तव्यः ।
अत एव मुमुक्षोस्सर्वदा शिवपूजा नवार्यत इति सर्वग्रहणं कृतं ।
अन्यथा बुभुक्षोः निशायां नित्यपूजायापि निषेधविधिविवक्षया मुमुक्षोस्सर्वदा नवार्यत इत्येवं वक्तव्यं ।
किञ्च रात्रौ तन्नित्यपूजाया अपि निषेधपक्षे अर्धरात्रिपूजां विधायकशास्त्रविरोधश्च प्रसज्यते ।
तदुक्तं श्रीमन्मृगेन्द्रे - साधकाचार्यौ द्वौ -

प्।
१४२)

समुत्थायार्धरात्रौ कुर्यात्पूजाजपादिकं ।
ततश्च सवने ब्राह्म्ये सन्ध्यासन्ध्याहरेत्तमः ॥

इति ।

निश्वासकारिकायाञ्च -

एककालं द्विकालं वा * * * * र्द्धरात्रकम् ।
पूजयीत ततश्शम्भुं नित्यमेव गृही तथा ॥

इति ।

अस्यां सोमशम्भुपद्धतावपि -

सन्ध्या शिवार्चनं कुर्यान्निशीथेऽपि यथा पुरा ॥

इति ।

ब्रह्मशम्भुपद्धत्यामपि - दिवासम्पूत

दिवासम्पूततोयेन निशायामखिलां क्रियाम् ।
कुर्यादशङ्कितो विद्वान् असंस्पृष्टेन केचित् ॥

इति ।

विमलशिवपद्धतौ च -

प्।
१४३)

घण्टाघटीत्रिकाख्येषु यतिश्शान्तिमतिस्सदा ।
तद्भावभावनायुक्तो योगनिद्राविधानवित् ॥

शय्यायान्तु गृहस्थेऽपि स्पेद्वाधिगृहे सुखम् ।
अथार्धरात्रे पूर्वोक्तां साधनः सकलां क्रियाम् ॥

दिवा सम्भूततोयाद्यैः कुर्यात्पूजां यथाविधिः ।

इति ।
अपि च -

द्रव्यराजभयादिना यावदसमयकृते स्वेष्टलिङ्गपूजनस्य रात्रावपि सपर्यानिषेधो तल्लिङ्गमकृतसमानाया न देवस्यादिति महाद्रोह आपद्यते ।

बुभुक्षूणां प्रथमत्वेन प्रसिद्धानां महीपतीनामभ्युदयाय तद्भवनेषु सत्सु शिवालयेषु गृहस्थेनैव बहुबिभवसाधनायाः पूजायामाह - निशायां दर्शनान्महाजनानुष्ठानविधिश्च प्रसज्यते ।
अतो बुभुक्षोः प्रायश्चित्तनिमित्तसिद्धिनिमित्ततया यदि वा पूजाश्चेति द्वे एव पूजानिषिद्धे नान्या इति मन्तव्यं ।
नन्वेवञ्चेत् सार्द्धार्कमण्डले -

प्रारब्धा तु भवेत्पूजा यावत्स्याद्घटिकात्रयं

प्।
१४४)

तदूर्ध्वे नैव कुर्वीत तस्य प्राक्दर्शितज्ञापकवचनस्य कथं निर्वाहः ।
विषयभेदेनेति ब्रूमः ।
तथाहि -

त्रिकालपूजनमिति लिङ्गात् प्रातरादिषु त्रिषु कालेष्वेव पूजां कुर्म इति येषां तेषामेवायं नियमः ।
न चतुर्षु कालेष्वेवार्चनामपि नार्चयित्वा ।

इति श्रीमतङ्गाद्युक्तये॥




ंअवतां सकृदाराधनकानां प्रोक्तागमयुक्तिविरोधात् सर्वशिवागमाविरोधेन व्याख्या नस्यावश्यं भावित्वाच्च ।
तथा चोक्तं श्रीमन्मतङ्गे -

यदस्तु शक्यते नेतुं तत्तथैव विचार्यतु ।
यथाविरोधतस्सर्वं याति तन्त्रं शिवात्मकम् ॥

तथा चार्येण वक्तव्यं नान्यथा मुनिपुङ्गव ।

इति ।

अत्र प्रमादो देवराजभयादीनीत्युक्तं प्रागेव ।
गायत्र्याष्टशतं गायत्र्याष्टधिकं शतं गृहस्थविरक्तभेदभिन्नस्यनैष्ठिकदीक्षा दीक्षितस्य एतन्नियमो नास्तीत्याह - मुमुक्षोरित्यर्धेन ।

प्।
१४५)

सन्ध्यालोपे प्रायश्चित्तमाह ।
सकृदित्येकेन अजातमिति सद्योजातम् ।
अर्चनालोपेप्याह - ये कालेत्येकेन ।
दक्षिणं अघोरं ।
पूर्वोक्तं अकामात्तु सकामास्येत्यादिनोक्तमिति यावत् ।

त्रिचतुष्कालार्चकानान्तु द्वित्रिकाललोप एकद्विशताधिकं दक्षिणसहस्रकमेवेति त्रिशतोत्तरयेति वक्ष्यमाणलिङ्गान्निश्चीयत इति गुरवः ।
सर्वेषां दिवसलोपे प्रायश्चित्तमाह - एककालमित्येकेन अर्धरात्रकं ।
अर्धरात्रावधि चतुष्कालमित्यर्थः ।
सार्द्धरात्रमिति वा पाथः ।
एककालार्चा नियमात् एतत्सर्वकालविषयम् ।
(कामतस्तुवद्भिः स्वस्वनियममिति) सकलार्चनकर्मलोपे कृते सति उपवाससमोपेतत्रिशताधिक दक्षिणसहस्रं जपेदित्यर्थः ।
नन्वेवं एककालार्चकाद्विकालाद्यर्चक स दैवसिककर्मलोपे को विशेषः ।
न कश्चिदित्याह - त्रिकालमित्येकेन ।
सन्ध्यार्चनं चतुष्कालावश्यकार्यत्वात् सङ्क्षेपस्येच्छु नामेतस्मिन् काल इतरकालोद्देशेनाष्टपुष्पिकामात्रदर्शनेनैव तत्तत्कालार्चनानां सम्पादनादैककालत्रिकालार्चनयोः प्रायश्चित्तसाम्यमिति भावः ।

प्।
१४६)

तथा चोक्तं -

एककालार्चने लुप्ते सहस्रं दक्षिणं जपेत् ।
एवं द्विकाललोपादौ वर्धयेत शतं शतम् ॥

एकाहपूजालोपेन सहस्रत्रिशतोत्तरं ।
उपवासेन संयुक्तं कामतो द्विगुणं त्विदम् ॥

चतुष्कालार्चनं येषामेककालमथापि वा ।
प्रायश्चित्तं समं तेषां नन्न्यूनं नाधिकं भवेत् ॥

अष्टपुष्पादिदानेन द्विकालमर्चनाविधिः ।
अन्तर्भाव्यकृतो यस्मादेककालार्चनैरपि ॥

इति ।

तत्रैककालार्चनं मुख्यं मध्यन्दिन एव कार्यम् ।
तस्यैव मुख्यत्वश्रुतेः ।
दिनार्द्धे सवने गत इव क्रम्य

सर्वमन्त्रमुखे पुण्ये परमेशाधिदैवते ।
तदन्निर्वर्त्य योऽश्नाति सवनं सुरपूजितम् ।
तद्विरामं विनाख्यातं जन्तुमृत्यौ च वा * सौ ॥

मन्त्रास्त्वन्नधितिष्ठन्ति योगपीठव्यवस्थिताः ।

इति ।

प्।
१४७)

मध्यान्तदिनार्चनस्य वैरादिजातिवशेन कर्तुमशक्तो यथासम्भवमितरस्मिन्नपि काले सर्वकालोद्देशेनार्चनं कृत्वैव भोजनं कार्यमन्यथा यथोक्तं प्रायश्चित्तं कार्यमिति गुरवः ।

द्वारपालादिपूजानामात्मशुद्धीनामावाहनादिसंस्काराणामु- पचाराणाञ्च पवित्रारोपणादेश्चण्डेश्वरविद्यागुरुपूजानाञ्चान्यतमस्याकरणे प्रायश्चित्तं तत्सङ्ग्रहे प्रोक्तमस्माभिः ततोऽवधेयं ।
द्वितीयदिवसादिवर्षावधिपूजालोपे प्रायश्चित्तं द्वितीयमिति द्वयेन ।
अत्र शतोत्तरमघोरसहस्रकं प्रतिदिनस्त्रिक्ष्मे? शतोत्तरवृद्ध्या वर्द्धि ।
पञ्चादश (तं) दिवसो ॥



ञ्चभिः शतैः कृतमयुतद्वयं स्या॥

डष्टम्यादि त्रिपर्वलोपे शान्तयेति शतैः सहायुतद्वयञ्च जपेदित्याशयः ।
एवमस्मिन्पक्षेऽपीति ।
तदुक्तं श्रीकालोत्तरे -

पक्षैकलोपतो वत्स द्व्ययुतं दक्षिणं जपेत् ।
द्विगुणं मासलोपे तु द्व्ययुतं वर्धयेत्ततः ॥

मासि मासि महासेन यावत्संवत्सरावधि ।

अतः एकस्मिन्मासे युत चतुष्टयं तत ऊर्ध्वं मासद्वययुतवृद्ध्या

प्।
१४८)

वत्सराच्च लोपे सप्तलक्षाणी जपेत् ।
द्विगुणमिति प्रागेवोक्तं इष्टलिङ्गपरिभ्रंशादौ प्रायश्चित्तं स्वेष्टलिङ्गमिति द्वयेन ।
परिभ्रष्टे वे?शक्षोभादौ रक्षार्थं स्थापितप्रदेशानवबोधेन ।
नष्टे दारुशिलेष्टकादि पतनादिना ध्वंसे वा ।
दग्ध इत्यत्र सर्वात्मना दाहोऽपि विवक्षितः ।
इतरस्य वक्ष्यमाणत्वात् ।
हृते चोरैरपहृते ।
कौलेयस्सारमेयः ।
पिण्डिकायां यथासम्भवप्रोक्तदोषयोर्लिङ्गशुद्धिः ।
लिङ्गस्य लुठनादौ प्रायश्चित्तं सहस्रादित्येकेन - लुठित इत्यत्र सकृदिति पदं सर्वत्राघोरस्य पाठादिति पदद्वयञ्चाध्याहार्यम् ।
लुठनमेकपार्श्वेन निवेशः कम्पो वा परिवर्तनं सर्वतो भ्रमणम् ।
ऊर्ध्वाधो विपर्ययेण निवेशो वा ।
श्वभ्रच्यते बहुशो लुठनपरिवर्तनादिना अष्टबन्धजरणाद्वा पीठश्वभ्रच्युते गलिते अभिघाते प्रायश्चित्तं गड्डुकेत्येकेन आदिग्रहणाच्छङ्गादिलिङ्गस्य ।
हस्तादूर्ध्वपतने प्रायश्चित्तम् ।
साधारण इत्येकेन ।
आधारो लोहकाष्ठादिकृतं लिङ्गस्य निवेशनाधिकरणम् ।
पर्यङ्कविषये प्रायश्चित्तमेतत् ।

प्।
१४९)

व्यङ्ग्यस्य विषयस्य वक्ष्यमाणत्वात् ।
तालोऽत्र द्विदशाङ्गुलन्यूनाधिककल्पनाप्रकारोऽन्यत्राप्युक्तम् ।
यथा हस्तादेः पतिते लिङ्गे अङ्गुलादङ्गुलेऽङ्गुले वृद्धे सहस्रं प्रदद्यात् ।
सहस्रात्प्रभृति क्रमात् ।
इति तालादुपरि द्वितीयतालान्तमध्ये अङ्गुलेऽङ्गुले वृद्धिरप्येवं सङ्कल्प्यात्र कामसकामभेदः प्राग्वद्द्रष्टव्यम् ।

अत्र जपारम्भे पञ्चगव्यादि स्नपनपूर्वं विशेषपूजा कार्येति गुरवः ।
लिङ्गस्य विसरणे प्रायश्चित्तमाह अकामत इति त्रिभिः ।
अस्येति प्रायश्चित्तं तदा नाहि तस्य वाक्यस्य एषोऽर्थो मन्तव्यः इत्यर्थः ।
शलाकाया लिङ्गस्य ।
प्रमादः अनवधानम् ।
अतः अघोरस्यैव महापातकनाशनकत्वात् स एव जप्तव्यः ।
त्रिगुण इति - प्रागौक्ततालादि सङ्ख्यान सिद्धमाना त्रिगुण इत्यर्थः ।
केचित्तु लिङ्गद्रोहप्रायश्चित्तत्वेन प्रागुक्ताल्लक्षसङ्ख्यातस्त्रिगुण इति वदन्ति ।
अत्र जपानन्तरं ।
लिङ्गान्तरस्योपादानं शिवाय सर्वस्वादनं च कार्यमिति गुरवः ।
यथोक्तं तद्ब्रह्मकालोत्तरे -

प्।
१५०)

लिङ्गं हित्वा गुरं हत्वा जपेद्घोरं त्रिलक्षकम् ।
पञ्चाग्निमध्यगो भुत्वा तद्दशांशं तु होमयेत् ॥

ततः संस्थापयेल्लिङ्गं तन्मयं तत्प्रमाणतः ।
दत्वा शिवाय सर्वस्वं तस्मात्पापात्प्रमुच्यते ॥

इति ।

कामतो लिङ्गविशरणे निस्कृतिर्नास्तीत्येतत् ।
समित्येकेन लिङ्गस्य पादस्पर्शादेः प्रायश्चित्तं लिङ्ग इत्यर्थेन ।
श्लेष्माद्युपगतौ प्रायश्चित्तौ श्लेष्मणेति त्रिभिः श्लेष्मवारिणा मुत्रोदकेन तत्संयुक्तोदकं स्पर्शादित्यत्र मुत्राव्यतिरिक्त संयोगाद्वा विवक्षितः ।
संयुक्त इति पूर्वमेवोक्तत्वात् ।
इदमयुतपञ्चकहीनं पञ्चशताधिकसप्तत्रिंशत्सहस्र मित्यर्थः ।

लिङ्गस्य निर्माल्यस्य भक्तादि पदेन प्रायश्चित्तमाह - शिवसंस्कार इति सार्धेन त्रयेण ।
नटकैवर्तकादिभिरित्यत्रादिशब्देन रजकचर्मकारादि प्रतिलोमग्रहणम् ।
काकादिवर्गेण काककमठादिवर्गेण ।
श्वपचादिभिरित्यादि

प्।
१५१)

शब्दात् सूतिकोदक्यादिभिः ।
बाणैरिति पञ्चसङ्ख्यैः ।
अत्र प्रागुक्तसर्वस्पर्शे यथानुगुणपञ्चगव्यमहास्नानसम्प्रोक्षणादिभिः लिङ्गशुद्धिपुरः परं विशेषपूजा कार्येति गुरवः ।
स्थिर बाणरत्नादिलिङ्गस्य देशक्षोभादौ संरक्षणार्थमुद्धरणे प्रायश्चितं लक्षमित्यर्धेन व्यङ्ग्यादिदोषसम्भवे प्रायश्चित्त वुङ्गितमिति द्वयेनाप्यङ्गतमङ्गमं गव्य तत्सञ्जातमस्येति व्यङ्गितं व्यङ्गत्वेऽपि दग्धावशिष्टाच्छाया कान्तिर्यस्य तत्तथा कान्तिहीनमिति यावत् ।
राजादिभिरित्यादिशब्देन मण्डलीकामात्यादीनां ग्रहणम् ।

अग्निविषये प्रायश्चित्तं निर्वाण इति द्वयेन नित्यपूजालोपवत् तस्मिन् इत्यत्रापि शिव इत्यध्याहार्यम् ।
सन्ध्यायाः कालातिक्रमेण कृतप्रायश्चिमाह - सन्ध्येत्येकेन ।
सन्ध्यात्रयपरिभ्रष्ट इत्यत्र परिभ्रंशः तत्कालत एव न तु कर्मतः तस्य पूर्वमेवोक्तत्वात् ।
यथोक्तं श्रीमन्मृगेन्द्रे -

सन्ध्याकाल परिभ्रंशे शिवैकादशिकां जपेत् ।

इति ।

प्।
१५२)

एतस्य सन्ध्यालोपेत्यस्यान्तरमेव वक्तुमुचितत्त्वेप्यत्र वचनं प्रातरादिकालनियमेन पूजानियममेव तावत्तत्कालभ्रंशेऽपि प्रायश्चित्तमेतदेवेति ज्ञापनाय गुरवः ।
स्नानहीनः वारुणस्नानहीनः अग्नये मन्त्रमानसानां रोगादावपि सुकरत्वात् ।
व्रताद्यकरणे विशिष्टदिवसेषु विशेषपूजा अकरणे च प्रायश्चित्तमाह - व्रतस्येति द्वयेन ।
अत्र व्रतं कृष्णाष्टम्यादि एकद्वित्रिदिनान्तरित भोजनादि च ।
तथाचोक्तं -

तच्चैकाहान्तरद्वित्र्यहपञ्चाहादि भोजनम् ।
कृच्छूचान्द्रायणादीनि व्रतमित्यभिधीयते ॥

इति ।

[क्रिया] देवमुद्दिश्य देवेन सह वा यात्रा ।
नियमस्तु शास्त्रान्तरेण स्वयं परिकल्पितः तैलाभ्यङ्गादि ताम्बूलादिवर्जनरूपः यावकाशनादिरूपो वा ।
अत्रोधाविति केचित् ।
एषामन्यतरस्य लोकादिना विलोपे सति गायत्र्याष्टशतं जपेत् ।
शुद्धिः स्यात्पुनस्तत्कर्तुं शक्तौ तत्करणञ्च

प्।
१५३)

चतुर्द"यादिष्वेव तल्लोपप्रायश्चित्तमेतदिति भेदः ।
पवित्राकरणे प्रायश्चित्तमाषाढमासेत्येकेन ।
अथार्घ्यपात्रादिविषये प्रायश्चित्तम् ।
अथेति षड्भिः पात्रे अर्घ्यपात्रेऽवि वर्तते परिलुठिते ।
लिङ्गोक्तपादतः लिङ्गापराय प्रायश्चित्ताच्चतुर्थांश एव तत्सामान्यातिदेश ऊर्ध्वन्तु तद्विशेषतः ।
सहस्रमित्यात्राघोरस्येत्यनुवर्तते ।
परिवर्तयेज्जपेत् ।

हस्तभृशात्तया शतं इति ।
प्राक्निर्दिष्टस्यायुततुर्यांशस्य बाधः ।
सर्वत्रसूत्रच्छेदो पादस्पर्शाद्युपहतौ ।
आगमवेदिननेति वाक्यलक्षणसिद्धन्यायेन ऊहापोहादिना आगमार्थविचारनिपुणे प्रायश्चित्तं विधावूहापोहज्ञानमवश्यं भावीत्याशयः ।
वीरदारुलोहादिनिर्मितम् ।
नित्यपूजालोपप्रायश्चित्तं विलोप इत्येकेन चतुर्गुणं इतरदिनलोपे प्रायश्चित्तच्चतुर्गुणं ।
पक्षलोपोऽन्तर्गतचतुर्दश्यादिलोपे ।
तदुक्तं -

दैद्यतजपेनैव शुद्धिः केवलचतुर्दश्यादि ।

प्।
१५४)

आदिशब्दात् पुष्पादि पटलिङ्गशङ्खार्घ्यपात्रादि ।
अथ शक्त्यतिशयेन प्रागुक्तं प्रायश्चित्तं लाघवं वालादीनामेवेति नियमयति बालेत्येकेन ।

यो यो धर्मः सुसारत्वादभेदयः पापमुद्गरैः ।

इति ।

योगिनां पापस्पर्शराहित्येऽपि लोकसंव्यवहारार्थं कार्यमित्याह - शिवेत्येकेन ।
च शब्दात् पुत्रिकादीनाञ्च नैवेद्यविषये प्रायश्चित्तां केशेत्येकेन सार्द्धेन नैवेद्य दर्शन इति दर्शनशब्दो निवेदनवाचि दर्शनेनैव तेषामभ्यवहारो यतः ।
तथोक्तं -

दृष्ट्या तृप्यन्ति देवता इति ।
दुष्टधूपदाने प्रायश्चित्तं प्राणीत्यर्धेन ।

पञ्चमस्य ईशानस्य परमस्तु शिवस्मृतः इति श्रुतेः पादेन गुर्वादि स्पर्शे प्रायश्चित्तं पादेनेत्येकेन ।
अत्र देव शब्देन गुर्वाद्यधिकरणदेवो विवक्षितः न तु लिङ्गम् ।
शिवाद्याज्ञाभङ्गे प्रायश्चित्तमाह -

प्।
१५५)

महेशेत्यर्धेन ।
अत्र अज्ञाननिवारणरूपा शिवस्वरूपा च विद्यात् ।
एतदुद्देशेनार्जितद्रव्यभक्षणे प्रायश्चित्तं एतदित्यर्धेन भक्षणञ्चात्रोपलक्षणम् ।
यथह - उपयोगस्य पादवर्जितम् ।
पादेन पञ्च्विंशत्या वर्जितं लक्षं जपेत् ।
निर्माल्यभक्षणादौ प्रायश्चित्तम् ।
निर्माल्यमिति त्रिभिः निर्माल्यभक्षण इति चण्डद्रव्यभक्षणे न तु बहिः क्षिप्तस्य प्रायश्चित्त गुरुत्वश्रुतेः ।
अत्र तु तद्भक्षणस्यासम्भाव्यत्वात् प्रायश्चित्तं नोक्तमाचार्यैः ।
न हि क्वचिदपि सम्भवति ।
भक्षणमन्धकूपादौ प्रक्षिप्तस्य देवोच्छिष्टादेरपि भक्षणे प्रायश्चित्तमेतदेवेति केचित् ।
अपरे तु प्रायेण तद्भक्षणस्यासम्भाव्यमानत्वात् प्रायश्चित्तं नोक्तमाचार्यैः ।
कदाचित्तत्सम्भवे तु शास्त्रोक्तं प्रायश्चित्तमाचरणीयमिति वदन्ति ।
तथोक्तं प्रायश्चित्तसमुच्चये -

देवस्वहरणे धीमान् तस्य हर्तुः प्रदापयेत् ।
तप्तकृच्छ्रन्तु यत्ख्यातं देवस्य पापनाशनम्॥

देवद्रव्यं यदुच्छिष्टं कामतोऽपहृतं यदि ।

प्।
१५६)

द्विलक्षं बहुरूपस्य जपेल्लक्षमकामतः ।
चतुः पञ्चगुणं तद्वद्दत्वा स्वं च विशुद्ध्यति ॥

भक्ष्यभोज्यान्नपानादि देवार्थे यत्प्रकल्पितम् ।
भुक्त्वाऽयुतमघोरस्य जपेद्द्रव्यन्तु तच्छिवे ॥

ताववेद्य शुद्धिः स्यात् देवोच्छिष्टं निवेदितम् ।
भुक्त्वा।
आर्धसहस्रन्तु प्रजपेद्ब्रह्मपञ्चकम् ।
चण्डद्रव्यन्तु तद्दत्तं भुक्त्वा सार्धायुतद्वयम् ॥

जपेदघोरमन्त्रस्य निर्माल्यं बहिरुज्झितं ।
समग्रं संहितालक्षं जपेन्निर्माल्यभोजने ॥

इति ।
दानेपीत्यर्थः ।
उपेक्षण इति ।
अयोग्यस्थानं प्रोक्षणं श्वकाकादिभक्षणेन ज्ञापनञ्च लङ्घनप्रायश्चित्तं देवसमं प्रायश्चित्तं चण्डद्रव्ये ।
मन्त्रमानसाग्नेयादन्यतमं स्नानं निवेदितविषये पेक्षणा कथनं देवस्वमिति सार्द्धद्वयेन ग्रामादीशस्येत्यादि शब्दादेर्दशविषयादि तथोक्तं -

देशविषयग्रामादि दासीधान्यचतुष्पदम् ।

इति ।

प्।
१५७)

शास्त्रालङ्कारलोहानि मणिरत्नानि यानि च ।
देवद्द्र्व्यसमुद्दिष्टं इति ।

एषां सर्वेषां निर्माल्याभिधानं वृद्धिरादौ ॥


यथा म्यालयते क्षीयते इति व्युत्पत्या यथाकथञ्चित चिरेणाचिरेणाम्लानाम्लानयोर्माल्यशब्दवाच्यत्वं ।
सोपतं ब्रह्मशम्भुपादैः -

नैवेद्यं गन्धपुष्पाद्यं द्रव्यं याज्यायते चिरात् ।
तन्माल्यमुपभुक्तञ्च निर्माल्यमभिधीयते ॥

इति ।

तत्वात् स्पर्श्नादोष इत्याह - पिण्डीत्यर्धेन उपलक्षणमेतत् ।
यन्त्रिकास्थितस्यापि तदुक्तं भोजदेवेन दिवसनिर्माल्यताऽनादिदोषफलमाह - क्रव्याद इति द्वयेन ।
क्रव्यादः सृकलः पिशाचो वा ।
सिद्धहानि सिद्धेर्भु सर्वदा ।

तस्माप्यकृतविधिः किञ्चित्कालं पिशाचवरराजः ।

प्।
१५८)

भ्राम्या विमलात्मासौ व्रजति समतां परेशेन ॥

इति गणनात् ।
प्रकसनां पवित्रीकृतशिवाग्निव्यतिरिक्ताग्नौ प्रक्षेपः ।
शबरः किरातः ।
निर्माल्येन तद्भोक्तृपुरुषेण च स्पृष्टस्य स्पर्शादौ प्रायश्चित्तं यदि यश्चतुर्थ्यांसवर्जितं कुर्यात् ।
सिद्धलिङ्गादि धाम सा विशेषमाह - अनुषङ्गेत्येकेन सिद्धैर्यः प्रतिष्ठितं सिधिप्रदं वा लिङ्गं सिद्धिलिङ्गं अनुषङ्गतः ततः तदुपचारणकरणप्रसङ्गत सुवस्त्रादौ प्रविष्टनिर्माल्यस्पर्शादिप्रायश्चित्त चतुर्थांशः ।
तत्र प्रायश्चित्तं किञ्चिन्नूनं प्रायश्चित्तमित्याह - गुरुपत्यादिद्वयेन गुरुपस्तकेति ।
अत्र गुरुशब्दः पङ्क्तिविषयः ।

गुरुपङ्क्तिनिर्माल्यन्नेऽथ जले क्षिपेत् ।

इति ।

पुस्तकशब्दोऽपि सिद्धान्तविषयः ।
शिवे घटितलिङ्गस्थे ।
रत्नहेमादिलिङ्गादावपि शिवे यथेत्यनुषङ्गः ।
क्वचिद्विषये निर्माल्यस्य प्रतिसम्माह पू ?

प्।
१५९)

तदुक्तं ब्रह्मशम्भुपादैः -

प्रतिमासु व्याख्याननिमित्तासु लकुलीश्वराद्यष्टाविंशतिमूर्तिष्वितियावत स्यात् निर्माल्यसाहचर्ये तत्पुष्पादीति तात्पर्यम् ।
सद्यः प्रतिष्थित इति सद्यशब्देन जीर्णोद्धारविषयः ।
पुनः प्रतिष्ठाप्यवर्तते ।
निर्माल्यादि निरस्तमाल्यादि आदिग्रहणान्नैवेद्य समालेपनादिना दूष्यत एतत् स्पर्शनलङ्घनादौ न दोषावहम् श्रीमन्मृगेन्द्रे -

मर्दने लङ्घने दाने पूर्वं चण्डेशकल्पनात् ।
नार्चारुढस्य दोषोऽस्ति नैवेद्यार्हस्य वस्तुनः ।

इति ।

एतद्दीक्षितानामुपयोगात्तु दीक्षितानां तेषां शिवाग्निगुरुनिवेदनवसिष्ठस्यैवाशनविधानात् ।
विपर्यये प्रायश्चित्तविधानम् ।
तथोक्तं -

यत्किञ्चित्स्वल्पमग्नीयान्नो दत्वा परमेष्ठिने ।
गुरुभ्यो वा प्रदानेन शिवस्याष्टशतं जपेत् ॥

इति ।

प्।
१६०)

एतदेवाह - पत्रमिति द्वयेन ।
अनिवेद्य न भुञ्जीतेत्यत्र स्वेष्टलिङ्गाग्निगुर्वधिकरणाय शिवायेत्यध्याहार्यम् ।
तन्निवेदनावशिओष्टमेव भुञ्जीतेत्याशयः ।
प्रतिष्ठोत्सवे प्रायश्चित्त देवतामित्येकेन तदाकारमकुर्वसु तटाकोद्यानप्रतिष्ठोत्सवेषु पुंसवादिभोजनेषु प्रायश्चित्त पुंसवन इत्येकेन ।
पुंसवन इत्युपलक्षणम् गर्भादानसीमन्तादेरपि चतुर्थ्यामिति व्याहारि विवाहदिवसं चतुर्थदिनोत्सवे द्वादशैकाह इति ।
सपिण्डिकरणदिवसे एकोद्दिष्टदिवसे चेत्यर्थः ।

गणान्नभोजने प्रायश्चित्तं गणान्नमित्येकेन ।
गणगणिकयोर्लक्षणमुक्तम् -

यस्तु जीवति चौर्येण गोसुवर्णापहारकः ।
ब्रह्मस्वं हरते यस्तु स विप्रो गण उच्यते ॥

इति ।

विप्र इत्युपलक्षणमन्येषामपि ।

मृते भर्त्तरि या नारी रहस्यं कुर्ते पतिम् ।
निस्सारयति या गर्भं गणिका चेति गीयते ॥

इति ।

प्।
१६१)

च शब्दाद्वानप्रस्थानात्स्थानौ ।
तदुक्तं -

द्वावेव श्रमिणौ भोज्यौ ब्रह्मचारी गृहीति च ।
अभोज्यमनयोरन्नं तथा चैवान्यलिङ्गिनाम् ॥

भोजकोशमाद्यन्नभोजने उपवासजपाप्यूहनीयाविति प्रथमन्दनोक्तम् ।
योन्नं नामन्त्रतो भुक्त इति पाठान्तरम् ।
तत्तु कृतामन्त्रिणस्य तद्भोजनवर्जनविषयम् ।
तत्राऽयमर्थः वै दीक्षितो दीक्षितस्यापि समयाचारयुक्तस्य वर्णान्तरस्यान्नभोजने शास्त्रीयक्रमेणामन्त्रितस्सन् प"चान्न भुङ्क्ते सजातीशविजातीद्यावेकस्मिन् प्रयोगे संयोज्य जप्त्वा विशुद्ध्यति ।
तथा चोक्तां -

आमन्त्रितो न भुङ्क्तेऽन्नं यस्य वर्णस्य वै द्विजः ।
तज्जातीशस्वजातीशौ जप्त्वा साष्टशतं शुचिः ॥

इति ।

क्षत्रियादीनां ब्रह्मणानामशने विशेषं दर्शयति ।
एक इत्यादिना ।
दिवसा उपोष्येति शेषः ।
तस्येति पूर्वोक्त प्रयोगस्यानुक्रमेण एकद्विशतादिक्रमेण ।

प्।
१६२)

शूद्रस्य क्षत्रियाग्नीवर्जिते ।
उपवासद्वये युक्ते शतद्वयजपाः सर्वेषाञ्च सुवर्णविषये स्वजातीशस्य साष्टशतं जपञ्च कार्य इत्यर्थः सिद्धम् ।
अजीर्णे तात्कालिकस्नानादिनिषेधं जीर्णे तत्करणं तस्य कालातिक्रम्य प्रायश्चित्तञ्चाहस्नानमित्येकेन ।
स्नानमित्युपलक्षणम् ।
स्थापनान्तरकार्यस्य स्नानान्तरकार्यस्य ध्यानस्य सन्ध्यावन्दनस्यापि स्नानादीनाञ्च वृते कमुपादानं तत्करणवेलायां जीर्णालिङ्गदर्शने तदादिक्रम्य कार्यमिति विशेषः ।
निर्माल्य भोजन इत्यपरे ।
पाकयज्ञादिषु भोजनं न दोषकारकमित्याह - पाकादित्येकेन ।
आदि शब्देन हविर्यज्ञसोमसंस्थानां ग्रहणम् ।
गोदानन्नाम ब्रह्मचारिभिरनुष्ठेयो व्रतविशेषः ।
व्रतमित्यत्र उपनयनमिति केचित् ।
चत्वारि वेदव्रतानीत्यन्ये ।
पाकयज्ञादिष्वन्नं भुक्त्वा न दूष्यत इति ।
तथा सा तथा साचारवर्णानां इत्युन्नयः ।
समान आचारो वर्णश्च येषामिति तद्विग्रहः ।
तदुक्तं ब्रह्मशम्भुपद्धतौ -

प्।
१६३)

पाकादिषु क्रतुष्वन्नं भोक्तव्यं पावनं यतः ।

इति ।

चौलेव्रते गोदाने विवाहे च दोषभाक् ।

इति च ।
अत एव -

पाकयज्ञे हविर्यज्ञे सोमयागे कृतां जपेत् ।

इति शास्त्रान्तरवचनम् ।
स्नानमिति गुरवः ।

असमाचारवर्णानां भोजने प्रायश्चित्तम् ।
य इति द्वयेन ।
यो दीक्षितः दीक्षितस्य समाचारयुक्तस्य वर्णान्तरस्य अन्नमामन्त्रितस्सन् भुङ्क्ते ।
स तज्जातीशौ कस्मिन् प्रयोगे संयोज्य जप्त्वा विशुद्ध्यति ।
अत्र सङ्ख्याया अभिधानं वक्ष्यमाणसाष्टसतमिति पदमाकर्षणीयम् ।
ब्राह्मणेन क्षत्रविट्च्छूद्रजातीमन्नभोजने तस्याशनस्य शुद्धये यथाक्रमं जपस्यानुक्रमेणेति एकशतादिक्रमेण एको द्वौ च त्रयश्च दिवसा उपोष्याश्च ।
अनेन न्यायेन क्षत्रियादेरेवेत्युपलक्षणम् ।
प्राङ्निषेधयोः पूजाहोमयोरपि उच्छिष्टयोरन्योन्यस्पर्शे प्रायश्चित्तम् ।

प्।
१६४)

दीक्षितेनेति षड्भिः ।
उच्छिष्ट स्पृष्ट इत्यनन्तरं भोज्यत्त्वेन्त्यध्वेत्यध्याहार्यम् ।
तदुक्तं श्रीमत्कालोत्तरे -

सर्वेषां तुल्यजातीनां उच्छिष्टस्पर्शने सति ।
त्यक्त्वा भोजनमाचम्य स्वजातीशशतञ्जपेत् ।

इति ।

स्नात्वेत्यत्राचम्य स्नात्वेत्यर्थञ्च या ।
समीप्ये दीक्षित इति समीपे भवस्सामीप्यः ब्राह्मणस्य क्षत्रियः क्षत्रियस्य वैश्यः वैश्यस्य शुद्रः इति यावत् ।
तद्वदिति अदीक्षित स्वजातिस्पर्शवत् स्नानपूर्वं शतद्वयमित्यर्थः ।
क्रमादिति चतुश्शतवृद्धिक्रमेण स्वजातीशौ ।
एतानीति बहुवचने ब्राह्मणस्य व्यवहितस्पर्शविषयतया कथितौ वैश्यशूद्रौ क्षत्रियस्य व्यवहितयोक्तं शूद्रञ्च परामृशति पूर्वोक्तद्विगुणमिति ।
ब्राह्मणो वैश्यशूद्रस्पर्शे चतुश्शतषडहोपवासपूर्वषडष्टशतं जपेत् ।
क्षत्रियस्य चतुरहोपवाअसस्पर्शे विषये प्रायश्चित्तमाह -

पादहीनं भवेदिति ।
ब्राह्मणस्य स्वजातिस्पर्शे

प्।
१६५)

दीक्षिता दीक्षिते शतद्विशतञ्च यत् प्रायश्चित्तमुक्तं क्षत्रियस्तु तथाविधब्राह्मणस्य स्पर्शे तत्पादोनञ्चरेदिति यथाक्रमं पञ्चसप्ततिं सार्धं शतञ्च जपेदित्यर्थः ।
एवं वैश्योऽपि तत्स्पर्शे तदर्धेन विवर्जितमिति शतार्धं वा शतं वा जपेत् ।
तदेवाह - ब्राह्मणस्य वर्णस्पर्शे यत्प्रायश्चित्तं तदेव शूद्रः तत्स्पर्शे पादत्रयोज्झितं यथाक्रमं पञ्चविंशति सङ्ख्यपञ्चाशत्सङ्ख्ये च जपेत् ।
अन्यत्राप्येवमिति वैश्यस्य क्षत्रियस्पर्शे क्षत्रियवैश्ययोस्स्वजातीयस्पर्शोक्तपादहीनम् ।
उच्छिष्टकालेऽन्त्यजचण्डालयोस्स्पर्शे प्रायश्चित्तं स्वजातीशनिमित्तद्वयेनान्त्ययोरजकादयः

रजकश्चर्मकारश्च नदो परद (टो द विरुद) एव च ।
कैवर्तो मेदभिल्लाश्च सप्तधा अन्त्यजा (व्रजा) स्मृताः ॥

इति ।

सकलं मलं पापं जातीशमन्त्रलक्षणं पुरुषे पूर्वं षट्शतं जपेदित्यर्थः ।
चतुर्णामपि वर्णानां वर्णस्य तदनन्तरतद्विहितस्य

प्।
१६६)

वर्णस्योच्छिष्टस्पर्शे प्रायश्चित्तमुक्त्वा क्षत्रियादीनां ब्राह्मणस्पर्शे इत्येकेन ।
अतः सद्योजात उच्छिष्टभक्षणे प्रायश्चित्तम् ।
उपवासमिति द्वयेन तद्वदिति उपवासं कुर्वीतेत्यर्थः ।
जपेदपीत्यत्र स्वजातीशमिति शेषः ।
भुक्त्वेत्येतत् ब्राह्मणस्य व्यवहितवर्णविषये च प्रायश्चित्तम् ।

क्षत्रियादेर्व्यवहितवर्णविषये उत्तमविषये च प्रायश्चित्तं तत्समुच्चये ग्राह्यम् ।
तथा चोक्तम् -

शूद्रस्योच्छिष्ट अग्राजा युतं द्विरूपोषितः ।
? सहस्रमर्धमर्द्धञ्च द्विजोच्छिष्टे त्रिभिर्मतः ॥

वैश्यसूद्रौ नृपोच्छिष्टे पादोनन्तु तदर्धकम् ।
वैश्योच्छिष्टे भ्वेच्छुद्रसपादोन सहस्रकम् ॥

इति ।

आशौचगृहभोजने प्रायश्चित्तं द्विधा इति द्वयेन ।
द्विधेति शवसूतिकानिमित्तभेदेन द्विप्रकारेण सूतके इत्यनेनाशौचं लक्ष्यते ।
जातमरणादिभेदेन वर्णभेदेन चाशौचकाला विधिरस्माभिः प्रायश्चित्तसङ्ग्रहे दर्शितत्वात् ।
नेह प्रतन्यते ।

प्।
१६७)

जननादिसम्भवेऽपि केषाञ्चिदाशौचं नास्तीत्याहकारुदासीत्येके ।
निर्वाणदीक्षितानां पृथक्पाकभुजामपि तथाविधानकृतकृत्य नित्यकर्मणां समयिनामपि प्रायश्चित्तं श्रीमत्किरणादौ द्रष्टव्यः ।

ब्रह्मपद्धतावपि अभक्ष्यभक्षणादौ प्रायश्चित्तं मत्स्येत्यादि त्रिभिः कर्कटकुलीर शम्बुकः जलशुक्ति ।
नखः क्षुद्रशङ्खः ।
तदुक्तं -

क्षुद्रशङ्खाः शङ्खनखाः शम्बुका जलशुक्तयः ।
कपर्दो वराटः नवाम्बुन् तनक्पादुद् ॥
?

भूतं ।
दशरात्रादर्वाक्कालिकं ॥







? अजा गावो महिष्यश्च ब्राह्मणीया प्रसूतिका ।
दशरात्रेण शुद्ध्यन्ति भूमिष्ठञ्च नवोदकम् ॥

इति ।

पीतशेषं स्वेन पीतावशिष्टं तत्साधनाष्टादिस्थम् ।
तोयं एकां रजनीमिति एकाहोरात्रमिति यावत् ।
भोजनकाले गुद्रस्रावे प्रायश्चित्तमाह - जेमदित्येकेन ।

प्।
१६८)

ज मज्जनमिति धातोः शत्रन्तस्य रूपं नमुचि मुची मज्झ अदने जमिनिति केचित् ।
तद्विदां वचनमिति ।
अथ यदा जेमत्तदेत्यध्याहार्यम् ।

गुदेन्द्रिय स्रा इत्यत्र इन्द्रियशब्देन गुप्तेन्द्रियं विवक्षितम् ।
अथेति स्रुवादनन्तरं शौचस्नाने शौचञ्च स्नानञ्चेति शौचस्नानेति ।
उभे कृत्वा द्विधा आचाममाचरेत् ।
तत्र शौचस्नानानन्तरमेवकमाचमनम् ।
पुनस्नानानन्तरं द्वितीयमाचमनमिति ।
स्नानस्यापि द्वैविध्यमर्थतास्सिद्धम् ।
तथा चोक्तं प्रायश्चित्तसमूच्चये -

भोजने तु गुदस्रावे योनिस्रावोऽथवा भवेत् ।
शौचं स्नानं तथाचामं पुनस्नात्वा समाचमेत् ॥

जप्त्वाऽघोरसहस्रन्तु दिनमेकमुपोषयेत् ।

इति ।

आचमनं विना तोयपानभक्षणादौ प्रायश्चित्तं अनाचान्त इत्येकेन ।
अघोरसहस्रमित्यतः सहस्रमनुवर्तनीयम् ।
एतदशुद्ध्यन्तसद्भावविषयमिति केचित् ।

प्।
१६९)

उपवीतधारणं विना पानभोजनयोः प्रायश्चित्तं विनेत्येकेन अत्रापि सहस्रपदमनुवर्तनीयम् ।
शय्यासनादिसाङ्कर्ये प्रायश्चित्तं सङ्करेष्वित्येकेन ।
सङ्करो नवविधीत्युक्तं प्रायश्चित्तसमूच्चये -

शय्यासनं पङ्क्तिभाण्डसहस्रपङ्क्त्यन्नमिश्रणम् ।
यजनं स्थापनं योनि तथा च सह भोजनम् ॥

नवधा शङ्करं प्रोक्त इति ।

अत्रातिलघुषु दशादिशतान्तं लघुषु द्वादशादि सहस्रान्तं गुरुतरेषु लक्षान्तं जप्त इति ।
प्रत्यहं संहिताध्ययने सर्वपापविशुद्धिरित्याह - अहनीत्यनेन ।
विधिशास्त्राध्ययनोक्तविधौ स्थिततदनतिक्रान्त इत्यर्थः ।
तद्विधिश्च श्रीमन्मतङ्गमृगेन्द्रादौ अवधेयः ।
यथा -

व्याकुर्यात् शिवभक्तेभ्यः तन्त्राप्यागतमत्सरम् ।
न्यायतो न्यायत्रतिभिः पालयन् गुरुसन्ततिम् ॥

राजीन्नाम्नरसोद्गारे न च विण्ंउत्रसाधने ।

प्।
१७०)

न चाद्यं नाति सारे पाने स्नातः कृतमैथुनः ।
पूते महीतले स्थित्वा पशुश्रवणवर्जिते ॥

परिध्यन्तस्थितं चेष्टं शिव नं प्रणवविग्रहम् गणाध्यक्षं गुरुञ्चैव कारकञ्च क्रियाश्रयम् ॥

पुस्तकं गुप्तसत्सूत्रं विधायोपरि कस्यचित् ।
ब्रूयादङ्गपलस्येति कृतपूजमुदङ्मुखः ॥

प्राङ्मुखो वाऽरभेद्द्वाभ्यां सम्बन्धोर्योक्तिपूर्वकाम् ।
स्रोतो ब्रूयादनुस्रोतो भेदात्सङ्ख्यानमेव च ॥

प्रवृत्तये गुरुस्वञ्च स्तेयी स्यात्तदकीर्तनात् ।
ब्रूते य एवं योऽधीते तावुभौ हतकल्मषौ ॥

लोके प्राप्तयशोदीप्तं विशेत्ताण्डवशाङ्करम् ।
अनध्याये स्वतन्त्रोक्तविधिना शृणुते मृषा ॥

शैवं वहन्निहाल्पायुः मृतिः प्रेतत्वमश्नुते ।
नाध्यापयेच्चतुर्दश्यां अष्टम्यां पक्षयोर्द्वयोः ॥

प्रतिपत्पञ्चदश्याञ्च चतुर्थ्यामर्कसङ्क्रमे ।

इत्यादि।

प्।
१७१)

कीलके च रवीन्दुस्थे त्र्यहं स्वर्भानुदर्शने ।
पञ्चरात्रं हरिमुखे पवित्रे च मदद्विषः ॥

विडालव्यालमेकेषु गतेष्वन्तरतो दिनम् ।

इति ।

सितजीर्णश्रुतौ दाहे शयभण्डे खरेऽनिले ।
गुरौ मांसं शिवीभूते दुत्यशिष्यादिके त्र्यहम् ॥

इत्यादि शिवसंहितायाम् ।
कामिकाद्यष्टविंशति संहितासु स्वस्वगुरुत्तमान्यतमाम् ।
तदुक्तम् -

श्रुताध्ययनयोः पूर्वमर्थी विज्ञापयेद्गुरुम् ।
व्याति यत्तच्छृणुयादधीयीत च पण्डितः ॥

इति ।

तथा श्रीमन्मृगेन्द्रेऽपि -

अधीत्य शृणुयाच्छास्त्रं गुरुतन्तौ गुरौ च सन् ।
त्यक्त्वाभिमानमात्सर्यं सम्भाव्यासनसन्ततिः ॥

इति ।

सर्वपापानि उक्तानुक्तनिष्।
कृतीनि सर्वाणि पापानि ।

प्।
१७२)

मन्त्रजपवत् संहिताध्ययनमपि सर्वपापविशोधनमित्यर्थः ।
तथा मतङ्गवृत्तौ -

क्षित्वेन लि * तं मन्त्राणामिव जपात् स्वाध्याध्ययनात्तथा ।
दुष्कृतेभ्यो विमुच्यन्ते कर्मणस्सुकृतादपि ॥

इति ।

एवं शिवधर्मोत्तरेऽपि अध्ययनादेः ज्ञानयज्ञान्तर्भावेन सर्वशोधकमुक्तं -

अध्यापनमध्ययनं व्याख्याश्रवण चिन्तनम् ।

इति ।

पञ्च पञ्च प्रकारोऽयं ज्ञानयज्ञः प्रकीर्तितः ।
नास्ति ज्ञानादृते पुंसां पुण्यपापपरिक्षयः ॥

इति ।

मार्ज्यमानो यथा नित्यं दर्पणे निर्मलो भवेत् ।
ज्ञानाभ्यासात्तथा पुंसां बुद्धिर्भवति निर्मला ॥

इति ।

अन्यत्राप्युक्तम् -

ज्ञानाग्निसर्वकर्माणि भस्मसात्कुरु तेजसा ।

इति ।

प्।
१७३)

शिवसंहिता शिवैकादशिकेति तेषाञ्च कथितसामर्थ्यात्तद्गणनमिति गुरवः ।
जपसङ्ख्याया उपवासादि नियमविधानम् ।
उपवासेत्येकेन गड्डुकान् अभिषेककलशान् प्रायश्चित्तकरणे तत्समवाप्यकरणीयनियमान्तरविधानं भूशय इत्येकेन ।
पञ्चगव्यविधानं मध्येति नवभिः ।
अत्र यथोक्त एव क्रम इति केचित् ।
अर्थ इति गुरवः ॥

अत्र केचित् पात्रपूजयोराक्षिक क्रमोक्तत्वान्न विपर्यासः ।
द्रव्यनिवेशाभिमन्त्रिणे सृष्टिक्रमेण ईशानादिना संहारस्तु संहारक्रमेण सद्यादिना वा पूर्वं क्षिपेत् ।
इति गोमयाद्यभिमन्त्रयेत् इत्युक्तत्वात् ।
पूर्वं गोमयगोजलादि अग्रे यथा सर्वमुत्तरोत्तरे ।
कुशोदकं चित्रं पितुः शब्देन कोष्ठपात्रपूजा कार्या ।
नवकोष्ठेषु ईशानकोष्ठे प्रकृतितत्वविन्यासमिति प्रतिष्ठायां वक्ष्यति ।
पात्रञ्च शक्तिसञ्ज्ञमिति प्रतिष्ठाय द्रव्यविन्यस ।
ब्रह्मज ज्ञानरत्नावल्यामुक्तं -

ईशप्रकृतिकोष्ठे च पात्रेऽव्यक्ते कुशोदकम् ।

इति ।

प्।
१७४ )

मृगेन्द्रपद्धतावप्युक्तम् -

पञ्चगव्य देवताधिष्ठानात् पवित्रमित्युक्तम् ।
पञ्चगव्यञ्च धर्मेभ्यो विहितं द्रव्यचक्षुषा ।
पवित्रं त्रिषु लोकेषु देवताभिरधिष्ठितम् ॥

वरुणश्चैव गोमूत्रे गोमयो हव्यवाहनः ।
दग्धेन वायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ॥

इति ।

एतत्पञ्चगव्यविधानं प्रायश्चित्तविषये ब्रह्मकूर्चेप्यतिदिशति ।
तद्विशेषात् पञ्चगव्यं पञ्चाशत् ।
पञ्चगव्येति द्वयेन गुरुशास्त्रोक्तमेव प्रायश्चित्तं वदेदित्याह - यथेत्येकेन ।
क्रियाकाण्डेत्येकेन प्रायश्चित्तं उप्संहार इति ।

त्रिलोचनशिवाचार्यविरचितायां क्रियाकाण्डक्रमावल्लि(ल्यां)कायां प्रायश्चित्तविधिः समाप्तः ॥

प्।
१७५)

अथेत्यादि दीक्षामाह -

अथात इति दीक्षानन्तरं पूर्वोक्तवन्नित्यादिकमनुष्ठेयं यतः अतो हेतोः दीक्षारूपनिरूपणम् ।
दीक्षाया स्वरूपं दीक्षाशब्दनिर्वचनं तस्या योग्यनिरूपणं भेदनिरूपणं कर्तृनिरूपणञ्च यथा तथा आगमार्थानतिक्रमेण आगमानां बहुत्वेऽपि कर्तव्यः स्वगुरुक्रम इति वचनात् स्वसन्तानिकानामनुष्ठानक्रमविधिरूपत्वात् पद्धतेः उद्दिष्टक्रमेणाह - मलमायादित्यादि ज्ञनञ्च ।
जन्मन इति ज्ञस्वभाव इति साङ्ख्यैरुक्त्वात्

ज्ञानस्वरूपं चैतन्यं दृक्क्रियारूप ततस्त्वात्मनि सर्व्दा इति श्रुतेः ।
शिवतत्वमभिव्यज्यते ।
तदुक्तं पराख्ये -

शिवस्य दीक्षा प्रथितः क्षपणं पाशसन्ततेः ।
तेन दिक्षा समाख्याता तदानात्क्षपणस्थिता ॥

इति ।

विज्ञानकलानामेक इति एको वर्ग इति शेषः ।

प्।
१७६)

निरधिकरण साधारा साधिकरणाद्वयोस्तेषां तेति ।
विज्ञानकलानामेको वर्ग इति शेषः ।
निराधारा निरधिकरणा साधारा साधिकरणा द्वयोस्स बीजा चैव शक्तानां तथोक्तं -

बालादीनाञ्च निर्बीजा समयाचारवर्जिता ।
सार्व आचार्यपदके योग्यं योजयित्वा परे पदे ॥
साधिकारपदे प"चात् भोगं तस्य प्रकल्पयेत् ।

शतहे साधकाभिषेकं वक्षति ।
मुमुक्षोरिव संशोध्येत्यादिना ।
इत्थमिति पूर्वोक्तनयेन पूर्वाधिकरण॥

ऌआद्यप्रभृति त्त्वया सुपरीक्ष्य विधातव्यमिति तेनाचार्येण सद्देशसम्भृतमिति ।
सदेशः पुण्यदेशः ।
तद्देशं याज्ञिकं विद्याद्यच्च वेदैरधिष्ठितं यत्र विप्रा सदाचारयतयश्च तपोधनाः सन्ति देवास्तथा वेदाः * * * *? युते? स्मृतः? पुण्यके निर्मुक्ताः प्रसङ्गात्सोऽपि कथ्यते ।

कर्णाटककलिङ्गाख्यः कञ्चकर्ज्जिरसञ्ज्ञकौ ।
कोङ्कणः करहाटश्च कुटकः कोङ्क ईरिताः ॥

प्।
१७७)

हीनाङ्गोऽधिकाङ्गश्च नातिदीर्घो न वामनः ।
नाति * न गौरश्च नातिस्थूलो नचातनः ॥

न शिशुर्न्नाति जीर्णो नाग्रणी नाअति शीलवान् ।

इति ।

श्रुतं वाऽगमश्रवणं तथा चोक्तं -

शिवशास्त्रैकचित्तात्मा पशुशास्त्रपराङ्मुखः ।
ईहिता पारगो गुरुः इति ।

शीलश्चोक्तं -

शीलवानेष जानीयात् अनुकम्पापरो भृशम् ।

ज्ञानाचारगुणोपेत इति ।

ज्ञानं शिवस्य तत्वतो ज्ञानमिति ।

शिवसद्भावतत्वज्ञः स एव स्थापकस्मृतः ।

इति ।
रः ।
तथाचोक्तं -

शिवशास्त्रपरो नित्यं शिवपूजानितत्परः ।

प्।
१७८)

ऊर्ध्ववक्तोद्भवे शैवे सिद्धान्ते देशिकैः * * ॥

न कर्तव्यश्चेत्प्रमादादधो गच्छन्ति ।
गुणाश्च प्रोक्ताः शिवेन गुणास्थ्यं दया क्षान्तिरस्पृहार्म पक्षरः विषयैरदूषितः ।
अथातो भोगमोक्षार्थमित्यादि कथयतो नित्यदीक्षानन्तरं अतो हेतोः दीक्षारूपं कथं भूते कथं मतेयं दीक्षेति च निरूपणमियं कतिविधा कस्येयमिति चाभिधीयते ।

अथ तयोर्मध्ये दीक्षायारूपमाह - मलमायादिपाशानामित्यादि तच्च स्पष्तम् ।
अथ निरूपणं तत्र वातादनुग्राह्यविषयीभूतमात्मानं आह - विज्ञानकलानामित्यादि ।

तत्र त्रयाणां मध्ये आद्यः विज्ञानकलानाममलमात्रेण युक्त इति जातावेकवचनम् ।
तस्यानेकतत्त्वात् ।
तदुच्यते -

मा शुद्धविध्योर्मध्ये मलेन दूषिता विज्ञानकला मानिनः प्राणिणो सङ्ख्यातसन्धि ? उक्तञ्च -

मायोर्द्धं शुद्धविद्याधो मलेनाशु तिरस्कृताम् ।
स कैवलिन इति ।
अन्यो मलकर्मभिरिति ।
स ह्वय - वचनेन मलमायाकर्मभिर्युक्तस्सन प्रलयाकल इत्युच्यते ।

प्।
१७९)

मलदूषितानां विज्ञानकलानां मध्ये केषां कदाचिन्मायायामवस्थानं भवति ।
तेषां कर्मप्रवृत्तिरपि स्यादिति भावः ।
सकलानामपि महाप्रलयकाले मायायामवसानं भवति चेत् ते च प्रलयकेवलिन इत्युच्यन्ते ।
एवं पुनस्तेषां प्रलयाकलानां मध्ये केचित् ।
केचित्कलादि भूमिपर्यन्ततत्त्वैर्युक्तास्सन्तः ते सकला इत्युच्यन्ते ।
तथाचोक्तं -

आत्माह्यनेकधा प्रोक्तः तत्राद्यः सकलो मतः ।
माया कर्ममलोपेतः कलाद्यवनि गोचरः ॥

कर्माशुद्धियुतश्चान्यो मायायां प्रलयाकलः ।
मायोर्द्धं शुद्धविद्यास्थो मलमात्रावृतोऽवरः ॥

विज्ञान कल इति स्थितः यदुक्तं अन्यत्रापि -

आत्मनो बहवस्सन्ति चिद्रूपमलदूषिताः ।
ताम्रकलमवज्ञेयो मलोऽज्ञानावरोधकः ॥

सहजस्सर्वजन्तूनां तद्धि भोक्तृत्वकारणम् ।
सदा तेनास्य भोगाय शरीरेन्द्रियकारणम् ।
माया संवद्ध्यते पश्चात् सुखदुःखैककारणम् ।

प्।
१८०)

कर्मसम्बन्धमायाति मायी यश्च कलादिकम् ।
सकार्यकारणत्वेन भोगज्ञानाय बध्यते ॥

त्रयावस्थात्मका जीवास्सर्वे कालक्रमेण वै ।
मायोर्द्धं प्रागवस्थायां मायायान्तु द्वि * यं ॥

तृतीया कलादौ तु स्थितिरेषां प्रकीर्तिताः ॥

इति ।

अयं दीक्षानिरूपणायाह - निराधारादि तेषां निरूपणायाह - निराधारेत्यादि ।
तेषां त्रयाणां मध्ये द्वयोः विज्ञान - कलाप्रलयाकलयोर्निरधिकरणे शिवेन तीव्रशक्तिनिपातेन क्रियते ।
या सा निराधारा भवति ।
तथा दीक्षिताश्च सद्यः शिवा वा विद्येश्वरा मन्त्रेश्वरा भवन्ति ।
तथा चोक्तं -

यान्विमोचयति स्वापे शिवास्सद्यो भवन्ति ते ।
संहृतौ वा समुद्भूता वाणवः पतयोऽथवा ॥

इति ।

अस्याप्ययमर्थः ।
शिवस्वापे मोहकाले यतो विज्ञानकलप्रलयाकलावस्थायामात्मनो ज्ञानशुन्या अवस्थामतस्स्यादित्यर्थः ।

प्।
१८१)

तदा यान् अनुगृह्णाति ते सद्यः तत्क्षणमेव शिवा भवन्ति ।
ततस्संहृतौ सकलानां संहारे वा समुद्भूतौ प्रलयाकलानां सृष्टिकाले कलाद्यनुबन्धनकाले वा यतस्तदेव तेषां सृष्ठिरतस्तदा याननुगृह्णाति ।
ते ह्यणवो मन्त्रेश्वरा पतयो विद्येश्वरा वा भवन्तीत्यर्थः ।
अथाचार्यमूर्तिमास्थाय शम्भुमहेश्वरशक्त्या कथं भूतया अतितीव्रदीप्तिभेदया मन्दमन्दतरतीव्रतीव्रतरया सकलस्य या दीक्षा कुरुते सा साधिकरणोच्यते ।
योगानुसारान् मन्दादिशक्तिं स्वेच्छाख्यां निपत्याय तदभिव्यक्तये दीक्षां करोतीति भावः ।
तथा चोक्तं -

ततः प्रभृति मुक्तोऽसौ यदाहृतशिवेच्छया ।
किन्तु दीक्षादिभिर्लिङ्गैः न विनाज्ञायते तु सः ॥

येषां शरीरिणां शक्तिः पतत्यपि निवृत्तये ।
तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवास्थितौ ॥

भक्तिञ्च शिवभक्तेषु श्रद्धा तच्छाशके विधौ ।
अनेनानुमिताश्शिष्टो हेतो स्थूलधियामपि ॥

प्।
१८२)

ईषदर्धन्निवृत्ते तु रोधकत्वे तमः पतेः ।
भवन्त्येतानिलिङ्गानि किञ्चिच्छिष्टे च देहिनाम् ।
चतूर्थशक्तिपातेन तुल्येनैव फलं प्रति ॥

सद्यो मूर्ता मूर्छया वा कम्पाद्रोमाञ्चतस्तथा ॥

इति ।

अस्याप्ययमर्थः ।
असौ सकलाश्शिवे दयायादाघ्रातस्ततः प्रभृति तत्कालमारभ्य मुक्तः ।
कुन्तु स मुक्त इति दीक्षादि लिङ्गैर्विना ज्ञायते तथा तदर्थमाह - येषां तावदशरीरिणां विज्ञानकलप्रलयाकलानां शक्तिपातस्य गुरुभिरलक्ष्यत्वात् ।
येषां शरीरिणां सकलानां शक्तिः परमेश्वरी पतति अविनिवृत्तये ।
न - पुनराविर्भावाय पतति तेषं तत्पातितमुक्तावौत्सुक्यं ।
उत्कण्ठता भवत्स्थितौ ।
संसारद्वेषः शिवभक्तेषु भक्तिः तच्छाशके विधौ शिवशास्त्रार्थे श्रद्धा चेत्येतत् लिङ्गचिह्नम अनेन चिह्नेन विशिष्टस्य संस्कारास्थितिः हेतोः

प्।
१८३)

पाशजालस्य स्थूलधिया मन्दबुद्धीनामपि अनुमितिरि अनुमानं पूर्वोक्तानां चिह्नानां उदकत्वे सति अनोः पाशशैथिल्यप्रकर्षताञ्च तेषां चिह्नानां मन्दत्वे सति अणोः पाशशैथिल्यान्तञ्च मन्दत(मत)योप्यनुमिन्यन्तीति भावः ।

अथ तदैतानि लिङ्गानि स्फुरन्तीत्यत्राह - तमः पतेरित्यादि ।
तमः पतेर्वा देवनाथस्य श्रेयो बृन्दनिरोद्धुः यद्रोधकत्वं तस्मिन् किञ्चिन्निवृत्ते अर्द्धनिवृत्ते वा किञ्चिच्छेदे किञ्चिदवशिष्टे फलं प्रति तुल्येनैव चतुर्थ शक्तिपातेन देहिनामेतानि लिङ्गानि भवन्ति ।
अथ कं विशिष्टोऽयं चतुर्थशक्तिपातः ।
अथ तस्य सफलं प्रति लिङ्गमित्यत्राह - तीव्रता इत्याह ।
तत्र तीव्रतरेण सद्योमूर्तिः तीव्रेण मूर्च्छामन्देन कम्पः ।
मन्दतरेण रोमाञ्चकमित्येतत् चिह्नतारतम्यं भवन्तीत्यर्थः ।

स्थितावेतच्छक्तिपाताच्छक्तिपाततारतम्यतो देशिकमूर्तिमास्थाय यदि शिवो याननुगृह्णाति ते रुद्राणां मन्त्रेश्वराणां शिवस्य च भजन्तीति क्वचित् साधिकारा

प्।
१८४)

निरधिकारा चेति ।
तथा चोक्तं

रुद्रमन्त्रपतीशानपदभाजो भवन्ति ते ।
स्थितौ याननुगृह्णाति गुरुमास्थाय चिद्वद ॥

इति ।

पुनः पीयसा या दीक्षैव स बीजा निर्बीजा साधिकारा निरधिकारा चेति चतुर्विधा प्रोक्ता ।
तत्र तावत्समयाचारसंयुक्ता या सा स बीजा ।
सा च द्विविधा शिवधर्मिणी लोकधर्मिणी च ।
तत्र तावच्छिव धर्मिणी शिखायाच्छेदसहिता ।
सा च द्विविधा नैष्ठिकी भौतिकी चेति ।
तावन्नैष्ठिकी निरवधिः ।
द्वितीया कतिपयदिनव्रतपरिपालनानन्तरं गृहपददायिनी ।
तथा चोक्तं -

नैष्ठिकी देहपातान्ता भौतिकी व्रतमोक्षदा ।

इति ।

अथान्या लोकधर्मिणी शिखाच्छेअनरहिता ।
सा च द्विविधा भुवना तत्पदप्राप्तिनिमित्ता चेति ।
तथाचोक्तं -

स बीजा चैव शाक्तानां समयाचारसंयुता ।

प्।
१८५)

शिखाच्छेदसमायुक्ता दीक्षा सा शिवधर्मिणी ॥

शिखाच्छेदं विना यत्र ज्ञेया सालोकधर्मिणी ।
शिवधर्मिणमाशोध्य योजयेत्परमे पदे ॥

देहपातेन मोक्षस्स्यात् समयाचारपालनात् ।

इति ।

लोकधर्मिणारोप्य पदे भुवनकर्तरिक्त धर्म साधनं कुर्याच्छिवे वा मुक्तिकाङ्क्षिणं ।
तत्ते सदाशिवभोगे लयस्ते परमे पद इति ।
अथासमर्थालम्बनादीनां समयाचारवर्जिता या सा निर्बीजदीक्षा ।
सा च द्विविधा ।
सद्यो निर्वाणा असद्यो निर्वाणा चेति ।
तत्र तावत् सद्यो निर्वाणा संसारद्विषां वृद्धानां व्याधितात्मनां देहारम्भककर्मादिपाशशोधिनी ।
द्वितीया देहपातानन्तरमोक्षप्रदा ।
तथा चोक्तं -

निर्बीजात्वसमर्थानां बालादिव्याधितात्मनाम् ।
सद्यो निर्वाणकी प्रोक्ता देहपातेन तत्क्षणात् ॥

देहारम्भककर्मादीन् भुक्त्वा शैवं पदं नयेत् ॥

प्।
१८६)

बालादीनाञ्च निर्बीजसमयाचारवर्जितानाञ्च तेषां नियमैः कार्यञ्च (न च) शारीरयन्त्रणैः ।
न तीर्थक्षेत्रगमनै यावज्जीवं शिवं यजेदिति ।
यतो यस्मात्कारणात् यस्य सद्यो नैमित्तिके काम्ये चाधिकारिता स्यात् ।
अतो हेतोः साधिकारदीक्षा साधकाचार्ययोरेव भवेत् ।
अन्यानि बीजदीक्षानान्तु तथा सबीजदीक्षादीक्षितानां मध्ये समयी पुत्रयोश्च नित्यमात्राधिकारित्वान्निराधिकारा भवेत् ।
इत्थं सबीजनिर्बीजयोरपि साधिकारनिरधिकारयोरन्तर्भूतत्वात् ।
इयं दीक्षा साधिकारनिरधिकारभेदेन द्विरूपं प्रत्येकं द्विविधं जायते ।
साधिकारापि क्रियावती ज्ञानवती चेति द्विविधा स्यात् ।
तथा च परा भवेदित्यर्थः ।
अथ स्पष्टम् ।

अथ गुरुशिष्यप्रतिपादनायाह - इत्यमिति ।
इत्यमुक्तनयेन गुरोः सकाशाल्लुब्धाधिकारेणाचार्येण दीक्षा साध्यते ।
स जात्याचार्यश्च सद्देशसम्भूतः ।
स च -

प्।
१८७)

कृष्णसारमृगो यत्र स्वाचाराद्विचरेद्भुवि ।
सन्ति देवाः तथा वेदाः आर्यावर्तं विदुर्भुधाः ॥

तद्देशकुलसम्भुतः आचार्य शास्त्रसम्मतः ।

इति ।

स्वमूर्तिः शोभना प्रसन्ना दन्तुरादिदोषरहिता मूर्तिर्यस्यासौ स मूर्तिः ।
तथा चोक्तं -

कारुकृतोदरिः कुजो हीनाङ्गो वाऽधिकाङ्गवान् ।
कृष्णाश्मश्रुहीनो वा कुनखी दन्तुरस्तथा ॥

केकरः क्षयरोगी च बर्बरस्थूलदेहवान् ।
पिङ्गाक्षो लम्बकुक्षिश्च वक्त्रनासो ॥
भाहुमान ॥

एतैस्तु लक्षणैर्हीनः पूर्णाङ्गो मूर्तिमान् * * ।

इति ।

शीलवानत्र श्रुतमागमश्रवणं ।
न पशुशास्त्रावगमः ।
तथा चोक्तं -

शैवसिधान्तसारज्ञः पशुशास्त्रपराङ्मुखः ।
सर्वभूतानुकम्पी च शुष्कतर्क विवर्जितः ॥

इति ।

प्।
१८८)

शीलमत्र बलान्वयानुरञ्जको गुणः ।
फलभावविवर्जितः

शठः क्रूरो विमोही च पिशुनो मत्सरी खलः ।
खलाभावविनिर्मुक्तः परचित्तानुरञ्जकः ॥

शीलवानेष जानीयादनुकम्पापरो भृशम् ।

इति वचनात् ।
नन्वत्र श्रुतोपपन्नस्य शीलत्वं स्वत एव स्यात् ।
कुतश्शीलवानिति विशेषणम् व्यर्थमिति चेत् -

ज्ञानेन हृदयस्थेन खलो न स्यात्सुशीलवान् ।
मधुना कोटरस्थेन निम्बः किं मधुरायते ॥

ज्ञानमभ्यासतो वेत्ति शीलं स्वाभाविको गुणः ।

इति वचनात् ।

अथ ज्ञानाचारगुणोपेतः तत्र ज्ञानञ्च तत्वविज्ञानं षट्त्रिंशत्सङ्ख्ययान्वितः ।
आचारः प्रत्यहं स्नानादिकमाचरतीत्याचारः ।
अथः गुणः सात्त्विकस्सार्वज्ञानम् ।

सत्यं दया धैर्यं विनयं स्थैर्यमेव च ।
सात्त्विकस्य गुणं प्रोक्तः सङ्गात् सञ्जायते तु सः ॥

शुद्धाशयस्तु हृदये यस्याऽसौ शुद्धाशयः ।

प्।
१८९)

तत्र तावद्बिजातीणां चतुर्णां प्रवृत्तिक्रियाणां क्षत्रियमद्वयोः वैश्यशूद्राणां मद्यपः ।
तथा च गरुडः -

मध्ये वर्णचतुष्कस्य गुरुत्वं कस्य तत्वतः ।
स च प्रोक्तो च रात्रान्ते शिववत्सर्वमोचकः ॥

भार्या भ्राषादिको बन्धुः उपपन्नो यदा भवेत् ।
तथा तेषां भवेद्दिक्षा तदा सा पुत्रता न किम् ॥

अन्यजश्चोपसन्नोऽयं स चास्पृश्य कथं पुनः ।
तथा तस्या दीक्षा स्यान्नगुरुस्सर्वमोचकः ॥

इति ।

ईश्वरः -

चतुर्णामपि वर्णानां आचार्यत्वमिहोदितम् ।
ब्राह्मणादिचतुष्कस्य द्विजोऽनुग्रहकृन्मतः ॥

त्रयाणां क्षत्रियो द्वाभ्यां वैश्यशूद्रस्सयोनिजे ।
अनुग्रहस्तु भार्यादौ योऽया किन्तु भावतः ॥

निरपेक्षायतो मन्त्रा यथा तद्भावतो तथा ।
यथाऽस्य तेन भावेन मन्त्राः कुर्वन्त्यनुग्रहम् ॥

प्।
१९०)

यस्तेनान्त्यजस्यापि किन्तु दीक्षा नु मानसी ।
कारुकाणान्त्वसंस्पर्शात् न हौतिः परिकल्प्येत् ॥

ज्ञात्वा तेषां परा भक्तिः लोभाच्च दोषमान्पुयात् ।

इति ।

इत्थं भूतो परः श्रेष्थ उच्यते ।
नान्यते ।
स्वायम्भुवादौ नष्टव्रताश्च -

उक्तञ्च स्वयमालोच्य वयमाचार्यसत्तमाः ।
इत्येवञ्चैव विदन्त्यज्य कृत्याज्यास्ते स्वयम्भुवः ॥

अन्यलिङ्गं परित्यज्य यो लिङ्गं शैवमाश्रयेत् ।
स पुनर्भूरितिज्ञेयस्तज्जाता कौलिका मताः ॥

तावत्ते गुरवो ज्ञेयाः यावदाचारपालकाः ।
आचारात्तु परिभ्रष्टास्त्याज्यास्ते भग्नलिङ्गवत् ॥

भस्मप्रदात्समुद्भूतो योऽसौ भस्माङ्कुरस्मृतः ।
तज्जाता कलराज्ञेयास्तज्जाताः कुशिका मताः ॥

दीक्षास्थापनयोरेते सन्त्यज्याश्शुभकाङ्क्षिभिः ।

इति ।

प्।
१९१)

स्पष्टं ।
अथ शीतौषधी तोय इत्यादि रत्नादिरचिते पश्चिमानने कुम्भे -

नित्ये नैमित्तिके काम्ये सर्वाधिकरणस्सदा ।
शिवः पूर्वाननो लक्ष्मीः प्रत्यक् पृस्ठकलातनुः ॥

इति वचनात्ततः पूर्वाभिमुखं शिवं साङ्गं सम्पूज्य तस्य कुम्भस्य दक्षिणपार्श्वस्थां पश्चिमास्यां प्रत्यङ्नालां विकिरस्थां खड्गरूपिणीञ्चास्त्रेण पाशुपतेन सम्पूज्य ।

शक्रादिपूजानन्तरं परिभ्राम्य संस्थाप्य स्थिरासनं सम्पूज्य कुम्भस्थस्य शिवस्य दक्षिणकरे मखरक्षार्थं ज्ञानखड्गं समर्पयेत् ।
तथा चोक्तम् -

अनन्तधर्म ज्ञानादि पद्ममित्थं चलासनम् ।
तत्र कुम्भान्यसेत्प्राच्यां पश्चिमास्यां वृषासनम् ॥

गन्धपूष्पादिभिः पूज्य तत्र भूयः पुराननम् ।
शम्भूमभ्यर्चयेत्ज्ञानशक्तिरूपं क्रतुप्रभुम् ॥

सदा तद्याम्यदिग्भागे स्पृष्टान्तं दक्षपाणिना ।

प्।
१९२)

प्रत्यङ्नालान्तु सिह्मनालान्तु वर्धनीं विघ्नमर्दनीम् ।
?

तस्य चास्त्रं समभ्यर्च्य सङ्गरूपं समुज्वलम् ।
दिक्षु शक्रादि दिक्पालान् अभ्यर्च्य भ्राम्य धारयेत् ॥

तत्र स्थिरासनं सम्पूज्य ज्ञानखड्गं समर्पयेत् ।
शिवस्य दक्षिणे हस्ते वर्धन्यस्त्रन्तु संस्थितम् ॥

तेन तद्यज्ञरक्षार्थं यागोऽसौ कलशन्यसेत् ।

इति ।

विरेफावन्तिमावित्यादि अ क च ट त प य शानां वर्गाष्टकानामन्तिमौ वर्गौ यवर्ग शवर्गेण ।
तावुभौ विगतरेफौ एव षष्ठस्वरास्थितौ ।
अर्धचन्द्रबिन्दुनादयुक्तौ ।
ॐ युं लुं पुं(नुं) शुं षुं सुं हुं इति सप्तजिह्वानां कुर्यात् सप्तबीजानि ।
ततस्पष्टम् ।

सर्वोपद्रवनाशाय रुद्रशान्त्या एकादि ।
अत्र रूद्रशान्तिः शिवपूजातर्पणावसाने ।

ॐ कुरु कुरु रुन्धि रुन्धि रुद्रोसि देवतां

प्।
१९३)

देव देव विशाखौ हन हन दह दह पच पच मथ मथ च कुरु कुरु पुरु पुरु शान्तिमनुस्मरन् कृष्णपिङ्ग अकालि पिशाचाधिपते विश्वेश्वराय नमस्स्वाहेति रुद्रशान्तिमन्त्रः ।
अनया रुद्रशान्त्या तिलादिभिः होमं कुर्यादिति लघुप्रयोगः ।
विस्तारोऽपि कालोत्तरादौ प्रदर्श्यताम् ।

न निन्देत्कारणं देवमित्यत्रानुक्तमुक्तं भवति ।

लौकिकादिषु मार्गेषु चतुर्ष्वपि समाश्रितान् ।
अविद्या तद्भ्यो ज्येष्ठान् प्रतस्थो नाभिवादयेत् ॥

नात्मनः प्रकृतं भावमन्यते शिवदीक्षितः ।
ना दीक्षिते सतिं कुर्यात् * * पङ्क्तौ च भोजने ॥

निर्माल्यभोजनं दानं लङ्घनं स्पर्शनं तथा ।
उपेक्षणं न कुर्वीत स्त्रीशूद्रेणान्त्यजादिभिः ॥

स्पर्शनं भाषणञ्चैव श्वापस्य च दर्शनम् ।
न नग्नां वीक्षयेद्रायां तथा तां प्रकटस्तनीम् ॥

गणाणां गणिकानाञ्च सूतिकान्नं तथैव च ।

प्।
१९४)

अदीक्षितस्य शूद्रस्य भोजनञ्च विवर्जयेत् ।
एकान्नं नैव भोक्तव्यं भिक्षाशी चरुभुग्भवेत् ॥

प्रतिग्रहं विरक्तस्य वर्जयेद्यत्र कुत्रचित् ।
गुरुदेवाग्निपूजार्थं गृह्णीयाच्छुद्धजातितः ॥

गुरुर्देवाग्नि चण्डाज्ञां शास्त्रार्थं नैव लङ्घयेत् ।
समर्थस्य समुद्दिष्टा बालादीनां विशोधयेत् ॥

अग्नौ नद्यादिचण्डान्तान् गणान् सम्पूज्य तर्पयेत् ।
हुत्वा मूलशतान् पञ्च पूजान्ते तान्निरोधयेत् ॥

विरक्तस्य व्रताङ्गानि जटाव्योमोपवीतकम् ।
पावनं तैजसं भस्म कौपीनञ्च जलात्मकम् ॥

दण्डं पार्थमेतानि दण्डादीनि यथाक्रमम् ।
सद्योजातादिर्मन्त्र्य सम्पातेन विशोध्य च ॥

कलशाय समर्प्याथ शिष्याय विनिवेदयेत् ।

इति ।
सुबोधमन्यत् ।

अथ निर्वाणदीक्षायामित्यादि ।
अथेति यक्ते दीक्षा द्विजत्वं विना निर्वाणानधिकारि पुमान् ।
न द्विजो

प्।
१९५)

युज्यते सिद्धानि च ।
निर्वाणमश्नुते -

द्विजोऽपि हि यतस्तेन कुर्यात्तद्द्विजसत्तम ।

इति वचनाद्यद्यपि ब्रह्मादित्रयाणां वैदिके मार्गे द्विजत्त्वेन विद्यमानेऽपि पुनरप्याह -

द्विजत्वापादनं स्वदधीत तस्मात् यतस्ततः द्विजत्वं शरीरस्य नत्त्वात्मनः कार्यः शरसंस्कार्यः प्रेत्यचेह ।
गार्गैर्होमैर्जात च कर्मचौलमौञ्जीनिबन्धनैः इति स्मृतितः ।
तद्वदिह न शरीरस्य संस्कारः ।
तथा चोक्तं -

न जातेर्न शरीरस्य संस्कारः प्राणिनो मतः ।
यदि जातेस्तदैकस्मिन् दीक्षितेऽखिलदीक्षणम् ॥

प्राप्तं तेन न जातेस्तु जडत्वान्न तनोर्मतः ।
चिद्रूपेऽनुग्रहः कार्यः सर्वानुग्रहकश्शिवः ॥

इति ।

तस्माच्च चतुर्णामपि विशिष्टसमयादिदीक्षायां द्विजत्वापादने सति तदनन्तनिर्वाणदीक्षायां कुर्यान्मूलादिदीपनमिति भावार्थः ।

प्।
१९६)

शान्तिके पौष्टिके वश्ये वषडन्तादिनाऽणुना ।

इति ।

वषट्कार आदावन्ते च यस्याणोर्मन्त्रस्य ।
तथा हि -

ॐ वषट् औ(हा?) वषडित्यादि ।
अथ ज्वरादिनाशायचाप्यायनादिषु ।
वषट् वौषड्भ्यां समोपेतैः शम्बरैर्बीजैर्विकारस्योपरि स्थितैः ।
तथा हि

ॐ वषट् वौषडित्यादि पशुबोधमन्यत् ।
ततः स्व स्वसव्यभागस्थितमित्यादि ।
अत्र स्पष्टत्वात् क्रममिन्दुमात्रं प्रदृश्यते ।
दक्षिणपार्श्वे दक्षिणमण्डले शिष्यमुपस्थाप्य गृहस्थतपस्विभेदेन सृष्टिसंहारक्रमेण ।
तच्छिखायां सूत्रं बध्नीयात् ।
ततः तन्मस्तके ॐ हौं शक्तये नमः इति सूत्रे संयोज्य सम्पूज्यावकुण्ठ्य ।
ॐ हौं हः हुम्फडिति ताडनं भेदनञ्च ।
ॐ हौं नम इति प्रवेशनम् ।
ॐ हौं स्वाहेति संहारमुद्रया पूरकेणादायात्मस्थं कृत्वा ॐ हौं शक्तये नम इति सूत्रे संयोज्य सम्पूज्या निरुध्यावकुण्ठ्य सन्निधानार्थं तर्पणार्थञ्चाहुतित्रयं दद्यात् ।

प्।
१९७) ॐ हौं इडायै नमः ।
ॐ हौं पिङ्गलायै नमः ।
ॐ हौ सुषुम्नायै नमः ।
इति तद्देह सम्पूज्य ताडनादिक्रमेण सूत्रे संयोजनादि कुर्यात् ।
ततः ॐ हां मन्त्राध्वने नमः ॐ हां पदाध्वने नमः ।
ॐ हां वर्णाध्वने नमः ।
ॐ हां भुवनाध्वने नमः ।
ॐ हां तत्वाध्वने नमः ।
ॐ हां कलाध्वने नमः ।
इति व्याप्यव्यापकभावेन संयोज्य यजनादि कुर्यात् ।
तथा च निर्वाणोत्तरे मन्त्राः -

वर्णास्तु भुवनैर्व्याप्ताः तत्त्वै व्याप्तानि तानि तु ॥

तत्वजातिस्तथा व्याप्ता कलाभिस्तु कलाः क्रमात् ।
शोधनीयाः प्रयत्नेन अन्तर्भावं प्रकल्पयेत् ॥

इति ।

ततः शिषयमस्त्रेण सम्प्रोक्ष्य ॐ हां हं हां हुम्फडिति ताडनम् ।
भेदनञ्चानेन नमोऽन्तेन वामया प्रवेशः ।
हुम्फडन्तेन ज्येष्थया विशेषः ।
ॐ हुं हां हं हां हुं स्वहेति पूरकेण शक्तिं सूत्रेण ।

प्।
१९८)

रौद्रनाड्या इत्यर्थः ।
तिसृभिः शक्तयः शम्भोः वामा ज्येष्ठा रौद्र्याश्लेषविश्लेष उद्धारे सर्वत्राप्याहतौजस इति वचनात् ।
अनया रौद्र्यात्मानमाच्छिद्याकृष्टचिदि द्वैधीकरणधातोरत्र देहादाकर्षणमेव द्विधाकरणमतस्तस्मादाकृष्यात्मस्थं कृत्वा ॐ हां हं हां आत्मने नम इति सूत्रे संयोजनादि कुर्यात् ।
ततः ॐ हां मलपाशाय भोक्तृत्वकारणाय नम इति कृष्णम् ।
ॐ हां कर्मपाशाय सुखदुःख भोगकारणाय नम इति सितम् ।
ॐ हां मायापाशाय शरीरेन्द्रियविषयकारणाय नमः इति कर्पूरम् ।
आत्मनोऽपि भेदेन सम्पूज्य तर्पणादि कुर्यात् ।
तथा ॐ हौं विद्यादेहाय नम इति च ।
ततः ॐ हां मन्त्रवर्णभुवनतत्वमलकर्ममायामायीय सचिवाय शान्त्यतीत कलापाशाय नम इति पाशावलोकनम् ।
ततस्ताडनभेदेन प्रवेशविश्लेषाकर्षणग्रहणादानात्मस्थिरीकरणसूत्रसंयोजनतर्पणाव कुण्ठननिरोधनान्तचतुर्दशकर्मप्रतिकलमपयित अत्रैवावसरे ।

प्।
१९९) ततोऽवबीजानां देहारम्भकर्मणा सबीजायाः शुद्धन्तु दीक्षायां शिवधर्मिण्यां समयाचारदेहारम्भककर्मद्वयादव साधकदीक्षायां मन्त्रसिद्धिफलदापि लोकधर्मिण्यामिष्टापूर्तादिधर्माच्च व्यतिरिक्तं प्रबन्धकं कलानामन्तरे स्मरेत् ।
ततो मन्त्रतर्पणदीपनावसाने कलास्थानेषु कुङ्कुमादिना सूत्रं रञ्जयित्वा तत्र पाशविश्लेषकरणाय साङ्गं शीवं सम्पूज्य ॐ हां हौं हां शान्त्यतीत कलापाशाय हुम्फडिति ताडनं भेदनञ्च ।
अनेन नमोऽन्तेन प्रवेशः ।
ॐ हुं हां हौं हां हुं मन्त्रपदवर्णभुवनतत्वमलकर्ममायामयी स चैवं शान्त्यतीतकलापाशं गृह्णामीति सूत्रं सङ्गृह्य ।
पुनश्च मन्त्रान्ते बध्नामीति बन्धनं कुर्यात् ।
इत्थं सकलकलानां ग्रहणबन्धनप्रयोगः ।
ततोऽन्यभुवनादि दोषमोक्षभुवनादि शिष्यप्रवेशहोमान्ते प्रतिकलं ताडनादिकं कर्मात्मनः समाचरेत् ।
तथा चोक्तं -

ताडनं देहविश्लेषकर्षनं ग्रहणं तथा ।
योजनं तन्तु वागीश्यां मायायां जननं पुनः ॥

प्।
२००)

अधिकारस्तथा भोगो लयो निष्कृतिरेव च ।
पाशच्छेदोपनिक्षेपः ताड्यमुद्धारणं पशोः ॥

इति ।

तथापि तावन्निवृत्तौ ॐ हां आधारशक्तये नमः ।
इति कुण्डे सम्पूज्य सन्तर्प्य ॐ हां ह्लां मन्त्रपदवर्णभुवनतत्वमलकर्ममायीयसचिवाय निवृत्तिकलापाय हः हुम्फडिति स्वस्थाने ताडनं भेदनञ्च ।
अनेन नमोऽन्तेन वामया प्रवेशः ।
फडन्तेन ज्येष्ठया विशेषः ।
स्वाहान्तेन रौद्र्या पूरकाङ्कुशमुद्रया पाशाकर्षणम् ।
ॐ हुं हां हं हां हुं इत्यादिना फडन्तेन कुम्भकं संहारिण्या पासं गृहीत्वात्मस्थं कृत्वा नमोऽन्तेन रेचकेणोद्भवमुद्रया कुण्डे संस्थाप्य सम्पूज्य ॐ हां ह्लां मन्त्रादिपाशगर्भाय नम इत्यर्घ्यं दत्वाऽनेन स्वाहान्तेन सन्निधानतर्पणार्थं आहुतीनां त्रयं दद्यात् ।

ततो ब्रह्माणमावाह्य सम्पूज्य सन्तर्प्य विज्ञाप्य विसृज्य ॐ हां हौं ह्लां निवृत्तिकलाव्यापिनै वागीश्वर्यै नमः ।
इति ऋतुस्नातां वागीश्वरीं चतुर्दशयोनिरूपिणीमावाह्य ।

प्।
२०१)

तद्वद्वागीशं निश्शेषयोनिक्षोभकञ्च ।
तयोः प्रजापतिकञ्च ।
ततस्ताडनभेदनादि स्वात्मस्थिरीकरणान्ते शिष्यचैतन्यद्वादशान्तादादाय वागीश्वरस्य इडानाड्या प्रवेश्य पुनस्तस्य वामनाड्या वागीशीयोनौ

ॐ हां हौं हां आत्मन्ननेकयोनिषु गर्भाधानाय युक्तो भवनम इति संयोजनादि कुर्यात् ।
ततः ॐ हां भगवन् युगपद्भागाद्यमाणोरपि धीयतां इति प्रार्थ्य पशोरनेकयोनिर्विदेहश्च शुचिमाचरामीति हृदा पञ्च ।
जननार्थं शिरसा पञ्च ।
अधिकाराय शिखया पञ्च ।
पशोरनादिसंसाओपजातकर्मणो भोगाय वर्मणा पञ्च ।
ततो माया मोहरूपञ्च भोग भोग्य भोक्तृत्वभेदञ्च तेभ्यो लयं भावयन अस्त्रेण पञ्चत ।
स्रोतसामुपभुक्तपाशस्थानपथां शुद्धिस्तिरोधानमात्मनः पुनरावृत्तिर्माभूदिति शिवेन पञ्च ।
ततः पार्थिव त॥


तत्त्वशुद्धये हृदा पञ्च ।
मायेयमलकर्मादिपाशबन्धनिवृत्तये निष्कृत्यै च हृदा शतम् हुनेत् ।
ततो मलशक्तितिरोधाने पाशाधिष्ठातृशक्ति -

प्।
२०२)

निरोधाय च भाविकर्म निरोधाय च ।
पाशानां निवृत्तिस्थानानां अन्येभ्यो विद्योजनाय विश्लेषणाय स्वाहास्त्रेण पञ्च ।
पञ्चमलताद्यन्तस्थ पाशस्य मलादयोऽन्तर्मध्ये स्थिता यस्याऽसौ मलाद्यन्तस्थपाशः ततस्तस्य छेदनं सप्तवारास्त्रजप्तया कर्तर्या इति ।
सा च -

कर्त्तरी ज्ञानशक्तिस्तु यथा पाशच्छिदेत्यसौ ।
सा मला परमा सूक्ष्मा मन्त्राणां शोधनी परा ॥

अनया ॐ हां हौं हां मन्त्रपदादिगर्भितां निवृत्तिकलापाशं चितादि हं हुम्फडिति कृत्वा मर्दयामीति विमृज्य जुहोमीति हुत्वा शिवास्त्रेण तत्पाशभस्मीकरणाय पाशाङ्कुरनिवृत्तये च पञ्च पञ्च तेन ।
प्रायश्चित्तार्थमष्टाहुतिर्हुत्वा ।
ब्रह्माणमावाह्य सम्पूज्य सन्तर्प्य च श्रुतिस्तद्विस्मृतिविनाशाय ॐ हां ब्रह्मन् शब्दस्पर्शौ शुल्कं गृहाण स्वाहा इति पञ्चाहुत्या शुष्कं समर्पयेत् ।
तथा चागमः -

श्रुतित्वं विप्लुतिर्ब्राह्मी ब्रह्मकस्यादयोनिजा ।

प्।
२०३)

नमना वैष्णवी रौद्री घ्राणलोचनहेतुतः ।
ऐ(न्द्री) गर्वधीमूला मानसी शिवदेवता ॥

स्पर्शार्थत्त्वात्कर्म देवाश्चत्वारस्त्वचि संस्थिताः ।
शब्दार्थत्वाच्छृतौ वाणी द्विधा वक्त्रेति सूरयः ॥

बाह्यार्थाद्यसृभिस्सार्द्धमन्तःकरणव्र्त्तिभिः ।
पाशविश्लेषवत्कृत्वा देवतास्त्वधिरोपयेत् ॥

शब्दस्पर्शौ ब्राह्मणी च श्रीवत्साङ्केरसन्त्यजेत् ।
रूपगन्धेत्त्यजेद्रुद्रे धीगर्वाधीश्वरे त्यजेत् ॥

मनस्सदाशिवे देवे शब्दादीनाञ्च हेतुकी ।
शक्तिबिन्दुमयी तत्र त्यजेदित्यमनुक्रमात् ॥

इति ।

ततो ब्रह्माणं विसृज्य ॐ हां हं हां आत्मने नम इति ।

वामया गत्वा फडन्तेनाडनेन ज्येष्ठया वियोज्य स्वाहान्तेन रौद्र्या कुण्डादाकृष्य पूरकेण वामया स्वात्मस्थं कृत्वा कुम्भकेन समीकृत्य शि॥
ॠएचकेन

प्।
२०४)

द्वादशान्तादादाय सूत्रे संयोज्य अर्घ्यं दत्वा ।
अपितरौ विसृज्य पूर्णान्ते निवृत्तिप्रतिष्ठाभ्यान्नमः ।
इति सन्धानमेव सर्वत्र समाचरेत् ।
तथा चोक्तं -

इत्यष्टादश संस्कारा तत्वे तत्वगुरुः पशोः ।
मलादित्रयभानाय कुर्वीत शिवतृप्तये ॥

आत्मनः ताडनादाने स्वकृतिस्तत्वयोजनम् ।
कुर्यात्प्रत्यधीकारो भोगो लयोऽर्थ स्रोतसाम् ॥

शुद्धिस्तत्वविशुद्धिश्च पशुकृत्याधिरोहणम् ।
पाशविश्लेषसमुच्छेदो तद्देहा व्युत्क्रमक्रिया ॥

कारणेष्टिः पशुं धार्णेष्वपि पूर्णया सह ।
समस्ताश्चैव संस्काराः विज्ञेया मध्यवर्तिनः ॥

विशेषणार्थतो॥


षनं स्याद्विशेषः करणाय च ।
कर्षणं ग्रहणायैव ग्रहणं योगकारणम् ॥

गर्भाधानाय योगस्स्यादाधानं जननार्थकम् ।
जननञ्चाधिकाराय अधिकारो विभुतये ॥

भोगश्च लयहेतुस्स्यात् लयस्यान्ते तु निष्कृतिः ।

प्।
२०५)

निष्कृतिश्च वियोगार्थं वियोगच्छेदकारणम् ।
निक्षेपाय भवेच्छेदो निक्षेपास्तत्कृतस्तथा ॥

इति ।

सञ्ज्ञायमाप्नोति ।
समयानाञ्च लङ्घनादि ।
अथान्यस्यान्यत्रशब्देन समयलङ्घनपरदारान्यसमयपरिपालकश्च साधकादित्रयादन्यः समयी च गृह्यते ।

एवं त्रिविधशवेत्यर्थः ।
तथा चोक्तं -

उत्क्रान्त्याथ शिवीभूते समयायनुवर्तिके ।
दाहशिवाग्निरन्त्येष्टिस्तथा समयदीक्षिते ॥

समयी प्राप्तदीक्षो वा गुरुशुश्रूषणान्वितः ।
मृतस्यापि परां दीक्षां यथा विधि * * * * ॥

इति ।
ततस्पष्टं ऐश्वर्यादासनमित्यादि ।
भूतशुद्ध्याद्यनन्तरं करावस्त्रेण संशोध्य मृतेनाप्लाव्य ॐ हः ॐ हः अस्त्राय हुं फट् ।
ॐ हें कवचाय नमः ।
ॐ हुं शिखायै नमः ।
ॐ हीं शिरसे नमः ।
ॐ हां हृदयाय नमः ।
इत्यङ्गुष्ठादङ्गुलिक्रमेषु ततः ॐ हैं

प्।
२०६)

कवचाय नमः इति तनौ ।
ॐ हुं शिखायै नमः ।
इति शिखायाम् ।
ॐ हीं शिरसे नमः इति शिरसि ।
ॐ हां हृदयाय नमः ।
इति हृदये ।
अस्त्रं पूर्ववदिति न्यासः ।

अथ वेदिकायां आधारश्क्त्यनतैश्वर्यवैराग्य ज्ञानधर्मपद्मकर्णिकामनोन्मनी सर्वभूतदमनी प्रबलप्रमथिनी बलविकरणी कलविकरणी काली रौद्री ज्येष्ठा वामाख्या शक्तिश्चक्रं सम्पूज्य शिवमावाह्यास्वादिभिः सकलीकृत्य भोगाङ्गानि प्रपूजयेत् ।
यथा अस्त्रमुत्तरादिचतुर्दिक्षु वायौ कवचं नै-ऋते शिखां ईशाने हृदयमग्नौ इति सुबोधमन्यत् ।

विद्यातत्वं विन्यस्य शक्तितत्वं तथा शिवम् ।

इत्यात्मनो ज्ञानाभिव्यक्तये विद्या विन्यस्य शक्तिचक्रमिडापिङ्गलादिषु वामादि ।
पाशाय नम इत्यादयो मन्त्राः ततस्पष्ट ।

अथाभिषेककाले -

अधिकारं गुरुस्तस्मै शिष्याय विनिवेद्येत् ।

प्।
२०७)

इत्यत्र स्वाधिकारार्थं वचनप्रसङ्गालिङ्गते ।
यथा -

अधिकारेऽर्पिते तस्मिन् वानप्रस्थत्त्वमभ्ययात् ।
आहुतीनां सहस्रन्तु जुहुयाद्वा शिवेन तु ॥

अधिकारं पुनर्दत्तं शिवेन परमात्मना ।
अधिकारं पुनः कुर्याद्यावज्जीवं यथेच्छया ॥

इति ।
ततस्तु बोधमन्यत् ।
अथास्त्राभिषेकेण वा आत्माहुतिभिरित्यादि ।
तत्र शिवानलेन वर्ममन्त्रैरासन - मूर्तिमूलहृदयशिरश्शिखाकवचनेत्रास्त्रैश्च नवात्मना पाशुपतास्त्रेण ।
तथा चोक्तं -

प्रणवं प्रथमं बीजं श्रीकण्ठश्शक्र ईश्वरः ।
बिन्दुनादसमायुक्तं विना ताभ्याञ्च पावकम् ॥

बिन्दुषष्ठस्वरोपेतं श्रीकण्ठं मन्त्रनायकम् ।
हुम्फट्कारसमायुक्तं नवबीजमिदं गुह ॥

इह पाशुपतं प्रोक्तं महाविघ्नोपशान्तये ।

इति ।

तस्मादनेन घृतादिभिश्चाहुतिसंस्कृतैः पूजिते सति त्रिभिः

प्।
२०८)

मधुशर्करापयोभिः असूजा जस्य शतमष्टाधिकं यजेत् ।

सुगममन्यत् ।

अथान्त्येष्टिः

साधकाचार्यपुत्राणामित्यादि ।
आचार्यसाधकपुत्राणां उक्ताचाररहितो निषिद्धाचारपालकः तस्य कर्हिचित् केनाऽपि प्रकारेण रोगशास्त्रलीलादिना मृतस्यैकस्यान्त्येष्टिः तत्वविशोधिनी कार्या ।
तथा चोक्तं -

देवस्य च गुरुणाञ्च महापातकभाग्भवेत् ॥

अमुक्तस्संशया ये च ये चान्ये तु मलात्मकाः ।
तेषां पाशापनोदार्थ म * * * * * * * ॥

अत्र विषयप्रच्युतिः दृश्यते ।




शाधिष्ठातृशक्तिपर्यन्तं शक्तिचक्रं विन्यस्य

प्।
२०९) व्यापकत्वेन पाशविषेणाय विन्यसेदित्यर्थः ।
ततस्स्पष्टम् ।

ततस्त्वमग्ने दक्षिणः काल इत्यादि देहमिति ।
मन्त्रदीपनार्थं हे अग्ने त्वं दक्षिणः कालः ।
अत्र काल - शब्देनाऽघोरो गृह्यते ।
अघोरस्य संहारकर्तृत्वात् हे अघोररुद्रप्रभो महाहुतीनां कालेनैष्वोपपादितां भोग्यकमोपभोगकालेन उत्पादितां मन्त्रसम्पूतां दीक्षोत्तरोऽन्वहं मन्त्रन्यासादिभिश्च पूतां साम्पृतमन्त्येष्टिविहितां मन्त्रन्यासादिभिश्च शाव्यां शवसम्बन्धिनीं गृहाणेति सन्ध्यामेनामिति ।
यथापस्तथा भोजनौषधादिभिस्सान्निध्यं निष्पाद्यमेनां गृहाणेति मन्त्रार्थः ।
ततस्स्पष्टम् ।
ततो विधीयते श्राद्धमित्यादि ।
श्राद्धं नाम सद्द्रव्यस्य ऽसिवोद्देशेन श्र च हत्याह ।
तच्च द्विविधं -

पार्वणमेकोद्दिष्टञ्चेति ।
तत्र त्रिपुरुषोद्देशेन क्रियमाणं तत्पार्वणं ।
यत्पुनरेक - पुरुषोद्देशेन क्रियमाणं तदेकोद्दिष्टम् ।
पुनश्च त्रिविधम् ।
नित्यं नैमित्तिकं काम्यञ्चेति ।
तथा च श्रुतिः -

प्।
२१०)

कर्तुस्तु कालादिभिर्नियमात् फलविशेषः ।
प्रथमेऽहनि क्रियमाणे स्त्रीप्राथमपत्थे जायते ।
द्वितीये तृतीये तेन ब्रह्मवर्चसिनश्चतुर्थे क्षुद्रपशुमान् पञ्चमे ।
पुमांसो बहुरपत्यो न द्वानपत्यः प्रमीयते ।
षष्ठेत्त्वशीलोऽक्षशीलश्च सप्तमे कार्षैकनाडिरष्टमे पुष्टिः ।
नवमे व्यवहारोब्धिः ।
एकादशाद्यं ॥



चिरेकादशे कृष्णायसमत्र पुंसि स च ।
द्वादशे पशुमान् त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयाय यत्यो युवमारुणस्तुवन्ति ।
चतुर्दश आयुरोद्धिः पञ्चदशे पुष्टिरिति ।
अथस्पर्शादिकापि मना यत्कृत्तिका ।
मखादि नक्षत्रेषु तत्काम्यम् ।
पुनश्च पञ्चविधं नित्यश्रद्धं पार्वणं वृद्धिश्राद्धं एकोद्दिष्टं सपिण्डिकरणञ्चेति ।
तत्र नित्यश्राद्धं अन्नपितृमनुष्येभ्य इत्यादिना ।
अथ पार्वणम् ।

अमावास्या(यां) कृष्णपक्षे पार्वणञ्चायनद्वये ।
सङ्क्रान्ते च व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ॥

विषुवे गजच्छायायामष्टम्याञ्च वृद्धिके स्मृतिः ?

इति ।

प्।
२११)

अस्याप्ययमर्थः ।
अमावास्यायां सकलदिनव्यापिकायां अपराह्नो ग्राह्यः ।
तस्यामेव दिनद्वयव्यापिन्यामपराह्ने व्यापिनी ग्राह्यः ।
अपराह्ने पिन्तृक्रियेति वचनात् ।
असावपराहृश्च पञ्च प्रभक्ते दिनो न चतुर्थो भागस्त्रिमुहूर्त्त इत्युच्यते ।
कृष्णपक्षो अपरपक्षः ।
यदेन्दुं पितृदेव त्येऽहं सश्चमकरो स्थितः याम्या तिथिर्भवेत् ।
सा तु गजच्छाया प्रकीर्तिता ।
यदुक्तमन्यत्राऽपि -

कृष्णपक्षे त्रयोदश्यां असिन्दुकरैरपि ।
यदा कदा गजच्छाया श्राद्धैः पुण्यैरपीष्यते ॥

हेमन्ते शिशिरे चैव कृष्णपक्षाष्टमी च यत् ।
चतस्र स्पष्टका ख्याता वृद्धिरभ्युदया मतम् ॥

इति ।

प्रसिद्धमन्यत् ।

अथैकोद्दिष्टदेवहीन एकाख्ये च पितृकम् ।
? आवाहनाग्नौ करणं विहीनमपसव्यवत् ॥

प्।
२१२)

नवश्राद्धोऽर्घतः कार्यं मासे मासे समावधि ।
प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा ॥

नवमेकादशेचैव तन्नवश्राद्धमुच्यते ।

एकोद्दिष्टन्तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ।

इति ।

ततस्सपिण्डीकरणम् ।

द्वादशे मासि सम्पूर्णे तत्र श्राद्धं विधीयते ।
सपिण्डिकरणन्नाम देवपूर्वं नियोजयेत् ॥

पितृदेवाश्रये तत्र पुनः प्रेतं न निर्दिशेत् ।
द्वादशैकादशेहाद्यं सपिण्डिकरणञ्च यत् ॥

एतत्समयिनः कार्यं गृहिणो ना परस्य तु ।
प्रासङ्गिकमिदं प्रोक्तं मूलसूत्रं सुबोधकम् ॥

अथ लिङ्गिन इत्यादि -

ब्राह्मणाद्यश्च चत्वारो लिङ्गिनश्च तपस्विनः ।

ते च शिवदीक्षीता इति विशेषणं स्वयम्भुवाद्यनादि वरणार्थम् ।

प्।
२१३)

तथा चोक्तं -

काणः केकरपिङ्गाक्षः पिशुनो मत्सरी तथा ।
अभिशस्तस्वयम्भुश्च पुनर्भूः कुण्डगोलकः ॥

शास्त्रदेवगुरुणाञ्च निन्दिकाज्झकाश्शठाः ।
आचाररहिता क्रूरा श्राद्धवर्ज्याः प्रयत्नतः ॥

इति ।
ततस्पष्टम् ।
दीक्षितानामित्यादि दीक्षितानां रुद्रां शानां शिवधर्मिणां वक्ष्यमाणकरा नन्दिमहाकालादयो देवाः ।
अन्यथा दीक्षितानां लोकधर्मिणामत ऊर्ध्वं वक्ष्यमाणब्रह्मादय इति केचित् ।
अपरे शिवधर्मिणार्थञ्च जयस्त्वादि मात्रमेव विसर्जितमधिकाराधिकं तथैव स्थितमिति यतस्तेषामपि लिङ्गानां मध्येऽन्तर्भावः ।
तस्मादिदं वाक्यं लोकधर्मिणामेवेत्याहुस्तथोच्यते शिवधर्मप्राप्तिभूतया लोकधर्मिण्या दीक्षितानां रुद्रांश त्वात् तेषां नान्द्यादयो देवाः ।
अन्योऽन्यथा भुवनेश पदप्राप्तिनिमित्तभूतया दीक्षितां ब्रह्मादयो देवाः इत्यत्र गुरुक्रमः कर्तव्यः ।
ततस्सुबोधमन्यत् ।

प्।
२१४)

अष्टम्यां पर्वशेषे च मातृवर्गमिति अष्टम्यामष्टकासु च पर्वशे पर्वणि पुत्रोत्पत्यादौ शेषे तयोश्च मातृवर्गं प्रकल्पयेत् ।

अष्टासु वृद्धौ च गङ्गायाञ्च मृतेऽहनि ।
मातृश्राद्धं पृथक्कुर्यात् अन्यत्र व्रतिना सह ॥

इति ।

स्मृतेर्हेतुतस्स्पष्टम् ।

विद्याङ्गास्त्रं शिवास्त्रं विद्याधिपहृदयम् ।

इति दृष्टं कालोत्तरे ।
मतङ्गवृत्तौ च -

यथा शास्त्रं प्रकर्तव्यं तथा लिख्य समासतः ।

ॐ हः अस्त्राय नम इति दक्षिणचतुरश्रम् ।
ॐ हां हृदयाय नम इति सौम्यं यवकुशसितपुष्पैः सम्पूज्य तद्वृत्तमपि तिलविशेषः ।
दक्षिणचतुरश्रेण पूर्वाननं संस्थाप्य ॐ हां कालाग्निरुद्राय पादार्घ्यं स्वाहा ।
ॐ हां अनन्ताय पादार्घ्यं स्वाहा ।
तथा चोक्तं -

प्।
२१५)

कालाग्निश्च तदानन्तं द्वावैव परिकल्पयेत् ।

इति ।

हृद्यवामेन वा प्रक्षाल्य पादावुत्तरे दद्यादाचमनं अनन्ततो वृत्तो पश्चिमास्यं संस्थाप्यापसव्यस्सन्

ॐ हां ईशाय पित्रे पाद्यार्घ्यं स्वाहा ।
ॐ हां सदाशिवाय पितामहाय पाद्यार्घ्यं स्वाहा ।
ॐ हां शान्ताय प्रपितामहाय स्वाहा ।

ततः पूर्ववत् ।
तथा च स्मृतिः -

द्वयं पूर्वाननं संस्थाप्य त्रयं प्रत्यङ्मुखं ततः समर्प्य तेषां पाद्यार्घ्यं यवैर्दद्यात् ।
ततस्तिलैः मृदि ततस्स्वयमाचम्यान्तः प्रविश्य द्वयं पूर्वाननं त्रयमुत्तरास्यं वामदेवेन संस्थाप्य कृतन्यासः ।
प्रणवार्घ्यजलैर्द्रव्यजातं गन्धवस्त्रादिकं सम्प्रोक्ष्य ।
अद्याऽमुके मासि तिथावमुकस्थामुकवारे नक्षत्रे पुण्यतीर्थे वा युष्मासु यथा श्राद्धं अहं करिष्ये ।
कृताञ्जलिरेव तान् प्रार्थ्य कुरुष्वेति ।
स तैर्मृतोऽभ्यनुज्ञातः ।
ॐ हां रुद्रायानन्तायेदमासनम् ।

प्।
२१६)

नम इत्यासनं दत्वा आवाहनादि पवित्रान्तं कर्म कृत्वा दक्षस्कन्धोपवीति ॐ हां ईशाय पित्रे इदमासनन्नमः इत्यादि पवित्रान्ते पश्चादर्घ्यमघोरेशाभ्यामापाद्य सर्वं सम्पूर्णमास्त्विति तेषां करे दत्वे ततस्तासामधस्तात् संस्रवाञ्जलबिन्दून् पात्रे कृत्वा पितृस्थानमसीत्युक्त्या पितृस्वाधा नम इति चोक्तमन्यत् ।

बीजमधोमुखं पात्रमधोदेशमुद्दिश्य उच्छिष्टं सम्पत्यरिहाराय वामे न्यसेत् ।
तथा च स्मृतिः -

गन्धपुष्।
पादिभिः पूज्य पञ्चपात्रे जलं क्षिपेत् ।
अस्तु सम्पूर्णमित्युक्त्वा दत्वा तेषां करे जलम् ॥

तथा मन्मतमागन्धपात्रे धृत्वा जलं ततः ।
पितृस्वधा नम इत्युक्त्वा वामे पात्रमधोमुखम् ॥

न्यस्य पाकाग्रमाहृत्य होमयेत् पितृयज्ञवत् ।

इति ।

ततस्सर्वपाकाग्रमादाय शिवाग्निं परिकल्प्य च तत्र नित्यवदौपासनहोमाग्नि सोमसूर्यादीनि निवर्त्य पितृयज्ञवत् ।

प्।
२१७)

पिण्डपितृयज्ञकल्पे सोमाय पितृमते पितृपितामहाय वा पाठः ।
ततः स्वधानमस्स्वाहा ।
ॐ हां अग्नये कव्यवाहनाय स्वधा नमस्स्वाहा ।
ॐ पित्रे स्वाहा ।
ॐ पितामहाय स्वाहा ।
ॐ प्रपितामहाय स्वाहा ।
ॐ अग्नये स्विष्टकृते स्वाहा ।
इति ।
हुतशेषं ददाति तान्नं पात्रेषु पुरुषन् पथन् ।
ततस्पष्टम् ।
अथ प्रतिष्ठानित्यलिङ्गं श्रुतं यस्मालिङ्गस्थापनमुच्यते ।

कथ्यतेऽय प्रतिष्ठापीत्यादिना ।
अत्र प्रकर्षेण तिष्ठत्यतो प्रकृते देवा इति प्रतिष्ठा ।
तस्याः भेदः प्रतिष्ठा पञ्च ।
प्रतिष्ठा स्थापनं स्थितः स्थापकं उत्थानपनं आस्थापनञ्च इति शिवागमे कथिताः ।
तेषां मध्ये यत्र यस्यां प्रतिष्ठायां लिङ्गस्य प्रथमं ब्रह्मशिलया योगः क्रियते ।
ततः पीठेन पिण्डिकाया च सा प्रतिष्ठा यथा योगमानम्येति लिङ्गं बाणरत्नादिकं पञ्चधा त्रिविभज्य द्विविभागस्यैक भागस्य वा यत्र पीठे निवेशनम् ।
तत्स्थापनं यत्र भीन्नपीठस्य लिङ्गस्य स्फटिका देहः प्रतिष्ठा तत्स्थितः स्थापनं जीर्णादिदोषदुष्टानां लिङ्गानामुद्धारः पुरोऽग्रे

प्।
२१८)

यस्याः प्रतिष्ठायाः सा तदुद्धारः यस्यां द्विखण्डायामेकखण्डपिण्डिकायां वा अव्यक्तषट्कारादिकम् ।
अन्यद्य्वक्तं मुखसञ्ज्ञकं वा आरोप्य संस्क्रियते तत् आस्थापनमिति बुधैरुद्दिष्टम् ।
तथा चोक्तम् -

यत्र ब्रह्मशिलामध्ये विन्यस्यादौ * * * * ।
अव्यक्तं मुखलिङ्गो (वा) पीठबन्धं विधाय च ॥

शुद्धलग्नं समासाद्य योगः पिण्डिकया सह ।
क्रियते सा प्रतिष्ठा स्यात्त्स्थापनं कथ्यतेऽधुना ॥

धातुजं रत्नजं वाऽपि लोहजं वाऽथ पञ्चधा ।

भागद्वयमथैकं वा ज्ञात्वा लिङ्गबलाबलम् ।
स्थाप्य ते पिण्डिका मध्ये स्थापनं तद्विशिष्यते ॥

अभिन्नपिण्डिकं लिङ्गं स्फटिकं रत्नधातुजम् ।
संस्कारा मनसा तत्र स्थितस्सथापनमुच्यते ॥

लिङ्गादिदोषदुष्टानां लिङ्गादीनां शिवाज्ञया ।
उद्धारः क्रियते यत्र तदुत्थापनमुच्यते ॥

प्।
२१९)

रुद्राभिव्यक्तलिङ्गं वा श्रेष्ठलिङ्गमथाढ्यकम् ।

तथा स्थापनमित्युक्तं पञ्चधेयं शिवस्य तु ।

इति ।

ततस्सुबोधम् ।
पदाध्वादिभेदेनेति ।
पदा शिलाचारहृत्कालशचुलिकाध्वजद्वारभेदेन प्रासादेष्वपि पञ्चधा ।
ततः स्पष्टम् ।
अभावेऽष्टवर्ण सवर्णापदानां अतिशय सहस्रादिहोमेनाचरेत् ।
तथा चोक्तम् -

ब्राह्मणादिचतुष्कस्य वर्णाभावे तदीश्वरैः ।
सहस्रादिकहोमेन वर्णपावनमाचरेत् ॥

इति ।

आखात इत्यादि ।
आ समन्ताद्धस्तप्रमाणक्षेत्रे खाते पुनश्च तां मृता पूर्णे यस्यां भ्रमे हृदधिका पूर्णे यस्या भ्रमे हृदधिका भवेत् ।
सोत्तमा मध्यमा समाहिता कन्यसा भवेत् ।
तथा चोक्तम् -

हस्तमात्रं पुरा खात्वा पूरणा स्याच्छुभाधिका ।

प्।
२२०)

समाया मध्यमा ज्ञेया कनिष्ठा या न पूरिता ॥

इति ।

अथ तोयाद्यैर्वा परीक्षितादित्यत्र तोयेन पूरिते कुण्डे गत्वा गम्यं शतं पदं वीक्षिते तु समं श्रेष्ठं मध्यममध्याङ्गुलादयः ।
क्षेत्रं कन्यसमित्याहुः स चाष्टाङ्गुलादिति ।
अथादिशब्देन आमकुम्भदीपैर्वा परीक्षितम् तथा हि -

परिष्टादामकुम्भे घृतपूर्णप्रदीपिका ।
तस्यां स्वजातिवर्णा स्युर्वृत्तयो वक्तृमन्दिताः ॥

पूर्वादिदिक्स्थिताश्चास्त्र रक्षिताः पूज्यलाम्भिताः ।
यथा पाशान्त अशुभा तस्य शुभान्यस्य नः ॥

सा मूर्तिस्सर्वाश्शान्ता न शस्ता स्युः प्रज्वलिताः अपि ।
?

(इति) ।

ततस्सुबोधम् ।
अथ कवचतमोहा सपर्यायाः पूर्वादिकोष्ठगाः प्रश्नाः क्षराणि जायन्ते तथा चोक्तम् -

नवधा चार्चते क्षेत्रे पूर्वादिक्रमयोगतः ।

प्।
२२१)

क च तै र्हा सपर्याः प्रश्नशलयं निहन्ति ते ।

प्रश्ने मानुषं शल्यं साची हस्तेन जायते ॥

स टि मात्रेण क प्रश्ने शल्ये स्यात्स्वीकरोद्भवम् ।
? ॥




च प्रश्ने दक्षिणशान्तारं तं मात्रतो भवेत् ॥

प्रतीचम्ये प्रश्नशिशु शल्यञ्च पूर्ववत् ।
? हार्णे नानि गल॥




भागे स्युः चित्यङ्गारा चतुष्करैः ॥
?

बीजशल्यञ्च कौपर्या सः प्रश्ने सात्स्फिगन्ततः ।

(इति)

सा च हस्ते गोशल्य व प्रश्ने शम्भुदिग्गतपक्षो मात्रेण यः प्रश्नमध्ये स्यात् ।
बालमस्तकं मनुष्यमरणं राजदण्डमृत्युशिशुक्षयम् ।

प्रवासनाशनैस्त्र्यञ्च तथा गोधननाशनम् ।
कुलक्षयञ्च सर्वाणि क्रमात्कुर्वन्त्यसंशयः ॥

इति ।

प्।
२२२)

अथ लग्ने ध्वजादिपङ्क्तिका इति लग्ने प्रश्ने मुहूर्ते ध्वजधूमादयो दग्धदीप्ति धूमितभेदेन पतिताश्चेत्स्वस्वस्थाने वास्तोरङ्गे मुख्यम् ।
तथा चोक्तम् -

आर्यैर्वा ध्वजधूमाद्यैरादित्या गति निश्चितैः ।
प्रदीप्तधूमितादिस्थै शल्यमूर्ध्वादितो वदेत् ॥

सजो मूर्धामुखं धूमो मृगारि भुजवक्षसि ।
अश्वाकोढं वृषलिङ्गं कटिश्चोरुद्वयं करः ॥

गजजङ्घैः खगः पादो देहिनो यस्य कस्यचित् ।

इति ।

तदुच्यते -

धूमितं एतत्स्थानत्रयमाश्रित्य यदा प्रयच्छन्ति ।
वृचिकास्त्विदा तत्स्थाने वास्तोरपि शल्यं विजानीयात् ।
अतः पश्वादीनामित्यादि ।
सूत्रप्रसारणकालो पश्वादीनां गोमहिष्यादीनां प्रवेशनैर्वा कीर्तनैर्वा तेषां नामोच्चारणैर्वा विरुद्धैर्ध्वनिभिः वादि शल्यत्वेन शल्यन्ते ।
?

एवमञ्जसा शीघ्रं स्तोका खातेऽष्टशल्योर्वारे प्रयोजनमुक्तमपि पुरुषाधोदृगो शल्यं जायन्ते ।
न तु दोषकम् ।

प्।
२२३)

जालान्तिकास्थितं शल्यं प्रासादं दोषजं नृणाम् ।
तस्मात्प्रासादिकं भूमिं खनेद्यत्नाज्जलान्तिकम् ॥

पाषाणशर्करान्तं वा तत्र वास्तुं पुनर्यजेत् ।
शङ्खशुक्तिप्रवालानि मुक्तारजतकाञ्चनम् ॥

मणिरत्नादिमण्डूकं कच्छपो * स चेतनः ।
खन्यमानीन यदा खाते लभ्यते वास्तु मध्यतः ॥

सर्वकामप्रदा भूमिः दृष्टेनैव समुद्धरेत् ।

ततः स्पष्टम् ।
तत्वानि निजमन्त्रेणेत्यत्र तत्वैशः

बुद्ध्याहङ्कृतिसङ्कल्पो घनानन्दक्रमात्त्रयः ।
तीर्णभुक् च समादानो दुन्दुभिश्च विलुंवकः ॥

महावक्त्रः प्रशान्तश्च सर्वज्ञो व्योमधारकाः ।
सूक्ष्मश्च नादनामा च बलवत्तरभानुमान् ॥

जयदो गन्धसञ्ज्ञश्च मातरिश्वत्विषान्निधिः ।
जलेशश्चैव श्रीकण्ठः इति तत्त्वाधिपाः स्मृताः ॥

ततः स्पष्टम् ।
समस्तनाडिसम्पात इत्यादि ।
अत्र नाड्यो दश ।





प्।
२२४)

लक्ष्मी यशोवती कान्ता * प्रिया विमला शिवा ॥

सुभगा सुमती चैव नाड्यः प्राचीमुखोद्गताः ।
धन्याः प्राणा विशाला च स्थिरा भद्रा जया निशा ॥

विरजा विभवा चैव सौम्यवक्त्राः प्रकीर्तिताः ।
तृतीयमूर्ध्वस्थितौ वंशौ दुर्जयो दुर्द्धरस्तथा ॥

कर्णयोः पादगुल्फे च क्रीडन्ती बन्धनी तमः ।
संवर्ता च विवर्ता च जानुकूर्परमेलके ॥

हृद्गुह्यकुक्षिमार्गेषु सम्भवा जननीति च ।
पक्षधा चेति विज्ञेय रज्जवोष्टौ च नामतः ॥

समस्तनाडिसम्पातः सन्धिरित्यभि धीयते ।
महात्म्यमेदित्याहुः ब्रह्मस्थानं यदुच्यते ॥

अष्टसूत्रसमायोगात् अम्बुजं परिकीर्तितम् ।
वंशरज्वोष्टकं सूत्रं सम्पुटं कोणसङ्गतम् ॥

तस्यार्द्धेन हलं कोष्ठं चतुष्के स्वास्तिकं मतम् ।
रज्जूर्ध्वं रज्जुवंशोर्ध्वं महास्वस्तिकमुच्यते ॥

प्।
२२५)

वज्रं (रस) सूत्रसंयोगात् शूलकोणे तदर्द्धतः ।
सूत्रपञ्चकसंयोगात् मणिबन्धं प्रकीर्तितम् ॥

सप्रसान्ता नाडिसंयोगात् श्रीकर्मादिर्मणबन्ध्युक् ।
? सुविशुद्धपतिर्यत्र रज्जुवंशविवर्जितः ॥

इति ।

द्वादशवर्णानि शतमष्टोत्तरं परम् ।
सूक्ष्मं सहस्रन्तु वर्जनीयं प्रयत्नतः ।
अत्रैव प्रसङ्गात् नामगोष्ठस्थानरूपभेदेन बहुधा दृश्यते ।
यथा -

देवानां प्रीतिदन्नाम पदाष्टाष्टकवर्जितम् ।

उक्तानुक्तेषु सर्वत्र कार्यञ्च्छतपदं गुहः ।
पञ्चविंशत्पदं यच्च वेतालाख्यञ्च तौ मतम् ॥

पदेषु सुस्थितन्नाम पृष्ठे वातस्तु सङ्गृहे ।
ब्रह्मपीठादधो वृद्धिः साधुके विघ्नमर्दनी ॥

सूत्राधो मण्डलाख्यञ्च कपर्दानाञ्च मन्दिरे ।
षडर्त्त्वग्रन्त्य श्रवृत्ताश्रयोन्वष्टाश्रार्द्धचन्द्रवान् ॥

पुनश्च देवलोके च ग्रहशक्रगणांशुमान् ।

(इति)

पुनर्देशविषये मण्डलादिविभेदेन प्रपञ्चत्वादलम् ।
ततस्स्पस्टम् ।
अथ लिङ्गप्रतिष्ठाया इत्यादि ।
सा च प्रतिष्ठा सदा सर्वा ले द्वादशे मासेप्युभयपक्षेऽपि सकलदिने नक्षत्रे मुक्तौ कार्या भुक्त्यदेवने स उत्तरायणे भवेत् ।
तथा चोक्तम् -

ऋतु षट्केऽपि सा कार्या कृत्यर्थं कुदिनेष्वपि ।
हीनातिरिक्तकेऽन्यस्मिन् दिने वारे द्विपक्षयोः ॥

उत्तरायणके मुक्त्यै लिङ्गस्थापनमाचरेत् ।

इति ।

अथ प्रथमे करणत्रये वाहुवक्त्र भ्रुवाख्ये अथ तारयोगः ।

जन्मसम्पद्विपत्क्षेमप्रत्यरं बाधको वधः ।
मैत्रं परममैत्रञ्च जन्म चेति पुनः पुनः ॥

अथ योगः -

प्।
२२७)

विष्कम्भप्रीतिरायुष्मान् सौभाग्यश्शोमनस्तथा ।
अतिगन्धस्सुकर्मा च धृतिश्शूलस्तथैव च ॥

गन्धो वृद्धिर्द्ध्रुवश्चैव व्याघातो हर्षणस्तथा ।
वज्रस्सिद्धिर्व्यतीपातो वरीयान् परिघश्शिवः ॥

सिद्धस्साअध्यश्शुभश्शुभ्रो ब्राह्मो माहेन्द्रवैधृतिः ।
एतेषाञ्च शुभा ग्राह्या मृतोऽन्यश्च परित्यजेत् ॥

ततस्सुबोधम् ।
यः प्रसादो भवेद्दोषमित्यादि ।
एषां बाणादीनां यजमानेच्छा यः -

प्रासादः कन्यसो मध्य उत्तमो उत्तमो भवेत् ।
बाणलिङ्गं सदा पूज्यं सर्वप्रासाददापिगम् ।

इति वचनात् ।
यस्मात् स च प्रासादो घटितलिङ्ग मानतो भवति ।
तस्मात्तत्प्रासादेन लिङ्गं घटितम् ।
तस्य स्थापनयोर्मण्टपः पूर्वमुक्तस्तन्मण्टपं वा कुर्यादित्यर्थः ।
ततः स्पष्टम् ।
दाहायाग्नौ भगाकार इत्यादि ।

तुर्यांशे चार्धकोणा तु तुर्यत्यागपरिग्रहात् ।
स्वक्षेत्राङ्गमग्रे तु दत्वा तत्सूत्रसङ्गमात् ॥

प्।
२२८) ॐ हां गाय नमः ।
ॐ हां पत्याय नमः ।
ॐ हां इन्द्राय नमः ।
ततः शाखयोः भौताशनं मतम् ।
कुण्डं योन्याकारमिदं मतम् ।

विकारभक्तं वेदाश्रं पुरतो यद्द्वयं विना ।
वसुभागाद्दृते भागे तदङ्गद्वितयं त्यजेत् ॥

हस्ते दत्वा समं सूत्रं भ्रामयेदर्धचन्द्रवत् ।
वेदाश्रं पूर्ववत्कृत्वा षडंशं पुरतो नयेत् ॥

लाञ्च्छयेत्तेन मानेन क्षेत्राचीनतुरीयकम् ।
षट्सूत्रपातनात्स्पष्टं षट्कोणं त्रायते तदा ॥

षट्कोणार्द्धं त्रिकोणं स्यात्कुर्यान्नै-ऋतकोणगम् ।
अपि कोणार्द्धकोणे तु वस्वंशत्या शतो भ्रमात् ॥

वर्तुलं पश्चिमे कुण्डे तन्मानेनाम्बुजं मतम् ।
मध्ये ते मन्तिमा पूर्वे नेमी तु कर्णिका ॥
?

विकारांशपरित्यागात् कोणादर्धेन लाञ्च्छयेत् ।
दिक्षु संस्थापयेत्सूत्रमष्टाश्रं तेन जायते ॥

ततः स्पष्टम् ।

प्।
२२९)

उच्छ्राय पञ्चमांशेन शूलपद्मानि जन्मना

इति ।

तावत्पञ्चहस्ततोरणे हस्तमयोगतमूर्ध्वं शल्यमष्टाङ्गुले विशिष्टोच्छ्रायः षोडशाङ्गुलादिस्त्रिरंशस्स्यात्तत्र पञ्चमांशः ।
किञ्चिदधिकसार्द्धसप्तदशाङ्गुलस्स्यात् ।
तेन शूलांशनिमज्जमः ।
अत्रांशशब्दस्वरूपवारकः मध्यशृङ्गनिर्गमः पार्श्वशृङ्गनिर्गमश्चेत्यर्थः ।
ततः स्पष्टम् ।

अथ लोकग्रहवसवास्तस्य स्रवन्तीनामित्यादि ।
अत्र क्रमस्तावत् पूर्वद्वारतोरणे -

१ शान्तितोरणाय नमः ।
२ ॐ ऋग्वेदाय नमः ।
ततः शूलें ॐ पूर्णे नमः ।
ॐ धात्रे नमः ।
ॐ विधात्रे नमः ।
ततश्शाखयोः ।
ॐ प्रशान्ताय नमः ।
शिशिरायै नमः ।
ॐ गणपतये नमः ।
ॐ सरस्वत्यै नमः ।
महालक्ष्म्यै नमः इत्यूर्ध्वोदुम्बरे ।
ततश्शाखयोः ।
ॐ हां नन्दिने नमः ।
ॐ हां गङ्गायै नमः ।
ॐ महाकालाय नमः ।
ॐ यमुनायै नमः ।
ततो दक्षिणे ।
ॐ भूतितोरणाय नमः ।
ॐ यजुर्वेदाय नमः ।

प्।
२३०)

ॐ बुधाय नमः ।
ॐ बृहस्पतये नमः ।
अजघन्याय नमः ।
अथ द्वाराय विद्याकलाद्वाराय ।
अत्र गणादिपूर्ववत् ।
शाखयोः ॐ मृङ्गिणे नमः ।
ॐ विनायकाय नमः ।
ॐ नर्मदायै नमः ।
पश्चिमे ॐ बलतोरणाय नमः ।
ॐ सामवेदाय नमः ।
ॐ ततश्शूले ।
ओमर्यम्णे नमः ।
ॐ मित्राय नमः ।
ॐ त्त्वष्ट्रे नमः ।
ॐ जनलोकाय नमः ।
ॐ तपोलोकाय नमः ।
ॐ शुक्राय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ शनैश्चराय नमः ।
ॐ धात्रे नमः ॐ विधात्रे नमः ।

अथ द्वारे निवृत्तिकलाद्वाराय नमः ।
अत्राऽपि गणा पूर्ववत् ।
वृषभाय नमः ।
ततश्शाखयोः ।
ॐ यमाय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ सत्यलोकाय नमः ।
ॐ ध्रुवलोकाय नमः ।
ॐ राहवे नमः ।
ॐ केतवे नमः ।
ॐ वाहनाय नमः ।
अथ द्वारे -

ॐ प्रतिष्ठाकलाद्वाराय नमः ।
अत्रापि गणा पूर्ववत् ।
ततः शाखयोः ॐ देव्यै नमः ।
ॐ काव्यै नमः ।
ॐ दण्डाय नमः ।
ॐ पयोष्ण्यै नमः ।
एतान् गन्धादिभिः पूजयेत् ।

प्।
२३१)

ततः स्पष्टम् ।
तन्मध्ये अष्टदलं पद्ममित्यादि ।
असुत्रस्पष्टवचनाद्वर्तनक्रमो यथा -

पूर्वापरायतं सूत्रं मध्या प्रभायतस्समम् ।
पूर्वापरसमानेन सूत्रेणोत्तरदक्षिणे ॥

ॐ क (कार) येदपराङ्कान् पूर्वानपि तथैव च ।
मतं क्षेत्रार्द्धमानेन मत्स्यं कोणेषु साधयेत् ॥

तत्र सूत्रप्रदानेन चतुरश्रं भवेदिदम् ।
अस्मिन् क्षेत्रेऽष्टधा भक्ते चतुर्भिर्मध्यतः कुजम् ॥

समन्ताद्विकारांशेन द्वाराणि च ततो बहिः ।
चतुर्भागैः भवेच्छोभा तदर्धेन कपोलकौ ॥

मध्ये वृत्तानि कार्याणि चतुरङ्गुलकानि तु ।
प्रथमे कर्णिकाभागे द्वितीये केसराणि च ॥

तृतीये दलबन्धीनि दलाग्राणी चतुर्थके ।
दिक्ष्वष्टौ पुनरप्यष्टौ दत्वा सूत्राणि षोडश ॥

द्वयोर्द्वयोः पुनर्मध्ये तत्सङ्ख्यातानि पातयेत् ।
एष तृतीयवृत्तस्य पार्श्वशूत्रस्य सङ्ग्रहात् ॥

प्।
२३२)

तथा चतुर्थवृत्तस्थः ग्रामादपि बहिर्मुखात् ।
जायते सर्वतोह्यर्धचन्द्रां षोडश षोडश ॥

लेपयेत् स्थिरहस्तानां पुत्राणाञ्च प्रसिद्धये ।
एकैकस्मिन् दले कुर्यात् केसराणाञ्चतुष्टयम् ॥

तन्मध्ये नवबीजानि कर्णिकायां प्रकल्पयेत् ।
त्रित्रिभागविलोपेन कोणस्स्यात्सर्वभद्रके ? ॥

कामाढ्यात्तत्तिलः काम प्राच्यते तत्प्रसङ्गतम् ।
? चतुष्षष्टिपदे भागान् नवकोणान् परित्यजेत् ॥

स्तम्भमेकेन षड्भागैः ऊर्ध्वं तिर्यक् शीरोऽन्वितम् ।
स्तम्भाद्भागं परित्यज्य लिङ्गमेकं यथा भवेत् ॥

षड्भिर्वेदैः कलाभिस्तु कर्णवेदियुगैरघैः ।

इत्थं पञ्च च लिङ्गानि तुर्यात्स्तम्भरसैस्सह ।
लिङ्गस्तमभान्तरस्थानि लिङ्गोर्ध्वे संस्थितानि च ॥

लुप्त्या कोष्ठानि वर्तेत शिखरं सितरूपकम् ।

प्।
२३३)

स्तम्भे चैव विमानार्थं पञ्चसप्तविलोपयेत् ।
कोणस्तम्भद्वयादूर्ध्वं भागाद्यष्टादशा हरेत् ॥

कोणेषु तिलकाः कार्याः लताभिः सह शोभनाः ।
तदूर्ध्वं वीथिका कार्या भागयुग्मैः समन्ततः ॥

मध्ये द्वादशभागेन पद्मं पूर्ववदत्र तु ।
पीतेन रजसा कार्यं कर्णिका कनकप्रभा ॥

शुकपिञ्चनभे नाड्य नव बीजानि विन्यसेत् ।
केसराणान्तु मूलानि कृतहारेन्दुरागिणा ॥

कार्याणि रजसा सम्यक् तन्मध्यान्मिश्रणन्ति वै ।
केसराग्राणि पीतानि धवलानि दलानि तु ॥

भूमिं शुद्धेन रजसा तिसृभिश्चतुरश्रकम् ।
कृष्णेन रजसा लिङ्गवीथी पत्रविभूषिता ॥

यवगोधूमकैश्चूर्णै शालितण्डुलकैर्युतम् ।
धातुसिन्धूरजं रक्तं वाऽथ परित्त्वष्टकं भवेत् ॥

कृष्णं रजस्तुषैर्दग्धैरङ्गारैर्वा स चूर्णितैः ।
हरिद्रा सम्भवैः पीतं गैरिकोद्भूतमेव वा ॥

प्।
२३५)

हरितैः चूर्णितैः पत्रैः हारीतन्तु प्रकल्पयेत् ।
दीक्षास्थापनयोर्विद्वान् कुम्भ एव शिवं यजेत् ॥

प्रायश्चितं भवेत्तस्मात् रजोभङ्गे तु लिङ्गवत् ।

स्पष्टमन्यत् ।
लक्ष्मक्षेत्रेऽष्टधा भक्त इत्यादि ।
लक्ष्मक्षेत्रे लिङ्गदीर्घे षोडशांशेन परिकल्पयेत् ।
हस्तादि नवहस्तानां अङ्गुलादि नवाङ्गुलान्तं परिकल्पयेत् ।
विस्तारे तत्र दीर्घैरष्टधा भक्ते मूर्ध्नि भागद्वयोच्यते ।
लक्ष्मक्षेत्रार्द्धमानेन पार्श्वयोर्गत्य षड्भागपरिवर्तनेन षड्भागपरिगणनया तत्राधो भागं त्यक्त्वा चतुर्भागावलम्बनेनेत्यर्थः ।
तत्र सूत्रपरिभ्रमणेन पृष्ठदेशतः सम्बन्धं कारये॥





व॥




णखां गम्भीरविस्ताराय विलक्ष्मरेखावदवगन्तव्यौ ।
तथा चोक्तम् -

एकहस्तेऽङ्गुलं ज्ञेयमन्येषां अङ्गुलोत्तरम् ।
लक्ष्मै तन्नवमांशेन यवं रेखां गभिरकम् ॥

कुर्याद्विस्तरमप्येतव्यंशवृद्धा वसुग्रहे ।
पक्षक्षेत्रदलेनाऽस्य रेखामानं स सम्भवेत् ॥

प्।
२३५) दीर्घमष्टविकल्पादौ युग्मभागाद्विलङ्घयेत् ।
मर्मवेधने कुर्वीत यवार्द्धेन यवेन वा ॥

एकद्वित्रिक्रमेणैव माषया कैश्शलाकया ॥

इति ।

ततस्पष्टम् ।
शक्त्यादि भूमिपर्यन्तं स्वतत्वाधिपमित्यत्र षट्त्रिंशत्तत्त्वनायकाः ।

शोमशम्भुस्तथादेश चुतुरानन एव च ।
कल्याणञ्च विशालाख्यः केतुध्वजोऽनालानलः ॥

महानादि ततो मेक ध्वजो निरादपल्लवः ।
पितामहश्च गोपालः शीलास्ये परितान्विदुः ॥

तत्रस्पष्टम् ।
शुद्धेचाध्वनि विद्येश इत्यादि ।
शुद्धाध्वनि शुद्धविद्यादौ भोगिनौ विद्येशाः श्रीकण्ठादयः शुद्धे मायादौ भोगितो मूर्तिपा लोकनायकाश्चेति मन्त्रनायकाश्च द्रष्टव्याः ।
ततश्च्छत्रावध्वरादौ लोकेशाः शक्रादयः रागादौ मन्त्रनायकाः अ"गुष्ठमात्रपुरुषाः ते चाङ्गुष्ठमात्रस्तावत् ।
भुवनेशो द्वितीयकः ।
ईशानश्चैकपिङ्गाक्षः उद्भवो भवसञ्ज्ञकः ।

प्।
२३६)

महादेवो महातेजः रुद्रा रागे व्यवस्थिताः ॥

इति ।

ततस्सुबोधम् ।
अष्टत्रिंशत्कलोपेतमित्यत्र कलाश्च -

शशिनी चाङ्गदा चेष्टा मरीची ज्वालिनी मता ।
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्च चतुष्कला ॥

तमोमोहोऽक्षया निष्ठा मृत्युमायाऽभया ज्वरा ।
रजो रक्षारतिः पाल्या * मा संयमिनी क्रिया ॥

बुद्धिः क्रव्या च धात्री च भ्रामिणी मोहिनी तथा ।
भवा चेति च विख्याता वामदेवकला दश ॥

सिद्धि-ऋद्धिद्युतिर्लक्ष्मी मेधा कान्तिस्स्वधा धृतिः ।
इति ।
ततस्सुबोधम् ।
अथ महापाशुपतं पठन् इत्यत्र ।
तच्च - ॐ नमो भगवते पाशुपताय अतुलबल वीर्यपराक्रमाय त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोद्यकराय सर्वाङ्गवक्त्राय भिन्नाञ्जनप्रख्याय श्मशानवेताल - प्रियाय सर्वविघ्नकृन्तनकराय सर्वसिद्धिप्रदाय भक्तानु - कम्पिने असङ्ख्यवक्त्रभुजपादाय प्रमथसिद्धाय

प्।
२३७)

वेतालपित्राशिने शाकिनी क्षोभनाय व्याधिनिग्रहकारिणे पापं भक्ष्याय सोमसूर्याग्निनेत्राय विष्णुकवचाय इन्द्रवज्रहस्ताय यमदण्डायं वरुणपाशाय रुद्रस्त्रिशूलाय ज्वलनजिह्वाय सर्वरो (ग) विद्रावणाय ग्रहनिग्रहकारिणे दुष्टनागक्षयक्ष्मारिणे ॐ कृष्णपिङ्गलाय फट्क्रुराय फट्वज्रास्त्राय फट् शक्तये फट् अग्नये फट् दण्डाय फट् यमाय फट् खड्गाय फट् निरुपतये फट् पाशाय फट् वरुणाय फट् ध्वजाय फट् वायवे फट् गदायै फट् कुबेराय फट् त्रिशूलाय फट् ईशानाम फट् चक्राय फट् विष्णवे फट् पद्माय फट् ब्रह्मणे फट् नागास्त्राय फट् खादगास्त्राय फट् मुग्धास्त्राय फट् कङ्कालास्त्राय फट् पञ्चिकास्त्राय फट् क्षुरिकास्त्राय फट् डाकिन्यस्त्राय फट् शस्त्रास्त्राय फट् गणास्त्राय फट् पिपिलिञ्चास्त्राय फट् गन्धर्वास्त्राय फट् पूर्वास्त्राय फट् दक्षिणास्त्राय फट् पश्चिमास्त्राय फट् उत्तरास्त्राय फट् (दाकिन्यस्त्राय) फट् सामालुकास्त्राय

प्।
२३८)

फट् लामास्त्राय फट् शिवास्त्राय फट् ईशानास्त्राय फट् महास्त्राय फट् तत्पुरुषास्त्राय फट् अघोरास्त्राय फट् वामास्त्राय फट् सद्योजातास्त्राय फट् हृदयास्त्राय फट् हः अस्त्राय फट् क्षः नरसिह्मास्त्राय फट् वराहास्त्राय फट् सर्वास्त्राय फट् ॥


जास्त्राय फट् शः फट् लः फट् वः फट् षः फट् श्रीं फट् सौं फट् षूं फट् सर्वमनांसि फट्सर्वकरणाय फत् सर्वदेवाय फट् भ्रम् ।
अं फट् लं फट् भैरवास्त्राय फट् मायास्त्राय फट् ॥




का॥


ष्त्राय फट् क्षेत्रपालास्त्राय फट् क्रूरास्त्राय फट् हौं फट् भस्करास्त्राय फट् चन्द्रास्त्राय फट् विघ्नेशास्त्राय फट् खां खौं फट् क्षां क्षौं फट् उन्मूलय उन्मूलया त्रासय त्रासया सञ्जीवय सञ्जीवय फट् द्रावय द्रावय फट् सर्वदुरितनाशनाय फट् सदावर्तनो देव सर्वविघ्नविनाशयेत् ।

महापाशुपतास्त्रेण महाशान्तिः प्रजायते ।
साष्टोत्तरशतास्त्राय फट्काराणां व्यवस्थितिः ॥

प्।
२३९)

ततः स्पष्टम् ।
बालुका वज्रालेपन इत्यत्र वज्रलेपनं श्वभ्रसन्धिं ततः पुर्यबालुकैः सूक्ष्मवालुकैस्तावत् सूर्यस्तु तत्सन्धिर्यावत्दुतान्नमस्तकम् ।

पयो क्षिरैर्लोहमलैरलचूर्णैस्सुसूक्ष्मकैः ।
शङ्खचूर्णैस्समं ग्राह्य क्षौमतैलेन वापयेत् ॥

युक्त्या पाकं ततः कृत्वा विसन्धिं तेन कारयेत् ।
यथा न विचलेत्तेन उदकाद्यभिघातकः ॥

इति ।

उदकं सन्धिकश्चात्र प्रमाद्यदजायते ॥
?

सन्धिर्हानिर्मनो रोगो वाप्यथ पञ्च वा ।
तस्मात्सर्वप्रयत्नेन जलं प्रणालकं शुभम् ॥

प्रणालाय प्रणालात्तु शैलजं वाऽथ दारुजम् ।
स्वदृढं शोभनं कृत्वा दातव्यं जलनिर्गमम् ॥

प्रासादान्ते वृहत्खातं रूपवत्पदनिर्मितम् ।

इति ।

ततः स्पष्टम् ।
पूजासामान्यलिङ्गेष्वित्यादि ।
अत्र

प्।
२४०)

सर्वसामान्यत्वेन नृपादिभिस्थापितेषु नियतजनपूज्येषु साधारणाणुभिरिति प्रणवो मायामातृका व्योमव्यापि षडक्षरम् -

प्रासादो बहुरूपश्च सप्तसाधारणा मता ।

(इति) ।

एभिः पूजा कार्या ।
ततः स्पष्टम् ।
अथ हृत्प्रतिष्ठायामग्रं तद्गुणानाञ्च बोधकञ्च कलादिकञ्चेत्यत्र कलादि तत्वन्यासः ।
ॐ हां कलायै नमः ।
ॐ हां कलाधिपतये नमः ।
ॐ हां कलाधिप त्त्वमस्यात्मनः कलने व्यक्तिं कुरु कुरु ॐ विद्यायै नमः ।
ॐ हां विद्याधिपतये नमः ।
इत्यादयो मन्त्राः ।
विद्याधिपत्त्वमात्मनो ज्ञानाभिव्यक्तिं कुरु कुरु हं हां नागाधिपत्वस्यात्मनो विषयरागं कुरु कुरु ।
औ हां प्रकृत्य त्यधिपत्वमस्यात्मनो विकारपुरुषत्वं कुरु कुरु ।
ॐ हां बुद्ध्यधिपत्वमस्यात्मनो बोधं कुरु कुरु ।
ॐ हां अहङ्काराधिपत्वमस्यात्मनो विषयेऽहं कुरु कुरु ।
ॐ हां मनोधिपत्वमस्यात्मनो विकल्पं कुरु कुरु ।

प्।
२४१)

ॐ हां श्रोत्राधिपत्वमस्यात्मनो शब्दात्मकग्राहकत्वं कुरु कुरु ।
ॐ हां त्त्वगधिपत्वमस्यात्मने स्पर्शग्राहकत्वं कुरु कुरु ।
ॐ हां चक्षुरधिपत्वमस्यात्मनो रूपग्राहकत्वं कुरु कुरु ।
ॐ हां जिह्वाधिपत्वमस्यात्मनो रसग्राहकत्वं कुरु कुरु ।
ॐ हां घ्राणाधिपत्वं अस्यात्मनो गन्धग्राहकत्वं कुरु कुरु ।
ॐ हां वागधिपत्वमस्यात्मनो वाग्विसर्जनं कुरु कुरु ।
ॐ हां पाण्यधिपत्वमस्यात्मनो पदार्थग्राहकत्वं कुरु कुरु ।
ॐ पादाधिपत्वमस्यात्मनो द्वाहं कुरु कुरु ।
पाय्वधिपत्वमस्यात्मनो उत्सर्गत्वं कुरु कुरु ।
उपस्थाधिपत्वमस्यानन्दाभिव्यक्तिं कुरु कुरु ।
ततश्शब्दादयश्च साधिपा न्यस्तव्याः ।
अथ दश नाड्यः ।

इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ।
गान्धारी हस्तिजिह्वा च पूषा चैव यथा तथा ॥

अलम्पुषा कुहूश्चैव शाङ्खिनी दश नाडयः ।

इति ।

प्।
२४२)

अथ -

प्राणापाणसमानश्च उदानव्यान एव च ।
नागः कूर्मोऽथ कृकरः देवदत्तो धनञ्जयः ॥

इति ।

ततः स्पष्टं ।

अथ प्रासादे वारितेजोऽनिलव्योमपञ्चाष्टकसमन्वित इत्यत्र -

पञ्चाष्टकाश्च रुद्रास्ते अतिगुह्याष्टकास्तथा ।
गुह्याष्टकाश्चैव पुनः पवित्राष्टक एव च ॥

तत्रादौ जलतत्वे तु प्रणवः शशिभूषणः ।
देवदेवो ह्यजो गन्ध आषाढा सीससञ्ज्ञकाः ॥

सप्तमो हरिभूतस्यादष्टमो लकुलीश्वरः ।
अत ऊर्ध्वं भवेदग्निः तत्रापि गुह्यका तथा ॥

हरश्च त्रिपुरघ्नश्च त्रिशूलस्सूक्ष्म एव च ।
महाकालश्च सर्वश्च तथेशानोऽथ भैरवः ॥

प्।
२४३)

अथ वायौ स्थिता रुद्रास्तत्रादौ कामरूपवान् ।
पितामहो विदुस्थाणुः स्वयम्भूरुद्र एव च ॥

विश्वश्चैव महानादो महाभीमस्तथाष्टमम् ।
भवो व्योम्नि महा यो * त्रिमूर्तिरुद्र एव च ॥

महाबलशिवश्चैव सहस्राक्षः तथा शिवः ।
कपर्दी चोर्ध्वरेताश्च वाक्तत्त्वे च महोत्सवः ॥

श्रीकण्ठो नीलकण्ठश्च महातेजास्तथैव च ।
महालिङ्गश्च स्थूले च एवं पञ्चादश स्मृताः ॥

अथ गुणत्रययोगिनः

अकृतश्च कृतश्चैव भैरवो ब्राह्म एव च ।
वैष्णवस्तथा कौमारौ औमः श्रीकण्ठ एव च ॥

अथ मायायाम् ।

गुहनेशोह्यशाठ्यश्च तथा हरिहरावुभौ ।
दशेशानो महावीर्यो त्रिकालो गोपतिस्तथा ॥

अथ सम्प्रसंस्थान्ते तद्वदूर्ध्वे तया स्थिताः ।
लक्ष्मीशो ब्रह्मणो हन्ता विद्येशानस्तथा परः ॥

प्।
२४४)

विद्येशश्च शिवोऽनन्तः षड्ड्रुद्राः सम्प्रकीर्तिताः ।

ततस्सुबोधम् ।

अथ कूपप्रतिष्ठा इत्यत्रापि पूजयेद्वास्तु बिम्बे भास्करभाजित इत्यादि बिम्बवृत्त मण्डले वृत्तक्रमेण च भास्करसङ्ख्यया नव भाजिते सति अंशानाग्निरक्षः पवनेशकोणेषु सार्द्धद्वीपतनायकाः ।
रुद्राद्यष्टमरुद्रतः ततस्त्वंशानाग्निकोणयोर्मध्ये मध्येकपार्श्वयोस्त्रिभिस्त्रिभिः मिश्रीकृतेन सांशके पर्जन्यादयः षडाननाः पूज्याः ।
पुनश्चैशानदिक्ष्वापाद्याः पदं मताः ।
ततस्सुबोधम् ।

अत्रानुक्तं सम्पूर्णं सिद्धान्तेन विरोधि ।
यत् शोधनीयं प्रयत्नेन देशिकैस्सम्मतम् ।

श्रीश्चेदिराजभुविशैवजनाकराख्य - श्श्रीकोलकी विमलभाव शिवा॥



शयो ।
तद्वंशजो शिवमतागमलक्ष्यवेत्ता श्रीधर्मशम्भुरिति गौढपतीन्द्रनाथः ॥

प्।
२४५)

तस्मादसावलनशङ्करदेशिको॥




दिव्यागमाम्बुनिधिरिति कल्पवृक्षः ।
स्वर्गौकसामपिपदं वचसा लभन्ते यस्यैकजन्ममरणैकभयं निरस्ताः ॥

श्रीकोलकीयसन्तानव्योमव्यापी ततश्शिवः ।
श्रीसोमशम्भुरीत्यासीत् कलौ लोकहिताय वै ॥
ज्ञानशक्तिवपुस्तस्मात् ज्ञानशम्भुस्सदाशिवः ।


ये नेन द्योतितं सर्वं शैवमलार्चिषा ॥

सोमार्कवंशनृपमौलिविलोलिताङ्घ्रि - विद्वज्जनाननसरोजदिवाकरो माम् ।
दीनान्धसूरिकृपणा तिथिवारजात - श्रीज्ञानशम्भुरनिशं मलिनं पुनातु ॥
यस्यावलोकनबलात्सुचिरं हि रज्ज्वा लोकेशभुमिषु ततश्शिवतां प्रयाति ।
लोकान्वियक्षुय गहनादि मला ननन्दा - ? नन्दता॥



ंअलबोधशिवाभिधानः ॥

प्।
२४६)

श्रीपञ्चागमसम्भवागमनिधिः मन्त्रौघरत्नाच्च तत् षट्तर्कस्मृतिवेदसिन्धुवसति सत्सन्धिशैलावृतः ।
अष्टप्रत्यया विचिकाभिरनिशं जन्तून् पुनाति ? शैवाचार्यपरोपदादनुदिनं श्रीज्ञानशम्भुस्स माम् ॥

श्रीसोमेशपदारविन्दमधुषण्डार्थ पक्षोघात - ? सिद्धान्तागमपुष्।
पसारमधुकृद्धंसस्वनेद्गारकः ।
श्रीमत् ज्ञानशिवाभिधानचरणप्रोच्चोच्चलाग्रोद्भव - शिवमन्त्यवेकरो वददिमां अध्यक्तबोधप्रदां ? रुद्रदेव मुनिः श्रीमान् पञ्चरात्रिक इत्यसौ ।
प्रथितस्तपसा लोके मरेतस्य तु कृता मया ॥

इति ।

इति श्री सोमशम्भुविरचितां श्रीमत्सोमशम्भुपद्धतौ वा स्पष्टबोधिनी त्र्यम्बकशम्भुविरचिते चतुर्दश टीका समाप्ता ॥

हरिः ॐ ।
शुभमस्तु ।