क्रियादीपिका

रे१५५२७।
फ़िर्स्त् leaf blank।

सेचोन्द् leaf अ blank। इन् ब् वागर्थाविवसम्पृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे
पार्वती परमेश्वरौ॥
थिर्द् leaf अ शारदातिलकोक्तप्रकारम् ॥। कल्पं सुह्मण्कवचम् ???
ब् सौर्यप्रतिष्टै, गणपति, स्कन्दन्, दुर्गै, दक्षिणामूर्ति, विष्णु, दत्तन्,
मानुशप्रतिष्टै, ज्ञानदीक्षै, ज्ञानपूजै, अ(आ?)चार्याभिषेकम्, संहारक्रमम्,
अष्टबन्धनविधि, प्रदक्षिणविधि, रुद्राक्षविधि, भस्मविधि, प्रासादविधि
फ़ोउर्थ् leaf अ अन्द् ब् blank।
(प्रथमः पटलः)
(प्रातः शिवध्यानम्)
हरिः ॐ
दमगेद् ……… किन्नरगीयमानं गङ्गाधरस्य तनयं शरणं प्रपद्ये। श्रीदेवेशं
शिवां वाणीं गणेशं षण्मुखं कुरून् भक्त्या नत्वा चतुर्थानां शैवाचारस्समुच्यते।
ब्राह्मे मुहूर्ते उत्थाय उत्तराभिमुखं
भूत्वा तूष्णीं विभूतिधा
रणं कृत्वा गुरुपादाब्जद्वन्द्वं शिरसि सञ्चित्य यथाधिकारं शिवं ध्यायेत्।
भोगापवर्गदमित्यागमवचनात् समयी हृदयकमलमध्ये वक्ष्य
माणरुद्रमूर्तिं पुत्रकस्सदाशिवमूर्तिं योगी भ्रूमध्यब्रह्मरन्ध्रयोर्बिन्दुनादौ च
ध्यात्वा ज्ञानी शिवोहमति भावयित्वा शिवं कुरूं नत्वा
स्तुत्वोत्तिष्ठेत्।
ननु। ब्राह्मे मुहूर्तोत्थानाद्याचारस्त्रैवर्णिकानामेव विहितः। अथ कथं
चतुर्थानामाचारः कथ्यत इति चेत् स
त्यम्।
शूद्रादि जातिमुद्धृत्य स्वाहान्तेनैव मूलतः। इत्याहुतित्रयम्, पश्चाश्छिवं प्रतिवदेदिति।
आहारा-भावदोषाभ्यां योरुबीजशरीरतः। शुद्धो द्विजो
भवत्वाजा(ज्ञा) भगवन् परमेश्वरेति कामिकाद्यागमवचनात्। सत् च्छूद्राणां
जात्युद्धरणसंस्कारवशात्
शिवागमोक्तानुष्ठानं विहितमेव
[…॥ कर्मविधिः] इदमुत्तरत्र विस्तरेण प्रदर्श-इ(यि?) ष्यामः।
(विसर्जनम्)
अथ ग्रामाद्बहिर्निर्गत्य आवश्यकात् पूर्वं शौचार्थं
मृत्तिकामशर्करामवालुकामवल्मीकाम॥।मूलस्थिता-
मतीर्थमध्यस्थितामदग्धामकुड्यस्थाममूषिकाद्याघाताम् मेदिन्या
अष्टाङ्गुलादधस्थिताः शुद्धां शौचपर्याप्तां
तृष्णीमादाय उद्धृतशौचविषये जलं च समाहृत्य
शुद्धभूतले निधाय
वल्मीकशिलातलश्मशानारामदेवालयसमीपौषधिछक्षेत्र-दूर्वाकुशादियुक्तदेशं विहाय
अन्यत्र निर्जने निर्भये देशे [४थ् line] दिवा सन्ध्यासूदङ्मुखो निशि दक्षिणाभिमुखः।
अक्षिरोगे अन्धकारे ॥। सङ्कटस्थले यथासम्भवमुखः प्रच्छन्न
मौलिर्मौनीभूत्वा अयज्ञी यवभूमिमास्तीर्य दिङ्मे चण्डमारुते तत्र
ऋजु-कायसमाहितच्चि(चि?)त्तो देवविमानगो ब्राह्मणसोमसूर्याग्न्यादिकं सर्वं पश्य ॥॥॥॥॥
न्यस्तलोचनो वामकरतर्जनिमध्यमा गृहीतशिश्नः समलमूत्रे विसृज्य अनन्तरं
वामकरेण तत्रस्था यज्ञीयतृणेन काष्ठेन लोष्ठेन वा गुदं परिमृज्य
पुनर्वा॥॥॥॥॥॥॥
॥॥॥॥॥॥॥॥॥रं गत्वा जलादरत्निमात्रं विहाय शौचं कुर्यात्।
(शौचम्)
तद्यथा प्रथमं गन्धलेपक्षयार्थं [आचमनविधिः]
॥॥॥॥॥॥॥॥॥ शौचं कृत्वा पुनरद्रष्टार्थ॥॥फलमात्रां मृदं दक्षिणहस्ते निदाय
वामहस्ते दत्वा लिङ्गमेकवारं गुदे पञ्चवारं मृज्जलं विहाय

शौचं कुर्यात् ॥॥। वामहस्तं दशवारेण पुनः करौ
सप्तवारेण पादावेकैकवारेण च मृज्जलाभ्यां क्षालयेत्।
इदं शौचं गृहस्थानां विरक्तानां चतुर्गुणम्। एवं दिवि रात्रावर्धं रोगिणां
तदर्धम्, महातीर्थेषूद्धृत्य शौचं कुर्यात्। तत्र धाराशौचं न कर्तव्यम्,
कर्तव्यञ्चुलुकोदकैः। शौचावशिष्टां मृच्छेषं जलेन शोधयेत्। तत

उत्थाय धृतकौपीनो वामपार्श्वे द्वादशवारं गण्डूषयित्वा शिरप्रच्छादनमपनीय
अन्यस्मिन्देशे अमन्त्रकमेकवारं
समन्त्रकमेकवारं शुद्धाचमनद्वयं
कुर्यात्।
(आचमनम्)
तद्यथा पूर्वाभिमुखो वा उत्तराभिमुखो वा कुक्कुटासनो
जानुमध्यकरद्वयो भूत्वा अन्त्यजात्याखातसेविततटाकोदकं गो पिपासोप
शमनापर्याप्तपल्वलोदकमसृभूतजलं कषायोदकमुक्तोदकं वा स॥युक्तजलं
तामसराजसजलानि च विहाय शुद्धजलं गोकर्णवत्

कृतपाणिना गृहीतत्वामुक्ताङ्गुष्ठकनिष्ठिकेन माषमग्नजलं
फेनबृक्बृदादिहरितमालोक्य पूर्ववत् गोकर्णाकारेण ब्रह्मतीर्थेन निश्शब्दं त्रिः पिबेत्

उद्धृतजलञ्चेद्वस्त्रपूतजलं पिबेदिति वचनात्।वस्त्रेण संशोद्ध्य पात्रं भूमौ निधाय
वामहस्तेन पात्रं साचीकृत्य दक्षिणहस्ते
निनीय पूर्ववत् पिबेत्।
शौचपादप्रक्षालनशेषेण जलेन नाचमेत् जलान्तरासम्भवे तज्जलं भूमौ किञ्चिन्निनीय
पात्रं

भूमौ निधाय निरीक्षणादिभिः संस्कृत्वाचमेत्। शुद्धाचमनकाले
हासान्यावलोकनवचनकण्डूयनादीनि वर्जयेत्। शय्यासन
पादुकास्थः उष्णीषी दक्षिणस्कन्धस्थवस्त्रोवानाचामेत्। आवश्यककालधृतद्रव्यसहित
एवाचामेत्। अथ शिरः पादौ च

प्रोक्ष्य दक्षिणाङ्गुष्ठमूलेन दक्षिणपार्श्वोष्ठौ द्विः परिमृज्य।
मध्यमाङ्गुलित्रयैरास्यमयः सकृत् परिमृज्य वक्ष्यमाणक्रमेण
नासिकाक्षिकर्णनाभिश्च
॥॥॥ बाहून्दक्षिण-वामक्रमेण जलं संस्पृश्य ॥श्चात् समन्त्राचमनमाचरेत्। तद्यथा
पूर्वोक्तप्रकारेण जलं गृहीत्वा आत्मतत्वशुद्ध्यर्थं पूर्वं

ह्रस्वप्रण ॥। हाम् आत्मतत्वाय स्वधेति पृथक्। विद्यातत्वशुद्ध्यर्थं हीं विद्यातत्वाय
स्वधेति द्वितीयम्।
शिवतत्वशुद्ध्यर्थं हूं शिवतत्वाय स्वधेति
तृतीयं पिबेत्। एवं वक्ष्यमाणेष्वपि मन्त्रेषु तत्रापि नादरहित इति वचनात्
ह्रस्वप्रणवपूर्वकत्वं विज्ञेयम्। तत-श्शिवमन्त्रेण मूर्धानं पादौ
च प्रोक्ष्य दक्षिणाङ्गुष्ठमूलेन नमोन्तं हृदयेन औष्ठौ द्विः परिमृज्य
मध्यमाङ्गुलित्रयेण भारती-प्रीत्यर्थं तत् बीजाक्षरेण
आस्यमधः
परिमृज्य अङ्गुष्ठे ईश्वरस्य स्थितत्वात् अनामिकाग्रे अमृतकलायास्थितत्वात् तत्तत् तत्तत्
स्थानशुद्ध्यर्थं
तत्तदधिष्ठानदेवतातृप्त्यर्थं च अङ्गुष्ठानामिकाभ्यां
प्राणनेत्रश्रोत्रनाभिहृदयमूर्धबाहून् क्रमेण स्पृशेत्। ओष्ठद्वयस्पर्शने प्रणवम्
आस्यस्पर्शेन भारती। नासिकास्पर्शेन प्राणः। चक्षुद्वयस्पर्शेन चन्द्रसूर्यौ,
श्रोत्रद्वयस्पर्शेन दिग्देवता।
नाभिस्पर्शेन ब्रह्मा। हृदयस्पर्शेन
लयकर्ता। शिरस्पर्शेन विष्णुः। ॥॥। स्पर्शेनाश्विनौ चेत्येता देवतास्तृप्ता भवन्ति। तदुक्तं
पराख्ये अनामयां च संस्पर्शः कर्तव्यों
गुष्ठ ॥। तया।
भवेदीशः सचाङ्गुष्ठो नाम नामामृता कला।
तयामृतात्मना देवता तृप्तास्त्वनामया।
भवन्ति तत्क्रियाकर्तुः क्रियाभावोपब्रह्मकाः।

भारती रसनाग्रस्था प्रणवश्चोष्ठसम्पुटे।
नासापुटद्वये पाराणाश्चक्षुषो शशिभास्करौ।
श्रोत्रयोश्च दिशस्सर्वा नाभौ ब्रह्मा लयो हृदि।

शुद्ध्यर्थं मस्तके विष्णुर॥॥योरश्विनौ स्थितौ॥ इति। जलतीरेषु जले वामपादं तीरे
दक्षिणपादं च निधाय आचमनं कुर्यात्। इत्याचमनविधिः।
अथ दन्तधावनम्।
शुभ्रस्तु प्रतिपत् षष्ठी नवमी एकादशी पौर्णमास्यमावास्यासु न कुर्यात्।
उदयानन्तरमपि न कुर्यात्।
अमावास्यैकादशी पैतृकदिवसानि विना इतरासु निषिद्धतिथिषु पर्णैस्तृणैर्वा कुर्यात्। एतासु
तिथिष्वपाद्वादशगण्डूषैर्वा शुचिर्भवति।
विरक्तैस्तु प्रतिपदादि सर्वासुतिथिष्वभोजनोत्तरं च दन्तधावनं कर्तव्यम्। तदुक्तम्
चिन्त्यविश्वसादाख्ये –
प्रतिपत्पर्वषष्ठीषु नवमी दर्शयोरपि।
मुमुक्षोश्च विशेषेण नित्यं वै दन्तधावनम्॥ इति।
गृहस्थैस्त्वामृज ॥। पामार्गककुभाद्यनिषिद्धक्षीरवृक्षोत्थं
कनिष्ठाङ्गुलिपरिणाहमष्टाङ्गुलिप्रमाणं
शुद्धमार्द्र-पर्वकं सत्वजमृजुमसमश्छेद्यं नमोन्तं
हृदयेनाभिमन्त्रितदन्तकाष्ठं दन्तैर्मृदुलं कृत्वा पूर्वाभिमुखः सन्
राजदन्तमारभ्य सव्य-क्रमेणान्तर्बहिश्च
दन्तमांसमपार्यन् शनैश्शनैश्शोधयित्वा प्रक्षाऴ्य तत्काष्ठं वामपार्श्वे परित्यज्य
गण्डूषयित्वा
हस्तौ प्रक्षाऴ्य तज्जातीयकाष्ठेन वा ॥॥॥ अक्षराभिमन्त्रितेन
जिह्वालेखनं कृत्वा पूर्वोक्तविधानेन गण्डूषयेत्। विरक्तस्तु
करञ्जचिरिबिल्वखदिरार्जुनशिरीषोद्भवानि
पूर्वोक्तलक्षणानि शिष्याहृतानि दन्तकाष्ठानि सङ्गृह्य पूर्वोक्त-विधानेन दन्तशोधनं
कुर्यात्। शिष्याभावे स्वयं पतितपर्णैः कुर्यात्।
धवधात्रिशिग्रूनिं
बकतकैरण्डतिन्त्रिणीजपापिशाच नाम वृक्षसम्भवांश्च नाऴिकेरोद्भवं च
लोहनिर्मितभस्ममृद्वस्त्राङ्गुल्यादीन् वर्जयेत्।
अथ स्नानविधिरुच्यते। गृहस्थानां मृत्तिकास्नानम्
केशधारिणामामलकस्नानम्। विरक्तानां मृत्तिकास्नानं नित्यमेव शुद्धदेशे
अष्टाङ्गुलिप्रमाणादधः अस्त्रेण खात्वा ह हृदयेनाहृत्य तेनैवावटं पूर्य तीर्थतीरे
नमोन्तशिरसा निक्षिप्य अस्त्रेण शोधयित्वा शिखया तृणादी
नुद्धृत्य कवचेन त्रिधा विभज्य आचम्य प्राणायामपुरस्सरं सन्न्यासं
कृत्वा दक्षिण ऊरौ दक्षिणोत्तरौ करौ कृत्वा शिवशिव शम्भोराज्ञाप्रवर्तमानस्य
अद्यब्रह्मणो द्वितीयपरार्धे श्वेत-वराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणपार्श्वे अस्मिन् वर्तमाने
व्यवहारिके अमुकसंवत्सरे अमुकायने अमुकर्तौ अमुकमासे अमुकपक्षे
अमुकवारनक्षत्रयोगकरणयुक्तायामस्यां पुण्यतिथौ
अस्माकं
सकुडुम्बानां समस्तपापक्षयद्वारा चतुर्विधपुरुषार्थसिध्यर्थम् अस्मिन् तीर्थे स्नानं
करिष्य इति सङ्कल्प्य उत्थाय। अतिक्रूरमहाका
यकल्पान्तदहनोपमम्। भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि। इति क्षेत्रपालं
नमस्कृत्य लब्ध्वानुज्ञः शिवं गुरुं नमस्कृत्य तत्र श्रेष्ठानप्यभिवाद्य
तटाकपुष्करणीषु पञ्चपिण्डानुद्धृत्य तीरे विसृज्य
त्रिलोकपावनि श्रेष्ठशिवचूडानिवासिनि।
गङ्गादेवि नमस्तुभ्यं जलेस्मिन् सन्निधिं कुरु॥ इति
गङ्गाभवानीं
प्रार्थ्य कटिवेष्टिदशां कटिसूत्रे वामपार्श्वे बद्ध्वा एकदा मृदा
नाभ्यादिवा(पा)दपर्यन्तम् आलिप्य क्षालयेत्। मध्यमांशां मृदमादाय
सप्तवारमस्त्रेणा
भिमन्त्र्य कायिककल्मषशान्तये मस्तकादि-पादान्तमनुलिप्य इन्द्रियकल्मषशान्तये अक्षाणि
निरुद्ध्य । वाचिकपापशान्तये प्रासादमुच्चार्य मानसकल्मषशान्तये
पाणान्
संयम्य हृदये कालाग्निसमप्रभं शिवास्त्रं स्मरन्निदमवगाह्य यावत् शक्यमासीत्। ततो
जलान्तरादुत्थायाचम्य न्यासं कृत्वा हृदये प्रदीप्तास्त्ररू
पिणीं सन्ध्यां ध्यात्वा अस्त्रगायत्र्या शिरस्त्रिः। प्रोक्ष्य तेनैवार्घ्यत्रयं कृत्वा दश-
वारमस्त्रगायत्रीं जपेत्। शिवास्त्रायविद्महे
कालानलाय धीमहि तन्नश्शस्त्रप्रचोदयात्। इति। ततः जलादुत्तीर्य तृतीयांशमृदमादाय
नाभिदघ्नजा(ज)ले वा यथासम्भवजले वा प्रातः
पूर्वाभिमुखो मध्याह्ने उत्तराभिमुखः सायाह्ने पश्चिमाभिमुखो नदीषु
प्रवाहाभिमुखो भूत्वा हस्तस्थितां मृदं जलेन सेचयित्वा
पूर्वयाम्यसौम्यक्रमेण त्रिधा विभज्य पूर्ववत् भागं हुम्फटन्तास्त्रेण
सप्तवारमभिमन्त्र्य दक्षिणमृद्भागं हृदयादि चतुरङ्गमन्त्रेण वा सद्योजातादि
पञ्चब्र(ह्मम)न्त्रेण वा
एकवारमभिमन्त्र्य सौम्यदिग्भागदशवारमभिमन्त्र्याथ पूर्वादिमृद्भागं
संहारमुद्रया आदाय दिग्विघ्नोप॥॥
॥॥स्त्रेण पूर्वादिदशदिक्षु नाराचमुद्रया क्षिपेत्। ततस्सौम्यदिक् मृद्भागार्धमादाय
जलगतसर्वदोषापनोदार्थं जले निक्षिप्य अपरां
शिवतीर्थसिद्ध्यर्थं बाहुपरिभ्रमेण मूलेन समन्तात् निक्षिपेत्। ततः अङ्कुशमुद्रया बिन्दु-
स्थानात् पराशक्तिपरिसृता
मृतमाकृष्य उद्भवमुद्रया नमोन्तहृदये
जले संस्थाप्यावकुण्ठ्य(ण्ठ्या)मृतीकुर्यात्। ततः याम्यदिग्मृदमादाय
कायिकपापशान्तये अङ्गमन्त्रेण वा पञ्चब्रह्ममन्त्रेण वा
मस्तकादि पादान्तं सर्वाङ्गमालिप्य अङ्गुष्ठतर्जनिमध्यमाभिः यथाक्रमं
षण्मुखमुद्रया श्रोत्रनेत्रनासिके च पिधाय हृदयकमले
शिवं ध्यात्वा प्रासादमनुस्मरन् प्राणान् संयम्य
शिवतीर्थे सम्यक् निमज्य यावत्शक्यं तावत् स्नायात्। तत उत्थाय चन्द्रार्करूप-
वामदक्षिण
हस्तौ शक्तिशिवौ भावयित्वा कुम्भमुद्रया वौषडन्तसंहिताया मूर्धानं
महुर्मुहुरभिषिञ्चेत्। ततः आत्मसंरक्षणाय हुम्फडन्तास्त्रेण अम्भं
परितः परिषिच्याचम्य न्यासं कृत्वा देवर्षिपितॄन् सङ्ग्रहेण तर्पयित्वा संहारमुद्रया
नमोन्तहृदयेन ॥॥॥॥॥। जलमादायाञ्जलित्रयं
दत्वा
… वामपादं तीरे दक्षिणपादं च निक्षिप्याचमेत्। विरक्तस्तु भूतपीडां न कुर्वीत
पुष्पाणां च न कृन्तनमित्यादिवचनात् शिष्येण पर्वतान्नदीतीरात् पुण्यक्षेत्रात्
अश्वत्थमूलात् शुद्धस्थलाद्वा आनीतां मृदं पूर्वोक्तविधानेन संहारक्रमेण
पादादिमस्तकान्तमालिप्य पितृतर्पणं विना
सर्वं कुर्यात्। शिष्याभावे नद्यादिष्वपीडयन् उपरिस्थां
मृदं स्वयमादाय स्नायात्। ग्रामाद्बहिर्नद्यादिषु गत्वा स्नातुमशक्तश्चेत् गृहे वा
मठे वा शीतेन तप्तेन जलेन वा पूर्वोक्त-विधिना स्नायात्। कूपजलस्नानाद्वापि-जलस्नानम्,
तस्मात् तटाकस्नानम्। ततो नदीस्नानम् तस्मात्
गङ्गादिमहानदी शिवालयसमीपपुष्करिणी गुरुपादोदकस्नानमुत्तरोत्तरमधिकफलं
भवेत्। अथ गात्रलग्नं धौतानार्द्रवस्त्रेण

दक्षिणाभिमुखः कुक्कुटासनः सन् मार्जयित्वा अश्छिद्रं स्वनितम्बप्रमाणं
शुभ्रकौपीनं नमोन्तवामेन पायुदेशसम्बन्धिदशाद्वयं धृत्वा उपरि
श्वेत- वस्त्रमेव वेष्टयेत्। रक्तपीतनीलकाषायादि न धारयेत्। तद्धारणे
देवपुतृकार्यादिष्वनर्ह एव। गृहस्थः काषायधारि चेत् तद्दर्शने सूर्यावलो
कनं कर्तव्यम्। गृहस्थानां कौपीनधारणनिषेधस्तु त्रैवर्णिकानामेव।
विरक्तस्तु उक्तलक्षणकौपीनं काषायं दशाद्वयं समं कृत्वा धारयेत्। तदुपरि
काषायकटिवेष्टिं धृत्वाचामेत्। ततः विरक्तस्तु भस्मस्नानं कुर्यात्। वारुणे स्नानोत्तरं
भस्मस्नानाधिकारी भवति। वारुणस्नानाशक्तश्चेत् तत्स्थाने भस्मस्नानमेव कर्तव्यम्।
शिव-भावनासिद्धयोगी चेत् वारुणस्नानमुत्सृज्य आग्नेयस्नानं वा समाचरेत्।
तदुक्तं मतङ्गे –
एवं सकृद्यथाशक्तिस्नातोम्भसि दिने दिने ।
भस्मस्नाने अधिकारी स्यात् नान्यथा मुनिपुङ्गवाः॥
एष विधिः क्रियापादिनम्।
भूयो भूयोम्भसा स्नानं सेव्यमानस्य रुक्भवेत्।

तस्मात् तत्सततं नेष्टमिष्टमाग्नेयमाचरेत्। एष विधिः॥
रोगिणां स्वायम्भुवे –
आग्नेयस्नानमपरं भस्मस्नाना समुदाहृतम्।
जलस्नानोत्तरं नित्यमनुत्तरमथापि वा॥
कामिके –
आग्नेयं वारुणीस्नानदसङ्ख्येयगुणाधिकम्।
तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत्॥ एष
विधिः। शिवयोगिनाम्।
कामिके –
वारुणं स्याद्गृहस्थानां यतीनां भस्मना कृतमिति।
पराख्ये च –
गृहीणामम्बुना स्नानं भस्मना यतिनां सदा।
क्रियासारे – (७अ, १स्त् line )
……नं यतेरेव नियमेन सदोदितम्।
त्रिपुण्ड्रधारणं स्नानं वारुणं गृहमेधिनाम्॥
वासिष्ठलैङ्गे च –
नित्यकर्मपरित्यागो वैराग्यपरिपाकतः।
भिक्षाशी * त्वं शिवध्यानं स्नानं सन्ध्यासु भस्मना ।*
इति गृहस्थानां भस्मस्नानमागमे कुत्रचिदुक्तमिति चेत् तद्ब्राह्मणविषयम्। योगिनामपि।
विषुवायनसङ्क्रमग्रहणादिकालेषु
च नाभेरूर्ध्वं विण्मूत्राद्यशुचिसम्पर्केऽपि अस्पृश्यस्पर्शनेऽपि वपने वमने स्खालित्ये
तत्तदादि नैमित्तिकेषु वारुणस्नानानन्तरं भस्मस्नानं
विहितमेव।
यत्र पुंसस्सचेलं स्यात् स्नानं तत्र सुवासिनी।
स्नानं शिरो विना कुर्यात् शिरोरोगी जटी सदा॥ इति वचनात्।
सुमङ्गलस्त्रीणां तु नित्यं
कण्ठस्नानादेव शुद्धिः नैमित्तिकेषु स्नानं विहितम्। विधवानां तु नित्यस्नानं विहितम्।
अथ भस्मस्नानक्रमः ।
पादौप्रक्षाऴ्याचम्य हस्तौ वस्त्रेण
सञ्च्छोद्ध्य कृष्णाजिनाद्यासने उत्तरा-भिमुखमासीनः शिवः गुरून्नमस्कृत्य
कल्पनुकल्पोपकल्पादि वक्ष्यमाणलक्षणां विभूतिकोशस्थां विभूतिमभिवन्द्य आदाय
वामहस्ते शिवमन्त्रेण दत्वा शक्तिमन्त्रेण वस्त्रपूतशुद्धजलं निनीय
निरीक्षणादिसंस्कारं कृत्वा दक्षिणहस्तेन पिधाय पञ्चषडङ्गपञ्चकलाभिः

संहारक्रमेणाभिमन्त्र्याङ्गुष्ठानामिकाभ्यां किञ्चिद्विभूतिमा॥। ज्योति ज्योतिरिति
पदमन्त्रमुच्चार्यपादाङ्गुष्ठादिमस्तकान्तं नीत्वा विकीर्याथ शिवमन्त्रेण स
जलां विभूतिं लोलयित्वा पादादिजानुपर्यन्तं हं सद्योजातमूर्तये निवृत्तिकलायै नमः।
ललाटादिब्रह्मरन्ध्रपर्यन्तं होम् ईशानमूर्ध्ने
जान्वादिनाभिपर्यन्तं हिं वामदेवगुह्याय प्रतिष्ठाकलायौ नमः।
नाभ्यादिकण्ठपर्यन्तं हुम् अघोरहृदयाय विद्याकलायै नमः।
कण्ठादिललायपर्यन्तं हें
तत्पुरुषवक्त्राय शान्तिकलायै नमः। ललाटादिब्रह्मरन्ध्रपर्यन्तं होम् ईशानमूर्ध्ने
शान्त्यतीतकलायै नमः। इत्युच्चरन्नालिप्य
सद्योजातेन सव्यापसव्यहस्ताभ्यां पादादिमस्तकान्तं सर्वाङ्गं शनैश्शनैरुद्धूल्य
वधिवदाचरेत्। अकृतवारुणस्नानश्चेत् हस्तौ पादौ

प्रक्षाऴ्य नेत्रश्रोत्रनासिकोत्थमलं जलेन संशोध्य धौतकौपीनं धृत्वाचम्य न्यासं
कृत्वा पूर्वोक्तविधानेन भस्मना स्नात्वा अनन्तरं
पूर्वधृतकौपीनं वसृज्य धौतकौपीनं धृत्वाचामेत्। अशुद्धभूतले मार्गे
देवबाह्यकृतघ्नमहापातकयुक्तपुरुषाणां स्त्रीणां च सन्निधाने
देवगुर्वग्निशिवशास्त्रसन्निधौ च उद्धूलनं कुर्यात्। अथ प्रसङ्गात् स्नानान्तरमुच्यते।
(मन्त्रस्नानम्)
तत्र प्रथमं मन्त्रस्नानं निरूप्यते। पादौ प्रक्षाऴ्याचम्य
न्यासं कृत्वा संहिताभिमन्त्रितेन तोयेन वौषडन्तसंहितया कुम्भमुद्रया शिरसि
मार्जनं कुर्यात्।
अथ मानसस्नानम्।
पादौ प्रक्षाऴ्याचम्य न्यासं कृत्वा
प्राणसंहितमनसा मूलमन्त्रं द्वादशान्तस्थितपराशक्तिपर्यन्तमुच्चार्य निष्कलशक्तेः
प्रसृतामृतमयवारिणान्तर्बहिश्च देहमाप्लावयेत्।
अथ गौरवस्नानम्।
वारु
णस्नानेन शुचिर्भूत्वा शिवमन्त्रमुच्चरन् गुरुपादौ शिरसा धारयेत्। तथागमः
शुचिर्मूर्ध्ना गुरोः पादौ बिभ्रियात् शिवमुच्चरन्निति।
अथ गोवालस्नानम्
वारुणस्नानेन
शुचिर्भूत्वा शिवमन्त्रमुच्चरन् पादौ प्रक्षाऴ्याचम्य न्यासं कृत्वा सलक्षणायाः
सवत्सायां धेनो-र्लाङ्गूलाग्रेण शिवमन्त्रमुच्चरन् मस्तकादिपा
दान्तं मार्जयेत्।
॥त्रिपुण्ड्रधारणविधिः॥
अथ भस्मस्सस्नानाशक्तविरक्तस्य अनधिकारिणश्च उद्धूलनपर्यायमाह। पादौ
प्रक्षाऴ्याचम्य हस्तावस्त्रेण
संशोध्य विभूतिमादाय पूर्वोक्तवदभिमन्त्र्य शिरोललाटहृन्नाभिजानुषु
ईशानादिमन्त्रैः त्रिपुण्ड्रं कुर्यात्। इदं भस्मस्नानं भवति।
अथ षोडशस्थानेषु त्रिपुण्ड्रधारणं कुर्यात्। तद्यथा। मध्यमातर्जन्यनामिकाभिः शिरो
ललाटहृदयदोर्द्वयकण्ठनाभिकर्णद्वयकूर्पर
मणिबन्धद्वयपृष्ठकटिपार्श्वद्वयेषु
शिवसदाशिवेश्वरपञ्चब्रह्माष्टविद्येश्वरप्रीत्यर्थं शिवमन्त्रेण।
सप्ताङ्गुलप्रमाणेन ब्राह्मणानां विधीयते।
पञ्चाङ्गुलप्रमाणेन क्षत्रियाणां त्रिपुण्ड्रकम्॥
चतुरङ्गुलं तु वैश्यानां त्रिपुण्ड्रं धारयेत् तथा।
त्र्यङ्गलुं तु शूद्राणां स्त्रीणामेकाङ्गुलं भवेत्॥ इति वचनात्
॥॥॥॥॥
समयी त्र्यङ्गुला-यामन्त्रं पुण्ड्रं धारयेत्। इत्युद्धरणदीक्षायुक्तशिवाश्रमी। शूद्रः
क्षत्रियवद् ज्ञेय इति वचनात्। पञ्चाङ्गुलायां धारयेत् उद्धूल ॥॥॥
पुण्ड्रकाले परमाणु ॥॥। समं भस्मा यत्नेन भूमावपातयन् धारयेत्। पतितं चेत्
हृन्मन्त्रेण सङ्ग्रहेत्। पश्चाद्धस्तौ प्रक्षाऴ्य तज्जलं कुम्भमु
द्रया शिरस्यभिषिञ्चेत्।
उक्तार्थे सम्मतिमाह -
कामिके –
मध्यतर्जन्यनामाभिस्त्रिपुण्ड्रं विधिवन्नयेत्।
ब्रह्माविष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधिदेवताः॥
शीर्षे कण्ठे ललाटे च कर्णे चांसद्वयोरपि।
कोर्परे मणबन्धौ च हृदये नाभिपार्श्वके॥
पृष्ठे चैवं प्रतिस्थानं जङ्घे तत्राधिदेवतान्।
शिवशक्तिं च सादाख्यमीशं विद्याख्यमेव च॥
॥मादिनवशक्तिश्च अश्विनौ षौडश स्मृतः।
अजिते –
नासन्त्यातसृकश्चैतावश्विनी द्वै समीरिते।
कट्यां कर्णद्वये चैव पा॥र्श्वयोर्नाभिदेशके॥
कूर्परद्वितये चैव मणिबन्धद्वये ततः।
षोडशस्थानमुद्दिष्टं त्रिपुण्ड्राणां जनार्दन॥

कालोत्तरे-
शिवस्सदाशिवश्चैव महेशो ब्रह्मपञ्चकम्।
विद्येश्वराश्च वैवत्सषोडश ह्यधिदेवताः॥ इति।
वानप्रस्थस्य क॥याः दीक्षाहीनं नृणां तथा।
आमध्याह्नं जलैर्युक्तं तत्परे जलवर्जितम्॥
इति वचनात् शिवाश्रमी त्रिसन्ध्यासु जलमिश्रविभूतिधारणं कुर्यात्।

॥प्राणायामविधिः॥
अथ विधिवदाचम्य वक्ष्यमाणप्रकारेण रुद्राक्षधारणं कृत्वा
प्राणायामत्रयं कुर्यात्।
मात्राद्वादशहीनं तु॥। द्विगुणैर्मध्यमोत्तमः।
त्रिगुणैरुत्तमः कालः प्रत्येकं रेचकादिषु॥
रेचयेद्देहगं वायुमशुद्धं व्योमसंस्थितम्।
शुद्धं वायुं पूरकेण समाहृत्य शनैश्शनैः॥
सम्पूर्णकुम्भवत् तिष्ठेद् रेचयेत्तदनन्तरम्।
इति वचनात्।
कन्यसं द्वादशमात्रकं पिङ्गलया रेचकम्। इडया पूरकम्।
चतुर्विंशतिमात्रकं कुम्भकम्। तद्विगुणं मध्यकं
तत्त्रिगुणमुत्तमं तेषु अभ्यासानुगणेन यत् शक्यं तत् शिवमन्त्रेण प्राणायामत्रयं
षण्मात्रया कृत्वा न्यासं कुर्यात्।
(न्यासविधिः)
स च सृष्टिस्थितिसंहारभेदेन त्रिविधः।
तत्र गृहस्थः सृष्टिमार्गेण, विरक्तः संहारमार्गेण, न्यासं कुर्यात्।
(सृष्टिन्यासविधिः)
गृहस्थः फडन्तास्त्रेण वामदक्षिणक्रमेण हस्तौ करतल
करपृष्ठौ संशोध्य हस्तौ सम्पुटीकृत्य करतलमध्येङ्गुष्ठाभयां हां शिवासनाय
नमः। हां हं हां शिवमूर्तये नमः। ॥॥॥ हां हौं शिवाय नमः।
हौं विद्यादेहाय नमः। इति विन्यस्य – होम् ईशानाय नमः। इति
अङ्गुष्ठयोस्तर्जनीभ्यामूर्ध न्यसेत्। अङ्गुष्ठाभ्यां तर्जन्यादिकनिष्ठिकान्तं
हं तत्पुरुषाय
नमः। हुम् अघोराय नमः। हिं वामदेवाय नमः। हं सद्योजाताय नमः। इति विन्यस्य
मध्यमाङ्गुलित्रयेण करतलयोः हौं नेत्रत्रयाय नमः इति विन्यस्य
कनिष्ठकादितर्जन्यन्तमङ्गुष्ठेन हां हृदयाय नमः। हीं शरसे नमः। हुं शिखायै
नमः। हैं कवचाय नमः। अङ्गुष्ठयोस्तर्जनीभ्यां हः अस्त्राय नमः। इति न्यस्य

कवचेन हस्तावव ॥॥॥ उभौ सम्पुटीकृत्य मूलमन्त्रण परमीकृत्य नाभौ हां
शिवासनाय नमः। इति विन्यस्य नाभ्यादिहृदयपर्यन्तं शिवासनं भावयित्वा हृदये हां

हं हां शिवमूर्तये नमः। इति न्यस्य ललाटपर्यन्तं सूक्ष्ममूर्तिमावाहयुत्वा कर्णकूपे
हौं विद्यादेहाय नमः इति विन्यस्य नाभिब्रह्मरन्ध्रकं
विद्यादेहं भावयित्वा हां हौ(हौं) शिवाय नम इति
द्वादशान्तमुच्चार्य मूलमन्त्रं शिरसि विन्यस्य बन्धमुष्ठ्यङ्गुष्ठाग्रेण होम्
ईशानमूर्ध्ने नमः। अङ्गुष्ठ
तर्जनीभ्याम् । हें तत्पुरुषवक्त्राय नमः। अङ्गुष्ठमध्यमाभ्यां हुम् अघोरहृदयाय
नमः। अङ्गुष्ठानामिकाभ्याम् हिं वामदेवगुह्याय नमः।
अङ्गुष्ठकनिष्ठिकाभ्याम् हं सद्योजातमूर्तये नम इति। शिरोवक्त्रहृदयगुह्यजानुषु
क्रमेण न्यसेत्।
अथाङ्गुष्ठकनिष्ठिकाभ्यां हां हृदयाय
नमः। इति हृदये। अङ्गुष्ठानामिकाभ्यां हीं शिरसे स्वाहा इति शिरसि।
अङ्गुष्ठमध्यमाभ्यां हं शिखायै वषडिति शिखायाम्। तर्जनीभ्यां हैं कवचाय हुम्
इति
कण्ठप्रावरणेन स्तनमध्ये। मध्यमाङ्गुलित्रयेण हौं नेत्रत्रयाय वौषडिति नेत्रेषु
न्यस्य। हः अस्त्रायफडिति उच्चाटनतालनत्रयं कृत्वा
तेन मन्त्रेण छोटिका
मुद्रया दशदिक् बन्धनं कृत्वा कवचेन॥॥ हस्ताभ्यां मूर्धादिपादपर्यन्तं
मूलमन्त्रं नादान्तमुच्चार्य परमीकरणं कुर्यात्।
(संहारन्यासविधिः)
अथ विरक्तस्य संहार
न्यासविधिरुच्यते। हस्ततलशोधनम्। आसनमूर्तिं मूलविद्यादेहं पूर्ववन्न्यस्य
कनिष्ठिका-द्यङ्गुष्ठान्तं सद्योजातादिमन्त्रैरधोमुखं हृदयादिरपि कनिष्ठिकाद्य
ङ्गुष्ठान्तं न्यस्य अङ्गन्यासं च जान्वादिमूर्धान्तं सद्योजातादि ईशानान्तं हृदयादि
पूर्ववत् कृत्वा पादादि मस्तकान्तं परमीकरणं कुर्यात्।

एतेन न्यासेन हकारहिकारहुकारहेकार-होकारपञ्च ह्रस्वोच्चारणं पापानि निर्दहति।
हाकारहीकारहूकारहैकार
हःकारपञ्च दीर्घोच्चारणं मोक्षप्रदं भवति। हौकारा प्लुतं
परमानन्दामृतेनाप्याययति।
तदुक्तं सार्धत्रिशत्याम् –
ह्रस्वा दहति पापानि दीर्घो मोक्षप्रदो भवेत्।
आप्यायन्तप्लुतश्चेति बिन्दु मूर्ध्नि विभूषितम्॥
ब्रह्माणि ह्रस्वाः प्रोक्तानि दीर्घान्यङ्गानि षण्मुख।
इति नमोन्त उच्चारितो मन्त्रं सम्पत्करः। स्वाहान्तः इच्छाज्ञानक्रिया
शक्तिप्रकाशः। वषडन्तः उपास्य देवता वश्यकरः। हुमन्तःकामाद्यरिवर्गविद्वेषो
दुष्टजन्तुनां मारकश्च वौषडन्तः बाह्यान्तःकरणस्थैः ॥ कारो
देवताकर्षणश्च ॥॥।न्तः सर्वविघ्नोच्चाटकः। शुद्धाचमने स्वधान्तः पुष्टिकरः। अत्र

पुष्टिश्च तत्वत्रयप्रसन्नतैव।
तस्मादेव मन्त्राः उच्चारिताः। न्यासादिक्रियाश्च सर्वविघ्नोपशान्तिद्वारा शिवसान्निध्यं
कुर्विति।
तदुक्तं मन्त्रवार्तिके –
वषड्वश्यं फडुच्चाटे हुं द्वेषमारणेपि च।
स्तम्भे च वौषडाकर्षे नमः सम्पत्कराय च॥
स्वाहा शक्ति स्वधा पुष्टिरित्येते मन्त्रपल्यौ। इति ।
॥ततः सन्ध्याक्रमः॥
अङ्गुष्ठानामिकाग्राभ्यां नेत्रयोर्विन्यस्य नमोन्तमूलेन
जलं निरीक्ष्य हुम्फडन्तास्त्रेण सम्प्रोक्ष्य तेनैव सन्ताड्य वौषडन्तकवचेनाभ्यक्ष्य
वौषडन्तं हृदयेनाङ्कुशमुद्रया सुस्न्ग्धचन्द्रसदृशबिन्दोः स्रवन्त
ममृतमादाय नमोन्तहृदयेनो-द्भवमुद्रया जले समारोप्य संहितयाभिमन्त्र्य
नमोन्तकवचेनावकुण्ठ्य हुम्फडन्तास्त्रेण संरक्ष्य
वौषडन्तशक्ति
मन्त्रेण धेनुमुद्रयामृतीकृत्य तत्तीर्थं हस्ताभ्यामादाय कुम्भमुद्रया
प्रणवरूपया चन्द्रसदृशामृतः स्रवन्त्या वौषडन्तसहितामेकवारमुच्चरन्
त्रिवारमूर्धानमभिषिञ्चेत् नमोन्तकवचेन सुधाजलेन स्वदेहमावेष्ट्य कुम्भके मनसा
शिवसंहितां त्रिवारं जपेत्। सकलप्रासादं गृहस्थानाम्।
हां
हौं हं हां हिं हीं हुं हूं हें हैं हों हौं हः शिवाय नम इति संहिता।
निष्कलप्रासादं विरक्ता-नाम्। हां हौं हां हीं हैं हः। शिवाय नम इति संहिता।
तत आचम्य न्यासं कृत्वा नमोन्तकवचेन जलेन स्वदेहमावेष्ट्य हस्तौ मुकुऴीकृत्य
सन्ध्यां ध्यायेत्। ईश्वरशक्तिरेकैव। वामा ज्येष्ठा रौद्री त्रि भेदेन

गुणत्रयान्वित-ब्रह्मविष्णुरुद्राधिष्ठातृत्वेन कालो-पाधिवशात् ब्राह्मी वैष्णवी रौद्रीति
नामतस्तत्तद्वर्णवाहनायुधविग्रहा सती त्रिसन्ध्यासु हृत् भ्रूमध्यब्रह्म
रन्ध्रेषु भवानी या। समधिनः प्रातः सन्धिरेकैव। स तु । हृदये ब्राह्मीमेव ध्यायेत्
पुत्रकस्य सायं प्रातः सन्ध्याद्वयमेव स तु। प्रातर्हृदये ब्राह्मीं च सायं भ्रूमध्ये

कालबलाद्रौद्रीं च ध्यायेत्।
साधकस्य सन्ध्यात्रयमस्ति। स च। प्रातहृदये ब्राह्मीं मध्याह्ने भ्रूमध्ये वैष्णवीं
सायं ब्रह्मरन्ध्रे रौद्रीं
च ध्यायेत्। तुरीयसन्ध्या पराशक्तिरेव तथागमः।
तथा भिन्नक्रिया वामज्येष्टारौद्रीत्युदीरिताः।
ता एव परिणामेन ब्रह्मविष्णुहरात्मिकाः॥
गुणत्रयान्विता ब्राह्मी वैष्णवी शाङ्करी तथा।
एतास्तु शक्तयस्तिस्रः सन्ध्या ज्ञेया मनीषिभिः॥
अपरा वै परा ज्ञेया समयी पुत्रसाधकैः।
हृद्बिन्दुब्रह्मरन्ध्रेषु भावनीया इमाः क्रमात्॥
कालोपाधिवशाद्वर्णवाहनायुधविग्रहाः। इति ।
॥ अथ सन्ध्याध्यानम् ॥
प्रातर्हृदयो ब्राह्मीं रत्नां रत्नाम्बरधरां
शुक्लयज्ञोपवीतिनीम्। जटिलां बालां हंसपद्मासनां चतुर्मुखामष्टनेत्रां
दक्षिणवामयोः सृगक्षमालादण्डकमण्डलुधारिणीं ध्यायेत्। मध्याह्ने
भ्रूमध्ये वैष्णवीं शुभ्रां शुभ्राम्बरधराम् उपवीतिनीं वनमालिनीं
ताक्षपद्मासनासीनाम् एकवक्त्रां द्विनेत्रां चतुर्भुजां
वामदक्षिणयोः
शङ्खगदाचक्राभयुक्तां ध्यायेत्। सायेह्नशिरसि रौद्रीं कृष्णां वृषार्जस्थां
प्रौढामेकवक्त्रां त्रिणेत्रां जटाखण्डेन्दुमण्डिताम्।
दक्षिणवामयो(योः) शूलाक्षमालाभयशक्तिधरां ध्यायेत्। विरक्तस्तु शुद्धवत्मसन्ध्यां
ध्यायेत्। प्रातहृत्पद्मे सुषुम्नामध्ये उदितार्कसमूहनिभप्रभम्
मध्याह्ने भ्रूमध्यकमले परशिवचिद्रूपमिन्दुप्रकाशम्।
सायाह्ने शिरोमध्यपद्मे अमृताम्बुनिधिम् अर्धस्वरसहितं प्रकाशरूपम्।
अर्धरात्रे द्वादशान्ते अचलं पूर्णं तेजोनिधानं ध्यायेत्।
तदुक्तं सिद्धान्तसारावल्याम् -
हृत्पद्मे प्रातरर्कोदयनिवहनिभं मध्या *नाड्यां विचिन्त्यं
मध्याह्ने भ्रूसरोजे परमशिवं
चिद्रूपमिन्द्रप्रकाशम्।
सायाह्ने मूर्धपद्मे ह्यमृतजलनिधिद्योतनं सोत्थनादं
रात्रेरप्रमेयं त्वचलमविकलं द्वादशान्ते
महस्तदिति॥
अथाघमर्षणक्रमम्।
सम्पूर्णं जलं दक्षिणे हस्तेन गृहीत्वा वामहस्ते निक्षिप्य हन्मन्त्रेण
त्रिवारमधरोत्तरं कृत्वा वौषडन्तब्रह्माङ्गैर्जलकणान् मूर्ध्नि विकीर्य शेषं तज्जलं
दक्षिणे हस्ते गृहीत्वा घ्राणसमीपे धृत्वा इडया पूरकेण
हृदयस्थं तद्भावयित्वा वाङ्मनः कायजपापविशुद्धये त्रिवारमस्त्रं जपन् पिङ्गऴाय
रेचितं भावयित्वा तज्जलं दक्षिणपार्श्वे

ज्वलितवज्रशिलायां भ्रुकुटी-सहितः पाशुपतास्त्रेण नाराचवत् क्षिपेत्।
(गायत्रीजपः)
तत्र आचम्य न्यासं कृत्वा उत्थाय गृहस्थः। आदित्यबिम्बमध्ये हृदये च
गायत्रीं गायत्रीं हृदि
सञ्चिन्त्य –
शुक्लामशुक्लामुपवीतिनीं तिर्यक् प्रसृतदक्षाङ्घ्रिं वामाङ्घ्र्यब्जदऴाश्रिताम्।
एकवक्त्रां त्रिणेत्रां च जटाखण्डेन्दुमण्डिताम्।
कृष्णाजिनोत्तरा साङ्गां शुक्लवस्त्रविभूषिताम्॥
साक्षसूत्रवरां दक्षे वामे पद्माभयान्विताम्।
एवं ध्यात्वा तन्महेशाय विद्महे वाग्विशुद्धाय धीमही तन्नो शिवः
प्रचोदयादिति
मन्त्रेण त्रिवारमर्घ्यं दत्वा जला-दुत्तीर्य कवचेन जलेन आत्मसंरक्षणाय परिवेष्ट्य
सप्तदश विंशति अष्टोत्तरशतं वा तीरे तिष्ठन्नेव जपेत्।
एवं मध्याह्ने। सायाह्ने चोत्थायार्घ्यं दत्वा उपविश्य जपेत्। आर्द्रवस्त्रसहितोऽपि जलमध्ये
न जपेत्।
गायत्री सप्तवारजपेन शुचिं
करोति। दशवारेण स्वर्गं प्रापयति। विंशतिवारेण शिवलोकं प्रापयति। अष्टोत्तरशतवारेण
जन्मसागरादुत्तारयति। तथागमः।
सप्तवारात् पुनीतेऽङ्गं दशभिः प्रापयेत् दिवम्।
विंशद्वारात्तु सा देवि नयत्यैश्वरमालयम्॥
शतेनाष्टोत्तरेणैव तारका जन्मसागरात्। इति।
ततः यथाशक्ति जप्त्वा
आत्मप्रदक्षिणत्रयं नमस्कारं च कुर्यात्। सामान्यसमयि
वक्ष्यमाणप्रकारस्थूलपञ्चाक्षरेणैव न्यास-तर्पणादिकं कुर्यात्। विरक्तस्तु
सूर्यमणडलस्तं सचिदा
सच्चिदानन्दरूपं सदाशिवं ध्यात्वा स्वाहान्तमूलेनार्घ्यत्रयं दत्वा,
जलादुत्तरीयकवचेन जलेनात्मसंरक्षणाय परिवेष्ट्य मूलमन्त्रमष्टोत्तरशतं
जप्त्वा
आत्मप्रदक्षिणत्रयं नमस्कारं च कुर्यात्। अत्र विरक्तश्च्छन्देन शिवधर्मदीक्षानन्तरं
विरजाहोमजीवश्रद्धापुरस्सरमागमोक्तप्रकारेण सन्यस्तशैवसन्यास्येव विवक्षितः।
(तर्पणविधिः)
अथ
पादौ प्रक्षाऴ्याचम्य न्यासं कृत्वा स्वाहान्तसहितया अङ्गुऴ्यग्रेण तर्पयित्वा हां
सर्वेभ्यो मन्त्रेभ्यः स्वाहा हाम् आदित्येभ्य स्वाहा – हां
वसुभ्य स्वाहा । हां रुद्रेभ्य स्वाहा। हां विश्वेभ्य स्वाहा। हां साध्येभ्य स्वाहा। हं
रुद्रेभ्य स्वाहा। हां भृगुभ्य स्वाहा। हाम् अङ्गिरेभ्य
स्वाहा। हां सर्वेभ्यो देवेभ्य स्वाहा। इत्यङ्गुल्यग्रेण देवतीर्थेन।
हाम् अत्रये नमः। हां विसिष्ठाय नमः। हां पुलस्त्याय नमः। हां
क्रतवे नमः। हां भरद्वाजाय नमः। हां विश्वामित्राय नमः। हां प्रचेतसे नमः।
हाम् ऋच्छा(च्छ)काय नमः। हाम् अगस्त्याय नमः। हां दधीचाय नमः। हां दुर्वाससे
नमः। ॐ
सर्वेभ्यो ऋषिभ्यो नमः। इति ऋषीन् पर्वसन्धिभिः ऋषितीर्थेन हां सनकाय वषट् – हां
सनन्दाय वषट्।
हां सनाताय वषट् – हां सनत्कुमाराय
वषट्। हां कपिलाय वषट्। हां पञ्चशिखाय वषट्। हाम् ऋभवे वषट्। हां सर्वेभ्यो
मानुषेभ्यो वषट्। इति मनुष्यान् करतलसन्धिना
मनुष्यतीर्थेन हां सर्वेभ्यो भूतेभ्यो वौषडिति करतलमूलेन भूततीर्थेन हां
कव्यवाहनाय स्वधा। हाम् अनलाय स्वधा। हां सोमाय स्वधा। हां
अर्यम्णे स्वधा।
हाम् अग्निष्वात्ताय स्वधा। हां बर्हिष(षे)भ्य स्वधा। हाम् आज्यपाय स्वधा। हां सोमपाय
स्वधा। इति देवपितॄन् तर्जनीमूलेन पितृतीर्थेन
तर्पयेत्। अतीतपितृकविषये। तेन तीर्थेन हाम् ईशानाय पित्रे स्वाधा। हां सदाशिवाय पितामहाय
स्वधा। हां शान्ताय प्रपितामहाय स्वधा।
हां सर्वेभ्यः पितृभ्य स्वधाः। अतीतमातृकविषये हां मातृभ्य स्वधा।
हां पितामहीभ्य स्वधा। हां प्रपितामहीभ्य स्वधा। हां सर्वेभ्यो मातृभ्य स्वधा।
हां सर्वेभ्यो
ज्ञातिभ्यः स्वधा। अथ देवतीर्थेन हां सर्वेभ्यो गुरुभ्यः स्वाहा इति तर्पयित्वा तीरे
सकुशजलमस्त्रायफडिति विनिक्षिपेदिति मार्जनम्।
विरक्तस्तु स्वाहान्तैर्मूलमन्त्रब्रह्माङ्गमन्त्रैः शिवमेव तर्पयेत्। तत आचम्य न्यासं
कृत्वा नमोन्तहृदयेन संहारमुद्रया
तीर्थं संहृत्य
कौपीनादिकं प्रक्षाऴ्य वामप्रकोष्ठे विन्यस्य आचम्य न्यासं कृत्वा देशिकादीन् प्रणस्य
गृहे मठे वा प्रविश्य पादौ प्रक्षाऴ्याचम्य भस्मस्नानं कृत्वा
शिवपूजामारभेदिति। श्रीम् इति वर्णाश्रममाचार्यवर्यशैवपरिपालकशिवाग्रयोगिविरचितायां
क्रिया-दीपिकायां शौचाचमनस्नान
सै(शै)वसन्ध्यानुष्ठानविधिर्नाम प्रथमः पटलः।
(शिवपूजाविधिः)
अथ पुत्रकसाधकाचार्याणं शिवपूजाविधिक्रमं वक्ष्यामः।
वक्ष्यमाणलक्षणानि
पूजाहोमार्थं पुष्पकुशस्समित्ज्जला-दीनि शिष्येणानीय स्वयं वासमाहृत्य
अस्त्रपञ्चरमध्यस्थो गृहं प्रविश्य पादौ प्रक्षाऴ्याचम्य भस्मना स्नात्वा पुनराचम्य

न्यासं कृत्वा पृथिव्यादिमायान्तैकत्रिंशत् तत्वानि मनसा सन्त्यजन् अस्त्रपञ्चरमध्यं
शुद्धविद्यातत्वव्याप्तसर्वमङ्गऴोपेतं वितानध्वज-भूषितं
दीपाद्यलङ्कृतं गोमयालिप्तभूतलं मनोरमं पूजास्थानं दक्षिणपादपूर्वं
प्रविश्य गृहस्थस्य सौरादिचण्डान्तपूजायां
विध्युक्तत्वात्। पूर्वं भास्करं पूजयेत्।
(सूर्यपूजा)
तद्यथा पूजोपकरणान्युपाहृत्य पूर्वाभिमुखस्थित्वा भास्करमर्चयेत्।
अस्त्राय फडिति
हस्ततलपृष्ठौ संशोध्य वौषडन्तमूलेनाप्लाव्य अङ्गुष्ठयोस्तर्जनीभ्याम्। अं हृदयाय
नमः। कनिष्ठिकानामिकामध्यमादौ अङ्गुष्ठाभ्याम्। अम् अर्काय
शिरसे नमः। ज्वालिनी शिखायै नमः। अं हॄं कवचाय नमः।
हस्ततलयोर्मध्यमाङ्गुलिभ्यां हां भानुनेत्राभ्यां नमः।
तर्जन्यो ॥। अस्त्राय फडिति विन्यस्य
कवचेनावकुण्ठ्य संयोज्य मूलं वौषडन्तं विन्यस्य सूर्यमूल-मन्त्रेण
कृतशुचिर्दक्षिणाङ्गुष्ठानामिकायुक्तेन हृदि हृदयें मूर्ध्नि। शिरोमन्त्रे
शिखायां शिखामन्त्रम्। कर्णप्रावरण॥।स्तनमध्यान्तं तर्जनीभ्यां कवचमन्त्रं
तर्जनी-मध्यमाभ्याम्। नेत्रमन्त्रं नेत्रयोर्हस्ततलयोरस्त्रं च विन्यस्य दश दिक्षु
को(चो)टिकया
अस्त्रमन्त्रेण न
दिग्बन्धनं विधाय सर्वाङ्गेषु मूलमन्त्रं महामुद्रया विन्यस्य स्वतनुं सूर्यरूपं
विभावयेत्। पश्चात् ताम्रपात्रे रक्तपुष्पादिसहिततोयेनार्घ्यं स्थापयित्वा।
जानुभ्यामवनिङ्गतो मस्तकान्तं नीत्वा ह्रां ह्रीं सः शिवसूर्याय नमः। इदि
दर्शनार्घ्यं दत्वा यथाशक्ति जपं कुर्यात्। ततोऽर्घ्यपात्रमस्त्रण संशोध्य
ललाटमध्यस्फुरदरुणबिन्दुनि
हृदामृ(त)धारया खं खषोत्काय नमः। इति गन्धोदकेनापूर्य ततः
षडङ्गैर्मूलमन्त्रेण च सम्पूज्य अस्त्रकवचाभ्यां
रक्षावकुण्ठनं विधाय मूलमन्त्रेण धेनुमुद्रां दर्शयित्वा तत् जलैः
द्रव्यमात्मानं भूमिं चास्त्रेण सम्पूज्य पुष्पेणास्त्रेण विघ्नानुत्सार्य स्थण्डिले
लिखिताष्टदलपद्मो वा ताम्रादिनिर्मिते अष्टदलपद्मे वार्चयेत्।
तत्र द्वारदक्षिणपार्श्वे अं दण्डिने नमः।
दण्डी द्वार्दक्षिणे (द्वारदक्षिणे) गौरस्थूलतुन्दिलकूर्चवान्॥
मषीभाजिनलेखिन्यौ धारयन्नस्तयोर्द्वयोः।
प्राणिनां कर्मसाक्षित्वे सत्कर्मणि लिखि(ख)त्यसौ॥
तद्वामपार्श्वे अं पिङ्गऴाय नमः।
पिङ्गऴो वामपार्श्वे तु * प्रतीहारश्च दण्डवान्।*
इति ध्यात्वाभ्यर्च्य
पद्मस्य ऐशान्याम्। अङ्गणपतये नमः।
रक्तपद्मासनासीनं दन्तपाशाङ्कुशोत्पलम्।
दधानं च चतुर्हस्तै* … वक्त्रं गणाधिपम्॥*
इति ध्यात्वाभ्यर्च्य
तस्याग्नेय्याम् अं गुरुभ्यो नमः।
जटामकुटशोभाढ्यं हस्तपाण्डरविग्रहम्।
योगपट्टयुतं ब्रह्मसूत्रं नाभिस्थलोपरि॥
कृतयोगाख्यमुद्रं च ध्यात्वा शान्तं गुरूं परम्।

एवं ध्यात्वा यथास्थानम् अभ्यर्च्य मध्ये। अं प्रभूतासनाय नमः। इति   

श्वेतपीठमर्चयेत्। ततः आग्नेयादिचतुष्कोणेषु अं विम
लाय नमः। अं साराय नमः। अम् आराध्याय नमः। अं परमसुखाय नम इति
सितरक्तपीतहरितवर्णान् सिंहान् विचिन्त्यार्चयेत्। तदुपरि अं
पत्मा(द्मा)सनाय नमः इति। सितपत्मं(द्मं) त्स्य मध्ये पूर्वादीशान्तकेसरेषु
रां दीप्तायै नमः। रीं सूक्ष्मायै नमः। रुं जयायै नमः। रूं भद्रायै नमः।
रें विभूत्यै नमः। रैं विमलायै नमः। रोम् अमोघायै नमः। रौं विद्युतायै नमः।
कर्णिकायामीशाने सर्वतोमुख्यै नमः।
दीप्तदीपशिखाकारा ध्यातव्या नव शक्तयः।
यद्वा
पत्म(द्म)चामरहस्ताश्च रक्तास्सर्वाङ्गभूषणाः।
एवं ध्यात्वाभ्यर्च्य विस्फुरां मुद्रां दर्शयित्वा । मध्ये अम् अर्कासनाय
नमः। अर्कासनं
सम्पूज्य
धवऴाम्भोरुहारूढं डाडिमीकुसुमप्रभम्।
स्फुरद्रक्तमहातेजो वृत्तमण्डलमध्यगम्॥
अंसासक्तस्फुटश्वेतसनाऴाब्जकरद्वयम्।
एकास्यं चिन्तयेद्भानुं द्विनेत्रं रक्तवाससम्॥
इति ध्यात्वा
अं खं खषोल्काय सूर्यमूर्तये नमः। इत्यासनोपरि मूर्तिं विन्यस्य भं
भानुनेत्राभ्यां नम इति नेत्रं दत्वा पुष्पैरञ्जलिमापूर्य ललाटाकृष्टस्फुरदरु
॥॥ष्ठमङ्गलौ विचिन्त्य ह्रां ह्रीं सहशिवसूर्याय नमः। इत्यनेन मूलमन्त्रेण
तद्व्यापकमावाहयेत्। हृदयेनावाहनीमुद्रयावाह्यस्थापन्या पत्मा(द्मा)सने संस्थाप्य
सन्निधा
न्या सन्निधाप्य निष्ठिरया
निरोध्य बिम्बमुद्रां प्रदर्श्य सूर्यस्य हदयादिकरान्तस्थानेषु हृदयादिमन्त्रान् विन्यस्य
मूलेनैक्यं कृत्वा रक्षावकुण्ठने कृत्वा।
मूलेनामृतमुद्रां महामुद्रां च विधाय पाद्याचमनार्घ्याणि
नमस्स्वधास्वाहान्तकषोल्केन दत्वा मूलेन वौषडन्तेन पुष्पदीर्वाक्षतादीनि दत्वा खं
खषो
ल्काय हृदयाय नमः। इत्युपहृदये ॥ ङ्गादिपूर्वं संस्नाप्य
रक्तवस्त्रगन्धादिभिरलङ्कृत्य ह्रां
ह्रीं सः शिवसूर्याय नमः इति पुष्पाञ्जलित्रये
णाभ्यर्च्यार्घ्यं दत्वा पद्ममुद्रां बिम्बमुद्रां च दर्शयेत्। ततो लयाङ्गमभ्यर्च्य
भोजाङ्गपूजार्थं प्रार्थ्याग्नेयैशान-नैरृतवायव्यदऴे
षु दिक्षु। हृगयशिरश्शिखाकवचमन्त्रान्। सूर्यहृदयादिस्थानेषु सम्पूज्य।
सौम्यानि रक्तवर्णानि वरदाब्जकराणि च।
भूषितानि द्विहस्तानि भानोरङ्गानि भावयेत्॥ इति *
ध्यात्वाभ्यर्च्य देवस्याग्रतस्तद्विनेत्रं पूर्वोक्तरूपमभ्यर्च्य
पूर्वादिचतुर्दऴेषु
विद्युत्पुञ्जनिभं चास्त्रमुग्रदंष्ट्रकरालननम्। इति
ध्यात्वाभ्यर्च्य
हृदयादीनां धेनुमुद्रां नेत्रयोर्गोविषाणमुद्राम् अस्त्रस्य त्रासिनीमुद्रां च
प्रदर्श्यार्चयेत्। तदनु पूर्वादि-दिग्दऴाग्रेषु सं सोमाय नमः। बुं बुधाय नमः। बृं
बृहस्पतये नमः।
भं भार्गवाय नम इत्याग्नेयादिदऴाग्रेषु अम् अङ्गारकाय नमः। शं शनैश्चराय
नमः। रं राहवे नमः। कं केतवे नमः । इति च।
सोमं कुमुदकुन्दाभं बुधं चामीकर
प्रभम्।*
गुरुं गोरोचनाभासं शुक्रं गोक्षुरसन्निभम्॥
रक्तमङ्गारकं ध्यायेद्राजावर्निभं शनिम्।
कृष्णं कृताञ्जलिं राहुं केतुं धूम्राभसन्निभम्॥
कामरूपधरान् सर्वान् दिव्याभरणभूषितान्।
वामोरू न्यस्तहस्तांश्च दक्षहस्ताभयप्दान्॥
सितपद्मकरं सोमं राहुकेतुं कृताञ्जली।
अर्धकायोर्ध्वकेशी च रक्तसृक्रक्तलोचने॥
शनिं दंष्ट्राकराऴं तु राहुं च विकृताननम्। इति
ध्यात्वाभ्यर्च्य नमस्कारमुद्रां दर्शयित्वा
धूपदीपनैवेद्यताम्बूलादिदर्पणश्छत्रचामराचमनार्घ्यदानसहितान्युपाहृता दत्वा
मूलमन्त्रं यथाशक्ति जप्त्वा अर्घ्यपात्राम्भसा
स्वाहान्तमूलेन भास्कराय समर्प्य अङ्गानां दशांशं जप्त्वा निवेद्य दण्डाद्यैः
सेव्यमानो विमलमुखचतुः सिंहपादासनस्थो दीप्ताद्यैः
शक्तिजालैररुणमणिरुचिः
श्रखषोल्कार्कमूर्तिस्वाङ्गस्वाङ्गगृहर्क्षः
प्रमुखपरिव्रतशेवोतपद्माधिरूढश्वेताब्जां स द्विहस्तः शुभनयनयुगः
शम्भसूर्योवताद्वः
इति स्तोत्रादिकं पठित्वा देवं नमस्कृत्य सम्पूज्य खषो ॥। ल्कन स्वाहान्तेन
पराङ्मुखार्घ्यं दत्वा क्षमस्वेत्यभिधाय हुम्फडन्तास्त्रेण
नाराचमुद्रया अङ्गादिमन्त्र ॥॥ खं खषोल्काय सूर्यमूर्तये नमः।
इति दिव्यमुद्रया देवदेव संयोज्य तं मूलमन्त्रेण हृत्पुण्डरीकमध्ये
शिवसूर्ये योजयेत्। ततः ॥ शान्यां दिशि । अं तेजश्चण्डाय नमः। इति
चण्डं रक्तं कराऴास्यम् अब्जाभयकरद्वयम्।
इति विभावयन् सम्पूज्य निर्माल्यं निवेद्य विसृज्यार्घ्यं च
विसृजेत्। यद्वा शिवपूजान्ते विसृजेत्।
॥इति सूर्यपूजाविधिः॥
॥शिवपूजा॥
बहिर्गत्वा पादौ प्रक्षाऴ्याचम्य त्रिपुण्ड्रधारणं न्यासं च कृत्वा आचार्यस्तु
अधिकारलिङ्गपूजायाः शिष्यानुग्रहार्थत्वेन परार्थत्वात्। तत्र द्वारपूजादिकं
सपरिवारकं देवतापूजां च कुर्यात्। पुत्रसाधकस्तु
आत्मार्थलिङ्गपूजायां द्वारपूजादिकं न कुर्याः। तथागमः।
न द्वारपूजा तत्रोक्ता न चण्डेशनिवेदनम्।
न मन्त्रेण हविस्तत्र न नित्योत्सवमे च॥
महाघण्टा च नोद्दिष्टा न तिरस्करणी क्रिया।
शुद्धनृत्तविधिं नोक्ता सूर्यं विघ्नं गुरुं तथा॥
सम्पूज्य यजनं कुर्यादात्मार्थं मन्त्रवित्तमः। इति॥

(द्वारपूजा)
क्रमस्तु –

पूजागृह दक्षिणद्वाराग्रमण्डपे मण्डलं कृत्वा तत्र सामान्यार्घ्यपात्रं
नमोन्तास्त्रेण संशोध्य। मण्डले पत्रोपरि निक्षिप्य नमोन्तहृदये शुद्धजलेनापूर्य
नमोऽस्त्रेण पुष्पेण पात्रेण वार्चयित्वा तेन सप्तवारमभिमन्त्र्य सामान्यार्घ्यपात्रं
धृत्वा व्याप्यव्यापकभावेन पृथिव्यादिमायान्तैकत्रिंशतत्वानि क्रमेण

शुद्धविद्यया अभिवाद्य तत् शुद्धविद्यापूजाग्रद्वारं सामान्यार्घ्यजलेन
हुम्फडन्तास्त्रेण सम्प्रोक्ष्य तस्योर्ध्वोदुम्बरदक्ष्णभागे -
लम्बोदरं श्यामनिभं ग*णेशं कुठारमक्षश्रजमूर्ध्वगाभ्याम्। *
सलड्डुकं दन्तमधःकराभ्यां वामेतराभ्यां च दधानमीढे॥ इति ध्यात्वा
हां गणपतये नमः इति सम्पूज्य
तदुत्तरभागे –
शुक्लां शुक्लाम्बरामक्षमाला पुस्तकधारिणीम्।
सव्यवामकराभ्यां च सुप्रसन्नां सरस्वतीम्॥
इति विभावयन्। हां सरस्वत्यै नमः। इत्यभ्यर्च्य
तयोर्मध्ये
वामदक्षिणहस्ताभ्यां दधतीं श्रीफलाम्बुजे।
हेमाभां सकटेभाभ्यां प्लाव्यमानां महाश्रियम्॥
इति ध्यात्वा। हां महालक्ष्म्यै
नमः। इत्यभ्यर्य्य आत्मनो दक्षिणशाखायाम्
रक्तं त्रिणेत्रं जटिलं सव्यवामकरद्वये।
अक्षमालां त्रिशूलं च दधानं नन्दिकेश्वरम्॥
इति ध्यात्वा हां
नन्दिने नमः। इति सम्पूज्य तदुत्तरपा॥॥।
मकरासनगां गभां सव्यवामकरद्वये।
नीलोत्पलं पूर्णकुम्भं दधतीं शुक्लरूपिणीम्॥
इति ध्यात्वा हां गङ्गायै नमः।
इति सम्पूज्य तदुत्तरशाखायाम्
कृष्णं कृष्णं महाकाऴं वामसव्यकरद्वये।
कपालं च त्रिशूलं च दधानं विकटाननम्॥
इति ध्यात्वा हां महाकाऴाय नमः इति सम्पूज्य तत्
दक्षिणपार्श्वे
॥॥॥॥॥॥॥॥॥॥॥॥॥॥ वामसव्यहस्तद्वये घटम्।
नीलोत्पलं च बिभ्राणां यमुनां च विभावयेत्॥
हां यमुनायै नमः। इत्यभ्यर्च्य रक्षामेषां
विज्ञप्य।
(विघ्नोद्वासनम्)
न्यस्तमूलेन ॥॥॥ ऊर्ध्वं विलोक्य दिव्यान् हः। अस्त्राय फडिति
ज्वलन्नाराचमुद्रया अस्त्रेण पुष्पं वा पत्रं वा क्षिप्त्वा अन्तरिक्षगान्
हुम्फडिति पाशुपतास्त्रेण दक्षिण॥॥घातत्रयेण भूमिस्तान् विविधान् विघ्नान्
पूजागृहादुत्सार्य किञ्चित् तद्वामशाखायां समाश्रयन् दक्षिणपादपुरस्सरमन्तः प्रविश्य

देहऴ्यां हः अस्त्राय द्वारपालाय नम इति
अस्त्रं वक्ष्यमाणरूपं विभाव्य सम्पूज्य प्रदक्षिणेन गत्वा नैरृते –
हंसस्थं तुन्दिलं गौरं सश्मश्रू चतुराननम्।
दधानं दक्षिणे वामे दण्डाक्षस्तु कमण्डलुम्॥
इति ध्यात्वा हां वास्त्वधिपतये ब्रह्मणे नम इति। सम्पूजयेत्।
साधारण॥।दीतीरारामादिषु
शिवाराधनोद्योगे सति कुशदर्भादिना पूजामण्डपाकरणे रेखां कृत्वा उक्तप्रकारेण
द्वारपूजादिकं कुर्यात्।
(भूतशुद्धिः)
तदनु स्नपनार्षं
गङ्गादिमहातीर्थेषु सम्भावितं वस्त्रपूतं शुद्धजलादिकं सर्वं पूजाद्रव्यं
सन्निधीकृत्य देव सदक्षिणदिग्भागे बुस्याद्यासने उदङ्मुखः। सुखासनमुपविश्य
अस्त्रप्राकारकवचावकुण्ठनाभ्यां यागगृहं संरक्ष्य मात्रा पित्रोः
शोणितशुक्लाभ्यां स्थूलदेहस्य परिणतत्वात् भृष्टं रुमायां लवणं हि सर्वमिति
न्यायेन प्रत्यहं

भुक्तान्नपानादेः सर्वस्यापि मलरूपतया परिणतत्वात् तत्
शुद्ध्यर्थभूतविकारोपशमनार्थं च प्रतिदिनमन्तर्यजनात् पूर्वं भूतशुद्धिः कार्या
ननु अकृतभूतशुद्धेः
पुरुषस्य अर्घ्यप्रदानादि सूर्यब्रह्पूजान्त्येषु कर्मसु कथमधिकारित्वमिति चेत्। अत्र
ब्रूमः। तेषामर्घ्यप्दानादीनां
बहिर्यजनत्वान्मृत्तिकास्नानभस्मरुद्राक्षधारणैर्बहिः
शुद्धेः सिद्धत्वात्
तत्राधिकारित्वमस्त्येवेति। अन्तर्यजने तु अन्तश्शुद्धिकरभूतशुद्धेरावश्यकत्वादिदारूं
भूतशुद्धिः। कर्तव्य॥।सा च पुत्रकसाधकाचार्यविषयभेदेन स्थूलसूक्ष्म-परभेदेन

त्रिधा। ननु।
शूद्राणां च तथास्त्राणां कुरु त्वं न कदाचन।
इत्यादि वचनबाहुल्यात् कथं शूद्रस्याचार्यत्वमिति चेत्। सत्यम्। सर्ववर्णान् प्रति
आचार्यत्वं नास्ति। किं तु
सुवर्णानुपूर्व्येण प्रतिलोमादीन् आचार्यत्वमस्ति।
तदुक्तं सुप्रभेदे –
ब्राह्मणक्षत्रियावैश्याः शूद्राः शुद्धकुलोद्भवाः।
आचार्यास्तेषु विज्ञेया नान्येषां तु कदाचन॥
द्विशतिकालोत्तरे –
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः शुद्धास्तु साधकाः।
सुवर्णादानुपूर्व्येण आचार्यास्तु षडानन॥
वायव्यसंहितायामपि।
शिवशास्त्रसमायुक्ताः पशुशास्त्रपराङ्मुखाः।
ब्राह्मणादि चतुर्वर्णा आचार्यास्तु प्रकीर्तिताः॥
अन्यत्र च।
काञ्चनं रजतं ताम्रं लोहं चेति चतुष्टयम्।
तत्प्रयाति स ॥॥ त्वं रसवेधप्रभावतः॥
रसविद्धं यथाताम्रं नुभयस्ताम्रतां व्रजेत्।
ज्ञनविद्धस्तथा देहो न भूयः पशुतां व्रजेत्॥
पाषाणश्शिवसंस्कारात् भुक्तिमुक्तिप्रदो भवेत्।
पाषाणः शिवतां याति शूद्रस्तु न कथं भवेत्॥
आचार्यस्सर्ववर्णानां चातुर्वर्ण्यो गुरुर्भवेत्।
सत्यमेतन्महादेवि शिवशा* ॥॥ चोदितम्॥*
इति
शूद्र ॥॥॥॥॥। स्थस्य नित्येष्टावेव योग्यता।
अभिषेकस्य योग्यश्चेत् किं पुनस्थापनादिषु॥ इति एतद्वचनं
परार्थलिङ्गलिङ्गप्रतिष्ठाविषयम्।
(आधिभौतिकविधिः)
तत्र पुत्रकादिः
प्राणायामत्रयं कृत्वा हस्तौ मुकुऴीकृत्य ऋषिश्छन्दो देवता शक्तिबीजादीनि यथाप्रदेशं
विन्यस्य हस्तौ हुम्फडन्तास्त्रेण विन्यस्य मुकुऴीकृत्य आमणिबन्धदग्धरूपं विभाव्य

वौषडन्तशक्तिमन्त्रेण आप्लाप्य हस्ततले आसनमूर्तिमूलानि विन्यस्य अङ्गुष्ठादि
कनिष्ठान्तमीशानादि पञ्चब्रह्माणि विन्यस्य बद्धमुष्ट्यङ्गुष्ठेन।
होम् ईशानमूर्ध्ने
शान्त्यतीतकलायै नमः। अङ्गुष्ठतर्जनीभ्यां हें तत्पुरुषवक्त्राय शान्तिकलायै नमः।
अङ्गुष्ठमध्यमाभ्यां हुं र अघोरहृदयाय विद्याकलायै नमः।
अङ्गुष्ठानामिकाभ्यां हिं वामदेवगुह्याय प्रतिष्ठाकलायै नमः।
कनिष्ठाङ्गुष्ठाभ्यां हं सद्योजातमूर्तये निवृत्तिकलायै नमः। इति न्यस्य
नभोमण्डलं (६थ् लिन्) शिरस्थानं वृत्तं स्फटिकाभं शब्दगुणं
श्रोत्रेन्द्रियाधिष्ठानं बिन्दुलाञ्छितं हं बीजम्। सदाशिवाधिदैवतम्। ईशानेनाधिष्ठितम्।
ललाटादिकर्णपर्यन्तं वायुमण्डलं
षट्कोणं धूम्रवर्णं शब्दस्पर्शगुणं त्वगिन्द्रिया-धिष्ठानं षट् बिन्दुलाञ्छितम्। यं
बीजं महेश्वराधिदैवतम्। तत्पुरुषेणाधिष्ठितम्। कर्णादिनाभिपर्यन्तं
वह्निमण्डलं त्रिकोणमरुणाभं शब्दस्पर्शरूपगुणम्। चक्षुरिन्द्रियाधिष्ठानम्।
स्वस्तिकलाञ्छनम्। रं बीजम्। रुद्राधिदैवतम्। अघोरेणाष्ठितम्
नाभ्यादिजानुपर्यन्तम् अम्मण्डलअर्धचन्द्राकारम्। शुभ्रवर्णं शब्दस्पर्शरूपसगुणं
पद्मलाञ्छितम्।
जिह्वेन्द्रियाधिष्ठानम्। वं बीजम्। ब्रह्माधिदैवतः। वामदेवाधिष्ठितम्।
जान्वादिपादतलपर्यन्तम्। पृथिवीमण्डलं चतुरश्रं पीतवर्णं शब्दस्पर्शरूपरसगुणम्।
घ्राणेन्द्रियाधिष्ठानम् –
वज्रलाच्छितं लं बीजम्। ब्रहामाधिदैवतः। सद्योजातेनाधिष्ठितम्। एतानि पञ्चभूतानि
पादादिमूर्धपर्यन्तं पञ्चीकरणप्रकारेण अन्योन्यसम्बन्धानि स्वं
देहं पृथिव्यादिपञ्चभूतं बीजं ब्रह्मविष्णुभ्युत् भिन्नाङ्गुलम्।
रागद्वेषधर्माधर्ममोहमूलम्। विद्यादि परिपालितम्। कलादितत्वसारम्।
तन्मात्रेन्द्रियशाखोपशाखम्।
विषयालोचन-पल्लवं भावप्रपञ्च ॥। बुध्यध्यवसायकफलं पुरुषविहङ्गोपभोग्यं
भोग्यभोक्तृत्वर
सम्। ऊर्ध्वमूलमधःशाखं वटतलारूपं विभाव्य आत्ममूर्तिमन्त्रेण प्राणवायुना
स्वदेहव्यापकमात्मानमाहृत्य।
सूर्यसोमानलान्तशक्तिपीयुषमण्डले।
विकसितहृदयकमलमध्ये अन्तर्यामिना शिवेन सह आत्मानं विधाय
शक्तिपीयूषमण्डलादिभिरणुं विधाय। ईश्वर-शक्तियोगशक्तिबलेन आत्मशुद्धिरेव
भूतशक्तिं
करोति।
तदुक्तं कालोत्तरे –
॥॥॥ मन्त्रेण चात्मानमाहृत्य प्राणवायुना। स्वदेहव्यापकं प्रोत्फुल्लहृदयाम्बुजे।
सोमसूर्यानलान्तस्थशक्तिपीयूषमण्ड
ले तं निधाय पिधायाणुं शक्त्यादियुतमण्डलैः।
कूर्ममुद्रां ततो बध्वा भूततत्वं विशोधयेत्।
अन्यत्र च।
अक्षेशमिन्द्रियगतं क्रमैणैवानयेत्ततः।
आत्मनात्मनि
कर्तव्यमात्मात्मनश्शोधनं क्रमादिति। इति निवृत्यादिकलामन्त्रैः पञ्चपुष्पाणि
पञ्चपात्राणि वा। वामहस्ते निधाय कूर्ममुद्रां बध्वा प्रथमं पूरकार्देन ह्लां
ह्लां
ह्लां ह्लां ह्ला(ह्लां) निवृत्तिकलायै हः हुम्फडिति मनसोच्चार्य स्वदेहरूपवटवृक्षं
पत्रपुष्पफलरहितम्। उत्सारितगन्धादिपञ्चगुणं विभाव्य। पूरकापरार्धेन

ह्वीं ह्वीं ह्वीं हीं प्रतिष्ठाकलायै हः हुम्फडिति मनसोच्चार्य पत्रपुष्पफलोपेतम्
उत्सादिगुणचतुष्टयं विभाव्य कुम्भकेन ह्रूं ह्रूं ह्रूं
विद्याकलायै हः हुम्फडिति मनसोच्चार्य उत्सारित-रूपादि गुणत्रयं
सर्वपादाङ्गुष्ठोत्थितकौलाग्निना शुष्कपत्राद्युपेतं दग्धं च विभाव्य
रेचकपूर्वार्धेन ह्यैं ह्यैं शान्तिकलायै हः फडिति मनसोच्चार्य
उत्सारितशब्दस्पर्शगुणं
भस्मीभूतं प्रलीनं विभाव्य रेचकपरार्धेन। हां
शान्त्यतीतकलायै हः हुं फडिति मनसोच्चार्य उत्सारितशब्दगुणं शुद्धस्फटिकरूपं
विभावयेत्। ततो विशुद्धं विभाव्य वौषडन्तमूलेन शिखान्तरस्थाधोमुखपद्म
स्रवममृतधाराभिः सकलनाडीमुखं प्रविष्टाभिः स बाह्याभ्यन्तरं शरीरमाप्लाव्य
विकसिते हृत्पुण्डरीके राहुमुक्तशरत्(च्च)चन्द्रनिभमात्मानं
विभाव्य अन्तर्बहि॥॥
माणश्रीकर्णादिमातृकान्यासं च पञ्चब्रह्मषडङ्गकराङ्गन्यासांश्च कृत्वा
अन्तर्यागं कुर्यात्। अथवा पुत्रकः। पूर्ववन्यासभावनां च कृत्वा आत्मानं मनसा
स्वशरीरादाहृत्य ब्रह्मरन्ध्रादूर्ध्वं द्वादशाङ्गुलात् परे शिवे संयोज्य पूर्वोक्तवत्
भूतशुद्धिं कुर्यात्। ॥ इत्याधिभौतिकविधिः ॥

(आध्यात्मिकविधिः)
साधकस्तु
पूर्ववत्करन्यासं विधाय पादाङ्गुष्ठद्वयादारभ्य यावद्वस्ति द्विरूपं तदूर्ध्वं
ब्रह्मबिलान्तम् एकरूपं हृत्कण्ठादिषु इडापिङ्गलाभ्यां संयुक्ताम्।
अधोमुखपत्म(द्म)मुकुलयुक्तां सुषिररूपां सुषुम्नां सञ्चिन्त्य तस्या एवान्तर्बहि-
स्रवदमृतधारां परमे व्यामरूपिणीं शक्तिं विभाव्य। मध्ये
हुङ्कारज्वलन्तं स्वस्वरूपं सञ्चिन्त्य
पूरककुम्भकं च कृत्वा। हुङ्कारे चित्तं निवेश्य। वूयुमार्ध्वं विरेचयेत्। हुम्फडिति
सन्ततो(सततो)च्चारेण
पत्म(द्म)मुकुऴानूर्ध्वमुखात् भिन्नग्रन्धिंश्च विधाय प्रतिनिवर्त्य दक्षिणनाड्यां
विरेच्य पुनः पूरकवायुसंहृतचैतन्यं हृत्कमलाश्रितं स्फुरत्तारकाकारं
सान्तबीजमयं जीवं हृत्सम्पुटितम्। हुङ्कारमूरध्नि विन्यस्य बीजविग्रहं
हुङ्कारशिखान्तस्थं
पुर्यष्टकावच्छिन्नं पुरुषं रूपमेकाकिनं निरामयं ध्यात्वा
कुम्भकं कृत्वा वायुमूर्ध्वप्रवर्तयन् संहारमुद्रया ब्रह्मादिरारणत्यागक्रमेण
एकेनोद्घातेन ह्रूं हां हं हाम् आत्मने नमः इति
भोग्यकर्मोपभोगार्थं प्रासादद्वादशमात्रान्तशिवे संयोजयेत्।
इत्यात्या(ध्या)त्मिकविधिः॥
(आधिदैविकविधिः)
नन्वत्र संहारक्रमेण आत्मानमादाय शिवे योजयेदित्यादिवाक्यस्य
कर्त्रन्तरापेक्षास्तीति चेत्। आत्मानं स्तम्भाग्रे विन्यस्य पुनरधो विक्षिप्य मध्ये
स्थापयामीति न आभिलापाभिनययोरिव तदुपपत्तेरित्यविरोधः। शेषं पूर्वोक्तवत् कुर्यात्।
भूतशुद्धकाले तत्वानि पृथिव्यादि सादाख्यपर्यन्तानि प्रातिलोम्येन स्व स्व कारणेषु
अर्थक्रियाकारित्वरहितानि सूक्ष्मरूपस्थिवानि भावयेत्। तद्यथा
गन्धे पृथ्वी, रसे जलम्। रूपेऽग्नि, स्पर्शे वायुम्। शब्दे व्योम एतानि मन्त्राणि तामसाहङ्कारे।
वाक्पाद-पाणिपायूपस्थाख्यानि
राजसाहङ्कारे। श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि मनश्च सात्विकाहङ्कारे। स च बुद्धौ,
सा च चित्ता व्यक्तगुणमहान् पर्यायप्रकृतौ सा च

रागविद्यापुंस्तत्वं च कलायां कला नियतिः। कलश्च मायातत्वे। एवं सूक्ष्मरूप-स्थितानि
विभाव्य शुद्धविद्यातत्वमीश्वरतत्वे तत्सदाशिवतत्वे एवं
सूक्ष्मरूपस्थितानि विभावयेत्। एवं बन्धरूपं सर्वं शून्य-मिति विभावय।
वौषडन्तमूले शिखान्तरस्थाधोमुखपत्म(द्म)स्रवदमृतधाराभिः सकलनाडीमुखं
प्र ॥।
त स बाह्याभ्यन्तरकं
शरीरमाप्लाव्य हृदयकमलकरादिमात्रत्रययुक्तेन तारकेण शुद्धविद्यात्मकमासनं
विन्यस्य तत्कर्णकायां पुर्यष्टकं चतुष्कूलेन
प्रणवेनावतीर्णं भावयित्वा । तस्मिन् द्वादशान्तस्थं शवमयमात्मानं पञ्चकालेन
प्रणवेन पूरकेण सृष्ट्या समानीय ज्योतिरूपं स्थाप्य
वौषडन्तशक्तिमन्त्रोच्चारेण कुम्भशक्तिपरिसृतबहऴामृतप्रवाहेणाभिषिञ्चेत्।
आचार्यस्तु हृदयादिस्थानेषु प्रासादक्रमेण ब्रह्मादिकारणत्यागेन द्वादशशक्तरूपो
मन्यन्तपरशिवे संयोजयेत्। इताधिदैविकविधिः॥ एवं शिवमयो भूत्वा
दीक्षेदात्मानमात्मानेति वचनात्। मन्त्राः पदेषु
पदानि वर्णेषु। वरिणानि संहारक्रमेण अकारे अकारश्च नादे। नादश्च परविन्दौ भुवनानि
तत्वेषु तत्वानि तदुपसंहारक्रमेण

शुद्धाशुद्धमाययोः संयोज्य निवृत्यादिकलाः क्रियादीपं च शशक्तिषु संयोज्य
स्थूलदेहं पूर्वोक्तवदवृक्षवद्विभाव्य शिवाज्ञमन्त्रेण कालाग्निना
दग्धं भस्मीभूतम् आणवादि-सर्वोपाधिविनिर्मुक्तमिति। विभाव्यशक्तिषु शिवमयो भूत्वा
पुनः पक्वात्मानमनुग्रहार्थमुत्पत्तिक्रमेण तानि
तत्वानि उत् भूतानि विभाव्य वौषडन्तमूलमन्त्रेण
खिखान्तरस्थादधोमुखपत्म(द्म)स्रवदमृतधाराभिः सकलनाडीमुखं
प्रविष्टाभिः स
बाह्याभ्यन्तरं शरीरमाप्लाव्य हृदयकमलमकरादिमात्रात्रययुक्ततारकेण
शुद्धविद्यात्मकमासनं विन्यस्य तत्कर्णिकायां विज्ञानचतुष्कलेन
प्रणवेनावतीर्णं भावयित्वा तस्मिन् द्वादशान्तस्थं शिवम् ॥॥ त्मानं पञ्चकलेन
प्रणवेन पूरकेण सृष्ट्या समानीय ज्योतिरूपं
संस्थाप्य
वौषडन्तशक्तिमन्त्रोच्चारेण क्षुब्धशक्तिपरिसृतबहऴामृतप्रवाहेणाभिषिञ्चेत्। ननु
भावनामात्रेण देह-स्थितमलनिवृत्तिः। कथं स्यादिति चेत् विषदष्टस्य
गरुडभावनामात्रेण यथा विषनिवृत्तिः। तद्वदत्रापि मन्त्रक्रियाभावनया मल-
निवृत्तिभूतविकारोपशमनं च भवतीत्यनवद्युम्। विरक्तस्याप्येवमेव भूतशुद्धिः॥
(मातृकान्यासविधिः)
ततोन्तर्बहिमातृकापञ्चब्रह्मषडङ्गाष्टत्रिंशत्कलान्यासानि कारयेत्। अत्र
क्रमः। मातृकान्यासहीनस्य मन्त्रोच्चारणे अधिकारो नास्ति।
तस्मात् प्रथमं मातृतान्यासं कुर्यात्। मातृकान्यासविधिप्रकारो बहुविधः। तेषु
चतुर्थानां प्रासाद-पञ्चाक्षरे अधिकारात्।
प्रासादपञ्चाक्षरसहितम् अन्तर्मातृकान्यासम्। श्रीकण्ठादिसहितं बहिर्मातृकान्यासं
च कुर्यात्।
(अन्तर्माकृकान्यासः)
सुषुम्नामध्ये हं हां हौं शिवाय नमः।
मूलाधारे वं शं षं स इति चतुष्टयम्। स्वाधिष्ठाने बं भं मं यं रं लम् इति षट्।
मणि-पूरके डं ढं णं तं थं दं धं नं पं षम् इति दश। अनाहते कं खं
॥॥॥॥॥ ॥॥। जं झं ञं भ्रं टं ठम् इति द्वादश। विशुद्धौ अम् आम् इम् ईम् उम् ऊम् ऋम् ऋम्
ऌम् ॡम् एम् ऐम् ॐ औम् अम् अः । इति षोडश।
आज्ञ
॥॥॥॥॥॥। । इत्येकपञ्चाशन्मन्त्राक्षराणि । तत्तत्स्थानतदाकारपत्म(द्म)दऴेषु
पूर्वोक्तप्रसादपञ्चाक्षरसहितं मनसा न्यसेत्।
अथ
बहिर्मातृकान्यासक्रमः।
अं श्रीकण्ठाय पूर्णोदर्यै नमः। इति शिरसि। आम् अनन्ताय विराजायै नमः। इत्याननवृत्ते। इं
सूक्ष्माय तृतीयायै नमः। इति
दक्षिणनेत्रे ई त्रिमूरतये शान्मल्यै नम इति। वामनेत्रे उम् अमरेश्वराय लोलाक्ष्यै नम इति।
दक्षिणश्रोत्रे ऊम् अस्त्रेशाय
वर्तुऴाक्ष्यैनम इति वामश्रोत्रे ऋं भारभूतये दीर्घकोणायै नम इति दक्षिणनासापुटे।
ऋम् अतिथये
दीर्घमुख्यै नम इति। वामनासापुटे। ऌम् स्थाणवे
गोमुख्यै नम इति दक्षिणकपोले। ॡं हराय नवम्यै नम इति। वामकपोले एवं झदीशाय
दीर्घजिह्विकायै नम इति।
ऊर्ध्वोष्टे ऐं भौतिकाय कुण्डोदर्यै नम इति अधरोष्टे ॐ सद्योजाताय ऊर्ध्वकेशिन्यै नम
इति। ऊर्ध्वदन्तौ ऐ (औम्) अनुग्रहेश्वराय विकृतमुख्यै
नम इति। अधो दशनेषु।
अम् अक्रूराय सज्वालोलकाश्रयायै नम इति। तालु मूले। अः महासेनाय विद्याकलायै नमः। इति
तालुमधिये – कं
क्रोधीशाय महाकाऴ्यै नम इति। द ॥। हौ खं चण्डाय सरस्वत्यै नम इति। कूर्परे गं पञ्च
॥। क्तकाय सर्वसिद्धियातायै नम इति। मणिबन्धे। घं
शिवोत्तमाय गौर्यै नम इति। हस्ततले । इम् एकरुद्राय त्रैलोक्यविद्यायै नम इति
अङ्गल्याग्रे । चं कार्माय मन्त्रशक्त्यै नम इति वामबाहौ ॥॥।
एतदृशे आत्मशक्त्यै नम इति कूर्परे। जं चतुराननाय भूतमात्रे नम इति। मणिबन्धे। झम्
अजेशाय लम्बोदर्यै नम इति। हस्ततले – ञं शर्पाय
नगर्यै नम इति। अङ्गुल्यग्रे। अं सोमेशाय खेचर्यै नम इति। दक्षिणोरुमूले। ठं लाङ्गline
मञजर्यै नम इति। जानुनि। डं दारुकाय

विकृतरूपिण्यै नम इति। जङ्घायाम्। ढम् अर्धनारीश्वराय वृकोदर्यै नम इति। पादे। णम्
उमाकान्ताय पूतनायै नम इति। अङ्गुल्यग्रे। तम्
आषाढाय भद्रकाऴ्यै नम इति। वामोरुमूले थं – दण्डिने योगिन्यै नम इति। जानुनी। दम्
अत्रये शङ्खिन्यै नम इति। जङ्घायाम् – धं मीनाय गर्जिन्यै
नम इति। पादे नं मेषाय कालराद्र्यै नम इत्यङ्गुल्यग्रे।
पं लोहिताय कुब्जिन्यै नम इति। दक्षिणपार्श्वे। फं शिखिने कपर्दिन्यै
नम इति वामपार्श्वे। बं फलण्डाय जयायै नम इति। पृष्ठदेशे भम्। द्विरण्डाय
भद्रायै नम इति। नाभ्यधः मं महाकाऴाय विजयायै नम इति। नाभौ यं बाline
सुमुखेश्वर्यै नम इति। जठरे। रं भुजङ्गेशाय रेवत्यै नम इति। वक्षस्थले लं पिनाकिने
मालत्यै नम इति। त्रिकादधः।
वं खड्गेशाय वायव्यै
नम इति। बाहुमूलयोरधः शम्बकाय वारुण्यै नम इति। दक्षिणस्तने शं श्वेताय
रक्षोपधारिण्यै नम इति। वामस्तने । सं सृगवे सहजायै नम इति।
स्तनयोर्मध्ये। हं लकुऴीशाय लक्ष्म्यै नम इति। हृदये ऴं शिवाय व्यापिन्यै नम इति। गुदे
तच्च सशक्तिविशक्ति। क्षं संवर्तकाय मायायै नम इति। गुह्यके।

एवं वर्णन्यासं कृत्वा ईशानादि पदन्यासं च पूर्वोक्तवत् कृत्वा पश्चादाचार्यः
कलान्यासं कुर्यात्।
(कलान्यासः)
तच्च सशक्तिकविशक्तिककेवलशक्तिक
भेदात् त्रिधा। तासु ब्रह्मणब्रह्मचारिणहृदयादिमञ्जसायं च विशक्तिकला तस्य गृहस्थस्य
सशक्तिकला चतुर्थस्य केवलशक्तिकला। अष्टत्रिंशत्कला न्यासेदिति। वचनात्।
केवलशक्तिभिः कथ न्यास इति चेत्। अष्टत्रिंशत्कलापदानाम्। वेदमन्त्रत्वात्। पदानि विहाय
कलाशक्तिभिरेव न्यासो युक्तः। तथा।
हां
शशिन्यै नम इति। शिरसि। हाम् अङ्गदायै नम इति। ललाटोपरि हाम् । इष्टायै नम इति। शिरो
दक्षिणपार्श्वे। हां मरीच्यै नम इति। शिरो
वामपार्श्वे हां ज्वालिन्ये नम इति। पश्चिमभागे। शिखोपरि हां शान्त्यतीतकलायै नम इति।
ललाटान्ते। हां शान्तिकलायै नम इत।
मुखे हां विद्याकलायै नम इति। दक्षिणकर्णदेशे।
हां प्रतिष्ठाकलायै नम इति। वामकर्णदेशे। हां
निवृत्तिकलायै नम इति। पश्चिमशिखास्थाने। हां तमसे नम इति। हृदये हाम्। अमोघायै नम
इति। गऴे हां जयायै नम इति। दक्षिणांसे। हां
निद्रायै नम इति। वामांसे हां धृत्यै नम इति। नाभौ हां क्षान्त्यै नम इति। जठरे हां
स्मृत्यै नम इति। पृष्ठे हाम् अक्षयायै नम इति। पक्षमविभां
रसायै नम इति वक्षसि। गुह्ये हां रत्न्यै
नम इति। वृषणद्वये हां पाल्यायै नम इति दक्षिणोरौ। हां रक्षायै नम इति। वामोरौ। हां
कलायै नम इति। दक्षिणजानुनि हां
सम्यमिने नम इति। वामजानुनि। हां क्रियायै नम इति। दक्षिणजङ्घायाम्। हां
महातृष्णायै नम इति। वामजङ्घायाम्। हां मोहायै नम
इति। दक्षिणस्फिजि(चि)
हां क्षयायै नम इति। वामस्फिजि(चि)। हां चिन्तायै नम इति। वस्तिदेशे – हां मोहिन्यै नम इति।
उत्तरदक्षिणपार्श्वे
हां ग्रामिण्यै नम इति। उदरवामपार्श्वे। हां सिद्ध्यै नम इति। दक्षिणपादे हाम् ऋध्यै
नम इति। वामपादे। हां धृत्यै नम इति। दक्षिणहस्ते
हां लक्ष्म्यै नम इति। वामहस्ते हां मेधायै नम इति। नासाग्रे हां कौन्त्यै नम इति। शिरो
देशे
हां स्वधायै नम इति दक्षिणबाहौ हां
प्रजायै नम इति। वामबाहौ। एवम् – गृहस्थसन्यासविधिः॥

विरक्तस्तु पादादिषु सिध्यादिकलाः। संहारक्रमे न्यसेत्। तदुत्तरम्। सान्तनसंहितायाम्।
ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कलाः।
अघोरस्य कलाचाष्टौ वामदेवस्त्रयोदश॥
अष्टौ सद्यः कला ज्ञेयाः मकुटादिक्रमान्यसेत्।
सद्यः सलाभिरष्टाभिर्वामदेवं त्रयोदशैः॥
अघोराभिरथाष्टाभिः चतस्रभिर्वक्त्रमेव च।
ऐशाभिः पञ्चभिश्चैव पादाद्येषु न्यसेत्क्रमात्॥ इति।
क्वचित् कलाशक्तीनां
नामभेदोस्ति। अत्र उक्तप्रकारे सम्मतिमाह।
सा(स)न्तानसंहितायाम् –
शशिनी चाङ्गदा चेष्टा मरीचि ज्वालिनी तथा।
एताः पञ्चकलाशक्तिः पञ्चमूर्ध्वोपरि न्यसेत्॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च।
एवं चतुष्कला शक्तिरतीतांश्चोर्ध्ववक्त्रके॥
तमो मोघा जया निद्रा धृतिक्षान्तिस्मृतिः क्षया।
अघोरे चाष्टशक्तीश्च वामदेव्यस्तथोच्यते।
रसा रतिः पाल्य रक्षे कला संयमीनि क्रिया॥
तृष्णा मोहा क्षया चिन्ता मोहिनी भ्रमिणी तथा।
वामदेवकला शक्तिस्त्रयोदश समीरिता॥
सिद्धि ऋद्धि धृतिर्लक्ष्मीर्मेधाकान्तिस्सुधाप्रजा।
द्यस्याष्टकला शक्तिरीरिता नन्दिकेश्वर॥ इति।
(अन्तर्यजनम्)
नारुद्रो रुद्रमर्चयेदिति। वचनात्। एवं न्यासं कृत्वा शिवोहमिति विभाव्य
पुत्रसाधकाचार्यैस्तु आदिभौतिका-ध्यात्मिकाधिदैविकक्रमेणान्तर्यजनं कर्तव्यम्।
अन्तर्यजनशिवोहं भावना विना बहिर्यागं यः करोति स तु
स्नानादि-शुचिरप्यशुचिरेव मोक्षभागोऽपि न भवति तस्मात् जीवोहं भावमुत्सृज्य शिवोहमिति
भावयित्वैव शिवमाराधयेत्।
तथागमः। त् कृत्वा
मानसं यागं यो बहिर्यागमारभेत्।
अशिवस्तु स विज्ञेयो न मोक्षाय विधीयते।
प्रकृतं भावमुत्सृज्य शिवोहमिति भाव्य च॥
यावन्न तत्समो जातस्तावन्नाराधने क्षम। इति।
(आधिभौतिकक्रमः)
प्रथमं पुत्रकस्य अन्तर्यजनक्रमः। मूलाधारे। हां कूर्मासनाय नमः।
तदुपरि अनन्तासनाय नमः। नाभिपर्यन्तं हाम् अनन्ताय नमः। नाभौ। हां
पृथ्वीकन्दाय नमः। तन्मध्ये हां बीजाय नमः। हाम् अङ्कुराय नमः। उपरि अष्टाङ्गुलम्।
त्रिंशत्तत्व-रूपम्। हां नाऴाय नमः। तदुपरि गौणाग्नेयादि
कोणेषु पीठपादान् श्वेतरक्तपीतकृष्णवर्णान् सिंहरूपान्।
हां धर्माय नमः। हां ज्ञानाय नमः। हां वैराग्याय नमः। हां
ऐश्वर्याय नमः। इति गौणपूर्वादिविलोमचतुष्टयम्। कृष्णश्वेतश्वेतरक्तरक्तपीत-
कृष्णवर्णान् विभाव्य। हाम् अधर्माय नमः। हाम् अज्ञानाय नमः।
हाम् अवैराग्याय नमः। हाम् अनैश्वर्याय नमः। इति अशुद्धमायास्वरूपमधच्छदनं
पीतरक्तवर्णं भावयित्वा। हाम् अधच्छदनाय नमः।
शुद्धमायास्वरूपमूर्ध्वच्छदनं
श्वेतवर्णं भावयित्वा। हाम् ऊर्ध्वच्छदाय नमः। एवम्भूतसिंहासनोपरि
श्पेतपत्म(द्म)मष्टदऴं शुद्धविद्यारूपं यवर्गाष्टकबीजसहितं भावयित्वा। हाम्

अष्टदऴेभ्यो नमः। दऴाग्रे हां सूर्यमण्डलाय नमः। सूर्यमण्डलाधिपतये
ब्रह्मणे नमः इति। दक्षिणपार्श्वे। तदुपरि ईश्वरतत्वरूपान् केसरान् विभाव्य हां

कोसरेभ्यो नमः। केसराग्रे हां सोममण्डलाय नमः। सोममण्डलाधिपतये विष्णवे
नमः। इति वामपार्श्वे। मध्ये सादाख्यतत्वरूपां कर्णिकां विभाव्य हां
कर्णिकायै नमः। कर्णिकाग्रे हां वह्नि-मण्डलाय नमः। वह्निमण्डलाधिपतये रुद्राय
नमः। केसा(स)राग्रे पूर्वादिदिक्षु क्रमेण हां वामायै नमः। हां जेष्ठायै नमः।
हां
रौद्रियै नमः। हां काऴ्यै नमः।
हां कलविकरण्यै नमः। हां बलविकरण्यै नमः। हां बलप्रमथिन्यै नमः। हां
सर्वभूतत(द)मन्यै नमः। कर्णिकायाम्। हां मनोन्मन्यै नमः। इति
एवं कूर्माद्यासनाद्यधिदैवताः। सर्वाः गन्धपुष्पधूपदीपनैवेद्यैः
पञ्चभिरुपचारैर्मनसा पूजयेत्। ततः सकलसकऴाकलनिष्कऴेष्ठ
यथालिङ्गं पूजाध्यानात्मसमर्पणविधानात्। तत् कर्णिकामध्ये कर्मसादाख्यं पूजयेत्।
तद्यथा शुद्धस्फटिकसन्निभम्। द्वात्रिंशत्ल(ल्ल)क्षणोपेतं
बद्धपत्मा(द्मा)सनं शुद्धस्फटिकप्रभावं निर्मलं बालरूपं त्रिणेत्रं
जटाखण्डेन्दुमण्डितम्। वज्रकुण्डलभूषितमीशानाख्यम् ऊर्ध्ववक्त्रं हेमाभं
त्रिणेत्रं जटाखण्डेन्दुमण्डितम्।
यौवनरूपं तत्पुरुषाख्यरक्तकुण्डलभूषितम्। पूर्ववक्त्रं कृष्णाभं त्रिणेत्रं
जटाखण्डेन्दुमण्डितम्। दंष्ट्राकरालवदनम्।
सर्पकुण्डलालङ्कृतं
प्रौढाकारमघोराख्यदक्षिणमुखम्। डाडिमीकुसुमप्रभम्। त्रिणेत्रं
जटाखण्डेन्दुमण्डितम्। स्त्रीवदनसदृशं मौक्तिकताटङ्कम्। वामदेवाख्या-
मुत्तरमुखम्। क्षीराभं त्रिणेत्रं
जटाखण्डेन्दुमण्डितम्। कनककुण्डलसद्योजाताख्यं पश्चिममुखम्
एतादृशपञ्चवक्त्रयुक्तं दक्षिणहस्तेषु पञ्चसु शूलवज्रखट्ग(ड्ग)परश्वभयानि
वामहस्तेषु
पञ्चसु
शूर्पपाशघण्टानलाङ्कुशांश्च दधानम्। व्याघ्रचर्माम्बरधरं
सर्वावयवसंयुतम्। कर्मसादाख्येशं तद्वामभागे मौक्तिकाभम्।
चतुर्हस्तामक्षाब्जाभयवरद
मुद्राश्च दधानाम्। सुस्तनां सुयौवनां सर्वावयवानवद्यां दुकूलधारिणीम्।
सर्वाभरणभूषितां सर्वमङ्गलकराम्। सकलजगदुत्पत्तिसिथि
तिकारिणीर्मनोन्मनीं च ध्यात्वा सदाशिवमूर्तौ
परमशिवं मनोन्मन्यां पराशक्तिं च प्रसन्नत्वेना-भिव्यक्तौ भावयेत्। तथागमः।
अशिवत्वमजादीनामङ्गानामपि तत्समम्। तान्यप्यतिष्ठितान्येव धर्मत्वात् शम्भुना यतः।
इति पाद्याचमनार्घ्याभिषेकवस्त्रोपवीतगन्धपुष्पमकुटकट
कादि दिव्याभरणैः सम्पूज्य भोगाङ्गं पूजामीति लब्धानुज्ञः विज्ञाप्य
वक्ष्यमाणप्रकारेण ब्रह्माङ्गानि सदाशिवमूर्तेरादाय

कर्णिकायामीशानादिदिक्षु ईशानादीन् सम्पूज्य केसराग्रे अनन्तेशादीन्। दलमध्ये नन्द्यादीन्।
दऴाग्रेषु च इन्द्रादीन् तदग्रभागे च वज्रादीन्। गौणपूर्वादिदिक्षु क्रमशः पूजयेत्। ननु।

सूर्यादि ब्रह्मादि इन्द्रादीनां प्राकृतशुद्धाध्ववासिनां शुद्धविद्यादितत्वेषु
पूजाविधिर्विरुद्ध इति चेत् सत्यत्वमुक्तं शुद्धाध्ववासिनामिति।
अथापीश्वराङ्गोद्भूतशुद्धाध्ववासिनां
सूर्यब्रह्मेन्द्रादीनामेवात्र पूजोक्तेत्यविरोधः।
तदुक्तम् वातुले –
दक्षिणाङ्गभवो ब्रह्मा हरिर्वामाङ्गसम्भवः।
हृदया*न्नीलरुद्रस्तु शिवस्य शिवसञ्ज्ञकः॥ *
महेशस्य सहस्रांशात् रुद्रदेवसमुद्भवः।
एतन्महेशको प्रवरात् ब्रह्मविष्णुसमुद्भवः॥
नेत्रेषु सव्यवामो ॥॥॥॥॥॥ सम्भवः।
प्राणे वाथ समुत्पन्न श्रोत्रे कलादिसम्भवः॥
आस्ये ज्ञानं समुत्पन्नं गणशस्तु गऴोद्भवः।
षण्मुखो हृदये जातो नाभौ देवसमुद्भवः॥
पञ्चाशत्कोटि देवाश्च महेशांशसमुद्भवः।
ऋषयश्च तथा कोट्यो रोमकूपात् समुत्भ(द्भ)वाः॥ इति।
अथ
धूपदीपनैवेद्यादीन् नीराञ्जनश्छत्रचामरदर्पणतालवृन्तादि राजोपचारांश्च मनसा
विभाव्य। पूजयित्वा अग्निकार्यं करिष्यामीति विज्ञाप्य
लब्ध्वानुज्ञः। नाभिकुण्डे स्वतः सिद्धाग्नौ शिवाग्निं ध्यात्वा बाह्याग्निकार्योक्तप्रकारेण
मनसा होमं कृत्वा भ्रूमध्ये अव्यक्तरूपं शरत् चन्द्रनिभं
शिवं ध्यात्वा समाधिमियात्।

(आध्यात्मिकक्रमः)
साधकस्तु पूर्वोक्तलक्षणम्। हृदय-कमलस्वरूपम् बिन्दुसकारवृत्ताकारपीठम्।
नादस्वरूपं हंसदण्डाकारम्। दीपवत्
प्रकाशम्। लिङ्गमिति भावयित्वा लिङ्गे ईशानादिपदमन्त्रान्
पूर्वोक्तपञ्चवक्त्राद्यवयवादिरूपेण भावयित्वा लामित्यादिभूतबीजेन
गन्धादिसूक्ष्मपञ्चभूतेषु सूक्ष्मपृथिवीतत्वात्
वस्त्रोपवीतगन्धपुष्पधूपभक्ष्यभोज्यताम्बूलादिकं सूक्ष्मरूपादप्तत्वात्।
पाद्याचमनार्घ्याभिषेकपानीयादिकं
सूक्ष्मरू…।स्तत्वात् रक्ताद्याभरणादीनिव दर्पणादिकं सूक्ष्मवायुतत्वात्।
चामरतालवृन्तादिकं सूक्ष्मनभस्तत्वात्। घण्टानादस्तुतिगानादिकं च तत्तत्
बीजोच्चारणेन सम्पद्य तैस्तैरुपचारैः सदाशिवं पूजयित्वा आकुञ्चनेन मूलवायुना
विञ्चविञ्च वह्नबीजेन। मूलाग्निमुत्बो(द्बो)ध्य नाडीचक्रं भित्वा सुषुम्नामार्गेण

प्राणवायुना वह्निं ब्रह्मरन्ध्रामृतसागरे आरोप्य तत्परिसृतामृतधारया
नाभिकुण्ठे(ण्डे) जुहुयात् योगाभ्यासरहितस्तु इडया पूरकेण वायुना अमृतमाकृष्य
प्रासादेन स्वतसि(स्सि)द्धनाडिकुण्डशिवानले जुहुयात्। अथ भ्रूमध्ये प्रासादमार्गेण
बिन्दुरूपम्। ज्ञानज्योतिर्मयं ध्यात्वा तन्मयो भूयात्।
तदुक्तं वातुऴे –
नादो लिङ्गमिति प्रोक्तं बिन्दुपीठमुदाहृतम्।
मकुटे च –
प्राणिनां देहमध्ये तु स्थितोऽहं सस्सदाशिव। इति
देहमध्यमिति सूक्ष्मदेहे
हृदये स्थितः।
शिवतन्त्ररहस्यसारे –
पूरकाकृष्टपीयूषहविषाथ शिवाणुभिः।
नाभिकुण्डे स्वतस्सिद्धे तर्पयेत शिवानलम्॥
सिद्धान्तसारावऴ्यामपि –
वह्नावेवमपि प्रपूज्य जुहुयात्। पूर्वोक्तयोगेन तत्।
स्थानस्थामिडया सृवेण च ॥। सुषुम्नापि चेति।
(आधिदैविकक्रमः)
आचार्यस्तु पूर्वोक्तलक्षणहृदयकमलस्थरूपक्रियाशक्तिपीठम्।
ज्ञानशक्ति लिङ्गम्। तदात्मानं सच्चिदानन्दं परमशिवमिति ज्ञात्वा पराशक्तियोगेन
विशुद्धमनसा अङ्गप्रत्यङ्गसाङ्गोपाङ्गानि शक्तिस्वरूपाणि भावयित्वा पूजयेत्।
तद्यथा –
योगिनं च यदी(ती)नां च ज्ञानिना मन्त्रिणां तथा।
ध्यानपूजानिमित्ताय निष्कऴं सकऴं भवेत्॥
ईशानपुरुषाघोरवामाजातादिकाः क्रमात्।
एतास्सदाशिवावस्थाः
जगत्पूरणहेतुत्वात् बिन्दोर्नादादि वृत्तिभिः॥
वक्रेण साम्यतस्य पुमान्वक्त्रमितीर्यते।
घोरो मलादिसंसारस्तद्विरोधितया विभुः॥
अघोर इति विख्यातसत्भावोऽयं सलक्षणः।
हृदयं चापि सद्भावो यस्मात्तस्मात् तथैव हि॥
वामोऽस्य तुरहस्यत्वात् सूक्ष्मत्वात् दृक्क्रियात्मकः।
कर्ता विश्वस्य पुत्रादिकार्येषु जननं यतः॥
वामो गुह्यस्ततश्चायं शास्त्रेऽस्मिन् सम्मतो बुधाः।
स्वस्येच्छामात्रतस्तस्य स्वशक्तिप्रसरात्मिकाम्॥
मूर्तिमासादयेद्यस्मात् सद्यो मूर्तितस्मृतः।
एवं मन्त्रास्तु * पञ्चैते यैर्निबद्धा तनुश्शिवा॥*
ईशानशेखरी सा च पुंवक्त्रा घोरहृस्थला।
वामगुह्या च सद्याङ्घ्रिर्हाकिणी जननी तथा॥
रोधयित्रीति तिसृभिः शक्तिभिः कल्पितेन्द्रिया।
अष्टावेता यशस्विन्य ईशानाद्यास्त्रिशूलिनः॥
हारिणीया शिवस्योक्ता सर्वाभरणशक्तिका।
अथवा परसंस्थानं नयेदाहृत्य पुत्ग(द्ग)लम्॥
यस्मात्तस्मादियं शक्तिहारिणीमुच्यते बुधैः।
जननी जगतो जन्मस्वभावस्यामितद्युतिः॥
रोधयित्र्यणुसङ्घस्य प्रलये नियमस्थितिम्।
भोगेष्वपि च तस्यापि विदधाति यतस्ततः॥
एतास्तु शक्तयस्तिस्रः शरीरकरणात्मिकाम्।
अन्तरङ्गास्तथा चान्ये मन्त्रास्सन्ति शिवात्मकाः॥
हृत्श्छि(च्छि)रश्चूलिकावर्मलोचनास्त्राणि न वामतः।
सद्भावो हृदयं तस्य शिरः सर्वोच्छ्रितो गुणः॥
शिवत्वमपराधीनं यत् श्छिका(यच्छिका) सोपरिस्थिता।
स्वभावगुप्तमन्येषां समर्थीमपि गोपने॥
तेजः* कवचसाधर्म्यात् तन्नाम्ना व्यपदिश्यते।*
सर्वज्ञताया बीजं यत् ततस्तेन निरीक्षणम्॥
यो सा वप्रसहः शम्भोः शम्भोः प्रतापो हेति(तु)रुच्यते। इति
पूर्वोक्तशशिन्याद्यष्टत्रिंशत्कलाश्शक्तयः। प्रत्यङ्गानि।
त्रिगुणं शूलमित्युक्तं सत्यं परशुरिष्यते।
खट्ग(ड्ग)मीशप्रतापोऽयं दुर्भेद्यं वज्रमिष्यते॥
ईशस्यानुग्रहं चैव अभयं च प्रशस्यते।
ऋद्धिस्या(स्स्या)न्नागरूपं तु पाशं मायास्वरूपकम्॥
विवर्णमङ्गुशं चैव घण्टा नादात्मकं विदुः।
संहारमग्निरूपं स्यात् पाशानां भस्म स्यात् कृतिः॥
एते वैगुण्यरूपाश्च साङ्गं चेति प्रकीर्तितम्।
इदं कर्मसादाख्यरूपम्।
सर्वेषां ध्यानपूजार्थं सकऴं निष्कऴं भवेत्।
एवं ज्ञात्वा विशेषेण सर्वकर्म समाचरेत्॥
इति। वचनात्। कर्मानुष्ठानस्य तत्ज्ञान(तज्ज्ञान)पूर्वकत्वं नियमात्।
पञ्चसादाख्यलक्षणमुच्यते। शान्त्यतीतपराशक्तिस्तस्याः
पर्यायवाचकादि।
पराशक्तेर्दशांशेन शिवस्सादाख्यसम्भवः।
पराशक्त्युत्भ(द्भ)वत्वा च शुद्धत्वात् शिवमुच्यते॥
तद्रूपं सूक्ष्मरूपेण ज्योतिरूपमिति स्मृतम्।
विद्युद्रूपमिवाकाशे प्रत्यक्षं सर्वतोमुखम्॥
शिवतत्वमिदं प्रोक्तं तत्वानामखिलालयम्।
शिवसादाख्यमेवोक्तं मुहूर्तं शृणु षण्मुख॥
आदिशक्तिश्च शान्तिश्च तस्याः पर्यायवाचकाः।
आदिशक्तेर्दशांशेन अमूर्तस्य समुद्भवः॥
आदिशक्तेरमूर्तत्वात् अमूर्तमिति कीर्तितम्।
अमूर्तत्वात् कलाहीनं तद्रूपं लिङ्गवद्भवेत्॥
सूर्यकोटिप्रतीकाशं ज्योतिस्तम्भाकृति स्थितम्।
तस्याभ्यन्तर्गता मूर्तिरमूर्तादिरिहोच्यते॥
एतद्वै दिव्यलिङ्गं तु मूलस्तं* ॥॥॥॥॥॥। च्यते।*
लिङ्गे सर्वं समुत्पन्नं लयस्तत्रैव चोच्यते।
सृष्टिसंहारमेवोक्तं लिङ्गानामस्य चोच्यते॥
अमूर्तमेवमाख्यातं समूर्तं तु ततश्शृणु।
………॥॥॥॥। तस्याः पर्यायवाचकाः॥
ज्ञानशक्तेर्दशांशेन कर्तृसादाख्य
इच्छाशक्तेर्दशांशेन ज्योतिर्मूर्तिरिहोच्यते॥
इच्छाशक्तेर्गुणत्वाच्च तस्मान्मूर्तमुदाहृतम्।
समूर्तत्वात् कलायुक्तं रूपं चेति प्रकीर्तितम्॥
ज्वालाग्निसदृशप्रख्यं दिव्यलिङ्गाकृतिर्भवेत्।
तस्योर्ध्वांशैकभागे तु एकवक्त्रेण संयुतम्॥
त्रिणेत्रं चारुवदनं सर्वावयवसंयुतम्।
एवमेकाननोपेतं लिङ्गं मूर्तमुदाहृतम्॥
मूर्तसादाख्यमेवोक्तं कर्तृसादाख्यमुच्यते।
ज्ञानं चैव प्रतिष्ठा च तस्याः पर्यायवाचकाः॥
ज्ञानशक्तेर्दशांशेन कर्तृसादाख्यसम्भवः।{सम्भवम्}
ज्ञानं कर्तृस्वभावत्वात् कर्तृनामेति कीर्तितम्॥
ज्ञानं हि शुद्धरूपत्वात् स्फटिकाभं तदुच्यते।
दिव्यलिङ्गं महादीर्घं महत्स्थूलतयान्वितम्।
तस्य मूर्तेस्थितो मूर्तिरीश्वरस्सर्वकारणः॥
चतुरमूर्धा चतुर्वक्त्रो नेत्रैर्द्वादशभिर्युतः।
चतुरास्यश्चतुर्नासो वसुश्रोत्रसमन्वितः॥
अष्टहस्तो द्विपादश्च सर्वलक्षणसंयुतः।
शूलं परशुखड्गं च अभयं दक्षिणे करे॥
पाशं नागं च घण्टां च वरदं वामहस्तके।
सर्वावयवसंयुक्तं सर्वाभरणभूषितम्॥
एवं तदीश्वरोपेतं लिङ्गं कर्तृति चोच्यते।
कर्तृसादाख्यमेवोक्तं कर्मसादाख्यमुच्यते॥
निवृत्तिश्च क्रियाशक्तिस्तस्याः पर्यायवाचकाः।
क्रियाशक्तेर्दशांशेन कर्मसादाख्यसम्भवम्॥
क्रिया कर्मेति विज्ञेयं तस्मात् कर्मेति नामतः।
लिङ्गपीठप्रकारेण कर्मसादाख्यलक्षणम्॥
नादो लिङ्गमिति ज्ञेयं बिन्दुः पीठमिति स्मृतम्।
नादबिन्दुयुतं रूपं कर्मसादाख्यमुच्यते॥
चत्वारि कर्तृरूपादि केवलं नाद उच्यते।
लिङ्गशम्भुरि * ॥॥॥। पीठं शक्तिरुदाहृतम्॥*
योनिलिङ्गप्रकारेण जगत्सृष्ट्यर्थकारणम्।
सदासंयोगभावत्वात् कर्मरूपमुदाहृतम्॥
बिन्दुमध्यगन्ता नादो नादमध्ये तु मूर्तयः।
मूर्तमध्यगतत्वं तत्वमध्यगतश्शिवः॥
शुवमध्यगतं नृत्तं नृत्तमध्ये तु शान्तिकम्।
अतीतं शान्तिमध्ये तु शान्त्यतीतं परात्परम्॥
एतत् श्चिवमयं लिङ्गं सर्वतत्वालयस्मृतम्।
लिङ्गे तु जायते तत्र जगत्स्थावरजङ्गमम्॥
तस्मात् लिङ्गं विशेषेण कर्मरूपमुदाहृतम्।
कर्मोदये तु सृष्टिस्यात् कर्मान्ते संहृतिर्भवेत्॥
एतत्कर्मेशरूपं तु सृष्टिस्थितिलयावहम्।
पञ्चसादाख्ययोगेन कर्मसादाख्यमुच्यते॥
शिवसादाख्ययोगेन शिवरूपं सदाश्रितम्।
अमूर्तं हि स महासेनशिवसादाख्यमाश्रि*तम्॥ *
तस्मात् कर्मेशरूपं तु पञ्चमूर्त्याश्रितं विदुः।
सर्वतत्वात्मकं ज्ञेयं सर्वाधारमिति स्मृतम्॥
एतद्वै मूर्तिपिण्डत्वात् पिण्डं कार्यमिति स्मृतम्।
मूर्तिरूपं विशेषेण अमूर्तादीन् समाश्रितम्।
……सा रूपं हि मूर्तिरूपं समाश्रितम्॥
कर्मरूपं विशेषेण कर्तृरूपं समाश्र(श्रि)तम् ।
अनेनैव क्रमेणैव एकैकं तु समाश्रितम्॥

पिण्डस्थं पिण्डमध्यस्थं पिण्डेन च पुटीक॥॥म्।
पिण्डेन पिण्डितं पिण्डं पिण्डरूपमुदाहृतम्॥
एतत्पिण्डं शिवमयं सर्वतत्वमयं विदुः।
पञ्चमूर्तमयं * न्देवं पञ्चतत्वात्मकं भवेत्॥*
मूर्तीनां देहभैदैस्तु गुणपञ्चकसंयुतम्।
तद्देहे तु महेशादिसर्वतत्वादिसम्भवः॥
तस्य वक्त्रे तु सम्भूताः सिद्धान्ताः सहतन्त्रकैः।
सर्वज्ञानमयं देवं सर्वकारणकारणम्॥
एवं लिङ्गे तु कर्मेशं ध्यायेत्सकलनिष्कलम्।
एवम्भूतं सदाशिवं ध्यात्वा पराशक्तिपरिसृता॥ मृतेनाभिषिच्य
वैराग्यचन्दनेन च। अंहिसादिभिरष्टभिः पुष्पैश्च प्राणायामो-द्भवधूपेन च।
विज्ञानदीपेन च प्रत्याहारस्वरूपचन्द्रामृतहविषा च सुषुम्नामार्गप्र
विष्टप्रसादजपेन च। नानाविध-धारमया शिवैकचित्तनिर्मलं
ध्यानसमुत्पन्नसार्वज्ञत्वादिगुणाहरणैः। आत्मनिवेदनेन मित्यत्रयथे
॥।नमग्न्यभिव्यक्ता अग्निस्वरूपं भवति। तद्वत्। शिवाभिव्यक्त्या आत्मा शिवस्वरूप एव
भवतीत्यर्थः।
(सोमध्याने)
ब्रह्मरन्ध्रे चन्द्रसदृशक्षुब्धशक्तिपरिसृतामृतघृतेन नाभिकुण्डे
शिवस्वरूपम्। शिवाग्निं सन्तर्प्य
नाप्यार्यस्थितकमलकन्दोत्ग(द्ग)तप्रासादनादस्वरमात्रास्वरूपव्यापारेण
ब्रह्मरन्ध्रात् द्वादशाङ्गुलादूर्ध्वम्।
परमाकाशपरनादपराशक्ति-मये स्वपरप्रकाशरूपसच्चिदानन्दशिवे।
अनन्यभावनासमाधिम्यात्। अयं प्रासादक्रमो रहस्यत्वात् स्वगुरुमुखतो ज्ञात्वा

अनुष्ठेयः। प्रासादानभिज्ञः। आचार्यो ॥। भवति।
तदुक्तं वारुणपद्धत्याम् –
ज्ञानशक्त्यात्मके लिङ्गे क्रियाशक्तेस्समर्पणम्। पीठस्य विधिना
योगः प्रतिष्ठा सेति। पूजास्तवे हृत्पत्मा(द्मा)ख्यशिवालये मनसिजे तत्कर्णिकाख्ये
क्रियापीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्मना
लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक् पुनर्वैराग्येन च वसुभिः
पुष्पैरहिंसादिभिः। प्राणायामभवेन धूपविधिना
चित्दी(द्दी)पदानेन
यः प्रत्याहारमयेन सोमहविषा सौसुषुम्नजापेन च। तच्चित्तो
बहुधारणाभिरमलध्यानोत्भ(द्भ)वैर्भूषणैः तत्साम्याणुनिवेदने
नय॥। धन्यः स एवामलः। चन्द्रस्रावि सुधामये न हविषा नाभिस्तकुण्डेनालं
सन्तर्प्येशमयं शिवास्पदगतम्। व्योमस्थिते सर्वगे। कन्दोत्भू(द्भू)तशिवाणुनाद
॥॥ त्यात्मसंवेदनं शैवे ज्योतिषि यः करोति पुरुषो मुक्तः स एवाक्षयः।
अन्यत्र च।
हृत्कण्ठतालुभ्रूमध्यरोधिन्यो ब्रह्मरन्ध्रकम्।
कुटिला ॥॥ रू देवी समना उन्मना तथा॥
तासामुपरि या शक्तिः स तस्यां वयो जयेन्नर। इति
वातुऴे –
प्रासादं यो न जानाति पञ्चमन्त्रमहातनुम्।
अष्टत्रिंशत्कलोपेतं न स आचार्य उच्यते॥ इति *
यजनं सम्प्रवक्ष्यामि यथाविध्यनु पूर्वशः।
द्विविधं तच्च विज्ञेयमधिकारानुरूपतः॥
यतीनां योगिनां चैव बाह्यो
परतशक्तिषु।*
अन्तर्यागं तु विहितं बाह्यपूजा परेषु च॥ इति वचनात्।
विरक्तस्तु योगमार्गेण वा ज्ञानमार्गेण वान्तर्यजनं कुर्यात्। अत्र क्रमः।
प्रथमं योगमार्गस्तु।
(योगमार्गपूजा)
कामिके –
चन्द्रार्कनाशने पूजा साधयेदीप्सितं फलम्।
सुषुम्नामध्यगे प्राणे पूजयेत् सर्वदा शिवम्॥
अस्यार्थः।
चन्द्रस्त्विडानाडी। अर्कस्तु पिङ्गऴानाडी। तन्नाश उच्छ्वासनिश्वासराहित्यं तदेव
केवलकुम्भकम्। पूजा तत्र शिवानुभाव एव ईप्सितं फलम्।
सिद्धिर्मशक्तिश्च ते साधयेत्। प्राणवायुसुषुम्नारन्ध्रप्रविष्टे सति शिवानुभूतिमान् भवेत्।
अत्र क्रमः। वायुं निरुध्य मूलाग्निं मूलवायुना बिन्द्वन्ताग्निबीजेनोच्छोद्य
नाडीचक्रं हित्वा
सुषुम्नामार्गेण हृदयादि अकारादि ब्रह्मादिकारणत्यागेन ब्रह्मरन्ध्रं प्रविश्य
अखण्डज्योतिरूपे यमग्नन्तदेवपूजनम्।
अथ
ज्ञानक्रमः कथ्यते –
(ज्ञानमार्गपूजा)
कामिके –
नन्दिने पूजयेद्देवं रात्रौ नैव च नैव च।
सततं पूजयेद्देवं दिवा रात्रौ च वर्जयेत्॥
अस्यार्थः – दिनं विकल्पज्ञानं रात्रिरज्ञानम्। तस्मात् सकलावस्थां
निष्कलावस्थां च त्यक्त्वा निर्मलकलादिना पूजयेत् शिवम् अथ ज्ञानपूजा।
(२९ब्) ॐ भूतवदेतानि मानराहित्यं भूतशुद्धिः। विष
विषयाभिलाषराहित्यम्। द्रव्यशुद्धिः। अथवा शिवाष्टमूर्तित्वदर्शनं भूतशुद्धिः। शिवस्य
सर्वद्रव्यानुप्रवेशनं दर्शनं द्रव्यशुद्धिः। पञ्चाक्षरे त्रिपदे
पाशपदार्थपरपादाक्षरद्वयं विहाय। पतिपदार्थपरपदाक्षरद्वयं
पशुपदार्थपरपदाक्षरमेकं च ज्ञात्वा वाचिकमानसं त्यक्त्वा वाच्ये तु

सन्धानं मन्त्रशुद्धिः।
तदुक्तं सिद्धान्तबोधे –
हित्वा नमः पदं तस्य शिवाय इति कीर्तिते। शुद्धपञ्चाक्षरमिदं स्वानुभूतिप्रकाशकमिति।
शिवज्ञानेन
स्वस्व-रूपमालोक्य तन्मयेन स्थितिः। आत्मशुद्धिः अखण्डाकारसच्चिदानन्दस्वरूपम्
अनुभवैकवेद्यं शिवभावनं लिङ्गशुद्धिः। अथ
आसनमूर्त्यादिक्रम उच्यते।
(आसनमूर्त्यादिक्रमः)
आत्मा शिवासनं मूर्तिः सत्यज्ञानमनावृतम्।
मूलं तु परमानन्दमावाहनमथोच्यते॥
शिवाभिव्यक्तिरेवात्र ह्यावाहनमिति स्मृतः।

नैश्रल्यं स्थापनं चाभिमुख्यत्वं सन्निधानकम्।
लयविक्षेपगमनं सन्निरोधनमुच्यते॥
पूजास्तवे च –
आवाहनं स्वात्मनि चित्प्रकाशं
तत्र स्थितिस्थापनमीश्वरस्य – सान्निध्यमात्मेश्वरसन्निधानम् संरोधनं स्वस्य शिवे
निरोधः।
अतःपरं प्रवक्ष्यामि पाद्यादिशिवपूजनम्।
मायाद्वयस्य गलनं ॥(पा)द्यमाचमनं तथा॥
कर्मत्रयविनाशस्यादर्घ्यं ज्ञानमोचनम्।
माहाभिषेको नैर्माल्यं वस्त्रं शुद्धं निरावृतिः॥
निर्लेपनं च श्रीगन्धो द्वन्द्वः क्या ॥। प्रसूदकम्।
अज्ञानवासनानाधूपादीपस्वयम्प्रभा।
शिवानुभूतिर्नैवेद्यं पानीयं च सुवासितम्॥
रसास्वादस्य गलनं हस्तोद्वर्तनमीरितम्।
क॥।(षा)यगलनं जातां ताम्बूलं मुखवासनम्॥
आहताख्यास्य नादस्य लयस्तोत्रं समीरितम्।
प्रदक्षिणं च सर्वत्र व्यापि त्वां स शम्भुना॥
सरित्समुद्रसंयोगात् जलं समरसं यथा।
तथात्मशिवयोर्योगो नमस्कारं प्रकीर्त्यते॥
ज्ञाताज्ञानं यथा ज्ञेये मग्नं भवति तत्तथा।
परार्धमुखाख्यमित्याहुरात्मनश्च निवेदनम्॥ इति
एवमधिकारानुशं … न अन्तर्यागकरणानन्तरं बहिर्यागः कर्तव्यः। स च नवविधः।
तथागमः।
उत्तमं चोत्सवान्तं तु नृत्तात्तं मध्यमं भवेत्।
गेयान्तमधमं प्रोक्तम् उत्तमं त्रयमुच्यते॥*
एतत् सिद्धलिङ्गविषयम्। गोय ॥॥ त्तमं
गेयान्तमधमं प्रोक्तं बल्यन्तं मध्यमं भवेत्।
होमान्तं तत्तत् सरविद्धमध्य ॥। यमुच्यते॥
उत्तमं हविरन्तं स्याद्धिपान्तं मध्यमं भवेत्।
अधमं चाष्टपुष्पान्तम् अधमत्रयमुच्यते॥
एवं नवविधं ज्ञेयं पूजनं सकऴाकऴे।
इति विषयेषु चरलिङ्गविषयेषु षट्सु गुरुहस्तात्
शिवलिङ्गग्रहणवेऴायामष्टपुष्पाद्यन्यतमान्तेन येन प्रकारेण पूजा करिष्यामीति
सङ्कल्पः कृतः। तेनैव प्रकारेम पूजा कर्तव्या। नैमित्तिकाधिकरणमभ्युदयाय भवति।
अत्रायं क्रमः। शिवशिवशम्भोराज्ञा प्रवर्तमानस्येत्यादिशिवपूजां करिष्येति
सङ्कल्प्य पूजास्थले। हुम्फडन्तास्त्रेण
तालत्रयदिक्ब(ग्ब)न्धनप्रकारं च विधाय नमोन्तकवचेन खातिकां कृत्वा
वैषडन्तशक्तिमन्त्रेण महामुद्रां प्रदर्शयन् शक्रमयं मण्डपं
भावयेत्।
(सामान्यार्घ्यं निरोधार्घ्यं च)
तदनु स्वर्णरजताम्रपलाशपत्म(द्म)पत्राद्यन्यतमेन निर्मितमर्घ्यपात्रम् अस्त्रेण
प्रक्षाऴ्य बिन्दुप्रसृतामृ॥।(त)धारां येन भावयन्। नमोन्तहृदयेन
जलेनापूर्य हुम्फडन्तास्त्रेण सप्तवारमभिमन्त्र्य तज्जलेन वौषडन्तकवचेन
पूजाद्रव्याणि सम्प्रोक्ष्य हुं फडन्तास्त्रेण निरोधार्घ्यपात्रं प्रक्षाऴ्य
नरीक्षणादिभिः संशोध्य वौषडन्तहृदयेन बिन्दुस्थानप्रसृतामृतमयेन
जलेनापूर्य गन्धपुष्पादीनि निव्यस्य अष्ट-पिष्पिकया सम्पूज्य
संहितायामभिमन्त्र्यावकुण्ठ्य
संरक्ष्यामृतीकुर्यात्। निरोधे विसर्गे च इदमेवार्घ्यं दद्यात् पाद्याचमनसहितार्घ्येषु
विशेषार्घ्यं दद्यात्।
(विशेषार्घ्यम्)
अथ विशेषार्घ्यपात्रमस्त्रेण संशोध्यासने निधाय
बुन्दुप्रसृतधारामृतमयेन शुद्दाम्बुना वौषडन्तहृदयेनापूर्य
नीरक्षीरतिलतण्डुलयवसिद्धार्थपुष्पकुशाग्राणि अष्टावर्घ्यद्रव्याणि निक्षिप्य
तस्मिन्नासनमूर्तिमूलविद्यादेहपञ्चब्रह्मषडङ्गैः पुनर्मूलेन च सम्पूज्य संहितया
शिवगायत्र्या चाभिमन्त्र्यास्त्रेणसंरक्ष्य हृदं धेन्वाभ्युक्ष्य कवचेनावकुण्ठ्य

धेनुमुद्रयामृतीकुर्यात्।
(पाद्यम्)
पाद्यपात्रे पूर्वोक्तवत् शुद्धजलमापूर्य उशीरसिद्धार्थदूर्वाचन्दनानि पाद्यद्रव्याणि
निक्षिप्य। सद्योजातेनाभ्यर्च्यास्त्रेण संलक्ष्य
मूलेनाभ्यर्च्य तेनैवाभिमन्त्र्यास्त्रेण संरक्ष्य हृदयेनाभ्युक्ष्य अमृतीकुर्यात्।
(द्रव्यशुद्धिः)
तदनु विशेषार्घ्यजलेन वौषडन्तशक्तिमन्त्रेण स्वशिरस्त्रिधा सम्प्रोक्ष्य
तोयादिद्रव्यजातं निरीक्षणादिभिः संशोध्य विशेषार्घ्यजलेन वौषडन्तकवचेनाभ्युक्ष्य
नमोन्तहृदयादिनाभिमन्त्र्यावकुण्ठनादि कुर्यात्। तदनु देवस्य स्नपनार्थं पूतं
तोयं ताम्रादिकुम्भेषु समा
नीय गन्धपुष्पादिकं प्रक्षिप्य निरीक्षणादिदर्शनसंस्कारैः संस्कृत्य। पुष्पं
विशेषार्घ्यजलं च
तस्मिन् प्रक्षिपेत्। तदनु हुम्फडन्तास्त्रेण विशेषार्घ्यजलेन धूपदीपारा
…। पात्रघण्टांश्च सम्प्रोक्ष्य नमोन्तहृदयेन सम्पूज्य नमोन्तास्त्रेण घण्टां
पूजयेत्। इति द्रव्यशुद्धिः॥
॥आत्मशुद्धिः॥
तदनु हाम् आत्मासनाय नम इति स्वासने। हां भं हां
आत्ममूर्तये नम इति। हृदये हौं विद्यादेहाय नम इति। कर्णकण्ठकूपे। हां हौम् आत्मने
नम इति शिरसि। इति क्रमेण पुष्पं दत्वा हृदयाद्यङ्गैश्च सम्पूज्य वौषडन्तमूलेन
स्वशिरसि विशेषार्घ्यजलबिन्दुं दत्वा ललाटे चन्दनेन तिलकं कृत्वा मूलमन्त्रं दशवारं
जप्त्वा स्वात्मने समर्प्य शिवोहमिति
भावयेदित्यात्म-शुद्धिः।
(मन्त्रशुद्धिः)
स्नाने जपे च होमे च भोजने पू नने तथा।
ध्याने चोद्धूलने चैव सन्ध्यावन्दनकेऽपि च॥
आवश्यकेषु सर्वेषु सदा वाचम्यमो भवेत्। इति वचनात्।
पूजाविरुद्धमौनमास्थाय मन्त्रान् ह्रस्वदीर्घप्लुतक्रमेण मूलाधारादि
द्वादशान्तपर्यन्तं यथाक्रमेण
ओङ्कारादि नमोन्तान्तं प्रासादमुच्चार्य एनं मन्त्रं ज्ञानशक्तिमयं सर्वदा
शिवेनाधिष्ठितमिति। भावयेत्। इति ॥ मन्त्रशुद्धिः ॥

॥पञ्चगव्यस्थापनम्॥
तदनु शिवस्य स्नपनार्थं पञ्चगव्यपञ्चामृतानि
गृहस्थः सृष्टिमार्गेण विरक्तः संहारमार्गेण स्थापयेत्। तद्यथा पूर्वदिक्भा(ग्भा)गे
तण्डुलेन चतुरश्रमण्डलं कृत्वा पश्चिमपूर्वदक्षिणोत्तरक्रमेण
चतस्रश्चतस्रो रेखाः कृत्वा तेषु नव कोष्ठेषु मध्यकोष्ठे हां शिवतत्वकोष्ठाय नमः।
गौणपूर्वकोष्ठे हां सदाशिवतत्वकोष्ठाय नमः। गौणदक्षिणकोष्ठे हां

विद्यातत्वकोष्ठाय नमः। गौणोत्तरकोष्ठे हां कलातत्वकोष्ठाय नमः।
गौणपश्चिमकोष्ठे हां पुंस्त्वतत्वकोष्ठाय नमः। इति पुष्पेण पत्रेण वार्चयित्वा
पात्राणि वारिणा संशोध्य शिवतत्वकोष्ठादिषु हृदा निधाय। हां सुप्रतिष्टपात्राय नम
इति। मध्यकोष्ठे पात्रे हां सुशान्तपात्राय नम इति।
गौणपूर्वकोष्टपात्रे हां तेजोवत्पात्राय नम इति। गौणदक्षिणकोष्ठादिषु
पात्रे। हां रक्तजपात्राय नम इति। गौणोत्तरकोष्ठपात्रे हाम् अमृतपात्राय नम इति।
गौणपश्चिमकोष्ठपात्रे। इत्यभ्यर्च्य वस्त्रपूतं गोक्षीरं पञ्चपलं सुप्रतिष्ठापात्रे
अत्यनम्लत्रिफलं दधि। सुशान्तपात्रे सद्यो घृतम्। पलद्वयं तेजोवत् पात्रे। पलमेकं
गोजलं रत्नजपात्रे कठिनं भूपतनात्। पूर्वं गृहीतमङ्गुष्ठार्धमात्रगोमयम्
अमृतपात्रे च संस्थाप्य क्रमेण
ईशानतत्पुरुषाघोरवामदेवसद्योजातमन्त्रैः।
एकद्वित्रिचतुः पञ्चवारमभिमन्त्रयेत्। विरक्तस्तु संहारक्रमेण स्थापयेत्। तदनु
गौणेशानकोष्ठशक्तिपात्रे कुशगन्धयुक्तजलं पलमात्रमापूर्य शिव-गायत्र्या
षड्वारमभिमन्त्रयेत्। गौणाग्नेयनैऋतवायुकोष्ठेषु यवचूर्णामलकनिशा पिष्ठानि
हृदयेन नष्कि(क्षि)पेत्। यवाभावे शालिचूर्णं वा। तदनु गोमयं गोजले।

तद्भूते। तत् दध्नि। तत् क्षीरे च संयोज्य तस्मिन् कुशोदकं च संयोज्य पञ्चब्रह्म-
षडङ्गमूलमन्त्रशिवगायत्र्या एकवारमभिमन्त्रयेत्। ॥ इति पञ्चगव्यविधिः॥

॥ पञ्चामृतविधिः । (शिवकूर्चविधिः)॥
कृष्णाष्टम्यादि पुण्यदिनेषु पूर्ववत् संस्कृतपञ्चगव्यं मूलमन्त्रेण
शतवारं तद्दशांशेन ब्रह्माङ्गशिवगायत्रीभिरभि-मन्त्रयेत्। इति शिवकूर्चविधिः।
(पञ्चगव्ययोग्यगोलक्षणम्)
पञ्चगव्ययोग्यगोलक्षणमुच्यते।
सर्वलक्षमसम्पन्नायाः कृष्णायाः गोमयम्। नीलायाः जलम्। कपिलायाः घृतम्।
शुभ्रायाः दधि। ताम्रायाः ङीरम्। इति ग्राह्यमथवा एतत्। सर्वं कपिलायाः। तदभावे
लक्षणयुक्तायाः
ग्राह्यम्। वन्ध्याः सद्यः। प्रसूता रोगार्तामृतवत् सा अमेध्यभक्षिण्यो गावः
पञ्चगव्यानार्हाः।
(पञ्चामृतविधिः)
पूर्ववत् नव कोष्ठानि कृत्वा मध्यगौणपूर्वदक्षिणो
त्तरपश्चिमेशानकेष्ठेषु क्षीरदधिमधुघृतश्शर्करा ॥॥॥। दकानि निक्षिप्य। ईशानादिमन्त्रैः
क्रमेण एकैकवारमभिमन्त्र्य पृथक् पृथगेव स्थापयेत्। विरक्तस्तु
शर्करादीनि सद्योजातादिमन्त्रैः अभिमन्त्र्य पृथगेव स्थापयेत्।
(विघ्नेश्वरगुरुपूजा)
अथालङ्गारासने मुख्यवायव्ये दक्षिणाभिमुखं विघ्नेश्वरम्। ताम्रादिविग्रहे वा
चन्दनादि क्षणिके वा ।
आवाहनादि जपान्तं गं गणपतये नम इति। पूजयित्वा स्वामिन् शिवपूजां करिष्यामीति
निर्विघ्नं कुर्वति। विज्ञाप्य मुख्येशान्यै दक्षिणाभिमुखं स्वगुरूं गुरुपादुकां वा
गन्धादिषु वा
शिवमन्त्रेण वा आवाहनादि पूजान्तं पुजयित्वा स्वामिन् भवदुपदिष्टमार्गेण
शिवं पूजयामि अनुज्ञां देहे(ही)ति प्रार्थयेत्।
तदुक्तमचिन्त्यविश्वसादाख्ये –
सायुधं पद्मरागाभं प्रत्यूहध्वंसिनं परम्॥
यजेदीशानगे भागे सर्वज्ञं करुणानिधिम्।
देशिकं शिववत् भ*क्त्या सर्वज्ञानप्रदायकमम्॥
इति।
तदनु स्वर्णरजतताम्रमयीं वा क्षीरवृक्षोर्थां वा वृत्तां चतुरश्रां वा मेखला
गोमुखान्वितम्। स्नानवेदिं गौणैशाने विन्यस्य तत्र
देवं संस्थाप्य पूर्वकृतपूजापुटम्। किञ्चित् प्रकाशिकं कृत्वा हुम्फडन्तास्त्रेण
सामान्यार्घ्यजलेन देवमभिषिच्य पुष्पं समर्प्य गृहस्थशक्तिशिवाभ्य(ः) नमः।
विरक्तः शिवशक्तिभ्यां
नमः। इति लिङ्गमुद्रां योनिमुद्रां दर्शयेत्।

॥लिङ्गशुद्धिः॥
अनन्तरं शक्त्यादिशक्तिपर्यन्तमासनम्। पूजयित्वा शिवमावाह्य
पञ्चगव्यपञ्चामृतादिभिरभिषिञ्चेत्। अत्र केचित्। लं
षडुत्थकं दत्वा पश्चिमास्यं वृषस्थितमिति
चलात्मकषडुत्थासनादिदशसंस्कारानन्तरम्। शिवकुम्भवर्धन्योश्चलत्वविधानात् तदेव
चललिङ्गा-सनपूजाविधानम्।
पुनस्थिरासनपूजायां च कुम्भोक्तवचनमेव। चललिङ्गानां प्रमाणमिति।
स्नानवेदिकायां चलासनं पूजयित्वा पञ्चगव्यपञ्चामृतादिभिरभिषिच्य। वस्त्रेण
परिमृज्य अलङ्कारासने देवं वियस्याराधनम्। पूजयित्वा। आवाहनादिदशसंस्कारानन्तरम्।
मनसा तैलाभ्यङ्गादिमहाभिषेकम्। भावयित्वा। विशेषार्घ्यञ्जलिबिन्दुं लिङ्गमूर्ध्नि
समर्प्य गन्धपुष्पादिभिः पूजयेदिति। तदयुक्तम्। कुम्भवर्धन्योः
स्थिरयोर्मण्डपविघ्ननिरसनार्थभ्रमणोपाधियुक्तयोः पूर्वं चलासनं पश्चात्
चिरासनं चेत्युभय
मपि कर्तव्यम्। स्वभावतश्चलानां तु चलस्थिरासनाभ्यां कथं पूजा। यावत्
चित्सन्निधिस्तावत् चलनं तु न युज्यत इति। लक्षं तु स्थिरमुन्मील्येति सोमशम्भुं वचना
भ्याम्। हम् आवाहानन्तरचलनस्य स्थिरासनानन्तर ॥॥॥॥॥ नन्तरचलनस्य च दोषत्वेन
प्रायश्चित्तश्रवणात् सनानवेद्यां स्थिरासनपूजा आवाहनं च न कर्तव्यमिति चेत्। न
स्फाटिकादिषु विधिवत्
ब्रह्मशिलारत्नप्रभूतेर्निवेशनम्। पिण्डिकायाश्च योजनमनसा परिकल्पयेदिति।
पिङ्गलमतवृत्तौ दर्शनात्। व्यापिन्यामाधारशक्ति अवस्थानभूतायाम्। सर्वदा स्थिरं
यथेष्ठस्थापनसञ्चारपूर्वकं पूजननिरूपणात्तु चलनमिति रामकण्ठवचनात्।
नमोन्तव्यापिनी अस्थिरे अचले। ड्रूं वं ह्रीं
स्वाहेत्यात्मार्थलिङ्गपूजोक्ताधारशिलामन्त्रलिङ्गाच्च
आधारशिलासहितानां सर्वदा स्थिरासनपूजनम् ॥॥॥। धारपार ॥॥॥।प्रतिमाना सर्वदा
चलक्रमे ॥॥ नमेवास चलत्वं च तस्यामित्यादिवचनैरात्मार्थलिङ्गस्य स्थिरासनपूजा न ॥।
न्तरचलनस्य दोष एव नास्ति ॥।स्थिरमुन्मूल्येत्येतद्वचनगतस्थिरपदशक्त्या
स्थिरलिङ्गविष्यमेव
यावत् चित्सन्निधिस्तावत् चलनं तु न युज्यत
इत्येतदपि स्थिरलिङ्गप्रतिष्ठानं तस्य विषयमेव चललिङ्गे॥॥तिष्ठानतरं ग्रामान्तर-
गमनस्य च विहितत्वात् अतिसर्जनस्य च सापेक्षत्वात् …
वाहनस्य च पूजकाभिमुखकरणमात्रा ॥। त्वात् सर्वदा
चिदधिष्ठितत्वादावाहनादनन्तरं चलन् न दोषायैव।

पूज्यमानं यदा लिङ्गं हस्तादिस्पर्शतो मनाक्।
चलितं घोरमन्त्रस्य शतं शेषक्रियान्नयेत्।
इति वचनस्थितहस्तादिस्पर्शत इति पदबलात्। हस्तस्पर्शेन अभिषेककलशार्घ्यपात्रादिस्पर्शनेन
च। उत्पन्नस्य कम्पा-स्पन्दनपरिवर्तना
सनपरिगलनादेरेव चलनशब्दार्थत्वं तत्रैव अघोरजपादि प्रायश्चित्तादिं च न तु स्थलात्
स्थलान्तर-नयनस्य एतत्सर्वमाक्षेपसमाधानाभ्यां
पूजास्तवव्याख्यायां विस्तरेण आचार्यैः प्रपञ्चितमिति नेह प्रतन्यते।
तस्मात् स्नानवेद्यां पञ्चासनपूजानन्तरपर्यन्तमावाहनादिदशसंस्कारानापाद्य
पञ्चगव्यादिस्नपनं कर्तव्यमिति साधूक्तम्। चललिङ्गचलग्ने दोषारोपणं
साधुजनप्रतरणायेति। सिद्धान्तरत्नाकरेप्युक्तमेवंविधैर्वाक्यै
श्चललिङ्गानां दश संस्कारानन्तरं पूजार्षं चलनदोषो नास्त्येवेत्यलमिति प्रसङ्गेन
प्रकृतमनुसरामः।
(आवाहनम्)
तदनु वक्ष्यमाणक्रमेण आधारशक्त्याद्यासनं
पूजयित्वा शिवमावाहयेत्। आवाहनं च स्थण्डिलादि क्षणिकलिङ्गगुरूदत्तबाणलिङगादि
भेदाद्विविधम्। क्षणिकलिङ्गेषु प्राणप्रतिष्ठात्मकचिद्व्यक्तिकरणमावाहनम्।
बाणलिङ्गादिष्वभिमुखीकरणमावाहनम्।
उत्तराभिमुखस्थितसाधकस्याभिमुख्यमीशानवकत्रस्य भवति। ननु। तत्पुरुषं
पूर्वाभिमुखं तस्मात्
पूजाकाले ईशानस्यापि
पूर्वाभिमुखत्वेनैव भवितव्यम्।
ततश्चोत्तराभिमुखस्थितसाधकस्याभिमुख्यसम्भवः। कथमिति चेत्। अत्रोच्यते।
यस्यां दिशि भवेद्द्वारं तां प्राचीं परिकल्पयेत्।
तत्र तत् पुरुषं वक्त्रमूर्ध्वं चाभिमुखं भवेदिति॥*
उ(ऊ)र्ध्ववक्त्रे तु दातव्यं सम्मुखं च पराङ्मुखमम्। इति सर्वज्ञानोत्तरे।
तत्रेशानस्थितोत्तान इति। कामिके –
तस्मादूर्ध्वमुखस्यास्य पूजकाभिमुखत्वं युक्तमेव तदेवावाहनं
तन्मुखमिच्छाज्ञानक्रियारूपदृशम्। ततस्वस्वमिन्नाभिमुख्येन प्रकाशमान
चिदभिव्यक्तिरप्यनवद्या। तत्र स्थितिस्थापनमीश्वरस्य।
तत्र लिङ्गे ईश्वरस्य चिदभिव्यक्तेर्यास्थितिस्तदेव स्थापनं यावत्। पूजा दावदाभिमुख्यं च।
भक्त्या निवेशनं तत्र स्थापनं
कथितं बुधैरिति
सान्निध्यमात्वेश्वरसन्निधानं सान्निध्यं नाम आत्मनीश्वरस्य
चाभिमुख्यजातप्रसादपरम्परासन्निधानम्। अथाभिमुख्यं च। शिवसान्निध्यमेव न तु
ततित्रेशानतत्पुरुषवक्त्राभि
मुखापेक्षेत्याकाङ्क्षायां तन्निरासाय मुखनिर्णयं कथ्यते।

(मुखनिर्णयः)
तत्र सौम्याननो मन्त्रःन्त्री सन् भवेत् सौम्यमासनम्।
सौम्यचित्तप्रसन्नात्मा भवेत् सैम्यक्रियो मख॥
इति पराख्ये।
कृष्णाजिनेऽथवाब्रस्यां समासीनोप्युदङ्मुख। इति ब्रह्मशम्भुः।

देवदक्षिणदिग्भागे सन्निविष्टसुखासने।
उत्तरास्यो विनीतात्मा।
इति सोमशम्भुः।
अजातमिममेवैकं मत्वा जन्मनि भीरवः।
रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणामुखम्॥ इति पुराणे।
तस्मादुत्तराभिमुखत्वं पूजकस्य पूज्यशिवस्य
दक्षिणाभिमुखत्वं च भवति। पूज्यशिवाधिष्ठितलिङ्गं चलाचलभेदेन द्विविधः। तयो
स्थिरलिङ्गस्य सर्वजनसाधारणानुग्रहार्थत्वात् आलयनिर्माणकालनिर्णीतदिङ्मुखत्वं
चललिङ्गस्य पूजका साधारणानुग्रहार्थत्वात् तदभिमुखत्वम्।
ननु ज्ञानरत्नावल्याम् –
प्राची तत्पुरुषवक्त्रं हृदयोपरि संस्थितम्। इति
पाङ्मुखावीशपुरुषौ। इति च

न प्राच्यामग्रतः। शम्भोर्नोत्तरे योषिताश्रये। नः प्रतीच्यां यतः पृष्ठे
तद्दक्षेऽभीष्टमर्चयेदिति। चोक्तत्वात् देवस्य पूर्वाननत्वं पूजकस्या
ग्नेयभागेऽवस्थानमेव च युक्तम्। अतः कथं साधकाभिमुखत्वोक्तिरिति चेत् न –
ज्ञानरत्नावलीवचनानां प्रागास्यस्थिर-लिङ्गविषयत्वात्। अपि च
उदगास्यस्थितसाधका॥।मुखत्वेऽपि
देवस्य पूर्वाननत्वं न विरुध्यते।
तथागमः।

यस्यां दिशि भवेद्द्वारं तां प्राचीं परिकल्पयेत्।
लिङ्गस्याभिमुखं यत्तु द्वारं तत्पूर्वमिष्यते॥
तत्र तत्पुरुषं वक्त्रमूर्ध्वं चाभिमुखं भवेत्।
बि(ब)लिपीठं वृषं शूलं तद्वक्त्राभिमुखं भवेत्॥ इति
ननु उदङ्मुखस्थितसाधकाभिमुखदेवपुरोभागस्य दक्षिणत्वात् कथं
पूर्वत्वेन कल्पनमिति चेत्। उच्यते देवस्य पुरतो या दिक् सैव पूर्वा ग्रहीष्यत इति न्यायात्।
दक्षिणाभिमुखस्थितदेवपुरोभागस्य पूर्वदिक्कल्पनं युक्तमेव।
एतस्मादेव न्यायात् स्थिरलिङ्गविषयेऽपि चतसृष्वपि दक्षु तत्र तत्र पूर्वादिदिक्कल्पनं देवस्य
पुरोभागवशात् देवलिङ्गं वा
प्रतिमा वा क्रियन्ते। अन्यद्वायाया
ककुभा। तस्यां तस्यां यज्वा यजते। शिवमुत्तराभिमुखः। यद्वा शिवमुत्तराभिमुखं च
शिव इति वचनाभ्याम्। पूज्य पूजकयोर्दक्षिणोत्तरमुखत्वं सिद्धमेव। एवं च
दक्षिणाभिमुखस्य दण्डभङ्ग्या पूजितस्य
सदाशिवदेवस्य मुण्डभङ्गिपूजायां तत्पुरुषाघोरवामदेवसद्योजातवक्त्राणां
मुख्यदक्षिणपश्चिमपूर्वोत्तरभागे स्थितिः।
एतदेव
गौणपूर्वदक्षिणो-त्तरपश्चिमत्वं च भवति। चललिङ्गस्य गोमुखगौणोत्तरभागे।
चण्डेश्वरपूजा च गौणेशानभाग एव भवति। अनेनैव न्यायेन स्थिरलिङ्गेष्वपि
द्वारानुगुण्येन
तत्पुरुषाघोरवामदेवसद्योजातानां गौणपूर्वदक्षिणोत्तरपश्चिमाभिमुखत्वं
विज्ञेयम्। यया हि काष्ठया कर्मपुरुषादिमुखानि तु। न जहाति च पूर्वादित्यादिवचनेन

पूर्वादिदिशस्तत् पुरुषाभिमुखा व्यभिचारात्। यस्यां दिशि तत् पुरुषं मुखम्। सैव
पूर्वादिदिक्। तस्मात् द्वारानुगुणप्राप्तपूर्वदिगपेक्षयैव पञ्चगव्यपञ्चामृतादि
स्थापनद्वारावरणपूजनध्वजवृषशूलबलिपीठस्थापनानि च कर्तव्यानि। तदनु
शिवासनपूजाक्रमः।
॥आसनपूजा॥
। अनन्तासमन् ।
अधःकूर्मशिलासीनां क्षीरोदसितविग्रहाम्।
मौलौबीजाङ्कुराकारां वरदामभयप्रदाम्॥
पाशाङ्कुशधराशक्तिं क्रियामाधाररूपिणीम्। इति
पाठस्याधोभागमध्यदेशे ध्यात्वा। हाम् आधारशक्तये नम
इति सम्पूज्य ब्रह्मशिलोपरि।
पृथ्वी कन्दं कलान्तैकनालकं भावकर्णिकम्।
क्षिप्तमाया पहापत्म(द्म)मनेकदलसङ्कुलम्॥ इति ध्यात्वा
हां
अनन्तासनाय नम इत्यभ्यर्च्य तन्मध्यगं विभुम्। अधोमयान्तं व्याप्य स्थितमनन्तेशं
ध्यात्वा। हाम् अनन्ताय नम इति। सम्पूजयेत्। एवमाधारशक्त्याद्येतदन्तमेकमासनम्।
तदुक्तं कामिके –
अनन्तधारशक्तिभ्यां भावेदानन्तमासनम्। इति

(सिह्मासनम्)
हां धर्माय नमः। हां ज्ञानाय नमः। हां वैराग्याय नमः। हाम्
ऐश्वर्याय नम इति।
गौणाग्नेयादीशानान्तकोणेषु अनन्तेश्वरसामर्थ्यरूपान्वि चित्रकेसरप्रख्यानन्योन्यं
पृष्ठदर्शिनः। विरक्तपीतनीलनिभान् धर्मादीन् पूजयेत्। हाम् अधर्माय नमः। हाम्
अज्ञानाय नमः। हां
अवैराग्याय नमः। हाम् अनैश्वर्याय नमः। गौणपूर्वमुत्तरान्तदिक्षु क्रमेण
कृश्णश्वेत श्वेतरक्त रक्तपीत पीतकृष्णवर्णान्यधर्मादीनि गात्राणि पूजयेत्। तदुपरि
मेखला
स्थाने रक्तवर्णां शुद्धमायामधश्छदनं विभाव्य हाम् अधश्छदनाय नम इति।
नैऋत्यां पूजयेत्। तदुपरि शुभ्रवर्णां शुद्धविद्यामूर्ध्वश्छदनं विभाव्य हीम्
ऊर्ध्वश्छदनाय
नमः इति ऐशान्यां पूजयेदित्येतत् सिंहासनम्।
(योगासनम्)
योगासनविषये कामिके –
भूतरूपेण कोणेषु पादाः कृतयुगादयः।
अव्यक्तं नियतिः कालः कला चेति चतुष्टयम्॥
प्रागादिष्वाऴिकाः प्रोक्ता मध्यपादस्तु केशवः।
एवं योगासनं तत्तन्नाममन्त्रेण पूजयेत्॥
हां कृताय नम इत्यादि हां केशवाय नम इत्यन्तं मन्त्रक्रमेण पूजयेत्।
(पद्मासनम्)
तदनु
सिंहासनोपरि -
माणिक्कसदृशं कन्दं नालनीलसमप्रभम्।
अङ्कुरं तु प्रवाऴाभं दऴं रजतसमप्रभम्॥
केसरं हेमवर्णाभं ग्रे मुक्तावलीयुतम्।
तप्तचामीकरश्छायां पञ्चाशत्बीजगर्भिताम्॥
केसराणां चतुष्षष्ट्यां कर्णिकां पूजयेत्तत। इति ध्यात्वा
हां कन्दाय नमः। हां बीजाय नमः। आम् अङ्कुराय नमः। हां
नाऴाय नमः। हां दऴेभ्यो नमः । इति शुद्धविद्याष्टसिद्धिरूपाणि सञ्चिन्त्य दऴेषु
तन्मूलपीठोपरि। हां केसरेभ्यो नम इति ईश्वरतत्वचतुष्षष्टिकलात्मक
केसराणि पीठान्त-भागे चतुष्षष्टिकेसराणां मध्ये हां कर्णिकायै नम इति।
सादाख्यतत्वपञ्चाशन्मातृकाक्षरबीजगर्भरूपकर्णिकायाम्।
इत्येवं पत्म(द्म) रूपम्। हां
पत्मा(द्मा)य नम इति पूजयित्वा ततः पूर्वादीशान्तकेसलेषु हां वामायै नमः। हां
ज्येष्ठायै नमः। हां रौद्र्यै नमः। हां काऴ्यै नमः। हां कलविकरण्यै नमः। हां

बलविकरण्यै नमः। हां बलप्रमथिन्यै नमः। हां सर्वभूत-दमन्यै नमः। इति
विद्येश्वराधिष्ठातृशक्तीः।
उद्यत्दि(द्दि)नकराभासास्त्रिणेत्राश्च जतुर्भुजाः।
जटामकुटखण्डेन्दु मण्डिताः धृतचामराः॥
वरदाभयहस्ताश्च शिवासक्तकराम्बुजा।
इति ध्यात्वा पूजयित्वा कर्णिकायां लिङ्गमूले मनोन्मनयै नम इति।
शुद्धस्फटिकसङ्काशां चतुर्भुजां
सुस्तनां सुतनां सुयौवनाम्। सर्वावयवानवद्यां तु कुलधारिणीम्।
हारकेयूरकिरीटकटकवलयकाञ्चीनूपुरादिसर्वाभरणभूषिताम्। दक्षिण
वामयोरक्षमालाभयकमलवरदानिविताम्। पूजयेत्। हां नमस्कारमुद्रायै नम
इत्यासन्नपौनां नमस्कारं दर्शयेत्।
दऴाग्रवृत्ते। हां सूर्यमण्डलाय नम
इति भास्करम्। तदधिपतिं ब्रह्माणं दऴाग्रवृत्तं दक्षिणभागे –
ब्रह्मा चतुर्मुखः पीतश्चतुर्दोर्दण्डमण्डितः।
सृक्दण्डाक्षकुशोपेतः सूर्यः इति भास्करम्॥
तदधिपतिं ब्रह्माणं दऴाग्रवृत्तं दक्षिणभागे।
ब्रह्मा चतुर्मुखः पीतश्चुर्दोर्दण्डमण्डितः।
सृक्दण्डाक्षकुशोपेतः सूर्यमण्डलमध्यगः॥
इति।
ध्यात्वा हां सूर्यमण्डलाधिपतये ब्रह्मणे नम इत्यभ्यर्च्य।
केसराग्रवृत्ते । हां सोममण्डलाय नम इति सोमं सोममण्डला
धिपतिं विष्णुं केसराग्रे वामपार्श्वे –
विष्मुश्चतुर्भुजो मालीशङ्खचक्रगदाब्जधृक्।
नीलाम्बुदप्रतीकाशः सोममण्डलमध्यगः॥ इति ध्यात्वा
हां
सोममण्डलाधिपतये विष्णवे नम इत्यभ्यर्च्य। कर्णिकाग्रवृत्ते हां वह्निमणण्डलाय
नम इति। वह्निं वह्निमण्डले तदधिपतिं रुद्रं कर्णिकाग्रवृत्तेशाग्नेयभागे।
अग्निमध्ये स्थितं रुद्रं नीलकण्ठं त्रिलोचनम्।
इति।
व्याख्यामुद्रानलज्ञानशूलहस्तं चतुर्भुजम्॥
सर्वालङ्कारसंयुक्तं नागयज्ञोपवीतिन्। इति ध्यात्वा
हां वह्निमण्डलाधिपतये
रुद्राय नम इत्यभ्यर्च्य। कर्णिकामध्ये हां शक्तिमण्डलाय नम इति। सप्तधा
कुटिलाभिरूपस्फटिकाकारमधूर्ध्वमधव्यापिनं शक्तिमण्डलं यजेत।
मन्त्राणां कोय(क्रोध) सप्त शिवस्यासनस्स्थिता।
इति वचनात्।
सप्तकोटिमन्त्रणामुत्पत्तिहेतुत्वात् शक्तेः सप्तधा कुटिलत्वं शक्तिमण्डल्य ईशानभागे
तदधिपमहेश्वरं
रक्तवर्णजटाखण्डेन्दुमण्डितम्। त्रिकुण्डलसर्पाभयवरदहस्तम्। हां महेश्वराय
नम इति। पूजयेत्।
(विमलासनम्)
तदुपरि ज्योतिरूपं विमलासनम्।
गणाम्बिका महादेवी तन्नो गौरी प्रचोदयात्।
हां विमलासनाय नम इति अर्चयैत्। तद्वृत्ताग्रे शिवमण्डलं हां शिवमण्डलाय नम
इत्यभ्यर्च्य तदधिपतिं सदाशिवं हां सदाशिवाय नम इति मुख्येशाने अर्चयेत्।
आसनसमुच्चयम्।
क्षित्यादिकुटिलाप्रान्तमेवं व्याप्तिकमासनमिति। विभाव्य।
हां शिवासनाय नम इति पीठमूले सम्पूज्य लिङ्गे हां हं हां
शिवमूर्तये नम इति मूर्तिं तेजोरूपां दण्डकारामविभक्तावयवां
शिवतत्वात्मकपरबिन्दुव्याप्तिकां विभाव्य लिङ्गे निवेशयेत्।
(दण्डभङ्गीन्यासः)
अस्यां दण्डाकारतेजो
मयमूर्तौ मूर्धमुखाहृत्गु(द्गु)ह्यपादादिसर्वाङ्गेषु होम् ईशानमूर्ध्ने नमः। हें
तत्पुरुषवक्त्राय नमः। हुम् अघोरहृदयाय नमः। हिं वामदेवगुह्याय
नमः। हं सद्योजातमूर्तये नम इति। दण्डभङ्ग्या न्यस्य कलान्यां कुर्यात्।
(कलान्यासः)
हां शशिन्यै नमः। ईशानमूर्ध्नि हाम् अङ्गदायै नम इति। तत्पुरुषमूर्ध्नि हाम् इष्टायै
नम इति।
अघोरमूर्ध्नि हां मरीच्यै नम इति वामदेवमूर्ध्नि। हां ज्वालिन्यै नम इति।
सद्योजातमूर्ध्नि हां शान्त्यतीतकलायै नम इति। ईशानवक्त्रे। हां शान्तिकलायै
नम इति। तत्पुरुषवक्त्रे। हां विद्याकलायै नम इति। अघोरवक्त्रे हां प्रतिष्ठाकलायै नम इति।
वामदेववक्त्रे
हां निवृत्तिकलायै नम इति। सद्योजातवक्त्रे। हां तमसे नमः। हृदये हां
मोहाहै नम इति गऴे हां जयायै नम इति दक्षणांसे हां रुद्रायै नम इति वामांसे हां
धृत्यै नम इति। नाभौ। हां क्षान्त्यै नम इति। जठरे हां स्मृत्यै नम इति।
पृष्ठे हां क्षयायै नम इति। वक्षसि हां रजायै नम इति। गुह्ये हां रत्यै नम इति।
वृषणद्वये हां पाल्यै नम इति दक्षिणोरौ।
हां रक्षायै नम इति वामोरौ।
हां कलायै नम इति दक्षिणजानुनि हां सं धमिन्यै नमः इति वामजानुनि। हां क्रियायै
नम इति वस्तिदेशे। हां मोहिन्यै नम इति उदरदक्षिणपार्श्वे। हां भ्रामिण्यै नम
इति । दक्षिणस्फिजि(चि) हां क्षयायै नम इति। वामस्फिजि(चि) हां चिन्तायै नम इति वस्तिदेशे। हां
मोहिन्यै नम इति उत्तरदक्षिणपार्श्वे।
हां भ्रामिण्यै नम इति
उदरवामपार्श्वे। हां सिध्यै नम इति। दक्षिणपादे। हाम् ऋध्यै नम इति। वामपादे। हां
धृत्यै नम इति दक्षिणहस्ते हां लक्ष्म्यै नम इति वामहस्ते हां
मेधायै नम इति नासायाम्। हां कान्त्यै नम इति शिरोदेशे। हां स्वधायै नम इति
दक्षिणबाहौ। हां प्रजायै नम इति वामबाहौ। इति अष्टत्रिंशत्कलाशक्ति
र्न्यसेत्।
(सदाशिवध्यानम्)
अथ सदाशिवध्यानम्।
शाक्तेनानेन सकऴो विज्ञेयो निष्कलश्शिवः।
क्षित्यादिकुटिलाप्रान्तमन्त्रसिंहासनस्थितः॥
शुद्धस्फटिकसङ्काशं द्वात्रिंशत् लक्षणान्वितम्।
पत्मा(द्मा)सनस्थं पञ्चास्यं प्रतिवक्त्रं त्रिलोचनम्॥
द्रक्रियेश्छा विशालाक्षं ज्ञानचन्द्रकलान्वितम्।
धवऴेशानवदनं पीतं तत्पुरुषाननम्॥
कृष्णाघोरमुखोपेतं रक्ताभोत्तरचक्रकम्।
सुश्वेतपश्चिमास्यैकं सद्योजातं समूर्तिकम्॥
व्याघ्रचर्माम्बरधरं व्याऴेन्द्रकटिसूत्रकम्।
नागोपवीतिनं शान्तं जटाखणडेन्दुमण्डितम्॥
शूलं वज्रं च खट्गं(ड्गं) च परशुमभयदं* सव्यभागे वहन्तम्।*
नागं पाशं च घण्टामनलकरयुतं साङ्कुशं वामभागे॥ इति मूर्तिं ध्यात्वा
हां हौ विद्यादेहाय नम इति। ब्रह्मरन्ध्राव्यापकमुच्चार्य शिवं
तत्वान्तव्यापकं सौदामिनीनिभम्। पुष्पाञ्जलावाविर्भूतम्। विद्यादेहं ध्यात्वा
लिङ्गदैर्घ्ये पूजयेत्।

(आवाहनादयः)
तदनु हस्तयोः पुष्पाणि धृत्वा मुकुऴीकृत्य मूलमन्त्रमकारोकारमकार
बिन्द्वर्धचन्द्रनिरोधिनान्तशक्तिव्यापिनि समनोन्मनान्तमुच्चार्यावाहिन्या पुष्पाणि
सदाशिवभट्टारकस्य ब्रह्मरन्ध्रे समर्प्य ज्योतिरूपां निश्कऴं विभुं
ज्ञानानन्दमयं
परशिवं कर्मसादाख्येभिव्यक्तं सञ्चन्त्य सर्वज्ञत्वादिषाट्गु(ड्गु)ण्यं
वषडङ्गन्यासं कृत्वा सथाप(पि)न्या तसय हृदयाम्बुजे
संस्थाप्य सन्निधान्या मूर्तिद्वयं व्याप्य
सन्निधिभूतं विचिन्त्य निष्ठुरया निरोध्य हां हौं शिवाय निरोधार्घ्यम्। स्वाहेति
निरोदधार्घ्यं दद्यात्। केचित्तु द्वादशान्तस्थपरशिवं तस्मादानीय ललाटमध्ये
चन्द्रकोटिसदृशं शिवं विभाव्य तस्माद्रेचकवायुना पुष्पाञ्जलिमध्यगतं विभाव्य
सदाशिवभट्टारकस्य ब्रह्मरन्ध्रे योजयेदिति। वदन्ति तदयुक्तम् –

अखण्डाकारसच्चिदानन्दा(न्द)द्वयपरिपूर्णशिवस्य यातायान्तं नास्त्येव किन्तु यथा
काष्ठे अग्न्यभिव्यक्तिस्तथा मन्त्रक्रियाभावनया परमशिवः सदाशिवमूर्तौ अभिव्यक्त
एव भवति।
तदुक्तमचिन्तविश्वसादाख्ये –
एवं शान्तं वपुः कल्प्य तस्मिन् करमकारणम्।
परमं शाश्वतं सत्यज्ञानानन्दसुखात्मकम्॥
व्यापकं सर्वतत्वानाम् अप्रमेयमनौपमम्।
वाच्यवाचकरहितं वाङ्मनोतीतगोचरम्।
व्यक्तं कुर्याद्विशेषेण निष्कऴं सकऴात्मनि।
परावाहनमेवोक्तं शिवमन्त्रविनियन्त्रादिति।
अथ हुम्फडन्तास्त्रेण कालकर्णि
कायां पुष्पप्रक्षेपणान्तराय न्नि(नि)वार्य लिङ्गमुद्रां योनिमुद्रां नमस्कारमुद्रां च
प्रदर्श्य नमोन्तकवचेनावकुण्ठ्य नमोन्तानि पवित्राण्यङ्गानि च देवस्य
तत्तदङ्गेषु सम्पूज्य नमोन्तमूलेन परमीकृत्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रां
महामुद्राभ्यां मन्त्रान् सन्दीप्य देवं सन्तुष्टं स्मितमुखं ध्यात्वा स्वामिन्
स्वागतं वेति विज्ञाप्य

वत्स स्वागतमिति शिवेनोक्तं विचिन्त्य।
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्।
तावत् सम्प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधिं कुरु॥ इति विज्ञाप्य
हां हौं शिवाय
वाद्यन्नम इति शिवस्य पादाम्बुजद्वये पाद्यं दद्यात्। हां हां शिवाय आचमनस्वधेति।
शिवस्य पूर्वादिमुखेष्वाचमनं दद्यात्। हां हौं शिवायार्घ्यम् ॥।हेति शिवस्येशाना
दिसद्योजातान्तेषु शिरसि अर्घ्यं दद्यात्। हां हौं शिवाय वौषडिति शिवस्य पञ्चसु शिरसु
पुष्पं दद्यात्।
(अभिषेकादयः)
धूपदीपकालनैवेद्यताम्बूलं पुनर्दत्वा।
तदनु स्नानार्थशिवं प्रार्थ्य स्नानवेदिकाभावे वामहस्ततले देवं निक्षिप्य पूर्ववत्
लिङ्गशुद्धिं कृत्वा पीठे निवेश्य अवाहनादिदशसंस्कारैराचमनं च
संस्कृत्य महाभिषेकार्थं शिवोत्तिष्ठेति विज्ञाप्य वामहस्ततले निधायाभिषिञ्चेत्।
पञ्चगव्यादिमहाभिषेकद्रव्याभावे शुद्धोदकेन
मूलब्रह्माङ्गपदमन्त्रैश्चाभिषिञ्चेत्।
मन्त्रास्तु मालाबीजपदभेदेन त्रिविधा मालामनत्रास्तु ईशानादि पञ्च
चतुरष्टत्रयोदशाष्टकलायुक्ताः ते तु ब्राह्मणानामेव
पदमन्त्रास्तु ईशानमूर्ध्ने इत्यादि चतुर्थ्यन्तैककपदरूपाः। ते च चतुर्थानाम्।
बीजमन्त्रास्तु पञ्च ह्रस्वाः। षट् दीर्घाः। एकप्लुत इत्यादि ते च
चातुर्वर्ण्यसाधारणाम्। तस्मात् पदमन्त्रेषु ॥॥॥। ॥। तदनु विशेषार्घ्यं दद्यात्
पञ्चगव्याद्यभिषेकद्रव्यसम्भवे पञ्चगव्येन पुनः शुद्धोदकेन चाभिषिच्य
शिरसि पुष्पं विन्यस्य धूपदीपौ दत्वा ………॥लेन जलेन स्फटिकलिङ्गे गवां सद्यो घृतेन
चाभ्यज्य शुद्धजलेनाभिषिच्य यवतण्डुलचूर्णेन व्रीहितण्डुलचूर्णेन वा
उद्वर्त्य जलेनाभिषिच्य नशापिष्टेनामलके …………र्जलेनाभिषिच्य नमोन्तकवचेन
राकौ(त्रौ)दिनानिमज्याभिषिच्य
आसने मूर्तिमूलानि पूजयित्वा धूपदीपौ
दत्वा पञ्चामृतं क्षीरदधिघृतमधुशर्कराभिः क्रमेण नमोन्तेशानादिनाभिषिच्य।
पुनर्जलेनाभिषिच्य कोष्णजलेन देवं संस्नाप्य
जम्बीरनारङ्गफलोदकेनाभिषिच्य
नाऴिकेरकदऴीपनसाम्रफलशर्करामधुभिर्मिश्रैर्मर्दयित्वा
इक्षुसारनाऴिकेरोदकशीतोदकैरभि
षिच्य आसनमूर्तिमूलानि पूजयित्वा
चन्दनपङ्केनालिप्याष्टपुष्पिकया सम्पूज्य धूपदीपौ दत्वा शुद्धान्नं वा फलं वा
नाऴिकेरोदकं
वा निवेद्य। तदनु सुगन्धशुद्धोदकस्वर्णोदकरत्नोदकशङ्खौदकैरभिषिच्य
विशेषार्घ्यं दत्वा शुद्धसूक्ष्मशुभ्रनार्द्रवस्त्रेण परिमृज्य भद्रपीठे विन्यस्य
दिव्याम्बरकौपीनकटिसूत्रबहिर्वस्त्रोपवीतमेखलां भक्त्या मनसा समर्प्य मृगमदेन
शिवलिङ्गमालिप्य
हिमाम्बुकर्पूरागरुकुङ्कुममिश्रितचन्दनं समर्प्य तदनु।
आङ्गिकाद्याभरणानि समर्पयेत्। द्रव्याभावे। आदरेण मनसा समर्पयेत् तदनु।
तापत्रयविनाशाय हाम् आत्मतत्वाधिपतये ब्रह्मणे नम इति। इति लिङ्गमूले।
हिं विद्यातत्वाधिपतये विष्णवे नम इति। लिङ्गमध्यभागे। हूं शिवतत्वाधिपतये रुद्राय
नम इति लिङ्गोर्ध्वभागे च क्रमेण पुष्पाञ्जलित्रयेण
पूजयेत्।
ज्ञानशक्त्यात्मकलिङ्गे। ब्रहमविष्णुरुद्राणामवस्थानं कथमिचि चेत् सत्यम्।
तत्रशुद्धाध्वासिनो ब्रह्मविष्णुरुद्रा न भवन्ति। …। शिव एक एव प्रवृत्तोद्युक्तशक्तभेदेन
योगेन
ब्रह्मविष्णुरुद्रनाम्ना वसति।
तदुक्तं पराख्ये –
एको हि नामकैर्भेदैः स्थितस्सपरमेश्वरः।
बृहत्वात् बुङतेन हत्वाच्च ब्रह्मैव शिवयोगतः॥
विष्णुप्रभवशीलत्वात् प्रभवो जगतः प्रभुः।
रुजद्रायते यसमात् तेन रुद्रौरूजक्षयात्॥ इति
तदनु पञ्जब्रह्मपदमन्त्रैः षडङ्गैश्चाभ्यर्च्य पुष्पदामभिः
दूर्वाक्षततुलसिबिल्वपत्रा
दिभिश्च पूजयेत्।
(पत्रपुष्पविधिः)
अर्चनायां पुष्पभेदात् पत्रभेदात् फलभेदोऽस्ति तद्यथा।
शिवतन्त्ररहस्यसारे –
पुष्पाणि सात्विकानीह शुक्लवर्णानि यानि वै।
राजसानि च रक्तानि तामसान्यपि तान्यपि॥
श्यामं तमो रजो मिश्रं पीतं राजससात्विकम्।
किरणे –
मोक्षदं सात्विकं ज्ञेयमृद्धिदं राजसं तथा।
मिश्रितं द्वयसिध्यर्थं पुष्पं पत्रं च वृद्धिदम्॥
शिवधर्मोत्तरे –
शिवा ॥॥॥॥ तैः पूजा कर्तव्या यतिभिस्सदा।
पुष्पैररण्यसम्भूतैः पत्रैर्वा वनसम्भवैः॥
सुपक्वैस्फुटितैस्सद्यश्चाहृतैश्च सुगन्धिभिः।
चम्बकैः कxxxष्पैश्चान्यैस्तथोचितैः॥
आत्मारामोद्भवैर्वापि पुष्पैस्सम्पूजयेत् श्चिवम्।
अजिते -
श्वेतैरक्तैस्तथा पीतै ………………॥।
…… अपर्युषितनिश्छिद्रैः कृमिकेशादिवर्जितैः॥
सर्वैरेतैः कृतस्वर्चः पत्रैश्चैव तथाविधैः।
श्रेष्ठमभ्यर्चनं प्रोक्तं पुष्पैः कृष्णैर्विना कृतम्॥
मध्यमं यजनं प्रोक्तं सितरक्तैस्तु कन्यसम्।
पाष्पाणि तानि वक्ष्यामि श्वेतादीनि यथाक्रमम्॥
सितपद्मं सितार्कं च मन्दारकं करवीरकम्।
नन्द्यावर्तं च पुन्नागं मल्लिका जातिरेव च॥
माधवी कुरवं चैव द्रोणं दुर्धूरमेव च।
बकपुष्पं च भद्रा च गिरिकर्णी तथैव च॥
श्रीपुष्पं वकुऴं चैव लोद्ध्रपुष्पं तथैव च।
सिन्धु…वारं शमीपुष्पं सितानयुक्तानि तानि तु॥
रक्तपुष्पं पलाशं च हयमारं च पाटली।
सुरक्ता बृहती चैव पिण्डितकमतः परम्॥
पट्टिका चोत्पलं रक्तं मुनिपुष्पं तथैव च।
कदम्बं चेति रक्तानि पीतानि च तत शृणु॥
चम्पकं कर्णिकारं च तथा इरश्वधमेव च।
हेमधूर्धुरकं चैव कुरण्डं गोक्षुरं तथा॥
असनं शङ्खिनी चैव पीतपुष्पं प्रकीर्तितम्।
नीलोत्पलं विष्णुक्रान्तिरतसीपुष्पमेव च॥
कुरण्डं कृष्णवर्णं च कृष्णपुष्पं प्रकीर्तितम्।
कनकानि कदम्बानि जातिपुष्पं तथैव च॥
रात्रौ दद्यात् शिवे शेषं दद्यात्दे(द्दे)वे दिवानिशम्।
नन्द्यावर्तं भवेत्प्रातः द्रोणं मध्यन्दिने तथा॥
जातिं साये विशेषेण दातव्यं स्यात् शिवाय वै।
निर्गन्धानुग्रगन्धानि कुसुमानि विवर्जयेत्॥
गन्धहीनमपि ग्राह्यं पवित्रं तु कुशादिकम्।
कुशाः सदेशजास्निग्धाः नातिखर्वा न चायताः॥
शुकश्छायां साग्रमूलां सप्तपर्णा न सप्तजाः।
कालोत्तरे –
पूजां नीलोत्पलाद्यैश्च कुन्दचम्बकजातिभिः।
कुब्जधुद्धूरकर्बकैः करवीरैस्सपाटलैः॥
कदम्बदमनाद्यैश्च वा चण्डैरजुगुप्सितैः।
मुकुलैर्नाच(र्च)येत् लिङ्गं पक्वमेव निवेदयेत्॥
पुष्पाणामप्यलाभे तु पत्राण्यपि निवेदयेत्।
अपामार्गकुशदूर्वा पञ्चबिल्वं शमा तथी॥
एकपत्रारविन्दं च तुलसी नागदन्तिका।
सहकारं तथा कृष्ण तुलसी गन्धपुष्पका॥
मधुरं सहदेवीं च दान्तं भद्राय वाङ्कुरम्।
एवमादीनि पत्राणि शिवप्रीतिकराणि वै॥
सर्वपत्रेषु सङ्ग्राह्यं बिल्वं च तुलसीद्वयम्।
तुलसीं बिल्वपत्रं च स्वर्णपुष्पं तथैव च॥
प्रक्षाऴ्यपरमेवेशमर्चये तु मुहुर्मुहुः।
उशीरं हरिबेरादि मूलानि शुभदानि च॥
एकवर्णकृतामाला श्रेष्ठेति परिकीर्तिता।
बहुवर्णैस्तथा पुष्पैर्मध्यमा परिकीर्तिता॥
पुष्पपत्रैः कुता माला कन्यसेति प्रकीर्तिताः।
बिल्वपत्रैरखण्डैश्च सकृत्पूजयते शिवम्॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते।
आपीठान्तं महेशानं तुलसीदलमालया॥
आश्छादयति देवेशं गवां कोटिफलं लभेत्।
मूर्ध्नि पुष्पं प्रकुर्वीत पत्मा(द्मा)कारं सुशोभनम्॥
कर्णिकाष्टदऴोपेतं दऴैष्षोडशभिर्युतम्। इति।

(धूपादयः)
तदनु, वामहस्तेन घण्टामादाय हुम्फडन्तास्त्रेण
दधिदूर्वाक्षतैर्वादयन्नङ्गान् धूपयुक्तं धूपपात्रमादाय। हां हं शिवाय धूपं
स्वाहेति श्रपयेत् गोघृतकर्पूरवर्तिदीपयुक्तमारात्रिकं निरीक्षणादिभिः संस्कृत्य
नमोन्तास्त्रेण दधिदूर्वाक्षतैः
सम्पूज्य तदारात्रिकमादाय हैमकवचाय आरात्रिकं स्वाहेति। त्रिवारमथ
ऊर्ध्वभ्रमणेनोत्तार्य दीपपात्रमादाय हां हौं शिवाय दीपं
स्वाहेति।
मुखप्रदेशे पार्श्वे ऊर्ध्वे च निवेदयेत्। विघ्नोर्पनिवारकं
प्रज्वलदनेकदीपयुक्तमारात्रिकं निरीक्षणादिभिः संस्कृत्य नमोन्तास्त्रेण
दधिपूर्वाक्षतैः
सम्पूज्य। तदारात्रिकमादाय। हैं कवचायारात्रिकं स्वाहेति त्रिवारमध।
ऊर्ध्वभ्रमणेनोत्तार्य हुम्फडन्तास्त्रेण पुष्पार्घ्यजलेन देवं संवेष्ट्य
रात्रिकोपरि सार्घ्यजलं पुष्पं निक्षिपेत्।
(भोगाङ्गपूजा)
तदनु पूर्ववदाचमनं दत्वा देवं सन्तुष्टं विभाव्य। स्वामिन् भोगाङ्गानि पूजयामि।
आज्ञां देहीति विज्ञाप्य लब्ध्वानुज्ञः शिवं
मूलेनाभ्यर्च्य तस्य ईशानमस्तकादि(दी)शानमादाय। होम् ईशानाय नम इति। गौणेशाने –
स्फटिकाभं जगद्धेतुं त्रिणेत्रं चन्द्रमौऴिनम्।
सौम्यं प्रसन्नमीशानं त्रिशूलाभयपाणिनम्॥
इति
ध्यात्वा आवाहयेत्। तत्पुरुषवक्त्रात् पुरुषमादाय। हें तत्पुरुषाय नम इति।
पूर्वे
पीताम्बरोपवीतं च नरं काकसन्निभम्।
मातुऴुङ्गाक्षसूत्रं च दधानं चन्द्रमौऴिनम्॥ इति
ध्यात्वा आवाहयेत्। हृत्प्रदेशादघोरमादाय हुम् अघोराय नम इति। दक्षिणे
त्र्यक्षं मौलीन्दुहृत्सौम्यं कुण्डलालङ्कृतं ततः।
बभ्रू श्मश्रू केशं च दंष्ट्रया विकृताननम्॥
कपालमालाभरणं सर्पवृश्चिकभूषणम्।
खटवाङ्गं च कपालं च खेटकं पाशमेव च॥
वामहस्तचतुष्केषु दक्षहस्तचतुष्टये।
त्रिशूलं परशुं खड्गं दण्डं चैवारिमर्दनम्॥
एवं नवाम्बुदाभासं घोरं सर्वकामदम्। इति
ध्यात्वा
आवाहयेत्। वामदेवगुह्याद्वामदेवमादाय। हिं वामदेवाय नम इति। उत्तरे।
वामं रक्तं च सु…।माल्यवस्त्रोपवीतकम्।
तुङ्गनासारुणोष्णीषं खड्गखेटकधारिणम्॥ इति
ध्यात्वा आवाहयेत्। पादात् सद्योजातमादाय भं सद्योजाताय नम इति। पश्चिमे
हरितसृग्गन्धभूषाढ्यं सितोष्णीषं सिताम्बरम्।
सौम्यमौलीन्द्रसम्पन्नं बालाकारं त्रिलोचनम्॥
सद्योजातं सितास्यैकं वरदाभयहस्तकम्। इति
ध्यात्वा आवाहयेत्। अथवा।
ईशतत्पुरुषाघोरवामाजान् सौम्यलोचनात्।
सुश्वेतस्वर्णभृङ्गासृक्सिताभां चतुराननात्॥
जटामकुटशोभाढ्यान् सर्पभूषेन्दुभूषितान्।
वामैर्नागाक्षसूत्रे च नीलाब्जं बीजपूरकम्॥
शूलाभयवरान् शक्तिं सर्पैर्धारयतः करैः।
इति
ध्यात्वा आवाहयेत्। नेत्रेभ्यो नेत्रमादाय। हां नेत्रेभ्यो नम इति। ईशानस्योत्तरभागे।
अरुणाभं स्मरन्नेत्रं दृक्क्रियेश्छा(च्छा)त्मकं विभोः।
त्रितत्वरूपवह्न्यादिमण्डलत्रितयाश्रयम्॥
हृदाद्यङ्गोक्तवदनं करधार्यादिसंयुतम्।
एकास्यां वा त्रिशूलाहि हस्तं योगशिवोक्तितः॥
इति
ध्यात्वा आवाहयेत्। सत् भावात्मकं हृदयादादाय। हां हृदयाय नम
इत्याग्नेये। सर्वेशत्वलक्षणं शिरः शिरोदेशादादाय। हिं
शिरसे नम इति। ईशाने नेत्रस्योत्तरे। अनन्याधीनशिवत्वरूपशिखां शिखाया आहृत्य हृं
शिखायै नम इति। नैऋते। परैरभेद्य
तेजोरूपं कवचं सर्वाङ्गादादाय हैं कवचाय नम इति वायव्ये। प्रतापरूपाण्यस्त्राणि
अस्त्रेभ्य आहृत्य पूर्वादिचतुर्दिक्षु तत्पुरुषादिभ्यो वामभागे हः अस्त्राय नम इति
वामभागे।
हृदयं चन्द्रसङ्काशं शिरश्चामीकरप्रभम्।
शिखां सिन्दूरवर्णाढ्यां कवचं भृङ्गभासुरम्॥
पत्मा(द्मा)सनस्थानर्धेन्तुजटामकुटधारिणः।
त्रिलोचनांश्चतुर्बाहून् सर्वाभरणभूषितान्॥
शिवस्याभिमुखान् शक्तिशूलाभयवरान्विताम्।
चतुर्वक्त्रानथास्त्रं च दंष्ट्रिणं पिङ्गलद्युतिम्॥
द्विभुजानेकवक्त्राश्च वरदानभयप्रदान्।
शूलाभयधरान्वापि ध्यायेद्वा साधकोत्तमः॥
एतान्
शिववदावाहनस्थापनसन्निधानसन्निरोधनपाद्याचमनार्घ्यपुष्पदानान्तैरष्टभिः

संस्कारैस्सङ्कल्प्य पूजयेत्। यद्वा संस्काराष्टकं समुदितरूपमेव सर्वं
संस्मृत्यार्घ्यं दद्यात्। ईशानादीनां ब्रह्मणां धेनुपद्मत्रिशूलमकरसृगा…ख्यां

मुद्रामङ्गानां नमस्कारमुद्रां च दर्शयेत्। पश्चान्मूलेन शिवाय पुष्पाञ्जलिं दत्वा
महामुद्रां च दर्शयित्वा सर्वेषां शिवेन
सार्धमैकमत्यं भावयेत् एवं ब्रह्माङ्गानि कर्णिकायाम्।
(आवरणपूजा)
अनन्ताया दऴाग्रेषु पीठकण्ठे गणादधः।
पीठपादेषु लोकेशास्तदस्त्राणि शिलोपरि॥
पूजान्यावरणान्येवमिति वचनात्। दऴाग्रेषु
अनन्तादीन् पूजयेत्। पीठकण्ठे गणेश्वरादीन् पूजयेत्। पीठपादे लोकेशान् पूजयेत्। तदस्त्राणि
ब्रह्मशिलोपरि पूजयेत्।
(द्वितीयावरणम्)
तद्यथा द्वितीयावणे।
गौणपूर्वादीशान्तदऴाग्रसंस्थिताननन्तादीन् पूजयेत्।
विद्येश्वराश्चतुर्वक्त्रा हरवत् दशबाहवः।
खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः।
वराभयकरोपेता शूलपङ्कजपाणयः॥
हेमाग्निनीलभृङ्गेन्दुहिमरक्तसिता क्रमात्। इति ध्यात्वा
हाम् अनन्ताय नमः। हां
सूक्ष्माय नमः। हां शिवोत्तमाय नमः। हाम् एकनेत्राय नमः। हाम् एकरुद्राय नमः।
हां त्रिमूर्तये नमः। हां श्रीकण्ठाय नमः। हां शिखण्डिने नमः। इति सम्पूज्य।
(तृतीयावरणम्)
पीठकण्ठे गौणपूर्वे -
रक्तो नन्दी चतुर्बाहुरेकवक्त्रस्त्रिदृक् जटी।
साक्षसूत्रस्त्रिशूली च वराभयकरान्वितः॥ इति ध्यात्वा
हां नन्दिने नमः। आग्नेये

……॥ कृष्णाङ्गो बहुश्मश्रुशिरोरुहः।
दण्डखगौखे आशुले महाकाऴो वहत्करैः॥ इति ध्यात्वा
हां महाकाऴाय नमः। याम्ये -
निर्मांसविग्रहो भृङ्गी श्वेतो दण्डाक्षसूत्रधृक्।
…त्य णेत्रः सशिखो देवालोकनतत्पर॥ इति ध्यात्वा
हां भृङ्गिणे नमः। नैऋते –
त्रिणेत्रो वामनाकारो गजवक्त्रो महोदरः।
पाशाङ्कुशौ स्वदन्तं च पक्वमाम्रफलं वहन्॥
शुण्डा वामकराभ्यां च रक्तं गोविघ्ननायक। इति ध्यात्वा
हां गणपतये नमः।
वारुणे –
वृषो वृषाकृतिस्त्र्यक्षो रुद्रैकगतमानसः।
साक्षात् धर्मस्वरूपं च शुद्धस्फटिकनिर्मल॥ इति ध्यात्वा
हां वृषभाय नमः। वायव्ये –
चतुर्भुजो बालवेषस्कन्दः कनकसप्रभः।
शक्तिकुक्कुटहस्तश्च वराभयसमन्वितः॥ इति ध्यात्वा
हां स्कन्दाय नमः। उत्तरे –
सिंहोपरिस्थिता पीता शूला दर्शकरद्वया।
करण्डमकुटा देवि मुक्तादिभिरलङ्कृता॥ इति ध्यात्वा
हां देव्यै नमः। ऐशान्याम् –
चण्डेश्वरश्चतुर्बाहूश्चतुर्वक्त्रस्त्रिलोचनः।
बिभ्रत्कमण्डलुं शूलमक्षसूत्रं परश्वथः॥
महोरगोपवीताढ्यास्तन्निर्वर्तिते कङ्कणः।
ध्येयो नवाम्बुदाभासः समयादीनि यामकः॥ एवं ध्यात्वा*
हां चण्डाय नम इत्यभ्यर्च्य।
विमानस्था गमास्तेषां मूषिकस्थो गजानन। इति
मयूरवाहनस्कन्दो वृषभः केवलस्थितः॥
(चतुर्थावरणम्)
पीठपादे।
गौणपूर्वादीशानान्तदिक्षु क्रमेण -
ऐरावतगजारूढं स्वर्णवर्णकिरीटिनम्।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत्॥
हाम् इन्द्राय नमः।
सप्तार्चिषं च बिभ्राणमक्षमाला कमण्डलुम्।
ज्वालामालाकुलं रक्तं शक्तिहस्तं छगासनम्॥ इति ध्यात्वा
हाम् अग्नये नमः।
कृतान्तं महिषारूढं दण्डहस्तं भयानकम्।
कालपाशधरं कृष्णं ध्यायेत् दक्षिणदिक्पतिम्॥
इति ध्यात्वा
हां यमाय नमः।
रक्तनेत्रां शवारूढां नीलोत्पलदलप्रभम्।
कृपाणपाणिमस्रौघं पिबन्तं राक्षसेश्वरम्॥ इति ध्यात्वा *
हां निऋतये नमः।
नागपाशधरं हृष्टं रक्तौघद्युतिविग्रहम्।
शशाङ्गधवऴं ध्यायेत् वारुणं मकरासनम्॥ इति ध्यात्वा
हां वरुणाय नमः।
आपीनं हरितच्छायं विलोमध्वजधारिणम्।
प्राणभूतं च भूतानां हरिणस्थं समीरणम्॥ इति ध्यात्वा
हां वायवे नमः।
कुबेरं मनुजासीनं सगर्वं खर्वविग्रहम्।
स्वर्णश्छायां गदाहस्तमुत्तराशापतिं स्मरेत्॥ इति ध्यात्वा
हां कुबेराय नमः।
ईशानं वृषभारूढं त्रिशूलं खड्गधारि
णम्।*
शरच्चन्द्रवदाभं च चन्द्रमौलिं त्रिशूलिनम्॥ इति ध्यात्वा
हाम् ईशानाय नमः। ईशाने –
पीतं पीनं चतुर्बाहुं ब्रह्माणं चतुराननम्।
हस्तियानं च बिभ्राणं दण्डाक्षसृक्कमण्डलुम्॥
इति ध्यात्वा
हां ब्रह्मणे नमः। नैऋते –
अनन्तं पुण्डरीकाक्षं फणादशशतैर्युतम्।
विद्युद्दामप्रतीकाशं कूर्मारूढं कृताञ्जलिम्॥ इति ध्यात्वा *
हां विष्णवे नम इति पूजयेत्।
(पञ्चमावरणम्)
ब्रह्मशिलोपरि –
वज्रस्यात्पुरुषस्थूलः कर्कशोऽतिदृढो बली। इति ध्यात्वा
हां
वज्राय नमः।
शक्तिस्तु योषिताकारा लोहिताङ्गा त्रिकोणका।
हां शक्तये नमः।
दण्डोऽपि पुरुषः कृष्णः वपुर्लोहितलोचनः।
हां दण्डाय नमः।
खड्गश्च
पुरुषश्यामशरीरः कृद्धलोचनः।*
हां खड्गाय नमः।
पाशः सप्तफणः सर्पपुरुषपुच्छसंयुतः।
हां पाशाय नमः।
ध्वजस्तु पुरुषः पीतो व्यावृतास्यो महाभुजः।
हां ध्वजाय नमः।
गदा पीतप्रभा कन्या सुपीनजघनस्थला।
हां गदायै नमः।
त्रिशूलपुरुषो दिव्यो नभश्यामकऴेबरः।
हां शूलाय नमः। ईशाने –
पत्मं(द्मं) च पुरुषो दिव्यो शुक्लाङ्गः शुक्ललोचनः।
हां पत्मा(द्मा)य नमः। नैऋते –
शतारं चक्रहृन्मूर्ध्निचक्रश्यामतनुः पुमान्।
हां चक्राय नम इति सम्पूजाय।
सर्वाण्यञ्जलिहस्तानि पत्म(द्म)संस्थानि पूर्वतः।
वज्राद्यङ्गितशीर्षाणि भावयेत्पञ्चमावृतौ॥
विद्येश्वरादयस्सर्वे देवस्याभिमुखस्थिताः।
(नैवेद्यक्रमम्)
तदनु देवस्य पुरतः गोमयेन
चतुरश्रमालिप्य सुधया चतुर्षु दिक्षु चतस्रश्चतस्रो रेखाः कृत्वा तन्मध्ये
पञ्चब्रह्माङ्गादीनां प्रत्येकं पात्रासनानि विन्यस्य
स्वर्णादिपात्राणि तत्तदासने निक्षिप्य। भक्ष्यभोज्यलेह्यशोष्यपानीयानि विभवानुगुणेन
स्वस्य भोक्तुं यावद्व्यञ्चनानि सन्ति ततोऽधिकं पात्रेषु विन्यस्य निरीक्षणादिभिः
संस्कृत्य सामान्यार्घ्यजलेन
प्रोक्ष्य मृत्युञ्जयेनाभिमन्त्र्य देवाय धूपदीपौ दत्वा स्वामिन् अनुग्रहार्थं
नैवेद्यमिदं गृह्णीष्व इति विज्ञाप्य पाद्याचमनार्घ्यं दत्वा देवस्य दक्षिण
हस्ते जलं दत्वा स्वाहान्तेशानादिमन्त्रेण पृथक्पात्रेष्वन्नादीनि पञ्चमुखेषु दद्चात्।
पृथक्पात्राभावे एकपात्रस्थितमन्नादिकम्। ऊर्ध्ववक्त्रेण स्वीकारं भावयित्वा
दक्षिणहस्ते स्वाहान्तमूलेन दद्यात्। …………। दायै
नम इति। द्रव्यदामुद्रां प्रदर्श्य द्रव्यजातं सम्पूर्णं विभाव्य निर्माल्यमुद्धृत्य

चण्डेश्वरसन्निधौ स्थापयित्वा दे…स्तो दधिहस्तोद्वर्तनं च
द…॥ने(नै)वेद्यस्थलशुद्धिं कृत्वा देवस्य पाद्याचमनार्घ्याणि समर्प्य
मुखवासताम्बूलं च निवेद्य।
पुनराचमनं दत्वा पञ्चब्रह्मषडङ्गैर्वा आसनं च
मूर्तिमूलहृदयशिरःशिखाकवचास्त्रमन्त्रैः वा समभ्यर्च्य।
(दीपाराधनादिकम्)
चतुस्संस्कारयुक्तदशाङ्गं वा गुल्गुलुं वा धूपयित्वा
गोघृतकुलवर्तियुक्तान् नानाकारप्रज्वलदनेकदीपयुक्तान् दीपान् ऊर्ध्वाधः पार्श्वे च
प्रदर्श्य गोघृतकर्पूरवर्तियुक्तानारात्रिकान् निरीक्षणादिभिः। संशोध्य
हस्ताभ्यामादाय स्वाहान्तकवचेनाधूर्ध्वं त्रिवारं परिभ्राम्यावतार्याचमनार्घ्यं
दत्वा चतुः संस्कारयुक्तं भस्म समर्प्य दर्पणश्छत्रचामरतालबृन्तानि

राजोपचारैः देवं सन्तोष्य।
(कुशपवित्रदानम्)
कुशदूर्वाङ्कुराक्षतपुष्पाण्यादाय अञ्जलिना भुक्षुः हां हौं
शिवतत्वविद्यातत्वात्मतत्वसर्वतत्वाधिपाय
शिवाय साङ्गाय कुशपवित्रकं स्वाहेति। कुशपवित्रकं दद्यात्। हां हौम्
आत्मतत्वविद्यातत्वशिवतत्वसर्वतत्वाधिपाय शिवाय साङ्गाय कुशपवित्रकं स्वाहेति।
कुशपवित्रकं दद्यात्।

तदुक्तं चिन्त्यविश्वसादाख्ये –
पवित्रमक्षतोपेतं दूर्वायुक्तं विशेषतः।
तत्वत्रयेण सञ्ज्ञप्तमूलमन्त्रेण दापयेत्॥
भोगार्थशिवतत्वादीन् मोक्षार्थी तद्विपर्ययात्।
शुचिं रक्षां च कुरुते पवित्रमिति कीर्तितम्॥ इति।
(पुष्पाञ्जल्यादयः)
ततः। पुष्पदूर्वाक्षतैः शिवं सम्पूज्य धूपदीपाचमनानि दत्वा मूलेन पुष्पाञ्जलिं
समर्प्य
वौषडन्तशक्तिमन्त्रेण धेनुमुद्रां महामुद्रां दर्शयेत्। अथ
हरिर्ब्रह्मेन्द्रादिस्त्रयमानं शिवं पूजया सन्तुष्टं भावयेत्।

॥ जपक्रमः ॥
तदनु हुम्फडन्तास्त्रेणाक्षमालां
सम्प्रोक्ष्य हाम् अक्षमालायै नमः। इति सम्पूज्य मालामुद्रां प्रदर्श्य अक्षमालामादाय
वामहस्ते पुष्पं निक्षिप्य हस्तौ वस्त्रेणाच्छाद्य मूलमन्त्रमष्टोत्तरशतं जपेत्।
भाष्योपांशुमानसानामुत्तरोत्तरमधिकफलत्वात् उपांशु वा मनसु वा जप्त्वा जपं
चाभिमन्त्र्यावकुण्ठनादि कृत्वा पुष्पं दक्षिणहस्ते विन्यस्य तं हस्तं

हृत्प्रदेशे विन्यस्य दक्षिणजानु क्षितौ कृत्वा।
गुह्यातिगुह्यगोप्ता(प्त)त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे येन त्वत्प्रसादात् त्वयि स्थिते।
एवं मन्त्रं जपित्वा तु भोगी देवस्य दक्षिणे॥
वरदहस्ते प्रदातव्य मन्त्रार्घ्यवारिणेति।
हां हं शिवाय साङ्गाय जपं गृहाण स्वाहेत्युक्(द्)भवमुद्रयार्घ्याम्बु चुऴुकत्रयेण
शिवस्य
सव्यहस्ते निवेदयेत्।
अग्निकार्यविधिः । (नित्याग्निकार्यम्)
तदनु पुष्पाञ्जलित्रयं दत्वा गृहस्थः सम्पन्नोपकरणोऽग्निकार्यं कुर्यात् तद्यथा
स्वामिन्नग्निकार्यं करोमि आज्ञां
देहीति प्रार्थ्य लब्धानुज्ञः। अर्घ्यपात्रादिकमादाय याम्यनैऋतवायव्येभ्योऽन्यस्यां दिशि
कल्पितम्। कुण्डं वा स्थण्डिलं वा समासाद्य पूर्वस्य उत्तरास्यो वा
समुपविश्य कुण्डे स्थण्डिले वा मध्येऽस्त्रेण पूर्वाग्रं रेखात्रयं कुशेन सम्पाद्य
रेखामेकामुत्तराग्रां च सम्पादयेत्। उत्तरास्यश्चेत् उत्तराग्रं
रेखात्रयं रेखामेकां पूर्वाग्रं च सम्पाद्य कवचेनाभ्युक्ष्य सर्वसम्स्कारसम्पत्तिं
विभाव्य तत्र हृदयेन दर्भकूर्चविष्टरं दत्वा तत्र पुण्डरीकाभां चतुर्हस्तां
घनस्तनीं व्याख्यान …। ण्डलक्षमालाश्च ॥॥॥।स्तेर्दधानां वागीश्वरीं गौरीं
पत्म(द्म)रागसमुद्युति त्रिणेत्रं चतुर्भुजम्।

वरदाभयशूलपाशां दधानं वागीश्वरं च महेश्वरं च ध्यात्वा विन्यसेत्।
तदुक्तं चिन्त्यविश्वसादाख्ये –
वागीशी सा भवेत् गौरी वागीशस्यान्महेश्वरः।
त्र्यक्षश्चतुर्भुजो देव पद्मरागसमद्युतिः॥

वरदाभयदाभ्यां च शूलपाशधरं करैः।
वागीशी पुण्डरीकाभा चतुर्हस्ता घनस्तनी॥
व्याख्यानपुस्तकाभ्यां तु कमण्डल्वक्षधारिणी।
इति
तदनु – हां वागीश्वरीवागीश्वराभ्यां नम
इत्यावाहनादिस्तावदभ्यर्च्यार्घ्यं दत्वारण्यादिसम्भूतं शिष्टगृहसम्भवं वा
वह्निं शुद्धपात्रे समानीय कव्यादंशं
परित्यज्य निरीक्षणादि चतुस्संस्कारैः संस्कृत्य हां हं हां वह्निमूर्तये नम इत्यनेन
मन्त्रेण संहारमुद्रयादाय पूरकेण इडया आकृष्य
कुम्भकेनाभ्यग्निना बैन्दवेन संयोज्य ऐकमत्यं कृत्वा रेचकेन
पिङ्गलया ह्रूं वह्निचैतन्याय नम इति। वह्निमन्त्रेण प्रदीपकलिकोपममग्नि
बीजमुद्भवमुद्रया निवेश्य तत्सहिताया सम्पूज्य परमेश्वररमेश्वरवीर्यमिति। विभाव्य।
वीगीश्वरेण वागीश्वरीं गर्भनाड्यामाधास्यमानं
विभाव्य मूलेनात्मसम्मुखं निक्षिप्य समूह्य देव्यै वासः परिधानशौचाचमनादि
हृदा दत्वा सद्योजातादिभिरभ्यर्च्य मूलेनाहुतिपञ्चकं दत्वा हां

शिवाग्निस्त्वं हुताशनेत्यग्नेर्नाम कृत्वा वह्निं गर्भाधानादि संस्कारसंस्कृतं
विभाव्य ततः सामान्यार्घ्यजलेन वैषडन्तकवचेन कुण्डमेखलां सम्पूज्य
प्रोक्ष्य मेखलाचतुर्दिक्षु पूर्वोत्तराग्रान् कुशानास्तीर्य ततकुशेषु पूर्वदक्षिणपश्चिमोत्तरेषु
हां ब्रह्मणे नमः। हां विष्णवे नमः। हां
रुद्राय नमः। हाम् ईश्वराय नमः। इति सम्पूज्य। पितरौ विसृज्य। पूर्वादीशान्तदिक्षु।
हाम् इन्द्राय नमः। हाम् अग्नये नमः। हां यमाय नमः। हां निऋतये नमः।
वारुणाय नमः। हां वायवे नमः। हां कुबेराय नमः। हाम् ईशानाय नमः।
ऊर्ध्वभागमुद्दिश्य ईशाने हां ब्रह्मणे नमः। अधोभागमुद्दिश्य नैऋते
हां विष्णवे नम इत्यभ्यर्च्य हां शिवाग्नये नम इत्यग्निं सम्पूज्य हां ह्रूम् अग्नये
स्वाहेति पञ्च तिलाहुतीर्हुत्वा।
अग्ने त्वमैश्वरं तेजः पवनं परमं यतः।
तस्मात् त्वती(दी)य हृत्पद्मे संस्थाप्य तर्पयामि तम्॥
इति प्रार्थ्याग्नेर्मुखं कुण्डप्रमाणं भावयेत्। शिवाग्निं हृदयाम्बुजे सास्नं साङ्गं

शिवं सम्पूज्य नैवेद्यसमये भगवन् त्वां तर्पयाम्। आज्ञां देहीति प्रार्थ्य
स्वाहान्तमूलेनाष्टोत्तरशतं घृततिलादिद्रव्यं हुत्वाङ्गानां च
तद्दशांशं हुत्वा हां हौं शिवाय वौषडिति। पूर्णां दत्वा स्वाहान्तमूलेन ग्रासत्रयं
हृत्वाङ्गानां चैकैकं ग्राह्यं हुत्वा पुनः
पूर्णां दत्वा
शिवमष्टपुष्पिकया सम्पूज्य पराङ्मुखार्घ्यं दत्वा वह्निस्थं शिवं
विधिवन्नाडीसन्धानेन लिङ्गस्थे शिवे संयोज्य ब्रह्मादीन् विसृजेत्। व्याहृति
चतुष्टयस्य वह्न्यादिचतुष्टयस्य च ब्राह्मणविषयत्वादत्र न लिखितम्। ह्रां ह्रूं वह्नये
नम इति। वह्निं विसृजेत्। अग्निकार्योपकरणासम्पन्नः।
अशक्तश्च तं मन्त्रं दशगुणं भवेत्। जपेत्। ततः कुण्डस्याग्निकोणे गोमयेन
मण्डलद्वयं कृत्वा पश्चिममण्डलप्रान्ते। हां रुद्रेभ्यो नम इति। हां
मातृभ्यो नमः। हां गणेभ्यो नमः। हा……॥मः। इति पूर्वादिचतुर्दिक्षु सम्पूज्य हां
ग्रहेभ्यो नमः। हाम् असुरेभ्ये नमः। हां राक्षसेभ्यो नमः।
हां नागेभ्ये नमः। इति ईशानादिकोणेषु सम्पूज्य। हां नक्षत्रेभ्यो नमः। हां राशिभ्यो
नमः। हां विश्वेभ्यो नमः। हां क्षेत्रपालाय नमः।
इति मण्डलमध्ये
ईशानादिकोणेषु सम्पूज्य जलमिश्रान्नेन स्वाहान्तमन्त्रेण रुद्रादिभ्यो बलिं दत्वा हृदयेन
विसृज्य पूर्वमण्डले। हाम् इन्द्राय नमः। हाम् अग्नये नमः। हां यमाय नमः। हां
निऋतये नमः। हां वरुणा
य नमः। हां वायवे नमः। हां कुबेराय नमः। हाम् ईशानाय नमः। इति
पूर्वाद्यष्टदिक्षु सम्पूज्य हां ब्रह्मणे नमः। हां विष्णवे नमः।
इति ऊर्ध्वाधोदिगुद्देशेन दक्षिणे निऋतिपूर्वे च। सम्पूज्य हां नीललोहिताय नम इति।
मण्डलमध्ये
सम्पूज्य स्वाहान्तेन बिलं दत्वा हृदयेन संहारिण्या विसृजेत्। हां पूर्वदिग्वासिभ्यो
दी(दि)गीशभूतमात्रगणरुद्रक्षेत्रपालादिभ्य स्वाहेति दिक्।
नामभेदेन सर्वासु दिक्षु बलिं दत्वा हां वायसादिभ्यः समयभेदिभ्यः स्वाहेति
मण्डलात् बहिर्बलिं दत्वा

ये रुद्रा रौद्रकर्मणो रौद्रस्थाननिवासिनः।
सौम्याश्चैव तु ये केचित् सम्यक् स्थाननिवासिनः॥
मातरो रुद्ररूपाश्च गणानामधिपाश्च ये।
विघ्नभूतास्तथान्ये दिग्विदिक्षु समाश्रिताः॥
सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम्।
सिद्धिं ददतु मे नित्यं भवेभ्यः पातु मां सदा॥
इति विज्ञाप्य हृदयेन संहारिण्या विसृजेत्। तद्विभूतिमादाय ललाटे तिलकं धृत्वाचम्य
न्यासं कुर्यात्।
इति स्वल्पाग्निकार्यविधिः॥

(न्यूनाधिकदोषशान्तिः)
तदनु शिवसमीपं गत्वाष्टपुष्पिकया सम्पूज्य।
न्यूनातिरिक्तदोषशान्त्यर्थमेकविंशतिवारमघोरजपं कृत्वा तज्जपं
पूर्ववत् समर्पयेत्।
यत्किञ्चित् कर्म हे देव सदा सुकृतदुष्कृतम्।
तं मे शिवपदस्थस्य भुङ्क्ष्व क्षपय शङ्कर॥
इति विज्ञाप्य वरदहस्ते समर्पयेत्। तदनु -
न्यूनं वाप्यधिकं वापि यन्मया मोहतः कृतम्।
सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादात् प्रभो ममेति। देवं प्रार्थयेत्।
(पूजाफलनिवेदनम्)
ततः पूजाफलं समस्तं परिपूर्णं विभाव्य
शिवमष्टपुष्पिकया सम्पूज्य तत्फलं शरदिन्दुनिभं जपवदभ्यर्च्य।
पूजाजपाग्निकार्याद्यैः सुकृतं यन्मयार्जितम्।
तत्फलं परमेशानयत्तु तुभ्यं निवेदितम्।
तत् गृहाण स्वयं प्रीत्या नेदं भोगाय मेऽस्तु भो।
कर्मणा मनसा वाचा त्वं गतिर्मे महेश्वर॥ इति विज्ञाप्य
हां शिवाय
पूजाजपादिपुण्यफलं गृहाण स्वाहेत्येवमुक्त्वा स्व सव्येन विभोः सव्ये समर्पयेत्। एवं
मुमुक्षोर्बुभुक्षोस्तु
पूजाजपाग्निकार्याद्यैः सुकृतं यन्मयार्जितम्। *
तत्फलं परमेशान मया तुभ्यं निवेदितम्॥
तत्फलं मेऽस्तु देवेश भुक्तिमुक्त्यर्थसाधनम्। इति विज्ञाप्य
फलं निवेदयेत्।
(पूजाविषयशङ्कोत्तरम्)
ननु नित्यशुद्धनिर्मल
निरतिशयानन्दात्मस्वरूपतया नित्यत्र॥।स्य शिवस्य
पाद्याचमनार्घ्याभिषेकगन्धपुष्पधूपदीपनैवेद्यादिकं किमर्थं क्रियत इति चेत्
सम्यक्।
शिवप्रयोजनतया न क्रियते। किं तु स्व प्रयोज॥॥वोद्देशेन क्रियते। तर्हि शिवभक्तकृतपूजां
स्वीकरोति वा न वा। तत् स्वीकरणे रागद्वेषादिसहितेन
विकारी च स्यात्।
तत् स्वीकरणाभावे फलप्र॥॥न स्यादिति चेन्न। यथा पृथ्वी कृषीवली
कृतकर्षणखननदोहलबीजं वा पादिकं स्वभोगतया
नमगीकृत्यापि तत् कर्तुः प्रयासानुरूपं फलं भुज्यते। तथा यद्यत्फलका ददाति एवं
शिलोपि भक्तकृतं पूजां दृष्ट्वैव तत्तत्क्रियानुरूपफलप्रदो भवत्येव। यथा
पृथिव्यां यद्यत् सत्यकामनया येन येन तत्तद्मूलबीजादिकमुप्तं क्तम्।
तेन तेनैव तत्तत् बीजानुरूपं फलं भुज्यते। तथा यद्यत्फलकामनया शिवोद्देशेन
मन्त्रक्रियाद्रव्यैः यद्यदुपचारं यः करोति तदनुरूपफलं स एव भुङ्क्ते।
तदुक्तं प्रजास्तवे –
स्वभावसिद्धस्य शिवस्य पाद्य
माचाममात्मीयविशुद्धिहे
तोः।*

अर्घ्यप्रदानं कुसुमार्पणं च
स देशधामाप्तिनिमित्तमेतत्॥
स्नानं स्वात्ममलापहं शुभं यैर्गन्धैः समालेपनं
सद्वस्त्राभरणं
सुगन्धिकुसुमैर्मालाभिरभ्यर्चितम्। सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं
त्वणोर्भोगार्थं हि स देश धाम्नि विमलं दीपं शिवज्ञानदम्।
भोगाङ्गार्चनमात्मनः शिवगुणप्राप्त्यर्थमैक्यं प्रभोरङ्गागं पुनरर्चकस्य
शिवसंयोगाय शुद्धात्मनः। तृप्तस्यान्न निवेदनां बहुमखावासादिप्रदानं
मनस्तृप्त्यर्थम्।

शिवभावमङ्गलकरं चित्रं तवार्चाफलम्।
पवित्रभूतस्य पवित्रदानं तापत्रयघ्नं सकलार्थसिद्ध्यै॥
जपश्च भक्त्या प्रणतिः शिवश्च
ब्रह्मेन्द्रविष्ण्वाधिपतित्वहेतुः॥ इति
अन्यत्रापि -
पूजया विपुलं राज्यमग्निकार्येण सम्पदम्।
जपेन पापसंशुद्धिं ज्ञानध्यानेन मुच्यते॥
किं तु देहावसानं तु यः पूजयति भक्तितः।
स शिवः सर्वकृत्यज्वा जीवन्मुक्तः स उच्यते॥
इति।

(आत्मनिवेदनम्)
तदनु -
नमश्शिवाय शान्ताय कारणत्रयहेतवे।
निवेदयामि चात्मानं त्वं गतिः परमेश्वर॥
ऽपूजायां सकलध्यानं सकऴाकऴे जपम्। निष्कऴे चात्मा
समर्पणम्ऽ इत्युक्तत्वात् हां हौं शिवाय आत्मानं गृहाण स्वाहेति निष्कलमुद्दिश्य
सदाशिवस्य वरदहस्ते निवेदयेत्। तथागमः।

मूलमन्त्रमतिस्पष्टम् ॥॥॥र्धनि।
तेजो ॥। नपरे ॥॥ प्राप्य ॥॥॥ ॥
पुनरानीय देवस्य वरदहस्ते समर्पयेत्।
नाडीसन्धानयोगेन स्वकीयहृदयाम्बुजम्॥
प्रविश्य *चरितार्थत्वं निनयेद्देशिकोत्तमः। *
शिवो दाता शिवो भोक्ता शिवस्सर्वमिदं जगत्॥
शिवो यजति सर्वत्र यत् शिवः सोहमेव तु। इति

(विसर्जनम्)
ततः शिवमष्टपुष्पिकया सम्पूज्य विशे
षार्घ्यं दत्वा हां हौं शिवाय साङ्गाय पराङ्मुखार्घ्यं दत्वा हुम्फडन्तास्त्रेण
पुष्पनाराचमुद्रायाङ्गानयुत्था
प्य। ॐ हां हं हां शिवमूर्तये नम इत्यङ्गानां शिवस्य हृदयादिस्थानेषु लयं
विभाव्य -

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वा क्षन्तव्यं भक्तवत्सल॥
इति विज्ञाप्य
मूलेन निरोधमुद्रया निरुध्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रां
महामुद्रां च प्रदर्श्य भक्त्या
नमस्कुर्यादिति। सापेक्षविसर्जनम्। स्थण्डिलादमृतीकरणादनन्तरं हृदयेन
पूरकसंहारिण्या हृत्पुण्डरीकमध्यस्थे ज्योतिर्लिङ्गे शक्त्यंशे योजयेत्।
इत्यनुपेक्षविसर्जनम्। तदनु गुर्वादीनां प्रतिलोमेन पराङ्मुखार्घ्यं दद्यात्।

॥ चण्डपूजा ॥
ततः गौणैशान्यां दिशि शुद्धभूतले। हां चण्डासनाय हुम्फण्णमः।
हां चण्डमूर्तये हुम्फण्णमः। इत्यभ्यर्च्य।
रुद्राग्निप्रभवं चण्डं कज्जऴाभं भयानकम्।
शूलटङ्कधरं रौद्रं चतुर्वक्त्रं चतुर्भुजम्॥
मुखोद्गीर्णमहाज्वालं रक्तद्वादशलोचनम्।
जटामकुटखण्डे॥॥।तं मणिकङ्कणम्॥
व्यालयज्ञापवीतं च साक्षसूत्रकमण्डलुम्।
श्वेतपद्मासनासीनं भक्तिप्र॥॥।र्तिनाशनम्*॥*
इति ध्यात्वा
चण्डनेत्रेभ्यो हुम्फण्णम॥।न्यस्य धुरुचण्डेश्वराय हुं फट् स्वाहेत्यावाह्य
चण्डहृदयाय हुं फण्णमः। चण्डबन्धशिरसे हुं फण्णमः।
चण्डशिखायै हुं फण्णमः। चण्डकवचाय हुं फण्णमः। चण्डास्त्राय हुं
फण्णमः। इत्यङ्गैः सकऴीकृत्य पूजयेत्। यदि वा आसनमूर्तिमूलैः केवलं
मूलेनावाह्याभ्यर्च्यार्घयित्वा नैवेद्याद्युपाहृत्य पूर्वस्थापितनिर्माल्यं दत्वा ।

लेह्यशोष्यान्नपानादिताम्बूलं सृग्विलेपनम्।
निर्माल्यभोजनं तुभ्यं प्रदत्तं तु शिवाज्ञया॥
इति विज्ञाप्यथवा शक्तिजप्त्वा निवेद्य।
सर्वमेतत् क्रियाकाण्डं मया चण्ड तवाज्ञया।
न्यूनाधिकं कृतं मोहात् परिपूर्णं सदास्तु मे॥ इति विज्ञाप्य
पराङ्मुखार्घ्यं दत्वा। अह्गान्युत्थाप्य मूर्तौ मूर्तिमन्त्रेण संयोज्य
पूरकान्वितमूलेन संहारमुद्रया स्व हृदि विन्यसेत्। एतत्सर्वं मठे
च आचार्यपूजिताधिकारलिङ्गविषयम्। नत्वात्मार्थलिङ्गविषयम्।
ततोऽर्घ्यपूत्रस्थमन्त्रानुत्थाप्य संहृत्य हृत्कमले विन्यस्य निर्माल्यापनयनं कृत्वा
भूमि गोमयेन
संशोध्य प्रोक्षयेत्। ततो धौतपातः(दः) समाचम्य
शुद्धभस्मना स्नात्वा सकऴीकृत्य समस्तपूजाफललाभार्थमघोरमेकविंशतिवारं
जपेत्।

(कपिलापूजा)
ततः कपिलां
गन्धाक्षतपुष्पैस्समभ्यर्च्य।
अमृतमथनोत्पन्ने सुरभी लोकधारिणी।
इदं ग्रासं गृहाण त्वम् इदं मे व्रतमुत्तमम्॥
इति ग्रासं दत्वा काम्यमन्त्रोपासस्तत्तत्
कल्पोक्तप्रकारेण जपेत्। इति।

(विरक्तानां पूजाविधिः)
विरक्तस्तु –
न ज्ञानं न जपः पूजान्न होमो नैव साधुनम्।
नाग्निकार्याणि कार्याणि नैतस्यास्ति महेश्वरि॥
नियमोऽपि न तस्यास्ति क्षेत्रे पीठे च सेवना।
नार्चनं पितृकार्यं च तीर्थयात्रा व्रतानि च।
धर्माधर्मफलं नास्ति नातिथिर्लौकिकक्रिया॥
(स)न्यसेत्सर्वकर्माणि लोकाचारमशेषतः।
समयाचारनिश्शेषान् कृतकृत्यान् धनानि तु॥
सङ्कल्पं च विकल्पं च ये चान्यकुलधर्मकाः।
न कुर्यात् क्षुद्रकर्माणि काष्ठपाषाणपूजनम्॥ इत्याद्यागमः
वचनात्

पूर्वोक्तज्ञानपूजैवं तादृशनिष्ठासामर्थ्यरहितस्य। तत्सामर्थ्यस्यापि।
यद्यदाचरतिश्रेष्ठस्तत्तदेवेतरो जन इति। न्यायात् बाह्यपूजाप्युक्ता।
यतयस्त्रिविधाः तपस्वी विशिष्ठः विद्वानि तु।
यथा अचिन्त्यविश्वसादाख्ये –
यतयस्त्रिविधा ज्ञेयास्तपस्वी विदुषस्तथा।
विद्वानिति त्रिधा प्रोक्तास्तेषां भेदं शृणु क्रमात्॥
तपोनिष्ठस्तपस्वीति तस्य वृत्तिं तु सुव्रता।
नाध्येतव्यं न सङ्कल्पो न श्रोतव्यं कथञ्चन॥
शिष्याणां सङ्ग्रहं चैव नैव विद्याप्रकाशनम्।
न वदेत् संस्कृतां भाषां न दण्डी न कमण्डलुः॥
लिङ्गं क्षणिकमभ्यर्च्य भक्तिमात्रेण संयुतः।
एकाकी वृक्षमूले वा वने वा जलवर्जिते॥
न्मनात् भीतिसमायुक्तो वसेत् बाहुप(प्र)धानकः।
वसतां येनकेनापि तथैवाशनपानकम्॥
पाणिपात्रोदरश्चैव याचितान्नेन जीवितम्।
इत्याद्युक्तस्तपस्वी स्यात् साधसो यतिनामवान्॥
इति वचनात् तस्य पूजाक्रमो नोक्तः विविदिषुर्विद्वानपि।
तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान्।
इ ॥।राधयेद्विरूपाक्षमादित्यान्तरसंस्थितम्॥
इति वचनात् प्रथमं सु॥।ण्डले शिवं सम्पूज्य भूतशुद्धिं कृत्वा शिवस्य अलङ्कारासने।
वायव्ये दक्षिणाभिमुखं विघ्नेश्वरम् ई
शान्ये दक्षिणाभिमुखं गुरूं च ॥। श्य
द्वारावरणाग्निकार्यबलिप्रदानचण्डेश्वरनिवेदनादिरहितं पूर्वोक्तविधानेन शिवं
पूजयेत्।

अथ वेदान्तश्रवणं तत्र त्रिवर्णानां विधीयते।
आगमार्थस्य सिद्धान्तः पुराणं शूद्रवर्णानाम्॥
श्रुता(शूद्रा)शुश्रूषया निष्ठा सर्वशास्त्रेषु दर्शनात्।
शूद्राणां वृत्तयो वाच्या श्रुत्यर्थैरागम(मा)र्थकैः॥
इतरेषां विरक्तानां भाषया तत्ववेदनम्। इति।
अथ सूतसंहितायाम् –
अस्ति शूद्रस्य शुश्रूषो पुराणेनैव वेदनम्।
वदन्ति केचिद्विद्वांसः स्त्रीणां शूद्रसमानताम्॥
अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते।
भाषान्तरेण कालेन तेषां सोप्युपकारक॥ इति।
सिद्धान्तबोधकस्कान्दपुराणवचनैः
आमध्याह्नं शिवागमाध्ययनाध्यापनादिकं वा
वक्षयमाणप्रकारप्राणायामजपध्यानं वा कुर्यात्।
(प्राणायामक्रमः)
अत्र प्राणायामक्रमः। निः शब्दे निर्जने निर्भये
शीतवातातपविनिर्मुक्ते मत्गु(द्गु)णमखकस्त्रीजनपिपीलिकावृश्चिकसर्पादिवर्जिते
उपलिप्तमन्दिरे रम्यस्थले व्याघ्राजिनोपरि स्थूलं
मृदुलमासनं विन्यस्य तस्योपरि उदगग्रान् कुशानास्तीर्य तत्रोपविश्य। पत्मा(द्मा)सनं
मुक्तासनं सिद्धासनं वा सम्यक् बध्वा क्षेत्रपालं गणेशं गुरूं शिवं देवीं च

स्तुत्वा नत्वा च वायुं निरुध्य नाडीशोधनपूर्वकं प्राणायां कुर्यात्।
(प्राणायामविधिः)
तद्यथा गुदगुह्ययोर्मध्ये मूलाधारे स्थितमग्निम् आकुञ्चनेन मूलवायुना
सबिन्दुं वह्निं बीजमुच्चरन्। उत्थाप्य नाभौ कोशातकीफलाकारं सर्वनाडीकन्दभूतं
नाडीचक्रमधोमुखद्वारा पिधाय कं कुण्डलिनीमुखं मूलाधारो
त्थितवायुवह्निभ्यां नरस्यतावुभौ नाडीचक्रं प्रवेशयित्वा इडया वायुमात्रकुम्भकं
कृत्वा सबिन्दुमग्निबीजमुच्चरन् सर्वनाडिषु
अनिलाग्निप्रवेशयित्वा पिङ्गऴाय रेचयित्वा पुनः पिङ्गलया पूर्य कुम्भकं कृत्वा इडया
रेचकं कृत्वा पुनः इडया पूर्य कुम्भकं कृत्वा एवं षट्प्रकारेण सबिन्दुकमग्निबी
जमुच्चरन् अग्न्यधिष्ठायकं रुद्रं ध्यात्वा नाडीं विशोधयेत्।
अथ -
विरक्तानां प्रबुद्धानां वैश्यानां च तथैव च।
शूद्राणां च यथा स्त्रीणां प्राणसंयमनं मुने॥
नमोन्तं शिवमन्त्रं वा वैष्णवं वा न चान्यथा।
नित्यमेवं प्रकुर्वीत प्राणायामास्तु षोडश॥ इति वचनात्।
वक्ष्यमाणप्रकारेण
पञ्चाक्षरस्य ऋषिश्छन्दो देवता शक्ति बीजवर्ण क्षेत्र विनियोगकाराभादिन्यासं कृत्वा
नमोन्तशिवमन्त्रं षोडशवारमुच्चरन्। इडया पूर्य
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रस्थानेषु अन्यतमेषु प्राणवायुं यथाभ्यासं
धृत्वा शिवं ध्यात्वा चतुष्षष्टिवारं नमोन्तशिवमन्त्रं कुम्भकेन जप्त्वा शनैः
पिङ्गलया द्वात्रिंशत्वा(द्वा)रजपेन
रेचयेत्। एवं षोडशप्राणायामं नित्यं कुर्यात्। अधिककरणे अभ्युदयोऽस्ति। अथवा अजपया
प्रासादेन वा
प्राणायामं कुर्यात्।
तदुक्तं प्रासादपरमाक्षरनिर्णये –
हकारेण बहिर्याति सकारेण विशेत्पुनः।
हदूर्ध्वं च हंसस्यात् सङ्क्रान्तिर्मकरे स्मृतः॥
डङ्गुलमथाभ्यस्तं कुम्भसङ्क्रमतो॥।।
पुनः कण्ठोर्ध्वमन्यस्य मीने सङ्क्रमते पुनः॥
गऴोर्धे यावत् ताल्वन्तं त्यक्त्वा मेषे तु सङ्क्रमेत्।
नासान्तं यावत्सङ्क्रान्तिरङ्गुलानि ॥। वसः॥
नासाग्रं तु परित्यज्य प्राणहंसे वृषं क्रमात्।
षडङ्गुलं परित्यज्य मिथुने सङ्क्रमेत्पुनः॥

॥॥॥॥॥॥। सङ्क्रान्तिर्मिथुने स्थिता।
इति
अत्र क्रमः। शिवं ध्यात्वा उदरस्थं वायुं हकारोच्चारणेन द्वात्रिंशन्मात्रं पिङ्गलया
रेचयित्वा पुनः सकारोच्चारेण शक्तिं ध्यात्वा इडया
षोडशमात्रया पूर्य सोहमिति मनसोच्चार्य द्वा(वा)युं
हृत्कण्ठकूपकण्ठमध्यतालुमूला साग्रभ्रूमध्यब्रह्मरन्ध्रेष्वन्यतमेषु
उत्तरोत्तरवैशिष्ट्यात्।
यथाभ्यासं प्राणवायुं चतुःषष्टिमात्रं धृत्वा परशिवभावनया कुम्भकं कुर्यात्।
हृदयादिसप्तस्थानेषु ब्रह्मरन्ध्रं विना स्थानषट्कम् आध्यात्मि
कौत्तरणायणसङ्क्रान्ति इदमेव अधिदैविकापरमुक्तिभूमिषट्कम्। ऊर्ध्वं तु परमोक्षा
भूमिः। तस्मात् प्रयत्नेन ब्रह्मरन्ध्रे यथा वायुं
स्थिरो भवेत् तथाभ्यासं कुर्यात्।
(प्रासादेन प्राणायामक्रमः)
ततः प्रसादप्राणायामकं पूर्वोक्तप्रकारेण इडया पूर्य प्रासादं मनसोच्चारन्
सुषुम्नामार्गेण
हृदयादिशुद्धमनसं युक्तप्राणवायुना अकारादिब्रह्मादिकरमेश्वरत्यागेन
ब्रह्मरन्ध्रपर्यन्तं गत्वा तत्र प्राणवायुं निरुध्य मनसा समानान्तं गत्वा तत्र
मनोलयं
कृत्वा उमन्यन्ते अखण्डाकारसच्चिदानन्दद्वयपरिपूर्णपरशिवे सरसी भूत्वा स्थिते सति
वायुरधःप्रवृत्तश्चेत्
पिङ्गलया रेचयित्वा पुनरिडया पूर्य कुम्भकं
कृत्वा एवं षोडशप्राणायामं कुर्यात्। अथ हृदयादिस्थानवर्णस्वरदेवतादिलक्षणं
प्रदर्शयामः। नाभेरूर्ध्वद्वादशाङ्गुलान्ते हृदयं चतुरङ्गुलम्। तत्र
वह्निशिखाप्रभस्त्रिमात्रो मेधास्वरः। चतुर्विंसतितत्वयुक्तो ब्रह्माधिदैवतदूर्ध्वकण्ठे
अष्टाङ्गुले सोमसूर्यसमप्रभः। उकारो द्विमात्रकस्थितः। तत्वषट्कयुक्तो

विष्णुस्तस्याधिदेवताः ततस्तालौ चतुरङ्गुले एकमात्रस्तटित् समद्युतिर्मकारस्थितः।
मायातत्वयुतो रुद्रस्तस्याधिदेवताः। ततः भ्रूमध्ये द्व्यङ्गुले
दीपनिभावृत्ताकारः। अर्धमात्रको बिन्दुस्थितः। शुद्धविद्येश्वराख्यतत्वयुतः
ईश्वरोऽधिदेवता ललाटे पाद…मात्र अर्धचन्द्राकाशशशिप्रभः। बिन्द्वर्धस्थितः।
सादाख्यतत्वयुक्
सदाशिवोऽधिदेवता।
तदूर्ध्वं मात्राष्टांशवती निरोधिनी बिन्दुतत्वं शक्तिरतिदेवता। तदूर्ध्वं
ब्रह्मरन्ध्रपर्यन्तं दण्डाकाररत्नराश्युद्भवकान्तिप्रभः।
षोडशांशमात्रकः नादस्थितः शक्तिरधिदेवता। ततः भ्रुवोरूर्ध्वमेकादशाङ्गुले
ब्रह्मरन्ध्रे मेरौ ज्योतिः शिखरफलितविद्युत्प्रभानिभो।
द्वात्रिंशांशमात्रसहितचिश्छक्तिस्थिता।ततः मूर्ध्नि एकाङ्गुले
चतुःषष्ट्यंशमात्राशक्तिस्थिता
तदूर्ध्वं त्र्यङ्गुले। अष्टाविंशत्यधिकशतांशमात्रा व्यापिनी
स्थिता। तदूर्ध्वं चतुरङ्गुले। षट्पञ्चाशदधिकद्विशतांशमात्रा समानस्थिता। तदूर्ध्वं
चतुरङ्गुले मनोमात्र उन्मना ततःपरमन्तर्बहिरधः ऊर्ध्वव्यापकाखण्डा
कारसच्चिदानन्दा द्वयानुभवैकवेद्यः। शिवो विराजते। एवं गुरुमुखेन सम्यज्ञात्वा
प्राणायामं कुर्यात्।
तदुक्तं सिद्धान्तसारावल्याम् –
नाभेरूर्ध्वं वितस्त्यन्ते हृदयं चतुरङ्गुलम्।
तदन्ते संस्थितो मेधा स्वरो वह्निशिखाप्रभः॥
त्रिमात्रः कारणं ब्रह्मा चतुर्विंशति तत्वयुक्।
कण्ठेऽष्टाङ्गुलकेघीशो द्विमात्रोऽर्कशशिद्युतिः॥
तत्वषट्कयुतो विष्णुः स्थावौ च चतुरं॥।।
मायातत्वं विषं रुद्र एकमात्रस्तटि द्युतिः॥
भ्रूमध्ये द्व्यङ्गुx दीपनिभो वृद्धार्धमात्रकः।
तत्वद्वययुतोऽनन्तो ललाटे पादमात्रकः॥
वृत्तार्धोर्ध्वशशि ज्योतिमात्रांशाष्टांशा निरोधिनी।
उक्तं प्रभाततो दण्डः षोडशांशो मणिप्रभः॥
द्वात्रिंशांशस्तु दण्डान्तो रन्ध्रे सौदामिनिप्रभः।
स्रुवोरूर्ध्वबिलं यावदङ्गुलैका दशाधिकः॥
चतुष्षष्ट्यंशिकाशक्तिर्मूर्धन्येगाङ्गुले स्थिता।
त्र्यङ्गुले व्यापिनी चाष्टाविंशत्यधिशतांशिका॥
चतुरङ्गुलिका षष्ट्युत्पञ्चाशत् द्विशतांशिका।
समन्नोर्ध्वं मनोमात्रा चतुरङ्गुलकोन्मना॥
समानान्तं पाशजालमुन्मन्यन्ते परश्शिव। इति।
॥अथ जपक्रमः॥
पञ्चाक्षरम्। ताराप्रसादस्थूलसूक्ष्ममिश्रशुद्धभेदेन न षड्विधः। तेषु
प्रणवादिषडक्षरतारपञ्चाक्षरं
त्रैवर्णिकानां ह्रस्वप्रणवाद्यष्टाक्षरप्रसादपञ्चाक्षरम्। सच्छूद्रेषु
जात्युद्धरणदीक्षायुक्तानाम्। नम आदिस्थूलपञ्चाक्षरम्। सत् च्छूद्रेषु
सामान्यसमयायिनां नमश्शिवाय शिवाय नम इति मिश्रपञ्चाक्षरम्। सङ्करजातिनां
नमोऽन्तः सूक्ष्मपञ्चाक्षरम्।
विरक्तानाम्। नमः पदं विहाय शिवोहमस्मीति
शुद्धपञ्चाक्षरम्। अतिवर्णाश्रमिणाम्

तदुक्तं सिद्धान्तबोधे-   

पञ्चाक्षरं तु षड्भेदं तारप्रासादमिश्रकम्।
स्थूलं सूक्ष्मं च शुद्धं च अत्रोच्चारक्रमं शृणु।
तत्रोन्नमश्शिवायेति तारपञ्चाक्षरं भवेत्॥
ॐ हां हौं शिवाय नम इति। प्रासादपञ्चार्णं नमः शिवाय इति स्थूलस्थूलसूक्ष्म चं
सूक्ष्म च। नमश्शिवाय शिवाय नम इत्येतत्।
स्थूलसूक्ष्मकम्।
सूक्ष्मं नमोन्तमित्युक्तं शुद्धपञ्चाक्षरं यथा।
हित्वा नमः पदं तस्य शिवाय इति चोच्यते॥
शुद्धपञ्चाक्षरमिदं स्वानुभूतिप्रकाशितम्।
पञ्चाक्षरस्य तन्मध्ये पतिपाशपशूदितम॥
तन्मध्ये मलमायाख्यं पृथक्कुर्वात्मदर्मने।
शुद्धं च कैवल्यसुखानुकूलजस्वाभाविकम्॥

तत्पद सोहमस्मि। शिवोहमस्मीति सिद्धान्तम्।
वेदान्तं सोहमस्मि तु।
तारपञ्चाक्षरं तत्र त्रिवर्णानां विधीयते।
शूद्रः प्रासादमन्त्रेण स जपेत् भुक्तिमुक्तिदम्॥
सामान्यदीक्षायुक्तानां स्थूलपञ्चाक्षरं स्मृतम्।
भोगमोक्षप्रसिद्ध्यर्थं मिश्रं प्रोक्तमवर्णिनाम्॥
योगिनां ज्ञानिनां तत्र सूक्ष्मपञ्चाक्षरं स्मृत्।
अतिवर्णाश्रमाणां तु शुद्धपञ्चाक्षरं स्मृतम्॥ इति

ननु तारपञ्चा
क्षरं त्रैवर्णिकानामेव प्रासादपञ्चाक्षरं शूद्राणामित्यत्र प्रासादपञ्चाक्षरे च
प्रणवस्य विद्यमानत्वात्। कथं शूद्राणामिति चेत् सत्यम्। शूद्राणां
जात्युद्धरं ह्रस्वप्रणवोच्चारणे अधिकारात् तारपञ्चाक्षरे ह्रस्वप्रणवस्यासम्भवात्।
प्रासादपञ्चाक्षरे ह्रस्वप्रणवसम्भवात् तत्राधिकारः।
ततः कृष्णाजिनाद्यासनेषु आमध्याह्नं पूर्वाभिमुखः।
तदनन्तरमुत्तराभिमुखपत्मा(द्मा)सनाद्यासनेषु यथाभ्यासनमन्यतमम्। बध्वा
तत्तदधिकारानुगुणपञ्चाक्षरमृ
षिच्छन्दो देवता शक्ति बीजस्थानादि वर्णादिसहितं वक्ष्यमाणकराङ्गन्यासपूर्वकं शिवं
हृदयादिस्थानेषु ध्यात्वा जपेत्। अत्र न्यासक्रमः। देव्यै ईश्वर उवाच।

पञ्चाक्षरं सप्रणवं मन्त्रोऽयं हृदयं मम।
गुह्यात् गुह्यतरं साक्षात् मोक्षज्ञानमनुत्तमम्॥
मन्त्रस्यास्य च वक्ष्यामि ऋषिश्छन्दोऽधिदेवताः।
बीजशक्तिस्वरं वर्णं स्थानं चैवाक्षरं प्रति॥
वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतः।
देवता सदाशिवोऽहं मम मन्त्रस्यास्य वरानने॥
अकारादीनि बीजानि पञ्चभूतात्मकानि च।
आत्मानं प्रणवं बीजं सर्वव्यापिनमव्ययम्॥
शक्तिस्त्वमेव देवेशि सर्वदेवनमस्कृत्।

प्रत्यक्षरमृषिश्छन्दो देवताः।

वर्णं दैवं तथा शक्तिराधारश्छन्द एव च।
ऋषिस्थानं च सप्तैते प्रत्येकाक्षरमुच्यते॥
स्थूलपञ्चकभेदेषु वर्णादिक्रमतः शृणु।
पीतं वर्णं नकारस्य ब्रह्मा तत्राधिदेवता॥
पाणिशक्तिसमायुक्तं पृथिव्याधारमेव च।
अनुष्टुप् श्छ(छ)न्दसंयुक्तं वसिश्ठश्च ऋषिस्तथा॥
स्थानं पश्चिमो वक्त्रं मकाराक्षरमुच्यते।
श्वेतवर्णो मकारस्य विष्णुस्तत्राधिदेवता॥
लक्ष्मी शक्तिसमायुक्तमापस्त्वाधारमेव च।
त्रिष्टुप् श्छ(छ)न्दससंयुक्तं विश्वामित्र ऋषिस्तथा॥
स्थानमुत्तरतो वक्त्रं शिकाराक्षरमुच्यते।
रक्तं वर्णं शिकारस्य रुद्रस्तत्राधिदेवता॥
रुद्रगौरीतथा शक्तिराधारं वह्निरेव च।
त्रिष्टुप् श्छ(छ)न्दः समायुक्तं जमदग्निऋषिस्तथा॥
स्थानं दक्षिणतो वक्त्रं वकाराक्षरमुच्यते।
वकारं नीलवर्णं च महेशस्त्वधिदेवता॥
महेशशक्तिसंयुक्तं वायुराधारमेव च।
बृहतिश्छन्दसंयुक्तम् ऋषिः काश्यप उच्यते॥
स्थानं पूर्वमुखं चैव तत्पुरुष इति चोच्यते।
यकारस्फाटिको वर्णः देवः सदाख्यरूपकः॥
मनोन्मनी शक्तियुक्तमाधारं व्योम एव च।
जगतीश्छन्दसंयुक्तं भारद्वाजृषिस्तथा॥
स्थानं तदूर्ध्वमीशानं यकाराक्षरमीरितम्।
एवं वाचकमुद्दिष्टमथवाच्यक्रमं शृणु॥
शिकारं शिवरूपं तु वकारं शक्तिरुच्यते।
यकारमात्मरूपं च नकारं ग्रन्धि(न्थि)रूपकम्॥
मकारं मलरूपं च इत्यर्थः पञ्चवर्णकः।
न्यासमस्य प्रवक्ष्यामि सर्वसिद्धिकरं शुभम्॥
ब्रह्मचारिगृहस्थानां यतीनां क्रमशो भवेत्।
उत्पत्ति
र्ब्रह्मचारीणगृहस्थानां स्थितिस्मृता॥*
यतीनां संहृतिं न्यासविधिर्भवति नान्यथा।
उत्पत्यादिप्रभेदेन वक्ष्यते ते वरानने॥
न्यसेत्पूर्वं करन्यासं देहन्यासमनन्तरम्।
अङ्गन्यासं ततः पश्चादक्षराणां विधिक्रमात्॥
मूर्धादिपादपर्यन्तमुत्पत्तिन्यास उच्यते।
पादादिमूर्धपर्यन्तं संहारो भवति प्रिये॥
हृदयाद्यागऴं न्यासस्थितिन्यास उदीर्यते।
ब्रह्मचारी गृहस्थानां यतीनां चैव शोभने॥
सशिरस्कं ततो देहसर्वमन्त्रेण संस्पृशेत्।
सदेहन्यास इत्युक्तः सर्वेषां सम एव सः॥
दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्तमेव च।
न्यासोऽयं तत्तदुत्पत्तिर्विपरीतस्तु संहृतिः॥
अङ्गुष्ठादिकनिष्ठान्तं न्यसेद्वै हस्तयोर्द्वयोः।
अतीव भोगदायि स्यात् स्थितिन्यासः कुडुम्बिनम्॥
करन्यासं पुरा कृत्वा देहन्यासमनन्तरम्।
अङ्गन्यासं न्यसेत्पश्चात् देवं साधारणो विधिः॥
ओङ्कारं सम्पुटीकृत्य सर्वैङ्गेषु च विन्यसेत्।
करयोरुभयोश्चैव दशस्वङ्गुलिषु क्रमात्॥
स्मरेत्पूर्वमृषिश्छन्दं देवता बीजमेव च।
शक्तिं च परमात्मानं रुद्रं चैव वरानने॥
मन्त्रेण पाणिसंस्पृश्य तलयोः प्रणवं न्यसेत्।
अङ्गुलीनां च सर्वासां तथा चाद्यन्तपर्वसु॥
सिध्यन्तु तानि बीजानि पञ्च मध्यानि पर्वसु।
उत्पत्यादिप्रभेदेन न्यसेदाश्रमतः क्रमात्॥
उभाभ्यामथ पाणिभ्यामापादतलमस्तकम्।
मन्त्रेण संस्पृशेद्देवं प्रणवेनैव सम्पुटम्॥
मूर्ध्नि वक्त्रे च हृदये गुह्ये च चरणे तथा।
कण्ठे चैव न्यसेदेव प्रणवादीनि भेदतः॥
कृत्वा तु न्यासमेवं हि मुखानि परिकल्पयेत्।
षडङ्गानि न्यसेत् पश्चात् यथास्थानं च शोभने॥
प्रणवं हृदयं विद्यात् नकारश्शिव उच्यते।
शिखा मकार आ ॥। तः शिकारः कवचं तथा॥
वकारो नेत्रमस्त्रं तु यकारः परिकीर्तितः।
इत्थमङ्गानि विन्यस्य ततो वै बन्धयेद्दिशः॥
अत्र प्रणवसम्पुटो द्विजानामेव शूद्राणां वाकार एव ।
विघ्नेशो मातरो दुर्गा क्षेत्रज्ञो दिश(शा)सु क्रमात्।
आग्नेयादिषु कोणेषु चतुष्वपि यथाक्रमम्॥
अङ्गुष्ठतर्जन्यग्राभ्यां संस्थाप्य सुमुखान् शुभे।
क्षमध्वमिति चोक्त्वा तु नमः कुर्यात् पृथक् पृथक्॥
तलमध्ये तथाङ्गुष्ठे तर्जन्यामङ्गुलीषु च।
अङ्गुष्ठेन करन्यासः क्रमादेवं विचक्षणः॥
एवं न्यासमिदं प्रोक्तं सर्वपापहरं शुभम्।
सर्वसिद्धिकरं पुण्यं सर्वरक्षाकरं शिवम्।
न्यस्तमास्त्रे शुभेऽयं तु शङ्करप्रतिमो भवेत्॥
जन्मान्तरकृतं पापं विनश्यत्येव तत्क्षणात्।
एवं विधाय मेधावि शुद्धाकारो दृढव्रतः॥
जपेत् पक्षा(ञ्चा)क्षरीमन्त्रं लब्ध्वाचार्यप्रसादतः।
(जपस्थानम्)
जपस्थानमाह –
गृहे जपः समं विद्यात् गोष्ठे शतगुणं भवेत्।
नद्यां शतसहस्रं तु अनन्तं शिवसन्निधौ॥
समुद्रतीरे देवगृहे ॥। रौ देवालयेषु च।
पुण्याश्रमेषु सर्वेषु जपं कोटिगुणो भवेत्॥
शिवस्य सन्निधाने च सूर्यस्याग्नेर्गुरोरपि।
… स्यदं जापकस्य जपकर्म प्रदर्श्यते॥
अङ्गुलीजपसङ्ख्यानमेकमेकं वरानने।
रेखाभिरष्टकं विद्यात् पुत्रं जीवफलैर्दश॥
शतं वै शङ्खमणिभिः ॥॥॥ लश्च सहस्रकम्।
स्फाटिकैर्दशसाहस्रमौक्तिकैर्लक्षमुच्यते॥
पत्मा(द्मा)क्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते।
कुशग्रन्ध्या च रुद्राक्षैरनन्तु(त)गुणितं भवेत्॥
पञ्चविंशति मोक्षार्थं सप्तविंशति पौष्टिकम्।
त्रिंशच्च धनसम्पत्तिः पञ्चदश्याभिचारकम्॥
अङ्गुष्ठं मोक्षदं विद्यात् तर्जनी शतृनाशिनी।
मध्यमा धनतानाशां शान्तिं करोत्येषा त्वनामिका॥
कनिष्ठा रक्षणीया सा जपकरमणि शोभने।
अङ्गुष्ठेन जपेज्जप्यमानैरङ्गुलिभिस्सह॥
अङ्गुष्ठेन विना कर्मः(कर्म) कृतं तदफलं यतः।
शृणुष्व सर्वयज्ञेभ्यो जपयज्ञो विशिष्यते॥
हिंसायते प्रवर्तन्ते जपयज्ञेन हिंसया।
धावन्तः कर्मयज्ञास्युः व्रतानि च तपांसि च॥
सर्वे ते जपयज्ञस्य कलान्नार्हन्ति षोडशीम्।
माहात्म्यं विचकस्यैव जपयज्ञस्सकीर्तितः॥
तस्मात् श्छतगुणोपांशु सहस्रो मानस स्मृतः।
यदुच्चनीचस्वरितैश्शब्दैस्पष्टपदाक्षरैः॥
मन्त्रमुच्चारयेद्वाचा जपयज्ञे स वाचकः।
शनैरुच्चारयेन्मन्त्रमीषदोष्ठं प्रचालयेत्॥
किञ्चित् कर्णान्तरं विद्यादुपांशु स जपस्मृतः।
शब्दार्थं चिन्तयेत् भूयः स उक्तो मानसो जपः॥
त्रयाणां जपयज्ञानां श्रेयस्यादुत्तरोत्तरम्।

(जपकर्मनियमः)
जापकस्य नियममाह -
उष्णीषं कञ्च्यकी(कञ्चुकी) नग्नो मुक्तको शोगऴावृतः।
अपवित्रकरो शुद्धः प्रलपन्न जपेत् क्वचित्॥
क्रोधो मान्द्यक्षुधा तत्र निष्ठीवनविजृम्भणे।
श्वनी च दर्शनं निद्रा वर्ज्या ॥॥। वै तु जपेद्विजैः॥
एतेषां सम्भवे चापि कुर्यात् सूर्यादिदर्शनम्।
आचम्य वा जपेश्छेषं कृत्वा वा प्राणस॥।यमम्॥
सूर्योऽग्निचन्द्रमाश्चैव ग्रहनक्षत्रतारकम्।
एते ज्योतींषि च प्रोक्ता विद्वद्भिर्ब्राह्मणैस्सहिस्तथा॥
प्रासार्य पादौ न जपेत् कुक्कुटासन एव वा।
अनासनः शयानो वा रथ्यायां शूद्रसन्निधौ॥
रिक्तभूम्यां च खन्वायां न जपेत् जापक स्वयम्।
सनस्थो जपेत् सम्यक् मन्त्रं स्वगतमानसः॥

॥अथ ध्यानक्रमः॥
भ्रूमध्ये ब्रह्मरन्ध्रे वा अमूर्तिसादाख्यं शिवसादाख्यं वा ध्यायेत्। तदशक्तेः
मालाधारादिस्थानेषु
ध्यायेत्। तद्यथा।
(विनायकध्यानम्)
मूलाधारे चतुष्पत्रपत्म(द्म)मध्ये विनायकम्।
गजवक्त्रं च रक्ताभं त्रिणेत्रं च महोदरम्।
दन्तपाशाङ्कुशापूपचारुबाहुचतुष्टयम्॥
महादेवसुतं मूलमन्त्रमूर्तिमहं भजे।
(ब्रह्मध्यानम्)
स्वाधिष्ठाने च षट्पत्रपत्मे(द्मे) वाणिपतिं विभुम्॥
हेमाकारं चतुर्वक्त्रं शुभ्रवस्त्रोपवीतिनम्।
सृगक्षमालाकलशं दण्डचारुचतुर्भुजम्॥
नेत्रोष्टकसमायुक्तं नित्यं वन्दे पितामहम्।
(विष्णुध्यानम्)
मणिपूरकसञ्ज्ञे च पञ्चयुग्मदऴाब्जके॥
लक्ष्मीकटन्तं च नीलाभं शङ्खचक्रगदाधरम्।
श्रीवत्सलाञ्छनं देवं पीताम्बरविराजितम्॥
वनमालां किरीटं च कुण्डले च विधारिणम्।
अभयं सर्वदेवानाम् अम्बुजाक्षमनामयम्॥
अनेकादित्यसङ्काशं वन्दे विष्णुमतन्द्रितम्।
(रुद्रध्यानम्)
अनाहते द्विषट्पत्रपत्म(द्म)मध्ये महेश्वरम्॥
क्षीराभं कालकण्ठं च त्रिणेत्रं चन्द्रशेखरम्।
गङ्गा॥।रं चतुर्बाहुशूलाग्निवरदान्वितम्॥
ज्ञानमुद्राधरं देवं नागेन्द्रकृतकङ्कणम्।
पुण्डरीकाजिनधरं भूतिशोभितविग्रहम्॥
प्रलयोदयकर्तारं वन्दे रुद्रं पिनाकिनम्।
(महेश्वरध्यानम्)
विशुद्धाख्ये च युग्माष्टदलपत्मे(द्मे) महेश्वरम्॥
शङ्खकुन्देन्दुशोभाढ्यं शूर्दूलाजिनवाससम्।
इन्दुगङ्गाजटाचूटमहेशाख्यं महाद्युतिम्॥
अर्केन्दुवह्निनयनं कालकण्ठमनामयम्।
चण्डांशुकोटिसदृशं सर्पयज्ञापवीतिनम्॥
वरदाभयशोभाढ्य वामदक्षिणबाहुकम्।
परमशं च मृगं चापि दधानं चात्मरूपिणम्॥
वामे माहेश्वरीयुक्तं वन्दे देव महेश्वरम्।
(सदाशिवध्यानम्)
आज्ञायां द्विदऴे पत्मे(द्मे) परमात्मानमव्ययम्॥
शुद्धस्फटिकसङ्काशं द्वित्रिंशत् लक्षणान्वितम्।
बद्धपत्मा(द्मा)सनं पञ्चवर्णवक्त्रं मनोहरम्॥

त्रिपञ्चनयनं चार्धसोमचूडं शुभावहम्।
दशबाहुसमायुक्तचित्रकायाजिनाम्बरम्॥
वरदाभयसंयुक्तवामदक्षिणहस्तकम्।
शूलं वज्रं तथा खड्गं परशुं पाशमेव च॥
नाशं वह्निं च घण्टां च धारिणं शान्तरूपिणम्।
पञ्चावरणसंयुक्तं पञ्चकृत्यपरायणम्॥
पञ्चाक्षरपरं देवं पञ्चमन्त्रमहातनुम्।
अष्टत्रिंशत्कलोपेतमादिमध्यान्तवर्जित्॥
विद्यानामादिभूतेशं बिन्दुनादसमन्वितम्।
र्वालङ्कारसम्पूर्णं षट्त्रिंशत्तत्वनायकम्॥
मनोन्मनी समायुक्तं वन्दे देवं सदाशिवम्।
(गुरुमूर्तिध्यानम्)
षडाधारात्परे मूर्ध्निसहस्रदलपङ्कजे॥
गुरुनाथं कृपामूर्तिं जपाकुसुमसन्निभम्।
द्विनेत्रं द्विभुजं शान्तं रक्तवस्त्रानुलेपनम्॥
रक्तोत्पलधरं नित्यं माणिक्कमकुटोज्वलम्।
तत्वातीतं परं शक्तं साक्षान्मुक्तिप्रदायकम्॥
सन्मार्गदेशिकं वन्दे सच्चिदानन्दविग्रहम्।

॥भिक्षाविधिः॥
विरक्तस्तु मध्य॥।च पूर्ववत् ॥॥नसन्ध्या शिवार्चन। ॥॥ वा भिक्षां चरेत्।
भिक्षानि सान्तानिक अयाचित माधूकरकणभिक्षाभेदात्। चतु
॥॥तासु आचार्यस्य सान्तानिकी तथा (चोक्त)॥॥।श्वसादाख्ये।
शिष्यादि॥॥।शैवसन्तानं तन्निवेदितम्।
द्रव्यं यत् गुरवे सा हि भिक्षा सान्तानिकी स्मृता॥
अन्नादिभूमिपर्यन्ता भिक्षा सान्तानिज स्मृता।
तपस्विनस्त्वय॥॥चितैव। तदुक्तं तत्रैव –
किरातनटकैवर्तगोपालपुरुषादिभिः।
पतितैश्चाभिशस्तैश्च त्यजेत् दत्ताम याचिताम्॥
अयाचितात शुद्धान्नमादरेण समन्वितम्।
विविदिषोऽस्तु माधूकरवृत्तिरेव नियमः। अत्र क्रमः। मध्याह्नपूजानन्तरं परादौ
प्रक्षाऴ्याचम्य न्यासं कृत्वा तत्रादिपञ्चलोहनि
र्मितं वा उदुम्बरादियाज्ञिकवृक्षनिर्मितपात्रं वा
पलाशमधूककदम्बामृचम्बकाद्यनिषिद्धपात्रनिर्मितपात्रं वा हृदयेनाम्बुना
प्रक्षाऴ्य
निरीक्षणादिभिस्ससंस्कृत्य तत्र ज्वजद्वह्निनिभमघोरं हृदयं वा विन्यस्य
धेनुमुद्रां प्रदृश्य
तदाच्छादकवस्त्रे कवचं र्ध्वललाटमात्रे अङ्गुष्ठमात्रस्थूले दण्डे
अस्त्रं विन्यस्य शिवं गुरूं प्रणम्य लब्ध्वानुज्ञः दक्षिणहस्ते भिक्षापात्रं वामहस्ते
दण्डं च सङ्गृह्य शिवं स्मनर् यायात्। भक्षाटनकाले सर्वभूतहिताय
शिवमन्त्रमनसोच्चरन्।
अन्यां दिशं नावलोकयन् पादाङ्गुष्ठन्यस्तलोचनः।
कुत्सितनिष्ठीवनसंस्पर्शनाभिवादनामर्षपादप्रक्षेपणादिकम्। अकुर्वन् मौनीभूत्वा
अभिशस्तपतितवर्जितब्राह्मण
क्षत्रियवैश्यगृहे जात्युद्धरशिवसंस्कारयुक्तसच्छूद्रगृहेषु शुद्धमङ्गणं गत्वा
गोदोहनमात्रकालं तिष्ठन् गर्भिणी रोगिणी मलिनी मलिनवस्त्रधारिणी भृ{भू}तकी दासी
ऋतुस्नाताश्च विहाय कुलाङ्गनाय दत्तां दर्व्या हस्तेन कं(कां)सपात्रेणानीतमन्नम्
अस्त्रेण सम्प्रोक्ष्य। शिवायेति भिक्षां
गृ[ग्र]हीयात्। गोदोहनमात्रकाले भिक्षा यान्नदत्तायां गृहान्तरं व्रजेत्। निर्गमनसमये
अङ्गणान्तःप्रवेशमध्ये आह(ग)तश्चेत् तत्रैव स्थित्वा भिक्षां
गृह्णीयात्। ततो बहिर्निर्गतश्चेत् तृष्णीमेव गृहान्तरं व्रजेत्। एवमुदरपूरणपर्याप्तमटित्वा
स्वाश्रमं व्रजेत्। तदनु भिक्षापात्रं शुद्धभूमौ निधाय पादौ

प्रक्षाऴ्याचम्य भस्मस्नानं कृत्वाचम्य न्यासं कृत्वा शिवमष्टपुष्पिकया सम्पूज्य
भिक्षान्नमन्तर्यामिनो शिवं विहाय होमार्थं किञ्चिदुद्धृत्य अवशिष्टमन्नं
निरीक्षणादिभिः
संशोध्य शिवाय निवेदयेत्। मार्गे सामान्यस्पर्शादिसम्भवे स भिक्षापात्रं स्नात्वा
निरीक्षणादिभिः संस्कृत्य भस्मस्नानादिकं पूर्ववत् कृत्वा शिवाय
निवेदयेत्। चण्डालादिभिस्पृष्टश्चेत् भिक्षान्नं
त्यक्त्वा स्नायात्। गुरुसन्निधाने चेत् तत्सन्निधौ समर्प्य तत् दत्तप्रसादं भञ्जीयात्।

(भोजनविधिः)
अत्र क्रमः।
गोमयवारिणा हस्तमात्रं चतुरश्रमण्डलं कृत्वा सितचूर्णेन
समयीपुत्रकसाधकाचार्याणामेकद्वित्रिचतुरेखातः कृत्वा पूर्वाभिमुखो भूत्वा
तत्र पलाशादिपत्रैरनिषिद्धैरेकजातीयैर्विरचितम्। प्रक्षाऴितं मन्त्रं विन्यस्य
निरीक्षणादिभिस्संस्कृत्य
अघोरेण सप्तवारमभिमन्त्र्य शिवाय अनिवेदितान्नम् अकलं शरच्चन्द्रसदृशं मृत्युञ्जयं
ध्यात्वा।
॥। ज्रं सः मृत्युञ्जयाय वौषडिति। सप्तधाभिमन्त्रित
जलेन सम्प्रोक्ष्य अमत्रे विन्यस्य नि ॥॥॥॥। दिभिः संस्कृत्य मृत्युञ्जयेनाभ्युक्ष्य
वौषडन्तमृत्युञ्जयेन सप्तवारमभिमन्त्र्य कवचेन जलेन परिसृतं (leaf ५५ तो ६५ मिस्सिन्ग्)
(पवित्रारोपणविधिः)
॥॥॥॥॥।
प्रायश्चित्तं हुत्वा पूर्णां विधाय पूर्वव ॥॥। रुं सम्पाद्य पूर्ववद्विभजेत्।

ततः सूर्याय चरुं निवेद्य तद्वारपालगणपतिं गुरूंश्च पवित्रेणानुमोद्य
सूर्यनामविशिष्टं कालात्मनेत्यादि पठित्वा सूर्यमन्त्रे(ण) पवित्राणि दत्वा
तदङ्गभूतसोमाद्यष्टग्रह(हा)णां च पवित्रं दत्वा जप्त्वा निवेद्याचम्य
कृतसकऴीकरणः। शान्त्यादिभ्यः पवित्रं
दत्वा जप्त्वा निवेद्याचम्य कृतसकऴीकरणो नन्द्यादिभ्यः पवित्रं दत्वा वास्तोष्पतये
महालक्ष्म्यै
लोकपालेभ्यश्च पवित्रं समर्प्य कुम्भवर्धिन्योश्च गणपतिं गुरुभ्यश्च
समारोप्य चरुं निवेद्य नमः कालात्मनेत्यादि पठित्वा पवित्राणि समारोप्य एवं
मण्डलस्थाय भगवते पवित्राणि दत्वा शिवं सम्पूज्य व्रतचर्याद्यङ्गानि यथास्थानं

निवेद्य तद्दिन द्धि द्धं पञ्चगव्यं चरुं निवेद्य नित्यवत् द्वारपालाभ्यां गणपतिं
गुरुभ्यां शिवासनाय च पवित्रेण सम्पूज्य देवं
सप्रकृतिमण्डलाभनन्दितं वरदानोद्यतमभिध्यात्वा कालात्मकं
शिवं स्मरेत्। वर्षायनमासपक्षदिनयामघटिकाप्रमाणादि विग्रहम्।
सर्वेन्द्रियशरीरार्थव्यवहारैककारणम्। कृताकृतसमुत्सृष्टक्लि
ष्टकर्मैकसाक्षिणम्। क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसम्। पवित्राणि समादाय
धूपयन् किञ्चित् सम्मुखो विज्ञापयेत्।

कालात्मना त्वया देव यद्दृष्टं मामके विधौ।
कृतं क्लिष्टं समुत्सृष्टं हृष्टं हुतं गुप्तं समुत्कृतम्॥
तदनु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसत्कृतः।
सर्वात्मना मुना शम्भोः पवित्रेण त्वदिच्छया॥
पूरय
पूरय मखव्रतनियमेश्वराय स्वाहेत्युच्चार्य। प्रकृत्यन्तव्याप्तिके ब्रह्मकारणपालिते
आत्मतत्वे। हां हौम् आत्मतत्वाधिपतये शिवाय स्वाहेति मायान्तमुच्चार्य
शुद्धविद्यातत्वान्तव्याप्तिके विष्णुकारणपालिते विद्यातत्वे हां हौं विद्यातत्वाधिपतये
शिवाय स्वाहेतीश्वरान्तमुच्चार्य शिवान्तव्याप्तिके रुद्रकारणपालिते
शिवतत्वे
हां हौं शिवतत्वाधिपतये शिवाय स्वाहेति शिवान्तमुच्चार्य क्रमेण दूर्वापुष्पाक्षतोपेतं
लिङ्गमूर्ध्नि पवित्रं दद्यात् मुमुक्षुः बुभुक्षुस्तु शिवतत्वाद्युच्चार्य दद्यात्।
पश्चात् सर्वकारणपालिते सर्वतत्वे। हां हौं सर्वतत्वाधिपतये शिवाय स्वाहेति
लयान्तमुच्चार्य सर्वतत्वात्मकं गङ्गावतारं दत्वा ब्रह्माङ्गेभ्यश्च पवित्राणि दत्वा
मूलं
लयान्तमुच्चार्य पुष्पाञ्जलिं शिवाय दत्वा
महामुद्रया परमीकृत्य पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्।
त्वं गतिस्सर्वभूतानां संस्थितसत्वं चराचरे।
अन्तश्चरेण भूतानं द्रष्टा त्वं परमेश्वर॥
कर्मणा मनसा वाचा त्वत्तो नान्यो गतिर्मम।
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं च यत्कृतम्॥
जपहोमार्चनाहीनं कृत्यं नित्यं मया तव।
अकृतं वाक्यहीनं च तत्* पूरय महेश्वर॥*
सं(सु)तस्त्वं सुरेशानपवित्रं पापनाशनम्।
त्वया पवित्रितं सर्वं जगत्स्थावरजङ्गमम्॥
खण्डितं यमया देव व्रतं वैकल्ययोगतः।
एकीभवतु तत्सर्वं जन्तवाज्ञासूत्रगुम्भितम्॥ इति विज्ञाप्य

धूपदीपारात्रिकभस्मदर्पणश्छत्रचामराणि दत्वा   

नन्द्यादिभूस्त्रयमानं सन्तुष्टं विभाव्य
अमृतीकरणपरमीकरणे विधाय जप्त्वा निवेद्य ब्रह्माङ्गानां दशांशं जप्त्वा निवेदयेत्।
अचार्यः सर्वदेवेभ्यः पवित्रमारोपयेत्। साधकः साध्यमन्त्रस्यापि
दद्यात्। देवं स्तोत्रैस्तुत्वा प्रणम्य क्षमापयित्वा कुण्डान्तिकमागत्याग्निस्थाय भगवते
पवित्राण्यारोप्य
विश्छिद्रपूर्तिकस्थैर्याय शताधिकं जुहुयात्।
ततश्चरूं हुत्वा प्रायश्चित्तार्थं मूलेन शतं हुत्वा पूर्णां विधाय
नैवेद्याचमनताम्बूलादि निवेद्य भस्मचन्दनं विधाय शिवं निरुध्य अग्नये पवित्रं
दत्वा निरुध्या
ग्निं हुत्वा पूर्णां विधाय स्विष्टकृता हुत्वा परिधिविष्टरस्थेभ्यः सपवित्रकं बलिं
दत्वा। निरुध्यान्तबहिर्बलिं च सपवित्रं दत्वा श्रोत्रवन्दनपूर्वं सकऴीकृत्य
गुरवे सिद्धां पुस्तकेषु पवित्रं दत्वाग्निं निरुध्य
मण्डलस्थं शि ॥॥। (पूज्य समापय)। लिङ्गस्थं कुम्भस्थं च सम्पूज्य निरुध्य
लोकपालान् यागरक्षायै सम्भाव्य
यथाशक्ति भोजनाचछादनादिभिर्दीक्षितान् सम्भाव्य
दीनान्धकृपणानाथबालवृद्धकृशातुरादींश्च सन्तोष्यानेन प्रीयतां मे सदाशिव इति
ब्रूयात्। ततः
शिष्यैः सह भुञ्जीत।

अपरेद्यु स्नात्वा सन्ध्यां निवर्त्य शिवात् सर्वपवित्राण्याहृत्य पूर्वदिनवत्   

शुद्धपात्रे निधायाष्टपुष्पिकया देवमभ्यर्च्य
नित्याह्निकद्वयनिर्वर्त्य नैमित्तिकीं सन्ध्यां पूर्वादीशान्तवत् सूर्यादि पूजादि शिवपूजान्तं
निर्वर्त्याग्नौ मन्त्रतर्पणं विधाय चरुं सम्पाद्य निवेद्य
सूर्यादीनां यथापूर्वं पवित्राण्यारोप्य शिवायापि द्रव्यनिवेदनपूर्वं पूर्ववत्
पवित्राण्यारोप्य
जपान्तं कर्म निर्वर्त्य वह्निस्थमपि
सन्तर्प्य चरुं निवेद्य प्रायश्चित्तार्थं मूलेनास्त्रेण वाघोरेण वा शतं हृत्वा पूर्णां
विधाय भुक्तिकामे भगवन् ममास्तु फलसाधकमिति।
वृत्तं शिवाय समर्पयेत्। मुक्तिकामस्तु कर्मेदं मास्तु मे नाथ बन्धकमिति कर्म निवेद्य
वह्निस्थाय नैवेद्याचमनचन्दनताम्बूलानि दत्वा भस्मवन्दनं कृत्वा
वह्नौ प्रविश्याष्टपुष्पं दत्वा
नाडीयोगेन वग्नि(ह्नि)स्थं भवन्तं मण्डलस्थं मूलशिवे संयोज्य वह्नेर्मन्त्रान्
संहृत्य द्वादशान्तं नीत्वा निसृत्य स्वहृदि तन्निवेश्य तमपि
विसर्जयेत्। यद्वा चण्डपूजान्ते तमपि सम्पूज्य यथाशक्ति हुत्वा विसर्जयेत्।
परिधिविष्टरानुद्वास्य बलिं दत्वा स्तोत्रवन्दनपूर्वं सकऴीकृत्य मण्डलस्थमपि कुण्डे

संयोज्य कुम्भास्त्रवर्धिन्योर्मन्त्रान् संहृत्य यागेश्वरे संयोज्य
सापेक्षं क्षमस्वेति विसृजेत्। अन्यांश्चाष्टपुष्पिकया सम्पूज्याधिकरणानुरूपं
सापेक्षनिरपेक्षया विसृज्य यागेशं नित्यवत् शिवगायत्र्याभ्यर्च्य पवित्राणि चण्डार्थं
संरक्ष्य देवं पुनस्संस्नाप्य सम्पूज्य विसृज्य सूर्यं च यथार्हं
विसृजेत्। ततो दिक्पालान् द्वारपालादीन् प्रतिलोम्येन विसृज्य देवात् शुद्धपवित्राणि
यथान्यायमाहृत्य।
बाणलिङ्गे चले लोहे रत्नलिङ्गे स्वयम्भुवि।
प्रतिमासु च सर्वासु स चण्डोऽधिकृतो भवेत्।
चललिङ्गे च लोहे च बाणलिङ्गे स्वयं भुवि॥
न चण्डोऽधिकृतस्तत्र विशेषाद्रत्नलिङ्ग इति। सोमशम्भुपद्धत्यादिवचनात्।

एतद्व्यतिरिक्तलिङ्गेषु निवेदितं गृहस्थः चण्डाय निवेदयेत्। मण्डले स्थण्डिले   

वा चण्डाराध्य पवित्राणि समारोप्य शेषं पूर्ववत्
निर्माल्यपवित्राणि दत्वा तं विज्ञापयेत्।
यत्किञ्चिद्वार्षिकं कर्म कृतं न्यूनाधिकं मया।
तदस्तु परिपूर्णं मे चण्डनाथ तवाज्ञया॥ इति
तदनु स्तुत्वा नत्वा चण्डाग्नौ
चण्डमाराध्य शतं हुत्वा विसृज्यार्धकूपादिके निर्माल्यं प्रक्षिप्य पवित्राण्यग्नौ दत्वा
अग्नौ विसृजेत्। ततो भूमि(मिं) गोमयेन
संशोध्याचम्य सकऴीकृत्य पुनर्देवं संस्नाप्य पूजयेत् सद्योऽधिवासे सूर्यादीनां
मण्डपार्चितानां पूर्वोक्तक्रमेण गन्धपवित्रदानानन्तरं
शुद्धपवित्रं दत्वा देवस्यापि गन्धपवित्रं ददयात्।
पश्चादष्टपुष्पं दत्वा शुद्धपवित्राण्यारोप्य वह्नावपि
गन्धपवित्रशद्धपवित्राण्यारोप्य शेषं पूर्ववत् कृत्वा
पूर्वोक्तवत् यां विसृजेत्। ततः शुद्धपञ्चगव्यं प्राशयेत्।
गुरुश्शिव इवाभ्यर्च्यो वस्त्रवित्तविभूषणैः।
तुष्टेन गुरुनाथेन तुष्टो भवति शङ्करः॥
सर्वं च सफलं* तस्य क्रियाकाण्डादिवार्षिकम्।*
यस्य तुष्टो गुस्स(गुरुस्स)म्यगित्याहस परमेश्वरः॥
पञ्चयोजनसंस्थोऽपि शिष्यः पवित्रः गुरुसन्निधौ निर्वर्तयेत्। ततः परं दूर
स्थितो शक्तश्चेत् स्वसान्तानिकैर्ज्येष्ठैः सह निर्वर्तयेत्। तदभावे स्वयमेव निवर्तयेत्।
पवित्रकरणो शक्तश्चेत् शिवकूर्चं प्राश्य क्षीराहारनिय
मयुक्त एव लक्षमघोरं जपेत्। इति पवित्रारोहणविधिः॥
॥ चातुर्मास्यव्रतम् ॥
अथ सन्यासि चातुर्मास्यव्रतं कुर्यात्। तद्यथा मिथुनशुद्धद्वादशीमारभ्य
तुला शुद्धद्वादशीप
र्यन्तं विष्णो स्वापकालः मिथुनमासे अमावास्यद्वयं चेत् अधिकनिजभेदेन द्विराषाढो
भवति। तदा कर्कटकशुद्धद्वादशीमारभ्य वृश्चिकशुद्धद्वादशी पर्यन्तं
स्वापकालः।
तदुक्तं मोहशूरोत्तरे –
स्वापस्तु मिथुने विष्णोः शुक्लद्वादशिका तिथौ।
मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत्॥
द्विराषाढो स विज्ञेयो विष्णुस्थपति कर्कट। इति *
विष्णोस्वापकाले शिवात्मकं चातुर्मास्यव्रतं यतिना अवश्यं कर्तव्यम्।
चातुर्मास्यं च यत्नेन व्रतं चैव शि
वात्मकम्।*
स्वशक्त्या वाथ कर्तव्यं भौतिकैर्नैष्ठिकैस्तथा॥

भौतिकस्य एकभुक्तं क्षारलवणादिवर्जनं च नियमः। पूर्वमेवानुकूलं
स्थानमाश्रित्य मृत् भस्म दन्तकाष्ठादीनि सम्पादयेत्।

तदुक्तं पौष्करे –
सङ्कल्प्य चतुरो मासान् स्थानमाश्रित्य वाञ्छितम्।
कार्यो नियमतस्तत्र मृत्भ(द्भ)स्मादिपरिग्रहः॥
सुप्रभेदे च –
मृत्भ(द्भ)स्मदन्तकाष्ठानि भूतसूत्रादि सङ्ग्रहेत्। इति

तत्रादौ भस्मसङ्ग्रहविधिः। कपिलागोमयं वा
पूर्वोक्तलक्षणयुक्तधेनुगोमयं वा सितवृषभगोमयं वा वसन्ते ग्रीष्मे वा
पूर्वोत्तरहेयांशं विहाय मध्यमांशं कठिनं भूतलनिसृष्टं पत्म(द्म)पत्रे
सद्येन
सङ्गृह्य गोमयोपलिप्तभूतले निक्षिप्य संशोध्य वामदेवेन पिण्डान्विधाय ओघोरेण
संशोष्य शिवाग्नौ तत्पुरुषेण निधाय बुसकुटैराश्छा(च्छा)

द्य दग्ध्वा ईशानेन सङ्गृह्य कार्ष्ण्यां शन्निरस्य आधारितशुद्धवस्त्रेण संशोध्य
नवकुम्भेन निक्षिप्य। ॥॥॥॥ । कृष्मगन्धकर्पूरो(शी)रह्रीबेरकेतक
चम्बकदमनकादिभिर्वासयेत्। अथवा वन्यगोमयोपलानाहृत्य पेषणं कृत्वा गोजलेन
सद्योजातेन सिक्त्वा शेषं पूर्ववत् कुर्यात्। उत्सवशिवाग्निभ
स्म वा विरजानलभस्म वा सङ्गृह्य
पूर्वोक्तवत् वासयेत्। अथ शौचार्थं मन्त्रकां स्नानार्थं समन्त्रकां
पूर्वोक्तलक्षणयुक्तां मृत्तिकां दन्तकाष्ठानि च सम्पादयेत्।
ततः
पञ्चाशत्सूत्रसंयुक्तमेखलात्र्यंशलम्बिता।
अष्टाङ्गुलाथवा कार्यः स्वनितम्बप्रमाणतः॥
एकाङ्गुलाधिका कार्या स्वनितम्बप्रमाणतः।
नातिस्थूलं कृशं छिन्नं बहुसन्धि सगुल्मकम्॥
समलं चान्यदोषाढ्यं दूरतः परिवर्जयेत्।
समलं जनयेत् पापं दग्धं राजभयङ्करम्॥
स्थूलं व्याधिकरं मिश्रं कृशं द्रव्यक्षयङ्करम्।
मृतितश्छिन्नतन्तु स्यात् सन्धितं गुल्मयुक् तथा॥
ग्रन्धिकेशाढ्यमप्यस्मान्निर्मलं दृढमाहरेत्। इति वचनात्।
एतादृशदोषरहितं
कटिसूत्रं सम्पादयेत्। अथ कौपीम् एकहस्तं वा द्विहस्तं वा सहिसितं द्वादशाङ्गुलं
दशाङ्गुलमष्टाङ्गुलं वा स्वदेहानुगुणायामविस्तारसहि
तं कार्पासादिकं स्वतन्त्रनिर्मितमखण्डं काषायकौपीनं सम्पादयेत्। कटिवेष्टनं च
सम्पादयेत्।
तदुक्तं चिन्त्यविश्वसादाख्ये –
हस्तं वापि द्विहस्तं वा कौपीनाधामकं भेवत्।
द्वादशाङ्गुलविस्तारं दशाङ्गुलमथाष्टकम्॥
कौपीनमेवमुक्तं तु कापा(र्पा)साद्यादिना भवेत्। इति
एवमेतानि शिष्यादिना सम्पादयित्वा
आषाढशुद्धपौर्णमास्यां खण्डतिथिसम्भावे उदयव्याप्तितथौ शिष्यादिभिस्वामिन्
यथाशक्ति सम्भावितैः पदात्यैरस्माभि शुश्रूषा क्रियते। अत्रैव स्थित्वा
चातुर्मास्यव्रतमनुष्ठेयमिति प्रार्थितस्सन् असति बाधके तथैव कुर्म इत्यङ्गीकृत्य
कृतमुण्डनो भूत्वा विधिवत् स्नात्वाचम्य नित्यपूजादिकं निर्वर्त्य
गुरुसन्निधौ ज्येष्ठ…।
षु सन्निधौ शिवसन्निधौ वा दैशकालानुगुणेन मासचतुष्टयं मासत्रयं मासद्वयं
मासमात्रं पक्षमात्रं सप्तदिनं दिनपञ्चकं दिनत्रयमेकदिनं वा गुरुणा
नियमितकालं वा
क्षीरफलमाधूकरेषु नियमेनान्यतमं सङ्कल्प्य लब्ध्वानुज्ञः। व्रतेश्वरपूजां कुर्यात्।
तदुक्तमचिन्त्यविश्वसादाख्ये –
चतुरस्त्रीनथ द्वै वामा समं मासार्धमेव वा।
सप्ताहं पञ्चरात्रं वा त्र्यहमेकाहमेव वा॥
गुरुणा वा यथोद्दिष्टं गृहीत्वा नियमं तथा।
पयसाथ फलेनापि भिक्षा वा अथ संयमी॥
नयेदेकाशनो मासान्वार्षिकाश्नि यमेन तु।
किरणे च –
वार्षिकांश्चतुरो सामान् नियमेन नयेत्खग।
नियमोऽपि क्रियाह्गत्वात् कार्यो दोषोऽन्यथा भवेत्॥

मोहगुरोत्तरे च –
चातुर्मास्यव्रतं देव *नियमं च तवाज्ञया। *
यथाशक्ति करिष्यामीत्याज्ञातस्तच्च निर्वहेत्॥ इति

अत्र व्रतेश्वरपूजाक्रमः –   

माध्याह्निकस्नानानुष्ठानादिकं निवर्त्य ॥।रे वा शिवालये वा
वस्त्रपुष्पदामभिरलङ्कृतमण्डपे प्रविश्य शक्रानलयोर्मध्ये सूर्यमण्डले शिवं
सम्पूज्य पादौप्रक्षाऴ्याचम्य भस्मना स्नात्वा मण्डपमध्ये
द्विहस्तचतुरश्रयुक्तायामष्टाङ्गुलोन्नतायां वेदिकायां दक्षिणपार्श्वे
कृष्णाजिनाद्यासनेषूपविश्य भूतशुद्धिं कृत्वा प्राणानायम्य
पञ्चब्रह्मषडङ्गाष्टत्रिंशत्कला
न्यासं कृत्वा सामान्यार्घ्यविशेषार्घ्यनिरोधार्घ्यपाद्याचमनपञ्चगव्यानि पूर्ववत्
संस्थाप्य द्रव्यमात्मशुद्धिं कृत्वा स्थाने वायुकोणे विघ्नेश्वरमावाहनादिज
पान्तं सम्पूज्य स्वामिन् चातुर्मास्य व्रतं करिष्यामि निर्विघ्नं कुर्विति विज्ञाप्य ईशानेन
स्वगुरुं शिवमन्त्रेण शिववत् सम्पूज्य स्वामि भवदुपदिष्टमार्गेण

चातु ॥।स्य व्रतं व्रतेश्वरपूजां च करिष्यामि। अनुज्ञां देहीति विज्ञाप्य लब्धानुज्ञः
तत्पश्चिमे तत्तत्सन्तानादिगुरुभूतम् ऋषिं चतुर्थ्यन्तेनात्मा गन्धपुष्पादिभिः
सम्पूज्य।
चत्वाराश्रमाः प्रोक्ताः प्रथमाचारलक्षणाः।
तेषां चतुर्णां चत्वारो मुनयोप्यवधारकाः॥
दधीचो गौतमोऽगस्त्यो दुर्वासाश्च यथाक्रमम्। इति
वचनात्।
तत्पश्चिमे स्वामिमुखं सन्यासाश्रमगुरुदुर्वाससमृषिगन्धपुष्पादिभिः
सम्पूज्य तद्दक्षिणे सूत्रपातेन चतुरश्रं मण्डलं कृत्वा पुनस्सूत्रपातेन तत्समन्ततो

दशधा विभज्य मध्ये द्विदऴं धवऴं पीतकर्णिका केसरं पत्म(द्म) निर्माय
स्थीयमिन्दुभागेन रक्ताभां कृत्वा गैणपूर्वदक्षिणपश्चिमुत्तरपश्चिमेषु द्वि द्वि दऴैः
पीतारक्तासितानि केसरकर्णिकादि चत्वारि पद्मानि निर्माय
वीथी स्वभागेन काञ्चनाभां कृत्वा लोकेशप्रतिरूपाणि द्वि द्वि पदानि चत्वारि
द्वाराणि कण्ठोपकण्ठयुक्तानि कृत्वा कोणचतुष्टयं चित्रं कुर्यात्। ततः
व्रतेश्वरमण्डलस्थपत्मं(द्मं) च पत्मे(द्मे)षु व्रतेश्वराणामीशानादि पञ्चब्रह्मणा

(त)त्तन्मन्त्रैरासनादि दत्वा ईशानादिमूर्तिं विन्यस्य पत्म(द्म)मध्यस्थान्
द्विभुजानेकवक्त्रान् त्रिणेत्रान् चन्द्रशेखरान् क्रमेण
कुङ्कुमाञ्जनारुणश्वेतवर्णा
न् कमण्डल्वक्षमालां त्रिशूलाभयखड्गखेटकनाराचकार्मुकनीलोत्पलबीजपूरधरान्
व्रतेश्वरां ध्यात्वा आवाहनादिभिः सम्पूज्य धूपदीपं च दत्वा
पश्चिमे। नमोन्तः सद्येन हृदयेन वा मृत्तिकाम्। उत्तरे वामदेवेन शिरसा वा आमलं
दक्षिणे अघोरेण शिखया वाक्षमालाकौपीनकटिसूत्रकटिवेषनभिक्षा
पात्राणि पूर्वे तत्पुरुषेण
कवचेन वा दन्तकाष्ठानि ईशान्याम् ईशानेन मूलेन वा पञ्चगव्यं निधाय
पुनर्व्रदेश्वरानष्टपुष्पिकया सम्पूज्य
शिष्यानीतभक्ष्यभोज्यलेह्यशोष्यपानीयादीनि विविधानि निवेद्य
हस्तोद्वर्तनमुखवासताम्बूलादीनि दत्वा धूपदीपारात्रिकादि समर्प्य
वृत्यमन्त्रमष्टोत्तर
शतं जप्त्वा निवेद्य प्रदक्षिणत्रयं कृत्वा द्वादशवारं साष्टाङ्गं प्रणम्य अनन्तरं
पूर्वोक्तवत् पञ्चगव्यं
प्राश्य पादौ प्रक्षाऴ्याचम्य भस्मना स्नात्वा
व्रतेश्वरसन्निधौ पूर्ववत् उत्तराभिमुखमुपविश्यासपुरस्सरं षोडशप्राणायामादि
चत्वारिंशदुत्तरद्विशतप्राणायामपर्यन्तं यथाशक्ति कुर्यात्। अथ
हृदयकमले अघोरमूर्तिं ध्यात्वा अष्टोत्तरसहस्रम् अधोरं जप्त्वा
सिद्धान्तशास्त्रश्रवणादिकं कुर्यात्। ततः सायङ्काले स्नानानुष्ठानादिकं निर्वत्य
रात्रौ
व्रतेश्वरसन्निधावुपोषित एव जागरं कुर्यात्। ततः प्रातरुत्थाय पूर्ववदनुष्ठानादिकं
निर्वर्त्य पूर्वदिनवत् सूर्यमण्डलस्थशिवं
विघ्नेश्वरं गुरूं सन्तानादिगुरुमाश्रमगुरुं व्रतेश्वरांश्च सम्पूज्य
स्तुतिप्रदक्षिणप्राणायामादिकं कृत्वा पराङ्मुखार्घ्यपुरस्सरं विसृजेत्।
ततः कौपीनकटिसूत्रकटिवेष्टनादिकं गुरवे समर्पितं धारयेत्। ततः
क्षीराद्यन्यतमाहारनियमेन
व्रतसमाप्तिपर्यन्तं तत्रैव स्थित्वा व्रतान्ते
व्रतेश्वरान् – दुर्वासमृषिं गुरुं च पूर्ववत् सम्पूज्य प्रतिपदियथेष्टं गच्छेत्। एतत्
सर्वं गुरोरसन्निधाने। गुरुसन्निधाने तु उक्तप्रकारेण गुरुक(कृ)तां
पूजां निषेव्य। पूजान्ते ईशान्यां वक्ष्यमाणलक्षणयुक्तपुष्पमण्डपे सिंहासनं
विन्यस्य तत्र दक्षिणामुखं स्वगुरुमेव शिवमन्त्रेण शिववत् आसनादिभिः सम्पूज्य

धूपदीपादिकं समर्प्य प्रदक्षिणत्रयं कृत्वा द्वादशवारं साष्टाङ्गं प्रणम्य
गुरुपादारविन्दद्वयं शिरसि निधाय स्तोत्रैः सन्तोषयेत्। गुरुः पञ्चयो
जनमध्यस्थितश्चेत् तत्रैव गत्वा तमेव सम्पूज्य तदुद्दिष्टप्रकारेण तत्रैव स्थित्वा
चातुर्मास्यव्रतं चरेत्। ततोऽप्यतिदूरस्थश्चेत् स्वसन्ताने
आश्रमज्येष्ठं पुरस्कृत्यते। नैव सह चातुर्मास्यव्रतं चरेत्। स्वाश्रमे
अन्यस्न्तानज्येष्ठसन्निहितश्चेत् तमभिवन्द्य तदनुज्ञातश्चातुर्मास्यव्रतं चरेत्। इति
अतिवर्णा
श्रमाचार्यशैवपरिपालकशिवाग्रयोगिविरचितायां क्रियादीपिकायां
पवित्रारोपणचातुर्मास्यव्रतविधिर्नाम तृतीयः पटलः।

॥दीक्षाक्रमः॥
अथ दीक्षाक्रमं वक्ष्यामः।
समयादिदीक्षायुक्तस्यैव चर्याक्रियायोगज्ञानपादेष्वधिकारात्। शिवभक्तः सत् गुरुं
प्रपद्य दीक्षां लब्ध्वा यथाधिकारं चर्यादिषु प्रवर्तते।

विना दीक्षां न मोक्ष स्यात् प्राणिनामिह साधनैः।
साधनं न विनाचार्यं तस्माद्देशिकमाश्रयेत्॥

प्रथमं सत् गुरुलक्षणमाह। सुप्रभेदे –   

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्शुद्धकुलोत्भ(द्भ)वाः।
आचार्यास्ते हि विज्ञेया नान्येषां तु कदाचन॥
द्विशतिकालोत्तरे च –
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः शुद्धास्तु साधकाः।
स्ववर्णादानुपूर्व्येण आचार्यास्तु षडाननः॥
क्रियापादे तु निपुणश्चर्यापादानुवर्तकः।
योगपादकृताभ्यासो ज्ञानपादानुरञ्जकः॥
एतत् गुणसमायुक्तान् गृह्णीयुस्तान्विचक्षणाः।
वायवीये –
शिवशास्त्रसमायुक्ताः पशुशास्त्रपराङ्मुखाः।
ब्राह्मणादिचतुर्वर्णा आचार्यास्तु प्रकीर्तिताः॥

अचिन्त्यविश्वसादाख्ये – आचार्यपदनिर्वचनम्।
ज्ञानयोगक्रियाचार्याः सम्यगाचारयोग्यतः।
तस्मादाचार्य इत्युक्तः सर्वभूतहिताय वै॥
आचार्यौ द्वौ समाख्यातौ विरक्तः प्रथमो भवेत्।
भौतिकस्तु द्वितीय स्यात् प्रथमे तु विशेषकौ॥
आजन्मब्रह्मचारी च यतिश्च तदनन्तरम्।
एवं द्वयं तु प्रथमे द्वितीये तु वयं भवेत्॥
गृहस्थश्च वनस्थश्च द्विक्रिये तु द्वयं भवेत्

सूतसंहितायाम् –   

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः।
अतिवर्णाश्रमी चैति क्रमात् श्रेष्ठा विचक्षणः॥
अतिवर्णाश्रमी प्रोक्ता गुरुः सर्वाधिकारिणाम्।
न कस्यापि भवेत् शिष्यो यथाहं पुरुषोत्तमः॥
अतिवर्णाश्रमी साक्षात् गुरूणां गुरुरुच्यते।
तत्समो नाधिकश्चास्मिन्लोकेस्त्येव न संशयः॥
योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान।
सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थदर्शिभिः॥
लक्षाध्यायी गुरुश्रेष्ठो भुक्तिमुक्तिफलप्रदः।
भवेत्तदुपदेशाद्वा संहितापरगो गुरुः॥
अचिन्त्यविश्वसादाख्ये –
एतेषां देशिकानां च लक्षणं सृणु सुव्रत।
अंहि(अहिं)सः सत्यवादी च विश्वजीवदयापरः॥
क्षमावान् शान्तचित्तश्च निग्रहानुग्रहे क्षमः।
समाचारयुतो दक्षो जपध्यानपरायणः॥
विज्ञानदीक्षासंयुक्तो गुरुभक्तिविशारदः।
ज्ञानयोगक्रियाचर्या चतुष्पादान्तशास्त्रवित्॥
डम्भाचारविनिर्मुक्तः क्षुद्रकर्म विवर्जितः।
शिष्याणां गुणदोषेषु विज्ञानी च जितेन्द्रियः॥
रागद्वेषविनिर्मुक्तः कृपया च समन्वितः।
समयानां च सर्वेषां ज्ञानाधारपरिग्रही॥
शिवानुभूतिसंयुक्तः संशयश्छदसंशयः।
क्षयकुष्ठादिरोगैश्च वीतिः परमसुन्दरः॥
निर्ममो निरहङ्कारो नृशंसो निर्विकल्पकः।
तमो विहीनशास्त्रज्ञः परमार्थविचिन्तकः॥
एवं लक्षणसंयुक्तोऽप्याचार्यवर उच्यते।
भौतिकोऽपि विशेषेण धर्मपत्नी समन्वितः॥
पूर्वोक्तलक्षणोपेतो भौतिकाचार्य उच्यते।
सन्यासाश्रममत्यन्तमुत्तमं दीक्षितं भवेत्॥

देवीकालोत्तरे –   

सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते।

स्वच्छन्दभैरवे –   

यस्यावलोकमात्रेण परानन्दोऽपि जायते।
गुरुं तमेव वृणुयात् नापरं मतिमान् नरः॥

अजिते –
धर्मार्थकाममोक्षाणां कर्ता यस्य गुरुस्मृतः।
विलयन्त्यन्त(ध)कारस्तु यथा सूर्यस्य सन्निधौ॥
गुरोर्निरीक्षणादेव सर्वपापैः प्रमुच्यते।
गुरु स्पर्शति हस्तेन यं यं पश्यति चक्षूषा॥
शिवं भवति तत्सर्वं शिवादेव प्रसादतः।
न लिप्यते मलेनैव पत्म(द्म)पत्रमिवाम्भसा॥
तस्मात् गुरुः शिवप्रोक्तो गुरुशक्तिर्मनोन्मनी।
दीक्षां शतसहस्रं तु पापिनां कृतवानपि॥
शिवज्ञानं हृत्ग(द्ग)तं चेत् ज्ञानार्थं तं समाश्रयेत्।
ज्ञानहीनं गुरुं प्राप्य कुतो मूर्तिरवाप्यते॥
शिलाशिलाश्रिता चापि यथा पारं न गच्छति।
तस्मात् सर्वप्रयत्नेन संश्रयेत् ज्ञानपारगम्।

सूतसंहितायाम् –   

यो विद्यासन्तति ज्ञानविहीनो देशिको भवेत्।
स घोरं याति नरकं नास्ति सन्देहकारणम्॥
यो विद्यासन्तति ज्ञानहीगीनो देशिको भवेत्।
स नभोभक्षणेनैव क्षद्व्याधिं न निवर्तते॥
यो विद्यासन्तति ज्ञानविहीनो देशिको भवेत्।
स विनैव तिलात् तैलं लभते सिकतासु च॥
सिद्धाबोधे –
शास्त्रज्ञानविहीनश्च वर्णाश्रमविहीनकः।
कामाद्यष्टविकारेण येषणात्रयसम्भवः॥
दुश्शीलो दुर्मनो वृत्तिः दुर्गुणो दुष्प्रतिग्रहः।
मन्त्रतन्त्राधिकारेण योगज्ञानविहीनकः॥
समयादिपञ्चदीक्षान्तं न कुर्यादुक्तलक्षणात्।
पूजालङ्कारडम्भेन नटनैः क्षुद्धलक्षणैः॥
क्षुत्बा(द्बा)धशमनार्थेन गुरु कुर्वन्विशेषतः।
एतादृशगुरौ दीक्षा शिष्याणां नरकाय हि॥
क॥।स्यान्धेन मार्गो हि नैव सन्दृश्यते क्वचित्।
तस्मात् सन्तं गुरुं प्राप्य उपतिष्ठेत लक्षणात्॥
ततः उक्तलक्षणसम्पन्न आचार्यस्वाश्रितान्।
शिष्यान्येकवत्सरमात्रं वा परीक्ष्य वक्ष्यमाणलक्षणयुक्तान् शिष्यान् यथाधिकारं
दीक्षयेत्।

॥ शिष्यलक्षणम् ॥
रौरवे –
अतत्वविदभक्तेषु दीक्षां कुर्याद्यथा गुरुः।
दीक्षितानशिवं यान्ति गुरु नीरयगो भवेत्॥

सूतसंहितायाम् –   

मूर्खशिष्योपदेशेन विद्यागर्वेण सुव्रताः।
गुरुद्रोहेण सर्वज्ञोऽप्यन्धकूपे पतत्यसौ॥
तस्मात् संवत्सरं शिष्यः परीक्ष्यो कृत्रिमः पुनः।

अन्यत्र च –
गुरुश्च स्वाश्रितान् शिष्यान् वर्षमेकं परीक्षयेत्।
उत्तमांश्चाधमे कृत्ये नीचानुत्तमकर्मसु॥
आकृष्टस्ताडिता वापि न विषादं प्रयान्ति ये।
ते योग्याः सङ्गताः शूराः शिवसंस्कारकर्मणि॥
चतुर्वर्णेष्ठी सञ्जातैः शास्त्रज्ञाननिरूपकैः।
भक्तिज्ञानविरगेण बुद्धिमान्नीतिमान् सदा॥
पुरुषार्थः प्रकर्ता च सदा निर्णयबुद्धिमान्।
शुश्रूषायां च कुशलो गुरुकार्ये प्रयत्नतः॥
सन्ततं गुरुशुश्रूषावचोल्लङ्घनभीरुकः।
एतत् लक्षणसम्बद्धः सश्चित्याणां च लक्षणम्॥

पराख्ये –   

अमद्यपास्तु ये रुद्राः शौचाचारक्रियादराः।
शिवभक्ताश्च ये तेषां दीक्षा कार्यान्यथा न हि॥
सर्वेषामेव शिष्याणामधिकं सत्गु(द्गु)णं शृणु।
भक्तिर्विश्वासमद्रोहं गुर्वाज्ञापालनस्थितिः॥
श्रद्धा शान्तिः क्षमा सत्यं तथाशौचं तपश्रुतम्।
कृतज्ञता द्वादशकं यस्य शिष्यस्य विद्यते॥
स शिष्याणां प्रधानश्च नान्ये तेन प्रधानकाः।
एतदुक्तलक्षणं सर्वं विशेषदीक्षाविषयम्। समयेन विचारयेदिति वचनात्।
महापातकादिदोषरहितान् स शूद्रां दीक्षयेत्।
(शक्तिनिपातः)
निर्वाणदीक्षायां शक्तिनिपातयुक्तस्यैवाधिकारात् मन्दमन्दतरतीव्रतरान् शक्तिनिपातान्।
शिष्येषु परीक्ष्यैव
दीक्षयित्वा तदनुगुणेन परापरमुक्तिषु योजयेत्। शक्तिनिपातो नाम आणवमलशक्तेः पातनम्
आत्मनि ईश्वरशक्तेरभिव्यक्तश्च ईश्वरशक्तेर्यावद्यावदभिव्यक्तिस्तावत्
तावदाणवमलशक्तेर्निवृत्तिः।
तदुक्तं मृगेन्द्रे –
तमश्शक्त्यधिकारस्य निवृत्तौ तत्परिच्युतौ।
व्यनक्ति दुष्क्रियानन्दं जगत्ब(द्ब)न्धुरणे शिव॥
पराख्ये च –
स्वल्पेऽभिव्यज्यते स्वल्पं महत् महति तत्स्थितम्।
यादृक् तादृक् भवेत् तस्य प्रदीपस्तिमिरे यथा॥
स्वायम्भुवे च –
शिवेच्छया परानन्दा शैव शैवार्थदायिका।
सा शक्तिपतत्याद्या पुंसो जन्मन्यपश्चिमे॥
तन्निपातात् क्षरत्यस्य मलं संसारकारणम्।
क्षीणे तस्मिन् यथा सा स्यात् परं निश्रेयसं प्रति॥
स देशिकमनुप्राप्य दीक्षाविच्छिन्नबन्धनः।
प्रयाति शिवसायुज्यनिर्मले निरुपद्रवः॥
अनेन क्रमयोगेन परां केवलतां गतः।
अनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम्॥

मतङ्गे च –   

यावत् सोन्मीलनीशक्ति शिवरागेण संयुता।
निपत्यतितेजिष्ठा नित्यानुग्रहशालिनी॥
तन्निपाताच्च तस्येत्थमज्ञस्याप्यभिलाषिणः।
बुद्धिरुत्पद्यन्तक स्यात् विवेकेनात्मवर्तिना॥
विवेकिनो विरक्तस्य जिज्ञासा चोपजायते।
जिज्ञासोपेतचैतन्यं पशुं संसारसागरात्॥
जिघ्रक्षया युनक्त्येनं युक्तं प्रेरयिता प्रभुः।
प्रेरणे प्रेरकश्रीमान् द्वयोरपि समन्त्रराट्॥
अनुग्राह्यस्य विनये तथानुग्रहकस्य च।
कारुण्ये त्व*नयोर्यस्मात् तयोर्योगः सुदुर्लभम्॥ इति *

आत्मनि ईश्वरशक्तेः स्वल्पाभिव्यक्तौ मन्दतरश्छक्तिनिपाततः। तदानीमात्मनः   

संसारनिवृत्तिमीश्वरो यया शक्त्या करोति सा शक्ति हि
वृत्तिं नाम। सैव च निवृत्तीश्वरस्थानम्। तत्पतिश्च निवृत्तीशः पूर्वस्मादधिकाभिव्यक्तौ
मन्दतरश्छक्तिनिपातः। तरप् प्रत्ययस्य न्यूनाधिकवचनत्वात्। अत्र तु अधिकवाचक
एव तदानिवृत्तस्य पुनः
प्रवृत्तिरभितत्वेन यथाशक्त्या प्रतिष्ठापयति। सा प्रतिष्ठा शक्तिः सैव च
प्रतिष्ठेश्वरस्थानम्। तत्प्रति प्रतिष्ठेश्वरः। ततोऽप्यधिकाभिव्यक्तौ
तीव्रशक्तिनिपातः। तदानीं यथाशक्त्या विषयगोचरपशुज्ञानं मोचयित्वा शिवज्ञानं
प्रकाशयति। सा शक्तिर्विद्या सैव च विद्येश्वरस्थानं तत्पतिर्विद्येश्वरः।
ततः शिवज्ञानपूर्णाभिव्यक्तौ तीव्रता शक्तिनिपातः।
तदानीं यया शक्त्या तापत्रयादिसर्वबन्धं मोचयित्वा परां शान्तिं ददाति सा
शक्तिः शान्तिः। सैव च शान्तीश्वरस्थानं तत्पतिः शान्तीशः।

तदुक्तं मृगेन्द्रे –
निवर्तयति भूतानि यया सास्य निर्वर्तका।
निवृत्तिरिति तत्स्थानं तत्रेशोऽपि निवृत्तिमान्।
निवृत्तस्य गतिर्भूयो यास्य प्रच्यवलक्षणा॥
निक्षिप्यते प्रतिष्ठा सा स्थानं तद्वांश्च तत् पतिः।
कात्यक्तात्मगम्यविषयं यया ज्ञानं ददात्यणोः॥
सा* विद्यास्थानमप्यस्य विद्येशश्च तदीश्वरः।*
सर्वदुःखप्रशमनं ययास्य कुरुते हरः॥
सा शान्ति सप्तपदं चेति तत् कुर्वन् सोऽपि शान्तिमान्। इति

शक्तिनिपातयु
क्तस्य चिह्नान्याह मृगेन्द्रे –
येषां शरीरिणां शक्ति पतत्यनिवृत्तये तेषाम्।
तल्लिङ्गमौत्सुक्यमुक्तौ द्वे॥।षो भवस्थितौ॥
भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ।

अन्यत्र च -
देहपातस्तथा कम्पः परमानन्दहर्षणे।
देहे रोमाञ्च इत्येतत् शक्तिपातस्य लक्षणम्॥
पौष्करे –
दा द्रक्ष्यामि देवेशं मोक्ष्येऽहं बन्धतः कदा।
को वा दर्शयिता शम्भोः रि(इ)ति सञ्जायते मतिः॥
एवं शिष्यस्य चिह्नेः शक्तिनिपातं ज्ञात्वा गृहस्थे
बुभुक्षुमेव दीक्षयेत्। विरक्तस्तु बुभुक्षुमुमुक्षुश्च दीक्षयेत्।
तदुक्तम् अचिन्त्यविश्वसादाख्ये –
नैष्ठिको नैष्ठिकांश्चैव गृहस्थान् दीक्षयेत्क्रमात्।
भौतिकस्तु गृहस्थतांश्च नान्यत् दीक्षां समाचरेत्॥
इति।
(दीक्षाकालनिर्णयः)
दीक्षायाः कालनिर्मयमाह – मकुटे
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने।
समुहूर्ते सुलग्ने च दीक्षाक् समाचरेत्॥
कालोत्तरे –
शरद्वसन्तयोर्योगो दीक्षाकर्मविधौ वरः।
तयोरसम्भवे वर्षा विनान्यत्रापि शस्यते॥
दीक्षायामभिषेके च तथा मन्त्रपरिग्रहे।
व्रतग्रहणमोक्षे च द्रव्यलाभेन कर्मसु॥
कार्तिक्यां चैव वैशाख्यां स्वर्गानोरपि दर्शने।
दिनच्छिद्रादियुक्ताश्च याश्चान्यास्तिथयः स्मृतः॥
चन्द्रसूर्योपरागे तु शडशीति मुखेषु च।
ग्रहनक्षत्रयोगेषु विषुवेषूत्सवेऽपि च॥
अयनेषु च सर्वेषु यागसर्वार्थसिद्धिदः।
चतुर्थी नवमी षष्ठीमषष्ठीं च चतुर्दशीम्॥
पौर्णमास्यां विना शेषा हिताः सर्वे बुभुक्षुषु।
आदित्यं मङ्गऴं सौरीं त्यक्त्वा वाराणि भूतये॥
त्रीण्युत्तराणि रोहिण्यां पुष्यर्क्षमृगशीर्षकम्।
हस्तं स्वातिरनूराधामखामूलं च रेवतीम्॥
अभिजिच्छ्रवणं चेति शिवयागे चतुर्दश।
योगाश्च प्रीतिरायुष्मान् सौभाग्यशोभनश्शुभम्॥
सुकर्मश्च धृतिर्विद्धि ॥।वसिद्धिश्च हर्षणः।
वरीयान् स शिवः सिद्धो ब्राह्म ऐन्द्रश्च षोडश॥
कारणानि विष्टिव्यतिरिक्तानि शुभानि ॥।।
यानि जनिन्द्यानि सर्वाणि प्रशस्तानि विमुक्तये॥
उक्तकाले पुण्यक्षेत्रे पुण्यतीर्थसमीपे मठे पूर्वनिर्मितमण्डपे वा दीक्षीं कुर्यात्।

॥मण्डपलक्षणम्॥
अथ मण्डपल
क्षणमाह –
सुप्रभेदे –
उत्तमं नवहस्तं तु मध्यमं सप्तहस्तकम्।
अथ(ध)मं पञ्चहस्तं स्यात् मण्डपं त्रिविधं मतम्॥
षोडशस्तम्भसंयुक्त(क्तं) द्वादशस्तम्भमेव वा।
दिशं* च विदिशं चैव निश्छिद्रं कारयेत् बुधः॥*
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम्।
स्थलं तालसमुत्सेधमथवापि षडङ्गुलम्॥
दर्भमालाभिरावेष्ट्य पुष्पमालाभिशोभितम्।
वितानैरूर्ध्वमाच्छाद्य मुक्तादामैरलङ्कृतम्॥
तत्त्रिभागैकभागेन वेदिमध्ये प्रकल्पयेत्।

(मण्डपार्थभूपरिग्रहः)
मण्डपार्थं भूपरिग्रहः –
कथ्यते।
शुद्धामनौषरां दग्धा श्मशानचण्डालश्रेणिसमीपवर्जिता। उत्तमां मध्यमां वा
उक्तकाले सुमुहूर्ते समचतुरश्रं समीकृत्य सूत्रं
शङ्कुं संस्थाप्य त्रिहस्तमात्रं खात्वा मृदं बहिर्निक्षिप्य केशास्तिकण्टकभस्म॥।र
तुषादिकमुद्धृत्य पञ्चगव्येन गन्धतोयेन शिवमन्त्रेण संसिच्य शिलो॥।लैः शुद्धः
सिकताभिश्च अवटमापूर्य स्नातैर्धौतवस्त्रधरैः पुरुषैः
पलाशशाखसहितमुद्गरैः कुट्टनैर्दर्पमोदरसङ्काशां भूमिं कृत्वा पाषाणैः
पक्षेष्टकाभिः शुद्धदारुभिर्वा मण्डपं कारयेत्। अथवा रम्ये मन्दिरे
पञ्चहस्तादिविस्तारम्। स्थण्डिलं सूत्रपातेन चतुरश्रं कृत्वा द्वारचतुष्टयं प्रकल्प्य
पुनः
सूत्रपातेन नवधा विभज्य तन्मध्ये त्रिभागेन विदिकामुपवेदिकां च सूत्रपातेन चतुर्धा
विभज्य वेदिका कुण्डमध्ये एकांशं त्यक्त्वा
वक्ष्यमाणलक्षणकुण्डं स्थण्डिलं वा
कल्पयेत्।

॥ अथ कुण्डलक्षणम् ॥
नवहस्तसप्तहस्तपञ्चहस्तयुक्तमण्डपेषु यथाक्रमं हस्तारमुष्ट्या रत्निक्रमेण
कुण्डं वेदिकायाः
पूर्वदिग्भागे। तच्चतुर्थांशं विहाय कुर्यात् तेषु हस्तमात्रकुण्डस्य
चतुस्त्रिद्व्यङ्गुलरूपमेखलाः अरत्निमात्रस्य त्रिद्व्येकाङ्गुलमेखला
मुष्ट्यरत्निमात्रस्य द्व्यङ्गुलेकाङ्गुलार्धाङ्गुलरूपाः मेखलाश्च कुर्यात्। तदुपरि
पिप्पलपत्रसदृशं गजोष्ठसदृशं वा योन्याकारं वा कुर्यात्।

कुण्डमध्ये वज्रेणाब्जेन वा लाञ्छनं कुर्यात्। दशविधकुण्डानि लक्षणपूर्वकमुत्तरत्र
वक्ष्यामः। स्थण्डिलपक्षे हस्तमात्रमरत्निमात्रं मुष्य रत्निमात्रं वा
चतुरङ्गुलोन्नतं समचतुरश्रं शुद्धाभिः शोधयिताभिः सिकताभिः कुर्यात्। एवं
मण्डपादिकं विभूष्य भक्तिवैराग्यसम्पन्नस्य शिष्यस्य समयादिदीक्षां विदध्यात्। अत्र
क्रमः।

॥मण्डपपूजाविधिः॥

ह्निकद्वयनिर्वर्त्य मण्डपे इन्द्राग्न्यादिभ्यमध्ये सूर्यबिम्बस्तशिवं
नित्यवदभ्यर्च्याचम्य न्यासं कृत्वा सामान्यार्घ्यजलेन हुम्फडन्तास्त्रेण
पूर्वदक्षिणपश्चिमोत्तरद्वाराणि सम्प्रोक्ष्य हां शान्तिकलाद्वाराय नमः। हां
विद्याकलाद्वाराय नमः। हां निवृत्तिकलाद्वाराय नमः। हां प्रतिष्ठाकलाद्वाराय
नमः। इति पूर्वादिद्वारा
णि कलशेषु
स्थण्डिलेषु वा पूजयेत्। तदनु। गणेशं भारतिं लक्ष्मीं सर्वद्वारोर्ध्वगान् यजेत्। मन्त्रास्तु

  • हां गणपतये नमः। हां सरस्वत्यै नमः। हां महालक्ष्म्यै नमः।
    पूर्वदक्षिणपश्चिमोत्तरेषु।
    नन्दीशं महाकाऴं भृङ्गीशं विनायकम्। वृषभं कार्तिकेयं गौरीशं चण्डेश्वरं
    क्रमेण द्वौ द्वौ कलशैस्थण्डिले वा यजेत्। मन्त्रास्तु हां नन्दीश्वराय नमः। इत्यादय।
    एवं

गन्धपुष्पादिभिः सर्वानेतानभ्यर्च्य भवद्भिर्यज्ञसंरक्षकत्वेन
स्थातव्यमाहितादरैरिति विज्ञाप्य पूर्वयाम्योत्तरद्वाराणि हुम्फडन्तास्त्रेणा(ण) पिधाय
पश्चिमद्वारे
नित्यवत् द्वारपालानभ्यर्च्य दिव्यान्तरिक्षभौमान्विघ्नान् निस्सार्य अभ्यन्तरं प्रविश्य
अस्त्रमुदुम्बरे रिक्षायै सम्पूज्य अवलोकितया
गोपकरणद्रव्यजातव्रतः प्रदक्षिणं गत्वा नैऋते हां वास्तोष्पतये
ब्रह्मणे नमः। इति सम्पूज्य अस्त्रप्राकारकवचावकुण्ठनाभ्यां यागगृहं संरक्ष्य

वेदिकादक्षिणे सौम्यास्यः समुपविश्य भूतशुद्धिं कृत्वा
वर्णपदमन्त्रतत्वभुवनकलाषडध्वन्यासानि क्रमेण विधाय हृन्नाभिबिन्दुषु
यजनहवनध्यानानि निघाय
विशेषार्घ्यं प्रसाध्य आत्मपूजां कृत्वा विशेषार्घ्यजलेन हुम्फडन्तास्त्रेण द्रव्याणि
सम्प्रोक्ष्य स्वमस्तके शिवहस्तं विन्यस्य
शिवोहमिति भावयेत्। ततः तालत्रयादिना
संरक्ष्य पाद्याचमनमावाहनविसर्जनयोः निरोधार्घ्यं पशुप्रोक्षणे
संहितयाभिमन्त्रितपश्वर्घ्यं स्थापयेत्। ततः
लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतकुशपुष्पाणि
हुम्फडन्तास्त्रेण सप्तधाभिमन्त्र्य पञ्चगव्यपञ्चामृतादिकं स्थापयेत्। तदनु
षट्त्रिंशदर्भनिर्मितं वेणिकारूपं ज्ञानासिं हुम्फडन्तास्त्रेण
सप्तवारमभिमन्त्रयेत्। निरवाणदीक्षाविषये भ्रूं हौं शक्तये नमः। इति
नवगुणम् ॥।प॥।प्ररु ॥॥॥
हुं हः अस्त्राय नमः इति कर्मनीं सप्तधाभिमन्त्र्य शान्त्यतीतादिकलामन्त्रैः
सितपीतकृष्णारुणहरितरजांस्यभिमन्त्र्य शुद्धिं कुर्यात्। तदनु ज्ञानासिं कक्षे सङ्गृह्य

नैऋते उत्तरास्यः स्थित्वा अर्घ्यपञ्चगव्याभ्यां यागमन्दिरं सम्प्रोक्ष्य
निरीक्षणादिभिर्यागमन्दिरं
संस्कृत्य हुम्फडन्तास्त्रेण नानास्त्ररूपान् पूर्वाभिमन्त्रितलाजादीन्
अन्तरायध्वं सिकतान्विकीर्य हृदयेन कुशकूर्चिकया चिकीर्णान् लाजादीन् समूह्य
वर्धन्यासनार्थमीशाने विन्यसेत्। तदनु नैऋते अक्षताभिर्वास्तुमण्डलमालिख्य
तत्र वास्तोष्पतिं सावरणं पूजयेत्। अथ वास्तोष्पतये ब्रह्मणे सावरणाय नम इति कलशे
स्थण्डिले वा सम्पूज्य –
सिंहस्थां मण्डपाकारां सर्वरत्नेर्मखालयम्।
पूरयतीं महालक्ष्मीं पूजयेत्। तदनु शिवकुम्भमीशाने।
तिलसर्षपमुद्गमाषहाढकगुलस्थव्रीहिरूपसप्तधान्यासने
संस्थाप्य तद्दक्षिणभागे वर्धनीं कुशकूर्चिकया समूहिते लाजाद्यासने संस्थाप्य
हां वृषभाय नम इति शिवकुम्भासनमभ्यर्च्य शिवकुम्भे शिवमष्टपुष्पिकया
सम्पूज्य हां सिंहासमनाय नम इति। वर्धन्यासनमभ्यर्च्य तत्र वनीश्वरीं
खड्गरूपिणीं
विभाव्य हः अस्त्रासनाय नम इति हः अस्त्रमूर्तये नम हः अस्त्राय हुम्फण्णमः। हः
अस्त्रहृदयाय हुम्फण्णमः।
हः अस्त्रशिरसे हुं फण्णमः। अः अस्त्रशिखायै हुम्फण्णमः। अः अस्त्रकवचाय
हुम्फण्णमः। हः अस्त्राय हुम्फण्णम इत्यभ्यर्चयेत्। तदनु हाम् इन्द्राय वज्रहस्ताय
ऐरा
॥॥॥॥॥॥॥॥ वर्णाय सपरिवाराय नमः। हाम् अग्नये शक्तिहस्ताय मेषारूढाय
रक्तवर्णाय सपरिवाराय नमः। हां यमाय दण्डहस्ताय महीषारूढाय कृष्ण
…………य नमः। हां निॠतये खट्ग(ड्ग)हस्ताय प्रेतारूढाय नीलवर्णाय सपरिवाराय
नमः। हां वरुणाय पाशहस्ताय मकरारूढाय
श्वेतवर्णाय ॥॥॥ हराय नमः। हां वायवे ध्वजहस्ताय मृगारूढाय धूम्रवर्णाय
सपरिवाराय नमः। हा(हां) कुबेराय गदाहस्ताय
नित्यनिर्व्याढा(जा)य सपरिवाराय नमः। हाम् ईशानाय त्रिशूलहस्ताय वृषारूढाय
शुभ्रवर्णाय सपरिवाराय नमः इति पूर्वादिदिक्षु कलशेषु स्थण्डिलेषु वा सम्पूज्य हां

ब्रह्मणे पद्महस्ताय हंसाधिरूढाय पीतवर्णाय सपरिवाराय नमः। हाम् अनन्ताय
चक्रहस्ताय गरुडारूढाय श्यामवर्णाय सपरिवाराय नमः।
इत्यूर्ध्वाधोदिक्दे(ग्दे)शेन ईशानं दक्षिणे
नॄति पूर्वे चाभ्यर्चयेत्। तदनु वर्धनीमादाय शिवकुम्भपृष्ठगामिनीम्
अविच्छिन्नाधारां मूलमन्त्रं
पठन् प्रदक्षिणक्रणेण परिभ्राम्य।
यज्ञसंरक्षणार्थाय विघ्नानामध्वंसनाय च।
यूयं स्ववाहनास्त्रैस्तु सन्नद्धास्थं शिवाज्ञया॥
शिवयागः प्रवृत्तोऽयं तत्भ(द्भ)क्तानां शिवाज्ञया।
रक्षणीयोन्तरायेभ्यो लोकपालाः समाहितैः॥
इति शिवाज्ञां श्रावयेत्। यद्वा भो भो शक्र त्वया स्वस्यां दिशि
विघ्नप्रशान्तये। सावधानेन कर्मान्तं भवितव्यं शिवाज्ञयेति। प्रत्येकं शिवाज्ञां
श्रावयेत्। अथादौ शिवकुम्भं संस्थाप्य पश्चाद्वर्धनीं संस्थाप्य
शिवकुम्भे शिवं नित्यवत् स्थिरासनादि सम्पूज्य वर्धन्यां पशुपतास्त्रं पूजयेत्। तद्यथा
हाम् अस्त्रासनाय हुम्फण्णमः। हाम् अस्त्रमूर्तये हुम्फण्णमः।
इत्यभ्यर्च्य –
पञ्चवक्त्रं महाघोरं दशबाहुं त्रिलोचनम्।
विकृतं भास्करं चोक्तं पिङ्गभ्रूश्मश्रूमूर्धजम्॥
खट्ग(ड्ग)खेटकनाराचधनुःसूत्रकमण्डलुम्।
शक्तित्रिशूलपरशुब्रह्मदण्डकरान्वितम्।
एकपादं द्विपादं वा समपादं सुजाज्वलम्॥
सर्वाङ्गभुजगोपेतं नागयज्ञोपवीतिनम्।
इति ध्यात्वा ग्लीम् ॥॥॥।
…॥ फट् पाशुपतास्त्राय नम इत्यनेनावा॥॥॥॥ पूज्य अस्त्रहृदयाय हुम्फण्णम इति
सम्पूज्य भक्तौ हां शक्तिशिवाभ्यां नमः। मुक्तौ
हम्। शिवशक्तिभ्यां नम इति कुम्भवर्धन्यौ स्पृशेत्। तथागमः।
अङ्गुष्ठेन स्पृशेत् कुम्भमथ मुष्या(ष्ट्या) तु वर्थनीम्।
भुक्ता ये मुक्तये त्वादौ मुष्टिना वर्धनीं स्पृशेत्॥
इति तदनु –
यज्ञस्यास्य पतित्वं हि मूर्तिरेषा तवाचला।
एष ते ज्ञाननिस्त्रिंशत् सङ्ग्रहाण स्वमायुधम्॥
इति विज्ञाप्य हुम्फडन्तास्त्रेण ज्ञा नांसिकल्लरां न्यसेत्।
तथागमः।
शिवस्य दक्षिणे हस्ते वर्धन्यास्त्रं तु सम्मितम्।
तेन तद्यज्ञरक्षार्थं यागादौ कलशे न्यसेत्॥
इति तदनु मूनमन्त्रमष्टोत्तरशतम् अङ्गमन्त्रान्
तद्दशांशं जप्त्वा शिवकुम्भे समर्प्य पाशुपतास्त्रं तद्दशवारं जप्त्वा वर्धन्यां
समर्प्य।
मया प्रवर्ततश्चायं यज्वना भवतः क्रतुः।
अक्षणीयस्त्वहैतर्हि समाप्तिर्यावदस्य हि॥
उमायै भगरूपिण्यै लिङ्गरूपधराय च।
शङ्कराय नमस्तुभ्यं भक्तानुग्रहकारिण॥
इति विज्ञाप्य वायुकोणे गणेशं
ईशाने गुरुमर्चयेत्। तदनु मण्डले। इष्टलिङ्गे वा शिवं नित्यवत् समसम्पूज्य स्वामिन्
अग्निकार्यं करोमीति विज्ञाप्य अनुज्ञां प्राप्य अङ्गुष्ठानामिकाग्राभ्यां
नेत्रयोर्मूलमन्त्रं विन्यस्य होमोपयोगद्रव्यसमूहं निरीक्ष्य कुण्डस्य दक्षिणे
सुखासने समुपविश्य बृहदग्निकार्यं कुर्यात्।

(बृहदग्निकार्यम्)
हां हौं शिवाय नम इति कुण्डस्य निरीक्षणम्।
हुम्फडन्तास्त्रेण प्रोक्षणताडने वौषडन्तकवचेनाभ्युक्षणम्। हुम्फडन्तास्त्रेण
खननोद्धारणे। नमोन्तहृदयेन पूरणसमीकरणे वौषडन्तकवचेन सेचनम्।
हुम्फडन्तास्त्रेण कुट्टनम्। वौषडन्तकवचेन सम्मार्जनं समालेपने च विधाय
कुण्डाभ्यन्तरे भौतिकदीक्षायां मध्यमपूर्वयाम्योत्तरप…
…………
शान्त्यतीतादिकलामन्त्रान् विन्यसेत्। सन्न्यस्यतो दीक्षायां पश्चिमोत्तरयाम्यपूर्वमध्येषु
नमोन्तान् निवृत्यादिकलामात्रान् विन्यसेत्। अथ त्रि…
॥॥॥॥ नमोन्तकवचेन कुण्डं समावेष्ट्य हां कलामयाय कुण्डाय नम इति कुण्डं
सम्पूज्य हुम्फडन्तास्त्रेण कुशैः कुण्डमध्ये पश्चिमपूर्वक्रमेण
दक्षिणादुत्तरान्तं पश्चिमात् पूर्वान्तं रेखाचतुष्टयकरणं हुम्फडन्तास्त्रेण
उभयत्र त्रिशूलाकृतिना कुशत्रयेण वज्रीकरणम्। नमोन्तहृदयेन पूर्वोत्तराग्रकुशद्वयेन

चतुष्पथं दानं च विदध्यात्। एवमष्टादशसंस्कारान्विधाय कुण्डस्य कण्ठे
अक्षकपाटं नमोन्तकवचेन कुशचतुष्टयं विन्यस्य हां
वागीशवरीवागीश्वरासनाय नम इति कुण्डमध्ये कुशकूर्परूपं विष्टरं विन्यस्य तत्र
हां वागीश्वरीवागीश्वरमूर्तिभ्यां नम इति मूर्तिं विन्यस्य
वागीश्वरीवागीश्वराभायां नम
इत्यावाहनादिभिः तावदभ्यर्चयेत्। तदनु पूर्ववदग्निमादाय कुण्डस्याग्निकोणे विन्यस्य
हुम्फडन्तास्त्रेण क्रव्यादांशमग्निखण्डं निरुतिकोणे
निस्सार्य निरीक्षणादिभिर्वह्निं संशोध्य हां हं हां वह्निमूर्तये नम इति।
स्फुरत्तारकाकारं वह्निमिडानाडीपूरकवायुना संहारमुद्रया गृहीत्वा
बिन्दुस्थाग्निना संयोज्य
पतत्पतङ्गनिभं वह्निं कुम्भकेन नाभिकुण्डस्थाग्निकुण्डस्थाग्निना संयोज्य भ्रूं
वह्निचैतन्याय नम इति ज्वालाकुलाय मध्याह्नादित्यवह्निं
रेचकेन पिङ्गलया बहिर्निस्सार्य ताम्रशरावादिपात्रस्थमयूररहिताङ्गारराशौ विन्यसेत्।

(गर्भाधानादिसंस्काराः)
एवमेकीकृतं वह्निं षडङ्गेनाभिमन्त्र्य
वौषडन्तशक्तिमन्त्रेण धेनुमुद्रयामृतीकत्य कवचेनावकुण्ठ्य अस्त्रेण संरक्ष्य
नमोन्तहृदयेनाभ्यर्च्य यो
निक्षोभार्थं कुण्डस्योपरि प्रदक्षिणक्रमेण त्रिवारं परिभ्राम्य वागीशीवागीश्वरा विशदि
विशदि गगताशिरसौ सङ्गतौ विभाव्य हां हूं शिवबीजाय नम इति अग्निं
शिवबीजं ध्यात्वा
वागीश्वरीगर्भनाड्यामीश्वरेण क्षिप्यमाणं विभाव्य भूमिष्ठसव्यं जानुना
आत्मसम्मुखं कुण्डे वह्निं निक्षिप्य। इतस्ततो विक्षिप्ताङ्गारान्
हृदयेन समूह्य परिधानस्य संवृतिं विभाव्य हां वागीश्वर्यै स्वधेत्यर्घ्यजलेन
शौचाचमनं दत्वा कवचेन सदिन्धनैः प्रच्छाद्य हुम्फडन्तास्त्रेण व्यजनेन प्रज्वाल्य
हां गर्भाग्नये नम इति
सम्पूज्य कुशकं कणं हुम्फडन्तास्त्रेण
सप्तवारमभिमन्त्र्य वागीश्वरीदक्षिणहस्ते बध्नीयात्। तदनु हां सद्योजाताय नम इति।
सम्पूज्य
स्वाहान्तहृदयेन पञ्च तिलाहुतिर्जुहुयात्। इदं गर्भाधानम्। हिं वामदेवाय नम इति
सम्पूज्य स्वाहान्ते पञ्च तिलाहुतिर्हुत्वा हां पुर्यष्टकदेहाय नम
इति। सामान्यार्घ्यजलबिन्दुं दद्यात्। इदं पुंसवनम्। हुम् अघोराय नम इति सम्पूज्य
स्वाहान्तशिखया पञ्च
तिलाहुतिर्हुत्वा अवयवसीमार्थवक्त्राङ्गक
ल्पनोत्घा(द्घा)टननिष्कृत्यर्थं च स्वाहान्तशिखया पञ्चतिलाहुतीर्जुहुयात्। इदं
सीमन्तोन्नयनम्। हों तत्पुरुषाय नम इति सम्पूज्य स्वाहान्तकवचेना
पञ्चतिलाहुतीर्युत्वा वर्मणा कुशे वह्निं सन्धीक्ष्य सद्यः सूतकशान्तये
हुम्फडन्तास्त्रेणार्घ्यजलेन कुण्डबाह्यान्तरे सम्प्रोक्ष्य हां वागीश्वर्यै स्वाहेति

सामान्यार्घ्यजलेन देवीं जातमग्निं च स्नानार्थं सम्प्रोक्ष्य वागीश्वरीं
परित्यक्तदर्भकङ्कणां वस्त्राभरणभूषितां ध्यात्वा हां
वागीश्वर्यै नम इति सम्पूज्य वागीश्वरीं सन्तुष्टां भावयेत्। इदं जातकर्म। ततः
अग्नेर्लालापनोदनार्थं पलाशादिसम्भवं निर्घृणं
स्निग्धं कृमिकोटरावर्जितं द्वादशाङ्गुलायुतं कनिष्ठाङ्गुलिस्थूलं घृताक्तामृमूलं
समित्पञ्चकं
स्वाहान्तास्त्रेण
जुहुयात् इदं लालापनोदम्। तदनु मेखलासु चतुर्दिक्षु पूर्वाग्रकुशानस्त्रेण परिस्तीर्य
पूर्वपश्चिमयाम्येन्दुमेखलासु हृदयेन विष्टरान्विन्यस्य तेषु हां ब्रह्मणे नमः। हां
विष्णवे नमः। हां
रुद्राय नमः। हाम् अनन्तेश्वराय नमः। इति क्रमेण सम्पूज्य
पूर्वयाम्यपश्चिमोत्तरविन्यस्तपरिधिष्ठवाहनायुधसहितान्। इन्द्राद्यष्ट लोकपानान्
सम्पूज्य
ईशानदक्षिणे ब्रह्माणं निॠतिपूर्वे विष्णुं च सम्पूज्य।
भोगो(भो) देवाः सुसन्नद्धाः बालमेनं शिवाज्ञया।
न क्षतेति शिवाज्ञां च श्रावयेत्दे(द्दे)शिकोत्तमः॥
तदनु
सकुशौ स्रुक्स्रुवौ निरीक्षणादिचतुस्संस्कारसिद्धौ गृहीत्वा तत्काष्ठत्वनिरसनाय
हृदयेनाग्नौ त्रिवारं तापयेत् ततः भौतिकदीक्षायां
हुम्फडन्तास्त्रेण कुशाग्रमध्यमूलैः स्रुक्स्रुवयोरगरं मध्यं मूलानि संस्पृश्य
हॄं शिवतत्वाय नमः। हॄं शिवतत्वाधिपतये रुद्राय नमः। हीं विद्यातत्वाय नमः।
हीं
विद्यातत्वाधिपाय विष्णवे नमः।
हाम् आत्मतत्वाय नमः। हाम् आत्मतत्वाधिपाय ब्रह्मणे नम इति
स्रुक्स्रुवयोरग्रमध्यमूलेषु सम्पूज्य स्रुक्स्रुवौ दक्षिणे
कुशानामुपरि विन्यस्य हां शक्तिशिवाभ्यां नम इति। स्रुक्स्रुवौ समर्पयेत्। सन्न्यस्यतो
दीक्षायां तु संहारक्रमेण स्रुक्स्रुवौ संस्कुर्यात्। त्रिसूत्र्या कवचेन तयोः कर्णौ
संवेष्ट्य गन्धाक्षतादिभिः पूजयेत्। अथ गव्यं घृतं स्वर्णादिपात्रस्थं
निरीक्षणादिभिः संशोध्य कुण्डस्योपरि त्रिवारं भ्रामयेत्। इदं पर्यग्निकरणं स्व
देहं ब्रह्ममयं
ध्यात्वा अग्निकुण्डस्याग्निकोणे ॥॥ हुत्वा हां ब्रह्मणे स्वाहेति। कुशाग्रेण घृतबिन्दून्
जुहुयात्। इदं तापनं स्वदेहं विष्णुमयं ध्यात्वा तत्घृ(द्घृ)तमीशानकोणे
॥त्वा हीं विष्णवे स्वाहेति कुशाग्रेण घृतबिन्दुं जुहुयात्। इदमधिश्रयणम्। स्व देहं
रुद्रमयं
ध्यात्वा कुण्डस्य नाभौ ध्यात्वा हां हां रुद्राय स्वाहेति कुशाग्रेण
घृतबिन्दुं जुहुयात्। इदमुद्वासनम्। प्रादेशमात्रं मध्यकृतब्रह्मग्रन्धिं कुशद्वयं
करद्वयाङ्गुष्ठानामिकाभ्यां गृहीत्वा हैं कवचाय स्वाहेति। घृतबिन्दुद्वयं
अग्निज्वायामुखं प्रक्षिप्य तत् कुशद्वयमुक्तग्रन्धिमग्नौ क्षिपेत्। अयमुत्प्लवः।
पुनस्थानविधं कुशद्वयं तथा गृहीत्वा हां हृदयाय स्वाहेति

घृतबिन्दुद्वयमात्मसम्मुखं प्रक्षिप्य तत् कुशद्वयमुक्तग्रन्धिमग्नौ प्रक्षिपेत्।
द(अ)यं समप्लवः। हां हृदयाय नम इति कुशोन्मुखं घृते प्रक्षिप्य वह्नौ क्षिपेत्।
इदं पवित्रीकरणं कवचेन दीप्तकुशेन घृतं निर्मथ्य वह्नौ कुशं निक्षिपेत्। इदं
नीराजनम्। हुम्फडन्तास्त्रेण तत्
दक्षिणवामभागयोः शुक्लकृष्णपक्षौ विभाव्य तत्
दक्षिणवाममध्यभागेषु पिङ्गऴेडासुषुम्नानाडीत्रयं कुर्यात्। विभाव्य दक्षिणभागे

स्रुक्स्रुवेण घृतमादाय हाम् अग्नये स्वाहेत्यग्निदक्षिणनेत्रे हाम् इति घृतदक्षिणभागे।
वामभागे स्रुवेणाज्यमादाय हां सोमाय स्वाहा वामनेत्रे हां
इत्याज्यवामभागे। मध्यभागे स्रुवेणाज्यमादाय हाम् अग्नीसोमाभ्यां स्वाहा
इत्यग्निललाटनेत्रे हाम् इत्यग्निमध्यमभागे भागत्रयेण
स्रुवेणाज्यमादाय हाम् अग्नये
स्विष्टकृते स्वाहा इत्यग्निमुखे हाम् इत्याज्यभागत्रये जुहुयात्। इत्थं शुक्लपक्षे कुष्णपक्षे
तु विलोमेन जुहुयादितमुत्घा(द्घा)टनं तदा॥यं षडङ्गेना
भिमन्त्र्य कवचेनावकुण्ठ्य अस्त्रेण संरक्ष्य धेनुमुद्रया अमृतीकृत्य तत्
घृतबिन्दुप्रक्षेपणान्यघृतं संशोध्य स्रुवेणाज्यमादाय
हं सद्योजाताय स्वाहा हिं
वामदेवाय स्वाहा हुम् अघोराय स्वाहा । हें तत्पुरुषाय स्वाहा होम् ईशानाय स्वाहा। इति
वक्त्रदीपनम्। हं हिं
सद्योजातावामदेवाभ्यां स्वाहा हिं हुं वामदेवाघोराभ्यां स्वाहा। हुं हेम्
अघोरतत्पुरुषाभ्यां स्वाहा। हें हों तत्पुरुषेशानाभ्यां
स्वाहा। इति वक्त्रसन्धानं हं हिं हुं हें हों सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्य
स्वाहा। इत्यग्निकोणाद्वायुकोणान्तं

निरुतिकोणादीशानकोणान्तम् आज्यधारां पातयेत्। इदं वक्त्रेकीकरणम् एवं जातकर्म
निवर्त्य होम् ईशानाय नम इति सम्पूज्य स्वाहान्तास्त्रेण
पञ्चाहुतीर्हुत्वा शिवाग्निस्त्वं हुताशनेति नाम विन्यसेत्। तदनु हां वागीश्वर्यै स्वाहा हां
वागीश्वराय स्वाहा इति प्रत्येकं दश तिलाहुतीर्हुत्वा। वागीश्वरीवागीश्वरौ
हृतयेन विसर्जयेत्।
अथाज्येन स्रुचमापूर्य स्रुवं स्रुगुपरि अधोमुखं निधाय स्रुगग्रे पुष्पं निक्षिप्य
दक्षवामकराभ्यां शङ्खसन्निभमुद्रया
स्रुक्स्रुवौ गृहीत्वोत्थाय तं मूलं स्व नाभौ सन्निधाय स्रुगग्रं न्यस्तलोचनः।
उच्छ्वासनिच्छ्वासौ निरुध्य सुषुम्नानाडीमार्गेण ब्रह्मादिकारणेश्वरान्
विसृज्य वौषडन्तमूलेन सर्वकर्मपूरणीं पूर्णां दद्यात्। अनया
अन्नप्राशननिष्क्रामणचूडाकर्मुपनयनगोदानव्रतान्तं कृतम्।

तदुक्तम् ः– कालो
त्तरे –
शेषसंस्कारसंसिध्यै पश्चात् पूर्णां प्रदापयेत्।
निष्कामेणान्नप्राशनं च व्रतबन्धमेव च॥
चूडागोदानपर्यन्तम् ॥॥॥॥पूर्णया कृतम्। इति

ततश्चर्वर्थं स्वल्पवह्निमुद्धृत्य स्थलान्तरे संलक्षयेत्। तदनु वह्नेराप्यायनाय ह्रूम्
अग्नये स्वाहिति षोडशपलाशमिध्मंवं जुहुयात्।

(अग्निध्यानादयः)
तदनु वह्निं ध्यायेत्।
तदुक्तमचिन्त्ये –
एकहृदयं द्विवक्त्रं द्विनासिकं षडक्षकम्।
त्रिमेखलं त्रिपादं च सप्तजिह्वाभिरावृतम्॥
चतुशृङ्गं समासीनं जटामकुटमण्डितम्।
दक्षिणे तु चतुर्हस्तं वामभागे त्रिहस्तकम्॥
स्रुक्स्रुवौ शक्तिमग्निं च दक्षिणे चापरैः करैः।
तोमरं व्यजनं चैव घृतपात्रं तथैव च॥
वहन्तमभिचिन्त्यैवमग्निबीजेन* पूजयेत्। इति *
तदनु ह्रूम् अग्नये नम इति – वह्निं सम्पूज्य
अग्ने त्वमैश्वरं तेजः पावनं परमं यतः।
तस्मात्व(त्त्व)दीयहृत्पत्मे(द्मे)संस्थाप्य तर्पयाम्हम्॥ इति
प्रार्थयेत्
तदनु नाडीसन्धानं कुर्यात्। तथागमः।
ऊर्णा तन्तुनिभां नाडीमुदिते विनिर्गताम्।
अनुदितेन विशन्तीं निर्गताम् उदितेन क्व(तु)॥
आत्मनोऽनुदितो नैव विशन्तीं चिन्तयेत् गुरुः।
इति
तदनु नाडीमार्गेणाग्निविग्रहं प्रविश्य अग्निहृत्पत्म(द्म)मध्ये
आधारशक्त्याद्यासनपूर्वकमाश्रयोपाधितोऽग्निवर्णं
शिवं लयाङ्गभोगाङ्गसहितं गन्धपुष्पधूपदीपनैवेद्यादिभिः सम्पूज्य भगवन्
त्वां तर्पयामि आज्ञां देहीति प्रार्थ्य
शिववक्त्राग्निवक्त्रयोरैक्यं विभाव्य स्व देहं प्रविश्य।
ईशाने मुक्तये होमं पुरुषे चाणिमादिकम्।
प्रायश्चित्तादिकं घोरे तथा स्यात् क्रूरकर्म च॥
वश्याकर्षणमोहार्थं वामदेवे तु होमयेत्।
पश्चिमे शिष्यसंस्कारं नित्यहोमं च कारयेत्॥ इति वचनात्
सद्योजातवक्त्रे सप्तजिह्वा भावयेत्।
तद्यथा।
हिरण्या कनका रक्ता कृष्णा तदनु सुप्रभा।
अतिरक्ता बहुरूपा सप्तजिह्वा प्रकीर्तिताः॥
ईशानपूर्वाग्निनिरुतिवर्णानिलदिक्षु च।
मध्ये चैव ॥॥द्याः सप्तजिह्वा स्थिताः क्रमात्॥
हिरण्या तप्तहेमाभा कनका रजतप्रभा।
रक्तोऽतितारुणप्रख्या कृष्णा नीलमणिप्रभा॥
सुप्रभा मौक्तिको द्योतातिरक्ता पत्म(द्म)रागवत्।
चन्द्रकान्तशरच्चन्द्रप्रभेव बहुरूपिणी॥
विश्वाकर्षणयोराद्या कनका स्तम्भने रिपोः।
विद्वेषमोहयो रक्ता कृष्णा मारणकर्मणि॥
सुप्रभा शान्तिके प्रोक्ता सुरक्तोच्चाटने मता।
एकैव बहुरूपा तु सर्वकामफलप्रदा॥
यादि हान्ता विना रेफं तेऽपि षष्ठस्वरान्विताः।
नादबिन्दुसमायुक्ता जिह्वामन्त्राः प्रकीर्तिताः॥
तदनु । ता स्या जिह्वानामेकैकाज्याहुत्या प्रत्येकं तिलाहुतित्रयेण वा
दीपनसन्धा॥।
कीकरणानि कुर्यात्। तद्यथा। यूं हिरण्यायै स्वाहा। एं कनकायै स्वाहा। आं रक्तायै स्वाहा।
शूं कृष्णायै स्वाहा। षूं सुप्रभायै
स्वाहा। सूम् अतिरक्तायै स्वाहा। हूं बहुरूपायै स्वाहा। इति दीपनम्। यूं लूं
हिरण्यकनकाभ्यां स्वाहा। लूं वूं

कनकारक्ताभ्यां स्वाहा। घ्रूंश्च रक्ताकृष्णाभ्यां स्वाहा। शूं सूं कृष्णा
सुप्रभाभ्यां स्वाहा। षूं सूं सुप्रभातिरिक्ताभ्यां स्वाहा। सूं हूं
अतिरिक्ता बहुरूपाभ्यां स्वाहा। इति सन्धानम्। यू लूं पूं शूं हूं सूं हुं
हिरण्यकनकारक्ता कुष्णा सुप्रभातिरिक्ता बहुरूपाभ्य
स्वाहेत्येकीकरणम्। तदनु हिरण्यादीनां बहुरूपायान्तर्भाव्यं विभाव्य यथासम्भव
द्रव्यैर्मूलेन
स्वाहान्तेनाष्टोत्तरशतम्। स्वाहान्ताङ्गमन्त्रैः
तद्दशांशं हुत्वा वौषडन्तमूलेन पूर्णां दद्यात्। अथ देशापादन कालापादन
दुर्निमित्तप्रोत्सारणाय सुनिमित्तापादनाय च
शतद्वयं तदर्धं वा मूलेनाघोरेणास्त्रेण वा पूर्णासहितं कृत्वा शिष्यप्रवेशार्थं
प्रतिशिष्यं मूलेन शतं शतं पूर्णासहितं जुहुयात्। तदनु हां
हौं शिवाय स्वाहा हां
हृदयाय स्वाहा। हीं शिरसे स्वाहा। हुं शिखायै स्वाहा। ॐ हें कवचाय स्वाहा। हः अस्त्राय
स्वाहा इति तर्पणम्। हूं हां हौं
शिवाय हुम्फट्। हं हां हृदयाय हं हीं फट्। ॐ हं हीं शिरसे हुम्फट्। हूं हं
शिखायै हं हं हुम्फट्। ह्रं हैं कवचाय हुम्फट् हं हः
अस्त्राय ॥॥॥॥ फट् इति दीपनम्। तथागमः।
आज्येन सर्वमन्त्राणां स्वाहान्तं तर्पणं सकृत्।
शिखासम्पुटितैर्बीजैर्हुम्फडन्तैश्च दीपनम्॥ इति

(स्थालीपाकविधिः)
तत
स्थालीं सीसं रूषितताम्रमयीं मृण्मयीं वा व्रणादिदोषरहितामस्त्रेण वारिणा
प्रक्षाऴ्य कवचेनावकुण्ठ्य निरीक्षणादिचतुःसंस्कारैः
संस्कृत्य चन्दनादिभिरुपलिप्य धूपयित्वा शस्त्रकवचाभिः जप्तत्रिसूत्रीकुशाभ्यां कण्ठे
संवेष्ट्य गोमयालिप्ते मण्डले
अस्त्रप्रोक्षिते कवचावकुण्ठितेऽस्त्रविन्यस्तदर्भे षडुत्थासनं सम्पूज्य तस्मिन् मूर्तिभूतां
स्थालीं विन्यस्य तस्यां साङ्गं भगवन्तं लयाङ्गपर्यन्तमभ्यर्च्य
पुष्पादिकमपनीय शास्त्रजप्तगव्याज्येनाभ्यज्य वस्त्रभूतेन निरीक्षणादिशुद्धेन
प्रासादशतमन्त्रितेन गोक्षीरेणापूर्य ततो याज्ञीय धान्यतण्डुलानेकशिष्यकृते
पञ्चप्रसृतिसम्मितान् द्वादशप्रसृतिपर्यन्तां वृद्ध्या तस्यां प्रक्षिप्य चुल्लीं कुण्डां
दक्षिणस्यां पूर्वस्यां पश्चिमायां वा दिशि
पश्चिमाननामस्त्रेणोल्लिख्य
तेनैव प्रोक्षितां कवचावकुण्ठितां सम्मार्जितामुपलिप्तां धर्माधर्मभुजां
कल्पिताशेषावयवां न्यस्त हङ्कारबीजां शस्त्रजप्तां
पूर्वोद्धृतशिवाग्निना सम्पूज्य प्रणवासनं दत्वा स्थालीमारोप्य
पूर्वस्याश्चालनोत्घाटनाद्यस्त्रेण विलोकनं नेत्रमन्त्रेण पुनः पिधानं कवचेन कुर्वन्।

ह्रस्वप्रासादेन चरु यथा सुपक्वं
विपचेत्। पाकस्य मन्दतीव्रत्वे पञ्चताव्याधिर्भवति। तच्छान्त्यर्थमस्त्रशताहुतिं विदध्यात्।
तत् सिद्धौ स्वाहान्तया मन्त्रसंहितया
सुस्विन्ना भवेति तप्ताभिघारं विधाय कृतप्रोक्षणादिके अस्त्रकृतमण्डले पूर्ववत्
सम्पूजिते हृदयेन उल्लेखनं कृत्वा वौषडन्तसंहितया सुशीतऴो भवेति
शीताभिघारं कुर्यात्।

(समयदीक्षा)
तदनु हृदयेन संहारिण्या चुल्लिकास्थमग्निं विसृज्य ततो बहिर्मृदमभोभ्याम् उन्मृज्य
कुम्भस्य पश्चिमभागमण्डले षडुत्थासने
संस्थाप्य हृदयेन सम्पूज्य संहितया स्वाहेत्यग्नौ संस्कार्य चरोरुपरि शेषमाज्यं
स्रुवं धून्वन् पातयेदिति सम्पातहोमं विदध्यात्।
ततश्चरुं षडङ्गेनाभिमन्त्र्य कवचेनावकुण्ठ्यास्त्रेण संरक्ष्य धेनुमुद्रया
अमृतीकृत्य
देववह्न्यात्मभेदनदर्व्या चरुं त्रिधा विभज्य भागद्वयं
शिवाग्निभ्यां निवेद्य भागमेकात्मनः संरक्षयेत्। अथ कुम्भकुण्डयोर्मध्ये
वृत्ताकारं गोमयेन मण्डलं कृत्वा तन्मण्डले पूर्वादिदिक् वासिभ्यो
दिगीशभूतमातृगणरुद्रक्षेत्रपालादिभ्य स्वाहेति बलिं दद्यात्। ॥॥। ग्रहबलिम् अग्नावपि
बलिदेवताः पूर्णान्तं तर्पयेत्। तदनु वह्निस्थकुम्भस्थं मण्डलस्थं
शिवमष्टपुष्पिकया सम्पूज्य।
यदर्थोऽयं मयैवाद्यभवद्यागः प्रवर्तितः।
त इमे पशवः शान्तत्वानि तिष्ठन्ति वारिताः॥
कृत्येप्यत्राहामाज्ञप्तो भवता गुरुमूर्तिना।
एषामनुग्रहं तस्मात् मामधिष्ठाय सम्प्रति॥
करोतु
भगवानेव भुक्तिमुक्तिप्रदः प्रभुः। इति विज्ञापयेत्।
अथ देशिक स्वात्मानमलङ्कृत्य शिवहस्तं स्व मस्तके धृत्वा शिवोऽहमिति भावयेत्।
यथा अचिन्त्यविश्वसादाख्ये –
श्वेतोष्णीषं न्यसेन्मूर्ध्नि मूलमन्त्राभिमन्त्रितम्।
उत्तरीयं तु गायत्र्या सद्योजातेन वाससम्॥
कर्पूरक्षोदसंयुक्तैश्चन्दनैः कुसुमैस्तथा।
भस्मना गन्धयुक्तेन स्वात्मानं भूषणैस्तथा॥
परिकुर्याद्विशेषेण देशिकोऽत्यन्तनिर्मलैः।
क्षौमैश्च वस्त्रैः शुद्धैश्च विविधाभरणादिभिः॥
कुर्यात् दक्षिणहस्ते च सुगन्धैर्मण्डलं गुरुः।
तस्मिन्नीशं समभ्यर्च्य साङ्गमावरणान्वितम्॥
शिवमन्त्रेण तं न्यस्य तिजिष्ठं निजमस्तके।
ईशादभिन्नमात्मानं कर्तारं भावयेत् सदा॥
साक्षिभूतो निरीक्षेत कर्माण्यपि च मण्डले।
हेमख पालयेति वह्नावटहुतिभुक्तं तथा।
पाशौघमोचनं कुर्यात् शिष्ये तत्र विशेषतः॥
स्वात्मन्यनुगृहीतेति पञ्चाधारो महेश्वरः।
आचार्यः सोहमेवेति कुर्यात् भावस्थितं तथा॥ इति
अथाष्टपुष्पिकया आधारादिपुरुषान्तं तत्वव्यापकम्। पश्वर्घ्यं प्रसाध्य तत् गृहीत्वा

यागमन्दिरान्निर्गम्य पश्चिमद्वारसम्मुखं करमानं करान्तचतुरश्रं भौतिकाया
पश्चिमपूर्वसंस्थानं मणडलद्वयं गोमयोनास्त्रेण कारयेत्। सन्यासं कुर्वते
दक्षिणोत्तरसंस्थानं मण्डलद्वयं कारयेत्। अथ भौतिकदीक्षायां मण्डलद्वये
पूर्वाग्रान् कुशान्विन्यस्य तत्र षडुत्थासनं
सम्पूज्य परिक्षिप्त
स्नानधृतोत्ग(द्ग) मनीयकम् उपोषितं भौतिकशिष्यं पश्चिममण्डले पूर्वास्यं विन्यस्य
स्वयं पूर्वमण्डले पश्चिमास्य स्थितवा
मस्तकादिपादान्तमूलमन्त्रविन्यस्तदिव्यदृष्ट्यावलोक्य
हुम्फडन्तास्त्रेणार्घ्यं पुनः सम्प्रोक्ष्य शिष्यस्य हृदयं तेनैव मन्त्रेण भस्मना
सन्ताढ्य तेनैव मन्त्रेणार्घ्याम्बुना पुनः त्रिवारं सम्प्रोक्ष्य

वौषडन्तकवचेनाभ्युक्ष्य नाभेरूर्ध्वाधः कुशाग्रकुशमूलैरस्त्रेण त्रिवारमुल्लिखेत्।
ततः दक्षिणोत्तरमण्डलद्वयोः साक्षतानुत्तराग्रान्कुशान्विन्यस्य तत्र मृषडासनः सं

सम्पूज्य परिक्षिप्तस्नानधृतो उत्ग(द्म)मनीयकम् उत्पोषितं सन्यासं कुर्वन्तं शिष्यं
दक्षिणमण्डले उत्तराननं विन्यस्य स्वयमुत्तरमण्डले दक्षिणास्य स्थित्वा
मूलमन्त्रवन्यस्तदिव्यदृष्ट्या
पादादिमूलपर्यन्तमवलोक्य हुम्फडन्तास्त्रेणार्घ्यं पुनः सम्प्रोक्ष्य शिष्यस्य
हृदयं तेनैव मन्त्रेण भस्मना सन्ताड्य तेनैव मन्त्रेणा॥म्बुना
पुनस्त्रिवारं सम्प्रोक्ष्य वौषडन्तकवचेनाभ्युक्ष्य नाभेरधश्चूर्ध्वं क्रमेण
कुशमूलैः कुशाग्रैश्चास्त्रेण त्रिवारमुल्लिखेत्। ततः शिष्यहृत्पत्मे(द्मे)
सूर्यसोमाग्निशक्तिमण्डलानि
विभाव्य तत्र स्फुरत्तारकाकारजीवं स्थितं विभाव्य
हुम्फडन्तास्त्रेण शिष्यात्मानं सन्ताड्य हां हं हाम् आत्ममूर्तये नम इति तं निरुध्य
शिष्यमस्तके
शिवमष्टपुष्पिकया शुक्लपुष्पादिभिः सम्पूज्य ललाटे चन्दनेन तिलकं कृत्वा हृदयेन
तदञ्जलौ पुष्पं निक्षिप्य नेत्रपटं दुकूलं कार्पासं वा
नववस्त्रं निरीक्षणादि शुद्धं मूलाभिमन्त्रितं वर्मावकुण्ठितमस्त्ररक्षितं कृत्वा
तद्वस्त्रेण नेत्रमन्त्रेण तन्नेत्रं बध्नीयात्। तथागमः।
स दत्तो नेत्रपट्टो यस्तदन्येषामदर्शने।
दर्शनाद्वासना सैव पाशबीजाय ते पुनः॥
तेन तन्नेत्रबन्धस्यात् पशुपाशविघट्टन। इति
ततः शिष्यं प्रदक्षिणमानीय देवस्य
दक्षिणे षडुत्थासने समुपवेश्य।
अयमात्मा शिवत्वार्हः शिथिलीकृतबन्धनः।
निजशक्त्या मयैवायं पाशप्रातोऽपि मद्वशः॥
तं मुक्ताम्रसंस्थानं स्व गुणोदययोग्यकः।
स्पर्शवेदिमणिप्रख्यः शिवोऽहं च वरप्रभुः॥
संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात्।
करोमि गुणसम्पन्नं सदा मस्तकभूषणम्॥
इति विज्ञाप्य
हुम्फडन्तास्त्रेणाङ्गुष्ठतर्जनीप्रेषितपुष्पेण शिष्यहृदयं सन्ताड्य नासीमार्गेण
तद्देहं प्रविश्य पञ्चधारणाभिभूतशुद्धिवत् शिष्यदेहं संशोध्य शिवतनुं कृत्वा

तद्धृतं नाभिबिन्दुषु यजनहवनध्यानानि विभाव्य तस्मात् आत्मानमासाद्य
शिष्य॥॥॥ङ्गुष्ठेन सव्यहस्ततलेन गन्धमण्डलं कृत्वा तत्र शिवं सम्पूज्य
मूलमन्त्रं

हृदयादिग्रन्धिभेदेन परशिवपर्यन्तमुच्चार्य शिष्यमस्तके शिवहस्तं न्यस्य
ब्रह्मरन्ध्रप्रविष्टशिवतेजसा हस्तकल्मषं शिष्यं सकऴीकृत्य मूलमन्त्रमुपविश्य
नेत्रपटमवसार्य
देवे पुष्पं दापयित्वा शिवे स्वस्मिन्निति कारयित्वा कुण्डसमीपं नीत्वा स्वदक्षिणे
षडुत्थासने शिष्यमुपवेश्य मूलमन्त्राभिमन्त्रितं कुशमूलं भौतिककरे दत्वा।तदग्रं

स्व जङ्घायां
नियोजयेत् ततः सन्न्यस्यतः करे कुशाग्रं दत्वा कुशमूलस्वजङ्घायां नियोजयेत्। तदनु
नाडीत्रयं शिष्यदेहान्निर्गतं स्वदेहलीनं विभाव्य वह्निस्थशिवं
सम्पूज्य हाम् इडायै स्वाहा। हां पिङ्गलायै स्वाहा। हां सुषुम्नायै स्वाहा इति नाडीत्रयं
सन्तर्प्य शिवहस्तस्थैर्याय स्वाहान्मूलेनाष्टोत्तरशतं
ब्रह्माङ्गमन्त्रैस्वाहान्तैस्तद्दशांशं हुत्वा वौषडन्तमूलेन पूर्णां दत्वा
प्रायश्चित्तार्थमस्त्रेण स्वाहान्तेन पूर्णासहितमष्टोत्तरशतं जुहुयात्। ततः शिष्येण शिवे

पुष्पाञ्जलिना पूजां कारयेत्। एतेन सामान्यसमयीगुरुशुश्रूषणादावधिकारी भवति। देहान्ते
शिवलोकं प्राप्नोति। इति समयदीक्षाविधिः।
समयी च द्विविधः लौकिकशिवाश्रमी चेति उभयोः साधारणधर्म देशिक उपदिशेत्। परस्त्री
परद्रव्यापेक्षणं परेषामनिष्टं
चिन्तनम् अकृत्ये ॥॥ अभिनिवेशम् असत्यवादित्वम्
अपत्थ्याप्रियवचनम्। परापवादनपैशून्यमभक्ष्यभक्षणं हिंसा परस्त्रीगमनं
परद्रव्यापहारिणं चेति मानसवाचिककायिकभेदेन द्वादशविधं पापं विहाय
वक्ष्यमाण स्वस्वाचारं समाचरेति तत्र लौकिकं प्रातस्सन्ध्यामुपास्य
देवगुरुद्विजशिवभक्तान् याथाशक्ति सम्पूजयेति च। शिवाश्रमिणं प्रति

देवाय
पुष्पारामदैवालयसम्मार्जनालेपनदीपाराधनालयनिर्माणस्तोत्रप्रदक्षिणनमस्काराः।
शिवगुरुभक्तसेवादिकं
कुरुष्वेत्युपदिशेत्।
॥विशेषदीक्षाविधिः॥
अथ विशेषदीक्षोच्यते -
हां वागीश्वर्यै नमः। हां वागीश्वराय नम इति। कुण्डे समावाह्य सम्पूज्य
सन्निधानार्थं पञ्चाहुतीर्हुत्वा
मायातत्वाख्यपर्यङ्के शुद्धमार्गोपधानके।
कुटिलाशक्त्या स्तरेणे विद्यादीपे सुसङ्गतौ॥
शिवो विचिन्तयेद्रक्तौ श्यामेल वा देशिकोत्तमः।
ततश्शिष्यमस्त्राम्बुना प्रोक्ष्य
हुम्फडन्तास्त्रेण सप्तधाभिमन्त्रितपुष्पेण हां हं हाम् आत्मने हः हुम्फडिति
हृदये ताडनं तेनैव मन्त्रेण भेदं च कृत्वा हां हं हाम् आत्मने हः हुम्फण्णम

इति वामया प्रविश्य हाम् आत्मने हः हुम्फडिति ज्येष्ठया वियोज्य हां हम् आत्मने हः
हुम्फण्णम इत्यङ्कुशमुद्रया रौद्र्यौत्कृष्य हुं हां हं हां
हुम् आत्मने गृह्णामि। हुम्फडिति
सङ्गृह्य हां हं हाम् आत्मने नम इत्यङ्गुशमुद्रया तद्वादशान्तं नीत्वा
संहारमुद्रया आत्मानं गृहीत्वा वामया
पूरकेण स्वात्मस्थं कृत्वा कुम्भकेन शिवसमरसीकृत्य हृदयादिग्रन्धिभेदेन
ज्वलदग्निकणोपमं मूलमन्त्राग्रस्थं ब्रह्मादिकारणत्यागेन ऊर्ध्वशक्त्यन्तं नीत्वा

पूरकसंहारिण्या सङ्गृह्य हां हं हाम् आत्मने नम इत्युत्भ (द्भ)वमुद्रया रेचकेन
वामया आत्मानं
सदाशिवबीजं भावयित्वा गर्भाधानाद्यर्थं वागीश्वरगर्भे
सुयोज्य तेन वागीश्वरीगर्भे निक्षिप्यमाणं ध्यात्वा सम्पूज्य सान्निध्यै तृप्तये च मूलेन
स्वाणुना वा पञ्च पञ्चाहुतीर्जुहुयात्। ननु निरवयवस्य विभोरात्मन्
गमनागमने कथं सम्भवेतामपुर्यष्टरूपोपाध्यवच्छिन्नत्वात् गमनागमनं
चोपपद्यत इति चेत् तदयुक्तं मायापर्यङ्के
शुद्धाध्वोपयानकुटिला
शक्त्या स्तरणोपरिस्थितनिर्मलशान्तमये शिवे प्रकृतिकार्यपुर्यष्टकेन सह आत्मा युज्यते चेत्
सूर्ये अन्धकारश्च यज्यतां तस्मात्
शिवे पुर्यष्टकशरीरात्मयोजनं न घटते। अत इदं रहस्यं साम्प्रदायिकगुरुमुखेन
जानीयात्। ततः शिष्यकृतं पापमग्निलक्षणैरूहयेत्। तथागमः।
विष(शि)ष्ठा गन्धे स भूहर्ता ब्रह्महा गुरुतल्पगः।
सुरापो गुरुहन्ता च गोघ्नश्च कृतनाशनः।
कृष्णेऽग्नौ शवगन्धे च गर्भभर्तृविनाशनः॥
भ्रमति स्त्रीवधे वह्निः कम्पते हेमहर्तरि।
वधे स्फुटति बालस्य निस्तेजा गर्भघातके॥
एवमादिचिह्नैः शिष्यकल्मषं विज्ञाय।
पापभक्षणदेवस्य रूपं भिन्नाञ्जनप्रभम्।
लेलिहानं दुराधर्षं मेघनादं सुदुर्जयम्॥
विवृतास्यं महादंष्ट्रं रक्तवस्त्रं त्रिलोचनम्।
रक्तामुक्तजटाचूडं सर्पमण्डलमण्डितम्॥
शूलकासिधरं भीषं वरदाभयपाणिनम्।
व्याघ्रचर्मपरीधानं नागयज्ञोपवीतिनम्॥
बद्धपत्मा(द्मा)सनासीनं ध्यायेत् घोराघनाशनम्। इति
पापभक्षणमूर्तिं देवं
ध्यात्वा आवाह्याभ्यर्च्य खर्सहष्ठलव्यूमखट्पापभक्षणाय स्वाहेत्यनेन
तत्पापकु(गु)रुत्वलघुत्वानुगुणं शताधिकं जुहुयात्।
भावाहारविशुद्धोऽयं बीजयोनिविशुद्धिमान्।
द्विजो भवतु रुद्रांशः सत्वप्रसादात् सदाशिव। इति
विज्ञापयेत् तदनु गर्भाधानादिसंस्कारैः शिष्यं
संस्कुर्यात्। तद्यथा -
यावन्तः केचन सत्वाः सर्वतत्वेषु संस्थिताः।
तावन्तस्तु स्मृता भेदा देहस्थस्य विदेहिनः॥
यादृक् रूपं भवेत्तेषां नामागमोऽत्र च षाण्मुख।
तावद्रूपं शिवं विद्यात् तेषु देहेष्ववस्थितम्॥
छायारूपमिव स्थूलैः सूक्ष्मैः सूक्ष्मतरं तु तम्।
निष्कऴैर्निष्कऴात्यन्तं रूपैस्तमरूपकम्॥
द्विजत्वापादनायाथ तथारुद्रांशभावने।
बीजं भोजनसंशुद्धि गर्भाधाने च पुंस्कृतौ॥
सीमन्तोन्नयने चैव जातकर्मणि नाम्नि च।
होमयेन्मूलमन्त्रेण पञ्चब्रह्मशतं शतम्॥
नामकरणहोमान्ते। पञ्चब्रह्मषडङ्गमण्डले शिष्यहस्तेन पुष्पं
क्षेपयित्वा तत्पुष्पपतनमण्डलमन्त्रानुरूपेण
देवान्तं नामं दद्यात्।
निष्क्रामणे तथान्नस्य प्राशने चौलकर्मणि।
उपनीतौ व्रतादेशे गोदाने स्नानकर्मणि॥
विवाहे वनवासित्वे यतित्वे नन्दिकेश्वर।
पञ्चाशन्मूलमन्त्रेण प्रत्येकं होममाचरेत्॥
सन्याससंस्कारहोमानिर्वाणदीक्षानन्तरमेव ।
गृहस्थारण्यविसित्वं यदि(ति)त्वं च विशेषतः।
पूर्ववन्मूलमन्त्रेण जहुयाद्देशिकोत्तमः॥
चतुराश्रमनिष्ठेषु तत्तदाश्रमकावधिः।
संस्कारं कुर्यादेव अत ऊर्ध्वं न कारयेत्॥ इति
तदनु पूर्णां हुत्वा नामया गत्वा रौद्र्या
वागीशिगर्भादात्मानमुद्धृत्य वामया स्वमात्मस्थं कृत्वा ज्येष्ठया समरसीकृत्य
रौद्र्यान्तद्वादशान्तं नीत्वा गर्भाधानादिसंस्कृतम्।
स्फुरत्नाकारमात्मानं विधिवत् शिष्यदेहे संयोज्याप्यायनार्घ्यजलबिन्दुं शिष्यशिरसि
दत्वा वीगीशीवागीश्वरौ सम्पूज्य सन्तर्प्य पूर्णां दत्वा

प्रायश्चित्तार्थमस्त्रेणाष्टोत्तरशतं पूर्णासहितं हुत्वा सिद्धान्तान्ताध्ययने श्रवणे
शिवाग्निगुरुपूजायां च योग्या भवान्नित्युक्त्वा पूजार्थं बाणलिङ्गं दत्वा -
न शिवं शिवशास्त्रं च शिवाग्निं च तथा गुरूम्।
निन्द्यान लङ्घयेत्तेषां छायामपि कथञ्चन॥
शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि। इत्युपदिशेत्।
तदनु – बालबालिशवृद्धातुरकान् च समयात् शोधयेत् तद्यथा – हाम्
अनन्तादिविद्येश्वरेभ्यो नमः। हां नन्द्यादिगणेभ्यो नमः। हाम् इन्द्रादिलोकपालेभ्यो
नम इत्यग्नौ सम्पूज्य – प्रत्येकमेकैकयाज्याहुत्या सन्तर्प्य। ।॥॥॥॥॥।। समयशुद्ध्यै मूलेन
शतं हुत्वा पूर्णां दत्वा।
भगवन् न क्षमश्चायं समयाचारपालने।
तस्मादनेन होमेन तत्सर्वं त्वं क्षमापय॥ इति विज्ञापयेत्।
अन्यत्र च।
विद्येश्वरगणेशानलोकपालाश्च साक्षिणः।
कृत्वैवं शोधयेत् तस्य समयां देशिकोत्तमः॥

(ब्रह्मचर्यव्रतम्)
तदनु नैष्ठिकब्रह्मचर्यव्रताभिलाषी चेत् तस्मै वृत्तं दद्यात्।
जटानां धारणं भस्मलेपनं ब्राह्मणस्य तु।
त्रिपुण्ड्रकं जटा चैका क्षत्रियादित्रयस्य तु॥ इति
वचनात्
एकसमरमुपवीतम्। वक्ष्यमाणप्रकारेण एकां जटां सन्नह्येत्। अथवा
मुण्डनं कुर्यात्।
वेदमन्त्रेश्शिखां सूत्रं शुद्रो धारणमात्रतः।
वैपरीत्यकमार्थेन राजराष्ट्रविनाशनम्॥
इति। वचनात्।
आगममन्त्रेण शूद्रस्यैकसरं प्रोक्तमिति वचना। एकसरमुपवीतम्।
व्रतं जटोपवीताश्च भस्मकौपीनयष्टयः।
कमण्डलुव्रताङ्गत्वात् व्रतमेतत्तपस्विकः॥
व्रताङ्गषट्कं सर्वं च योग्यमेव जटादिकम्। इति वचनात्।
दण्डकौपीनभस्मोपवीतशिखामणीन् पात्रे निधाय सद्यैरभिमन्त्र्य
स्वाहान्तशिवसंहितया सम्पातहोमं कृत्वा व्रताङ्गं शिवकुम्भाय क्षणमात्रं
रक्षणाय संस्थाप्य भगवन्नस्मै व्रतं दास्यामीति आज्ञां देहीति विज्ञाप्य
लब्धानुज्ञस्तस्मै प्रदद्यात्। सोऽपि देशिकं प्रणम्य व्रताङ्गान्यादाय यावज्जीवं व्रती
भूयात्। कालं सङ्कल्प्य वा पुनः।
समाप्ते कल्पिते काले यजेत् सद्यो व्रतेश्वरम्। कालं
सङ्कल्प्य विधिना पूर्ववत् ब्रह्मचर्यकम्। अन्ते व्रतेश्वरं यागं कृत्वोद्वाहं ततश्चरेत्। इति
वचनात् यावज्जीवं वा द्वादशवर्षं वा सङ्कल्प्य धारयेत्। सङ्कल्पितकाले समाप्ते सति ते

ई[व्रते]श्वरं सम्पूज्य विवाहं कुर्यात्।

॥ नैष्ठिकब्रह्मचर्यव्रतक्रममाह ॥
अचिन्त्यविश्वसादाख्ये –
द्विविधं ब्रह्मचर्यं हि नैष्ठिकं भौतिक(कं)थं? तथा।
आजन्मब्रह्मचर्यं तु यावदामरणान्तिकम्॥
जटीमुण्डीशिखी वाथ पौपीने तु समेखलः।
यज्ञोपवीति दण्डी च भस्मोद्धूऴितविग्रहः॥
त्रिपुण्ड्राङ्कितदेही च रुद्राक्षैश्च विभूषितैः।
त्रिकालमेककालं वा स्नानयुक्तो जितेन्द्रियः॥
सत्यवादी ह्यधश्शायी क्षमायुक्तो दृढव्रतः।
गुरुसुश्रूषणायुक्तो गुर्वाज्ञापालने रतः॥
भिक्षाशी देहरक्षार्थमेककालं गुरोर्गृहे।
ताम्बूलमञ्जनाभ्ङ्गे हरिद्रालवणं तथा॥
पादुकां मकुटं वापि गन्धमाल्यानि वर्जयेत्।
गुरोस्थाने वसेन्नित्यमन्यगेहे न चेत् स्वपेत्॥
स्वातन्त्र्यवादिकं हित्वा गुरोस्वातन्त्र्यसंयुतः।
पुण्यक्षेत्रं च तीर्थं च ध्यानं कर्मादिकं तथा॥
सर्वं च गुरुकारुण्यदर्शनं च पुनः पुनः।
गुर्वाज्ञया विहीनं तु तपोदानादि निष्फलम्॥
तस्मात् सर्वप्रयत्नेन गुर्वाज्ञापालनं भवेत्।
नैष्ठिकब्रह्मचर्यं हीति। इति विशेषदीक्षाविधिः।

॥ अथ निर्वाणदीक्षोच्यते ॥
द्वेधा निर्वाणदीक्षा स्यात् लौकिकी शिवधर्मिणी।
शिखाच्छेदं विना वत् स ज्ञेया सालोकधर्मिणी॥
शिखाच्छेदनसंयुक्ता दीक्षा सा शिवधर्मिणी।
दीक्षाया लोकधर्मिण्या भौतिका दीक्षयेत् गुरुः॥
दीक्षां पूर्वोदितां कृत्वा समयादि विशोधिनीम्।
लयकौर्ये परे तत्वे भोगं शुद्धाध्वनि स्मरेत्॥
नैष्ठिकी द्विविधा तथैव शिवधर्मिण्या नैष्ठिकं तु दीक्षयेत् गुरुः
मायान्ताध्वविशुद्धौ तु शुद्धे वाध्वनि भोगदा।
सस्कामा* सा सबीजाख्या भागान्ते मोक्षदा भवेत्।*
निष्कामस्य तु या दीक्षा विनाध्वेन कर्मणा
अशेषपाशहन्त्री सा निर्बीजा अद्वैतदायिनी।
प्रागार्जितफलं तत्र दग्धबीजत्वमापतेत्॥
आक्रान्ततमसस्तस्य निरोध्यं विषशक्तिवत्।
आरब्धतनुना तस्य भोगात् शिवपदं व्रजेत्॥
समयविशेषदीक्षानन्तरं यागेशविसर्जिते
निर्वाणदीक्षाकाङ्क्षिणश्शिष्यस्य पुनः समयविशेषदीक्षे कृत्वा अस्य पाशता न
भेदेनातिकरणताय मन्त्रतर्पणदीपने विदध्यात्। यागे
तु अविसर्जिते मन्त्रतर्पणदीपने विधाय शिष्यः शिवान्तिकं गत्वा शिवमभ्यर्च्य।
परीक्षितोऽयं भगवन् मया त्व॥।शवर्तिना।
उत्कृष्टजातिः सुचिरं रुद्रांशः समये स्थितः॥
क्लिष्टो निर्वाणकाङ्क्षी च भवदुःखार्दितः शुद्धः चित्तः।
तदेतस्मिन्विमोक्षार्थमधितिष्ठमधिप्रभो॥
इति विज्ञाप्य शिवोऽहमिति विभाव्य कुण्डस्य स्वस्य च दक्षिणमण्डले
षडुत्थासने स्नातमुपोषितं कृताञ्जलिं भौतिकं पूर्वास्यं सन्न्यस्य
तमुत्तरास्यमूर्ध्वकायं विन्यस्य तस्य शिरोवदनहृदयगुह्यपादेषु भौतिकस्य
मन्त्रिपदवर्णभुवनतत्वगर्भं
शान्त्यतीतादिकलान्यासं स स्वबीजैः कुर्यात्। सन्यस्तस्तु पादगुह्यहृदयविदनशिरस्सु
निवृत्तादिकलान्यासं कुर्यात्।
तदुक्तमनिर्वाणोत्तरे –
मन्त्राः पदानि वर्णैस्तु व्याप्तानीह समन्ततः।
वर्णव्याप्तास्तु भुवनैस्तत्वै व्याप्तानि तानि तु॥
तत्वजातिस्तथा व्याप्ताः कलाभिस्तु कलास्ततः।
शोधनीया प्रयत्नेन अन्तर्भावं प्रकल्प्य च॥
इति।

(पाशसूत्रबन्धनादिः)
तदनु द्विजकन्याकृतं सूत्रं त्रिगुणं त्रिगुणीकृतम्। पाशसूत्रं हुम्फडन्तास्त्रेण
प्रक्षाऴितशुष्कं तेनैव मन्त्रेण पञ्चगव्येन गन्धतोयेनाभ्युक्ष्य
अर्घ्योदकेन प्रोक्ष्य मूलेनाभ्यर्च्य भक्ष्यै भौतिकस्य शिखायां हौं शक्तये नम इति
बध्वा तस्य पादाङ्गुष्ठान्तमवलम्बयेत्। मुक्त्यै सन्यस्यतः
पादाङ्गुष्ठादिशिखापर्यन्तं
प्रसार्य हौं शक्तये नम इति शिखायां बध्नीयात्।
ततस्तत्सूत्रं सर्वं मन्त्रैः सकऴीकृत्य पाशसूत्रं शिष्यस्य प्रतीकाय रूपं भावयेत्।
तथागमः।
च्छेद्याभेद्याश्च ते पाशाः सूत्रस्थाने तु विग्रहे।
तस्मात् सूत्रमयो देहो भावनीयस्तु देशिकैः॥ इति।
तदनु – हां क्रियाशक्तये नम इति। शिष्यदेहे सम्पूज्य ताडनादिभिरात्मानमारादाय सूत्रे
विन्यस्याभ्यर्च्य
निरुध्याग्नावभ्यर्च्य निरुध्यावकुण्ठ्याग्नावभ्यर्च्य तर्पयेत्। ततस्तद्देहे हाम् इडायै
नमः। हां पिङ्गऴायै नमः। हां सुषुम्नायै नमः। इति सम्पूज्य
नाडीसन्धानं कृत्वा हाम् इडायै हुम्फडित्यादिमन्त्रैस्ताडनभेदेन
प्रवेशविशेषानन्तरं
मृणालतन्तुनिभात् शिष्यदेहात् पूरकसंहारिण्यादाय सूत्रे
संयोज्याभ्यर्च्य निरुद्धावकुण्ठ्याग्नौ सम्पूज्य आत्मानं व(वि)न्यस्य सन्तर्प्य तासु
नाडीं हां वामायै नमः। हीं ज्येष्ठायै नमः। हूं रौद्र्यै नमः। इति
विन्यस्याभ्यर्च्याग्नौ
सम्पूज्य तर्पणाय सन्निधये च पञ्चपञ्चाहुतीर्हुत्वा पुनः सूत्रे निपुध्यावकुण्ठ्यताभिः
पिशविश्लेषणादिकं विदध्यात्। तथागमः।
तिस्रस्युः श्क्तयः शंभोर्वामाज्येष्ठारौद्रीका।
श्लेषविश्लेषु(षो)द्धारे सर्वत्राव्याहसौजसः॥ इति।

(सूत्रे शक्तिन्यासक्रमः)
तदनु शिष्यहृदयपत्मे(द्मे) सूर्यादिमण्डलत्रयं हृदयेनाभ्यर्च्य
पूरकसंहारिण्याग्निस्थमात्मानं त्रिसूत्रे विन्यस्याभ्यर्च्य निरुध्यावकुण्ठ्याग्नावपि
सम्पूज्य न्यासं विन्यस्य तर्प्य हौं विद्यादेहाय नम इति सम्पूज्य ताडनादिभिरादाय
सूत्रे
विन्यस्यार्घ्यादि विदध्यात्।

(सूत्रे आत्मसंयोजनक्रमः)
ततश्शिष्यमर्घ्याम्बुना प्रोक्ष्य हुम्फडन्तास्त्रेण सप्तवारमभिमन्त्र्य ॥॥॥॥॥॥।हां हं
हाम् आत्मतन हः उम्फडिति शिष्यहृदयं पुष्पेण सन्ताड्य अनेन हस्तमात्मानं
विभाव्य तेनैव मन्त्रेण विभेदं कृत्वा हृत्पद्मकोशात् ॥॥चलितमात्मानं विभाव्य हुं
हां हं हां हः हुम्फण्णम इति स्वदेहाद्रेचकेन निर्गत्य तत्
द्वामया तत् पूरके तद्धृदयं प्रविश्य हां हं हाम् आत्मने हः हुम्फडिति
तद्धृदयपत्म(द्म)कोशादात्मानं तत् कुम्भकेन ज्येष्ठया वियोज्य हुं हां हुम् आत्मने

नमस्वाहेति वा अङ्कुशमुद्रयाकृष्य रौद्र्या तद्रेचकेन तद्वादशान्तं नीत्वा हुं हां हं
हाम् आत्मानं गृह्णामि हः हुम्फडिति सङ्गृह्य हां हं हाम् आत्मने नम
इति लयान्तशक्तिस्थमात्मानमादाय स्वपामया स्वात्मस्थं कृत्वा कुम्भकेन समरसीकृत्य
ज्येष्ठया विश्लेष्यरौद्र्या रेचकेन हां
मूलमन्त्राग्रस्थं ज्वलदग्नि
क्रमेणोपममात्मानं हृदयादिग्रन्धिभेदेन स्व द्वादशान्तोर्ध्वशक्त्यन्तं नीत्वा
पूरकसंहारिण्या सङ्गृह्य तस्मात् सृष्ट्या भ्रूमध्यमानिनीय पिङ्गलया
रेचकेन निस्सार्य हां हं हाम् आत्मने नम इति। मलादिपाशकुण्डनं
कृष्णमात्मानमुद्भवमुद्रया सूत्रदेह(हं) नियोज्य आत्मानं सूत्रव्यापकं विभाव्य
अभ्यर्च्य

निरुध्यावकुण्ठ्याग्नावभ्यर्च्य सन्तर्प्य सन्निधानाहुतिपञ्चकं दद्यात्। तदनु हां
वामायै नमः। हीं ज्येष्ठायै नमः। ह्रूं रौद्र्यै नमः। इत्यग्नौ सम्पूज्य स्वाहान्तेन

प्रत्येकमाहुतिपञ्चकं दद्यात्।

(सूत्रे मालादिपाशयोजनक्रमः)
तदनु हां मलपाशायभोक्तृत्वकारणाय नमः। कृष्णवर्णं हां कर्मपाशेभ्यः
सुखदुःखोपभोगकारणेभ्यो नमः। सितासिताय रूपान् हां
मायापाशाय शरीरविषयकारणाय नमः। कर्पूरं हां मलपाशाधिष्ठात्र्यै शक्तये
नमः। तमोरूपां शिष्यादादाय सूत्रे संयोज्याभ्यर्च्य निरुध्यावकुण्ठ्याग्नावभ्यर्च्य

सन्निधानाय मलत्रयस्य प्रत्येकमाहुतिपञ्चकं दद्यात्।
तदनु हां विद्यादेहाय नम इति। विद्यादेहं विन्यस्य हां तिरोभाविका कुटिलाशक्तिभ्यां
नम इति शिखायामिष्वासूत्रे
संयोज्याभ्यर्च्य निरुध्यावकुण्ठ्यावग्नावभ्यर्च्य सन्निधानाय पञ्चाहुतीर्दद्यात्।

(सूत्रस्थचैतन्ये शान्त्यतीतकलायोजनक्रमः)
शान्त्यतीतां सूत्रस्थे चैतन्ये सन्नियोजयेत्। तद्यथा हां हौं हां
शान्त्यतीतकलापाशाय नम इत्यवलोक्य नादतत्वबिन्दुतत्वे साक्षात् शिवतत्वशक्त्यधिष्ठितत्वेन
शिवतत्वशक्तितत्वसञ्ज्ञे अत्र शिवतत्वे अनाश्रिता अनाथा अनन्ता। व्योमरूपा व्यापिनी इति
शक्तिकला भुवनानि ऊर्ध्वगामिनी। रोचिकामोचिका – दीपिका – इण्डिकेति नादकलाभुवनानि
शिवतत्वे शान्त्यतीता शान्तिर्विद्याप्रतिष्ठानि वृत्तिरिति बिन्दुकला भुवनानि
शक्तितत्वे एवं रुद्रैः समाननामानि पञ्चदश भुवनानि। अ आ इ ई उ ऊ ऋ ऋ ऌ ॡ ए ऐ ओ औ अम्
अः – इति वर्णाः षोडश। आद्योङ्कारः पदमेकम्। प्रणवाद्येकादशीति
पदं पञ्चकलासु अवान्तरशैवैर्भावनीयम्। न आचार्यम्। हौं हों हः इति
शिवेशानास्त्रमन्त्राः।
नादहकारौ बीजे। कु कू शङ्खिनी नाड्यौ देवदत्तधनञ्जयौ
मारुतौ वाक्श्रोत्रेन्द्रिये विषयः शब्दः। शब्दे गुणः। वृत्तं मण्डलम्। तुर्यातीतावस्था।
सदाशिवः। कारणेश्वरः। एतैर्युक्तां शान्त्यतीतकलां विभाव्य हां हौं हां
शान्त्यतीतकलापाशाय नमः। हां हौं हां शक्तिशिवतत्वाभ्यां नमः। हां हौं हाम्
अनाश्रितादिनिवृत्यन्तशक्त्यधिष्ठितपञ्चदशभुवनेभ्यो
नमः। हां हौं हाम् अकारादिः।
अकारान्तषोडशवर्णेभ्यो नमः। हां हौं हां नादसर्वातीततुर्यातीतयोङ्गारपदाय
नमः। हां हौं हां हः शिवेशानास्त्रमन्त्रेभ्यो नमः। हां हौं हां
हकारबीजाय नमः। हां हौं हां कुहू शङ्खिनी नाडीभ्यां नमः। हां हौं हां
देवदत्तधनञ्जयवायुभ्यां नमः। हां हौं हां श्रोत्रवागिन्द्रियाभ्यां नमः। हां
हौं हां
विषयशब्दाय नमः।
हां हौं हां ध्वनिगुणाय नमः। हां हौं हां व्योममण्डलाय स्फटिकाकाराय
अवकाशात्मने नमः। हां हौं हां बिन्दुनादशक्तये स्व वर्तुलायै
अयुतलक्षकोटियोजनप्रमाणायै नमः। हां हौं हां सदाशिवाय कारणाय नमः।
प्रतीखस्वरूपा शुक्लानर्धेन्दुबिन्दुनादकुटिलात्मकानभ्यर्च्य
पूरकसंहारिण्या गृहीत्वा चूटादिललाटान्तसूत्रे संयोज्याभ्यर्च्य
निरुध्यावकुण्ठ्यावग्नावभ्यर्च्य सन्निधानाय पञ्चाहुतीर्जुहुयात्।

(शान्तिकलायोजनक्रमः)
तदनु हां ह्यैं
हां शान्तिकलापाशाय नम इत्यवलोक्य प्रथमं सदाशिवतत्वम्
अथोर्ध्वं तु भवेदन्यत् सर्वैश्वर्यमयं शुभम्।
सदाशिवं परं तत्वं शुद्धस्फटिकनिर्मलम्॥
तत्रास्ते भगवान्देवः सर्वतत्वेश्वरो हरः।
सदाशिवोऽपि भुविर्व्यापि मन्त्रमूर्तिमयः परः॥
अनन्तकान्तिसम्पन्नः अप्रमेयगुणक्रमः।
अनन्तशक्तिसम्भोग अनन्तासनसंस्थितः।
सदाशिवभुवनमेकं सदाशिवतत्वे – द्वितीयमीश्वरतत्वम्।
अथोर्ध्वं तु भवेदन्यत् विद्येशावरणं पुनः।
दीप्तपावकवर्णाभं किञ्चिद्रक्तं सुनिर्मलम्॥
आष्टौ विद्येश्वरास्कन्दस्थितास्तस्मिन् विभूतिदाः।
विस्फुलिङ्गाग्निसंस्काशः विधूमकिरणोज्वलाः॥
अनन्तः सूक्ष्मशिवोत्तमः एकनेत्रः एकरुद्रः त्रिमूर्तिः श्रीकण्ठः शिखण्डी इति
अष्टविद्येश्वरभुवनानि ईश्वरतत्वे।
अथोर्ध्वं भवेदन्यद्विद्यातत्वं षडानन।
डाडिमीपुष्पसङ्काशं किञ्चित्पीतं सुनिर्मलम्॥
तत्र विद्याधिपा ज्ञेयाः पत्म(द्म)रागसमप्रभाः।
सुदीप्ता निर्मलाः सुक्ष्माः व्यापिनीः सर्वतोमुखी ॥
मन्दोन्मनी सर्वभूतदमनी बलप्रमथिनी बलविकरणी कलविकरणी। काऴी रौद्री ज्येष्ठा
यामा इति नव भुवनानि शुद्धविद्यातत्वे एवमष्टादशभुवनानि रुद्रैः
समाननामस्थानानि कखगाः वर्णाः व्योमव्यापिने व्योमरूपाय। सर्वव्यापिने शिवाय
अनन्ताय
अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहानाय
इति
द्वादशपदानि हेम हैम तत्पुरुषकवचौ मन्त्रौ।
बिन्दुयकारबीजे। अलम्बुषायशानाड्यौ। कृकरकूर्मौ घायूत्वक्पादौ इन्द्रिये। स्पर्शो विषयः।
श्बदस्पर्शौ गुणौ। तुर्या व्यवस्था। षट्कोणं कृष्णमण्डलम्।
ईश्वरकारणेशः। एतैः सहिताः शान्तिकलां विभाव्य हां हैं हां शान्तिकलापाशाय नमः।
हां ह्यैं हां सदाशिवैश्वरशुद्धविद्यातत्वेभ्यो नमः।
हां ह्यैं
हां सदाशिवादिवामान्तशक्त्यधिष्ठिताष्टादशभुवनेभ्यो नमः। हां हैं हां
कखगवर्णेभ्यो नमः। हां हैं हां बिन्दुतुर्यान्वितेभ्यो व्योमव्यापिन
इत्यादिध्यानहारान्तद्वादशपदेभ्यो नमः। हां ह्यैं हां ह्यैं
तत्पुरुषकवचमन्त्राभ्यां नमः। हां ह्यैं हां बीजाय नमः। हां ह्यैं हाम्
अलम्पुरुषायेशानादिभ्यां नमः।
हां ह्यैं हां वायुमण्डलाय कृष्णाय
षट्बि(ड्बि)न्दवे षडश्राया लक्षकोटियोजनप्रमाणाय नमः। हां ह्यैं हाम्
ईश्वरकारणाय नमः। श्यामऴानभ्यर्च्य
पूरकसंहारिण्यादाय मुखादिहृदयान्तसूत्रे संयोज्याभ्यर्च्य
निरुध्यावकुण्ठ्याग्नावप्यभ्यर्च्य सन्निधानाय पञ्चाहुतीर्जुहुयात्।

(विद्याकलायोजनक्रमः)
तदनु –
हां ह्रूं हां विद्याकलापाशाय नमः। इत्यवलोक्य प्रथमं मायातत्वम्
अशुद्धमायाक्षुब्धांशा यो भागं तत्स्वरूपमाह।
अधोर्ध्वं तु भवेदन्यन्मायातत्वं सुदुस्तरम्।
मध्वण्डकोशविच्छिद्रं हरितालसमप्रभम्॥
तदभिमानशक्तिस्वरूपमाह -
तस्य मध्ये स्थिता देवी माया तु बहुरूपिणी।
यया हि मोहितं कृत्स्नं जगत्स्थावरजङ्गमम्॥
इन्द्रनीलसमप्रख्या रश्मिजालावकुण्ठिता।
चलत्बि(द्बि)न्दुसहस्रैस्तु कोटिभिस्तमसावृते॥
तत्र भुवनानि - गोपतिः। त्रिकालः। महावीर्यः। दशनः। हयः। हलिः। असाध्यः।
गहनेशः। इत्यष्टौ रुद्रैः समा नाम नामानि। द्वितीयं कालतत्वम्।
नीलनीरदसङ्काशं नीलाञ्जनसमप्रभम्।
तस्य मध्ये स्थितः कालो रौद्रः सर्वजनान्तकृत्॥
दंष्ट्रा विकटा घोरास्यः पिङ्गभ्रू शुश्रुतारकः।
शिखेदः एकवीरः इति कालगतत्वे द्वे भुवने। तृतीयं नियतितत्वम्। चतुर्थं कलातत्वम्।
नियतिकलयोरविनाभावः।
अथोर्ध्वं तु भवेदन्यत्कलावरणसञ्ज्ञकम्।
श्वेतपि(पी)तारुणं कृष्णं क्वचिद्व्या(द्वा) मिश्रकं गुह॥
तस्य मध्ये कला ज्ञेया चित्रवर्णानुलेपिनी।
चित्राभरणरत्नाढ्या चित्रमाल्याम्बरप्रिया॥
तत्र रुद्रो विभुर्व्यापि सर्वज्ञो ज्ञानभासकः।
नीललोहितवर्णोसौ सितेन्दुसदृशं क्वचित्॥
पञ्चान्तकः शुरूति द्वे भुवने नियतितत्वे। *
संवर्त्य ज्योतिषीति द्वै भुवने कालायाम्। पञ्चमं विद्यातत्वम्।
अथोर्ध्वं भवेद्य(द)न्यत् विद्यावरणसञ्ज्ञकम्।
इन्द्रकोपकसङ्काशं क्वचित् चामी
करप्रभम्॥*
तस्य मध्ये स्थिता विद्या व्यापिनी विश्वरूपिणी।
विस्वरा विश्वतेत्री च सा रहस्यपदगामिनी॥
मण्डलाधारचित्राङ्गी ध्यानलोलायतेक्षणा।
शास्त्रसत्भा(द्भा)वनिश्वासा ओषधीकेशसञ्चया॥
तत एकः शिवश्चैव सर्वेषामुपरिस्थितः।
चण्डः क्रोध इति द्वे भुवने विद्यायां षष्ठं रागतत्वम्।
अधो(थो)र्ध्वं तु भवेदन्यद्रागावरणसञ्ज्ञकम्।
कुङ्कुमोदकसङ्काशं कुडुम्बरजसो निभम्॥
तत्रास्ते भगवान्रागो जपाकुसुमसन्निभः।
रञ्जकः सर्वतत्वानां प्रमेयः सुदुर्जयः॥
ईशानः
एकपिङ्गेक्षणः। उद्भवः भयः। वामदेव इति पञ्च भुवनानि रागतत्वे। सप्तमम्।
पुरुषतत्वम्। एकवीरः पञ्चातकः। पिङ्गसूरगः। ज्योतिः चण्डसंवर्तः। क्रोधेशाख्यानि षट्

भुवनानि। पुरुषतत्वे। पुरुषतत्वस्य आत्मनो गुणवत् आत्मन्येव सम्बन्धत्वेन
पुंस्त्वमलनाम्ना स्थितत्वात् समीपसक्षणया प्रकृतिमस्तक एव स्थितानि इत्येवं सप्तविंशति

भुवनानि रुद्रैः। समाननामानि। घं द च छ ज ज्ञ त्र इति वर्णाः सप्त। ॐ नम शिवाय
सर्वप्रभवे शिवाय ईशानमूर्ध्ने तत्पुरुषवक्त्राय अघोरहृदयाय
वामदेवगुह्याय सद्योजातमूर्तये ॐ नमो नमः गुण्यादिगुह्याय गोप्त्रे अनिधदानाय
सर्वयोगाधिकृताय सर्वविद्याधिपाय ज्योतिरूपाय रमेश्वरपराय
अचेतनाचेतनव्योमिन् व्योमिन्।
इति त्य(ए)कविंशतिपदानि हुम्फट् अघोरशिखे मन्त्रौ। मरौ बीजे। पूषा हस्ति जिह्वानाड्यौ।
व्याननाभौ वायु चक्षुष्पाणि इन्द्रिये।
विषया रूपम्। शब्दस्पर्शरूपाणि। गुणाः। त्रिकोणम्। रक्तवर्णम् अग्निमण्डलम्।
सुषुप्तिरवस्था रुद्रः कारणेशः। एतैः सहितां विद्याकलां विभाव्य ह्रां ह्रूं हां
विद्याकलापाशाय नमः।
ह्रूं हां मायादिपुरुषतत्वान्तसप्ततत्वेभ्यो नमः। हां ह्रूं हां गोपत्यादिक्रोधे
शान्तिसप्तविंशतिभुवनेभ्यो नमः। हां ह्रूं हां
घकारादिञकारान्तसप्तवर्णेभ्यो नमः। हां ह्रूं हां मकारसहिता
सुष्ठुपतिसहितेभ्यः नमः। ओमित्यादिव्योमिन्यन्तेकविंशतिपदेभ्यो नमः।
हां ह्रूं हुं ह्रूं हाम् अघो॥।मन्त्राभ्यां नमः। हां ह्रूं हां रं बीजाय नमः।
हां ह्रूं हां पुरुषाहस्तिजिह्वानाडीभ्यां नमः। हां ह्रूं हां व्याननागवायुभ्यां
नमः। हां ह्रूं हां
चक्षुः पाणि इन्द्रियाभ्यां नमः। हां ह्रूं हां रूपविषयाय नमः। हां ह्रूं हां
शब्दस्पर्शरूपगुणेभ्यो नमः। हां ह्रूं हां वह्निमण्डलाय रक्ताय
स्वदाहान्नकाङ्गाय
त्र्यश्राय अयुतकोटियोजनप्रमाणाय नमः। हां ह्रूं हां रुद्रकारणाय नमः।
इतिहासकरणतानभ्यर्च्य
पूरकसंहारिण्या ॥॥दाय हृदयादिनाभ्यन्तसूत्रे संयोज्याभ्यर्च्य
निरुध्यावकुण्ठ्याग्नावभ्यर्च्य सन्निधानाय पञ्चाहुतीर्जुहुयात्।

(प्रतिष्ठाकलायोजनक्रमः)
तदनु हां ह्वीं हां प्रतिष्ठाकलापाशाय नमः। इत्यवलोक्य प्रथमम्। प्रकृत्य
व्यक्तमहान्
गुणच्छित्तमिति अवस्था भेदनामायत्रिगुणात्मकं तत्वमेकम्।
अथोर्ध्वं तु भवेदन्यत् गुणावरणसञ्ज्ञकम्।
इन्द्रनीलमहारत्नशुद्घस्फटिकरूपकम्॥
तद्वर्णभुवनान्तस्था* ब्रह्मविष्णुमहेश्वराः।*
तमो रजस्तथा सत्वगुणाधिष्ठितविग्रहाः॥
श्रीकण्ठम्। और्मिकौमारम्। वैष्णवम्। ब्राह्मम् भैरवं कृतम्। अकृतमिति
ईशानादिपूर्वान्तदिक्स्थान्यष्टभुवनानि द्वितीयम्। बुद्धितत्वमथोर्ध्वं तु भवेदन्यत्
बुध्यावरणसञ्ज्ञकम्।
आदित्योदयसङ्काशं सन्ध्यारागसमप्रभम्।
तस्य मध्ये स्थिता बुद्धिः व्यापिनी विश्वरूपिणि॥
अणिमाद्यष्ट संयुक्ता तुष्टिशक्तिसमन्विता।
ब्राह्मं प्राजेश्वरं सौम्यम् ऐन्द्रम् ॥। गन्धर्वम्॥
याक्षं राक्षसं पैशाचम् इति ईशानादिपूर्वान्तदिक्स्थं
देवयोन्यष्टकम्। गुणसम्बन्धबुद्धिमस्तके। तृतीयमहङ्कारतत्वम्।
अधोह्यूर्ध्वं भवेत त्वमाहङ्कार्यं च षण्मुख।
दीप्तपावकसङ्काशं भीमनादं दुरासदम्॥
स्थूलेश्वरं
महालिङ्गं महातेजाः नीलकण्ठः श्रीकण्ठः। महानुत्कटः। ऊर्ध्वरेताः कपर्दी इति
ईशानादिपूर्वान्तदिक्स्थानि अष्टभुवनानि मनोबुद्धीन्द्रियकर्मेन्द्रियतन्मात्रा
॥कारणभूताहङ्कारतत्वे। चतुर्थं मनस्तत्वम्। श्रोत्रम् – त्वक् – चक्षुः । जिह्वाघ्राणम्।
वाक्पादपाणिः। पूयूपस्थः शब्दस्पर्शरूपरसगन्धः। आकाशतत्वम्।
अधोर्ध्वं तु
भवेद्व्योमभूतत्वे सम्प्रतिष्ठितम्। अप्रमेयं निर्देश्यं मोक्षस्थानमिवापरम्।
तत्रास्ते भगवान्देवो व्योमरूपी महेश्वरः।
सूक्ष्ममूर्तिर्महाश्चासौ पवित्रैरष्टभिर्वृतः॥
स्थाणुः सहस्राक्षः। शिवः महाबलः। रुद्रमूर्तिः महायोगी भाव इति ईशानादि।
पूर्वान्तादिक्स्थानि अष्टभुवनान्याकाशत्वे। वायुतत्वम्।
अत ऊर्ध्वं भवेदन्यद्वायव्यावरणं पुनः।
नीलजीमूतसङ्काशं भिन्नाञ्जनसमप्रभम्॥
तत्रास्ते भवान्वायुः कृष्णवर्णोञ्जनोपमः।
सुभगः कामरूपी च गुह्यात् गुह्याष्टकावृतः॥
महाभीमः। महानादः। विशेषः। उग्रः स्वयम्भुः। पितामहः कामरूपी सुभग इति
ईशानादिपूर्वान्तदिक्स्थान्यष्टभुवनानि वायुतत्वे। तेजस्तत्वम्।
शुच्चादाय सुसं(सङ्का)काशं मेख(घ)स्तनितनिस्वनम्।
तत्रास्ते भगवानग्निरिति गुह्याष्टकावृतः॥
पत्म(द्म)रागप्रतीकाशो ज्वलन्तस्तेन तेजसा।
भैरवं केदारम् ईशानं महाकाऴः । सूक्ष्मः।
त्रिशूली त्रिपुरघ्नः। हर इति ईशानादिपूर्वान्तदिक्स्थान्यष्टभुवनानि तेजस्तत्वे। अप्तत्वम्।
घर्परारवसङ्घुष्टमावर्तोर्मिसमाकुलम्।
तत्रास्ते भगवान्देवो वरुणोऽमृतसम्भवः॥
लकुऴीश्वरः। भारभूतिः। डिण्डिमुण्डीः। आषाडः। भोजगन्धः। देवदेवः। शशिभूषणः।
ओङ्कार इति ईशानादिपूर्वान्तदीक्स्थानानि अप्तत्वे एवं षट्पञ्चाशत्
भुवनानि रुद्रैःसमाननामानि अं डढणतथदधनपफबभमयरलवशषसहा इति
वर्णास्त्रयोविंशतिः। अरूपिन् ॥।प्यात्विन् टान्दपिन्। प्रथमः प्रथमः। तेजस्तेजः।
ज्योतिर्ज्योतिः। अरूप।
अनग्नि।अधूम। अभस्म। अनादो। नाना नाना। धूधू धूधू। ॐ भूः ॐ भुवः ॐ सुवः।
अनिधनन् अनिधनन्। निधनोत्भ(द्भ)व। शिव। शर्व। परात्मन्। महेश्वरम्। महादेवः।
सत्भा(द्भा)वेश्वर।
महातेजः। योगाधिपते। मुञ्च मुञ्च। प्रथम प्रथम। शर्व शर्व इति द्वात्रिंशत् पदानि। हिं
हीं। वामदेव शशरसुमन्त्रौ। वु व॥ बीजे। गान्धारि सुषुम्ना नाड्यौ।
उदानसमानौ।
वायुजिह्वापायू इन्द्रिये रसो घषयः। शब्दस्पर्शरूपरसाः। गुणाः
शुभुमर्धचन्द्रमण्डलम्। स्वप्नावस्था। विष्णुः कारणेश्वरः। एतैः सहितां
प्रतिष्ठाकलां विभाव्य
हां भं(हं) हां प्रतिष्ठाकलापाशाय नमः। हां हीं हां
चित्तादिजलान्तत्रयोविंशतितत्वेभ्यो नमः। हां ह्लीं हां श्रीकण्ठाद्योङ्कारान्तषट्पञ्चाशत्

भुवनेभ्यो नमः।
हां ह्लीं हाम् अकादिहकारान्तत्रयोविंशतिवर्णेभ्यो नमः। हां ह्लीं हाम्
उकारस्वप्नानान्वितेभ्यो नमः। व्यापिन्नित्यादिशर्वेत्यन्तद्वात्रिंशत्
पदेभ्यो नमः। हां ह्लीं हिं हीं हां वामदेवशिरोमन्त्राभ्यां नमः। हां ह्लीं हां
य बीजाय नमः। हां ह्लीं हां गन्धारिसुषुम्ना
नानाडीभ्यां नमः। हां ह्लीं हाम् उदानसमानवायुभ्यां नमः। हां ह्लीं हां
जिह्वापाय्विन्द्रियाभ्यां नमः।
हां ह्लीं हां रसविषयाय नमः।
हां ह्लीं हां शब्दस्पर्शरूपरसगुणाभ्यां नमः। हां ह्लीं हाम् अम्मण्डलाय श्वेताय
द्रवात्मने अर्धचन्द्राकाराय सहस्रकोटियोजनप्रमाणाय
नमः। हां ह्लीं हां विष्णुकारणाय नम इति। शुभ्राण्यभ्यर्च्य। पूरकसंहारिण्यादाय
नाभ्यन्तजानुसूत्रे संयोज्याभ्यर्च्य निरुध्यावकुण्ठ्यावग्नावभ्यर्च्य
सन्निधानाय पञ्चाहुतीर्जुहुयात्।

(निवृत्तिकलायोजनक्रमः)
तदनु हां ह्लां हां निवृत्तिकलापाशाय नमः। इत्यवलोक्य पृथिवीतत्वमेकम्।
उर्वीतत्वं तु सौवर्णं सूर्यायुतसमप्रभम्।
कुक्कुटाण्डसमाकार एतत्ब्र(द्ब्र)ह्माण्डमुच्यते॥
अतल-वितल-सुतल-रसातल-महातल-तलातल-पाताल-भूलोक-भुवर्लोक-स्व
र्लोक-महर्लोक-जनलोक-तपोलोक-सत्यलोकाहुति चतुर्दशलोकसहितं
ब्रह्माण्डाकारमुर्वीतत्वं तस्याभिमानदेवता भूदेवि। अत्र भिवनानि भद्रकाऴी
वीरभद्रः
ब्रह्माण्डोपरि शुचिः। व्योमोक्ष्णः बिन्दुः। विवाहः संवाहः। त्रिदशेश्वरः त्र्यक्षः।
गणाध्यक्षः विभुः शम्भुः
इत्यूर्ध्वे दश। बलिप्रियः भूतपालः ईशानः
पिङ्गेक्षणः। प्रभुः शिवः सर्वकृत् सर्वज्ञः सर्वः सर्वदिद्याधिप इतीशाने दश।
कर्मरूपदृक्लक्ष्मीवान् अप्रकाशः प्रकाशः। सौम्यदेहः रूपवान् निधीशः।
नानारत्नविभूषितः। जटामकुटधारी इत्युत्तरे दश। शिबि शोषणः। वेगवान् तीक्ष्णः। सूक्ष्मः
वायुः सर्वगन्धवान्। सर्वगः। मेघसञ्चारी। कपर्दी वायव्ये दश।

भीतः वडबामुखः। जलान्तकः दीर्घबाहुः। जयभद्रः। श्वेतः महाबलः। पाशहस्तः।
अतिबलः। बलः। इति वारुणे दश। दंष्ट्रवान् लोहितः धूम्रः विरूपाक्षः
ऊर्ध्वशेफः भयानकः। क्रूरदृष्टिः। हन्ता। मारणः। नैरुतः इति नैरुते दश। धर्मपतिः।
धर्मः। रौद्रः। कालः कर्ता। विधाता। धाता। हरः मृत्युः।
याम्यः इति याम्ये दश।
क्षयान्तकः। भस्मान्तकः। बभ्रूः दहनी ज्वलनः। हरः खादकः पुङ्गऴः हुताशी।
अग्निरुद्र इत्याग्नेये दश। त्रिदशाधिपः पिनाकी। शास्ता। अव्ययः।
विभूतिः। प्रमर्दनः। वज्रदेहः। बुद्धः। अ(क)जः। कप(पा)लीश इति पूर्वे दश।
वडबामुखः ग्रस्तः। वीरः। वृशधरः। वृषः विषलोचनः। विषाग्निः वीरः। पालकः।
अनन्तः इत्यादयो दश। रुद्रः।

विष्णुः ब्रह्मा। हाटकः। कूश्माण्डः। कालाग्निः। इति ब्रह्माण्डमध्ये। ऊर्ध्वाधः
एवमष्टाधिकं भुवनशतम्। रुद्रैः समाननामानि क्षकारो वर्णः। भव भव।
भवोत्भ(द्भ)वसर्व
भूतसुखप्रद। सर्वसान्निध्यकर। ब्रह्मविष्णुरुद्रपर। अनर्चितानर्चित। अस्तुतास्तुत।
पूर्वस्थित पूर्वस्थित। साक्षि साक्षि। तुरु तुरु। पतङ्ग पतङ्ग। पिङ्ग पिङ्ग।
ज्ञन ज्ञान।
शब्द शब्द। सूक्ष्म सूक्ष्म। शिव शिव सर्व सर्वद। ॐ नमः। शिवाय। ॐ। नमः। नमः
शिवाय नमः। नमः। ॐ। इत्यष्टाविंशतिपदानि हं हां सद्योजातहृदयाख्यं
मन्त्रद्वयम्।
अकारलकारौ। बीजे। पिङ्गलिडानाडीद्वयम्। अपानप्राणौ वायु। घ्राणोपस्थेन्द्रिये। गन्धो
विषयम्। शब्दस्पर्शरूपरसगन्धाः गुणाः। जाग्रदवस्था। पीतं चतुरश्रं वज्राङ्कितं

पृथिवीमण्डलम्। ब्रह्मा कारणेश्वरः। एतैः सहितां निवृत्तिकलां विभाव्य। हां र्हां
हां निवृत्तिकलापाशाय नमः। हां ह्लां हां पृथिवीतत्वाय नमः। हां ह्लां हां
भद्रकाऴ्यादिकालाग्न्यन्ताष्टोत्तरशतभुवनेभ्यो नमः। हां ह्लां हां क्षवर्णाय
नमः। हां ह्लां हाम् अ(ट?)कारपिण्डजाग्रत्सहितेभ्यः भव
भवाद्योङ्कारान्ताष्टविंशति
पदेभ्यो नमः। हां ह्लां हं हं हां
सद्योजातहृदयमन्त्राभ्यां नमः। हां ह्लां हां लबीजाय नमः। हां ह्लां हां।
गन्धविषयाय नम। हां ह्लां हां
शब्दादिगन्धान्तपञ्चपञ्चगुणो(णे)भ्यो नमः। हां ह्लां हां पृथिवीमण्डलाय पीताय
वज्राङ्काय चतुरश्राय
शतकोटियोजनप्रमाणाय नमः। हां ह्लां हां ब्रह्मकारणाय नम इति
हेमाभानभ्यर्च्य पूरकसंहारिण्यादाय जान्वादिपादाङ्गुष्ठान्तसूत्रे
संयोज्याभ्यर्च्य
निरुध्यावकुण्ठ्याग्नावप्यभ्यर्च्य सन्निधानाय पञ्चाहुतीर्जुहुयात्।

(सबीजादिदीक्षासु भावनाभेदाः)
बुभुक्षुमुमुक्षोः सबीजदीक्षायां वर्तमानशरीरारब्धपुण्यपापाभ्यां
समयाचारप्रापककर्मविहिताभ्यामेतदुभयानुषङ्किकफलाच्चान्यत्
धर्माधर्मात्मकं सर्वं कर्मपाशसूत्रगतं भावयेत्। निर्बीजदीक्षायां तु
वर्तमानशरीरारब्धपुण्यपापाभ्यां
एतदानुषङ्गिकफलाच्चान्यत्। समयाचारप्रापककर्मबीजसहितं धर्माधर्माकं सर्वं
कर्म। पाशसूत्रगतं भावयेत्।
गृहस्थस्य प्रारब्धकर्मवशात्। भोग
मोक्षयोस्तुल्येच्छास्ति चात्। निवृत्यादिकलात्रयव्यापि धर्मात्मकं विहायातिरिक्तं सर्वं
कर्म पाशसूत्रगतं भावयेत्। दीव्रतरशक्तिनिपातवतः शिष्यस्य
सद्यो निर्वाणदीक्षायाम्। सञ्चितप्रारब्धधर्माधर्मात्मकं सर्वं कर्म पाशसूत्रगतं
भावयेत्।

(अध्वनां व्याप्यव्यापकभावः)
एतत् सर्वं पञ्चविध्यध्वप्रातर्मन्त्राः। पदैः पदानि
वर्णैर्वर्णाभुवनैः। भुवनानि तत्वे व्याप्तानि। कलाव्याप्तमलकर्म माया मायेयान्वितं
च शिष्यदेहबन्धसूत्रभेदेन सह प्रत्यक्षीकृत्य णं कलापाशाधिष्ठात्र्यै
नमः। परमेश्वरशक्तये नम इति सञ्चिन्त्य पूरकसंहारिण्यादाय सूत्रे न्यस्याभ्यर्च्य
निरुध्यावकुण्ठ्यावग्नावभ्यर्च्य स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्।

नन्वत्राध्वपतार्थः। शिवस्य आत्मनः। पाशस्य वा अखण्डाकारपरमशिवस्य परिपूर्णतया
गमनागमनाभावेन अध्वानपेक्षत्वात् पाशस्य च जडत्वेन सुतरा(रां)
तदसम्भवः। पारिशेष्यादात्मनः लिङ्गशरीरावच्छिन्नत्वेन गमनागमने सम्भवात्
तस्याधमध्व्येति चेत्। तदपि न आत्मनो विभुत्वेन लिङ्गशरीरस्य प्रादेशिकतया
सर्वात्मना
परिच्छेदासम्भवात् परिच्छेदकोपाधेरेव गमनागमनात्मकं न त्वात्मन इति। ततः
कस्यायमध्व्येति चेत्। अत्रोच्यते आत्मनो
रूपसुखदुःखानुभावकानां पुण्यपापात्मनं कर्मणामुपार्जनद्वारतया
मन्त्रादीनामध्ववदध्वेक्ष्युपचारः। तद्यथा मन्त्रपदवर्णानां सम्यगुच्चारणात्
स्वरादिविपर्यासनोच्चरणाच्च तत्तन्मन्त्राद्यधिष्ठानदेवतानां पूजानिन्दाभ्यां
तदुपासकानाम् उपकारापकाराभ्यां च भुवनेश्वराणां
भूलोकस्थितलिङ्गाधिष्ठितानां पूजा तद्र्यापहाराभ्यां तत्समीपस्थिततीर्थेषु स्नानेन
तत्तीर्थकरणदोषकरणेन च
तद्भक्तोपकाराभ्यामपकाराभ्यां च मन आदितत्वैः कृतविहिताविहितक्रियाभ्याम्।
कलाकारणपञ्चशक्तीनां पूजानिन्दाभ्यां तदुपासकोपकारापकाराभ्यां पुण्यपापे
भवतः।

पुम्यापुण्यात्मकं कर्म स्थूलरूपं विनश्यति। सूक्ष्मतया अदृष्टरूपेण
तत्तत्फलोत्पत्तिस्थानकलात्रयव्याप्तभुवनेषु तिष्ठति कर्मवासना स तु बुद्धौ तिष्ठन्ति

भुवनेश्वराणां भूलोकास्थितलिङ्गाधिष्ठातृत्वे सम्मतिमाह।
सर्वज्ञानोत्तरे –
आदिगुह्याष्टकारुद्रा अतिगुह्याष्टकास्तथा।
गुह्यात् गुह्याष्टकाश्चैव पवित्राष्टक एव च॥
स्थाण्वाष्टकाश्च पञ्चैते नियोगात् भूमिवासिनः।
अनुग्रहाय लोकानां लिङ्गभूताः प्रतिष्ठिताः॥
तेषामेव समीपस्थं यत् यत् तोयं षडानन।
तत्तीर्थं परमं पुण्यं तत्र स्ना*त्वा शिवं व्रजेत्॥ *
इति

(कलानां तर्पणम्)
तदनु। कलादिना तर्पणादिकं कुर्यात्। तद्यथा – हां हौं हां
शान्त्यतीतकलापाशाय स्वाहा। हां हैं हां शान्तिकलापाशाय
स्वाहा। हां ह्रूं हां विद्याकलापाशाय स्वाहा। हां ह्वीं हां प्रतिष्ठाकलापाशाय
स्वाहा। हां ह्लां हां निवृत्तिकलापाशाय स्वाहा। इति तर्पणम्।

(दीपनम्)
ह्रूं हौं ह्रूं शान्त्यतीतकलापाशाय
हं फं हूं ह्यैं हूं शान्तिकलापाशाय हुं फट् ह्रं ह्रूं ह्रूं विद्याकलापाशाय
हुं हुम्फट् – हूं ह्वीं हं प्रतिष्ठाकलापाशाय हुं हुम्फट्
हूं ह्लां हूं निवृत्तिकलापाशाय हुं हुम्फट्। इति दीपनम्।

(रक्तिपूजाहोमाः)
शिखाललाटहृदयं नाभिजानुषु सूत्रव्याप्तबोधनाय श्वेतादिना रञ्जयेत्। इति रक्तिः। ततः
शिष्यमस्तके
ससूत्रे शिवं साङ्गं पूजायाग्नावपि मूलेन शतं हुत्वा। पूर्णां दद्यात्। इति पूजाहोमौ।

(विलोकनम्)
तदनु हां ह्लां हां तत्वभुवनवर्णपदमन्त्रमलकर्ममयामायेय सचिवाय
स्त्रीरूपतत्वरूपाय निवृत्तिमलापाशाय नमः। इति शिष्यदेहे स्वव्याप्या विलोक्य स्वाहान्तेन तेन
पञ्चाहुतीर्दद्यात्। हां ह्वीं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
प्रतिष्ठाकलापाशाय नम इति तद्देह स्वव्याप्त्या विलोक्य स्वाहान्तेन तेन
पञ्चाहुतीर्दद्यात्। हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
विद्याकलापाशाय नमः। इति तद्देहे स्वव्याप्त्या विलोक्य स्वाहान्तेन तेन पञ्चाहुतीर्दद्यात्।
हां हैं हां तत्वभुवनवर्णपदमन्त्रिमलबैन्दवाय सचिवाय स्त्रीरूपतत्वरूपाय
शान्तिकलापाशाय नमः। इति तद्देह(हे) स्व व्याप्त्या विलोक्य स्वाहान्तेन तेन

पञ्चाहुतीर्जुहुयात्। हां हौं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवाय
स्त्रीरूपतत्वरूपाय शान्त्यतीतकलापाशाय नम इति शिष्यदेहे स्व व्याप्त्या विलोक्य स्वाहान्तेन
तेन पञ्चाहुतीर्जुहुयात्। स्वाशक्यविलोकनम्।

(सन्धानम्)
हां ह्लां ह्लीं हां तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाभ्यां
स्त्रीरूपतत्वरूपाभ्यां निवृत्तिप्रतिष्ठाकलाय ॥॥
भ्यां नम इति ह्रस्वदीर्घोच्चारेण सन्धानं कृत्वाग्नावप्यर्च्य स्वाहान्तेन तेन
पञ्चाहुतीर्जुहुयात्। हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलमायामायेयसचिवाभ्यां
स्त्रीरूपतत्वरूपाभ्यां प्रतिष्ठाविद्याकलापशाभ्यां नम इति हस्रव्दीर्घोच्चारेण
सन्धानं
कृत्वाग्नावभ्यर्च्य स्वाहान्तेन तेन
पञ्चाहुतीर्जुहुयात्। हां ह्रूं ह्यें हां
तत्वभुवनवर्णपदमन्त्रमलयकर्ममायामायेयबैन्दवाय सचिवाभ्यां
स्त्रीरूपतत्वरूपाभ्यां विदायाशान्तिकलाभ्यां नम इति।
ह्रस्वदीर्घोच्चारेण सन्धानं कृत्वा वह्नावभ्यर्च्य स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्।
हां ह्यैं ह्लां हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवाभ्यां

स्त्रीरूपतत्वरूपाभ्यां शान्तिशान्त्यतीतकलापाशाभ्यां नम इति ह्रस्वदीर्घोच्चारेण
सन्धानं कृत्वाग्नावभ्यर्च्य स्वाहान्तेन पञ्चाहुतीर्जुहुयात्। इति सन्धानम्।

(भेदनम्)
हां ह्लां हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
निवृत्तिकलापाशाय हं हुं फडिति बेदनम्। कृत्वा स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्।
हां हीं हां तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपाय
तत्वरूपाय प्रतिकलापाशाय हः। हुम्फडिति भेदनं कृत्वा स्वाहान्तेन तेन
पञ्चाहुतीर्जुहुयात्।
हां ह्रूं हां तत्वभुवनमन्त्रपदमन्त्रमलकर्ममायामायेयसचिवाय
स्त्रीरूपतत्वरूपाय विद्याकलापाशाय हः। हुम्फडिति भेदनं कृत्वा स्वाहान्तेन तेन
पञ्चाहुतीर्जुहुयात्। हां ह्यैं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवाय
स्त्रीरूपतत्वरूपाय शान्तिकलापाशाय हः हुम्फडिति भेदनं कृत्वा
स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्। हां हौं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवाय स्त्रीरूपतत्वरूपाय
शान्त्यतीतकलापाशाय हः हुम्फडिति
भेदनं कृत्वा सावाहान्तेन तेन पञ्चाहुतीर्जुहुयात्। इति भेदनम्।
(ताडनम्)
हां हौं हां तत्वभुवनवर्णपदमन्त्रमलकर्मबैन्दवाय सचिवाय
स्त्ररूपतत्वरूपाय शान्त्यतीतकलापाशाय नम इति। स्वस्थानव्यापिनं तत्वादिबैन्दवेयान्तं
विभाव्य विलोक्य स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्। एवं
शान्त्यतीतादिरपि स्वस्थानव्यापिनं तत्वादिबैन्दवेयान्तं विभाव्य विलोक्य
स्वाहान्तैस्तत्तन्मन्त्रैः पञ्चाहुतीर्जुहुयात्। ह्रूं द्यादीनपि
तत्वादिमायेयान्तनवकान्वितं
विभाव्य विलोक्य स्वाहान्तेन तत्तन्मन्त्रैः प्रत्येकं पञ्चपञ्चाहुतीर्जुहुयात्। इति ईक्षणम्। हां
हौं हां तत्वभुवनार्णवदमन्त्रमलबैन्दवाय सचिवाय
स्त्रीपूपतत्वरूपाय शान्तिकलापाशाय हः हुम्फडिति सपुष्पनाराचमुद्रया सन्ताड्य
स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्। हां ह्यैं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय
सचिवाय स्त्रीरूपतत्वरूपाय शान्त्यतीतकलापाशाय हः। हुम्फडिति सपुष्पनाराचमुद्रया
सन्ताड्य स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात् हां ह्रूं
हां तत्वभुवनवर्णपदमन्त्रमलबैन्धवायकर्ममायामायेयस्त्रीरूपतत्वरूपाय
विद्याकलापाशाय हः। हुम्फडिति सपुष्पनाराचमुद्रया सन्ताड्य स्वाहान्तेन तेन

पञ्चाहुतीर्जुहुयात्। हां ह्वीं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
प्रतिष्ठाकलापाशाय हः। हुम्फडिति सपुष्पनाराचमुद्रया
सन्ताड्य सावाहान्तेन तेन पञ्चाहुतीर्जुहुयात्। हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीपूपाय निवृत्तिकलापाशाय
हः। हुम्फडिति
सपुष्पनाराचमुद्रया सन्ताड्य स्वाहान्तेन
तेन पञ्चाहुतीर्जुहुयात्। इति ताडनम्।
(ग्रहणयोजनबन्धनानि)
हां हौं हां तत्वभुवनमन्त्रवर्णपदमन्त्रमलबैन्दवाय सचिवाय
स्त्रीरूपतत्वरूपाय शान्त्यतीतकलापाशाय
नम इति। प्रविश्य स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्। एवं शान्त्यादीनपि। प्रविश्य स्वाहान्तैः
तत्तन्मन्त्रैः प्रत्येकं पञ्चपञ्चाहुतीर्जुहुयात्। इति प्रवेशः। हां
हं हां हौं तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवं स्त्रीरूपतत्वरूपं
शान्त्यतीतकलापाशगृह्णामिहः।
हं हुम्फडिति पूरकसंहारिण्या सङ्गृह्य हौं हां हौं हां
हौं तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवं स्त्रीरूपतत्वरूपं
शान्त्यतीतकलापाशाय योजयामि। हं हुम्फडति रेचकोद्भवमुद्रया सूत्रे संयोज्य हौं
हां
हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवं स्त्रीरूपतत्वरूपं
शान्त्यतीतकलापाशं हः। बध्नामीहः। हुम्फडिति बन्धनं कृत्वा स्वाहान्तेन तेन
पञ्चाहुतीर्जुहूयात्
। हां हौं हां ह्यैं हां हौं तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय
सचिवम् ॥।तीरूपं तत्वरूपं शान्तिकलापाशं गृह्णामि हः। हुम्फडिति। पूरकसंहा
॥॥ सङ्गृह्य हौं हां ह्यैं हां हौं तत्वभुवनमन्त्रमलबैन्दवाय सचिवं
स्त्रीरूपतत्वरूपं शान्तिकलापाशं योजयामि हः हुं भ फडिति रेचकोद्भवमुद्र
॥॥ त्रे संयोज्य हौं हां ह्यैं हां हौं
तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवं स्त्रीरूपं तत्वरूपं शान्तिकलापाशं
बध्नामि हः। हुम्फडिति बन्धनं कृत्वा स्वाहान्तेन तेन
पञ्चाहुतीर्जुहुयात्। हौं हां ह्रूं हां हौं
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेय॥॥वं स्त्रीरूप॥।विद्याकलापाशं
गृह्णामि हः हुम्फडिति पूरकसंहारिण्या
सङ्गृह्य हौं हां ह्रूं हां हौं
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं
स्त्रीरूपतत्वरूपं विद्याकलापाशं योजयामि हः हुम्फडिति रेचकोत्भ(द्भव)मुद्रया सूत्रे

संयोज्य हौं हां ह्रूं हां हौं
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं स्त्रीरूपं तत्वरूपं
विद्याकलापाशं बध्नामि हः। हुम्फडिति बन्धनं कृत्वा स्वाहान्तेन
तेन पञ्चाहुतीर्जुहुयात्। हौं ह्लां ह्वीं हां हौं
तत्वभुवनवर्णपदमन्त्रमलकर्मसायामायेयं सचिवं स्त्रीरूपं तत्वरूपं
प्रतिष्ठाकलापाशं
गृह्णामि हः। हुम्फडिति पूरकसंहारिण्या सङ्गृह्य हौं हां ह्वीं हां हौं
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं स्त्रीरूपतत्वरूपं
प्रतिष्ठाकलापाशं
योजयामि। हः हुम्फडिति। रेचकोद्भवमुद्रया सूत्रे संयोज्य हौं ह्लां ह्वीं हां हौं
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं स्त्रीरूपतत्वरूपम्।
प्रतिष्ठाकलापाशं बध्नामि हः
हुम्फडिति बन्धनं कृत्वा स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्। हौं हां ह्लां हां हौं
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं
स्त्रीरूपतत्वरूपं निवृत्तिकलापाशं योजयामि हः। हुम्फडिति रेचकोद्भवमुद्रया सूत्रे
संयोज्य हौं ह्लां हां हौं तत्पभुवनवर्णपदमन्त्रमलकर्ममायामाये
…वं स्त्रीरूपतत्वरूपं निवृत्तिकलापाशं बध्नामि हः। हुम्फडिति बन्धनं कृत्वा
स्वाहान्तेन पञ्चाहुतीर्जुहुयात्। इति ग्रहणयोजनबन्धनानि।

(सूत्रे कलादिपूजादयः)
हां हौं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवाय स्त्रीरूपतत्वरूपाय
शान्त्यतीतकलापाशाय नम इति सूत्रे पूजयेत्। एवं शान्त्यादीनामपि सूत्रे पूजयेत्। हां हौं
हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय
सचिवाय स्त्रीरूपतत्वरूपाय शान्त्यतीतकलापाशाय स्वाहेति पञ्चाहुतीर्जुहुयात्। एवं
शान्त्यादीनामपि पञ्चपञ्चाहुतीर्हुजुयात्। हां

कलापाशाधिष्ठात्र्यै परमेश्वरशक्तये नम इति सूत्रे संयोज्याभ्यर्च्याग्नावप्यभ्यर्च्य
स्वाहान्तेन तेन पञ्चाहुतीर्जुहुयात्। ततः पाशसूत्रं शिष्यस्कन्धे विन्यस्य
न्यूनातिरिक्तदोषमोक्षाय मूलेनाष्टोत्तरशतं हुत्वा पूर्णां दद्यात्।

(शिष्यमस्तके पाशसूत्रविन्यासादिः)
ततः शिष्यमुपवेश्य - मस्तके पाशसूत्रं विन्यस्य हौं हां हीं हूं हैं हः शिवाय
स्वाहा इत्येकविंशतिवारं
सम्पातहोमं कृत्वा तन्मस्तकात् पूशसूत्रमवतार्य ताम्रशरावादिपुटे पुरुषस्य
पाशसूत्रं प्रणीतिपात्रोदके स्त्रियः पाशसूत्रं च संस्थाप्य
अस्त्रकवचहृदयसम्पुटं कृत्वा हृदयेनाभ्यर्च्य पूर्ववत् सम्पात्य शिशुं
पञ्चरागसूत्रेण संवेष्ट्य गुर्वाज्ञया लिङ्गे प्रदर्श्य घटे समर्पयेत्।
तदनु लोकपालकुम्भादीन् सम्पूज्य मण्डपात्
बहिर्द्वारसम्मुखगृहस्थस्य पूश्चिमपूर्वं सन्न्यस्यतो दक्षिणोत्तरं मण्डलत्रयं
कारयेत्।

(पञ्चगव्यप्राशनादिविधिः)
ततः पश्चिममण्डले गृहस्थम्। पूर्वाभिमुखं कुक्कुटासनेनोपवेश्य कुशपाणये तस्मै
देशिकः
कुशपाणिना पञ्चगव्यं त्रिवारं दद्यात्। सोऽपि पञ्चगव्यमन्तरान्तराचम्य प्राशयेत्।
तत्पूर्वमण्डले पूर्व(व)दुप(वे)श्य मयूराण्डप्रमाणं चरोः कबलत्रयं दद्यात्। सोऽपि
चरुमन्तरान्तराचम्य भक्षयेत्।
त॥पूर्वमण्डले पूर्वदु(वदु)पवेश्य पूर्वोक्तं लक्षणयुतं दन्तकाष्ठं
हृदयेनाभिमन्त्र्य दद्यात्। शिष्योऽपि तेन दन्तान् सङ्घुष्ट्य प्रक्षाऴ्य ऊर्ध्वमुखः
प्रक्षिपेत्। गुरुः दन्तकाष्ठपतन॥॥॥।
(पू)र्वपश्चिमोत्तरेशाने शुभदिक्पतने सन्तोषयेत्। एतद्व्यतिरिक्तदिक्पतने तद्दोषनिरसनार्थम्
अस्त्रेणाष्टोत्तरशतं हुत्वा पूर्णां दद्यात्। सन्य॥॥॥॥
दक्षिणमध्यमोत्तरमण्डलत्रयेषु उपवेश्य पूर्ववत् कारयेत्।

(कायिकादिवैकल्यशान्तिः)
अथ स्वाहान्तमूलेन सप्तशतं हुत्वा पूर्णां दद्यात्। कायिकवाचिकचित्तदोषनिरासनाय
शिवाघोरास्त्रमन्त्रैः शतं हुत्वा मूलेन
शतं वा पूर्णां दद्यात्। ततः शिवाग्नये किञ्चिच्चरुं निवेद्य। आधानकर्मसन्तानपर्यन्ते
यत्त्वया विभो। प॥म् पाशहाना॥॥तव्यो नात्र सन्निधिरिति। प्रार्थ्य निरोधार्घ्यदानेन
वह्निस्थं शिवं
निरुन्ध्यात्। अथवा वह्निस्थं शिवं
शिवकुम्भस्थशिवे नाडीसन्धानेन संयोज्य निरुध्यात्। तदनु व्याहृतिचतुष्टयं
वह्नादिचतुष्टयं ब्राह्मणविषयत्वात् न लिखितम्। बलिद्वयं दत्वा
मण्डलेश्वरे कर्म समर्प्य निरोधार्घ्यदानेन लोकपालादीन् निरुन्ध्या(ध्या)त्।

(स्वापविधिः । निर्वाणदीक्षाधिवासविधिः)
अथ यागमण्डपे गोमयालिप्तभूमौ अस्त्रशतं जप्तदर्भशयने गृहस्तं पूर्वमस्तकं

भस्मशयने दक्षिणमस्तकं सन्न्यस्यन्तं समारोप्य पुष्पिकयाभ्यर्च्य तस्य
शोध्याध्वन्यासं कृत्वा शिखाणुना शिखां बध्वा
खट्वाङ्गं वरमुद्रां च त्रिशूलमभयं दधत्।
स्वप्नमाणवकं पिङ्गजटाचन्द्रार्धशेखरः॥ इति ध्यात्वा

नमश्शम्भो त्रिणेत्राय पिङ्गऴाय महात्मने।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः॥
आचक्ष्व देवदेवेश प्रपन्नास्मि तवान्तिकम्।
स्वप्ने सर्वाणि कार्याणि हृदि स्थान्यस्यपानि वै।
ह्रीं हिलि हिलि शूलपाणये स्वाहेति विज्ञाप्यापदिश्यववर्मजप्तेन वाससा समाच्छाद्य स्वापयेत्।
ततश्च चतुर्दिक्षु
परितः भस्मना तिलैः कुशैः सिद्धार्थैश्च हुम्फडन्तास्त्रैः चतुरः प्रकारान्विताय
वर्णमासंवेष्ट्य स्वयं बहिर्निर्गद्य(त्य) दिगीशेभ्यो बलिं दत्वा समाचम्य सकऴीकृत्य

पञ्चगव्यादिकं क्रमात्। भजन्सहायै सहितो हुत्वाचम्य न्यासं कृत्वा
दीक्षासमाप्तिपर्यन्तमग्नेरवस्थान् तत्संरक्षणाय तस्मिन् बुसादिकं प्रक्षिप्य
दीक्षाक
मनुस्मरेत् द्रष्टु दुःस्वप्नः शिष्ये गुरुर्वा मूलं शिवसहितां शक्ति जप्त्वा पुनस्वपेत्। इति
निर्वाणदीक्षाधिवासविधिः।

(निर्वाणदीक्षा)
मण्डपप्रवेशानन्तरं गुरोः
शिष्यस्य वा वृद्धिमृतसूतकसम्भावे च दीक्षां निर्वर्तयेत्।

(दुस्स्वप्नशान्तिः)
अथ देशिकः प्रभाते समुत्थाय स्नानादिकं नित्यवत् नित्यनैमित्तिककर्म मन्त्रशुध्यन्तम्।
पूर्ववत् कृत्वा सामान्यार्घ्यकरो
द्वारपालपूजादिमन्त्रतर्पणदीपनान्तं पूर्वं निर्वर्त्य मण्डलस्याग्रतस्थित्वोदकेन
मण्डलं सम्प्रोक्ष्य वीक्षणाद्यैः संशोध्य पञ्चकलाः यथावर्णं रजोभिर्विन्यस्य
कवचेन(ना)वकुण्ठ्यास्त्रेण संरक्ष्य मूलेन रजोदोषशान्तये अभिमन्त्र्य साष्टशतं
मूलं जप्त्वा। पूर्वादिदिक्षु अस्त्रमभ्यर्च्य धूपदीपादिभिः शिवं यजेत्।
पुष्पादिभिर्वह्निस्थं शिवं सम्पूज्य
अध्वन्यासादिकं कुर्यात्। तत॥॥स्वप्ने अनुमोद्य दुस्वप्नदर्शने शान्तिं कुर्यात्।

(स्वप्नफलम्)
तद्यथा -
दध्यान्नमांसमद्यादेः प्रशस्ताभ्यवहारतः।
गजाद्यारोहणं धान्यं सितवस्त्रावकुण्ठनम्॥
शुभ्रं नदं नदीं वापि समुद्रं पङ्कमेव वा।
अतिघोरं महादुर्गन्तरतेयः स सिध्यति॥
व्याधिं मृत्युं भयं वापि बन्धनं वा धनक्षयम्।
विदेशगमनं वापि भवेत्तेषां विलोमतः॥
क्षीरिणं फलिनं वृक्षं ये(ए)काकी योऽधिरोहति।
तत्रस्थ तु विबुध्येत तस्य सिद्धिर्विधीयते॥
प्रासादं वृषभं नावं पर्यङ्कं कुञ्जरं नगम्।
योऽधिरोहति स्वप्नान्ते तस्य सिद्धिर्विधीयते॥
एषामेकतमाद्वापि च्यवनं मृत्युलक्षणम्।
अर्थनाशो मनस्तापो ह्यपि वा बन्धनं भवेत्॥
आसनं शयनं वेश्म वस्त्रं प्रावरणं तथा।
ज्वलन्तं प्शयति स्वप्ने तस्य सिद्धिर्विधीयते॥
सुजीर्णानि च भग्नानि ज्वालितास्तमितानि च।
द्रष्टा न सिध्यति स्वप्ने हस्ता॥॥। तफलानि च॥
छिद्रं वासोऽथ कूटं च स्वकं प्रावरणं तथा।
पा*॥॥दिगन्धं च दृष्ट्वा स्वप्ने न सिध्यति॥*
सुशुभानि च वस्त्राणि निश्छिद्राणि नवानि च।
विद्यया जयितं स्वप्ने तस्य सिद्धिर्विधीयते॥
शुक्लं विलेपनं माल्यमातपत्रासनध्वजम्।
शङ्खपद्मनि*………………॥लभेत्॥*
शुक्लक्षीरदधिः सर्पिरार्द्रमांसफलानि च।
यस्तु भुङ्क्ते तु स्वप्नान्ते तस्य सिद्धिर्विधीयते॥
आकाशगमनं स्वप्ने अगम्यागमनं तथा।
विष्ठानुनस्वच्चैव दृष्ट्वा सिद्धिमवाप्नुयात्॥
जपेद्वा हुनते वापि रोदिति म्रियतेऽपि वा।
हन्ति वा यजयेद्वापि स्वप्ने सिद्धिमवाप्नुयात्॥
अस्रजं मधुमद्यं वा समुद्रं वा पयस्विनीम्।
स्वप्नान्ते च पिबेद्यो वै तस्य सिद्धिर्विधीयते॥
गवाश्वभूमिनाशं वा शस्त्रालङ्कारकुञ्जरान्।
पश्याद्यः शयितस्वप्ने तस्य सिद्धिं न विद्यते॥
एतेषां तु पुनर्लाभात् इष्टान्कामानवाप्नुयात्।
दृष्ट्वा न स्वपतये यस्तु यावदभ्युदितो रविः॥
शुष्कवृक्षं चित्रिं वापि कणकाकीर्णमेव वा।
योऽतिरोहति स्वप्नान्ते तस्य सिद्धिर्न विद्यते॥
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः।
स्मृतिलोपो भवेद्वापि तस्य सिद्धिर्न विद्यते॥
भस्माङ्गारास्थिकेशं च मषीं कृष्णभुजङ्गमम्।
यस्तु पश्यति स्वप्नान्ते तस्य सिद्धिर्विधीयते॥
शाकं तैलं फलं कृष्णमद्याद्यः शयितो निशि।
न च सिद्धिमवाप्नोति न सुखं च न सम्पदः॥
ऋक्षोष्टै वा नरं वापि खरमश्वतरीं व्रकम्।
योऽधिरोहति स्वप्नान्ते तस्य सिद्धिर्न विद्यते॥
तैलाभ्यङ्गमथोद्वाहं पुत्रलाभः प्रवर्तनम्।
गेयं हास्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यति॥
अतिस्थूलं मलग्रस्तम् आत्मानं व्याधिपीडितम्।
कुचेलमविना॥॥॥॥।* दुस्वप्नेन सिध्यति॥*
क्षपणं वान्त्यजातं वा व्याधिकं रक्तवाससम्।
उन्मत्तं च विनाशं वा दृष्ट्वा स्वप्ने न सिध्यति॥
एकाङ्गविकलस्वप्ने स विकारे मलान्वितः।
यस्यां नग्नग्तस्तु सन्तिष्ठेत् तस्य सिद्धिर्न विद्यते॥
क्व प्रस्थितोऽसि मूर्धात्मन् नास्तित्वे त्वभिवाञ्छितम्।
एवमुक्तो नरस्वप्ने प्रत्यक्षं वा न सिध्यति॥
एवं मूत्रं पुरीषं वा सुवर्णं रजतं तथा।
दन्तपङ्क्तिः पतेद्वाथ स्वप्ने सोऽपि न सिध्यति॥
विपरीतानि चैतानि नाममात्राणि चैव हि।
पश्येद्यः शयितस्वप्ने तस्य सिद्धिर्न विद्यते॥
वैश्याकन्या यथा राज्ञी ब्रह्माणी चानुमोदिनि।
राजा विप्रो यतिर्वापि तस्य सिद्धिर्विधीयते॥
राजानं वृत्तसम्पन्नं ब्रह्माणं वेदपारगम्।
स्त्रियं च लक्षणोपेता दृष्ट्वा स्वप्ने प्रसिध्यति॥
शुक्लाम्बरधरा नारी शुक्लमाल्यानुलेपना।
यं विग्रहाति स्वप्नान्ते तस्य श्रीः सर्वतोमुखी॥
कृष्णाम्बरधरा काष्णाकृष्णमाल्यानुलेपना।
यं विगृह्णाति स्वप्नान्ते तस्य सिद्धिर्नविद्यते॥
रक्ताम्बरधरा नारी रक्तमाल्यानुलेपना।
तथा विगृह्यते यस्तु स्वप्ने सोऽपि न सिध्यति॥
कुचेलो वा मलग्रस्ता व्याधिता विकृतानना।
तया विगृह्यते यस्तु स्वप्ने सोऽपि न सिध्यति॥
एवं स्वप्ना मया ख्याता विधिस्तस्य षडानन।
कथयन्ति यथातथ्यं भविष्यं युक्तकर्ण इति॥
दृष्टे शुभेतरस्वप्ने निशाप्रान्ते सहस्रकम्।
मध्ये तदर्धमारम्भे शतं चान्यत्र कल्पयेत्॥
शिवात्मनेऽपि दुस्वप्ने द्विगुणं हेतिना चरेत्।
शिवात्मा गुरुरित्यर्थः।

(शिष्यप्रवेशादयः)
पूर्ववन्मन्त्रतर्पणदीपने कृत्वा अन्तर्बलिं दत्वा शिवमभ्यर्च्य शिष्यप्रवेशार्थं
विज्ञाप्य शिवहस्तं
स्व मस्तके विन्यस्य आत्मानमुष्णीषादिभिरलङ्कृत्य शिवोऽहमति विभाव्य बहिर्निर्गत्य शिष्यं
विधिवत् प्रवेश्य कुण्डान्तिके समुपवेश्य सम्पूज्य नाडीसन्धानार्थं
पूर्ववत् ध्यात्वा शिष्यमस्तके सम्पातहोमं कृत्वा मूलेन शतं हुत्वा पूर्णां दत्वा
शिष्यमुत्थाप्याग्नावाहुतित्रयमूलेन पादयित्वा कुम्भमण्डलगुरुषु। पूजां
कारयित्वा घटेश्वरसमीपस्थपाशसूत्रं शिष्ये आनाय्य सूत्रं सम्प्रोक्ष्य शिवमग्नौ
सम्पूज्य सन्तर्प्य पूर्ववत् शिखायां बध्वा शिष्यमभ्यर्च्य नाड्यादिकं सूत्रे विन्यस्य
वह्नौ
सान्निध्यं तृप्यर्थं(तृप्त्यर्थं) हुत्वा। सूत्रदेहगतं समस्ताध्वानं विभाव्य
आत्मकुण्डमण्डलादीन्यस्तसमस्ताध्वनः
सन्धानार्थं मूलेनाष्टोत्तरशतं हुत्वा पूर्णां दद्यात्।

(निवृत्तिकलाशुद्धिः)
तदनु हां
आधारशक्तये नमः। इति कुण्डे विन्यस्याभ्यर्च्य स्वाहान्तेन सन्तर्प्य
निवृत्यादिक्रमेणालोकनादि कुर्यात्। तद्यथा हां ह्लाम् ।
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
निवृत्तिकलापाशाय नम इति स्वस्थाने
स्थावरादिब्रह्मान्तचतुर्दशविधभूतसंसर्गादिगर्भमवलोकयेत्। भूतः
सर्गस्त्वष्टविकल्पः।
देवतिर्यग्योन्याश्च पञ्चधा भवन्ति मानुष्यं
चैकविधं समासतो भौतिकः। सर्गः। हां ह्लां हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
निवृत्तिकलापाशाय हुम्फडिति
स्वस्थाने ताडनभेदने कृत्वा नमोन्तेनानेन मन्त्रेण प्रविश्य हां ह्लां हां
तत्वभुवनवर्णपदमन्त्रमलकर्म मायामायेयसचिवाय स्त्रीरुपतत्वरूपाय
निवृत्तिकलापाशाय
हुं फडिति
विश्लेषं कृत्वा स्वाहान्तेनेन मन्त्रेण पूरकाङ्कुशमुद्रया पाशमाकृष्य हौं ह्लां हां
हौं तत्वभुवनवर्णपदमन्त्रमलकर्मणायामायेयसचिवाय
स्त्रीरूपतत्वरूपाय निवृत्तिकलापाशाय हः हुम्फडिति पूरकसंहारिण्या
जान्वधस्तान्निवृत्तिकनिवृत्तिकलापाशं सङ्गृह्य हां ह्लां हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
निवृत्तिकलापाशाय नमः। इति चेतकोत्भ(द्भ)वमुद्रया कुण्डे संयोज्य
सम्पूज्य स्वाहान्तेन तेनार्घ्यं दत्वा सन्निधाय पञ्चाहुतीर्जुहुयात्। तदनु हां ब्रह्मणे
नम इति कुण्डे समावाह्य सम्पूज्य स्वाहान्तेन तेन पञ्चाहुतीर्हुत्वा
ब्रह्मन् तवाधिकारेऽस्मिन्। मुमुक्षुदीक्षायाम्यहम्। भाव्य त्वयानुकूलेन विधिं
विज्ञापयेदिति। अथ ब्रह्माणं विसृज्य हां ह्लां हौं हां
तत्वभुवनवर्मपदमन्त्रमलकर्ममायामायेयसचिवायै
निवृत्तिकलापाशाय व्यापिकायै वागीश्वर्यै नम इति ऋतुमतीं रक्तवस्त्रां वागीश्वरीं कुण्डे
विन्यस्याभ्यर्च्य स्वाहान्तेन तेन सन्तर्प्य
योनिमुद्रां प्रदर्श्य हां ह्लां हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय निवृत्तिकलापाशव्यापकाय
वागीश्वराय नम इति दशभुजं पञ्चवक्त्रं

निजेषयोनिक्षोभकं वागीश्वरं कुण्डविन्यस्याभ्यर्च्य स्वाहान्तेन तेन सन्तर्प्य
वागीश्वर्यां युगपदनेकयोनिजन्मप्रसवितारं विभाव्य तयोः संयोगं च विभाव्य हां

हं हां हः। अस्त्राय हुम्फडिति निवृत्तिस्थं पशुचैतन्यं नाराचमुद्रया पुष्पेण
सन्ताड्य हां हं हां हः अस्त्राय हुं फट् स्वाहेति पञ्चाहुतीर्हुत्वा हां हं हां हः।

अस्त्राय हुं फडिति निवृत्तिस्थं पशुचैतन्यं
विभिद्य स्वाहान्तेन तेन पञ्चाहुतीर्हुत्वा। हं हां हं हां हुं नमः। हां वामायै
नमः। इति कुण्डे विन्यस्याभ्यर्च्य
हुं हां हं हां हुं हां वामायै स्वाहेति पञ्चाहुतीर्हुत्वा हां नम इति। वामाया
रेचकेन गत्वा हां हं हुं फट्। हिं ज्येष्ठायै नमः। इति कुण्डे विन्यस्य
अभ्यर्च्य हां हुं हूं हीं ज्येष्ठायै स्वाहेति पञ्चाहुतीः। सूत्रस्थं पशुचैतन्यं
ज्येष्ठाया वियोज्य हां हूं नमः।
हूं रौद्र्यै नम इति कुण्डे
विन्यस्याभ्यर्च्य हां हुं नमः। हां रौद्रै(द्र्यै) स्वाहेति। पञ्चाहुतीर्हुत्वा रौद्र्या
पुर्यष्टकरूपिणमात्मानमुत्कृष्य तद्वादशान्तं नीत्वा हूं हां हं
पशुचैतन्यं गृह्णामि। हः हुं फडिति चैतन्यं गृहीत्वा पुरकसंहारिण्यादाय
स्वात्मस्थं कृत्वा स्वद्वादशान्तं नीत्वा तस्मादादाय कुण्डे वामादिनिष्वातं श्रितं
विभाव्य
हां हं हाम् आत्मन्
स्व कर्मानुगुण्येन निवृत्तिकलाभुवनाशेषयोनिगर्भाधानाय युक्तो भवनम्।
इत्यनेकयोनिरूपिण्यां भुवनवागीश्वर्यां युगपदनेकयोनिभेदभिन्नायां
कर्मानुगुणाकारोत्। पत्तिसिध्यर्थं संयोज्य हां हम् आत्मने नम इति कुण्डे सम्पूज्य
स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य मूलेन पञ्च पञ्चाहुती
॥॥॥। तर्पणे कृत्वा संयोगार्थं मूलेन पञ्चाहुतीर्हुत्वा हां युगपद्योगार्थमणोरस्य
विधीयतामिति प्रार्थयेत्। ततः पशोरनेकयोनि
………नं करोति विचिन्त्य स्वाहान्तहृदयेन पञ्चाहुतीर्हुत्वा युगपत् सर्वयोनिभ्यः
पशोर्जननं करोमीति विभाव्य स्वाहान्तशिरसा पञ्चाहुतीर्हुत्वा
पशोर्युगपत् सर्वत्र भोगाधिकारं करोमीति विचिन्त्य स्वाहान्तशिखया पञ्चाहुतीर्हुत्वा
पशोरनादिसंसारमारभ्य अद्यप्रभृति समुपजातकर्मसु
भुक्तकर्माणि
विहाय अवशिष्टकर्मसु निवृत्तिकलाभुवननिष्ठाशेषकर्मानुगुणम्। भोगं सम्पादयामीति
विभाव्य स्वाहान्तकवचेन पञ्चाहुतीर्जुहुयात्। अत्रान्तरे। गर्भाधानादि
अन्तेष्ट्यन्तचत्वारिंशत् संस्कारमध्ये अवान्तरशैवयोग्यषोडशसंस्कारेषु
सन्याससंस्कारस्य निर्वाणदीक्षान्तरभावित्वात् अन्त्येष्टेर्देहपातानन्तरभाव्यत्वात्

तदुभयव्यतिरेकेण तत्तदाश्रमावधि विशेषदीक्षायां कृतावशिष्टान् संस्कारान्
पूर्वोक्तवत् कुर्यात्। सन्न्यस्यतो दीक्षायां
वानप्रस्थान्तसंस्कारात् कुर्यात्। ते के।
गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनचौऴोपनय्
अनव्रतगोदानसमावर्त
नविवाहवानप्रस्थसन्यासान्त्येष्टिरूपाः षोडशसंस्काराः।
तदुक्तमचिन्त्यविश्वसादाख्ये –
गर्भाधाने च पुरस्कृतीम् ॥॥॥॥॥॥॥॥॥॥॥॥।
सीमन्तोन्नयने चैव जातकर्मणि नामनि च॥
निष्क्रामणे तथान्नस्य प्राशने चौलकर्मणि।
उपवीतौ व्रतादेशे गोदाने स्नानकर्मणि॥
विवाहे वनवासित्वे यतीत्वेनन्दिकेश्वरे। इति
अवशिष्टसं
॥।राः। ब्राह्मणविषयत्वादत्र न लिखितः। एवं संस्कारानापाद्य तत् प्रतिबन्धं च हृदा
आहुतित्रयेण तथैव निवर्तयेत्। तदनु भोग्येष्ठपरमप्रीतिरूपं
लयमनुसन्धाय मूलेनाहुतिपञ्चकं दत्वा भगवन्नस्यात्मनो भोग्येषु परमप्रीतिरूपं
लयं कुरु कुर्वीति मायाकार्यारम्भो ॥॥ तासां शुद्धये मूलेनाहुतिपञ्च
कं दत्वा भगवन्नस्यात्मनो
मायाकार्यारम्भप्रवाहशुद्धिं गुरु कुर्वीति विज्ञापयेत् भोगहेतोः। कर्मणि भुङ्क्ते सति
पुनरप्रसवित्वहेतवे निवृत्तितत्वशुद्धं
हृदयेनाहुतिपञ्चकं कार्यम्। निष्कृतौ जात्यायुर्भोगसंस्कारादिशुद्ध्यर्थं स हृदा
मूलेनाहुतिशतं हुत्वा भगवन्नस्यात्मनो निष्कृत्या सर्वकर्मसु। शुद्धिमाचरामीति विचिन्त्य

आत्मनः निवृत्तिकला भुवनाभावेन पुर्यष्टकपाशात्।
बहिर्निष्क्रामणरूपं विश्लेषं सम्भाव्य मूलेन सह पाशुपतेन स्वाहान्तेनाहुति पञ्चकं
दत्वा भोक्तृत्वविषयासक्तरूपं
मलकार्यं विभाव्य तत्तिरोधानार्थं मूलेनाहुतिशतं हुत्वा पाशुपतेनाहुतिदशकं हुत्वा
निवृत्तिकलाप्तमात्रमलकर्ममायाविस्लेषं सङ्कल्प्य पुनर्मूलेन
तथैवाहुतिपञ्चकं जुहुयात्। सूत्रं तर्जन्यङ्गुष्ठाभ्यां गृहीत्वा पशोः
पाशसूत्रसञ्चालनेन पाशविश्लेषं
सम्भावयामीति। विभाव्य
हुम्फडन्तास्त्रेण पञ्चाहुतीर्जुहुयात्। ततः कर्तरीमस्त्रेण सप्तधाभिमन्त्र्य हं ह्लां
हां तत्वभुवनवर्णपदमन्त्रमलकर्ममायेयसचिवं स्त्रीरूपतत्वरूपं
निवृत्तिकलापाशच्छिनदम्। हुं हः अस्त्राय हुं फडिति। कर्तर्यां छिद्यात्। पशोः
पाशमर्दनं करोमीत्युक्त्वा हां ह्लां हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं

स्त्रीरूपतत्वरूपं निवृत्तिकलापाशं मर्दयामि। हुं हः अस्त्राय हुं फडिति हस्ताभ्यां
पाशं विमृज्य पशोः पाशं वर्तुऴीकरोमीत्युक्त्वा हां ह्लां
हां तत्वभुवनवर्णपदमन्त्रमलमायामायेयसचिवं स्त्रीरूपतत्वरूपं
निवृत्तिकलापाशं वर्तुऴी करोमि हुं हः अस्त्राय हुं फडिति कराभ्यां वर्तुऴीकृत्य
॥॥॥॥ दहामीत्युक्त्वा घृतपूर्णस्रुवाग्रे पाशं विन्यस्य हां ह्लां हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं स्त्रीरूपतत्वरूपं वन्निवृत्ति
……… हं हः अस्त्राय हुं फडिति हुत्वा दहेत्। ततः पाशाङ्कुशनिवृत्तये हुं
फडन्तास्त्रेण पञ्चाहुतीर्हुत्वा प्रायश्चित्तार्थं स्वाहान्ते
॥॥स्त्रेणाष्टाहुतीर्जुहुयात्। ततः कुण्डे ब्रह्माणं हृदयेनासम्पूज्य स्वाहान्तेन तेन
सन्तर्प्य हां ब्रह्मतत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवौ
स्त्रीरूपतत्वरूपा
शब्दस्पर्शशु॥।गृहाण स्वाहेति पञ्चाहुतीर्हुत्वा च ब्रह्मं नाद्य(ट्य)कलानाथ पशोरस्य
त्वया पुनः। शिवाज्ञया न कर्तव्यः प्रतिबन्धस्वगोचर इति। प्रार्थ्य ब्रह्माणं विसृजेत्। ततः
पशोरुद्धारकं
करोमीत्युक्त्वा स्वाहान्तमूलेन पञ्चाहुतीर्हुत्वा। वामया गत्वात् ज्येष्ठयात्मानं वियोज्य
रौद्र्यादिगुमात्मकप्रकृतिदेहेनात्मानं कुम्भादुद्धृत्य
ईषद्राहुमुक्तशरच्चन्द्रमिव
स्थितं विभावयन् आत्मस्थं कृत्वा पाशसूत्रे शिष्यचैतन्यं विन्यस्य आत्मस्थैर्याय मूलेन
पञ्चाहुतीर्हुत्वा शिष्यस्याप्यायनाय वौषडन्तमूलेन
तच्छिरस्यमृतबिन्दुमयमर्घ्योदकं नामिकया प्रोक्ष्य वागीश्वरीवागीश्वरौ
दशदशाहुतिभिः सन्तर्प्य विसृज्य पूर्णां दद्यात्। तदनु। हां ह्लां ह्वीं हां
निवृत्तिप्रतिष्ठाकलाभ्यां नम इति
शुद्धाशुद्धयोर्ह्रस्वदीर्घोच्चारेण सन्धानं कृत्वा तत् स्थैर्याय मूलेन
पञ्चाहुतीर्जुहुयात्। शुद्धाशुद्धप्रतिष्ठाकलायां लीनां
विभाव्य मूलेन पञ्चाहुतीर्जुहुयात्। इति निवृत्तिकलाशुद्धिः।

(प्रतिष्ठाकलाशुद्धिः)
ततः प्रतिष्ठाकलापाशान् पूर्ववत् पञ्चाध्वगर्भं विचिन्त्य हां ह्लीं हां
तत्वभुवनवर्णपदमन्त्रम
लकर्ममायामायेयसचिवं स्त्रीरूपतत्वरूपाय प्रतिष्ठाकलापाशाय नमः। इति स्वस्थाने
स्थावरादिविष्ण्वन्तसर्गान्तादिभवमवलोक्य हां ह्वीं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं स्त्रीरूपतत्वरूपाय
प्रतिष्ठाकलापाशाय हः हुं फडिति स्वस्थाने ताडनम्।
भेदनं च कृत्वा नमोन्तेनानेन मन्त्रेण प्रवि
… हां ह्वीं हां तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय
स्त्रीरूपतत्वरूपाय प्रतिष्ठाकलापाशाय हः हुं फडिति विशेषं कृत्वा
स्वाहान्तेनानेन मन्त्रेण पूरकाङ्कुशमुद्रया पाशाकर्षणं कृत्वा हां ह्वीं हां
तत्वभुवने
वर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
प्रतिष्ठाकलापाशाय हः। हुं फडिति पूरकसंहारिण्या नाभय्धस्तात्
प्रतिष्ठाकलापाशं सङ्गृह्य हां ह्वीं
हां तत्वभुवनेत्यादि तत्वरूपायेत्यन्तमुच्चार्य प्रतिष्ठाकलापाशाय नमः। इति
रेचकोद्भवमुद्रया कुण्डे विन्यस्याभ्यर्च्य स्वाहान्तेनानेन मन्त्रेणार्घ्यं दत्वा
सन्निधानाय
पञ्चाहुतीर्जुहुयात्। तदनु हां विष्णवे नम इति कुण्डे समावाह्य सम्पूज्य स्वाहान्तेन तेन
पञ्चाहुतीर्हुत्वा।
विष्णो तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षा(क्ष)याम्यहम्।

भाव्यं त्वयानुसूलेन विष्णुं विज्ञापयेदिति।
विष्णुं विसृज्य ह्लां ह्वीं ह्लां हौं तत्वभुनमन्त्रमलकर्ममायामायेयसचिवायै
प्रतिष्ठाकलापाशव्यापिकायै
वागीश्वर्यै नम इति रक्तवस्त्रामृतुमतीं वागीश्वरीं कुण्डे विन्यस्याभ्यर्च्य
स्वाहान्तेनानेन सन्तर्प्य योनिमुद्रां प्रदर्श्य हां ह्वीं हौं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय प्रतिष्ठाकलापाशाय व्यापकाय
वागीश्वराय नम इति दशभुजम्। पञ्चवक्त्रं
निशेषयोः रुक्षोभकं वागीश्वरं कुण्डे
विन्यस्याभ्यर्च्य स्वाहान्तेनानेन सन्तर्प्य वागीश्वरं युगपदनेकयोनिजन्मप्रसवित्रीं
विभाव्य तयोः संयोगं च विभाव्य हां हं हां हःअस्त्राय
हुं फडिति प्रतिष्ठाकलास्थं पशुचैतन्यं नाराचमुद्रया पुष्णेण सन्ताड्य हां हं
हां हःअस्त्राय हुं फट् स्वाहेति पञ्चाहुतीर्हुत्वा हां हं हां हः
अस्त्राय हं फडिति
प्रतिष्ठाकलास्थं बहुचैतन्यं विभिद्य हां हः अस्त्राय हुं फट् स्वाहेति पञ्चाहुतीर्हुत्वा
हुं हां हं भां हुं नमः हां वामायै नम इति
कुण्डमध्ये विन्यस्याभ्यर्च्य हुं हां हं हां वामायै स्वाहेति पञ्चाहुतीर्हुत्वा हां
नम इति वामाय रेचकेन गत्वा हां हं हुं फट् हीं ज्येष्ठायै नम इति कुण्डे
विन्यस्याभ्यर्च्य हां हं हुं फट् हीं ज्येष्ठायै स्वाहेति पञ्चाहुतीर्हुत्वा सूत्रे
पशुचैतन्यज्येष्ठया
वियोज्य हां हुं नमः। ह्रूं रौद्र्यै नमः। इति कुण्डे विन्यस्या
हूं हां हूं नमः ह्रूं रौद्र्यै स्वाहेति पञ्चहुतीर्हुत्वा
रौद्रियमात्रिगुणात्मकप्रकृतिदेहिनमात्मानमुत्कृष्य तद्वादशान्तं
नीत्वा ह्रूं हां हं हां पशुचैतन्यं गृह्णामि हः हुं फडिति तच्चैतन्यं गृहीत्वा
पूरकसंहारिण्यादाय स्वात्मस्थं कृत्वा स्व द्वादशान्तं नीत्वा तस्मादादाय
कुण्डे वा मामिष्ट्वा तदाश्रितं
विभाव्य हां हं हाम् आत्मन्नशेषयोनिषु गर्भाधानयुक्तो भव नम
इत्यनेकयोनिरूपिण्यां भुवनवागीश्वर्यां युगपदनेकयोनिभेदभिन्नायां
नानाकारोत्पत्तिसिध्यर्थं संयोज्य हां हं हाम् आत्मने नम इति कुण्डे सम्पूज्य
स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य मूलेन पञ्च पञ्चाहुतिभिः
सान्निध्यतर्पणे कृत्वा संयोगार्थमूलेन पञ्चाहुतीर्हुत्वा हौं युगपद्योनिमणोरस्य
विथीयतामिति
प्रार्थयेत् ततः। पशोः
प्रतिष्ठाकलाभुवननिष्ठकर्मानुगुणानेकयोनिषु एककाले गर्भाधानं करोमीति विचिन्त्य
स्वान्त॥।न्तहृदयेन पञ्चाहुतीर्हुत्वा युगपत् सर्वयोनिभ्यः पशोर्जननं करोमीति विभाव्य

स्वाहान्तशिरसा पञ्चाहुतीर्हुत्वा पशोर्युगपत् सर्वत्र भोगाधिकारं करोमीति विचिन्त्य
स्वाहान्तशिखया पञ्चाहुतीर्हुत्वा पशोरनादिसंसारमारभ्य
अद्यप्रभृति
समुपजातकर्मसु प्रतिष्ठाकलाभुवननिष्ठाशेषकर्मानुगुणं युगपत् भोगं
सम्पादयामीति विभाव्य स्वाहान्तकवचेन पञ्चाहुतीर्हुत्वा पशोः प्राकृतभोग्येषु
परमप्रीतिरूपं लयं करोमीति विचिन्त्य मूलेन पञ्चाहुतीर्हुत्वा प्रकृतिसमानरूपाणां
स्रोतसां तदराम्भक(तदारम्भक)कर्मापगमार्थं पोशो स्रोतो मुक्तिमाचरामीति
विभाव्य
स्वाहान्तपाशुपतास्त्रेण पञ्चाहुतीर्हुत्वा तत्वशुद्धौ स्वाहान्तहृदयेन पञ्चाहुतीर्हुत्वा
आत्मनः प्रतिष्ठाकलाभुवनभोगाभावात् प्रतिष्ठाशुद्ध्यर्थं
स्वाहान्तशिरसा आहुतिशतं हुत्वा आत्मानमर्धं राहुमुशरच्चन्दरवत्। प्रकृते निर्गतं
विभाव्य पशोर्वी(र्वि)लक्षणेन मलतिरोधानमाचरामीति
विचिन्त्य स्वाहान्तमूलेन पञ्चाहुतीर्हुत्वा पाशसूत्रं तर्जन्यङ्गुष्ठाभ्यां गृहीत्वा
पशोः पाशसूत्रसञ्चालनेन पशविश्लेषं सम्पादयामीति विभाव्य
हुम्फडन्तास्त्रेण पञ्चाहुतीर्जुहुयात्। ततः कर्त्रीमस्त्रेण सप्तवारमभिन्त्र्य हां ह्वीं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिव स्त्रीरूपतत्वरूपं
प्रतिष्ठाकलापाशं
छिनक्ति हुं हः। अस्त्राय हुं फडिति कर्तर्यां छिन्त्यात् पशोः पाशमर्दनं करोमीत्युक्त्वा
हां हिं हां
तत्वभुवनादिवर्णपदमन्त्रमलकर्ममायामायेयसचिवं
स्त्रीरूपतत्वरूपं प्रतिष्ठाकलापाशं मर्दयामि हं हः अस्त्राय हुं फडिति हस्ताभ्यां
पाशं विमृज्य पशोः पाशं वर्तुऴीकरोमीत्युक्त्वा हं हः अस्त्राय [इन् थे रिघ्त् सिदे हां …।
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिव स्त्रीरूपतत्वरूपं
प्रतिष्ठाकलापाशं वर्तुऴीकरोमि हं हः अस्त्राय हुं फडिति कर्तर्याम्]

हुं फडिति काराभ्यां वर्तुऴीकृत्य पशोः पाशं दहामीत्युक्त्वा घृतपूर्णस्रुवाग्रे
पाशं विन्यस्य हां ह्वीं हां तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेय
सजिवं स्त्रीरूपतत्वरूपं प्रतिष्ठाकलापाशं दहामि हुं हः अस्त्राय हुं फडिति हुत्वा
दहेत् ततः पाशाङ्कुरनिवृत्तये हुं फडन्तास्त्रेण पञ्चाहुतीर्हुत्वा
प्रायश्चित्तार्थं स्वाहान्तास्त्रेणाष्टाहुतीर्जुहुयात्।
ततः कुण्डे हृदयेन विष्णुं सम्पूज्य स्वाहान्तेन तेन सन्तर्प्य हां विष्णो
तत्वभुवनवर्णपदमन्त्रमलकर्म
मायामायेयसचिवं स्त्रीरूपतत्वरूपं रसं शुकीं गृहाण स्वाहेति। पञ्चाहुतीर्हुत्वा।

विष्णोऽस्य दग्धपाशस्य गच्छतः पदमव्ययम्।
स्वाधिकारेन कर्तव्यस्त्वया बन्धः शिवा*ज्ञया॥
इति प्रार्थ्य विष्णुं विसृजेत्। ततः पशोरुद्धारकं करोमीत्युक्त्वा स्वाहान्तमूलेन
पञ्चाहुतीर्हुत्वा वामाया रोचकेन गत्वा ज्येष्ठायात्मानं
प्रकृतेर्वियोज्य रौद्र्या कलादिबन्धमात्मानं कुण्डादुद्धृत्यात्मस्थं कृत्वा पाशसूत्रे
चच्छिष्यचैतन्यं विन्यस्य आत्मस्थैर्याय मूलेन पञ्चाहुतीर्हुत्वा
शिष्यस्याप्यायनाय वौषडन्तमूलेन तत् छिरस्यामृतबिन्दुमयमर्घ्योदकमनामिकया
दत्वा वागीश्वरी वागीश्वरौ दर्शाहुतिभिः सन्तर्प्य हृदयेन विसृज्य पूर्णां दद्यात्।
तदनु हां ह्वीं ह्रूं हां प्रतिष्ठाविद्याकलापाशाभ्यां नम इति
शुद्धाशुद्धयोर्ह्रस्वदीर्घोच्चारेण सन्धानं कृत्वा तत्तत् स्थैर्याय पञ्चाहुतीर्जुहुयात्।
॥इति प्रतिष्ठाकलाशुद्धिः॥

॥ विद्याकलाशुद्धिः ॥
तदनु विद्याकलापाशं पूर्ववत् पञ्चाध्वगर्भं विचिन्त्य हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रकर्ममायामायेयसचिवाय
स्त्रीरूपतत्वरूपाय विद्याकलापाशाय नम इति। स्वस्थाने
स्थावरादिरुद्रगर्भान्तगर्भमवलोक्य हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेय
सचिव स्त्रीरूपतत्वरूपाय विद्याकलापाशाय हः हुं फडिति स्वस्थाने
ताडनभेदनं च कृत्वा नमोन्तेनानेन मन्त्रेण प्रविश्य हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
विद्याकलापाशाय हः हुं फडिति विश्लेषं कृत्वा स्वाहान्तेनानेन मन्त्रेण पूरकां
कुशमुद्रया
पाशकर्षणं कृत्वा हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
विद्याकलापाशाय हः हुं फडिति
पूरकसंहारिण्या
हृदा विद्याकलापाशं सङ्गृह्य हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय स्त्रीरूपतत्वरूपाय
विद्याकलापाशाय नम इति
रेचकोद्भवमुद्रया कुण्डे विन्यस्याभ्यर्च्य स्वाहान्तेनानेन मन्त्रेणार्घ्यं दत्वा
सन्निधानाय पञ्चाहुतीर्जुहुयात्। हां रुद्राय नम इति कुण्डे
समावाह्य सम्पूज्य स्वाहान्तेन तेन पञ्चाहुतीर्हुत्वा।
रुद्र तवाधिकारेऽस्मिन्मुमुक्षुर्दीक्षयाम्यहम्।
भाव्यं त्वयानुकूलेन रुद्रं विज्ञापयेदिति।
रुद्रं विसृज्य हां ह्रूं हां तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय
विद्याकलापाशाय व्यापिकायै वागीश्वर्यै नमः इति। रक्तवस्त्राम् ऋतुमतीं वागीश्वरीं
कुण्डे विन्यस्य स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य योनिमुद्रां प्रदर्श्य हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवाय विद्याकलापाशाय
व्यापकाय वागीश्वराय नम इति।
दशभुजं पञ्चवक्त्रं निश्शेषयोनिक्षोभकम्।
वागीश्वरं कुण्डे विन्यस्याभ्यर्च्य स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य
वागीश्वरीं युगपदनेकयोनिजन्मप्रसवित्रीं विचिन्तयोः संयोगं च विभाव्य हां हं हां
हः अस्त्राय हुं फडिति विद्याकलास्थं पशुचैतन्यं नाराचमुद्रया
पुष्पेण सन्ताड्य हां हं हां हः अस्त्राय हुं फट् स्वाहेति पञ्चाहुतीर्हुत्वा हां हं
हां हः अस्त्राय हुं फडिति विद्याकलास्थं
पशुचैतन्यं
विभिद्य हां हं हां हः अस्त्राय हुं फट् स्वाहेति पञ्चाहुतीर्हुत्वा हुं हां हं हां
हुं नमः ॐ हां वामायै नम इति कुण्डे विन्यस्याभ्यर्च्य ह्रूं हां हं
हां हुं हां वामायै स्वाहेति पञ्चाहुतीर्हुत्वा हुं नम इति वामया रेचकेन गत्वा हां
हं हः हुं फट् स्वाहेति हीं ज्येष्ठायै नम इति कुण्डे
विन्यस्याभ्यर्च्य हां हः हुं फट् हिं ज्येष्ठायै स्वाहेति पञ्चाहुती
हुत्वा सूत्रस्थं पशुचैतन्यं ज्येष्ठाया वियोज्य हां ह्रूं नमः। ह्रूं रौद्र्यै नम इति
कुण्डे विन्यस्याभ्यर्च्य
हां ह्रूं नमः। ह्रूं रौद्र्यै स्वाहेति पञ्चाहुतीर्हुत्वा रौद्र्या कलादिसहितं
प्रलयाकलपशुं स्फुरत् तारकानिभमात्मानमुत्कृष्य तद्वादशान्तं
नीत्वा हुं हां हुं पशुचैतन्यं गृह्णामि हः हुं फडिति तच्चैतन्यं गृहीत्वा
पूरकसंहारिण्या स्वात्मस्थं कृत्वा स्व द्वादशान्तं नीत्वा
तस्मादादाय कुण्डे
वामामिष्टतदाश्रितं विभाव्य हां हं हाम् आत्मनन्नशेषयो निष्ठगर्भाधानाय युक्तो
भव नम इत्यनेकयोनिरूपिण्यां भुवनवागीश्वर्यां युगपदनेकयोनिभेदभिन्नया
नानाकारोत्पत्तिसिध्यर्थं संयोज्य हां हं हा आत्मने नम इति कुण्डे सम्पूज्य
स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य मूलेन पञ्चपञ्चाहुतिभिः सान्निध्यतर्पणे
कृत्वा तयोः
संयोगार्थमूलेन पञ्चाहुतीर्हुत्वा हौं युगपद्योगमणोरस्य विथीयतामिति प्रार्थयेत्। ततः
पशोर्विद्याकलाभुवननिष्ठकर्मानुरूपानेकयोनिषु
एककालो गर्भाधानं करोमीति विचिन्त्य स्वाहान्तहृदयेन पञ्चाहुतीर्हुत्वा युगपत्
सर्वयोनिभ्यः पशोर्जननं करोमीति
विभाव्य स्वाहान्तशिरसा पञ्चाहुतीर्हुत्वा पशोर्युगपत् सर्वत्र भोगाधिकारं करोमीति
विचिन्त्य स्वाहान्तशिखया पञ्चाहुतीर्हुत्वा पशोरनादिसंसारसमुपजातकर्मणो
युगपत्भोगं सम्पादयामीति विभाव्य स्वाहान्तकवचेन पञ्चाहुतीर्हुत्वा पशोर्मायायां
लयं करोमीति विचिन्त्य स्वाहान्तमूलेन
पञ्चाहुतिर्हुत्वा मायासमानरूपाणां स्रोतसां तदारम्भकर्मापगमार्थं पशो श्रोतः
शुद्धिमाचरामीति विभाव्य स्वाहान्तास्त्रेण प्रत्येकं पञ्च
पञ्चाहुतीर्हुत्वा
तत्वशुद्धौ स्वाहान्तहृदयेन पञ्चाहुतीर्हुत्वा विगताम्बुशरत् घनवत्
विद्याकलाशुद्ध्यर्थं स्वाहान्तशिखया शतं हुत्वा पशोर्वीक्षणेन
मलतिरोधानामाचरामीति
विचिन्त्य स्वाहान्तेन मूलेन पञ्चाहुतीर्हुत्वा सूत्रं तर्जन्यङ्गुष्ठाभ्यां गृहीत्वा पशोः
पाशसूत्रसञ्चालनेन पशविश्लेषं
सम्पादयामीति विभाव्य हुं फडन्तास्त्रेण पञ्चाहुतीर्जुहुयात्।
ततः कर्तरीमस्त्रेण सप्तधाभिमन्त्र्य हां ह्रूं हां
तत्व(त्वा)य सचिवं स्त्रीरूपतत्वरूपं विद्याकलापाशं छिनत्ति। हं हः अस्त्राय हुं फडिति
कर्तव्या पाशं छिन्द्यात्। पशोः पाशमर्दनं करोमीत्युक्त्वा हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं स्त्रीरूपतत्वरूपं
विद्याकलापाश(शं)मर्दयामि। ह्रूं हः अस्त्राय हुं फडिति हस्ताभ्यां पाशं विमृज्य
पशोः
पाशं
वर्तुऴीकरोमीत्युक्त्वा हां ह्रूं हां
तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं स्त्रीरूपतत्वरूपं
विद्याकलापाशं वर्तुऴीकरोमि ह्रूं हः
अस्त्राय हुं फडिति कराभ्यां वर्तुऴीकृत्य पशोःपाशं दहामीत्युक्त्वा घृतपूर्णस्रुवाग्रे
पाशं विन्यस्य हां ह्रूं हां तत्वभुवनवर्णपदमन्त्रमलकर्ममायामायेयसचिवं

स्त्रीरूपतत्वरूपं विद्याकलापाशं
दहामि हुं हः अस्त्राय हुं फडिति हुत्वा दहेत्। ततः पाशाङ्कुशनिवृत्तये हुं
फडन्तास्त्रेण पञ्चाहुतीर्हुत्वा
प्रायश्चित्तार्थं स्वाहान्तास्त्रेणाष्टाहुतीर्जुहुयात्। ततः कुण्डे रुद्रमावाह्य हृदयेन
सम्पूज्य स्वाहान्तेन तेन सन्तर्प्याहं रुद्रतत्वभुवनवर्णपदमन्त्रमल
कर्ममायामायेयसचिवौ स्त्रीरूपतत्वरूपौ गन्धौ शुकौ ग्रहणा स्वाहेति पञ्चाहुतीर्हुत्वा।
रुद्रा स्या प्च्य ष्टबन्धस्य शिव॥।माभिलाषिणः।
भूयस्त्वया न कर्तव्यो *निरोधः शङ्कराज्ञया॥ *
इति विज्ञाप्य रुद्रं विसृजेत्। ततः पशोरुद्धारं करोमीत्युक्त्वा स्वाहान्तमूलेन
पञ्चाहुतीर्हुत्वा आत्मनः सर्वकर्मदाहात्
मायेयभोगाभावेन राहुणा मुक्ते सति विगादाम्बुः शरदभ्रतिरोहितचन्द्रवत् मायाया
निर्गतं शुद्धविद्याधोभागाः शुद्धमायामस्तकस्तम्
आणवरुद्धज्ञानक्रियावन्तं विज्ञानकेवलमात्मानं शान्त्यतीतकलापाशयुक्तं विभाव्य
वामया
गत्वा ज्येष्ठाय वियोज्य रौद्र्या कुण्डादुद्धृत्य स्वात्मस्थं कृत्वा
पाशसूत्रे शिष्यचैतन्यं विन्यस्यात्मस्थैर्याय मूलेन पञ्चाहुतीर्हुत्वा शिष्यस्यापायनाय
वौषडन्तमूलेन तच्छिरस्यमृतबिन्दुमयमर्घ्योदकमनामिकया दत्वा
वागीश्वरीवागीश्वरौ दशदशाहुतिभिः सन्तर्प्य विसृज्य पूर्णां दद्यात्। तदनु हां ह्रूं
ह्यैं हां विद्याकलाशान्तिकलापाशाभ्यां नम इति
शुद्धाशुद्धयोह्र(र्ह्र)स्वदीर्घोच्चारेण
सन्धानं कृत्वा तत्स्थैर्याय मूलेन पञ्चाहुतीर्जुहुयात्…इति विद्याकलाशुद्धिः॥
(शान्तिकलाशुद्धिः)
ततः शान्तिकलापाशं पूर्ववत् पञ्चाध्वगर्भं विभाव्य हां ह्यैं हां

तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवाय स्त्रीरूपतत्वरूपाय शान्तिकलापाशाय
हुं फडिति स्वस्थाने ताडनं भेदनं च कृत्वा हां ह्यैं
॥॥॥॥॥॥॥॥॥॥॥॥ हां हें हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवाय क्ती(स्त्री)रूपाय
शक्तिकलापाशाय हः

मन्त्रमलबैन्दवसचिवाय स्त्रीरूपतत्वरूपाय शान्तिकलापाशाय हः हुं फण्णम इति –
प्रविश्य – हां ह्यैं हां तत्वभुवनवर्णपदमन्त्रमलकर्मबैन्दवसचिवाय
स्त्रीरूपतत्वरूपाय शान्तिकलापाशाय हः हुं फट् स्वाहेति पूरकाङ्कुशमुद्रया
पाशाकर्षणं कृत्वा हां ह्यैं हां तत्वभुवनवर्णपदमन्त्रमलकर्म
बैन्दवायसचिवस्त्रीरूपतत्वरूपाय शान्तिकलापाशाय हः हुं फडिति
पूरकसंहारिण्या कूर्चाय॥॥ शान्तिकलापाशं सङ्गृह्य ह्यां ह्यैं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवाय स्त्रीरूपतत्वरूपाय शान्तिकलापाशाय नम
इति रेचकोद्भवमुद्रया कुण्डे विन्यस्याभ्यर्च्य स्वाहान्तेनानेनार्घ्यं दत्वा
सन्निधानाय
पञ्चाहुतीर्जुहुयात् तदनु हाम् ईश्वराय नमः। इति कुण्डे समावाह्य सम्पूज्य
पञ्चाहुतीर्हुत्वा।
ईश तवाधिकारेऽस्मिन् मुमुक्षुर्दीक्षयाम्यहम्।
अनुकूलेन भवता भाव्यं विज्ञापयेदिति॥
ईश्वरं विसृज्य हां ह्यैं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवायै
शान्तिकलापाशा व्यापिकायै
वागीश्वर्यै नम इति रक्तवस्त्रामृतुमतीं वागीस्वरीं कुण्डे विन्यस्याभ्यर्च्य
स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य योनिमुद्रां प्रदर्श्य हां ह्यैं
तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवाय शान्तिकलापाशव्यापकाय नम इति।
दशभुजं पञ्चवक्त्रं निश्शेषयोनिक्षोभकम्।
वागीश्वरं कुण्डे विन्यस्याभ्यर्च्य स्वाहान्तेनानेन
मन्त्रेण सन्तर्प्य वागीश्वरीं मलपरिपाकानुरूपेण शान्तिकलाभुवनेषु
युगपदनेकयोनिजन्मप्रसवित्रीं विचिन्त्य तयोः संयोगं च विभाव्य हां हं
हां हः अस्त्राय हुं फडिति शान्तिस्थं पशुचैतन्यं नाराचमुद्रया पुष्पेण सन्ताड्य
हां हं हां हः अस्त्राय हु फडिति विभिद्य हां हं हां हः हुं फट् स्वाहेति

पञ्चाहुतीर्हुत्वा हुं हां हं हां नमः हां वामायै नम इति कुण्डे वामां
विन्यस्याभ्यर्च्य हुं हां हं हां हुं नमः ॥।मायै स्वाहेति पञ्चाहुतीर्हुत्वा हुं
नम इति वामाया रेचकेन गत्वा हां हं हुं फट् हीं ज्येष्ठायै नम इति कुण्डे
विन्यस्याभ्यर्च्य हां हं हुं फट् हिं ज्येष्ठायै स्वाहेति पञ्चाहुतीर्हुत्वा
सूत्रस्थं पशुचैतन्यं ज्येष्ठाया वियोज्य हां हुं नमः।
ह्रूं रौद्र्यै नम इति कुण्डे विन्यस्याभ्यर्च्य हां ह्रूं नमः ह्रूं रौद्र्यै स्वाहेति
पिञ्चाहुतीर्हुत्वा
एतत् संस्कारे केवलत्वस्य तत्वात् वित्रानकलं स्फुरन्तमात्मानं रौद्रोत्कृष्यतं
द्वादशान्तं नीत्वा हुं हां हं हां हुं पशुचैतन्य गृह्णामि
हः। हुं फडिति तच्चैतन्यं गृहीत्वा पुरकसंहारिण्यादाय स्वात्मस्थं कृत्वा स्व
द्वादशान्तं नीत्वा तस्मादादाय कुण्डे वामामिष्ट्वा
तदाश्रितं विभाव्य हां हं
हाम् आत्मन्नशेषयोनिषु गर्भाधानाय युक्तो भवनमि इति अनेकयोनिरूपिण्या
भुवनवागीश्वर्यां युगपदनेकयोनिभेदभिन्नायां
नानाकारबैन्दवदेहोत्पत्तिसिध्यर्थं संयोज्य हां हं हाम् आत्मने नम इति कुण्डे
सम्पूज्य स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य स्वाहान्तमूलेन पञ्च पञ्चाहुतिभिः
सान्निध्यतर्पणे
कृत्वा तयोः संयोगार्थं
मूलेन पञ्च पञ्चाहुतीर्हुत्वा हौं युगपद्योगमणोरस्य विधीयतामिति प्रार्थयेत् ततः
पशोरनेकयोनिष्वेककाले
गर्भाधानं करोमीति विचिन्त्य स्वाहान्तहृदयेन पञ्चाहुतीर्हुत्वा युगपत् सर्वयोनिभ्यः
पशोर्जननं करोमीति विभाव्य स्वाहान्तशिरसा। पञ्च
पञ्चाहुतीर्हुत्वा पशोर्युगपत् सर्वत्र आणवमलपरिपाकानुरूपं भोगाधिकारं करोमीति
विचिन्त्य
स्वाहान्तशिखया पञ्चाहुतिर्जुहुयात् अत्र केचित्
शान्तिशान्त्यतीतयोः भोगभाक् भवेत्। किं कर्मणात्र
विप्रेन्द्रवर्यगुर्वशुद्धकर्मानुरूपदेहादयो भाव्या इति वदन्ति। तदसत् सर्वागमेषु अत्रापि
व शुद्धाध्वनः कर्म नाभिहितम्।
शुद्धाध्ववनासिनां विज्ञानकलानाम् आणवमलपरिपाकानुरूपेणैव तदनु
करणभुवनभोगा इति।
तदुक्तं पौष्करे –
न कर्मभोगवैचित्र्ये कारणं शुद्धवत्मनि।
मलस्य परिपाकयोर्विचित्र। सोऽत्र कारणम्।
यस्य प्रकृष्टस्तत् पाको भोगतत्वे स भोगकृत्।
इतरस्त्वीशविद्याख्यतत्वयोर्भोगभाक् भवेत्॥
किं कर्मणा त्रिविप्रेन्द्रा यत्रेच्छा भोग इष्यते।
शिवतत्वं सदेशाख्यम् ऐशं विद्याह्वयं तथा॥
शुद्धान्येतानि तत्वानि नद्राणु नाम महात्मनाम्।
विचित्रपुरमालाभिः खचितानि महान्ति च॥
दिव्यस्त्रीभिर्महाश्चर्यैभोगैर्दुःखविवर्जितैः।
तनुभोगेन्द्रयाद्यैश्च खचितान्युन्नतानि च॥
अत्रापि कालमुख्यानि सन्तित्वान्यथो यथा।
किन्तु नान्यत्र शुद्धानि बैन्दवानि द्विजोत्तमाः॥
कर्मादि नैरपेक्ष्येण मलपाकानुसारतः।
अनुगृह्णाति विज्ञान केवला॥॥॥।नीति॥
ततः पशोरनादिसम्बन्धाणवमलपरिपाकानुरूपं
युगपत् भोगी सम्पादयामीति विभाव्य स्वाहान्तकवचेन पञ्चाहुतीर्हुत्वा पाशो
बैन्दवविश्लेषं करोमीति विचिन्त्य स्वाहान्तमूलेन
पञ्चाहुतीर्हुत्वा दैवसमानरूपाणां स्रोतसां तदारम्भकमलापगमार्थं पशोः
स्रोताः शुद्धिमाचरामीति विभाव्य स्वाहान्तास्त्रेण प्रत्येकं पञ्च पञ्चाहुतीर्हुत्वा
शान्तिकलाशुद्ध्यर्थं
कवचेनाहुतिशतं हुत्वा मलस्य निरोधं सं(स)मूलेन पञ्च पञ्चाहुतीर्हुत्वा
अधिकारमलतिरोधाने निर्बीजदीक्षायां मूलेन पञ्च पञ्चाहुतीर्जुहुयात्। सूत्रं
तर्जन्यङ्गुष्ठाभ्यां धृत्वा पशोः पाशसूत्रसञ्चालनेन पाशविश्लेषं
सम्पादयामीति विचिन्त्य हुं फडन्तास्त्रेण पञ्चाहुतीर्जुहुयात्। ततः कर्तरीमस्त्रेण
सप्तधाभिमन्त्र्य हां ह्यैं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवं
स्त्रीरूपतत्वरूपं
…।कलापाशं छिनद्मि ह्रूं हः अस्त्राय हुं फडिति कर्तर्या पाशं छिन्द्यात् पा(प)शोः
पाशमर्दनं करोमीत्युक्त्वा हां ह्यैं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवं
स्त्रीरूपतत्वरूपं शान्तिकलापाशं मर्दयामि हं हः अस्त्राय हुं फडिति हस्ताभ्यां
पाशं विमृज्य पशोः पाशं वर्तुऴीकरोमीत्युक्त्वा हां ह्यैं हां

तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवं स्त्रीरूपतत्वरूपं शान्तिकलापाशं
वर्तुऴीकरोमि हुं हः विश्वाय हुं फडिति ॥।रा त्वां वर्तुऴीकृत्य पाशाः पाशं
दहामीत्युक्त्वा घृतपूर्णस्रुवाग्रे पाशं विन्यस्य हां ह्यैं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवं स्त्रीरूपतत्वरूपं शान्तिकलापाशं दहामि
हुं हः अस्त्राय हुं फडिति हुत्वा दहेत्। ततः पाशान्
बाणनिवृत्तये हुम्फडन्तास्त्रेण
पञ्चाहुतीर्हुत्वा प्रायश्चित्तार्थं स्वाहान्तास्त्रेणाष्टाहुतीर्जुहुयात्। अथ ईश्वरं कुण्डे
हृदयेन सम्पूज्य स्वाहान्तेन तेन सन्तर्प्य हां
ईश्वरतत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवौ स्त्रीरूपतत्वरूपौ [र्प्य]सध्यहङ्कारौ
शुकौ गृहाण स्वाहेति पञ्चाहुतीर्हुत्वा।
सन्दिग्धाशेषपाशस्य पशोरीश्वरतत्वया।
न स्थेयं बन्धकत्वेन स्वाधिकारे सदा प्रभो॥
इति विज्ञाप्य ईश्वरं विसृजेत्। ततः पशोरुद्धारणं करोमीत्युक्त्वा स्वाहान्तमूलेन
पञ्चाहुतीर्हुत्वा वामाया
गत्वा ज्येष्ठायात्मानं वियोज्य बैन्दवदेहस्थं कलङ्कशरच्चन्द्रवत्
स्फुरद्रूपमात्मानं रौद्र्या कुण्डादुद्धृत्य स्वात्मस्थं कृत्वा पाशसूत्रे
शिष्यचैतन्यं विन्यस्य
आत्मस्थैर्याय मूलेन पञ्चाहुतीर्हुत्वा शिष्यस्याप्यायनाय वौषडन्तमूलेन
तच्छिरस्यमृतबिन्दुमयमर्घ्योदकमनामिकया दत्वा वागीश्वरी वागीश्वरेण दश
दशाहुतिभिः सन्तर्प्य
विसृज्य पूर्णां दद्यात्। तदनु हां ह्यैं हौं हां शान्त्यतीतकलापाशाभ्यां नम इति
शुद्धाशुद्धयोर्ह्रस्वदीर्घोच्चारेण सन्धानं कृत्वा तत् स्थैर्याय मूलेन
पञ्चाहुतीर्जुहुयात्। ॥ इति शान्तिकलाशुद्धिः ॥

॥ शान्त्यतीतकलाशुद्धिः ॥
मन्दमलपरिपाकश्चेत् शुद्धविद्यादितत्वत्रयमध्ये यथोचितमात्मानं
भोगाय संस्थाप्य उपरि न
शोधयेत् ततः शान्त्यतीतकलापाशं पूर्ववत् पञ्चाध्वगर्भं विभाव्य हां हौं
तत्वभुवने वर्णपदमन्त्रमलबैन्दवसिचिवाय स्त्रीरूपतत्वरूपाय
शान्त्यतीतकलापाशाय नम इति स्वस्थने। स्थावराद्यणु सदाशिवान्तसयादिगर्भमवलोक्य
हां हौं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवाय स्त्रीरूपतत्वरूपाय
शान्त्यतीतकलापाशाय हः हुं फडिति स्व स्थाने ताडनं भेदनं च कृत्वा हां हौं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय स्त्रीरूपतत्वरूपाय शान्त्यतीतकलापाशाय हः
हुं
फडिति विश्लेषं कृत्वा हां हौं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवाय सचिवाय
स्त्रीरूपतत्वरूपाय
शान्त्यतीतकलापाशाय हः हुं
फडिति विश्लेशं कृत्वा हां हौं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवाय
स्त्रीरूपतत्वरूपाय शान्त्यतीतकलापाशाय हः हुं फट्
स्वाहेति पूरकाङ्कुशमुद्रया पाशाकर्षणं कृत्वा हां हौं
तत्वभुवनमन्त्रमलबैन्दवसचिवाय स्त्रीरूपतत्वरूपाय शान्त्यतीतकलापाशाय हः हुं

फडिति पूरकसंहारिण्या ब्रह्मरन्ध्रादधस्तात्
शान्त्यतीतकलापाशं सङ्गृह्य हां हौं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवाय स्त्रीरूपतत्वरूपाय
शान्त्यतीतकलापाशाय नम इति रेचकोद्भवमुद्रया कुण्डे विन्यस्याभ्यर्च्य स्वाहान्तेनानेन
मन्त्रेणार्घ्यं दत्वा सन्निधानाय पञ्चाहुतीर्जुहुयात्। तदनु हां सदाशिवाय नम
इति कुण्डे समावाह्य सम्पूज्य स्वाहान्तेन तेन पञ्चाहुतीर्हुत्वा।
सदाशिवाधिकौ रेते मुमुक्षुं दीक्षयाम्यहम्।
अस्य त्वयानुकूलेन भवितव्यं कृपावता॥
इत्याज्ञां प्रार्थ्य सदाशिवं
विसृज्य हां हौं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवायै
शान्त्यतीतकलापाशव्यापिकायै वागीश्वर्यै नम इति। वक्तवस्त्रमृतमतीं वीगीश्वरीं
विन्यस्याभ्यर्च्य स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य योनिमुद्रां प्रदर्श्य हां हौं हां
तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवाय शान्त्यतीतकलापाशव्यापकाय

वागीश्वराय नम इति दशभुजं पञ्चवक्त्रमतिनिश्शेषयोनिक्षोभकं वागीश्वरं कुण्डे
समावाह्य सम्पूजाय स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य वागीश्वरीं
युगपदनेकयोनिजन्मप्रसवित्रीं विचिन्त्य तयोः संयोगं च विभाव्य हां हः अस्त्राय हुं
फडिति शान्त्यतीतस्थं पशुचैतन्यं नाराचमुद्रया पुष्पेण सन्ताड्य हां हं हां हः
अस्त्राय हुं
फट् स्वाहेति पञ्चाहुतीर्हुत्वा
हां हं हां हः अस्त्राय हुं फडिति विभिद्य हां हं हः अस्त्राय हुं फट् स्वाहेति
पञ्चाहुतीर्हुत्वा हां हं नमः हां
वामायै नम इति कुण्डे विन्यस्याभ्यर्च्य हुं हां हं हां नमः हां वामायै स्वाहेति
पञ्चाहुतीर्हुत्वा हुं नमः इति वामया रेचकेन गत्वा हां हः हुं फट् हिं
ज्येष्ठायै नम इति गुण्डे विन्यस्य हां हः हुं फट् हिं ज्येष्ठायै स्वाहेति पञ्चाहुतीर्हुत्वा
सूत्रस्थं पशुचैतन्यं
ज्येष्ठाया वियोज्य हं हुं नमः
ह्रूं रौद्र्यै नम इति कुण्डे विन्यस्याभ्यर्च्य हां ह्रूं नमः। ह्रूं रौद्र्यै स्वाहेति
पञ्चाहुतीर्हुत्वा रौद्र्या विज्ञानान्दकोशसहितमात्मानमुत्कृष्य
तद्वादशान्तं नीत्वा ह्रूं हां हां हुं पशुचैतन्यं गृह्णामि हः हुं फडिति तच्च
चैतन्यं गृहीत्वा पूरकसंहारिण्यादाय स्वात्मस्थं कृत्वा स्व द्वादशान्तं नीत्वा
तस्मादादाय तस्मादादौ
कुण्डे
वाथ मि(इ)ष्ट्वा तदाश्रितं विभाव्य हां हं हाम् आत्मन् शान्त्यतीतकलाभुवनेषु
मलपरिपाकानुरूपेण शेषयोनिषु गन्धाधानाय युक्तो भवन इति
अनेकयोनिरूपिण्यां भुवनवागीश्वर्यां युगपदनेकयोनिभेदं न भिन्नायां
नानाकारोत्पत्तिसिध्यर्थं संयोज्य हं हाम् आत्मने नम इति कुण्डे
सम्पूज्या स्वाहान्तेनानेन मन्त्रेण सन्तर्प्य स्वाहान्तमूलेन पञ्च
पञ्चाहुतिभिः सान्निध्य तर्पणे कृत्वा तयोः संयोगार्थं मूलेन पञ्चाहुतीर्हुत्वा (३र्द् line )
युगपद्योगमणोरस्य विधीयतामिति प्रार्थयेत् ततः पशोरनेकयोनिषु एककाले गर्भाधानः
करोमीति विचिन्न॥॥ स्वाहान्तहृदयेन पञ्चाहुतीर्हुत्वा सर्वयोनिभ्यः
पशोर्युगपत् जननमिति विभाव्य स्वाहान्तशिरसा पञ्चाहुतीर्हुत्वा पशोर्युगपत्
सर्वत्राधिकारं करोमीति। विचिन्त्य
स्वाहान्तशिखया पञ्चाहुतीर्हुत्वा
पशोरनादिसम्बन्धमलपरिपाकानुलूपेण युगपत् भोगं सम्पादयामीति विभाव्य
स्वाहान्तकवचेन पञ्चाहुतीर्हुत्वा पशोर्बैन्दवविश्लेषकं करोमीति विचिन्त्य
स्वाहान्तमूलेन पञ्चाहुतीर्हुत्वा बैन्दवसमानरूपाणां स्रोतसां
तदारम्भकशरीराद्यपगमार्थं पशो स्रोतः शुद्धिमाचरामीति विभाव्य
स्वाहान्तास्त्रेण
प्रत्येकं पञ्च पञ्चाहुतीर्हुत्वा तत्वशुद्धौ स्वाहान्तहृदयेन पञ्चाहुतीर्हुत्वा
वशनिष्कम्यर्थं स्वाहान्तमूलेन शताहुतीर्हुत्वा अस्थानिनो मलस्य
निरोधं सम्पादयामीत्युक्त्वा शिवेन पञ्चाहुतीर्हुत्वा शिष्यस्याधिकारमलनिवृत्तये मूलेन
पञ्चाहुतीर्जुहुयात्। ततः सूत्रतर्जन्यङ्गुष्ठाभ्यां गृहीत्वा पशोः
पाशसूत्रसञ्चालनेन पशविश्लेषं सम्पादयामीति विचिन्त्य हुं
फडन्तास्त्रेण पञ्चाहुतीर्जुहुयात्। ततः कर्तरीमस्त्रेण सप्तधाभिमन्त्र्य हां हौं हां

तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवं स्त्रीरूपतत्वरूपं शान्त्यतीतकलापाशं
छिनद्मि। ह्रूं हः। अस्त्राय हुं फडिति कर्तर्या पाशं छिद्यात् पशोः पाशं मर्दनं
करोमीत्यक्तवाहां
हौं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवं स्त्रीरूपतत्वरूपं
शान्त्यतीतकलापाशं
मर्दयामि हुं हः। अस्त्राय हुं फडिति हस्ताभ्याम्। पाशं विमृज्य पशोः
पाशं वर्तुऴीकरोमीत्युक्त्वा हां हौं हौं
तत्वभुवनवर्णपदमन्त्रमलबैन्दवसचिवं स्त्रीरूपतत्वरूपं शान्त्यतीतकलापाशं
वर्तुऴीकरोमि हुं हः
अस्त्राय हुं फडिति कराभ्यां पाशं वर्तुऴीकृत्य पशोः पादं दहामीत्युक्त्वा
घृतपूर्णस्रुवाग्रे पाशं विन्यस्य हां हौं हां तत्वभुवनवर्णपदमन्त्रमलबैन्दवि
सचिवं
स्त्रीरूपतत्वरूपं शान्त्यतीतकलापाशं दहामी ह्रूं हः अस्त्राय हुं फडिति भुक्त्वा दहेत्।
ततः मलोद्बणनिवृत्तये हुं फडन्तास्त्रेण पञ्चाहुतीर्हुत्वा प्रायश्चित्तार्थं
स्वाहान्तास्त्रेणाष्टाहुतीर्जुहुयात्। ततः सदाशिवं कुण्डे हृदयेन सम्पूज्य स्वाहान्तेन तेन
सन्तर्प्य हां सदाशिवतत्वभुवनवर्मपदमन्त्रमलबैन्दवसचिवौ
स्त्रीरूपतत्वरूपौ मनो
बिन्दुशुष्कौ गृहाण स्वाहेति पञ्चाहुतीर्हुत्वा
अधिकारं समर्पयेत्।
निश्शेषदग्धपाशस्य शिशोरस्य सदाशिव।
बद्धायनस्त्वयास्थेयं शिवाज्ञां श्रावयेदिति।
ततस्वाहान्तमूलेनाहुतिशतं हुत्वा पूर्णां दत्वा हृदयेन सदाशिवं विसृजेत्। ततः
पशोरुद्धारं करोमीत्युक्त्वा मूलेन
पञ्चाहुतीर्हुत्वा वामया गत्वा ज्येष्ठया वियोज्य रौद्र्याकुण्ड्यादुद्धृत्य निर्मलोज्वलत्
सम्पूर्णशरच्चन्द्रसदृशप्रकाशं सार्वज्ञा षाट्गु(ड्गु)ण्याभिव्यक्तियोग्यमात्मान(नं)
ध्यायन्
स्वात्मस्थं कृत्वा हौतिदीक्षया स्थूलसूक्ष्मलिङ्गशरीरेभ्यः
उद्धृतमपि प्रारब्धकर्मशेषभोगार्थं क्षुरिमपाकक्रियाम्यद्रव्यसंसर्गेण दधि
कृत्वा तदुन्मर्थ्य
तस्मात् नवनीतमुद्धृत्य पुनस्तत्तक्रे न्यस्तमिव शिष्यस्य हृदयकमले विन्यसेत्
नैष्ठिकदीक्षायां सूत्रदेहे शिखास्थाने योजयेत्। ततः आत्मस्थैर्याय मूलेन
पञ्चाहुतीर्हुत्वा शिष्यस्याप्यायनाय वौषडन्तमूलेन तच्छिरस्य
मृतबिन्दुमयमर्घ्योदकनामिकया
दत्वा वागीश्वरी वागीश्वरौ दशदशाहुतीः सन्तर्प्य।
चोदितौ शिष्यदीक्षायां यन्मया पितरौ युवाम्।
कारुण्यात् तत् क्षमित्वामी(मि)मे व्रजतं स्थानमात्मानः॥
इति विज्ञाप्य विसृज्य पूर्णां दद्यात् हां हौं शान्त्यतीतकलाशिखाशक्तिभ्यां नम इति
शान्त्यतीतकलाशुद्धिशक्तौ विलोक्य ह्रस्वदीर्घोच्चारेण सन्तानं कृत्वा तत् स्थैर्याय मूलेन
पञ्चाहुतीर्जुहुयात्। ॥ शान्त्यतीतकलाशुद्धिः ॥

॥ शिखाच्छेदविधिः ॥
तदनु - वक्ष्यमाणविधानेन
लोकधर्मस्थितं भौतिकं शिष्यं योजयेत्। ततः शिवधर्मस्थितस्य नैष्ठकशिष्यस्य
शिखामध्वान्तस्थां सर्वाध्वव्यापिकां मलसहकारिणीं
वामशक्तिस्वरूपां विभाव्य हं हः। अस्त्राय हुं फडिति मन्त्रेण कर्तरीं सप्तवारं
जपेत्। अभिमन्त्रयेत्। तथागमः।
कर्तरीं ज्ञानशक्तिस्याद्यथा पाशं छिनत्यसौ।
सा कला परमा सूक्ष्मा मन्त्राणां बोधनी परा॥
कर्तरी कर्तृरूपेण ज्ञातव्या देशिकोत्तमैरिति।
तदनु – हुं हां हौं हां ह्रूं तिरोभाविकां
कुटिलाशक्ति…।हः हुं फडिति तेन मन्त्रेण कर्तर्यां शिखां छित्वा ॥॥गोमयेन वेदिकां
शिवा॥॥॥॥॥॥॥॥हं हां हौम् ॥॥॥॥॥॥॥॥कलाशक्ति हों हः हुं फट् स्वाहेति शिखां हुत्वा हुं
फडन्तास्त्रेण पञ्चाहुतिभिः संस्कुर्यात् तदनु – शिष्यः जले अवगाह्य समाचम्य निर्मलो
भवेत्। ॥ इति
शिखाच्छेदविधिः॥

(शिवोऽहं भावनादिः)
तदनु - देशिकोऽपि जलेन भस्मना वा स्नात्वाचम्य भूतशुद्धिं कृत्वा शिवहस्तं स्व मस्तके
विन्यस्य शिवोहमित्यतिशयेन भावयेत्। शिष्योऽपि
भूतशुद्धिं कृत्वा शिवहस्तं स्व मस्तके विन्यस्य देशिकवत् देवं चभिवादयेत्। अथ देशिकः
सशिष्यः शिवमभ्यर्च्य दीप्ते हुताशने मन्त्रतर्पणदीपने कृत्वा।
भवगवंस्त्वत् प्रसादेनाध्वात् षट्कव्यवस्थितम्।
पशुं सङ्गृह्य संशोध्य शिखाच्छेदावसानकम्॥
त्वं मखोक्तविधानेन लेशतो वर्तितव्य मया।
त्वत् शक्त्या तेन गन्तव्यं शुद्ध्रुवपदं शिव॥
इदानीं यन्मया कार्यं त्वदाज्ञानुविधायिनाः।
तदाज्ञां देहि मे नाथ शिष्यं संशोधयाम्यहम्॥
इति विज्ञाप्य स्रुक्स्रुवावादाय उष्णतोयने(तोयेन) प्रक्षाऴ्य
गन्धपुष्पाद्यैः शिवशक्तिमयौ तावभ्यर्च्य तौ शिवशक्तिमयौ स्मरेत्। तथागमः।

दण्डाधः कलशो योयमण्डदण्डः कलान्तगः।
दण्डाग्रसम्पुटं मायां वेदिर्विद्याप्रविस्मृता॥
चित्रपत्रगतामन्त्राः कोणो स्रोतो निबन्धनम्।
सुषिरं यदत्तदाधारं पद्ममासनसंस्थितम्॥
तत्कर्णो नादसंस्थानं स्रुङ्मुखं शक्तिरूपिणः।
सर्वाध्वव्यापिको शक्तिरेषा स्रुतिकल्पिता॥
सूत्राकृतिश्च तत् दण्डो बिन्दुवृत्तपरिभ्रमः।
स्रुक्स्रुवो व्याप्तदेशेन शक्तिपिण्डः सदाशिव॥ इति

(शिवे शिष्यसंयोजनम्)
तत स्व सव्यभागे मण्डलस्थं
शिष्यमर्घ्याम्बुना समि प्रोक्ष्य नाडीसन्तानं तत्सन्निधौ होमं च कृत्वा दीक्षोत्तरभावि
कर्म निरोधाय मूलेन शतं हुत्वा पूर्णां जुहुयात् ततः स्रुक्
स्रुवौ काष्ठस्वभावपराङ्मुखीकरणाय तेजस्त्रिधा तापयेत्। ततः
परमादृतरसनिर्भरकन्दकलशोत्ग(द्ग)तमध्यनाडी दण्डं हृत्कमलपुष्पकतालुक
ण्ठपदव्यक्तरन्ध्रं
बिन्दुप्रान्तप्रसरसुधारसस्रुति स्रुक् रूपमान्तरं विभाव्य क्रियते ततः स्रुक् स्रुव
चन्दनेनालिप्य तयोः शक्तिशिवौ सम्पूज्य सर्वाध्व
व्यापकशक्तिशिवात्मकौ विभाव्य तौ सङ्गृह्य शक्तिस्रवति पीयूषं शिवसङ्क्षुब्धविग्रहा
बहिः इत्याज्यपूरितौ – शङ्खसन्निभमुद्रया धृत्वा स्व
सव्यमण्डलस्थितशिष्यचैतन्यं
ताडनादिक्रमेणादाय स्वात्मस्थं कृत्वा सामरस्यं
विधाय। सम्पादस्मितः किञ्चिद्विवृतास्यः प्रसन्नधीः न्यस्य तालुजिह्वाग्रं मनागुल्मुल्य
चक्षुषी।

दिव्यङ्करणमास्थाय कृतदेहसमुन्नतीः।
पूरकं कुम्भकं कृत्वा। रेचकेन हुं हः सर्वद्वाराणि निरुध्य दन्नाडी सन्धानं
कृत्वा मण्डलात् कलशादग्नेः
शिष्यात् स्वस्मात् प्रणाडिकाः। कलशादादाय स्रुगग्रे विन्यस्य पूरकं कुम्भकं कृत्वा
रेचकेन हुं हं हुं फडित्यनेन मन्त्रेण हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्राणि
विदार्य देशिकः। एकदा मूलमुच्चरन् प्रासादमब्जात् शखान्तस्थसप्तविधं विषुवं
स्मृत्वा।
अनाख्ये तु निरालम्बे अग्राह्ये मानवर्जिते।
निस्तत्वे योजिते मुक्त इति शास्त्रस्य निश्चय॥
इति वचनात्
षट्त्रिंशत्तत्वातीते चित्घ(द्घ)नानन्दपरः शिवे शिष्यात्मानं समरसीभावेन
विभावयन् शनैः
पूर्णा[॥पादयेत्?]न्तद्योजनिका स्थैर्यार्थं भूयः पूर्णां दद्यात्।

(षाड्गुण्यापादनादिः)
तदनु – द्वादशान्तस्थपरमशिवशिष्यात्मानं पूर्वोक्तमन्त्रोच्चारगत्या
पूरगागमनक्रमेण
सुषुम्ना नाड्या नाभिसंलग्नमध्यनाडीरूपक्षित्यादिशक्तितत्वान्तव्यापकस्रुङ्संयुक्तं
मूलशक्तिमार्गेणामृतमये घृते विभाव्य पूर्वे मूलमन्त्रमुच्चार्य
वह्निशिखान्ते शिष्यात्मानं घृतधाराया पूर्णाया संयोज्य हां त्वमात्मन् सञ्ज्ञो भव।
स्वाहा। हीं त्वमात्मन् नित्यतृप्तो भव स्वाहा।
हूं त्वमात्मन्न
नादिबोधो भव स्वाहा। ह्यैं त्वमात्मन् स्वतन्त्रो भव स्वाहा। हौं त्वमात्मन्
अलुप्तशक्तिर्भव स्वाहा। हः त्वमात्मन्ननन्तशक्तिर्भव स्वाहा। इति
तिसृभिस्तिसृभिराहुतिभिरात्मनो नैव सर्गिकान्। शैवान् गुणान् प्रकाश्य अग्नेरात्मानमुद्धृत्य
धारणाभिर्विशोधिते तद्देहे प्रारब्धकर्मभुक्त्यर्थं नियोज्य

तीव्रतरमन्त्रशशक्तिसम्पातजनितश्रान्तिशान्तये। तच्छिरस्यमृतबिन्दुमयमर्घ्यजयं
दद्यात् तदन्वेवं शिवार्चनां कारयेत्। शिवम् आत्मानमग्निं च प्रणामयेत्। ततः शिवस्य
स्वस्य
दक्षिणमण्डले शिष्यं सौम्यास्यं संस्थाप्य।

त्वयैवानुगृहीतोऽयं मूर्तिमास्थाय मामकीम्।
देवे वह्नौ गुरौ तस्मात् भक्तिं नाथस्य वर्द्ययः॥
अविच्छिन्नक्रियानिष्ठस्त्वत्प्रसादादयं भवेत्।
भो प्रामादापराधोऽस्य मा भूत् बिन्धनकारणम्॥
इति शिवं विज्ञाप्य कुण्डान्तिकं गत्वा न्यूनातिरिक्तशान्त्यर्थ(र्थं मू)मूलेनाष्टोत्तरतं
हुत्वा पूर्णां
दत्वा प्रायश्चित्तमस्त्रणाष्टोत्तरशतं हुत्वा श्रेयो वा पितरस्त्विति शिष्यमाशिषं ब्रूयात्।
(यागविसर्जनम्)
तदनु यागं विसृजेत्। तद्यथा। वह्निस्थं शिवं सम्पूज्य मूलेनाष्टोत्तरशतं
हुत्वा अङ्गमन्त्रैस्तद्दशांशं हुत्वा मूलेनाग्रास्त्रयमङ्गमन्त्रैरनेकग्रासं
हुत्वा पूर्णां दत्वा न्यूनातिरिक्तदोषशान्तये प्रायश्चित्तार्थमस्त्रेणाष्टोत्तरशतं हुत्वा
पूर्णां दत्वाष्टपुष्पिकया सम्पूज्य पु
ष्पिकया सम्पूज्य पराङ्मुखार्घ्यं दत्वा मन्त्रीं मूर्तौ संयोज्य नाडीमार्गेण
वह्निस्थं शिवमण्डलस्थे
शिवे संयोज्य ब्रह्मादीन् विसृज्य हां ह्रूं
वह्नये नम इति वह्निं सम्पाज्य विसृज्य कुण्डस्याग्निकोणे मण्डलद्वयं कृत्वा
पश्चिममण्डलप्रान्ते पूर्वादिदिक्षु रुद्रां मातृगणानयक्षांश्चाभ्यर्च्य ईशानादीन्
विदिक्षु ग्रहान्। असुरान् राक्षसान् नागांश्चाभ्यर्च्य मण्डलमध्ये ईशानादिकोणेषु
नक्षत्रराशिक्षेत्रपालविश्वेदेवांश्चाभ्यर्च्य जलमिश्रान्नेन बीजब्रह्मपुरस्सरेण

स्वाहान्तेन तत्तन्मन्त्रेण रुद्रादिभ्यो बलिं दत्वा हृदा विसृज्य पूर्वमण्डले
प्राच्यादिदशलोकोपालानभ्यर्च्य तन्मध्ये नीललोहितमभ्यर्च्य जलमिश्रान्नेन
बीजब्रह्मपुरस्सरेणा(ण) स्वाहान्तेन तत्तन्नाममन्त्रेण इन्द्रादिभ्यो बलिं दत्वा हृदयेन
विसृज्य हां पूर्वादिश्वासिभ्यो दिगीशभूतमातृगणरुद्रक्षेत्रपालादिभ्य
स्वाहा। एवं नामभेदेन सर्वासु दिक्षु बलिं दत्वा
हां वायसादिभ्यः समयभेदिभ्यः स्वाहा इति बलिं दत्वा ये रुद्रा रौद्रकर्मणेत्यादि
श्लोकद्वयं विज्ञाप्य
नमस्कृत्य क्षमापयेत्। ततः शिवसमीपं गत्वा प्रणम्याभ्यर्च्य मूर्तिमन्त्रेण
दिव्यमुद्रया अङ्गानां सदाशिवस्य हृदयादिस्थानेषु लयं विभाव्य हृत्पुरस्सरमूलेन
पुष्पं
दत्वा क्षमस्वेत्यभिधाय वौषडन्तशक्तिमन्त्रेण धेनुमहामुद्रां प्रदर्श्य भक्त्या
नमस्कृत्य शिवं
स्वात्मन्यारोपयेत्। इष्टलिङ्गदीक्षायां तु क्षमस्वेत्यभिधानानन्तरं
मूलेन निरोधमुद्रया निरुध्य महामुद्रां प्रदर्श्य भक्त्या नमस्कुर्यात्। तदनु –
ईशभागे वूर्वे वा मण्डले स्वस्तिकाङ्किते शिवकुम्भाम्भसास्त्राभाम्भसास्त्राम्भस्य
पूर्वकं
अवभृथस्नानं कुर्यात्। ततश्चण्डेश्वरमग्नौ सम्पूज्य यज्ञशेषाज्यादिना
चण्डेश्वरमाहुतिसहस्रेण शतेन वा सन्तर्प्य क्षमस्वेति विसर्जयेत्।
लोकधर्मिणि दीक्षायां तु शिखाच्छेदं विना शेषं कुर्यात्। ॥ इति हौत्री निर्वाणदीक्षाविधिः॥

(निर्वाणदीक्षाविभागः)
एषां निर्वाणदीक्षा ज्ञनक्रियाभेदेन द्विविधा।
सन्न्यासिनः
बाह्याग्नेरुदाराग्नावारोपितत्वात्। अग्निकार्यं विना भावनया दीक्षां कुर्यात्।
गृहस्थाचार्यश्च शिवसाक्षात्कारवान् यदि शिष्यश्च अतिपक्ष्वो यदि तस्य
ज्ञानदीक्षां कुर्यात्।
तदुक्तं वारुणपद्धत्याम् –
ज्ञानदीक्षाभवेद्येकाक्रियावत्यपरा स्मृता।
विनेज्यानलकर्मादिनो व्यापारमात्रतः॥
दीक्षा ज्ञानवती प्रोक्ता सम्यक्तत्वावबोधजा।
इसत्यानलवती या तु क्रियाकौशलं भव॥ इति
सङ्करजातिनां हौत्रीं विना चक्षुषादिना समयादीन् कृत्वा पूजाहोमाभि॥॥

कागमश्रवणं विना परिचर्याकमानसपूजयोरधिकारं कृत्वा भाषास्त्रेण
त्रिपदार्थस्वरूपं बोधयेत्।

॥ ज्ञानदीक्षाक्रमः ॥
अथ ज्ञानदीक्षाक्रमः कथ्यते।

…।भावसदीक्षायां किञ्चिन्मात्रं विशिष्यते।
ज्ञानाचार्येण कर्तव्यमिति शास्त्रनिरूपितम्।
अत्र क्रमः आचार्यः प्रातरर्मध्याह्नाह्निकद्वयं निर्वर्त्य षडध्वं
न्यासं कृत्वा शि(शु)चि(ची) भूत्वा स्व रेचकेन वायुना निर्गत्य शिष्यपूरकवायुना हृदयं
प्रविश्य चिष्यचैतन्यं गृहीत्वा तद्रेचकेन निर्वर्त्य स्वपूरकेन हृदयं प्रविश्य
कुम्भकेन शिवचैतन्ये शिष्यचैतन्यं संस्थाप्य रेचकेन शिष्यचैतन्यं निर्गत्य तं
तद्देहे तत्पूरकवायुना प्रविष्टं विभाव्य
कृतनमस्कारं शिष्यं पूर्वोक्तवत्
मण्डलद्वये पञ्चगव्यप्राशनं प्रणवेन त्रैवर्णिकानामेव प्राशनस्य विहितत्वात् सत्
शूद्रान् हंसेन वा मिश्रपञ्चाक्षरेण वा प्राशयित्वा
दन्तधावनं शुद्धाचमनं च कारयेत्। ततः शुचौ देशे दर्भासने शिष्यं संस्थाप्य
शिष्यमस्तके षडुत्थासने शिवमष्टपुष्पिकया सम्पूजयेत्।
तदुक्तम् –
वरुणपद्धत्याम्।
अभ्यन्तरा तु या दीक्षा नित्यकर्म यथाविधि।
समापर्यतमाचार्यो मन्त्रमूर्त्यात्मना स्थिताम्॥
शिवभावे स्वयं स्थित्वा मन्त्रमूर्तिं यथाविधि।
स्थापयेदस्य चैतन्यं पूरकप्राणवायुना॥
गृहीत्वा स्वमनस्थेन शिवेन सह योजयेत्।
कमुभके तदवष्टभ्य रेचगैः शिष्यदेहगम्॥
कुर्यात् कृतनमस्कारं पञ्चगव्यममुं पुनः।
पाययित्वा ततो मन्त्रं हंसेन प्रणवेन वा॥
पञ्चाक्षरेण वा साकं यः पुनः कारयेत् बुधः।
अधिवासोऽयमाख्यातः तत्तत्स्थाने प्रवर्तयेत्॥
इत्यधिवासविधिः।

॥ अथ दीक्षा ॥
एकान्तेऽथ गृहे चित्रवताने माल्यशोभिते।
दर्भैश्चालङ्कृते शुद्धगोमया लेपितस्थले॥
आचार्यस्तु स्वयं स्नातो भस्मोद्धूऴितविग्रहः।
रुद्राक्षाणि दधत् सर्वैरङ्गैः कृतशिवार्चनः॥
शिष्यं कृतनमस्कारं स्थापयित्वा पुरप्रभेः।
स्वयं शिवं नमस्कृत्य लब्धानुज्ञास्ततो गुरुः॥
गुरुं मण्डलमध्यस्थो दक्षिणाभिमुखोऽथवा।
प्राङ्मुखो दक्षिणामूर्ति ध्यानलम्पटमानसः॥
अत्रत्य विकल्पः। निर्वाणदीक्षायां दक्षिणामुखः।
समयविशेषदीक्षयोः पूर्वाभिमुखः।
पट्टोत्तरीयसंयुक्तो दधानो योगपट्टिकाम्।
दर्भासने शुभे मूलाधारवह्निं युगाङ्गुलम्॥
आचन्द्रबिम्बमुत्थाप्य स्थायिनं परिकल्पयेत्।
शिष्यदेहे यथायुक्तं भूतस्थानेषु देशिकः॥
मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनानि च।
कलाध्वा चेति षड्भेदो न ध्वने व्याप्तिभिः सदा॥
प्रवेश्य संहृतित्वेश हेतुभूतमथाध्वसु।
बद्धकर्म तथा च्छित्वा ज्ञानेन निशितासिना॥
ज्ञानिनामध्वनः शुद्धाच्छोधयेद्विधना गुरुः।
महामायात्मिकां कृत्वा शिष्यचैतन्यरोधिकाम्॥ *
आणवीं तस्य तां शक्तिमनुसन्धाय चक्षुषा।
दृष्ट्वा ततस्तु चैतन्यं पृथक्कृत्य सुधारकम्॥
राहुमुक्तमिवातीव शुद्धं शिवपदोचुतम्।
योजयि
त्वानुसन्धानं पश्चेत्तच्चित्तस्य तस्य हि॥*
मात्रालक्षणसंयुक्तप्रासादमनुना सह।
विधाय त्रिपदार्थानामुपदेशं यथाविधि॥
दीक्षानामयथा यक्तं परिकल्प्य शिवैकधीः।
शरीरमर्थप्राणं च जलपूर्वं गुरोः करे॥
निवेद्यं संस्थितं शिष्यं यद्यद्देहान्तिकं तव।
मदीयमेव तत्सर्वं ममत्वा त्वं विचरेः सदा॥
इत्युक्त्वा तं गुरोः
शम्भोः कारयेत् प्रणतं त्रयम्। स्वयं शिवस्य शुद्धात्मा कुर्यादभ्यर्चनं गुरूम्।
अभिष्टुत्य परं स्तोत्रैः पूजामेवं समापयेत्। कृत्वा शिष्यः स्वयं पूजां गुरो
श्रद्धासमन्वितः। वर्णगन्धर्वोत्तरैः पुष्पैः धपदीपादिभिः सह। संसृतित्वेशसन्तापं
हन्तुं न सत्वमिहेशिषे। न परोऽस्ति कृपा मूर्ते पाहि मां देशिकेश्वर।

इत्यभिष्टुत्वा नत्वा ज्येष्टा(ष्ठा)नपि कृताञ्चलिः। तत् स्व सान्तानिकान् ज्येष्ठानि भोजयेत्। स्व
गरूनपि।
शेषमन्नं स्वयं भुक्त्वा करुयात् गुरुनमस्कृतिम्।
ज्ञानदीक्षा समाख्याता दीक्षोत्तरविधिं शृणु॥
इति।
अथ रौरवे च –
नदीतीरे मठे वापि सुस्थाने गुरुमन्दिरे।
पर्वताग्रे शुचिस्थाने मण्डपं तत्र कारयेत्॥
परीक्ष्य चतुरङ्गुल्या चतुर्हस्ता सुवेदिका।
चतुर्द्वारसमायुक्तं चतुस्तोरणसंयुतम्॥
दुकूलचित्रपट्टैश्च मुक्तादामैरलङ्कृतम्।
ऊर्ध्वं विमानकं कुर्यात् पुष्पदैमैः सुगन्धिभिः॥
गोमया लेपनं कृत्वा पञ्चगव्यैरवोक्षणम्।
स्थानमित्युक्तमाश्रित्य कालं कल्पितमेव च॥
शुभनक्षत्रयोगे स्यात् दीक्षा ग्राह्यास्य तद्दिने।
ज्ञानदीक्षा समायुक्तं ज्येष्ठं कृत्वा पुरोहितम्॥
पुरो दिने त्वेकभुक्तं तद्रात्रौ गव्यसेवनम्।
तद्दिने चोपवासी स्यात् स्नानशौचसमन्वितः॥
अशुद्धमायारूपेण कालरात्रिरुदाहुता।
मायातत्वान्तिमस्थाने चिद्रूपस्य हि दर्शनम्॥
xरूपं शुद्धमायान्ते वस्तुनिश्चयातिक्रमात्।
मायाद्वयोर्लयनमेकाकारस्य भावां
तिरोधानातिरोधानं निर्दर्शनसुदर्शनम्।
एतै संयुक्तकालैश्च कालरात्रिरिति स्थितम्।
क्षयकृत् येऽर्धरात्री स्यात् नित्यसंहृन्निशि स्थितौ॥
देहेन्द्रियादिव्यापरो रात्रौ संलीयते यतः।
एतेन शास्त्रविदुषां रात्रिकालोत्तमं भवेत्॥
स्वकाले मण्डपे वेश्य गन्धपुष्पादिषोडशैः।
पूजाद्रव्याणि सम्पाद्य उत्तराभिमुखे स्थितः॥
भूतशुद्ध्यात्मशुद्ध्यादि कृत्वा चार्घ्यादिकं तथा।
चतुस्थालस्य दीर्घं स्यात् षट्त्रिंशाङ्गुलमुन्नतम्॥
गन्धानुलेपनं कुर्यात् विधिवत् क्लप्तमानसम्।
क्षित्यादिकुलो प्रान्तं मन्त्ररूपं समर्चयेत्॥
गन्धोदकेन सुस्नातं रक्तपट्टाम्बरान्वितम्।
अष्टत्रिंशत्कलान्यास सोऽहं भावनयान्वितम्॥
ज्ञानxxशिकमास्थाय दिव्यपादाम्बुजं ग्रहेत्।
शास्त्रोक्तगन्धद्रव्येण ह्यभिषिच्य पदद्वयम्॥
शुक्लवस्त्रेण सम्मृज्य कुमुदानि समर्पयेत्।
भूर्जपत्रे शिलावृत्ते सुगन्धेनानुलेपिते॥
प्रणवं च लिखित्वाथ तन्मध्येऽथ लिखेन्नमः।
तिरोधानमलं ध्यात्वा गुरुपादासनं क्षिपेत्॥
नानादिव्यसुगन्धैश्च पुष्पदामैश्च पूजयेत्।
धूदीपौ समारोप्य स्थालीपाकं निवेदयेत्॥
दक्षिणामूर्तिरूपेण गुरुं शिष्यस्तु भावयेत्।
इदं हि भावं शिष्यस्य गुरोः पाशविमोचनम्॥
ईक्षणज्ञानदीक्षाभ्यां क्रमात् कृत्यं करोति सः।
ब्रह्माण्डस्य स्वरूपेण पृथिवी जानुमात्रतः॥
पृथिवी प्रकृतिपर्यन्तव्याप्तिरप्तत्वनाभि च।
पृथिवीश्वरतत्वं च व्याप्य चाग्निस्तु कण्ठतः॥
पृथिवी सदाशिवा…नं वायुतत्वं ललाटतः।
पृथिवी शक्तितत्वं च आकाशं ब्रह्मरन्ध्रतः॥
मन्त्रादिषड्विधं रूपं भूतादि द्वन्द्वभावकम्।
एतैः सुगर्भिते स्थाने निवृत्यादिकलां भवि(वे)त्॥
सोऽहं भाविताचार्यस्त्वध्वसञ्चितकर्म च।
ज्ञानाग्निना दहे तत्त अध्वसंशोधनं भवेत्॥
शुद्धमायास्वरूपं चाप्याणवाख्यमलं तथा।
आत्मशक्तिं निरुध्यैव तिष्ठत्येतदनादि च॥
ज्ञानदृष्ट्या निरीक्षेत निर्मलस्त्वभिधीयते।
शिष्यस्य ब्रह्मरन्ध्रे तु स्व हस्ततलमादिशेत्॥
राहुनिग्रहतश्चन्द्र स्वस्त्यन्तं निर्मलो यथा।
शिवे चैतन्य सन्धानं शिवस्य व्यक्ति तत्पदम्॥
ततः शिवात्मनोरैक्यमूलमन्त्रेण दर्शयेत्।
शिष्यं तु सम्मुखं कृत्वा स्वस्य पादद्वयं च तत्॥
शिवशक्तिस्वरूपेण मूर्धादौ विन्यसेत् गुरुः।
अनुग्राह्यस्तु यः शिष्यो वाङ्मनः कर्मभिः अर्थप्रमाणाभिमानांश्च सत् गुरुभ्यो
निवेदयेत्।
एतस्मात् कारणादेव स्वतन्त्ररहितो भवेत्।
इति
एतत् ज्ञानदीक्षामध्ये ज्ञानमार्गेण षोडश। संस्कारमाह।
अचिन्त्यविश्वसादाख्ये –
शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत्।
आत्मनो रुद्रपुत्रत्वं गर्भाधानं तदुच्यते॥
स्वातन्त्र्यादिगुणव्यक्तिरिहपुंसुवनं भवेत्।
मायात्मनोर्विवेकेन ज्ञानसीमन्तवर्धनम्॥
शिवादिसदसद्वस्तु स्वीकारो जननं भवेत्।
बोधनं यत् शिवत्वेन शिवत्वार्हस्य नाम तत्॥
शिवत्वस्य प्रवेशो हि निष्क्रामणमितीर्यते।
परमानन्दभोक्तृत्वमन्नप्राशनमुच्यते॥
शिवस्य सर्वोत्कर्षं तु यत् तत् चूडाकरं भवेत्।
निर्वाणज्ञानसूत्रेण सम्बन्धमुपवीतकम्॥
इन्द्रियाणां च संरोधो वृता देश इति स्मृतः।
पुनर्जन्मपरित्यागो गोदानमिति कीर्तितम्॥
सर्वेषु निरपेक्षत्वसत्भा(द्भा)वस्नानमुच्यते।
अनन्तशक्तिसंयुक्तिर्विवाह इति कीर्तितः॥
अन्तः शक्तेश्च संश्लेषो वानप्रस्थत्वमिष्यते।
केवलं शिवसद्भावो यदि त्वमिति निर्दिशेत्॥
शिखां बाह्योपवीतं च सन्त्यजेद्यतिनं प्रति।

॥ इति ज्ञानदीक्षाविधिः ॥ ॥ इयमेव साम्बवदीक्षाः(क्षा)॥

(अथ शैवसन्यासविधिः)
अथ सर्वदोषशान्त्यर्थं परममुक्तिप्राप्त्यर्थं च सन्यासं कुर्यात्।
तथागमः।
ये च सन्धानजाः दोषा ये च स्युः कर्म सम्भवाः।
सन्यासस्तां दहेत् दोषां तुषाग्निरिव काञ्चनम्।
त्रिंशत्परात् त्रिंशदपरात् त्रिंशच्च परतः परात्॥
सद्यः सन्यासनादेव नरकात् त्रायते पितॄन्।
प्रव्रजेत् ब्रह्मचर्येण प्रव्रजेच्च गृहादपि।
वनाद्वा प्रव्रजेद्विद्वानातुरो वा सुदुःखितः॥
पुनर्दानक्रियाभावो मृतभार्यः परिव्रजेत्।
वनस्था धूतपापेन पापं थानमाश्रयेत्॥
उत्पन्नसङ्घटे गो चोर व्याघ्रादिगोचरे।
भयेऽभिहितस्य सन्यासं अङ्गिरामुनिरब्रवीत्॥
आतुराणां च सन्यासेन विधिर्नैव च क्रिया।
प्रौषमात्रं समुच्चार्य सन्यासं तत्र पूरयेत्॥
एकरात्रोषितस्यापि यतेर्यागतिरुच्यते।
न सा शक्या गृहस्थेन प्राप्तुं क्रतुशतैरपि॥
परमात्मनि यो रक्तो विरक्तो परमात्मनि।
सर्वकर्मविनिर्मुक्तः सभैक्षं भोक्तुमर्हति॥
चरेत् चत्वारि कूर्चाणि सन्यासेच्छरनाश्रमी।
आश्रमी कृच्छ्रमेकं तु कृत्वा सन्यासमर्हति॥
अथ शैवसन्यासक्रमः। कथ्यते समयाचारसहितः आश्रमत्रयेषु एकत्र वासि पूर्वमेकं

समयाचाराश्रमरहितः। कृश्रचतुष्टयं कृत्वा जीवश्राद्धं कुर्यात्।

(जीवश्राद्धविधिः)
तद्यथा। नित्यस्नाना ॥॥॥॥। वा निमन्त्रितान् शिवभक्तान् विंशतिब्राह्मणानाहूय तानुपवेश्य

पादौ प्रक्षाऴ्याचम्य ब्राह्मणसन्निधौ प्राङ्मुखम् उपविश्य शिवस्मरणपूर्वं
प्राणानायम्य तथिश्रवणं कृत्वा मत्सन्याङ्गभूतं जीवश्राद्धं करिष्यामीति सङ्कल्प्य

एतदाद्या समाप्तेरुपवीती भूत्वा अक्षतैरेव कुर्यात्। ततः सत्यवसुञ्ज्ञकविश्वेदेवार्थे
भवत्भ्यां(द्भ्यां) क्षणः
प्रसादनीयः। ब्रह्मविष्णुमहेश्वरार्थे भवद्भ्यां
क्षणः प्रसादनीयः। देवर्षिभिः ब्रह्मर्षिराजर्ष्यर्थे भवत्भ्याः(द्भ्याः) क्षणः
प्रसादनीयः। वसुरुद्रादित्यार्थे भवद्भ्याः क्षणः प्रसादनीयः।
सनकसनन्दनसनातनसनत्कुमारार्थे
भवत्भ्याः(द्भ्याः) क्षणः प्रसादनीयः। पृथिव्यादिमहाभूतार्थे भवद्भ्याः क्षणः
प्रसादनीयः। पितृपितामहप्रपितामहार्थे भवद्भ्याः क्षणप्रसादनीयः।

मातृपितामहीप्रपितामह्यर्थे भवद्भ्याः क्षणः प्रसादनीयः।
आत्मपितृपितामहप्रपितामहार्थे भवद्भ्यां क्षणः प्रसादनीयः।
मातामहमातुःपितामहार्थे भवद्भ्यां क्षणः प्रसादनीयः। इति द्वौ द्वौ
ब्राह्मणानां
(म)न्त्र्य दक्षिणत आरभ्य उदक् क्रमेण मण्डलानि कृत्वाभ्यर्च्य मण्डले ब्राह्मणयोः
पादेषु सम्बुध्यन्तादिना नामान्युच्चार्य इदं वां पाद्यमिति
कुशाक्षतोदकैः
पाद्यान्युपवीतीः दत्वा पादान् प्रक्षाऴ्य स्वयमपि पादौ प्रक्षाऴ्याचम्य
क्रमेणोपविष्टानां तेषां नामानि षष्ठ्यन्तान्युच्चार्य आसनादि दत्वा जीवश्राद्धे
क्षणं
प्राप्तवतां भवामीति प्रत्येकं सर्वेषां गन्धपुष्पाच्छादनानि दत्वार्चनं
सम्पूर्णमस्त्विति ब्रूयात् पितृमात्रादिषु सगोत्रनामभिः अन्यत्र तु नामभिरेवाचनम्। ततः
पात्रेषु
तण्डुलं
सव्यञ्जनं सताम्बूलं दत्वा पात्राणि कुशैः परिस्तीर्य उदकेन ब्राह्मणसंहितं
प्रदक्षिणं परिषिच्य वामहस्तेन पात्रमवलम्ब्य सदक्षिणाकमक्षतोदकं
दक्षिणहस्ते गृहीत्वा चतुर्थ्यन्तेन तेभ्यः प्रत्येकं दद्यात्। अथ मयाकृतं जीश्राद्धं
यथोक्तमस्त्विति ब्रूतेति तान् प्रसाद्य दण्डवत्प्रणम्य शिवं स्मरेत्। ततः पादौ
प्रक्षाऴ्याचम्य पिण्डस्थापनदेशं
गोमयाम्भसा प्रक्षाऴ्य प्राङ्मुखः प्राणानायम्य जीवश्राद्धे पिण्डप्रदानं करिष्य
इति। सङ्कल्प्य दक्षिणादुत्तरान्ताः नव रेखाः कृत्वा
तासु क्रमेण दर्भानास्तीर्य देवतादिपञ्चस्थानेषु तूष्णीमुदकमासिच्य
पितृमात्रादिस्थानेषु तत्तन्नामभिः कक्षतोदकं दद्यात्। ततः क्रमेण देवादिषु
चतुर्थ्यन्तनामभिः
प्रतिवर्गं गोधूमपिष्टपिण्डत्रयं दद्यात्। ततः पादौ
प्रक्षाऴ्याचम्य ब्राह्मणेभ्यः प्रदक्षिणनमस्कारादिकं कृत्वा क्षापयित्वा प्रेषयेत्।

(वपनादिविधिः)
ततः पादौ
प्रक्षाऴ्याचम्य पुण्याहं वाचयित्वा ॥॥दहस्तनखनिकृन्दनपूर्वकं कर्णादूर्ध्वं
सप्तकेशपरिमितिशिखां संस्थाप्य वापयीत ततः स्नात्वा
भस्मोद्धूऴ्य संहारिण्या न्यासं कु॥। देवतायतनेन दीतीरेगोष्ठे वने मठे वा
पूर्वास्यो ब्रह्माञ्जलिं कृत्वा ब्रह्मणे नमः। इन्द्राय नमः।
सूर्याय नमः। आत्मने नमः। अनन्तात्मने नमः। परमात्मने नमः।
विज्ञानात्मने नम इति जप्त्वा यवेन नीवारेण गोधूमेन श्लामाकेन व्रीहिणा वा
सक्तुमुष्टित्रयं हुं फडन्तास्त्रोत्थापितमूलाग्नौ आत्मने स्वाहा। अनन्तात्मने स्वाहा
परमात्मने स्वाहेति हुत्वाचम्य परिघमुद्रां बध्वा तेनैवाभिमन्त्र्य
सायं सन्ध्यामुपास्य शिवसन्निधौ शिवकथाश्रवणादिना जागरणं कुर्यात्। ततः शिष्यः
ब्राह्मे मुहूर्ते उत्थाय कृतनित्यात्मिकः
सन्यासदेशिकं सम्पूज्य
साष्टाङ्गं प्रणम्य विज्ञाप्य स्वात्मानमलङ्कृत्य समाचम्य दर्भासने सौम्यास्य
समुपविश्य दर्भमुष्टिं प्रगृह्य प्राणानायम्य शिवौ ध्यात्वा तिथिश्रवणं कृत्वा
शैवसन्यासं करोमीति सङ्कल्प्य देशिकं प्रणमेत्। तदनु देशिकः पुष्पदामादिभिः
मण्डपमन्दिरं वा विभूष्य क्षेत्रं गोमयेनानुलिप्य सूत्रपातेन तच्चतुरश्रं

कृत्वा पुनः सूत्रपातेन तच्चतुरश्रकं कृत्वा पुनः सूत्रपातेन तत्समन्ततो दशधा
विभज्य मध्ये द्विपदं धवऴं पीतकर्णिककेसरम्। पद्म निर्माय विधिमिन्दुभागेन
रक्ताभां कृत्वा पूर्वादिचतुर्दिक्षु द्वि द्वि पदैः पीताञ्जनश्वेतरक्तानि चत्वारि पत्मा(द्मा)
(नि) निर्माया(य) विधिमिन्द्रभागेन काञ्चनाभां कृत्वा ततः सूर्यबिम्बशिवार्चनम्
आरभ्य ईशाने
गुरुमर्चयेदित्युक्तम् पूर्ववत् कृत्वा व्रतेश्च मण्डलस्थपत्मं(पद्मं) च पत्मे(द्मे)षु
व्रतेश्वरस्वरूपेशानादिपञ्चब्रह्मणां तत्तन्मन्त्रैःरासनादि दत्वा
ईशानादिमूर्तिं विन्यस्य पत्म(द्म)मध्यस्थान् द्विभुजामेकवक्त्रां त्रिणेत्रां
चन्द्रशेखरान् क्रमेण
कुन्दकुङ्कुमाञ्जनश्वेतारुणचन्द्रान्
कमण्डल्वक्षमालात्रिशूलाभयखट्ग(ड्ग)खेटनाराचकार्मुकनीलोत्पलबीजपूरधरान्
व्रतेश्वरान् ध्यात्वा वाहनादिभिः सम्पूज्य
धूपदीपनैवैद्यपानीयाचमनहस्तोद्वर्तनमुखवासताम्बूलादीनि समर्प्य
प्रतिमन्त्रमष्टोत्तरशतं जप्त्वा निवेद्य साष्टाङ्गं प्रणमेत्।

(अग्निकार्यादिः)
अथ शिष्यः अग्निकार्यार्थं
विज्ञाप्य लब्धानुज्ञः कुण्डसमीपं गत्वा उपविश्य कुण्डसंस्कारमारभ्य
सर्वकर्मपूरणी पूर्णां दद्यात्। इत्यन्तं पूर्ववत् कृत्वा चर्वर्थं वह्निमुद्धृत्य
संरक्ष्य
इध्महोमं कृत्वा वह्निं ध्यात्वा सम्पूज्य प्रार्थ्य नडीसन्धानं कृत्वा
तन्मार्गेणाग्निदेहं प्रविश्याग्निहृत्पत्म(द्म)मध्ये व्रतेश्वरान् सम्पूज्य भगवन्तो
भगवतस्तर्पयामीत्याज्ञां

प्रार्थ्य(प्य) ब्रह्मवक्त्राग्निवक्त्रयोरैक्यं विभाव्य स्वदेहं प्रविश्य सद्यवक्त्रे
सप्तजिह्वानां दीपनसन्धानेकीकरणानि कृत्वा
बहुरूपाणायामहिरण्यादीनामन्तर्भावं
विभाव्य पञ्चब्रह्माणं प्रत्येकमष्टोत्तरशतं पूर्णां जुहुयात्।
(शैवसन्यासक्रमः)
ततः आचार्यः गोमयमण्डले उत्तराग्रकुशाक्षतान्विते षडुत्थासनं सम्पूज्य तत्र
सन्यस्यन्तं
शिष्यमुदगाननमूर्ध्वगं विन्यस्य स्वयं तदन्यथा स्थित्वा तस्य दण्डभङ्ग्या
संहारिण्या संस्कृत्वा पादादिमूर्धपर्यन्तं दिव्यदृष्ट्या निरीक्षयेत्। ततः शिष्यः
नाभिदघ्नजले गुरुसन्निधौ
उत्तराभिमुखस्तिष्ठन् –
मातरं पितरं पुत्रं कलत्रमुपवीतकम्।
शिवं विहाय सर्वं च सन्यस्तमिह यन्मया॥ इति मन्त्रम्।
पञ्चवारं मन्दं, पञ्चवारं मध्यमं,
पञ्चवारमुच्चैरुच्चरन् वामहस्तेन उपवीतदक्षिणहस्तेन शिखामुत्पाट्य जले क्षिप्त्वा
कटिवेष्टनं मुक्त्वा हस्तावृद्धृत्य अभयं सर्वभूतेभ्य
इत्युच्चैरुच्चरन्
उत्तराभिमुखो मौनी जातरूपधरो गच्छेत्।
अथ देशिकः लोकव्यवहारार्थमुक्तलक्षणकटिसूत्रकौपीनादिकं स्वीकुर्वति।

तस्मै दद्यात्। तद्यथा। नमोन्तसद्योजातेन काषाय कटिसूत्रकौपीनकटिवेष्टनानि प्रयच्छेत्
यतिस्तानि स्वीकृत्य पादौ प्रक्षाऴ्याचम्य गुरुं
प्रणमेत्। अथ देशिकः शिष्यसमीपे अभिमुखमुपवेश्य नमोन्तास्त्रेण
भ्रूमध्यमात्रप्रमाणं सप्त नव वा पूर्वकम् अङ्गुष्ठमात्रपरिणाहं
सकल्माषं योनिमुद्रादिदोषरहितं
वैणवदण्डम्। नमोन्तशिरसा उक्तलक्षणं भिक्षापात्रं कवचेनावकुण्ठनं
पञ्चाक्षरेण भूतिकोशं शिवलिङ्गं शिवज्ञानपुस्तकं च प्रयच्छेत् यावत्कालं शिवः
साक्षात्कारं दृढं भवेत्। तावत् कालं शिवशास्त्रश्रवणादिकं कर्तव्यमिति वदेत्। अथ
शिष्यः एतानि स्वीकृत्यान्यत्र गत्वा पादौ प्रक्षाऴ्याचम्य

पञ्चब्रह्मषडङ्गनिवृत्तादिपञ्चकलाभिरभिमन्त्रितभस्मना
पादादिसद्योजातादिक्रमेणा(णो)द्धूऴ्याचम्य संहारन्यासं कृत्वा देशिकं
गन्धपुष्पादिना सम्पूज्य प्रणमेत्।

(सिद्धान्तमहावाक्योपदेशः)
अथ देशिकः शिवहस्तं
शिष्यमस्तके न्यस्य।
यथा जलं जले क्षिप्तं क्षुरे क्षुरं घृते घृतम्।
अविशेषं भवेत्तद्वदात्मा तु परमात्मनि॥
इति वचनार्थवत् अखण्डाकारसच्चिदानन्दाद्वयपरिपूर्णे
संयोज्य शिवस्त्वमसीत्युपदिशेत्। शिष्योऽपि एतदनुसन्धाय शिवोहमस्मीति विज्ञापयेत्। तदनु
उत्थाय देशिकम् -
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो * महेश्वरः।*
गुरुरेव परम्ब्रह्म तस्मै श्री गुरवे नमः॥
इत्यादि स्तुत्वा प्रदक्षिणत्रयं द्वादशनमस्कारांश्च कुर्यात्।

(यतेराचारः)
अथाचार्यः यतेराचारमुपदिशेत्।
तथागमः।
एवं वदेतु तं शिष्यं देशिक कृपया युतः।
शिवोहं भावनायुक्तो बाह्याभ्यन्तरशौचयुक्॥
त्रिकालस्नानसंयुक्तो प्राप्येककालेन संयुतः।
भस्मोद्धूऴितसर्वाङ्गो धौतकाषायसंयुतः॥
कौपीनदण्डसंयुक्तो लिङ्गार्चनपरायणः।
शिवयोगेन संयुक्तः शिवध्यानपरायणः॥
शिवानुभूतिसंयुक्तः सर्वक्लेशविवर्जितः।
प्रियाप्रियसमश्चैव समलोष्टात्मकाञ्चनः॥
सर्वात्ममैत्रिभावश्च सदा सन्तुष्टिसंयुतः।
स्त्रियं कुणपवत् पश्येत् शिवभावसमन्वितः॥
विशोकोऽन्यस्य दुःखानि चाविश्य सुखदुःखयुक्।
वेष्टते तद्वदेवायं परदुःखेन दुःखितः॥
बालोन्मत्तपिशाचानामेवं गुणसमन्वितः।
मूलमन्त्रं जपेन्नित्यं शिवध्यानपरायणः॥
जपोपरतिसंयुक्तो ध्यानमेवं समाश्रयेत्।
ध्यानोपरतसंयुक्तः पश्चान्मूलं जपेत् सदा॥
औषधवदन्नपानादीन् क्षुत्बाधा शान्तये चरेत्।
भिक्षार्थं प्रविशेत् ग्रामं वृक्षमूले मठेऽपि वा॥
अन्येन कल्पिते चैव वासं कुर्यात् मठादिके।
सन्ध्यावन्दनकं चापि यतीनां ज्ञानसन्ध्यया॥
देवीकालोत्तरे –
आचारः कथ्यते देवि साम्प्रतं शृणु तन्मया।
न ज्ञानं न जपः पूजा न होमो नैव साधनम्॥
नाग्निकार्याणि कार्याणि नैतस्यास्ति महेश्वरी।
नियमोऽपि न तस्यास्ति क्षेत्रपीठे च सेवना॥
नार्चनं पितृकार्यं च तीर्थयात्रा व्रतानि च।
धर्माधर्मफलं नास्ति नातिशीलौकिकक्रिया॥
सन्न्यसेत् सर्वकर्माणि लोकाचारमशेषतः।
समयाचारनिश्शेषान् कृतकृत्याद्धनानि तु॥
सङ्कल्पं च विकल्पं च ये चान्ये कुलधर्मकाः।
सिद्धिश्च विविधाकारा पाताऴादिरसायन॥
प्रत्यक्षेण यदा लब्धः नैव गृह्णीत साधकः।
एतैर्नास्ति परा मुक्ति चिद्रूपं व्यापकं विना॥
सर्वथा पशुबन्धा स्युः र(अ)धोमार्गप्रदायकाः।
येन केनापि वेषेण सर्वावस्थो वियोगचित्॥
क्षेत्रे पीठे वसेद्देहं वर्जयेद्यदि कौतुकम्।
कृमिकीटपतङ्गाश्च ततो देवी वनस्पतीन्॥
चूर्णयेत् घातयेन्नैवं परमार्थे मतिर्यथा।
न मूलोत्पाटनं कुर्यात् तृणच्छेदं विवर्जयेत्॥
भूतपीठान्न कुर्वीत पुष्पाणां च निकृन्दनम्।
स्वयं पतितपुष्पैस्तु कर्तव्यं यदि पूजनम्॥
मारणोच्चाटनादीनि विद्वेषं स्तम्भनं तथा।
ज्वरभूतगृहावेश वश्याकर्षणमोहनम्॥
न कुर्यात्क्षुद्रकर्माणि काष्ठपाषाणपूजनम्।
न मुद्राश्च मखं दत्वा क्षेत्रपीठे च दैवते॥
कृतकां वासनां त्यक्त्वा व्यापकं बोधमाश्रयेत्।
समता वीतरागत्वं समदुःखसुखं तथा॥
समस्तु मित्रे मित्रे च सम चोष्टात्मकाञ्चनः।
आत्मनामस्ततो योगी निर्भयो विगतस्पृशः॥
सम निन्दाप्रशंसस्तु सर्वभूतः सम सदा ।
सम दृष्टिश्च कर्तव्या यथात्मनि तथा परे॥
विवादं लोकगोष्ठीं च कलहं च विवर्जयेत्।
शास्त्रगोष्ठिं न कुर्वीत कुभाषितसुभाषिते॥
ईर्ष्या पैशून्यडम्बांश्च रागममात्सर्यमेव च।
कामक्रोधं भयं शोकं त्यजेत् सर्वां शनैः शनैः॥
सर्वद्वन्द्वविनिर्मुक्तः सन्ततं जनवर्जितः।
अनेनैव शरीरेण सर्वज्ञत्वं प्रजायते॥
ज्ञानेनैव यदा मोक्षस्तदा सिद्धिर्निरर्थिका।
तथापि भोगमिच्छन्ति सिद्धिमिच्छन्ति साधकाः॥
अथातः सम्प्रवक्ष्यामि सन्यासाश्रममुत्तमम्।
चतुर्विधास्तु विज्ञेया भिक्षवो वृत्तिभेदतः॥
कुटिचको मुनिश्रेष्ठास्तथैव च बहुदकन्।
हंसः परमहंसश्च तेषां वृत्तिं वदामि ते॥
कुटीचक स सन्यस स्वे स्वे वेश्य(म)नि नित्यशः।
भिक्षामादाय भुञ्जीयात् स्व बन्थुनाम् इहेथवा॥
शिवा यज्ञोपवीती स्यात्त्रिदण्डी च कमण्डलुम्।
स पवित्रश्च काषाय* गायत्रीं च जपेत् सदा॥*
सर्वाङ्गोद्धूलनं कुर्यात् त्रिपुण्ड्रं च त्रिसन्धिषु।
शिवलिङ्गार्चनं कुर्यात् श्रद्धयैव दिने दिने॥
बहूदकं च सन्यास बन्धुपुत्रादिवर्जितः।
सप्तागारं चरेत् भैतिम्मकान्नं परिवर्जयेत्॥
गोवालेन सुसन्नद्धं त्रिदस्यंशिकभूतम्।
पात्रं जलपवित्रं च कौपीनं च कमण्डलुम्॥
आच्छादकं तथा कन्धां पादुकं छत्रमत्भु(दभु)तम्।
पवित्रमजिनं सूचिं वङ्क्षिणीं चाक्षसूत्रकम्॥
योगभट्टं ……। खनित्रं तु पाणिकाम्।
सर्वाङ्गोद्धूलनं तद्वत्त्रिपुण्ड्रं चैव धारयेत्॥
शिखा यज्ञोपवीतं च देवताराधने रतः।
स्वाध्याये सर्वदालापमुत्सृजेत् ध्यानतत्परः॥
सन्ध्याकाले च सावित्रीं जपकर्म समाचरेत्।
हंसः कमण्डलुं शिक्लं भिक्षापात्रं तथैव च॥
कन्धां कौपीनमाच्छाद्य गलवर्णं बहिः पदम्।
एकं तु वैणवं दण्डं धारयेन्नित्यमादरात्॥
त्रिपुण्ड्रोद्धूलनं कुर्यां शिवलिङ्गं समर्चयेत्।
अष्टग्रासं सकृन्नित्यमश्नीयात् स शिवं वपेत्॥
सन्ध्याकाले तु सावीत्री(वित्री) जपमध्यात्मचिन्तनम्।
तीर्थसेवां तथा तुच्छं तथा चाज्ञायणादिकम्॥
कुर्यात्ग्रा(द्ग्रा)मैकरात्रेण न्यायेन तु समाचरेत्।
परहंसं त्रिदण्डं च रज्जुं गोवालनिर्मिताम्॥
शिक्लजपपवित्रं च पवित्रं च कलन्धवुम्।
वङ्क्षिणीलजिनं स्रविं तत्पवित्रं तु पाणिकाम्॥
शिवा यज्ञोपवीतं च नित्यकर्म परित्यजेत्।
कौपीनं छादनं वस्त्रं कन्धां शीतनिवारिकाम्॥
योगभट्टं बहिर्वस्त्रं पादुकाछेत्रमत् हुतम्।
क्षमालां च गृहीयात् वैणवं दण्डमप्रणम्॥
अग्नीत्यादिभिर्मन्त्रैः कुर्यादुद्धूलनं मुदा।
मिडेवं ततः प्रोच्य स हंसेन त्रिपुण्ड्रकम्॥
मृत्पात्रं काम्स्यपात्रं वा दारुपात्रं तु* वैणवम्।*
पाणिपात्रं च गृहीयात् आचम्येव तथोदरम्॥
कांस्यपात्रं न विदधुत्तं मृत्पात्रमिति श्रुतिः।
महूकरं तथैकाणं परहंसः ससाचरेत्। *
नाम्यः शतस्तु योगो हि न चैकान्तनश्शतम्॥
तस्माद्योगा तु गुण्येन भुञ्जित परहंसकः।
अभिशस्तं तं सम्मृज्य सार्ववर्णिकमाचरेत्॥
उत्तरोत्तरलाभे तु पूर्वपूर्वं परित्यजेत्।
गुरु
शुश्रूषया नित्यमात्मज्ञानं समभ्यसेत्॥*
स्नानं शौचमभिध्यानं सत्यानृतविवर्जितम्।
कामक्रोधपरित्यागं हर्षरोषविवर्जितम्॥
लोभमोहपरित्यागं धर्मदर्भादिवर्जितम्।
चातुर्मा*स्यं च सर्वेषां वदन्ति ब्रह्मवादिनः॥
कुटीचकश्च हंसश्च तथैव च बहुदकः। (११५अ, १स्त् line )
अणिमादिगुणावाप्तिर्जयतां वनजायताम्।
तथापि मुच्यते देवि पतिविज्ञाननिर्मलः॥
पञ्चभूतात्मके देहे शिवस्तत्रैव तिष्ठति।
शिवाद्यवनि ॥॥।तो लोकोऽयं शङ्करात्मक॥
इति

॥ त्रिविधशैवसन्यासिनां लक्षणमाह ॥
अचिन्त्यविश्वसादाख्ये –
यतयस्त्रिविधा ज्ञेयास्तपस्वी विदुषस्तथा।
विद्वानिति त्रिधा प्रोक्तास्तेषां भेदं शृणु क्रमात्॥
तपोनिष्ठस्तपस्वीति तस्य वृत्तिं तु सुव्रता।
नाध्येतव्यं न सङ्कल्पो न श्रोतव्यं कथं च न॥
शिष्याणां सङ्ग्रहं चैव नैव विद्याप्रकाशनम्।
न वदेत् संस्कृतां भाषां न दण्डी न कमण्डलुः॥
लिङ्गं क्षणिकमभ्यर्च्य भक्तिमार्गेण संयुतः।
एकाकी वृक्षमूले वा वने वा जनवर्जिते॥
जनान् भीतिसमायुक्तो वसेत्बाहुपधानकः।
वसनं येन केनापि तथैवाशनपानकम्॥
पाणिपात्रोदरोपानो याचितान्नेन जीवनम्।
इत्याद्युक्तस्तपस्वी स्यात् सायको यतिनामवान्॥
विविदिषोर्युतेश्चापि वर्तनं नन्दिकेश्वर।
अध्यापनं चाध्ययनं श्रवणं चिन्तनं तथा॥
विद्वद्यतेर्विशेषोऽस्ति व्याख्यानं चिन्तनं भवेत्।
सदाचार्याभिषेकेण यक्तो विद्वत् समाख्यकः॥
यतीनां त्रिविधं चापि शैवानां चतुराश्रमम्।
॥ इति शैवसन्यासविधिः ॥

(आचार्याभिषेकविधिः) । ततः भौतिकाचार्याभिषेकविधिः
(अभिषेकाधिकारिलक्षणादिः)
त्रिपदार्थचतुष्पादं भुक्तिमुक्तिफलोदयम्।
संहितां यो विजानाति शिष्योऽसौ सेकमर्हति॥
सत्यव्रतपरं शान्तं त्यागयुक्तं दयान्वितम्।
प्रसन्नवदनं दक्षं गुरुभक्तं दृढव्रतम्॥
शौचाचारसुससम्पन्नं योगयुक्तं जितेन्द्रियम्।
शिवभक्तं सदादान्तं शिष्यं तन्त्रस्य पारगम्॥
कृत्वा तु पूर्वोक्तदीक्षां निर्वर्त्म मन्त्रवित्।
ततोऽभिषेचयेत्तत्तु युक्तायुक्तविचारकम्॥
अत्र
क्रमः। पूर्वोक्तक्रमप्रकारेण यागमण्डपमलङ्कृत्य
वक्ष्यमाणप्रकारेणाभिषेकमण्डपं कारयित्वालङ्गृत्य कृतनित्यक्रियः शक्राग्निमध्ये
सूर्यबिम्बस्थं शिवं
पूर्ववदभ्यर्च्य समाचम्य न्यासं कृत्वा सामान्यार्घ्यहस्तः पूर्ववत्
द्वारपालतोरणपूजादिमन्त्रतर्पणदीपनान्तं कर्म निवृत्या
देशापादनदुर्निमित्तप्रोत्सारणाय
सुनिमत्तापादनाय च। पूर्ववत् जुहुयात्। ततः अन्यत्र दीक्षितस्य च श्व शिष्यस्य
दीक्षानन्तरमाचारवैकल्ययुक्तस्य च पुनः सद्योऽधिवासेन
समयादिनिर्वाणदीक्षान्तं कृत्वा आचार्याभिषेकं कुर्यात्।

(शिवानुज्ञासादनक्रमः)
ततः शिवसमीपं गत्वा
भवतैवमहं स्वामिन्नादिष्टो गुरुमूर्तिना।
दीक्षाव्याख्यानयोगोऽयमविच्छेदाय सुव्रत।
सम्यज्ञानपरिज्ञात्रे वृत्ताकारवते त्वया।
दातव्यो निजशिष्याय शिरः सेकादनन्तरम्॥
तवानुभावतः सोऽयं ममेदानीमुपस्थितः।
तस्मै तु प्रतियच्छामि योगं भवदनुज्ञया॥
इति विज्ञाप्य लब्धानुज्ञः कृतनित्यक्रियेण शिष्येण इन्द्रादिवह्न्यन्तपूजां
कारयेत्।
(अभिषेककुम्भस्थापनविधिः)
तदनु मण्डपस्योत्तरे – पूर्वपश्चिमे वा पूर्वाभिमुखमुत्तराभिमुखं
वा स्नानमण्डपं कारयित्वा। वितानपुष्पदामाद्यैरलङ्कृत्य तत्र दक्षिणोत्तरसंस्थानं
द्विहस्तकविस्तारमष्टाङ्गुलोन्नतं चतुरश्रं वेदिकाद्वयं
कारयित्वा वेदिकाद्वयं गोमयेनानुलिप्य यवाक्षताकीर्णं गत्वा तत्र पत्म(द्म)स्वस्तिके
विलिख्य साम्यवेदिकायां पञ्चधान्यपुञ्जेषु षडुत्थासनानि
सम्पूज्य
तदुपरि कुम्भान् स्थापयेत्। अत्र क्रमः।

अचिन्त्यविश्वसादाख्ये –
धान्यराशिषु कुम्भांश्च प्रथमं शिवकुम्भम्।
वर्धनीं तस्य वामे तु विन्यसेत् शक्तिमन्त्रिताम्॥
विद्येशानां च कलशान् तस्य बाह्ये तु विन्यसेत्। *
सह देव्यैकपत्रं तु भद्रं वैकङ्कतं तथा॥
विष्णुक्रान्तिं च पञ्चैते पञ्चौषधमिति स्मृतम्।
चन्दनागरुकर्पूरहिरिबेरं मांसिरेव च॥
कुङ्कु
मोशिरकन्दं च जतुजातिसमन्वितम्।*
पञ्चरत्नौषधैर्युक्तान् शालितण्डुलकैर्युतान्॥
शुद्धतोयेन सम्पूर्णान् चूतपल्लवशोभितान्।
तेषु क्षारो दधिक्षीरौदब्धिघृतसागरम्॥
इक्षुमध्वाम्बुशुद्धाम्बुगर्भोदानष्ट सागरान्।
मध्ये शिवसमुद्रस्य वर्धन्यां शक्तिसागरम्॥
क्रमेणावाह्य सम्पूज्याष्टविद्येश्वरानपि।
विधिवत् पूजये
त् सर्वं मूलमन्त्राष्टवारयुक्॥*
निवृत्यादिकलाभिस्तु कुम्भैः पञ्चभिरेव च।
अथवा एककुम्भेन ताम्रकेनाभिषेचयेत्॥
पञ्चकुम्भेषु विद्येशान् द्वौ द्वौ कुम्भेषु विन्यसेत्।
समुद्राणां द्वयं चापि तद्वदेव तु विन्यसेत्॥
मध्ये तु शिवकुम्भस्य शिवाम्बोधिं तथैव च।
तत्पार्श्वे च वर्धनीं चापि शक्त्यम्बोधिसमन्विताम्॥
शिवं शक्तिं च विद्येशानेककुम्भे तु विन्यसेत्।
समुद्राणां च दशकं विन्यसेत् देशिकोत्तमः॥
अथ भुक्त्यैर्मध्यपूर्वदक्षिणोत्तरपश्चिमकुम्भेषु शान्त्यतीतकलादीनामुक्त्यै
पश्छिमोत्तरदक्षिणपूर्वमध्यकुम्भेषु
निवृत्यादिकलादीनाभिमन्त्र्य भुक्त्यै सृष्ट्या शिवसागरादि सागरानन्तरादि
विद्येशानप्यावाह्याभ्यर्च्य मुक्त्यै क्षा(क्षी)रसागराद्यष्टसागरान्। कुम्भेष्वावाह्य
सम्पूज्य मध्यकुम्भे शिवसागरमावाह्य सम्पूज्य विद्येशानपि कुम्भेष्वावाह्य
सम्पूज्य मध्यकुम्भे
साङ्गं सावरणं शिवं नित्यवत् पूजयेत्। अथ
मूलेनाष्टोत्तरशतमभिमन्त्र्य जपं सङ्घ्य(ख्य)या पूर्णान्तं जुहुयात्। अथवा
उक्तप्रकारेण कुम्भपञ्चकं वा एककुम्भं वा संस्थाप्य पूजयेत्।

(शिष्याभिषेचनविधिः)
तत
श्रीपर्णादिभद्रपीठे षडुत्थासनं सम्पूज्य तत्र भौतिकं पूर्वाभिमुखं
नैष्ठिकमुत्तराभिमुखमुपवेश्य सकऴीकृत्याष्टपुष्पिकया सम्पूज्य इन्द्रादिक्रमेण
वज्रादिदिव्यवस्त्रैः शिष्यं संरक्ष्य सर्वामृत्
भस्मगोमयकाञ्चिकोदनसिद्धार्थदयितोयैः निवर्त्य कवचाम्बुना त्रिधा
परिवेष्ट्यामृतधारणायुक्तान् कुम्भान् भुक्त्यै
सृष्टिक्रमेण – मुक्त्यै संहारक्रमेण
उत्क्षिप्य ब्रह्मघोषैः मङ्गलतूर्यस्वनैः सिद्धं विद्येशं मन्त्रैर्म(र्मू)लेन
साध्यमन्त्रैरभिषेचयेत्। तदन्वङ्गलग्नजलं
धौतवस्त्रेत्(उन्)मृज्य घृतोत्ग(द्ग)मनीयं कृत्वाचमनं शिष्यं दक्षिणवेदिकायां
षडुत्थासने संस्थाप्य शिववदभ्यर्च्य दूर्वाक्षतादिचुऴुकत्रयेण च त्रिधा
परिवेष्ट्य मङ्गऴाष्टकसिद्धये।
गोरोचना चन्दनं च दूर्वां च कुसुमं दधि।
पायसं च यवान् श्वेतसर्षपं चाभिवादयेत्॥
(स्वसंहितादिप्रदानविधिः)
अथ देशिकः। स्व वामा(म)पाणिना
शिष्यं सङ्गृह्य यागमण्डपम्। प्रवेश्य प्रदक्षिणत्रयं कारयित्वा मण्डलदक्षिणे
विन्यस्तं सर्वतोभद्रे षडुत्थासनं सम्पूज्य तत्र शिष्यं संस्थाप्य सम्पूज्य
तत्र शिष्यं संस्थाप्याभ्यर्च्य
स्वसंहितामक्षसूत्रं च त्रयं च योगपट्टिकाम्।
कमण्डलुं पादुके च करणीं सूत्रकर्तरीम्॥
स्रुक्स्रुवौ मुद्रिकां दर्भान् गजाश्वशिबिकादि च।
उष्णीषमकुटं चैव॥?
एतानि गृहस्थाचार्याय समर्पयेत्।
उष्णीषमकुटं छत्रपादुके चामरादि च॥
एतानि नैष्ठिकाचार्यवर्याय प्रददेदिति।

(चण्डेश्वराद्यर्चनादिविधिः)
ततश्चण्डेश्वरसहितं सम्पूज्य तस्य पूर्वाद्यष्टदिक्षु हृदयेन सदाशिवमनन्तं हरं
देवीमच्युतं कमलासनं स्कन्दं स्वगुरूं च सम्पूज्य शिष्येणापि
चण्डेश्वरपूजां कारयित्वाग्नावपि चण्डेश्वरादीन् सन्तर्प्य शिष्यकरे पुष्पं दत्वा देशिकः।
पूजितगुरुसन्निदौ –
परतत्वं च समयांश्चण्डेशगुरुसाक्षिकान्।
त्वयाधिकारिणा वत्स गुरुपारम्परागतान्॥
नित्यनैमित्तिकं काम्यं सदा तद्देशवासिनाम्।
अद्यप्रभृति कर्तव्यं सु विचार्य शिवाज्ञया॥ इति
शिवाज्ञां संश्रावयेत्। गुरु स्वाधिकारसमर्पणे अभिषिक्तं शिष्यमभिवादयेत्।
अथ अनधिकारी गुरूररनलान्तिकं गत्वा आत्मदीक्षार्थं मूलमन्त्रेणाष्टोत्तरशतं
पूर्णान्तं हुत्वा स्व दक्षिणे कृताञ्जलिं शिष्यमुपवेश्याष्टपुष्पिकयाभ्यर्च्य मन्त्रतृप्तये
मूलेन शतं पूर्णान्तं हुत्वा शिष्यस्य दक्षिणकरस्थकनिष्ठाङ्गुलिषु
ऊष्मत्वापादनाय दग्धदर्भेण
मन्त्रैर्लाञ्चयेत्। अथ नाडीसन्धानपूर्वकं तन्मूर्ध्नि शिवहस्तं दत्वा वह्निस्थं
शिवमावाह्य योहयित्वा शिवे कुम्भादिस्वात्मान्तं
पूजा नन्यादि कारयेत्।

(साधकाभिषेकादिविधिः)
साधकाभिषेकेऽप्यभिषेकविधिः। किन्तु साध्यमन्त्रान्वितः। करण्युष्णीषकर्तर्यादिहीनः।
शैवसन्यासिनः। आचार्याभिषेके अग्निका
र्यं विना शेषं शैवसन्यास आचार्यः कुर्यात्।
तदुक्तम् अचिन्त्यविश्वसादाख्ये –
यतीनामनपेक्ष्यैव शिवाग्निविधिरीरिता।
तस्माद्यतेश्च कर्तव्यं शैवमार्गे विशेषतः॥
आचार्याणां च मध्ये वै यतीनां किञ्चिदन्तरम्।
परहंसं यतीनां च तपसन्यासिनां तथा॥
अनयोरग्निकार्येषु योग्यत्वं न विधीयते।
होमं विना तयोरेवमभिषेकं विधीयत॥ इति
॥ इति अतिवर्णाश्रमाचार्यवर्यशैवपरिपालकशिवाग्रयोगिविरचितायां
क्रियादीपिकायाम् आचार्याभिषेकविधिर्नाम पञ्चमः पटलः ॥

॥ अन्त्येष्टिः ॥

अथान्त्येष्टिरुच्ये –
अन्त्येष्टिर्नाम
अन्त्यं परमतत्वम् इष्टितत्वं प्रवेशनम्।
विधिना योगमार्गेण अन्त्येष्टिरभिधीयते॥
ज्ञानरत्नावल्याम् –
अथान्त्येष्टिविधानं च कथ्यते लेशतो मया।
अत्रोत्क्रान्त्या विपन्नो यो योगी निर्दग्धकल्मषः॥
तस्य मन्त्रमयं शुद्धं दहेत् देहं शिवाग्निना।
न च पिण्डक्रिया कार्या न च तस्योदकक्रिया॥
किन्तु शिष्यैस्तदा कार्यमनृणार्थं शिवार्चनम्।
प्रसङ्गादुच्यतेऽन्येषां सर्वेषामपि सा यथा॥
दीक्षातस्तत्वनिष्ठानां सदाचारवतां नृणाम्।
सिद्धान्तार्थविदग्धानां कालेन विगतात्मनाम्॥
शिवाग्निना दहेद्देहं किन्तु तस्य क्रिया न च।
अनाचारव्रतादीनामध्वशुद्धिर्विधीयते॥
दीक्षातस्तुत्तरे काले समयान् यस्तु लङ्घयेत्।
देवस्याथ गुरूणां च महापातकभाक् भवेत्।
अमुक्तसंशया ये च यो चान्ये समलात्मकः॥
तेषां पापापनोदार्थमन्त्येष्टिविहिता गुह।
सम्यम्यालयमाप्नोति समयादिविलङ्घनात्॥
शास्त्रान्तरं प्रपन्नानां तथा लुप्तक्रियेषु च।
अन्त्येष्टिर्यत्नतः कार्या नान्यथा परमाप्नुयात्॥
साधकाचार्यवर्याणां कुर्यादध्वविशोधनम्।
नैव तत् समयस्थस्य कुर्याद्वा मोक्षकाङ्क्षिणः॥
आचार्यः साधको वापि पुत्रकः समयी च वा।
व्रतीनां गृहिणां वापि मृतं संस्थाप्य भूषयेत्॥
कामिके -
यस्य प्राणवियोगाख्यः कालो जन्तोः समागतः।
विधाय स्नानमाग्नेयमन्त्रसन्नद्धविग्रहः॥
मुमुक्षोश्च यथा ज्ञेयं मन्त्रकायं विधाय च।
अष्टपुष्पिकया देवं पूजयित्वा मुमुक्षया॥
स्वकरोपकृताभ्यां तु कराभ्यां चन्दनादिभिः।
संस्थाप्य तस्य हृदये लिङ्गरूपं महेश्वरम्॥
स्पर्शयित्वाञ्जलिं तस्य मस्तके सन्निधाप्य च।
तदर्थमेतद्वाक्यं तु वदेत् देवेशसन्निधौ॥
दीक्षितोऽयं त्वया देव शिवाज्ञापरिपालकः।
नेयः शिवत्वमचिरात् सर्वलोकहिते रतः॥
एवं विज्ञाप्य देवेशं स्वस्थाने सन्निवेशयेत्।
एकधा बहुधा वापि क्रियामेनां समाचरेत्॥
पठेदुत्क्रान्तिसमये कर्णोपान्तेषु संहिताम्।
विशेषात् शिवमन्त्रं च मन्त्रं पञ्चाक्षरं तु वा॥
एतत् सर्वं विधेयं तत् देशिकेनेतरेण वा।
तत् गोत्रज्ञेन वान्येन वक्ष्यमाणं च कर्म यत्॥
अथोत्क्रान्त्या वान्यथा वा

(विपन्नस्य श्मशानप्रापणविधिः)
शयीभूतं गृहिणं संस्थाप्य विभूष्य सुश्लिष्टौ तदङ्गुष्ठौ श्वेतसूत्रेण बध्वा
वक्ष्यमाणप्रकारेण चूर्णोत्सवं च कृत्वा यज्ञीय
वृक्षकल्पिकायामासन्तिकायामारोप्य तां रक्तवस्त्राढ्ये पताकपुष्पमालालङ्कृते
स्वर्गसोपाने विमाने सारोप्य धूमसहितवह्निं पुरस्कृत्य
तत्तुल्यजातिभिः दीक्षितै अस्त्रजपत्भिः(द्भिः) समयस्तुण्डैर्धारयित्वा शङ्काहलतुर्यादि
निर्घोषैः साध्यं
मार्गे दिक्षु बलिं विकीर्य निशाचूर्णताम्बूललाजान्
विकीर्य उत्तरास्यामैशान्यामन्यत्र वा दिशि निकटोदकं श्मशानं प्राप्य
दक्षिणमस्तकमवतारयेत्।

(मण्टपनिर्माणविधिः)
तत नवहस्त सप्तहस्तप्रमाणं वा पूर्वोक्तवत्।
तोरणाद्यलङ्कारयुक्तनिर्मितमण्डपे करमानं चतुरश्रं षडङ्गुलोन्नतैकमेखलं
कुण्डं निर्माय तद्वायुकोणे षडङ्गुलोन्नतं करमानस्थण्डिलं
निर्मायाग्नेय्यां चतुर्हस्तदक्षिणोत्तराय तद्विहस्तविस्तारमष्टाङ्गुलगभीरं
षडङ्गुलगभीरं वा चिताखाभं कृत्वा ऐशान्यामस्त्रवर्धन्यासनार्थं वेदिं च

निष्पाद्य सर्वमेतत् गोमयेनोपलेपयेत्। कुण्डं दक्षिणतः कुर्यात् चिताघातं क्वचिन्मतम्।

(मण्टपपूजाक्रमः)
अथ गुरु स्नातः सकऴीकृत्य तोयपूर्णामस्त्रवर्धनीमादाय मौनीभूत्वा
अप्रदक्षिणं स्थण्डिलान्तं कृत्वास्त्रकृतकुशासने परिसौम्यास्य उपविश्य पाशुपतास्त्रेण
विघ्नानुच्चाट्यास्त्रेण हस्ततलं पृष्ठे विपरीतं संशोध्यामृतीकृत्य
करतलयोर्मूलादिचतुष्टयं विन्यस्य कनिष्ठादि सद्योजातादि क्रमेण कृत्वाङ्गुष्ठादि
अन्तादिक्रमेण च संहारिण्या संस्कृत्वा
कवचेनापसव्यमवकुण्ठ्य संहारक्रमेण परमीकृत्य
विहितदेहशुद्धि हृदये आनमूर्तिं विन्यस्य पादगुह्यहृदयमुखमूर्धसु सन्ध्यादि
ब्रह्माणि विन्यस्य विद्यादेहनेत्रमूलमन्त्रान् विन्यस्य हृदयादिकरान्तस्थानेषु
हृदयादिमन्त्रान्य(न्न्य)स्य तालत्रयपुरस्सरमस्त्रेण दिक्ब(ग्ब)न्धनं कृत्वा मूलेन
महामुद्रां दर्शयेत्। ततः विहितान्तर्यजनहवनध्यानस्थानशुद्धिं
विधायाय
सप्तास्त्रजप्तशस्त्राम्बुतोयैर्द्रव्याणि संशोध्य सद्यादिकया संहितया विशेषार्घ्यं च
कृत्वा द्रव्याण्याभ्युक्ष्यात्मपूजां कृत्वा मन्त्रशुद्धिं विधाय अध्वशुद्धिविषये
निवृत्यादिकला
संहारक्रमेण स्वदेहे विन्यस्य ब्रह्माङ्गं शिवं च विन्यसेत्। ततः शिवहस्तं
संहारक्रमेणाभ्यर्च्य स्व शिरस्यधिरोप्य शिवं स्मृत्वा पञ्चगव्यं च संहारक्रमेण

विधाय सम्प्रोक्ष्य चतुष्पथान्तसंस्कारैः संस्कृत्य कुशभस्मतिलादिनास्त्रमन्त्रेण
विकीर्य कुशं कूर्चिकया वर्धन्यासनायेशानकोणे वेदिकायां समूह्य वर्धन्यां
वूरिभूरितायां याम्यनाऴायां पूर्वोक्तवत् पाशुपतास्त्रं सम्पूज्य तत्तेजोभिरपसारिता
शेषविघ्नं मण्डपं विभाव्य ईशानाद्याशास्थितकलशेषु
त्रिशूलादिलोकपालायुधानि सम्पूजयेत्।
अथाप्रदक्षिणक्रमेणास्त्राम्बुधारया स्थानस्य परिरिक्षणं कृत्वा संस्थाप्य तत्र
वर्धनीं सम्पूज्यास्त्रं
चलासनेऽस्त्राङ्गान्यपि विपरीतक्रमेण सम्पूज्यास्त्रं चलासनेऽस्त्राङ्गान्यपि विपरीतक्रमेण
सम्पूज्य भो भो स्थानमिदं रक्ष कर्मावसानकम् इति
विज्ञाप्य। नहीतीशं स्थण्डिलान्तं समाचरेत्। अथैवं स्थण्डिले चैव तिलदर्भपरिष्कृते।
तिलाक्षतैः कृताम्भोजे भस्मलाजविराजिते॥
सप्तधा न्यस्थ ते कुम्भे सर्वशोभायुतेऽथवा।
कुशभस्मतिलैः कृत्वा स्थण्डिलोपरि रक्षणम्॥
अस्त्रेण द्वारपालादि हृदा सम्पूज्य तत्र तु।
मध्ये तिलाक्षतं भस्म कृते केवलपद्मे वा आधारशक्तिमनन्तं
चाभ्यर्च्य ईशानादिवह्न्यन्तकोणेषु ऐश्वर्यं वैराग्यं ज्ञानधर्मं चाभ्यर्च्य
उत्तरादिपूर्वान्तदिक्षु अनैश्वर्यमवैराग्यमज्ञानधर्मं
चाभ्यर्च्य ईशाननिरृतिकोणे यो रूध्वच्छदनमधच्छदनं चाभ्यर्च्य
कर्णिकायामीशानादि पूर्वान्त(न्ता)ष्टकेसरेषु मनोन्मन्यादिवामान्तशक्तिरभ्यर्च्य

कर्णिकामध्ये कर्णिकाग्रे केसराग्रे दऴाग्रे च। यथाक्रमं
शक्तिवह्निसोमसूर्यमण्डलानभ्यर्च्य शिवासनं शिवमूर्तिं विद्यादेहं चाभ्यर्च्य
पादादिमूर्धान्तं
सद्यादी विन्यस्य विद्यादेहनेत्राणि विन्यसेत्। अधाध्वशुद्धिविषये निवृत्यादिकलाः
पादादारभ्य विन्यसेत्। तनुमूलेन शिवमावाह्य पूर्ववत् स्थापनाद्युपचारैः
सम्पूज्य सद्योजातादिमन्त्रैर्लयाङ्गं सम्पूज्य प्रार्थ्य
भोगाङ्गानि संहारक्रमेण पूजयेत्।

(अग्निकार्यक्रमः)
तदनु कुण्डान्तिकं गत्वोपविश्य निरीक्षणादिचतुष्टयान्तसंस्कारैः
संस्कृत्य वागीशिवागीशाभ्यां नम इत्यासनं दत्वाभ्यर्च्य तयोः संयोगं विभाव्य
निरीक्षणादिसंस्कृतमग्निमप्रदक्षिणं त्रिः परिभ्राम्य वागीशीगर्भे निक्षिप्य हां
शिवबीजाय नमः। ततः शौचाचमने दत्वा गर्भाधानादिसंस्कारान् नित्यवदापाद्य
मेखलासु दर्भान् विपरीतक्रमेणास्तीर्य
तेषु
परिधिविष्टरानप्रदक्षिणपश्चिमाग्रान्विन्यस्य हः हुं फट् स्वाहेति लालापनुत्तये पञ्च
समिधो हुत्वा परिधीषुत्तरदक्षिणदक्षिणपश्चिमपूर्वदिक्षु अनन्तं रुद्रं विष्णुं विधिं
चाभ्यर्च्य
विष्टरेष्वीशानादिपूर्वान्तदिक्षु ईशानकुबेरवायुवरुणनिरुतित्रियमाग्नीन्द्रानैरुते
विष्णुमीशाने विधिं चाभ्यर्च्य अग्निशिशुं पालयिष्यथेति शिवाज्ञां श्रावयित्वा

स्रुक्स्रुवौ निरीक्षणादि चतुः संस्कारं संस्कृत्यास्त्रेण प्रोक्षितावस्त्रप्रदक्षिणं त्रिः
परिभ्राम्य पूर्ववत् संस्कृत्याज्यसंस्कारवक्त्राभिघारवक्त्रसन्धानव
क्त्रैकीकरणनामकरणपूर्णावीगीशीवागीशविसर्जनान्तं कर्म पूर्ववत् कृत्वा वह्निहृदये
स्थण्डिल इव विपरीतक्रमेण शिवं साङ्गं विपरीतमावाह्याभ्यर्च्य
मन्त्रतर्पणं विहाय पूर्णां दत्वा देशकालाद्यर्थं द्रव्यकालानुरोधेन
यथाशक्ति मूलेन हुत्वा मन्त्रसंहितां सन्तर्प्य सन्दीप्य पूर्णां दद्यात्।

(वास्तुपूजादिः)
पश्चाश्चितावदेव
प्रागुदगग्रैः षट्भिः(ड्भिः) सूत्रैः पञ्चविंशतिकोष्ठं कृत्वा वंशरज्जुसमन्वितं
कृत्वा तत्र वास्तुं यथारूपं ध्यात्वा सम्पूज्य तन्मध्यपञ्चकोष्ठानि
पीतरजसा विभूष्य नैरुतकोष्ठचतुष्टयं श्वेतरजसा, वह्निस्थकोष्ठचतुष्टयं
रक्तरजसा, वायुस्थकोष्ठचतुष्टयं कृष्णरजसा, ईशस्थकोष्ठचतुष्टयं श्वेतरजसा
विभूष्य चत्वारि पूर्वादीनि कोष्ठक्रमात्

पीतकृष्णसितरक्तरजोभिः पूरयेत्। तदनु – हां पृथिवीतत्वाय नमः। हां
पृथिवीतत्वाधिवाय ब्रह्मणे नम इति मध्ये हाम् अप्तत्वाय नमः। हाम् अप्तत्वाधिपाय
विष्णवे नम इति
नैरुते। हां तेजस्तत्वाय नमः। हां तेजस्तत्वाधिपाय रुद्राय नम इति आग्नेय्यां हां
वायुतत्वाय नमः। हां वायुतत्वाधिपाय ईश्वराय नमः। इति वायव्ये
हाम्
आकाशतत्वाय नमः। हाम् आकाशतत्वाधिपाय सदाशिवाय नमः। इति ईशाने। सम्पूज्य हाम्
इन्द्राय नमः। हां यमाय नमः। हां वरुणाय नमः। हां कुबेराय नमः।
इत्यवशिष्टकोष्ठेषु सम्पूज्य घृताक्तं माषभक्तं तेभ्यो बलिं दद्यात्।

(चितास्थाने कर्तव्यकर्माणि)
अथ बलिं प्रमृज्य कुण्डवत् संस्कृते तत्र पीतरजसा चतुरश्रमण्डलं तन्मध्ये
रक्तरसजा
त्रिकोणमण्डलं च कृत्वा चतुरश्रे हां ब्रह्मणे नमः। त्रिकोणे हां कालाग्निरुद्राय नम
इति। सम्पूज्य। कीलकान् शुष्कानूर्ध्वमूलानधोमुखानस्त्रेण सप्तधा जप्तान्
अग्नीशानिलरक्षसान्दिक्ष्वारोप्यापसव्येन रक्तसूत्रेण विष्टयेत्। ततः कवचेन
चन्दनादिमिश्रितैः या
ओज्ञिकैरिन्धनैश्चितिमापूर्यास्त्रेण सम्पूज्य
दक्षिणाग्रेण वस्त्रेण चाच्छाद्य हां चिताये नम इत्यभ्यर्च्य भस्मदर्भकुलैर्हुं
फडन्तास्त्रेण रक्षां विलोमतः कृत्वा चिता निमित्तं वास्तुपते तावाहनुत्वत् वास्तुगता देवान्
नाभौ
सन्तर्पयेत्।

(प्रेतसंस्नापनादिः)
ततः शिवं पञ्चगव्यमृत्गो(द्गो)मयाम्भोभिः प्रक्षाऴ्यास्त्रेण शिवाम्भसा संस्नाप्य
सन्द्यादिमन्त्रैः पदादिक्रमेण भस्मनोद्धूऴ्य
कौपीनाहतवाससु परिवर्त्य पूर्वजात्यनपेक्षाय यज्ञोपवीतं दत्वा कुण्डस्य दक्षिणपार्श्वे
प्रणवासने कुशविष्टरे निवेशयेत्।

(कुशनिर्मितशरीरकर्तव्यविधिः)
अत्रान्तरे साधनादिवैकल्यात्
देशान्तरमरणेन च तत्काले प्रेतसम्मुखे अन्त्येष्ट्यभावदुर्मरणयुक्तस्य
वक्ष्यमाणकालान्तरादूर्ध्वं प्रायश्चित्तपुरस्सरमन्त्येष्टेर्विहितत्वाच्च त्रयाणां
कुशादिनिर्मिते
देहे मृतकदीक्षायां साधिपषट्त्रिंशतत्वन्यासादि कुर्यात्।

(शिवलोकसंयोजनादि)
ततः मृतशरीरं कुशादिनिर्मितशरीरं वा निरीक्षमाणादिचतुष्टयेन संस्कृत्य
भूतशुद्धि ॥॥॥। धारणादिभिः देहं
विशोध्याप्लाव्य गन्धपुष्पादिना हृदये आसनमभ्यर्च्य विभुत्वेऽप्यात्मनः
सूक्ष्मदेहावच्छिन्नत्वेन यातायातसम्भवात् हं हां हं हां हुम् अमुकनाम
सञ्ज्ञात्मने नम इति। महाजालप्रयोगेण प्रारब्धकर्म नाशे सति
चर्यादिसमयाचारवैकल्यात्
शिवसालोक्यादि प्राप्त्यनुपपन्नत्वात्। पुर्यष्टकदेहे पाषाणवत्
ज्ञानहीनं केवलावस्थितमात्मानं संहारकमुद्रया हुं फडन्तास्त्रेण सङ्गृह्य स्व
हृदि पूरकेण निवेश्य कुम्भकेन विश्रम्य रेचकेन शवहृदयपत्मे(द्मे) विन्यस्य
मूलेनाहुतित्रयं दत्वा मलादिपाशत्रयं सम्भाव्य पादादिक्रमेण सद्यादिब्रह्माणि
विद्यादेहं च विन्यस्याध्वशुद्धिवषये जानुनाभिगलभ्रूब्रह्मरन्ध्रेषु
निवृत्यादिकला
विन्यस्याधिष्ठातृत्वेन शिवाङ्गानि च विन्यस्य चैतन्यसन्निधानार्थं मूलेन शतं जुहुयात्
ततो नाडीसन्धानाय तत्सन्निधानाय मूलेनाहुतित्रयं जुहुयात्। ततः
शवशरीरस्थचैतन्यं
पूर्ववत् गृहीत्वा स्व हृदयमानीय सप्तविषुवं ध्यात्वा पूर्णया शिवलोके सम्पूज्य
स्थण्डिलस्थशिवं वह्निस्थशिवेन संयोज्य
मूलेनाष्टोत्तत्तरशतं
पूर्णान्तं हुत्वा शिवं विसर्जयेत्। ततः शवं चितायामारोप्य शिवाग्निना
सन्दीप्यान्यद्वक्ष्यमाणवत् कुर्यात्।

(विशेषान्त्येष्टिः)
विशिष्टसमयिनः पूर्वोक्तवत् सर्वं विधायाग्निं नाडीसन्धानान्तं
सर्वं विधायाग्निहृदयपत्मे(द्मे) वागीशीवागीशावभ्यर्च्य तत्सन्निदानार्थं
प्रत्येकमाहुतित्रयं दत्वा संसृष्टौ तौ सम्भाव्य शवमस्त्रेण
सम्प्रोक्ष्य हः हुं फडिति हृत्प्रदेशे सपुष्पनाराचमुद्रया सन्ताड्य आत्मनो रेचकेण
हुङ्कारेण तस्य देहे प्रविश्य हुं हां हं हां ह्रूं हः हुं फडिति
ज्येष्ठया वियोज्य
हां हं हां स्वधाहेत्यङ्कुशमुद्रया तद्द्वादशान्तं नीत्वा तृणाग्रबिन्दुरूपं जीवं
सञ्चिन्त्य नमोन्तेनात्ममन्त्रेण संहारमुद्रया सङ्गृह्य पूरकवृत्या स्व
हृदि सन्निवेश्य कुम्भकं कृत्वा मूलमन्त्रमनुस्मरन्
ब्रह्मादिकारणत्यागक्रमेणात्ममन्त्रेण द्वादशान्तं नीत्वा सङ्गृह्य स्वनाड्या निस्सार्य
पवित्रों(त्रं) संयोगं विभाव्य
वामयोद्भवमुद्रया आत्ममन्त्रेण वागीश्वर्या
संयोज्य मूलेन शतं सहस्रमर्धं वा हुत्वात्मानं पूर्णया
ईश्वरपदाधिष्ठायकशिवसमीपे संयोज्य वागीश्वरीवागीश्वरौ
सन्तर्प्य विसृज्य प्रायश्चित्तार्थमस्त्रेणाष्टाधिकं शतं हुत्वा स्थण्डिलेशं वह्निस्थेन
संयोज्य शिवं विसृजेत्। ततः शवं दक्षिणमस्तकं चितायामारोप्य
पटेनाच्छाद्य सन्दिन्धिनैराच्छाद्य कुण्डमध्यजातशिवाग्निना प्रज्वाल्य शिरो देशे
स्थितसर्पिमधुपयः।
पूर्णां स्रुवां स्रुचमुत्क्षिप्य पूर्णामेवं वाक्यमुदीरयन्।
क्षिपेत्।
त्वमग्ने दक्षिणः कालः कालेनैवोपपादिताम्।
गृहाणामन्त्रसम्भूतां शाव्यामेनां महाहुतिम्। इति
ततोऽस्त्रवर्धनीं वामस्कन्धेऽधिरोप्य
धारामखण्डिताम्। पराङ्मुखीं विमुञ्चन्नप्रदक्षिणं भ्रामयित्वा स्व स्थानो
अधोमुखीं निक्षिप्य पश्चादनवलोकयन् जलाशयं गत्वा स्नात्वा तीरे
कुशानास्तीर्य त्रीन्निवापाञ्जलीं दद्यात्। हां शुद्धा भव स्कन्दो भव स्वधा हां
शुद्धात्मन् चण्डो भव स्वधा हां शुद्धात्मन् गणाधीशो भव स्वधा। इति
पुनस्नानप्रायश्चित्तार्थं जपेत्।

॥ अथ शुद्धसहितान्त्येष्टिः ॥
पूर्ववत् नाडीसन्धानान्तं कर्म निर्वर्त्य निर्वाणदीक्षायामिव त्रिगुणं
त्रिगुणीकृतं पाशसूत्रं कर्तरिसहितमस्त्रप्रक्षाऴितं प्रोक्षितम्। कवचावकुण्ठितं
सम्पाद्य शिवं विज्ञाप्य चरणाङ्गुष्ठात् प्रभृति शिखायां मूलेनाबध्य सुषुम्नामये
तस्मिन् लं सुषुम्नायै नम इति इडा पिङ्गलैक्येन सुषुम्नां सङ्गृह्य
सूत्रेण संयोज्याभ्यर्च्यावकुण्ठ्य सन्निधानाहुतित्रयं दत्वा
शिष्यमस्तके शक्तिमन्त्रेणाभ्यर्च्यादाय सूत्रे विन्यस्य सम्पूज्यावकुण्ठ्य
सन्निधानाहुतित्रयं दत्वा
शिष्यमस्त्रेण सम्प्रोक्ष्य हः हुं फडिति पुष्पेण संहृदि सन्त्ड्यात्मनो रेचकेण निर्गत्य
हुङ्कारेण तद्वामनाड्या पूरकेण तस्य हृदये प्रविश्य
तत्र हंसबीजस्थं चैतन्यं सञ्चिन्त्य हां हं हां हः हुं फडिति ज्येष्ठाया वियोज्य
हां हं हां स्वाहेत्यङ्कुशमुद्रया चोत्कृष्य
तद्वादशान्तं
नीत्वा त्रिगुणाग्रबिन्दुरूपं जीवं सञ्चिन्त्यात्ममन्त्रेण संहारमुद्रया सङ्गृह्य
पूरकेण स्व हृदि सन्निवेश्य कुम्भकं कृत्वा मूलमन्त्रमनुस्मरन्नात्मन्त्रेण
ब्रह्मादिकारणत्यागक्रमेण द्वादशान्तं नीत्वा सङ्गृह्य सृष्ट्या
भ्रूमध्यमानीयात्मदक्षिणनाड्या रेचकेण निस्सार्य तेनैव नमोन्तेन सूत्रे संयोज्य
व्यापकं सम्भाव्यावकुण्ठ्य सन्निधाय
मूलेनाहुतित्रयं दद्यात्। ततो मलकर्म मायापाशत्रयमादाय संयोज्य पाशाधिष्ठात्र्यै
शिवशक्तये नम इति सङ्गृह्य
सूत्रस्थे संयोज्याभ्यर्च्य सन्निधानाहुतित्रयं दत्वा ह्लां निवृत्तिकलायै नम इति
तत्वादिगर्भितां निवृत्तिकलामवलोक्य
ह्लां निवृत्तिकलायै हुं फडिति जान्वधः पुष्पेण सन्ताड्य संहारमुद्रया सङ्गृह्य
ह्लां निवृत्तिकलायै नम इति सूत्रे निवृत्तिस्थाने

संयोज्याभ्यर्च्य सन्निधानाहुतित्रयं दद्यात्। ततः ह्लीं प्रतिष्ठाकलायै नम इति
तत्वादिगर्भितां प्रतिष्ठाकलामवलोक्य हुं फडन्तेन नाभ्यधः सन्ताड्य गृहीत्वा
नमोन्तेन सूत्रे प्रतिष्ठाकलास्थाने निवेश्याभ्यर्च्य सन्निधानाहुतित्रयं दद्यात्। ह्रूं
विद्याकलायै नम इति तत्वादिगर्भितां विद्याकलामवलोक्य हुं फडन्तेन गऴादधः
सन्ताड्य सङ्गृह्य
नमोन्तेन सूत्रे तत्स्थाने न्यस्याभ्यर्च्य सन्निधानायाहुतित्रयं दद्यात्। ह्यैं शान्तिकलायै
नम इति। तत्वादिगर्भितां शान्तिकलामवलोक्य हुं
फडन्तेन भ्रूमध्या(दध)स्सन्ताड्य सङ्गृह्य नमोन्तेन सूत्रे तत्स्थाने विन्यस्य
सन्निधानाहुतित्रयं दद्यात्। हौं शान्त्यतीतकलायै नम इति। तत्वादिगर्भितां
शान्त्यतीतामवलोक्य हुं फडन्तेन ब्रह्मरन्ध्रादधः
सन्ताड्य सङ्गृह्य नमोन्तेन शान्त्यतीतस्थाने सूत्रे संयोज्य सम्पूज्य
सन्निधानाहुतित्रयं जुहुयात्।
एवमवशिष्टां जात्यायुर्भोगादिसमयाचारबीजसहितं कलास्थाननामान्तं स्मृत्वा
क्रमेण स्वाहान्तैस्तिसृभिः आहुतिभिः सन्तर्प्य हूं ह्लां हूं निवृत्तिकलायै हुं
फडिति क्रमेणैव दीवनं विधाय कुङ्कुमादिना कलास्थानेषु सम्मृज्य तस्मिन् साङ्गं
शिवं सम्पूज्य हः हुं
फडिति जान्वधः सूत्रं सम्पृष्ट्वा नाराचमुद्रया सन्ताड्य
नमोन्तेन कलामन्त्रेण प्रविश्य गृहीत्वा त्राहुतीर्दत्वा हौं ह्लां हौं भगवन्निवृत्तिकला
पाशं मलकर्म मायातत्वभुवनादिव्यापकं बन्ध बन्ध हुं फडिति सूत्रे ग्रन्धिं
कुर्यात्।
ततो नाभावस्त्रेण सन्ताड्य ह्लीं प्रतिष्ठाकलायै नमः। इत्यनेन प्रविश्य गृहीत्वा
स्वाहान्तेनाहुतिर्दत्वा हौं ह्लीं हौं भगवन् प्रतिष्ठाकला पाशम्।

मलकर्म मायातत्वभुवनादिव्यापकं बन्ध बन्ध हुं फडिति सूत्रे ग्रन्धिं कुर्यात्।
पश्चात् गऴे अस्त्रेण सन्ताड्य हुं फडाक॥।यै नम इति प्रवेशग्रहण कृत्वा स्वाहान्तेन
आहुतित्रयं दत्वा हौं ह्रूं हौं भगवन् विद्याकलापाशं
मलकर्ममायातत्वभुवनादिव्यापकं बन्धबन्ध हुं फडिति सूत्रे ग्रन्धिं कुर्यात्।
तदनु - ललाटप्रदेशे पुष्पास्त्रेण सन्ताड्य ह्यैं शान्त्यतीतकलायै नम

इति। प्रविश्य गृहीत्वा स्वाहान्तेन त्र्याहुतीर्दत्वा हौं ह्यैं हौं भगवन् शान्तिकलापाशं
तत्वभुवनादिव्यापक बन्ध-बन्ध हुं फडिति सूत्रे ग्रन्थिं कुर्यात्। ततः
शिरसि हः हुं फडिति पुष्पेण सन्ताड्य हौं शान्त्यतीतकलाख्ये नम इति। प्रवेशग्रहणे
विधाय स्वाहान्तेनाहुतित्रयं दत्वा हौं भगवन् शान्त्यतीतकलापाशं
तत्वभुवनादिव्यापकं
बन्धबन्ध हुं फडिति सूत्रे ग्रन्धिं(न्थिं) विधाय प्रायश्चित्ताय मूलेन शतहोमं
कुर्यात्। ततोऽग्नावाधारशक्ति सम्पूज्याहुतित्रयं दत्वा शिष्यस्य
सूत्रे देहे जान्वधो निवृत्तिकलामवलोकयेत्।
(निवृत्तिकलाशुद्धिः)
तदनु – हां ह्लां हां निवृत्तिकलापाशाय नमः। हां ह्लां हां पृथिवीतत्वाय नमः।
हां ह्लां हां
कालाग्न्यादिभद्रकाल्यन्त अष्टोत्तरशतभुवनेभ्यो नमः। हां ह्लां हां क्षवर्णाय
नमः। हां ह्लां हाम् अकारपिण्डजाग्रत् गृहीतेभ्यः
ओङ्कारादिभवभवान्ताष्टविंशपदेभ्यो नमः। हां ह्लां हां
हृदयसद्योजातमन्त्राभ्यां नमः। हौं हां ह्लां लबीजाय नमः। हां ह्लां
गन्धविषयाय
नमः। हां ह्लां हां
गन्धादिशब्दादिशब्दान्तपञ्चगुणेभ्यो नमः। हां ह्लां हां पृथिवीमण्डलाय पीताय
वज्राङ्काय चतुरश्राय शतकोटियोजनप्रमाणाय नमः। हां ह्लां हां ब्रह्मकारणाय
नम इति
हेमाभानभ्यर्च्य पूरकसंहारिण्यादाय जान्वादिपादाङ्गुष्ठान्तसूत्रे संयोज्याभ्यर्च्य
निरुध्यावकुण्ठ्याग्नावप्यभ्यर्च्य सन्निधानाय पञ्चाहुतीर्जुहुयात्।

ततः पाशत्रयं मलकर्माधाररूपम्। भोक्तृत्वभोगशरीरादिजनकं विभाव्य हां
ब्रह्मणे नम इति ब्रह्माणमावाह्य सम्पूज्याहुतित्रयं दत्वा विज्ञाप्य तस्यां
कलायां योनिरन्ताः सङ्कल्प्य व्यापी(पि)नीं वागीश्वरीमावाह्याभ्यर्च्य सन्निधाप्य
वागीश्वरं च सम्पूज्य पूर्ववत् ध्यात्वावाह्याभ्यर्च्य सन्निधानाहुतिं दत्वा
भगवन्तं पशोरनुग्रहाय सन्निधी भवतामिति प्रोक्ष्य
शिष्यमस्त्रेण सम्प्रोक्ष्य हः हुं फडिति हृद्देशं पुष्पेण सन्ताड्य रेचकेण तस्य देशे
हुङ्कारेण
प्रविश्य हां हं हां हः हुं फडिति ज्येष्ठया वियोज्य हां हं हां
स्वाहेत्यङ्गुशमुद्रया सङ्गृह्य पूरकेण स्व हृदि सन्निवेश्य कुम्भकं कृत्वा
मूलमन्त्रमनुस्मरन् हां हं हां
आत्मने नम इति ब्रह्मादिकारणत्यागक्रमेण द्वादशान्तं नीत्वा सङ्गृह्या(ह्य) पित्रोः
संयोगं विभाव्य
वामयोत्भ(द्भ)वमुद्रया हां हं हां हाम् आत्मने नम इति कर्मानुरूपं
सर्वयोनिष्वनेकव्यक्तिरूपेणात्मने युगपत् संयोगं कृत्वा मूलेन सम्पूज्याहुतित्रयं
दत्वा विज्ञाप्य सर्वगर्भनिष्पत्तये मूलेनाहुतित्रयं
दत्वा प्रार्थ्य भोगाधिकारार्थं सर्वशरीराणां युगपद्वृद्धिं सम्भाव्य
सर्वयोनिशरीरेषु पूर्वार्जितकर्मणो भागादायकं
भावयित्वा मूलेनाहुतित्रयं हुत्वा
विज्ञाप्य देशकालशरीरे विषयभेदेन नानारूपं भोक्तृत्वलिङ्गानात्मनि
सुखदुःखवेदनात्मकं भोगं च सञ्चिन्त्य
मूलेनाहुतित्रयं दत्वा विज्ञापयेत्। अत्रावसरे मृतकदीक्षायां गर्भाधानादीन्
षोडशसंस्कारान् पूर्वाश्रमाननप्रेक्ष्य पूर्वोक्तवत् जहुयात्।
भोग्येषु परमप्रीतिरूपं लयमनुसन्धाय मूलेनाहुतित्रयं दत्वा विज्ञाप्य स्रोतसां
शुद्धये मूलेनाहुतित्रयं दत्वा
मायाकार्यारम्भप्रवाहशुद्धये।
प्रार्थ्य निवृत्तितत्वशुद्धौ हृदाहुतित्रयं कृत्वा निष्कृत्यर्थं प्रायश्चित्तार्थं सहृदा
मूलेनाहुतिशतं हुत्वा विज्ञाप्य मायेयपाशविश्लेषं सम्भाव्य मूलेनाहुतित्रयं दत्वा
मलतिरोधानार्थं मूलेनाहुतिशतं हुत्वा समलाद्विशेषं सङ्कल्प्य
पुनर्मूलेनाहुतित्रयं जुहुयात् निवृत्तिकलाभुवननिष्ठकर्मणो भावरूपं विश्लेषं
सम्भाव्य मूलेनाहुतित्रयं दत्वा

भगवन्नस्यात्मनो निवृत्तिकलाव्याप्तमायामलकर्मरूपस्य पाशत्रयस्य विश्लेषं कुरु
कुर्विति विज्ञापयेत्। तदनु – सप्तधास्त्रजप्तया कर्तर्या हां
निवृत्तिकलापाशाय हः हुं फडिति सस्वरं निवृत्तिकलापाशं छित्वास्त्रेण विमृज्य
वर्तुऴीकृत्य घृतपूर्णायां स्रुचि धृत्वाज्यसहितं तेनैव मन्त्रेण
हुत्वा दहेत्। भगवन्नस्यात्मनो निवृत्तिकलापाशच्छेदं कुरुकुर्विति विज्ञाप्य
पाशाङ्कुशनिवृत्तये हुं फडन्तेनाहुतिपञ्चकं हुत्वा
प्रायश्चित्तार्थमस्त्रेणाष्टाहुतीर्हुत्वा
अशेषशरीरं विनाशे चैतन्यस्यैकत्वं सम्भाव्य ब्रह्माणमावाह्य सम्पूज्याहुतित्रयं
दत्वा। पुर्यष्टकविशुद्ध्यर्थं हां ब्रह्मन् शब्दस्पर्शौ शुष्कं गृहाण
स्वाहेत्याहुतित्रयं दत्वा। विज्ञापयेत्। भो भो ब्रह्मन् त्वया नास्य धातुः पदमनामयम्।
प्रतिबन्धो विधातव्य इत्याज्ञापारमेश्वरीति।
ब्रह्माणं विसृज्य
राहुमुक्तैकदेशचन्द्रबिम्बसदृशं निवृत्तिकलाजालनिर्मुक्तमात्मानं सञ्चिन्त्य उद्धाराय
मूलेनाहुतित्रयं दत्वा विज्ञापनपूर्वं हां हं हाम् आत्मने नम इति
रौद्र्यात्मानमग्नेरुद्धृत्य
वामया पूरकेण राहुमुक्तैकदेशचन्द्रबिम्बसदृशं निवृत्तिकलामात्मानं स्व
हृदयमानीय रेचकेणोद्भवमुद्रया शिष्यस्य सूत्रदेहे युज्य सम्पूज्याप्यायनाय

वौषडन्तमूलेनार्घ्यजलबिन्दुं शिरसि दत्वा स्थिरीकरणाय मूलेनाहुतिं दत्वा पितरौ
सम्पूज्याहुतित्रयेण सन्तर्प्यार्घयित्वा विसृज्य वौषडन्तमूलेन पूर्णां दद्यात्।
॥ इति निवृत्तिकलाशुद्धिः॥

(प्रतिष्ठाकलाशुद्धिः)
ततः कालसन्धानं विधेयं ह्लां हां निवृत्तिप्रतिष्ठाकलाभ्यां नम इति
सम्पूज्याहुतित्रयं दत्वा शुद्धमशुद्धे विलीनं सम्भाव्य प्रतिष्ठाकलामुपस्थापयेत्।

ततोऽग्नावाधारशक्तिं विन्यस्य सम्पूज्याहुतित्रयं दत्वा सूत्रदेहे प्रतिष्ठाकलास्थाने
तद्व्याप्तिं भावयेत्। हां ह्लीं हां प्रतिष्ठाकलापाशाय नमः। हां
ह्लीं हां जलादिचित्तान्तत्रयोविंशतितत्वेभ्यो नमः। हां ह्लीं हाम् ओङ्कारान्ते
श्रीकण्ठान्तषट्पञ्चाशत् भुवनेभ्यो नमः। हां ह्लीं हां सुषुम्ना
हकारादिअकारान्तत्रयोविंशति वर्णेभ्यो नमः। हां ह्लीं हाम् उकारसुस्वप्नान्वितेभ्यो
शर्वेत्यादिव्यापिन्नन्तद्वात्रिंशत्पदेभ्यो नमः। हां ह्वीं हिं ह्वीं हां
शिरोवामदेवमन्त्राभ्यां नमः। हां ह्वीं हां वं बीजाय नमः। हां ह्वीं हां
सुमनागान्धारी नाडीभ्यां नमः। ह्लां ह्वीं हां समानोदानवायुभ्यां नमः। हां
ह्वीं हां
पायुजिह्वेन्द्रियाभ्यां नमः। हां ह्लीं हां रसविषयाय नमः।
हां ह्वीं हां रसरूपस्पर्शशब्दगुणेभ्यो नमः। हां ह्लीं हाम् अम्मण्डलाय श्वेताय
द्रव्यात्मने अर्धचन्द्राकाराय सहस्रकोटियोजनप्रमाणाय नमः। हां ह्लीं हां
विष्णुकारणाय
नम इति। शुभ्राण्यभ्यर्च्य पूरकसंहारिण्यादाय नाभ्यन्तजानुसूत्रे संयोज्याभ्यर्च्य
निरुध्यावकुण्ठ्यावग्नावभ्यर्च्य सन्निधानाय
पञ्चाहुतीर्जुयुयात्। तदनु – पाशत्रयं
मलकर्ममायारूपं भोक्तृत्वशरीरादिजनकं विभाव्य हां विष्णवे नम इति।
विष्णुमावाह्याभ्यर्च्य सन्निधानाहुतित्रयं दत्वा विज्ञाप्य तस्यां कलायामनेकरूपयोनीः

सङ्कल्प्य तद्व्यीपिकां वागीश्वरीं च पूर्ववदभ्यर्च्य सन्निधाप्य सन्निधये प्रार्थ्य
शिष्यमस्त्रेण सम्प्रोक्ष्य हुं फडन्तेन पुष्पेण हृदये सन्ताड्य तद्देहे प्रविश्य हुं

फडन्तेनात्ममन्त्रेण ज्येष्ठया वियोज्य स्वाहान्तेनाङ्कुशमुद्रया चोत्कृष्य
तद्द्वादशान्तं नीत्वा शिवं सञ्चिन्त्यात्ममन्त्रेण संहारमुद्रया स्व हृदि सन्निवेश्य
कुम्भकं कृत्वा
मूलमन्त्रमनुस्मरन्नात्ममन्त्रेण ब्रह्मादिकारणत्यागक्रमेण द्वादशान्तं नीत्वा
सङ्गृह्य दक्षिणनाड्या निस्सार्य पित्रोः संयोगं विभाव्य वामयोत्भ(द्भ)वमुद्रया
आत्ममन्त्रेण

सर्वयोनिष्वनेकवृत्तिरूपेणात्मनो युगपत् संयोगं कृत्वा सम्पूज्य मूलेन
सर्वगर्भाधानाहुतित्रयं दत्वा विज्ञाप्य सर्वगर्भनिष्पत्तये मूलेनाहुतित्रयं दत्वा
विज्ञाप्य सर्वगर्भनिष्पत्तये मूलेनाहुतित्रयं
दत्वा विज्ञाप्य जनतार्थं मूलेनाहुतित्रयं विधाय विज्ञाप्यधिकारार्थं मूलेनाहुतित्रयं
हुत्वा तदर्थं विज्ञाप्य भोगार्थं मूलेनाहुतित्रयं दत्वा विज्ञाप्य
लयाहुतित्रयं मूलेन

विज्ञाप्य स्रोतसां शुद्धये मूलेनाहुतित्रयं दत्वा। प्रार्थ्य प्रतिष्ठातत्वशुद्धौ
हृदाहृतित्रयं कुर्यात्। निष्कृत्यर्थं सशिरसा मूलेनाहुतिशतं हुत्वा विज्ञाप्य
मायेयपाशाद्विशेषं
सम्भाव्य मूलेनाहुतित्रयं हुत्वा मलतिरोधानार्थं मूलेनाहुतिशतं हुत्वा।
मलाद्विश्लेषं सङ्कल्प्य पुनर्मूलेनाहुतित्रयं कृत्वा प्रतिष्ठाकलाभुवनि(ने)षु
कर्मणो भावरूपं विश्लेषं सम्भाव्य
मूलेनाहुतित्रयं हुत्वा भगवन्नस्यात्मनोः प्रतिष्ठाकलाव्याप्तमायामलकर्म ॥॥॥
पाशत्रयस्य
विश्लेषं कुरु कुर्विति विज्ञाप्य सप्तधास्त्रजप्तया कर्तर्या ह्वीं प्रतिष्ठाकलापाशाय हः हुं
फडिति सस्वरं प्रतिष्ठाकलापाशं छित्वास्त्रेण विमृज्य वर्तुऴीकृत्य
घृतपूर्णया स्रुचि विन्यस्य तेनैव मन्त्रेण हुत्वा दर्व्या भगवन्नस्यात्मनः
प्रतिष्ठाकलापशच्छेदं कुरु कुर्विति
विज्ञाप्य पाशाङ्कुशनिवृत्तये हुं फडन्तास्त्रेणाहुतिपञचकं हुत्वा
प्रायश्चित्तार्थं (अ)स्त्रेणाष्टाहुतीं कृत्वा अशेषशरीरविनाशे चैतन्य एकत्वं विभाव्य
विष्णुमावाङ्याभ्यर्च्याहुतित्रयं दत्वा पुर्यष्टकविशुद्ध्यर्थं हां विष्णोरसं शुष्कं
गृहाण
स्वाहेत्याहुतित्रयं दत्वा। विज्ञापयेत्।

भो भो विष्णु त्वया नाड्य(स्य) यातुः पदामनामयम्।
प्रतिषेधो विधातव्य इत्याज्ञा परमेश्वरी॥
इति विष्णुं विसृजेत्। ततः प्रतिष्ठ(ष्ठा)कलाजालनिर्मुक्तमर्धं
राहुमुक्तचन्द्रसदृशमात्मानं विचिन्त्योद्धाराय मूलेनाहुतित्रयं दत्वा विज्ञाप्य
रौद्र्याग्नेरात्मानमुद्धृत्य वामया
पूरकेणार्धराहुमुक्तचन्द्रसदृशमात्मानमात्महृदयमानीय रेचकेणोद्भवमुद्रया
शिष्यदेहसूत्रे देहे योज्याभ्यर्च्याप्यायनायार्घ्यजलबिन्दुं शिरसि दत्वा स्थिरीकरणार्थं
मूलेनाहुतित्रयं

दत्वा पितरौ सम्पूज्य सन्तर्प्य विसृज्य वौषडन्तमूलेन पूर्णां दद्यात्। ॥ इति
प्रतिष्ठाकलापाशशुद्धिः ॥

(विद्याकलाशुद्धिः)
॥ ततः कलासन्धानम् ॥
ह्वीं ह्रूं प्रतिष्ठाविद्याकलाभ्यां नम इति
समभ्यर्च्याहुतित्रयं दत्वा शुद्धमशुद्धे लीनं सम्भाव्य। विद्याकलामुपस्थापयेत्।
हाम् आधारशक्तये नम इति शक्तिमग्नौ सम्पूज्याहुतित्रयं दत्वा सूत्रदेहे विद्याकलास्थाने

तद्व्याप्तिमवलोकयेत्। हां ह्रूं हां विद्याकलापाशाय नमः। हां ह्रूं हां
पुरुषत्वादिमायान्तसप्ततत्वेभ्यो नमः। हां ह्रूं हां
को(क्रो)धेशादिगोपद्यन्तसप्तविंशति भुवनेभ्यो
नमः। हां ह्रूं हां ञकारादिघकारान्तसप्तवर्णेभ्यो नमः। हां ह्रूं हां
मकारसहितसुषुप्तिसहितेभ्यः व्योम्न्यन्नादि ओमित्यन्त एकविंशतिपदेभ्यो नमः। हां ह्रूं

॥॥॥।घोरमन्त्राभ्यां नमः। हां ह्रूं हां रबीजाय नमः। हां ह्रूं हां
स्तितजिह्वापूषानाडीभ्यां नमः। हां ह्रूं हां नागव्यानवायुभ्यां नमः। हां ह्रूं
हां

पाणिचक्षुरिन्द्रियाभ्यां नमः। हां ह्रूं हां रूपविषयाय नमः। हां ह्रू हां
रूपस्पर्शशब्दगुणेभ्यो नमः। हां ह्रूं हां वह्निमण्डलाय रक्ताय दाहात्मने
स्वकाङ्गाय
त्र्यश्राय अयुतकोटियोजनप्रमाणाय नमः। हां ह्रूं हां रुद्रकारणाय नम इति।
भास्कररक्तानभ्यर्च्य पूरकसंहारिण्यादाय हृदयादिनाभ्यन्तसूत्रे संयोज्याभ्यर्च्य

निरुध्यावकुण्ठ्याग्नावभ्यर्च्य
सन्निधानाय पञ्चाहुतीर्जुहुयात्। तदनु – पाशत्रयं मलकर्म मायारूपं
भोक्तृत्वशरीरादिजनकं विभाव्य रुद्राय नम इति रुद्रमावाह्याभ्यर्च्य
सन्निधानाहुतित्रयं हुत्वा विज्ञाप्य तस्यां कलायामनेकरूपा योनिः सङ्कल्प्य
तद्व्यापिकां वागीश्वरीं वागीश्वरं च पूर्ववदभ्यर्च्य सन्निधाप्य सन्निधये प्रार्थ्य
शिष्यमस्त्रेण
सम्प्रोक्ष्य ताडनादिक्रमेण पूर्ववत् गृहीत्वा पित्रोः
संयोगं विभाव्य वामयोत्भ(द्भ)वमुद्रयात्ममन्त्रेण
सर्वयोनिष्वनेकव्यक्तिरूपेणात्मनो युगपत् संयोगं
कृत्वा मूलेनाहुतित्रयं दत्वा विज्ञाप्य सर्वगर्भनिष्पत्तये मूलेनाहुतित्रयं दत्वा प्रार्थ्य
जननार्थं मूलेनाहुतित्रयं दत्वा विज्ञाप्याधिकारार्थं सर्वशरीराणां युगपत् वृद्धिं

सम्भाव्य सर्वयोनिषु भोगदायिकं कर्म भावयित्वा मूलेनाहुतित्रयं हुत्वा विज्ञाप्य
सुखदुःखात्मकं
भोगं सञ्चिन्त्य मूलेनाहुतित्रयं दत्वा विज्ञाप्य भोग्येषु
परमप्रीतिरूपं लयं विभाव्य मूलेनाहुतित्रयं दत्वा विज्ञापयेत् ततः स्रोतसां शुद्धये
मूलेनाहुतित्रयं दत्वा विज्ञाप्य विद्यातत्वशुद्धौ हृदाहुतित्रयं कार्यं निष्कृत्यर्थं

शिखापूर्वमूलेनाहुतिशतं हुत्वा भगवन्नस्यात्मनो निष्कृत्य सर्व कर्मसु शुद्धिं कुरु
कुर्वीति विज्ञाप्यामायापाशाविश्लेषाय मूलेनाहुतित्रयं दत्वा
आवणव(आणव)मलतिरोधानायाहुतिशतकं
दत्वा मलविश्लेषं सङ्कल्प्य पुनर्मूलेनाहुतित्रयं दत्वा कर्म विनाशार्थं
मूलेनाहुतित्रयं दत्वा भगवन्नस्यात्मनो मायामलकर्मरूपस्य
पाशत्रयस्य विश्लेषं कुरु कर्वीति विज्ञापयेत्। ततः सप्तधास्त्रजप्तया कर्तर्या हूं
विद्याकलापाशाय हः हुं फडिति सस्वरं विद्याकलापाशं छित्वा
विमृज्य वर्तुऴीकृत्य
घृतपूर्णायां स्रुचि विन्यस्य तेनैव मन्त्रेण हुत्वा दहेत् भगवन्नस्यात्मनो
विद्याकलापाशच्छेदं कुरु कुर्वीति विज्ञाप्य पुनः
पाशाङ्कुरनिवृत्तये हुं फडन्तास्त्रेणाहुतिपञ्चकं प्रायश्चित्तार्थमस्त्रेणाष्टाहुतीश्च
हुत्वा चैतन्यस्यैकत्वं विभाव्य रुद्रमावाह्य
सम्पूज्याहुतित्रयं दत्वा हां रुद्ररूपगन्धौ शुष्कलं(ष्कौ) गृहाण स्वाहेत्याहुतित्रयेण
कलादिविशुद्धये शुष्कलं(श्कौ) समर्प्य
विज्ञापयेत्।
भो भो रुद्र त्वया नास्य यातुः पदमनामयम्।
प्रतिबन्धो विधातव्य इत्याज्ञा परमेश्वरी॥
इति रुद्रं विसृज्य विद्याकलाजालनिर्मुक्तमात्मानं विभाव्य उद्धाराय
मूलेनाहुतित्रयं दत्वा
विज्ञाप्यात्ममन्त्रेणात्मानं रौद्र्याग्नेरुद्धृत्य राहुमुक्तशरं
मेघावृतचन्द्रबिम्बसदृशमात्मानमुक्तवत् शिष्यसूत्रदेहे नियोज्याभ्यर्च्याप्यायनाय
मूलेनार्घ्यजलबिन्दुं
शिरसि दत्वा स्थिरीकरणार्थं मूलेनाहुतित्रयं दत्वा पितरौ सम्पूज्य सन्त(न्ता)ड्य वमृज्य
पूर्णां दद्यादिति विद्याकलाशुद्धिः। अत्रावसरे मृतकमीक्षायां
सूक्ष्मदेहस्यात्यन्तविच्छेदाय कर्मणेऽत्यन्तनिवृत्यर्थं च मूलेन शतं शतं हुत्वा
महाहुतीर्जुहुयात्।

(शान्तिकलाशुद्धिः)
ततः कलासन्धानम्।
ह्रूं ह्यैं विद्याशान्तिकलाभ्यां
नमः इति सम्पूज्य स्वाहान्तेनाहुतित्रयं दत्वा शुद्धमशुद्धे विलीनं
विभाव्याग्नावाधारशक्तिं विन्यस्य सम्पूज्याहुतित्रयं दत्वा सूत्रदेहशान्तिकलास्थाने
तस्याप्तमवलोकयो(ये)त्। तदनु – हां ह्यैं हां शान्तिकलापाशाय नमः। हां ह्यैं हां
शुद्धविद्येश्वर सदाशिवतत्वेभ्यो नमः। हां ह्यैं हां

वामादीच्छान्तशक्त्यधिष्ठिताष्टादश भुवनेभ्यो नमः। हां ह्यैं हां ग ख क
वर्णेभ्यो नमः। हां ह्यैं हां बिन्दुतुर्यान्वितेभ्यो ध्यानाहारादि व्योमव्यापिन
इत्यन्तद्व(द्वा)दशपदेभ्यो
नमः। हां ह्यैं हां हैं हें कवचतत्पुरुषमन्त्राभ्यां नमः। हां ह्यैं हां य
बीजाय नमः। हां ह्यैं हां यशा अलम्बुषानाडीभ्यां नमः। हां ह्यैं
हां कृकरकूर्मवायुभ्यां नमः। हां ह्यैं हां
पादत्वगिन्द्रियाभ्यां नमः। हां ह्यैं हां स्पर्शविषयाय नमः। हां ह्रूं(ह्यैं)
हां स्पर्शशब्दगुणाभ्यां नमः। हां ह्यैं
हां वायुमण्डलाय कृष्णाय षट् बिन्दवे षडश्राय लक्षकोटियोजनप्रमाणाय नमः।
हां ह्यैं हाम् ईश्वरकारणाय नमः। इति श्यामऴानभ्यर्च्य पूरकसंहारिण्यादाय
मुखादिहृदयान्तसूत्रे संयोज्याभ्यर्च्य निरुध्यावकुण्ठ्याग्नावप्यभ्यर्च्य
सन्निधानाय पञ्चाहुतीर्जुहुयात्। तदनु – पाशद्वयमाणवमलशुद्धमायारूपं
भोक्तृत्वभोगशरीरादिजनकं
विभाव्य हाम् ईश्वरकारणेश्वराय नमः इत्यभ्यर्च्याहुतित्रयं दत्वा विज्ञाप्य तस्यां
कलायां मलपरिपाकानुगुण्येन नाना योनिषु बैन्दवशरीरादि सङ्कल्प्य
तद्व्यापिकां वागीश्वरीं वागीशं चाभ्यर्च्य सन्निधाप्य विज्ञाप्य शिष्यमस्त्रेण सम्प्रोक्ष्य
ताडनादिक्रमेण
पूर्ववत् गृहीत्वा निस्सार्य पित्रोः संयोगं विभाव्य
वामयोत्भ (द्भ)वमुद्रयात्ममन्त्रेण सर्वयोनिष्वनेकव्यक्तिरूपेणात्मनो युगपत्
संयोगं कृत्वा सम्पूज्य मूलेनाहुतित्रयं दत्वा विज्ञाप्य सर्वगर्भनिष्पत्तये
मूलेनाहुतित्रयं दत्वा विज्ञाप्य लयं सञ्चिन्त्य जननार्थं मूलेनाहुतित्रयं हुत्वा
विज्ञाप्याधिकारार्थं मूलेनाहुतित्रयं दत्वा विज्ञाप्य भोगार्थं

मूलेनाहुतित्रयं दत्वा विज्ञाप्य लयं सञ्चिन्त्य मूलेनाहुतित्रयं दत्वा विज्ञाप्य स्रोतसां
शुद्धये मूलेनाहुतित्रयं दत्वा विज्ञाप्य शान्तितत्वशुद्धौ हृदा हृदित्रयं दत्वा
निष्कृत्यर्थं कवचपूर्वप्रासादेनाहुतिशतं हुत्वा
भगवन्न्स्यात्मनः शुद्धमायेयपाशाद्विश्लेषं सम्भाव्य मूलेनाहुतित्रयं
हुत्वाधिकारं विभाव्य तत्तिरोधनार्थं मूलेनाहुतिदशकं हुत्वा तस्माद्विश्लेषं
सम्भाव्य

मूलेनाहुतित्रयं जुहुयात्। भगवन्नस्यात्मनः शुद्धमायेयस्याधिकारमलस्य च विश्लेषं
कुरु कुर्विति विज्ञापयेत्। ततः सप्तधास्त्रजप्तया कर्तर्या ह्यैं शान्तिकलापाशाय हः
हुं फडित सस्वरं शान्तिकलापाशं छित्वा हस्ताभ्यां मन्त्रेण विसृज्य वर्तुऴीकृत्य
घृतपूर्णायां स्र(स्रु)चि निधाय तेनैव मन्त्रेण हुत्वा दहेत्। भगवन्नस्यात्मनः
शान्तिकलापाशच्छेदं कुरु
कुर्विति विज्ञापयेत्। ततः पाशाङ्कुशनिवृत्तये हुं फडन्तास्त्रेणाहुतिपञ्चकं
प्रायश्चित्तार्थमन्त्रेणाष्टाहुतिश्च हुत्वा अशेषशरीरविनाशे
चैतन्यस्यैकत्वं विभाव्य ईश्वरमावाह्य सम्पूज्य सन्निधानाहुतीर्हुत्वा
तात्विकशरीरशुद्ध्यर्थं हाम् ईश्वरबुध्यहङ्करौ शुष्कगृहाण स्वाहेत्याहुतित्रयं दत्वा

विज्ञापयेत्।
भो भो ईश त्वया नास्य यातुः पदमनामयम्।
प्रतिबन्धो विधातव्य इत्याज्ञापरमेश्वरी॥
इतीदं विसृज्य शुद्धमात्मानं सञ्चिन्त्योद्धाराय मूलेनाहुतित्रयं दत्वा
भगवन्नस्यात्मनः शान्तिकलापाशादुद्धारं कुरु कुर्विति विज्ञाप्यात्ममन्त्रेण
संहारिण्या रौद्र्याग्नेरुद्धृत्य पूरकेण
निष्कलङ्कशरच्चन्द्रसदृशमात्मानमात्महृदयमानीय
रेचकेणोद्भवमुद्रया शिष्यसूत्रदेहे नियोज्याभ्यर्च्याप्यायनाय शिष्यशिरसि
मूलेनार्घ्यजलबिन्दुं क्षिप्त्वा स्थिरीकरणार्थं
मूलेनाहुतित्रयं दत्वा पितरौ
सम्पूज्य सन्तर्प्यार्घयित्वा विसृज्य पूर्णां दद्यात्। ॥ इति शान्तिकलाशुद्धिः ॥

(शान्त्यतीतकलाशुद्धिः)
॥ ततः कलासन्धानम् ॥
ह्यैं हौं शान्तिशान्त्यतीतकलाभ्यां नमः इति सम्पूज्य
आहुतत्रयं दत्वा शुद्धमशुद्धे विलीनं सम्भाव्य शान्त्यतीतामुपस्थापयेत्।
ततोऽग्नावाधारशक्तिं विन्यस्याभ्यर्च्याहुतित्रयं हुत्वा सूत्रदेहे शान्त्यतीता स्थाने
तद्व्याप्तिमवलोकयेत्। तदनु – हां हौं हां शान्त्यतीतकलापाशाय नमः। हां हौं हां
शिवतत्वशक्तितत्वाभ्यां नमः। हां हौं हां
निवृत्यादिअनाश्रितान्तशक्त्यधिष्ठितपञ्चदशभुवनेभ्यो नमः।
हां हौं हाम् अः कारादि अकारान्तषोडशवर्णेभ्यो नमः। हां हौं हां
नादसर्वातीततुर्यातीतायोङ्कारपदाय नमः। हां हौं हां हः अस्त्रशिवेशानमन्त्रेभ्यो

नमः। हां हौं हां हकारबीजाय नमः। हां हौं हां शङ्खिनी कुहूनाडिभ्यां
नमः। हां हौं हां धनञ्जयदेवदत्तवायुभ्यां
नमः। हां हौं हां
वाक्श्रोत्रेन्द्रियाभ्यां नमः। हां हौं हां विषयशब्दाय नमः। हां हौं हां
ध्वनिगुणाय नमः। हां हौं हां व्योममण्डलाय स्फटिकाकाराय
अवकाशात्मने नमः। सबिन्दुनादशक्तये स्ववर्तुऴायै अटुतकोटियोजनप्रमाणायै नमः।
हां हौं हां सदाशिवकारणाय नमः। प्रति ख
स्वरूपन्शुक्लानर्धेन्दुबिन्दुनादकुटिलात्मन अभ्यर्च्य पूरकसंहारिण्या गृहीत्वा
चूडादिललाटान्तसूत्रे संयोज्याभ्यर्च्य निरुध्यावकुण्ठ्याग्नावप्यभ्यर्च्य सन्निधानाय

पञ्चाहुतीर्जुहुयात्। तदनु – अधिकारमलं शुद्धमायारूपं विचिन्त्य सदाशिवं
कारणेश्वरं समावाह्याभ्यर्च्य सन्निधाप्य विज्ञाप्य तस्यां कलायामनेकदेहात्
सङ्कल्प्य
तद्व्यापिकां वागीश्वरीं वागीश्वरं चाभ्यर्च्य सन्निधानाहुतीर्हुत्वा सन्निधाय प्रार्थ्य
शिष्यमस्त्रेण सम्प्रोक्ष्य
हुं फडन्तेन तेन पुष्पेण हृदये तस्य देहे हुङ्कारेण
प्रविश्य वियोज्य स्वाहान्तमात्मन्त्रेणोत्कृष्य द्वादशान्तं नीत्वा जीवं शरच्चन्द्रसदृशं
सञ्चिन्त्यात्ममन्त्रेण सङ्गृह्य हृदि सन्निवेश्य कुम्भं कृत्वा आत्ममन्त्रेण
ब्रह्मादिकारणत्यागक्रमेण द्वादशान्तं नीत्वा सङ्गृह्य निस्सार्य पित्रोः संयोगं
विभाव्य वामयोद्भवमुद्रयात्ममन्त्रेणानेकव्यक्तिरूपेणात्मनो युगपत् संयोगं

कृत्वा मूलेन सम्पूज्याहुतित्रयं दत्वा विज्ञाप्य सर्वदेहनिष्पत्तये मूलेनाहुतित्रयं हुत्वा
प्रार्थ्य जननार्थं मूलेनाहुतित्रयं हुत्वा विज्ञाप्याधिकारार्थं
मूलेनाहुतित्रयं दत्वा विज्ञाप्य भोगार्थं मूलेनाहुतित्रयं हुत्वा विज्ञाप्य लयं सञ्चिन्त्य
मूलेनाहुतित्रयं दत्वा विज्ञाप्य स्रोतसां शुद्धये मूलेनाहुतित्रयं विधाय
विज्ञाप्य शान्त्यतीता तत्वशुद्धौ हृदाहुतित्रयं
कुर्यात्। निष्कृत्यर्थं मूलेनाहुतिशतं हुत्वा महामायापाशविश्लेषाय मूलेनाहुतित्रयं
हुत्वाधिकारमलतिरोधानाय
मूलेनाहुतिदशकं तद्विश्लेषाय मूलेनाहुतित्रयं दत्वा भगवन्नस्यात्मनो
महामायाधिकारमलरूपस्य विश्लेषं कुरु कुर्विति विज्ञापयेत्। ततः सप्तधास्त्रजप्तया
कर्तर्या हौं
शान्त्यतीतकलापाशाय हः हुं फडिति सस्वरं शान्त्यतीतकलापाशं
छित्वास्त्रेण विमृज्य वर्तुऴीकृत्य घृतपूर्णायां स्रुचि निधाय तेनैव मन्त्रेण हुत्वा दहेत्।

भगवन्नस्यात्मनः शान्त्यतीतकलापाशच्छेदं कुरु कुर्विति विज्ञाप्य पाशाङ्कुरनिवृत्तये
हुं फडन्तास्त्रेणाहुतिपञ्चकं प्रायश्चित्तार्थमस्त्रेणाष्टाहुतीश्च हुत्वा अशेषशरीरविनाशे
चैतन्यस्य
एकत्वं सञ्चिन्त्य कारणेशं सदाशिवं मूलेनावाह्याभ्यर्च्य सन्निधाप्य
बैन्दवदेहविशुद्धये हौं
भगवन् मनोबिन्दुं शुल्कं[ष्कं]गृहाण स्वाहेत्याहुतित्रयेण शुल्कं[ष्कं] समर्प्य
विज्ञापयेत्।
अयं शिवकरोत्कृष्टो विलम्बित भवोत्भ(द्भ)वः।
कृतकृत्योऽधुना नाणुं निरोद्धव्योऽनुकम्पये॥ इति

तं विसृज्य एवं शुद्धतत्वाग्रस्थं   

शुद्धस्फटिकमणिनिभमत्यन्तनिर्मलं विभाव्य तदुद्धाराय मूलेनाहुतित्रयं दत्वा
विज्ञाप्य रौद्र्याग्नेरात्मानमात्ममन्त्रेण पूरकेणोद्धृत्य सच्चित्स्वरूपप्रकाशमात्मानं
स्वात्महृदयस्थं
विभाव्य रेचकेण शिष्यसूत्रदेहे नियोज्याभ्यर्च्य शिरस्यर्घ्यजलबिन्दुं क्षिप्त्वा
स्थिरीकरणार्थं मूलेनाहुतित्रयं दत्वा पितावभ्यर्च्य सन्तर्प्य।
चोदितौ शिष्यदीक्षायां यन्मया* पितरौ युवाम्।*
कारुण्यात् तत् क्षमित्वना मे व्रजतः स्थानमात्मन॥ इति
विज्ञाप्य विसृज्य पूर्णां दद्यात् ॥ इति शान्त्यतीतकलापाशशुद्धिः॥

(शिखाच्छेदविधिः)
पश्चात् शान्त्यतीतशक्तिभ्यां नम इति
तिरोधायिकया शक्त्या सन्धाय प्रायश्चित्तार्थं तत्वत्रयं
मायाविद्याशिवतत्वान्तव्यापिकमुपस्थाप्य विधिवैकल्ये मन्त्रार्चनमानसवैकल्यशुद्धये

भाष्योपांशुमानसोच्चारणकुलेन शतं शतं हुत्वा तिरोधानशक्तिशुद्धिं च
मूलशतहोमेन विधाय शिवान्तादग्रस्थं चैतन्यं च विभाव्य सप्तधा
शिवामन्त्रितकर्तर्या ह्रूं
शिखायै हः हुं फडिति शिखां छित्वा
गोमयवेष्टितां सृगग्रे निधाय तेनैव मन्त्रेण हुत्वा सन्तर्प्य,

(आत्मसंयोजनाप्रकारः)
त्वदिच्छया महेशानयोन्येन व्युत्क्रमः कृतः।
सोऽस्तु त्वदिच्छया तीर्णो मैनं रौत्सीर्जगत्पते॥
त्वदिच्छया विशुद्धोऽयं व्युत्क्रमात् शिवतां व्रजेत्।
इति
शिवं विज्ञाप्य शिष्यात्मानं पूर्ववत् गृहीत्वात्महृदयमानीय
समरसीभावं कृत्वा शङ्खसन्निभमुद्रया सृक्सृवेण साज्यं गृहीत्वोत्थाय
सर्वाध्वव्यापकं
शिवमनुस्मरन् शिष्यात्मप्राणमनसामैक्येन सुषुम्नायां नादप्रवाहमनुस्मरन्
शिष्यचैतन्यं शिद्धस्फटिकमणिप्रख्यं सञ्चिन्त्य गुरूपदिष्टमार्गेण मन्त्रमुच्चरन्
कारणेशा क्रमेण
त्यजन् प्रशान्तलीनशक्तिकले
स्मरन् सर्पिषो धारां विमुञ्चन् सप्तमे शक्त्यतीते द्वादशान्ते मनोतीते
अखण्डाकारसच्चिदानन्दाद्वयपरिपूर्णे शिवे।
यथा जलं जले क्षिप्तं* क्षीरे क्षीरं घृते घृतम्।*
अविशेषं भवेत्तद्वात्मा तु परात्मनीत्येवम्॥
संयोजयेत्। अथ मन्दपरिपाकश्चेत् शुद्धविद्यादितत्वत्रयेषु वा
बिन्दुनादतत्वभुवनेषु वा (७थ् लिल्ने) मलपरिपाकानुगुण्येन आप्रलयस्थायिनं
षाट्गुण्ययुक्तं दुःखलेशवर्जितं शिववन्मोदमानमात्मानं योजयित्वा सृवाज्याहुतिभिः
तिसृभुः ॥। भिः हौम् आत्मन् सर्वज्ञो भव
स्वाहा। एवं परितृप्तो भव अनादिबोधो भावस्वतन्त्रा भव अलुप्तशक्तिर्भव
अनन्तशक्तिर्भव
इति गुणानापाद्य स्थण्डिलस्थं शवं वह्निस्थेन संयोज्य शवं विसृज्य।

(दहनादिविधिः)
शवं
दक्ष(क्षि)णमस्तकं चित्तायामारोप्य नूतनपटेन आच्छाद्य सदिन्धनैः पिधाय
कुण्डमत्यजताग्निना प्रज्वाल्य शिरो देशे स्थितसर्पिर्मधुपयः पूर्णां ससृवां
सृचमुत्क्षिप्य।
त्वमग्ने दक्षिणः कालः कालैनैवोपपादिताम्।
गृहाण मन्त्रसम्पूतांशामेनां महाकृतीति॥

पूर्णां दत्वा आचार्यश्चेत् सृक्सृवावधोमुखौ वामदक्षिणपार्श्वयोः क्षिपेत्।   

साधकपौत्रौश्छेत् चितायामेव क्षिपेताम्। ततः संस्कृतायां कुशलांश्च पुत्रः चतुरो
नियोज्य वर्धनीं वामस्कन्देऽधिरोप्य धारामवच्छिन्नां पराङ्मुखीं विमुञ्चन् स्वत्व
मुजनानुवातेः
अप्रदक्षिणमाभ्राम्य स्वस्थानेऽधोमुखीतोन्निक्षिप्य पश्चादनवलोकयेत्। जलाशयं गच्छेत्।
एष विधिः निर्वाणदीक्षायुक्तस्य तदाकाङ्क्षते गुरुसेविनश्च मृतदीक्षायां च। ततः स्नात्वा
तीरे कुशानास्तीर्य
त्रीन्निवापाञ्जलीन् हां शुद्धात्मन्नंशो भव स्वधा। हां शुद्धात्मन् सदाशिवो भव स्वधा।
हां शुद्धादत्मन् शान्तो भव स्वधेति दत्वा पुन(नः ) स्नात्वा अनुगाः संहितामघोरं
शतं स्कन्ध दातारो दाहकाश्च
द्विगुणं जपेयुः।

असम्बन्धी शवं दग्ध्वा स्कन्धं दत्वाथवा शुचौ।
स्नात्वा रूपी शतद्वौ वा जप्त्वाप्लुत्येश्वरं यजेत्॥
नोक्तमेनानुगन्तव्यो हीनवर्णो व्रतोन्वितः।
अनुगत्याङ्गसिस्ना त्वा स्वजातीशं शतं जपेत्॥
व्रतस्थः व्रतस्थं वा ब्रह्माणं शिवदीक्षितम्।
विपन्नं यो वहेत्तस्य नाकालमरणं भवेत्॥
असहायमनाथं च गतासुं शिवयोगिनम्।
नीत्वा संस्नापयेद्यस्तु सोऽरिष्टैर्विप्रयुज्यते।

(स्वमन्दिरप्रवेशादिक्रमः)
तदनु – शोकमपनीय गृहद्वारं समागत्य निम्बपत्राणि
भक्षयित्वाचम्याग्निमुदकं गोमयं गौरसर्षपान् संस्पृश्या॥॥निधाय मन्दिरं
प्रविश्याश्मानं
मृतं चोद्दिश्य सम्पूज्यामन्योनोपहृतं रसवर्ज्यं प्राणाधारमपराह्णे कुर्युः।

(अकृतान्त्येष्टिप्रायश्चित्तम्)
अथ केनापि हेतुना अकृतान्त्येष्टेः प्रतिकृतौ कुर्यात्। तद्यथा दर्भैः
पिष्टेन पञ्चगव्यमिश्रशुद्धगोमयेन वा प्रतिकृतिं कृत्वा पूर्ववच्चित्तावास्तुकरणपूर्वं
यागं सम्पाद्य पुत्तऴिकां पञ्चगव्यशिवाम्भोभिः संस्नाप्य कुण्डसमीपेप्यदक्षिणे

संस्थाप्य करवीरकुट्म(ड्म)ऴैः सूक्ष्मदेहस्थाने तत्वानि तदधिषायकांस्तदधिपतीश्च
हृद्बीजोच्चारपूर्वं विन्यसेत्। ब्रह्मरन्ध्रोर्ध्वे हौं रोधशक्तये
नमः ब्रह्मरन्ध्रे हां
बिन्दुरूपशिवतत्वाय नमः। हौं शिवतत्वाधिपतये शिवाय नमः। ब्रह्मरन्ध्रो यो मूर्ध्नि।
हां शक्तितत्वाय नमः। हां शक्तितत्वाधिपतये शक्तिमते नमः। मूर्ध्नो यो खण्डिकोर्ध्वे।

हां सदाशिवतत्वाय नमः। हां सदाशिवतत्वाधिपतये ब्रह्मणे नमः। घण्टिकाय
स्कन्धपर्यन्तम्। हाम् ईश्वरतत्वाय नमः। हाम् ईश्वरतत्वाधिपतये अनन्ताय
नमः। हां विद्यातत्वाय
नमः। हां विद्यातत्वाधिपाय शम्बराय नमः। वामपार्श्वे। हां मायातत्वाय नमः।
हां मायातत्वाधिपाय गहनेशाय नमः। दक्षिणपार्श्वे। हां कालतत्वाय नमः। हां
कालतत्वाधिपाय
कालनाम्ने नमः। उरसि। हां कलातत्वाय नमः। हां कलातत्वाधिपाय ज्ञानबिन्दवे नमः।
हृदये हां नियतितत्वाय नमः। हां नियतितत्वाधिपाय
नियामकाय नमः। हां विद्यातत्वाय नमः। हां
विद्यातत्वाधिपाय वेदविज्ञानाय नमः। हां पुरुषतत्वाय नमः। हां पुरुषतत्वाधिपाय
सूक्ष्मदेहाय नमः। हां रागतत्वाय नमः। हां रागतत्वाधिपाय कामदाय नमः।
उदरे – प्रकृतितत्वाय नमः। हां प्रकृतितत्वाधिपाय प्रधानकाय नमः। पृष्ठवंशे –
हां गुणतत्वाय नमः। हां गुणतत्वाधिपाय त्रिदेहाय नमः।
नाभिमेढ्रान्तरे – हां
बुद्धितत्वाय नमः। हां बुद्धितत्वाधिपाय बुद्धाय नमः। त्रिकसन्धिषु – हाम्
अहङ्कारतत्वाय नमः। हाम् अहङ्कारतत्वाधिपाय अहङ्कृतये नमः। हां मनस्तत्वाय
नमः। हां (७थ् लिएन्) मनस्तत्वाधिपाय सङ्कल्पाय नमः। श्रोत्रे – हां श्रोत्रतत्वाय नमः।
हां श्रोत्रतत्वाधिपाय व्योमचराय नमः। त्वचि – हां त्वक्तत्वाय नमः। हां
त्वक्तत्वाधिपाय
सर्वाङ्गाय नमः।
चक्षुषी – हां चक्षुस्तत्वाय नमः। हां चक्षुस्तत्वाधिपाय प्रकाशाय नमः। जिह्वायाम् –
हां जिह्वातत्वाय नमः। हां जिह्वातत्वाधिपाय महावक्त्राय नमः। नासायाम् – हां
नासातत्वाय नमः। हां नासातत्वाधिपाय विलम्बकाय नमः। वक्त्रे – हां वाक्तत्वाय
नमः। हां वाक्तत्वाधिपाय दुन्दुभयो नमः। पाण्योः – हां पाणितत्वाय नमः।
हां
पाणितत्वाधिपाय समदाय नमः। पादयोः – हां पादतत्वाय नमः। हां
पादतत्वाधिपाय रमणाय नमः। पायौ – हां पायुतत्वाय नमः। हां पायुतत्वाधिपाय
तूर्णकृते नमः। उपस्थे –
हाम् उपस्थतत्वाय नमः। हाम् उपस्थतत्वाधिपाय घनानन्दाय नमः। हां शब्दतत्वाय
नमः। हां शब्दतत्वाधिपाय सूक्ष्मानन्दाय नमः। हां स्पर्शतत्वाय नमः।
हां स्पर्शतत्वाधिपाय बलवत्तराय नमः।
हां रूपतत्वाय नमः। हां रूपतत्वाधिपाय भानुमते नमः। हां रसतत्वाय नमः।
हां रसतत्वाधिपाय जलदाय नमः। हां गन्धतत्वाय नमः। हां गन्धतत्वाधिपाय
गन्धाङ्गाय नमः। योन्याम् – हां
व्योमतत्वाय नमः। हां व्योमतत्वाधिपाय सूक्ष्माय नमः। तत्रैव – हां वायुतत्वाय
नमः। वायुतत्वाधिपाय
मातरिश्वने नमः। योन्यभ्यन्तरे वित्तस्थाने – हाम् अग्नितत्वाय नमः। हां
अग्नितत्वाधिपाय त्विषां निधये नमः। योन्यथो जानुमण्डलावधि – हां जलतत्वाय नमः।
हां जलतत्वाधिपाय जलेशाय नमः। जान्वधः – हां पृथिवीतत्वाय नमः। हां
पृथिवीतत्वाधिपाय श्रीकण्ठाय नमः। नरकपाताऴादिभुवनान्तर्भावेन इत्थं विन्यस्य
गन्धादिभिः सम्पूज्य
तद्रूपं ध्यात्वा। तद्धृदयकमलकर्णिकायां वामदक्षिणमध्येषु
इडापिङ्गऴासुषुम्नाख्यानाडीत्रयं तासु वामा-ज्येष्ठा-रौद्रीति शक्तित्रयं धर्माधर्मौ
च विन्यस्य आत्मानं तन्नाम्ना महाजालप्रयोगेणावाह्य संस्थाप्य
पूर्ववद्योजनिकान्तं सर्वं विधाय पूर्ववद्दहेत्। तद्दाहान्ते तत्वानामाहुतित्रयं
हुत्वाग्निं विसृज्य तत्भ(द्भ)स्म संहृत्यागाधेम्भसि निक्षिपेत्।

॥ दुर्मरणप्रायश्चित्तमाह ॥
अथ प्रमादतश्चोरसर्पवह्निहतात्मनाम्।
हस्तिव्याघ्रनदीवेगसङ्ग्रामहतजीविनाम्॥
उद्धृत्यात्मवियुक्तानामन्येषामात्मपातिनाम्।
अपि देहं दहेत्पूर्वं तूष्णीमेव शिवाग्निना॥
जप्त्वा लक्षमघोर॥॥॥ द्रुद्रबलिं यथा।
रौद्रभूमौ यजेद्रुद्रान् क्षेत्रपालांश्च तान्यजेत्॥
ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः।
क्षेत्रपालांश्च ये चान्ये पिशाचाः दानवा*(दयः)॥*
सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विं बलिम्।
उग्रमृत्युप्रभावेन पिशाचत्वमुपागतम्॥
विमुञ्चध्वमिति प्रार्थ्य बलिमुष्टिं विनिक्षिपेत्।
हां
रुद्ररौद्रक्षेत्रपालपिशाचराक्षसदानवभूतग्रहकूश्माण्डादिबलिकामिकेभ्यो नमः।
स्वाहेति पूजाबलिदानादिमन्त्रप्रयोगः।
स्नात्वाचम्य समागत्य भोजयेच्छ तपोधनान्।
महाव्रतधरानष्टौ यद्वा पाशुपतादिकान्॥
वस्त्रैर्दक्षिणया चैतां तोषयित्वा विसर्जयेत्।
दर्भैः पुत्तऴिकां कृत्वा तद्देहप्रतिकायिकाम्॥
पत्रे संलिख्य तत्सञ्ज्ञां गऴे बध्वा विमृज्य च।
शेषं पूर्ववदापाद्य योजयेदमले पदे॥
इति श्रीमदतिवर्णाश्रमाचार्यवर्य शैवपरिपालकशिवाग्रयोगिविरचितायां
क्रियादीपिकायामन्त्येष्टा विधिर्नाम षष्ठः पटलः।

(खननविधिः)
अथ सन्यासिनां
खननविधिरुच्यते – सन्यासी अत्यन्तवैराग्यनिष्ठः। देहवासनया असहिष्णुश्चेत् शिवक्षेत्रं
गत्वा मुक्त्यर्थं प्रयत्नपूर्वेण वा देहं त्यजेत्।
तदुक्तं शैवपुराणे –
यश्च सन्नमृतिर्मर्त्यो दृष्टानिष्टश्च भूयशः।
स योगाभ्यासनिरतः शिवक्षेणं समाश्रयेत्॥
लिङ्गाद्धस्तशतं यावच्छिवक्षेत्रं समन्ततः।
देहिनां तत्र पञ्चत्वं शिवसायुज्यकारणम्॥
मानुषैस्थापि ते लिङ्गे क्षेत्रमानमिदं स्मृतम्।
स्वयम्भुवे सहस्रं स्यादार्षे च स्यात्तदर्धकम्॥
पापाचारोऽपि यस्तस्मिन् मृतो गच्छेच्छिवं यतः।
तस्मादावसथं कुर्याच्छिवक्षेत्रसमीपतः॥
प्राणानपि तु योगाद्यै स्वयमेव परित्यजेत्।
कृत्वा चानशनं चैवं हुत्वा देहं शिवानले॥
क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात्।
शिवशास्त्रोक्तविधिवत् प्राणान्यस्तु परित्यजेत्॥
सद्य एव विमुच्येत नचासावात्मघातकः।
तथापि मरणं शस्तमुशन्त्यनशनादिभिः॥ इति
एतानि साधकविषयाणि। ज्ञानसिद्धस्य तु विशिष्टक्षेत्रे प्रज्ञास॥॥।
मरणापेक्षा नास्ति। तथागमः।
तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेन् देहम्।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोक॥ इति
अथोत्क्रान्त्यान्यथा वा शचीभूतानामुदराग्न॥॥॥।
मारोपितशिवाग्निनां शैवसन्यासिनां दहने दोषश्रवणात् खननमेव। तदुक्तम्
सिद्धान्तबोधे –
ज्ञानिनां योगिनां चैव तपिनां यतिरूपिणीम्।
जनानां देहपाते तु खन॥॥स्य हि लक्षणम्॥
चतुर्हस्तप्रमाणेन शीभलन्ध्राकृतिं खनेत्।
हारिद्रचूर्णेर्लवणैर्द्विहस्तापूरितक्रमात्॥
तस्योपरि शिवं स्थाप्य शुभे च कमलासने।
पार्श्वदिक्भूमिदेशे ॥॥। द्रैर्लवणैः सह॥
एकहस्तेन चापूर्य परहस्तैकभागकम्।
मृदा चैवं समं कुर्यात्तस्माद्भूमौ समीकृतौ॥
परे पीठं सुसङ्कल्प्य परे त्वेकाकृतिक्रमैः।
मेखलात्रयसंयुक्ते मृत्पीठे वा शिलांशके॥
अथ लिङ्गं तु संस्थाप्य क्रमेण खखनं कुरु।
गन्धपुष्पेण धूपेन दीपनैवेद्यमादिकैः॥
सम्पूज्य विधिवत् कुर्याद्राजराष्ट्रसुवर्धनम्।
यदि वा दहनं कुर्याद्राजराष्ट्रविनाशनम्॥ इति।
सुप्रभेदे च –
दहनस्य विधिः प्रोक्तो ब्रह्मचर्यादिषु त्रिषु।
दहनं तु न कुर्वीत यतीनां चावटक्रिया॥ इति
अचिन्त्यविश्वसादाख्ये च –
लोकाग्निमुदराग्नौ तु समारोपणतः पुरा।
बाह्याग्निकार्याभावाच्च छादयेल्लवणैः सह॥ इति

(खननस्थानप्रापणविधिः)
तद्यथा – तत्शि(च्छि)ष्यो वा अन्यशिवभक्तो वा भस्मना स्नात्वा
समाचम्य सकऴीकृत्य शिवयोगिशरीरं प्रक्षाऴ्य वक्ष्यमाणप्रकारेण शिवयोगिकायं
भस्मना संस्नाप्य कौपीनं परिवर्त्य गन्धमालादिभिरलङ्कृत्य शिवभक्तेभ्यो
विभूतिं गन्धाक्षतताम्बूलानि च दद्यात्। ततः शुद्धायां शिबिकायां पूर्वोक्तविमाने वा
शिवयोगिशरीरं संस्थाप्य
तुल्यजातिभिर्दीक्षितैः शिबिकादि वाहयित्वा
शङ्खकाहलमङ्गलतुल्यादिनिर्घौषैः पुष्पवाजप्रक्षेपेण सार्धं प्राचीं दिशमुदीचीं
वा शनैर्नीत्वा शुद्धदेशे शिवयोगिशरीरं दक्षिणमस्तकं संस्थाप्य नदीतीरे अश्वत्थमूले

देवतायतने गोष्ठे ब्रह्मवृक्षमूले बिर्वमूले वा भूमिं दुग्धेन सम्प्रोक्ष्य
करद्वयविस्तारं देवकरदीर्घं चतुष्कराधः खातम् अवटं कुर्यात्।
अथ गोमयविलेपिते अवटे सिकतास्तरणे
शुद्धदर्भानास्तीर्य तूष्णीं गन्धादिनार्चयेत्।

(खननसंस्कारादिविधिः)
ततः पञ्चगव्यादिना शिवयोगिशरीरमभिषिच्य स्वाहान्तशिवसंहितया तीर्थोदकैः
संस्नापयेत्। अथ कौपीनकटिसूत्रे परिवर्त्य
वौषडन्तैः सद्यादिपञ्चमन्त्रैः पादगुह्यहृदयमुखमस्तकान्युद्धूऴ्य
वौषडन्तैरस्य मस्तकस्य पश्चिमोत्तरदक्षिणपूर्वमध्यस्थानान्युद्धूऴ्य वौषडन्तैः
षडगैः(डङ्गैः)
षडङ्गान्युद्धूऴ्य प्रासादेन सर्वाङ्गान्युद्धूऴ्य वौषडन्तया शिवसंहितया
तच्छिरसि भस्माभिषेकं विधाय कौपीनं परिवर्त्य गन्धपुष्पादिभिरलङ्कृत्य
महारवैमङ्गलतुर्यस्वनैः शिवयोगिशरीरं सम्यगवटे न्यस्य तत्कक्षे भस्मधारं
तद्धस्ते वेणुदण्डं निधाय अष्टपुष्पिकया विल्वपत्रादिभिः सम्पूज्य तद्धृदये
मूलमन्त्रं जप्त्वा ॥॥।
व विल्वपत्रैः लवणेन वावटं सम्पूज्य तत्समीपप्रदेशे शिवलिङ्गं तन्मूर्तिं वा
प्रतिष्ठाप्यावाहनादिभिः पूजयेत्।

तदुक्तं कामिके –   

मृतकं चेदथोत्क्रान्त्या सहितं शि॥॥।योगिनः।
निसारयेदलङ्कृत्य शुद्धैस्तैः सर्वभूषणैः॥
शिबिकां चैदृशीं शुद्धामारीयारोयेच्छवम्।
स्वनता मुखरेणोच्चैरातोद्यैरानुयायिना॥
संसे॥॥।सन्नैव स्थानां पृष्ठतश्चाभिनन्दितः।
शङ्खध्वनिसमायुक्तं नानाध्वनिसमाकुलम्॥
दीक्षितैस्तुल्यजातीयैरपसव्योपवीतकैः।
जपत्भि(द्भि)रस्त्रमन्यैर्वा वाहयित्वा शनैर्नयेत्॥
सुविशुद्धे भुवः पृष्ठे मृतं दक्षिणमस्तकम्।
स्थापयित्वावटं कुर्यात् स्मशाने शुद्धभूतले॥
यतीनां दण्डमात्रं स्यान्मुनीनामर्पमात्रकम्।
यतीनां वा मुनीनां वा क्रिया स्या॥॥॥मिका॥
कर्म यच्चावटे देहशुद्धिं कृत्वा विलेपिते।
सिकतास्तरणे शुद्धां दर्भानास्तीर्य देशिकः॥
तत्र न्यस्यतिं सम्यक् बिल्वपत्रैः प्रपूरयेत्।
लवणेनाथवा पुर्यतत्समीपप्रदेशतः॥
तत्रैवालयसंयुक्तं पीठं वा लिङ्गमेव वा।
बोयरूपं स्वरूपं वा कृत्वा संस्नाप्य पूजयेत्॥
तत्र पिण्डोदके श्राद्धं यदन्यदपि नेष्यते।
अङ्गुष्ठबन्धनं चास्यताम्बूलक्षेपणं च यत्॥
अचिन्त्यविश्वसादाख्ये च –
खननेप्यवटस्यापि दैर्घ्यं देवकरं भवेत्।
हस्तद्वयं तु विस्तारमधः खातं चतुष्करम्॥
अग्निकार्यं विना सर्वं पूर्ववत् कर्म चाचरेत्।
तत्र देशे च लिङ्गादिप्रतिष्ठामपि कारयेत्।
तन्मूर्तं वापि पीठं वा भित्तिचित्रमथापि वा॥
कूटं प्रासादकं वापि तत्र देशे च कारयेत्।
आवाहनादिबल्यन्तं दीपान्तं वापि पूजयेत्॥

सुप्रभेदे च –
संवाह्य शिबिकाद्येषु तुर्यशब्दैर्महारवैः।
सर्वमङ्गलकार्याणि कारयेत्तु विचक्षणः॥
खात्वा दण्डप्रमाणेन प्राक्च्छिरा स्कन्धपूर्विकाम्।
स्नानं तत्र न कुर्वीत न चाशौ चोदकक्रिया॥
शैवपुराणे –
षडध्वशुद्धिं विधिवत् प्राप्तो वा क्रियते यतिः।
पशूनामिव तस्येह न कुर्यादूर्ध्वदेहिकम्॥
नैवाशौचं प्रसज्येत तत् पुत्रादेर्विशेषतः।
दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा॥
शिवाग्निदग्धबीजाणानां न च श्राद्धं न च क्रिया।
अथैनमपि चोद्दिश्य कर्म चेत् कर्तुमीप्सितम्॥
कल्याणमिव कुर्वीत शक्त्या भक्ताश्चं तर्पयेत्।

(खननस्थाने लिङ्गादिप्रतिष्ठादिः)
अन्यत्र च –
एवमेव विधानेन कारयेत् खननं विधिम्।
अग्निकार्यं न कर्तव्यं खननं यतिनां विधिः॥
पूर्वेणैव तु देशे तु खात्वा दण्डप्रमाणतः।
प्राङ्मुखं तत्र कुर्वीत कल्पयेदासनादिकान्॥
आसनोपरि विन्यस्य गन्धाद्यैरर्चयेत् क्रमात्।
शिष्यादींश्च विसृज्याथ पूरयेल्लवणेन तु॥
मृदा च पूरयेत् स्निग्धं देहं तत्र दृढं खनेत्।
तस्योर्ध्वे कल्पयेत्पीठं कूटं त*॥॥॥॥॥॥।॥*
॥॥॥॥॥॥॥॥ त्रिसन्धिं वा यजेद्बुधः।
पश्चाद्देवालयं कृत्वा विपिने वोक्तदेशिके॥
लिङ्गं वा प्रतिमां वापि पीठं वापि प्रकल्पयेत्।

प्रतिमाविषये –
द्विभुजा [च] द्विनेत्रा [च] ॥॥॥॥॥॥। [विश्व]लक्षणसंयुता।
सकलस्योक्तमार्गेण प्रतिष्ठां कुरु बुद्धिमान्॥
त्रिहस्तं वा द्विहस्तं वा व्योमहस्तमथापि वा।
पीठोच्चं तु समं तारं कल्पयेद्विधिना सह॥
पीठादेवं समावाह्य स्थापयेद्विधिवद्यथा।
प्रासादमण्डपं वापि कूटं वा तत्र कारयेत्॥
शिलापक्वेष्टकादीनां प्राकारं गोपुरं तथा।
परिवाराणि सर्वाणि कारयेद्विधिपूर्कम्॥
अर्चनोक्तविधानेन नित्यार्चनमथाचरेत्।
बलिदानं प्रकर्तव्यं नित्याग्निं कारयेद्बुधः॥
नित्योत्सवं तु कर्तव्यं मासोत्सवं प्रकल्पयेत्।
अब्दोत्सवमथानेन कर्तव्यं विधिना सह॥
दीपान्तं वा हविष्यन्तं बल्यन्तं वा वि(पि) पूजयेत्।
पवित्रारोहणं चैव दमनारोहणं तथा॥
घृतकर्मद्वयं चैव नव नैवेद्यादिकमिति।

(शैवसन्यासिधनादिलाभाधिकारिनिरूपणम्)
शैवसन्ध्यासिन आचार्यस्य धनाद्यत्तिचेत् तद्देहपातानन्तरं तच्छिष्याणामेव शिष्याभावे
शिवस्यैव
न तु पूर्वाग्रमपशुसन्ततेः।
तदुक्तं कामिके –
धनन्तस्य भजेतैवं शैवी चेदस्ति सन्ततिः।
नास्तिचेत्तच्छिवे दद्यात् न दद्यात् पशुसन्ततेः॥ इति।

(गुरुसमाराधनविधिः)
अथ गुरुसमाराधनं कुर्यात्। तद्यथा।
गुरुचरणातीततिथौ प्रतिवत्सरमाह्निकद्वयं निर्वर्त्य भस्मना स्नात्वा समाचम्य न्यासं
कृत्वा शुचौ देशे वितानमालादिभिरलङ्कृतमण्टपे हस्तमात्रं सुवृत्तं पञ्चवर्णचूर्णैः

पूर्वोक्तव्रतेश्वरमण्डलवत् पञ्चपत्मा(द्मा)न्यालिख्य तत्र शिवासनं सम्पूज्य आसनोपरि
गुरुमूर्तिं विन्यस्य शिवमावाह्य नित्यवत् सम्पूज्य
गुरुपरमगुरुपरमेष्ठिगुर्वर्थं सदाचारसम्पन्नां
नानाचार्याभिषेकयुक्तान् त्रीन् ब्राह्मणानाहूय गोमयेन मण्डलत्रयं कृत्वा तत्राक्षतैः
पुष्पैश्च षडुत्थासनं सम्पूज्य तत्र ब्राह्मणान् संस्थाप्य गन्धोदकेन पा[दौ
प्रक्षाऴ्य स्वयं पादौ प्रक्षाऴ्याचम्य पूर्वपूजितशिवसन्निधौ पश्चिमादिपूर्वान्तं
दक्षिणाद्युत्तरान्तं वा गोमयेन मण्डलत्रयं कृत्वा तेषु षडुत्थासनानि सम्पूज्य
आस…।
ब्राह्मणान् दक्षिणाभिमुखान् पूर्वाभिमुखान् वा उपविश्य गुरूपगुरुगुरुपरमेष्ठिगुरून्
पश्चिमादिक्रमेण दक्षिणादिक्रमेण वा आवाह्य सम्पूज्य प्रत्येकमामरूपेण
तण्डुलव्यञ्जनताम्बूलादिकं दत्वा हरिभोजनं च कुर्यात्। कर्ता गृहस्थश्चेन् मूलमन्त्रेण
नित्याग्नौ अष्टोत्तरशतं जुहुयात्। अथ ब्राह्मणान् प्रदक्षिणं नमस्कारं च कृत्वा
अनुगम्य

यथास्थानानि गम्यतामित्युक्त्वा पादौ प्रक्षाऴ्याचम्य न्यासं कृत्वा अग्निस्थशिवं
सम्पूज्य मण्डलगुरुमूर्तिस्थशिवे संयोज्य तमपि स्वशिरसि
सहस्रदलकमलकर्णिकागुरुमण्डले योजयेत्। अथ स्व
सान्तानिकज्येष्ठान् अन्यसान्तानिकशिवाश्रमिणश्च भोजयित्वा पश्चात् गुरवे निवेदितमन्नं
स्वयं भुञ्जीत। उक्तलक्षणपात्राभावे मण्डलस्थगुरुसन्निधौ
शिवभक्तान् ब्राह्मणान्
अतिथ्यभ्यागतांश्च गन्धपुष्पादिना सम्पूज्य भूरिभोजनाय आमरूपेण तण्डुलादिकं
प्रदद्यात्। एवं
गुरुसमाराधनादेवतायात्राविवाहमन्त्रोपदेशशिवयागारम्भसिद्धसाध्यादिषु
दुस्वप्नशान्त्यर्थं सुस्वप्नफलसिध्यर्थं च नादिरूपेण कर्तव्या।
तदुक्तं कालोत्तरे –
गुरुयागं प्रवक्ष्यामि सङ्क्षेपात् पार्वतीसुत।
देवतादर्शने कार्यस्तथासौ सिद्धसाधने॥
विवाहयात्रा समये तथा दुस्वप्नदर्शने।
स्वप्नप्राप्तौ तथा मन्त्रे यागारम्भे विशेषतः॥
सुवृत्तहस्तमात्रं तत् कमलं वर्तयेच्छुभम्।
आसनं तत्र संकल्प्य मूर्तिभूतं गरूं न्यसेत्॥
शिवमावाहयेत्तत्र ब्रह्माङ्गसहितं परम्।
गन्धपुष्पादिभिः पूजां मूलमन्त्रेण कल्पयेत्॥
शिवं साष्टशतं जप्त्वा तथा होमं समाचरेत्।
गुरुं सदाशिवं ध्यात्वा प्रणिपत्य पुनः पुनः॥
तदाज्ञां प्रार्थ्य यित्वा तु कुर्याद्यागादिकं शिशुः।
विधानमेतत् कथितं गुरौ शिवपदे गते॥
यदि सन्निहितस्योऽपि पूर्ववत्पूजयेत् गुरुम्।
आज्ञां गृहीत्वा यत्नेन ततः कर्म समाचरेत्॥
॥ इति शैवसन्यासिनां खननक्रियासमाराधना विधिः ॥


॥ नग्नप्रच्छादनविधिः ॥
गृहस्थेऽपि निर्वाणदीक्षायामुक्ते सति तत्पुत्रादिना
स्वाश्रमधर्मपालनाय नग्नप्रच्छादनादुत्तरं तन्त्रमनुष्ठेयम्।
गृहस्थविषये –
अथ कर्ता नग्नप्रच्छादनं दत्वा प्रथमदिवसमारभ्य दशाहपर्यन्तं दिने दिने स्नात्वा
आद्र(आर्द्र)वाससा सह शिवं नित्यवत् सम्पूज्य
मृतोद्देशेन विशेषतः सम्पूज्य सद्यो
वामाघोरतत्पुरुषेशानहृच्छिरशिखाकवचास्त्रमन्त्रेणामेकैकेन तस्य दीक्षानामयुक्तेन
चतुर्थ्यन्तेन स्वाहान्तेन सन्तर्प्य ततः त्रीन्ब्राह्मणानाहूय पादौ
प्रक्षाऴ्य(ऴ्या)भ्यर्च्य भोजनाय दण्डुलादीन्
प्रदद्यात्। द्वितीयदिवसमारभ्य दशाहपर्यन्तमेकोत्तरवृध्या कुर्यात्। अथ स्वयान्तं
पिण्डं दत्वा अन्यगृहे क्षरलवणादिवर्ज्यमेकवारं भुञ्जीत।


॥ अथास्थिसञ्चिनुयात् ॥
तथागमः।
तृतीयेह्नि चतुर्थे वा चिनुयादस्त्रमुच्चरन्। यद्वा
प्रथमेऽह्नि तृतीये वा पञ्चमे सप्तमेऽपि वा॥
नवमे वापि कर्तव्यमस्थिसञ्चयनं द्विजैः। इति।
तत्रापि - आरवारे च सौरे च गुरुवारे च भार्गवे अस्थिसञ्चयनं कुर्यात् कुलक्षयकरं भवेत्
इति अत्र आरवारमङ्कारकवारम्। सौरवारं शनिवारम्।
चिताग्निरुपशान्तश्चेत् तत्समीपे शिवाग्निमुत्पाद्य प्रायश्चित्तार्थमस्त्रेण शतं हुत्वा
पृथिव्यादितत्वानां पूजापुरस्सरं प्रत्येकमाहुतित्रयं दद्यात्। यथा। हां पृथिवीतत्वाय

नमः। हाम् अप्तत्वाय नमः। हां तेजस्तत्वाय
नमः। हां वायुतत्वाय नमः। हाम् आकाशतत्वाय नमः। हां गन्धतत्वाय नमः। हां
रसतत्वाय नमः। हां रूपतत्वाय नमः। हां स्पर्शतत्वाय नमः। हां
शब्दतत्वाय नमः। हाम् उपस्थतत्वाय नमः। हां पायुतत्वाय नमः। हां पादतत्वाय
नमः। हां पाणितत्वाय नमः। हां वाक्तत्वाय नमः। हां नासातत्वाय नमः। हां
जिह्वातत्वाय नमः। हां

चक्षुस्तत्वाय नमः। हां वाक्तत्वाय नमः। हां श्रोत्रतत्वाय नमः। हां मनस्तत्वाय
नमः। हाम् अहङ्कारतत्वाय नमः। हां बुद्धितत्वाय नमः। हां गुणतत्वाय नमः।
हां प्रकृतितत्वाय नमः।
हां पुरुषतत्वाय नमः। हां रागतत्वाय नमः। हां नियतितत्वाय नमः। हां
विद्यातत्वाय नमः। हां कलातत्वाय नमः। हां कालतत्वाय नमः। हां मायातत्वाय
नमः।
हां शुद्धविद्यातत्वाय नमः। हां
ईश्वरतत्वाय नमः। हां सदाशिवतत्वाय नमः। हां शक्तितत्वाय नमः। हां शिवतत्वाय
नमः। इति सम्पूज्य प्रत्येकं स्वाहान्तमाहुतित्रयं दद्यात्। ततः
पादगुह्यहृदयमुखशिरोस्थिनि
सद्यादिमन्त्रैरुद्धृत्या(त्य) त्रिकाष्टिकोपरिस्थिते क्षीरपूर्णे घटाभ्यन्तरे निक्षिपेत् ततस्तु
शुद्धभूदेशे स्थापयेत्। यदि वा समुद्रादितीर्थजले
क्षिपेत्। भस्मागाधेम्भसि वि निक्षिपाते।
अथैकोद्दिष्टविधिः।

॥ एकोद्दिष्टविधिः ॥
एकादशाहाद्याशौचापगमदिवसे गृहादिशुद्ध्यनन्तरं विधेयम्। तत्र
पूर्वेद्युर्देशिकं साधकं पुत्रकं वा ब्राह्मणम् अलाभे केवलं शिवभक्तब्राह्मणं
चोक्तलक्षणं
पश्चिमाभिमुखमासने समुपवेश्य वृद्धजङ्घासंस्पर्शनेन समानं
पाणिपल्व(ल्लव)ग्रहणेन यवीयांसं प्रियगिरा सम्भाव्य उपहारं दत्वा
शिवीभूतायामुकदेवाय शिवश्राद्धेक्षणः
कर्तव्य इति प्रार्थयेत्।
सोऽप्योयन्तथेत्यभ्यनुजानीयात्। ननु द्विजेषु आचार्यसाधकपुत्रकान्यतमाभावे
शिवसंस्कारयुक्तशूद्राणामपि द्विजत्वश्रवणात् तेषु आचार्यं
साधकं पुत्रकं वा कञ्चन वृणुयात्। किं ब्राह्मणगवेषयेति चेत् तदयुक्तम्।
निषेकाद्यश्वमेधान्तसंस्कारयुक्तक्षत्रियस्यापि श्राद्धादिप्रतिग्रहानधिकारित्वात्
कैमुतिकन्यायेन
शिवसंस्कारयुक्तस्यापि शूद्रस्य सुतरामनधिकारः।
तस्मादाचार्यः साधकपुत्रकान्यतमाभावे सामान्यशिवभक्तं ब्राह्मणमेव
श्राद्धादिषु वृणुयात्। अवान्तरशैवास्तु
सपिण्ड्यनन्तरमेव शिवप्रीत्यर्थं भोजयेत्। तदनु – तां रात्रिं परमेश्वरं स्मरन्
इन्द्रियग्रामं यं यन्यवसेत्। अन्येद्युः कृतस्नानादिनित्यक्रियाद्वयो निराहारः। पूर्वाह्णे

कृतस्नानादिनित्यकर्माणं तमागतमभ्युत्थानासनाद्येन सम्भाव्य कृहाजिरे
दक्षिणोत्तरसंस्थानं करमानं करान्तरं गोमयानुलिप्तं वृत्तमण्डलद्वयं कृत्वा
प्राचीनावीति
विपरीतकृतन्यासस्सामान्यार्घ्यकरस्तस्मिन् मण्डलद्वये दक्षिणाग्रान् कुशान् तिलांश्च
विकीर्यास्त्रेण दक्षिणमण्डले सितपुष्पेणाभ्यर्च्य(र्च्या)र्घ्ययित्वा पादशौचाय मृदं
निधाय उत्तरे हृदयेन सम्पूज्यार्घ्यं
दत्वा निमन्त्रितं दक्षिणमण्डले संस्थाप्य तिलैः। निमित्तं
दीक्षानाम्ना स्वधान्तेनार्घ्यं दत्वा वामदेवबीजपूर्वं दीक्षानाम्ना मृदम्भसा
पादौ प्रक्षाऴ्य उत्तरमण्डले चाचमनमन्तःप्रवेश्य
स्वयमप्याचान्तोऽन्तःप्रविश्य शुद्धे पीठादौ पश्चिमाभिमुखमुत्तराभिमुखं वा
वामेनोपवेश्यापसव्योपवीति विपरीतकृतन्यासोऽर्घ्यपात्रमस्त्रेण प्रक्षाऴ्य शिरसा
शुद्धाम्बुना पूर्य तिलान्निक्षिप्य सद्येन गन्धं दूर्वापुष्पाक्षतोपेतं पवित्रं
शिखया निक्षिप्य हृदाभिमन्त्र्य संरक्ष्य तज्जलैर्द्रव्याणि सम्प्रोक्ष्य गन्धं हृदा,
पुष्पं शिरसा, धूपदीपौ
शिखया, वक्त्रयज्ञोपवीताद्यं च कवचेनाभिमन्त्र्य संरक्ष्य एकोद्दिष्टश्राद्धं करिष्य
इति प्रार्थ्य कुरुष्वेति तेनोक्तो द्विगुणितदर्भेन दक्षिणाग्रमासनं तस्मै
सद्येनापसव्यं दत्वा आवाहयामीत्यध्येष्यावाहयेत्। तदादिष्टो मूलयुक्तदीक्षानाम्ना
चतुतुर्थ्यन्तनमस्कारयुक्तेनावाह्य स्थापनादित्रयं वामेन विधाय
तिलैरप्रदक्षिणमीशानेन
रक्षां विधाय सान्निध्यार्घ्यं सपुष्पकुशाक्षताम्बुभूमिष्ठजानुरीशानेन दत्वा
सम्पूर्णमस्त्विति प्रू(ब्रू)यात्। सोऽप्यस्तु सम्पूर्णमिति ब्रूयात्। ततोऽर्घ्यजलं सपवित्रं
तद्धस्ते दत्वा तस्मात्
स्रुतजलं कस्मिंश्चित् पात्रे समादाय नैरुत्यां पितृस्थामसीत्युक्त्वान्यपात्रे न्यसेत्।
ततो भोजनाय मारर्जनादिशुद्धभूमौ विधामामरूपसर्वजनान्तण्डुलान् (leaf १३५ लोओक्स्
लिके मिस्सिन्ग्)।

		॥ दीक्षाभेदक्रमः ॥  

स्वायम्भुवे –
दीयते ज्ञानसत्भा(द्भा)वं क्षीयते च मलत्रयम्।
दानक्षपणयोगाच्च दीक्षा शुद्धिकृतात्मनाम्॥
चिन्त्यविश्वे –
अनुग्राह्यास्त्रया शास्त्रविज्ञानप्रलयाकलौ।
त्रि(तृ)तीयः सकलश्चैव आद्योऽपि मलमात्रकः॥
मलकर्मसमायुक्ताः प्रलयाकल एव च।
सकलश्च निवृत्यादिकला वृत्यन्तगोचराः॥
अनुग्रहप्रकारेण दीक्षाभेदं च वक्ष्यते।
साधारा तु निराधारा सबीजा बीजवर्जिता॥
साधिकारेति विज्ञेयाप्यन्या निरधिकारिणी।
सापेक्षा निरपेक्षा च शिवधर्मिणि कै(चै)व हि॥
लोकधर्मिणिका चैव भैतिकी नैष्ठिकी तथी।
सद्यो निर्वाणदा दीक्षा चिरा निर्वाणदा परा॥
एताश्चैव क्रियावत्यां ज्ञानवत्यामथ शृणु।
चाक्षुषी स्पर्शदीक्षा च वाचकं मानसं तथा॥
शास्त्री योगवती चैव हौत्री शाम्भवी तथा।
शाक्तिमत्येवमात्रं च तीव्रं तीव्रतरं तथा॥
अष्टाविंशतिसङ्ख्यो यद्दीक्षाभेदमुदाहृतम्।
मृगेन्द्रे –
यथेष्टसाधनदीक्षा परमेशमुखोत्ग(द्ग)ता।
साधारोऽपि निराधारा साधारा सकलस्य तु॥
चिन्त्यविश्वे –
सकलानां क्रिया दीक्षा विधिना नन्दिकेश्वरः।
गुरुमूर्तिं समाश्रित्य मन्त(न्द)तीव्रादिपातनात्॥
कुरुते सकलेत्येशः साधारान्तामिमां विदुः।
विदुषां च समर्थानां सबीजा परिकीर्तिता॥
प्रारब्धं समयाचारं सानुषङ्गिकमेव च।
व्यतिरिक्तं सञ्चितं(तां)शो सबीजा परिकीर्तिता॥

स्वच्छन्दे –   

सबीजा सा तु विज्ञेया पुत्रकाचार्ययोरपि।
गृहस्थोऽप्याश्रमी चाथ यदसङ्कल्प्य दीक्षयेत्॥
इष्टयं सभा(हा)नां तु सबीजा कीर्तिता प्रिये।
दीक्षानुग्राहिका तेषां समयाचारसंयुता॥
विशेषसमयाचारं मन्त्रस्था ये प्रकीर्तिताः।
निर्वाणे तु सबीजायां पाशाभावाद्विपद्यते॥
समयाचारपाशं हि दीक्षितः पालयेत्तु यः।
तत्पाशानेव शोध्येत सा सबीजा प्रकीर्तिता॥
चिन्त्यविश्वे –
निर्बीजा त्वसमर्थानां किं तु भोगरतात्मनाम्।
सञ्चितं समयाचारं शोध्या निर्बीजिका मता॥
क्रियाकरणमण्डनेऽपि –
निर्बीजास्त्वसमर्थानां किन्तु भोगरतात्मनाम्।
भलेऽग्निबीजका दीक्षा समयीपुत्रयोर्वरम्॥
वरुणपद्धत्याम् –
बालबालीशवृद्धस्त्रीभोगभुक् व्याधितात्मनाम्।
भवेनि(न्नि)र्बीजका दीक्षा समयाचारवर्जिता॥
तथा विधि॥।नान्धपन्त्वादि स्त्रीबालेषु विधीयते।
आगमे मोक्षकाङ्क्षिणामपि विशेषोक्तः –
दीक्षाग्निदग्धकर्मासौ मायाविच्छिन्नबन्धनः।
गतः परां ज्ञाननिष्ठ॥।निर्बीजा स शिवे स्थितः॥
न तस्य नियमैः कार्यं न च लिङ्गार्चनेन तु।
न तीर्थक्षेत्रगमनैर्न च शारीरयन्त्रणैः॥
प्रारब्धं भोगतो नश्येत् सञ्चितं हन्ति दीक्षया।
आगाम्यस्या॥।पूजायाम् इति शास्त्रस्य निश्चयः॥
सिद्धान्तशेखरे –
साधिकारा सबीजा सा यया स्यादधिकारिता।
साधकाचार्ययोऽथ यस्माद्दीक्षा स्थापनसिद्धिषु॥
क्रियाकरणमण्डनेऽपि –
नित्ये नैमित्तिके काम्ये प्रायश्चित्तादिरूपिणे।
साधकाचार्ययोर्योग्या साधिकारा तु सा भवेत्॥
सर्वत्राप्यधिकारित्वात् साधिकारैव सा तयोः।
अधिकारसमर्थत्वात् साधिकारेति सा स्मृता॥
निरधिकारे तु निर्बीजादीक्षा समयिपुत्रयोः।
नित्यमात्राधिकारित्वाद्दीक्षा निरधिकारिका॥
मृगेन्द्रे –
सार्वं नु यति यातीतं समयाद्यनुवर्तनम्।
विशिष्टात्मगुणप्रायं सापेक्षः चोच्यते बुधैः॥
समयाद्यक्षमं वृद्धं मृडाला बलादिकम्।
यासौ तदनपेक्षत्वान्निरपेक्षं निगद्यते॥
वरुणपद्धत्याम् –
सबीजा च द्विधा भिन्ना प्रथमा शिवधर्मिणी।
साधकाचार्यो सत्ता देशकालादिभेदतः॥
धर्माधर्मात्मकं कर्म प्रागागामी विचित्रकम्।
सञ्चितं शोच्यते यत्र सैवोक्ता शिवधर्मिणी॥
शिखाच्छेदसमायुक्ता दीक्षा सा शिवधर्मिणी।
आगमे किञ्च
लौकिकी वैदिकाचार सत्ता यः शिवभक्तिमान्।
शिवधर्मिण्यनुष्ठान तद्भोगानन्तरे स तु॥
सर्वज्ञत्वादिभावो यः शिवधर्मिणि सोच्यते।
सिद्धान्तशेखरे –
यदा वै शिवधर्मिण्या दीक्षयेच्च तपोधनान्।
स्कन्दकोलोत्तरेऽपि –
शिखाखण्डनसंयुक्ता दीक्षा सा शिवधर्मिणी।
शिवधर्मिणिदीक्षा चेद्योजयेदमले पदै॥
देहपाते विमोक्ष स्यात् समयाचारपालनात्।
वरुणपद्धत्याम् –
अधर्ममात्रसंशुद्धा द्वितीया लोकधर्मिणी।
दीक्षया लोकधर्मिण्या गृहस्थान् दीक्षयेद्गुरु॥
शिखाच्छेदो न यत्रात्ति(स्ति) दीक्षा सा लोकधर्मिणी।

स्वच्छन्देऽपि –
प्राक्दनागामिकर्मस्तु अधर्मक्षयकीरिणी।
दीक्षया लोकधर्मिण्या इष्टापूर्तविधौ रतः॥
कर्मकृत् फलमाकाङ्क्षन् शुभैकस्थो शुभोऽर्थितः।
लोकधर्मिण्यसौ ज्ञेया मन्त्राराधनवर्जिता॥
प्रारब्धदेहभेदे तु हुत्वा स त्वणिमादिकान्।
भोगान् भुक्त्वा व्रजेदूर्ध्वं गुरुणा यत्र चोदितम्॥
सकले* निष्कले वापि शिष्याचार्यवशात् भवेत्।*
क्रियाकरणमण्डनेऽपि –
लोकधर्मिणमारोप्य मते भुवनकर्तरी।
तद्धर्मपातनात् कुर्यात् शिवे वा कर्तिकाङ्क्षिणः॥
तत्वे सदाशिवे भेन्हालयस्तस्य परे पदे तथा।
दीक्षापूतागणपतिगुरोर्णण्डले जन्मवन्तः
सिद्धामन्त्रैस्तरुणदिनकृत्मण्डलोकभासदेहाः।
भूक्त्वा ओर् इक्ष्वा गोगान् सुचिर्मरश्रीनिकायै रुपेत तच्छप्तो-
त्कण्ठाः परशिवपदैश्वर्य स भाजो भवन्ति॥

तथा पञ्चावरणस्तोत्रे –
यो चात्र शुद्धभिवनोद्भवभागकामा-
स्त्वामर्चयन्ति विविधैर्यजनप्रकारैः।
तेभ्यः प्रदाय परमेश्वरसाधकेभ्यो
सिद्धान्तशेखरे –
भौतिकं नैष्ठकं चै(चे)ति द्विधा सा शिवधर्मिणी।
व्रतमोक्षसमायुक्ता भौतिकेति निगद्यते॥
विदुषां भौतिकीदीक्षा सबीजा कीर्तिता त्वया।
शरीरपातपश्यन्ता व्रतिनो नैष्ठिको मता।
अपरे नैष्ठिकीदीक्षा अशक्तविषये तु सा॥
अस्याभिप्रायः – दीक्षां स्वीकृत्य किञ्चित्कालं
व्रतमुष्ठाय शास्त्रोक्तविधिना सर्वं समाप्तं सा भौतिकी। आदेहपातं
ब्रह्मचर्यमनुष्ठानं या सा दीक्षा नैष्ठिकी।

वरुणपद्धत्याम् –
अथ निर्बीजकादीक्षा द्विधा भेदे निगद्यते।
द्यो निर्वाणदायित्वाच्छिरा निर्वाणदा परा॥
प्रारब्धसञ्चितागामि कर्मजालं विशोच्य(ध्य)ते।
यथा त्यक्तविरक्तानां सद्यो निर्वाणदा शुद्धा॥
स्वच्छन्देऽपि –
समयाचारपाशादिविवक्षायां विशोधयेत्।
दीक्षामात्रेण मूर्ति स्यात् भक्तिमात्राद्गुरोः सदा॥
दीक्षावशात्त्यजेद्देहं प्रयाति परमे पदे।
प्रारब्धकर्मणां भोगं यथा सा मुक्तिमन्तरा॥
यान्ति बालादयश्चैव स्वेच्छा निर्वाणदा भवेत्।
यथा क्रियावतीदीक्षा कुण्डलमण्डलपूर्विका॥
स्वच्छन्दे –
एवं भावानुरूपेण शिष्याणां गुरूणां सदा।
फलं तु विविधाकारं निष्पद्यते सुदीक्षया॥
अचिन्त्यमन्त्रशक्तिर्वै परमेशमुखोद्भवा।
क्रियाकाले प्रयोक्तव्या गुरुणा भक्तिपूर्वके॥

चिन्त्यविश्वे –
ज्ञनदीक्षां प्रवक्ष्यामि यथावद्यनुपूर्वशः।

विरुणशिवेन -
मनोव्यापारमात्रो छायाशास्त्रो नवती मता।
सा चानेकविधा प्रोक्ताः तत्प्रपञ्चोऽथ मुच्यते॥
चक्षुरुन्मीलयेत्तत्वं ध्यात्वा शिष्यं समीहते।
पाशबन्धविमोक्षाय दीक्षयेच्छाक्षुषी मता॥
निधाय दक्षिणे हस्ते शिवं ब्रह्माङ्गसंयुतम्।
निधाय शिष्यशिरसि स्पर्शदीक्षा भवेदियम्॥
तत्वे चित्तं समादाय ब्रंहितान्तेन तेजसा।
गुरुरुच्चारयेन्मन्त्रं मन्त्रदीक्षा समाहृता॥
उच्चरेद्वचसा मन्त्रान् सा दीक्षा वाचकी मता।
शिवशास्त्रप्रदानेन शास्त्रदीक्षा समाहृता॥
योगेन योगदीक्षा स्याच्छिवत्वे संव्यवस्थितः।
अग्निकार्यवती हौत्री ॥।(रू)पं दीक्षा निरूपिता।
वामदेवशिवागमे –
शाम्भवी चैव शा(क्तीx?) च मान्त्री चेति शिवागमे।
दीक्षोपदिश्य तेस्त्रया शिवेन परमात्मना॥
गुरुरालोकमात्रेण स्पर्शात् सम्भाषणादपि।
सद्यः सञ्चायते प्राज्ञा पाशौघक्षयकारिणी॥
सा दीक्षा साम्भवी प्रोक्ता सा पुनर्भिद्यते द्विधा।
तीव्रातीव्रतां चेति पाशौघक्षयभेदतः॥
यया स्यान्निवृत्तिः सद्यः सा वा तीव्रतमा मता।
तीव्रा तु जीवन्मुक्त्यर्थं पुंसः पाशविमोचिका॥
शाक्तिज्ञा नवती दीक्षा शिष्यदेहं प्रविश्य तु।
गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा॥
मन्त्रीक्रियावती दीक्षा कुण्डमण्डलपूर्विका।
शक्तिपादानुसारेण शिष्यानुग्रहमर्हति॥
गुरुणा चैव सर्वेषां मुख्यदीक्षा गुरु स्मृता।
यत्र रुद्रपदे योगो योगो यत्रेश्वरपदे॥
शिखाच्छेदो न यत्रात्ति(स्ति) दीक्षा सा समयी द्विधा।
पूर्वकामिकेऽपि समैयदीक्षापटले –
गन्धाधिवासितं कृत्वा स्व सव्यकरवल्लवे।
सासनेन सदेहेन विद्याहेनुत्यधः शिवेन समधिष्ठितम्॥
शिवहस्तमिति ध्यात्वा सापेक्षं निरपेक्षकम्।
हृद्देशात् भ्रूपदे शान्तं नीत्वा वै चुलुकान्तकम्॥
सह प्रासादचारेण समस्तग्रन्थिभेदिना।
रुद्रेश्वरपदप्राप्तिदायकं शिरसि न्यसेत्॥
कुर्याच्छिष्यः सर्वाङ्गलाभनं च विशेषतः।
योग्यत्वान्मुनयो रुद्रमैषं प्राप्नोति मानवाः॥
यत्र पाशशिखाच्छेदो योगं जीवपदे परे।
निर्वाणाख्या तु सा सैव पुत्रको नाभिषेकतः॥
सार्धमन्त्राभिषेकेण साधके सा प्रकीर्तिता।
सर्वविद्याभिषेकेण भवेदाचार्यगोचरे॥
शिवसंस्कारयुक्तस्य यच्छिवत्वं समर्पणम्।
क्रियया वाथ शक्त्या वा दीक्षा वा सर्वतो मता॥
दीक्षयो मुच्यते देही त्रिविधाद्भवबन्ध
नात्।*
चिन्त्यविश्वे –
चत्वारिंशत्तु संस्काराः वैदिकाः क्रमतः क्रिया।
क्रतुवतो मुक्तमार्गेण मलानां वर्धनाय वै॥
तस्माद्वैदिकमार्गेण मलनाशो न विद्यते।
शैवागमोक्तमार्गेण दीक्षया मोक्षहेतुकी॥
गुरुणा कृपया शिष्यपाशान् संशोध्य योजयेत्।

॥ अथ दीक्षाशुद्धिः ॥
दीक्षाकाले तु संस्कारान् क्रमां तेषां निबोध मे।
शक्तितत्वं च भुवनं शक्तिं चैव निवेशयेत्॥
तेषां गन्धोपचारं तु कृत्वा चैव यथाक्रमम्।
अनन्तश्चैव कालाग्निर्नरकाश्च यथाक्रमम्॥
पातालानि तत्श्चोर्ध्वं चोधयोच्चानुपूर्वशः। *
उपस्थानं ततः कुर्यात् भूलोकस्य वरानने॥
ततो वागीश्वरीं देवं सम्पूज्य कुसुमादिभिः।
ततः पशुं च सम्प्रोक्ष्य ता(त)स्य विश्लेषमेव च॥
छोदनं चैवाकर्षं ग्रहणं योजनं तथा।
गर्भाधानत्वजननमधिकारं तथैव च॥
योगं भोगं लयं चैव ततो योनिविशोधनम्।
चतुर्दशं तु तद्भागान् प्रवक्ष्याम्यानुपूर्वशः॥
पैशाचं राक्षसं याक्षं गान्धर्वं त्वैन्द्रमेव च।
प्राजापत्यं तथा सौम्यं ब्राह्मं चैवाष्टमं स्मृतम्॥
संहारक्रमयोगेन शोधनीया हीवाध्वरे।
पशुपक्षीमृगाश्चैव तथा ज्ञेयाः सरन्त्रपाः॥
देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलम्॥
चतुर्दशविधं चैव भूलोकं तु विशोधयेत्।
आत्मा संसरते ह्येषा मायाद्यव
निगोचरे॥*
संस्रः प्रोच्यते तस्मात् पश्यदं तु यतस्ततः।
सुखं दुःखं तथा मोहं भुङ्क्ते वै चाध्वमध्यगः॥
बन्धत्रयसमाक्रान्तो वामशक्या त्वधिष्ठितः।
ईश्वरेण निमित्तेन सृष्टिसंहारवत्मनि॥
स पुनश्चाध्वमध्ये तु युज्यन्ते तु शुभूशुभैः।
अध्वमध्यस्तथा पाशान्ते याश्चानन्तकोटयः॥
प्रधानगुणभेदेन यावच्चानाश्रितं पदम्।
तस्मादेवं विजानीयादध्वाबन्धस्य कारणम्॥
चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम्।
तस्य भेदाह्यनन्ताश्च भिद्यते कर्मभेदतः॥
कर्मबन्धो ह्यनन्ताश्च कर्मचाराधिकारकम्।
आत्मना बध्यते ह्यात्मा मुञ्चेदात्मानमात्मना॥
कोशाकारे यथा कीटमात्मानं वेष्टयेत् पृथक्।
॥चोद्वेष्टयितुं लक्ष्यम् आत्मावत्वं च नायथा॥
यथा संसारिणः सर्वे बद्धाः संसारबन्धकैः।
न च मोचयितुं शक्ताः पशवः पाशबन्धनात्॥
स्वयमेव च आत्मानं यावद्वै नेक्षिते शिवः।
शिवशक्तिनिपाताच्च शुध्यन्ते पाशबन्धनात्॥
चतुर्दशविधं चैव यदुक्तं तु मया पुरा।
संसारमण्डलं देवी शोधयेदवनीतले॥
तद्वक्ष्यामि क्रमात् सर्वं यथाशोध्यं शिवाध्वरे।
ब्रह्मादिस्तम्भपर्यन्तं परिपाट्य विशोधयेत्॥
ब्रां(ब्राह्मं) चैव तु प्रादेशं सौम्यमैन्द्रं तथैव च।
गन्धर्वं च परं याक्षं राक्षसं च ततः परम्॥
पैशाचं तु क्रमाच्छोध्यं मानुषं स्थावरं तथा।
सिप्तजदं स्थावराणां सर्वाणां वासुकी तथा॥
गरुडं पक्षिणां चैव मृगाणां सिंहमेव च।
पशूनां चैव गोयोनि मनुष्याणां चैव शोधयेत्॥
अन्त्यजान् ब्रह्मविट्क्षत्रं ब्राह्मणं चाप्यपश्चिमम्।
ब्रह्मभिर्देवदेवेशि कयिकारं च शोधयेत्॥
दशाहुतिप्रयोगेण अन्त्यजान् ब्रह्मणावधि।
ब्राह्मणस्याधिकाराष्टौ चत्वारिंशत्तु होमयेत्॥
गर्भं पुंसवनं चैव सीमन्तं जातकर्म च।
नाम निष्क्रामणं चैव अन्नप्राशनचोऴकम्॥
अनेनैव वरारोहे शोध्यस्तु ॥। प्रकीर्तिताः।
एतैर्निर्वर्तके देवि ततः सञ्चाजते ध्रुवम्॥
नवमे व्रतबन्धं तु स चाङ्गी परिकीर्तिता।
अङ्गानि सम्प्रवक्ष्यामि यथावद्यनुपूर्वशः॥
मेखला दन्तकाष्ठं च अजिनं त्र्यीयुषं तथा।
सन्ध्यामग्नेरुपासं च भिक्षां वै सप्तमं विदुः॥
मेखलादीनि सप्तैते ब्रह्मचारी समाचरेत्।
नियन्त्रिकाणि प्रष्ठानि दीक्षाकाले वरानन॥
भूतेशं पूशुपत्यं च गणं चैव गणेश्वरम्।
उन्मत्तमसिधारं च व्रतेशं सप्तमं विदुः॥
सप्तैतानि तु प्रष्ठानि व्रतानि ब्रह्मचारिणाम्।
दयाव्रतानि बेध्यानि अङ्गत्वे कीर्तितानि तु॥
एभिस्तु सहितस्येत्य नवमं व्रतबन्धनम्।
तस्यान्तर्भूतम् ॥॥ कथितं व्रतसप्तमम्॥
वेदव्रतानि चत्वारि होतव्यानि न संशयः।
इष्टिका पर्वणि चैव भौतिका सौमिकं तथा॥
व्रतेश्वरास्तु चत्वारो ब्रह्मचारी नियन्त्रिकः।
त्रयोदशं विजानी*………।वे देवभाजनम्॥*
ततो भवति गोदानं तच्चतुर्दशकं प्रिये।
स्तात उद्वाहयेद्भार्यां ज्ञानसिद्धिं कुमारिकाम्॥
कृत्वा दर्भमयीं पत्नीं तथा सह यजेत् क्रतून्।
तत् ज्ञेयं पञ्चदशमं ततः पाकमुखानि तु॥
नैमित्तिकानि तान्याहुः प्रवक्ष्यमामि समासतः।
अष्टका पर्वणि श्राद्धं श्रावण्याग्रायणी तथा॥
चैत्री चाश्वयुजिं ज्ञेया सप्तपाककखानि तु।
एतैः सहितबीजानि द्वाविंशत् परिसङ्ख्यया॥
अथेयं चाग्निहोत्रं च दर्शं चैव ततः परम्।
पौर्णमासी तथा ज्ञेया चातुर्मास्यं तथैव च॥
पशुबन्धसमुद्दिष्टो सौत्राणिरतःपरम्।
हविष्यज्ञाः समाख्याताः सप्तैते वा नवा स्मृताः॥
एभिः हवि जानीयात् संस्कारैकोनत्रिंशका।
अग्निष्टोमो त्यग्निष्टोमः उद्यष्टो षोडशिका तथा॥
वाजपेयोऽतिरात्रस्तु आप्तो(ब्दो)र्यामस्तु सप्तमः।
सोमसंस्थाः समाख्याता षट्त्रिंशत्समुदाहृतः॥
हि॥।पादः प्रथमं ततो गुह्यहिरण्यधृक्।
हरण्यमोहो हिरण्यमा(ना)भिं निर्हिरण्यगर्भमेव च॥
हिरण्यभ्रात्रं हिरण्यत्वश्चिराक्षतः तथैव च।
हिरण्यजिह्वस्ततच्छृङ्गो दशधज्ञाः(स्त्राः) प्रकीर्तिताः॥
शते॥ तु व्रतं ह्येते एकैकं तु विजानतः।
एते सर्वे सहस्रेण शुध्यते सप्तत्रिंशकः॥
अश्वमेधं ततः पश्चाद्धोमयेत्तु यथाक्रमम्।
एवं तु तैस्तथा सर्वैस्तथैश्चव श्रही भवेत्॥
अष्टत्रिंशोत्तमं तु वा॥। प्रस्थं ततो भवेत्।
परिव्राजं ततोऽन्त्येष्टिं तनो ब्राह्मण्यमाप्नुयात्॥
चत्वारि(रिं)शत्तु संस्कारा एतैः सह विजाननः।
अत आत्मगुणानष्टौ प्रवक्ष्यामि समासतः॥
तथा वै सर्वभूतेषु क्षान्ति ॥॥॥॥॥॥॥॥। यतः।
शौचं चैव अनायासो मङ्गलं च ततः परम्॥
अकार्पण्यमस्पृहा च अष्टावात्मगुणा स्मृताः।
चत्वारिंशत्तथा चाष्टौ संस्काराः परिकीर्तिताः॥
एतः शुद्धैस्तु शुद्ध्यन्ति असङ्ख्यायेपि सुव्रते।
अतोऽन्त्येष्टिं तु हुत्वा वै गुणानापादयेच्छिशोः॥
पञ्चपञ्चाहुतिर्दद्यात् ब्रह्मभिश्चानुक्रमात्।
तिलैः घृतैश्च पादाया दत्वोर्ध्वं विनियोजयेत्॥
ऊर्ध्वशब्देन वा शुद्धं यत् क्रमात् परिकीर्तितम्।
तस्मिन् संयोजनं कुर्यात् तच्चान्यत्र विधीयते॥
तस्मान्नोद्धरणं कुर्यान्न चापनयनं क्वचित्।
यदत्र परिपाट्यं तु कर्म तत्रापि योजनम्॥
ततोऽणिमादिका वाद्यो ब्रह्मभिश्चाप्यनुक्रमात्।
हु(कृ)त्वा इति प्रयोगेण भोगार्थं चैवमात्मनः॥
ऊर्ध्वशकब्देन यञ्जीत यत् भूलोकं समाश्रितम्।
तच्च युक्तस्य निर्वर्त्य न चान्यस्मिन् कथञ्चन॥
अनुद्धृते कथं योगो यावत्कर्मानुभुञ्जते।
तस्योद्योगशब्देन तत्तत्कर्मैकचित्ततः॥
निर्वर्त्यते महादेवी निष्कृतिं जुहुयात्ततः।
शिवेनाष्टशतं हुत्वा ततस्तु भुवनाधिपान्॥
भुवनान्तं निवासांश्च भुवनानां यथाक्रमम्।
होमेनैव तु संशोध्य ततो विश्लेषचेतनम्॥
पूर्णान्तं चैव ततो ध्यानं तत्स्थं चैवानुक्रमात्।
प्रायश्चित्तं ततो हुत्वा ॥।नं ज्ञाना(नो)द्भवे कृतः॥
एवमादिक्रमेणैव यामान्तं परिशोधयेत्।
संसारार्णवमग्नानां नौरिवोद्धरणं परम्॥
मायामोहाद्विनिक्रान्तमज्ञानपशुगोचरम्।
यदा तु कारणाच्छक्ति भवेन्निर्वाणकारिका॥
शिवेच्छया प्रपद्येन दीक्षां ज्ञानवतीं शुभाम्।
मन्त्रयोगात्मिकां विद्यात्तदा मोक्षं व्रजेत्पशुः॥
नान्यथा मोक्षमायान्ति अविज्ञानशतैरपि।
यस्य प्रकाशिकं सर्वं शिवेनान्तररूपिणा॥
स एव मोक्षं व्रजति शिवः स च महेश्वरः।
गुरुप्रसादाद्देवेशि दीक्षां प्राप्य शिवाध्वे॥
गुरुर्निरीक्षणादेव सर्वपापक्षयो भवेत्।
विनश्यन्धकारं यथा ॥॥ सूर्यस्य सन्निधौ॥
न लिप्यते मलेनैव पद्मपत्रमिवाम्भसा।

॥ इति दीक्षाभेदक्रमग्रन्थसङ्ग्रहं समाप्तम् ॥


॥ वरुणपद्धतिः ॥

अथ सङ्गृह्यते बीजद्वयं दीक्षाप्रतिष्ठयोः॥
स पाशत्रयविश्लेषं शिवत्वमुच्यते यथा।
क्रिया सा कथ्यते दीक्षाभक्तिवैराग्यलक्षणा॥
तस्मात् ज्ञानं च भक्तिश्च वैराग्यमिति चात्मनः।
दीक्षितस्येह चिह्नानि पशोस्त्वेतानि नाञ्जसा॥
किञ्चिज्ज्ञो मलिनो भिन्नः कर्ता भोक्ता स्वकर्मणाम्।
शरीरान्यो विभुं नित्यः संस्कार्यः सेश्वरः पशुः॥
पाशापि त्रयो ज्ञेया मलो माया च कर्म च।
मलश्चाशुद्धिरज्ञानं तच्चैतन्यनिरोधकम्॥
मायाकलादिप्रवृत्यन्ता यत् भवा तत्वसंहतिः।
धर्माधर्मात्मकं कर्मेत्येतैः पाशैर्युतः पशुः॥
पशोरज्ञतया माया योगो भोगाय कर्मणाम्।
समा यातीश्वरेच्छा ॥॥।र्नास्यान्यथा यतः॥
ततः सुखादिकं कृत्स्नं भोगं भुङ्क्तेध्वकर्मतः।
संसारी स वशीर्बद्धो मुक्तः पाशत्रयोन्वितः॥
त्रिधा सोयमनुग्राह्यः सकलः (प्र)लयाकलः।
विज्ञानकल इत्येषां स्वरूपमधुनोच्यते॥
मायाकर्ममलजन्मः सकलः सो विधीयते।
मलकर्मवृतो यस्य स भवेत् प्रलयाकलः॥
मलैकबन्धं बन्धो विज्ञाना कल उच्यते।
निराधारोऽथ साधारः शिवस्यानुग्रहो द्विधा॥
शिवोऽनपेक्षिताचार्यो द्विधा शक्तिनिपातनात्।
स्वयमेवानुग्रहाति विज्ञानप्रलयाकलान्॥
आचार्य मूर्तिमास्थाय चतुर्धा शक्तिपाततः।
भगवाननुगृह्णाति स एव सकलानपि॥
शिवस्यानुग्रहा दीक्षा जायन्त कृतकर्मणाम्।
सा चानेकविधा प्रोक्ताः तत्प्रपञ्चोऽथ मु(उ)च्यते॥
चाक्षुषी स्पर्शदीक्षा च वाचकी मानसी तथा।
शास्त्री च योगदीक्षा च हौत्रीत्यादिरनेकधा॥
चक्षुरुन्मील्य यत्तत्वस्यात्वा(द्वा) शिष्यं समीक्ष्यते।
पाशबन्धविमोक्षाय दीक्षेयं चाक्षुषी भवेत्॥
निधाय दक्षिणे हस्ते शिवं ब्रह्माङ्गसंयुतम्।
संस्पर्शयेच्छिष्यमूर्धादि स्पर्शदीक्षा भवेदियम्॥
तत्वे चित्तं समाधाय बृंहितान्त ॥। तेजसा।
उच्चरेत्संहितामन्त्रान् वाग्दीक्षेयं प्रकीर्तिता॥
मानसं विधिमाश्रित्य मानसीमभिधीयते।
शास्त्रस्य सम्प्रदानेन शास्त्रदीक्षा समीरिता॥
योगेन योगदीक्षा स्यात् शिवत्वे सा व्यवस्थिता।
रजः कुण्डवती भौती सा द्विभेदा किलोदिता॥
समासाच्च द्विधेवेयं दीक्षा तज्ज्ञैरिहोच्यते।
ज्ञानवती भवत्येका क्रियावत्यपरा स्मृता॥
विनेज्यानलकर्मादिमनोव्यापारमात्रतः।
दीक्षा ज्ञानवती प्रोक्ता सम्यक्तत्वावबोधजा॥
इज्यानलवती या क्रियाकौशलसम्भवा।
क्रियावत्यथ सानेका निर्बीजा च सबीजका॥
तत्र निर्बीजिका या सा योज्य समयिपुत्रयोः।
सबीजा तु भवेद्दीक्षा साधकाचार्ययोरपि॥
अथ निर्बीजिका दीक्षा प्रोक्ता सा द्विप्रकारिका।
एका निर्वाणदा सद्यो द्वितीया देहपाततः॥
बालबालीशवृद्धस्त्रीभोगभुग्व्याधितात्मनाम्।
भवेन्निर्बीजिका दीक्षा समयाचारवर्जिता॥
विदुषां च समर्थानां सबीजा परिकीर्तिता।
सबीजा च द्विधा भिन्ना प्रथमा शिवधर्मिणी॥
अधर्ममातृसंशुद्धा द्वितीयाचार्ययोः सोक्ता देशकालादिभेदतः।
धर्माधर्मात्मकं कर्म प्रागागामि विचित्रकम्॥
सञ्चिन्त्य शोच्यते यत्र सैवोक्ता शिवधर्मिणी॥
अधर्ममात्रसंशुद्धा द्वितीया लोकधर्मिणी।
दीक्षया लोकधर्मिण्या गृहस्थान् दीक्षयेद्गुरुः॥
नित्यमात्राधिकारित्वात् समयिन्यपुत्रके।
दीक्षा निरधिकारैव नैमित्तानधिकारिणी॥
साधकाचार्ययोर्नित्यनैमित्ती काम्यकर्मसु।
सर्वत्राप्यधिकारित्वात् साधिकारैव सा तयोः॥
यत्र रुद्रपदे योगो योगायत्रेश्वरे पदे।
शिखाच्छेदो न यत्रस्ति दीक्षा समयिपुत्रयोः॥
यत्र पाशशिखाच्छेदो योगः शिवपदे भवेत्।
निर्वाणाख्या तु सा सैव पुत्रकेनाभिषेकतः॥
साध्वमन्त्राभिषेकाच्च साधके सा प्रकीर्तिता।
सर्वविद्या॥षेकेण भवेत् साचार्यगोचरे॥
शिवसंस्कारयुक्तस्य यच्छिवत्वसमर्पणम्।
क्रियया वाथ शक्त्या वा दीक्षा वा सर्वतो मता॥
दीक्षया मुच्यते देही त्रिविधाद्भवबन्धनात्।
सा च दीक्षाध्वसंशुद्धा स चाध्वा षड्विध स्मृतः॥
मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकः।
तत्वाध्वा च कलाध्वा च विशत्येकं पदं शिवम्॥
मन्त्राः पदानि वर्णैश्च व्याप्तानीह समन्ततः।
वर्णास्तु भुवनैर्व्याप्तास्तत्वैर्व्याप्तानि तानि च॥
कलाभिस्तानितत्वानि व्याप्तानीह कलाः क्रमात्।
शोधनीया विभाव्यैवं पञ्चपञ्चार्धगर्गर्जि(र्भि)ताः॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी।
कलाहृत्कण्ठतालुभ्रूब्रह्मरन्ध्रावधि क्रमात्॥
निवृत्तौ पार्थिवं तत्वं चिन्त्यमेकं क्षमक्षरम्।
कालाग्निप्रभृतीनां तु पुरमष्टोत्तरं शतम्॥
अन्त्यात् पदान् महादेव पदावधि विलोमतः।
व्योमव्यापिपदान्यष्टाविंशतिः परिसङ्ख्यया॥
सद्योजतश्च हृदयं द्वौ मन्त्रौ परिकीर्तितौ।
गुणा गन्धादिशब्दान्ताः पञ्चब्रह्मा च कारणम्॥
प्रतिष्ठायामबादीनि त्रयोविंशतिसङ्ख्यया।
प्रकृत्यन्तानि तत्वानि ज्ञातव्यानि स्वगर्भतः॥
त्रयोविंशति वर्णाश्च हादिटान्ता विलोमतः।
ज्ञातव्यान्यमरेशादि षट्पञ्चाशत् पुराणि तु।
महेश्वराद्यरूप्यन्ता पदानामेकविंशतिः॥
शिरो वामश्च मन्त्रौ द्वौ चत्वारस्तु गुणा मता।
रसादिशब्दपर्यन्ता विष्णुरत्र च कारणम्॥
विद्यायां सप्ततत्वानि पुरुषादित्यनुक्रमात्।
वामादिभुवनान्तं च विज्ञेया सप्तविंशतिः॥
ध्यानाहारायपर्यन्ता व्यापिन्निति पदादितः।
पदानां विशतिर्मन्त्रौ शिखाखोरौ व्यवस्थितौ॥
ज्ञकारादिसकारान्ता वर्णाः सप्त विलोमतः।
रूपस्पर्शश्च शब्दश्च गुणा रुद्रस्तु कारणम्॥
शान्तौ तु त्रीणि तत्वानि विद्येश्वरसदाशिवाः।
गखकाश्च त्रयो वर्णामन्त्रौ वक्त्रतनुजकौ॥
वाममुख्यपुराण्यष्टादशैव परिसङ्ख्यया।
नित्ययोगिन इत्यादीन्येकादशपदानि च॥
व्योमव्यापिन इत्यन्तान्युक्तानीह विलोमतः।
गुण॥स्परशश्च शब्दश्च द्वावीश्वरस्तु कारणम्॥
शान्त्यातीतकलायां तु तत्वद्वयं व्यवस्थितम्।
निवृत्यादिपुराण्यत्र भवन्ति दश पञ्च च॥
ओमित्येकं पदं मन्त्रम् अत्रैशानशिवास्त्रयाः।
विसर्गाद्या अकारान्ता वर्णा षोडश कीर्तिताः॥
तवर्गो गुणः शब्दः कारणस्तु सदाशिवः।
इत्यध्वानं विचिन्त्याथ षडध्वव्यापिनीं पराम्॥
ध्यात्वा शक्तिं तदूर्ध्वे तु भावयेत् परमं पदम्।
अथ दीक्षोपयुक्तानां क्रमेणैव षडध्वनाम्॥
सद्यो वाममहाघोरपुरुषेशानकृच्छिरः॥
शिखावर्मास्त्रकूलं च मन्त्राध्वा समुदाहृताः।
ॐ व्योमव्यापिने। व्योमरूपाय। सर्वव्यापिने। शिवाय।
अनन्ताय। अनाथाय। अनाश्रिताय। ध्रुवाय। शाश्वताय। योगपीठसंस्थिताय। नित्ययोगिने। ११ ।
ध्यानाहाराय। ओन्नमश्शिवाय। सर्वप्रभवे। शिवाय। ईशानमूर्धाय। तत्पुरुषवक्त्राय।
अघोरहृदयाय। वामदेवगुह्याय। सद्योजातमूर्तये। ओन्नमो नमः। गुह्यातिगुह्याय। गोप्त्रे।
अनिधनाय।
सर्वयोगाधिकृताय। सर्वविद्याधिपाय। ज्योतिरूपाय। परमेश्वराय।
अचेतन अचेतन। व्योमिन् व्योमिन्। व्यापिन् व्यापिन्। २० । अरूपिन् अरूपिन्। प्रथम प्रथम। तेजस्तेजः।
ज्योतिर्ज्योतिः। अरूप। अनग्नि। अधूम। अभस्म। अनादे। नाना नाना।
धू धू धू धू। ॐ भूः। ॐ भुवः। ॐ सुवः।अनिधन। निधन। निधनोद्भव। शिव। शर्व।
परमात्मन्। महेश्वर। २१। महादेव। सद्भावेश्वर। महातेजः। योगाधिपते। मुञ्च मुञ्च।
प्रथम प्रथम। शर्व शर्व। भव भव। भवोद्भव। सर्वभूतसुखप्रद।
सर्वसान्निध्यकर। ब्रह्मविष्णुरुद्रपर। अनद्धित अनद्धित। असंस्कृत असंस्कृत। पूर्वस्थित
पूर्वस्थित। साक्षि साक्षि। तुरु तुरु। पतङ्ग
पतङ्ग। पिङ्ग पिङ्ग। ज्ञान ज्ञान। शब्द शब्द। सूक्ष्म सूक्ष्म। शिव।
शर्व। सर्वद। ओन्नमो नमः। ॐ शिवाय नमो नमः। ॐ।२८।
एकाशीतिपदैरेवं पदाध्वा परिकीर्तिताः।
अकारादिक्षकारा
॥॥॥॥ समुदाहृतः॥
कालाग्निरथ कूश्माण्डं हाटकं ब्रह्मवैष्णवम्।
रौद्रं च भुवनान्यन्तब्रह्माण्डस्य स्थितानि षट्॥
कपालीशत्वजो बुद्धो वक्त्रभेदः प्रमर्दनः।
वि(ह)ति॥॥॥॥॥॥ पिनाकी त्रिदशाधिपः॥
अग्निरुद्रो हुताशश्च पिङ्गलः पादको हरः।
ज्वलनो दहनो बब भ्रूर्भस्मान्तकः क्षयान्तकः॥
यया नद्या मृत्युर्हरो विधाता च तथा परः।
अक्षयोक्ता वियोक्ता च धर्मो धर्मपतिस्तथा॥
य निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः।
ऊर्ध्वशेफो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः॥ १०
बलश्चातिबलश्चैव पाशहस्तो महाबलः।
श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः॥
मेघनादः सुनादश्च दशमः परिकीर्तितः। १०
शीघ्रोलघुर्वायुवेगः सूक्ष्मतीक्ष्णः क्षयान्तकः॥
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः। १० *
निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः॥
लक्ष्मीधृक् रत्नधृक् श्रीधृक् प्रसादश्च प्रकामदः। १०
विद्याधिपेशसर्वज्ञा ज्ञानभूश्वेदपारगः॥
सुरेशः शर्वो ज्येष्ठश्च भूतपालो बलिप्रियः।
वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः॥
ग्रसनोदुम्बरी शौचफणीन्द्रो वज्रदंष्ट्रिणौ। १०
शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशेश्वरः॥
संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः। १०
वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम्॥
कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले।
याम्याद्या दक्षिणे भागे नैरुते नैरुतादयः॥
बलाद्या वारुणे भागे घीघ्राद्या वायुगोचरे।
उत्तरे च निधीशाद्या ईशे विद्याधिपादयः॥
वृषादयस्त्वधोभागे शम्भुमुख्या नभोगताः।
ब्रह्माण्डस्य बहिर्देश दशदिक्षु व्यवस्थितः॥
एवं कालाग्निमुख्यानां पुराणां परिसङ्ख्यया।
निवृत्याख्यकलायां तु ज्ञेयमष्टोत्तरं शतम्॥
अमरेशः प्रभासश्च नैमीशः पुष्करा षडी।
डिण्डिमु
ण्डिस्तथा भारभूतिश्च व(ल)कुलीश्वरः॥*

हरिश्चन्द्रश्च श्रीशैलो कल्पेशा॥॥॥॥दिकेश्वरः।
मध्यमे शोमगा कालः केदारो भैरवस्तथा॥ ८
गया चैव कुरुक्षेत्रं नाखलो नखवस्तथा।
विमलेशोऽट्टहासश्च महेन्द्रो भीसकेश्वरः॥ ८
वस्त्रापदो रुद्रकोटिरविमुक्तो महालयः।
गोकर्णो भद्रकर्णश्च स्वर्णाक्षस्थाणुरित्यपि॥ ८
छगलण्डो द्विरण्डश्च ॥। काटो मण्डलेश्वरः।
कालज्ञाः शङ्खुकर्णः धूलेश्वरस्थलेश्वरः॥ ८
पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च।
सौम्यं प्राजेश्वरं ब्राह्ममष्टमं परिकीर्तितम्॥ ८
अकृतं च कृतं चैव भैरवं ब्राह्ममेव वैष्णवम्।
कौमारं च तथा चौमं श्रीकण्ठं चाष्टमं तथा॥ ८
अमरेशादि चाप्तत्वे हरिं चन्द्रादितेजसि।
गयादिवायुतत्वे च व्योम्नि वस्त्रपदादि च॥
छगण्डलाद्यहङ्कारे पैशाचाद्यं मतौ स्थितम्।
प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणि तु॥
ज्ञातव्यानि प्रतिष्ठायाममरेशादिनामभिः।
वामो भीमस्तथोग्रश्च भवेशेनैकवीरकाः॥
प्रचण्डो मातिश्चाजोनं तैकः शिव एव च।
क्रोधश्चण्डो मुनिश्चैव संवर्तः स्रुव एव च॥
पञ्चान्तकैकवीरौ च शिवे(खे)दश्च महाद्युतिः।
वामदेवो भवश्चै भवोद्भवश्चाप्येकपिङ्गलः॥
एकोक्षणस्तथेशानस्तथैवाङ्गुष्ठमात्रकः।
वामादिपुरुषे रागे प्रचण्डादित्यपञ्चकम्॥
नियत्यादिषु च क्रोधादिमहाद्युत्यादिमायिके।
वामादीनां पुराणां तु विद्यायां सप्तविशतिः॥
वामा ज्येष्ठा च रौद्री च काली कलविकरणी तथा।
बलविकरणी चैव बलप्रमथिनीत्यपि॥
सर्वभूतदमन्येव मनोन्मनीत्यनन्तकः।
सूक्ष्मः शिवोत्तमश्चैकनेत्ररुद्रस्त्रीमूर्तयः॥
श्रीकण्ठश्च शखण्डी च तथैवान्यः सदाशिवः।
वामाद्याशुद्धविद्यायामन्ताद्यास्तथेश्वरे॥
शान्तौ वामामुखान्यष्टादशैव भुवनानि तु।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च॥
शान्त्यातीतेऽम्बिका चैव दीपिका रोचिका तथा।
………॥र्ध्वगा चैव व्यापिनी व्योमरूपिणी॥
अनन्ता चाप्यनाथा चाश्रनाश्रिता च तथा परा।
निवृत्यादीन्यतीतायां पुराणि दश पञ्च च॥
एवं पञ्चकला वक्त्री भुवनानां शत॥॥॥॥।
॥॥॥॥शोत्तरं यत्तत् भुवनाध्वनि वर्णितम्॥
अथ तत्वानि षट्त्रिंशत् प्राप्ते जो मरुद्वियत्।
गन्धो रूपरसस्पर्शः शब्दोपस्थौ च पायु च॥
पादौ पाणी च वाङ्नासाजिह्वाचक्षुत्वचस्रुतिः।
मनोहङ्कारबुद्धी च प्रकृतिः पुरुषस्तथा॥
रागो नियतिर्विद्या च कला कालश्च मोहिनी।
विद्या चेश्वरसादाख्यौ शक्तिः शिव इति स्मृतः॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथा परा।
अतीतेति कलाविद्धि समुद्देशः षडध्वनाम्॥


॥ अथ प्रतिष्ठाविधिः ॥
ज्ञानशक्त्यात्मके लिङ्गे क्रियाशक्तेः समर्पणम्।
पीठस्य विधिना योगः प्रतिष्ठा सा च पञ्चधा॥
प्रतिष्ठा स्थापनं चैव स्थितस्थापनमेव च।
लिङ्गे ब्रह्मशिलान्यासपूर्वके योज्य पिण्डिके॥
बाणादावपृथक्पीठे जीर्णे व्यक्ते यथाक्रमम्।
मूर्तिमूर्दीशविन्यासस्तत्वतत्वेश्वरान्वितः॥
अष्टधा पञ्चधा यत्र प्रतिष्ठा सा विधिः क्वचित्।
रुद्रभागे त्रिधा भक्ते ब्रह्मरेखानुसारतः॥
अधो भागद्वयो लक्ष्म लम्बयेदाजलाश्रयम्।
लिङ्गायामजिनांशे तु लक्ष्मविस्तृतिरंशतः॥
पृथ्वी निम्ना च तद्रेखा विस्तृते नवमांशतः।
लक्ष्मार्धात् पक्षरेखे द्वे तत्क्षेत्राष्टांशभाजिते॥
षट्सप्तांशभ्रमात् पृष्ठे तद्योगोऽधो विवर्जनात्।
वह्निभक्ते तु तत्क्षेत्रे सार्धभागयुगभ्रमात्॥
लक्ष्म सन्तति उ(वृ)त्य(ध्य)र्थमधोभागार्धवर्जनात्।
साधारणविधावेतत् कृत्यभेदे तदन्यथा॥
नयनोन्मीलनं व्यक्ते व्यक्ताव्यक्ते च लक्ष्म च।
न बाणादौ चलेनैतत् न लौहेनापि रत्नजे॥
रन्ध्रमध्ये भगाकारमूर्ध्वाग्रं लक्ष्मपीठगम्।
रन्ध्रस्यैकद्विभागेन तन्मूलभ्रमरेखिडत्॥
लिङ्गपीठशिलानां च व्याप्तिस्तत्वानिति क्रमात्।
शिवशक्तिसदेशान्तं त्रिखण्डं कल्पयेत् पुनः॥
विद्याशक्तिशिवप्रोक्तं माया सा देवि शक्तिकीम्।
शब्दचित्तसदेशान्तं लिङ्गे पीठेऽश्मनि क्रमात्॥
मायातत्वत्रिकं व्याप्तिर्हृत्कुम्भस्य प्रकीर्तिताः।
त्रिखण्डाध्वा पुनश्चित्तकला मायावसानकः॥
पुरुषस्य त्रिखण्डाध्वा शब्दधी पुरुषावधिः।
द्वारप्रासादचूडानां व्याप्तिर्लिङ्गवतीरिता॥
ब्रह्मविष्ण्वीशकास्तत्र न्यसेत्तत्वत्रयं क्रमात्।
स्वतत्वाधिकोपेतमात्मविद्याशिवात्मकम्॥
अष्टौ वा पञ्चधा वापि मूर्तिमूर्तीश्वरान्वितम्।
ब्रह्मविष्णुहरा एव लिङ्गे तत्वत्रयाधिपाः॥
क्ष्मावह्नियजनमानार्कजत्ववूयुनिशाकराः।
व्योमान्ता मूर्तयश्चाष्टौ न्यस्तव्याः प्रतिखण्डकम्॥
शर्वः पशुपतिश्चोग्रो रुद्रश्चैव भवस्तथा।
ईशानश्च महादेवो भीमश्चेत्यष्टमूर्तिपाः॥
शुद्धविद्यादिशक्त्यन्ते बुभुक्षोः शुद्धवर्तिनी।
साधकस्य प्रतिष्ठायामनन्ताद्यास्तु मूर्तिपाः॥
अनन्तः शुद्धसञ्ज्ञश्च शिवोत्तमैकनेत्रकौ।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्ड्यथ॥
पुरुषीदक्रमायान्ते शुद्धाशुद्धाध्वके ध्वनि।
विज्ञेया मूर्तिपा रुद्रा अङ्गुष्ठमात्रकामथ॥
अङ्गुष्ठमात्र ईशानो एकेक्षणैकपिङ्गलः।
उद्भवश्च भवश्चैव वामदेवो महाद्युतिः॥
अशुद्धे ध्वनिवृध्यादि प्रधानान्ते व्यवस्थिताः।
मूर्तिपाः शतरुद्राणामष्टौ दशदिगात्मनाम्॥
कपालीशोऽग्निरुद्रश्च याम्यो नैरुतसञ्ज्ञकः।
बलः शीघ्रो निधीशश्च विद्याधिपतिरष्टमः॥
क्वचिदिन्द्रादयो लोकपाला मूर्तीश्वरा मताः।
प्रसिद्धा एवमेवापि क्षुद्रकर्मणि भैरवाः॥
असिताङ्गो रुरुश्चण्डको यश्चोन्मत्तभैरवम्।
कपाली भीषणश्चैव संहारश्चाष्टमस्मृतः॥
पञ्चमूर्त्यात्मके न्यासे क्ष्मावारिदहनानिलाः।
खश्चेति मूर्तयो लिङ्गे ब्रह्माद्याः पञ्चमूर्तिपाः॥
मुमुक्षोर्वा प्रतिष्ठायां निवृत्याद्यास्तु मूर्तयः।
सद्योजातादयो लिङ्गे मताः पञ्च तदीश्वराः॥
एवं पीठे शिलायां च न्यासः कार्योऽभिधायता।
क्रिया ज्ञानी तथेच्छा च त्रितत्वादीश्वरा मताः॥
॥॥॥दीप्तिमसुग्रा ज्योत्स्ना चेता बलोत्कटा।
धात्री विभ्वी त्रिमूर्तीशाः मताः पीठादिगोचरे॥
साधकस्य प्रतिष्ठायां पीठादौ मृत्यधीश्वराः।
अनन्तादय एव स्युः स्त्रीपालेशमागताः॥
वामा ज्येष्ठा क्रिया ज्ञानी चेच्छाद्युः पञ्चपक्षतः।
पीठादौ पञ्चमूर्तीशा उग्राब्धा नाम योच्यते॥
तमो मोहा क्षया निष्ठा मृत्युर्माया भया ज्वरा।
पञ्चपक्षे तमा मोहा घोरातिरपरज्वराः॥
पञ्चानामपि मूर्तीनां लिङ्गपीठशिलास्वपि।
तत्वाध्वाव्याप्तितो भेदं क्रमादेवं विभावयेत्॥
रागान्ताक्ष्माम्बुकालान्तं विद्यान्तश्च हुताशनः।
वायुरीश्वरपर्यन्तं शिवान्तं व्योमलिङ्गतः॥
पुमन्ताक्ष्माम्बुकालान्तं स्यात्तु मायान्तकोऽनलः।
शुद्धविद्यान्तको वायुः शक्लन्तं व्योमपीठतः॥
भातान्ताक्ष्माम्बुशब्दान्तं वह्निकर्मेन्द्रियान्तकम्।
बुद्धीन्द्रियान्तको वायु व्योमबुद्ध्यन्तमश्मनि॥
अष्टपक्षे तु पूर्वादीशानान्ता क्ष्मादिमूर्तयः।
पञ्चपक्षे परोदीची याम्यपूर्वेश्वराश्रिताः॥
अयमेव क्रमः सर्वो द्रष्टव्यः प्रतिमास्वपि।
मूर्तिमूर्तीश्वरादीनां व्याप्तिं बीजं च नाम च॥
ध्यात्वा रूपं च सर्वत्र न्यासं कुर्ताद्यथास्थितम्।
आप्तत्वे संस्थिता पृथ्वी अबादि स्व स्व गोचरे॥
शब्दतन्मात्रमूर्ध्नि द्वौ सोमसूर्यौ व्यवस्थितौ।
तयोरूर्ध्वे धर्माख्यो गण्डे शर्वो व्यवस्थितः॥
रूपे स्थितः पशुपति रुद्रोऽहङ्कारगोचरे।
रुद्रस्तत्रैव बोद्धव्यो रसतन्मात्रगो भवः॥
ईशान स्पर्शतन्मात्रे महादेवो मनस्थितः।
भीमश्च शब्दतन्मात्रे मूर्तीशानां व्यवस्थितिः॥
विद्येश्वराश्च विज्ञेया विद्यातत्वे व्यवस्थिताः।
क्ष्मादी पुमवयौ ब्रह्मा क्ष्मादिमायान्तको हरिः॥
क्ष्मादिविद्यान्तको रुद्रः क्ष्मादिबिन्द्वन्तर ईश्वरः।
सादाख्यक्ष्मादिना दान्ते शक्तिः क्ष्मादिपरमावधि॥
पृथ्वीतत्वे स्थिता विष्णोर्दशावतारमूर्तयः।
भूतहृद्बुद्धिं गौणं पुर्जविद्येश्वरगोचराः॥ (८थ् लिक्ने)
मित्राद्याः केशवाद्याश्च त्र्यम्बकाद्या दश स्मृताः।
विघ्नराजश्च सादाख्ये तद्वद्देवी सरस्वती॥
नन्दाद्याः शुद्धविद्यायां लक्ष्मीरीश्वरगोचरे।
प्रकृतौ च स्थिता जनाः शाक्ता बुद्धौ व्यवस्थिताः॥
पुरुषे पञ्चरात्रज्ञाः शिवे सूर्यो व्यवस्थितः।
अप्सरो यज्ञरक्षांसि विद्याधरा हि किन्नराः॥
भूतवेदालडाकिन्यो ग्रहनक्षत्रराशयः।
समुद्राः क्षेत्रपालाद्या ऋषि ब्रह्मा दिगीश्वराः॥
उर्वीतत्वे स्थिता ज्ञाया जरायुजाण्डजोद्भिजाः।
अन्येषामपि तत्वेषु यस्य यत्र व्यवस्थिताः॥
न्यास ॥। दन्तिकं स्तानं परं तस्य तदेव हि।
चतुर्वक्त्राष्टबाहुश्च पीता पाताम्बराधरा॥
कूर्मस्था सौम्यरूपा च नाग[ब्धि]सरिदावृता।
मेषारूढः प्रदीप्तार्चिः शक्तिहस्तो हुताशनः॥
कुण्डाकारोर्ध्वक्त्रश्च प्रज्वलत् भास्करद्युतिः।
कृष्णशृङ्गकरोष्मी सु वामयुक्तः समेखलाः॥
नवनीतविलिप्ताङ्गो यजमानः प्रकीर्तितः।
रविर्वाजी रथारूढः कवची कुण्डली ध्वजी॥
मकुटीं पद्महस्तश्च भूषितो नूरुसारथिः।
चतुर्भुजस्वरूपात्मा सर्वालङ्कारभूषुतः॥
पाशहृद्वरुणो यादो वृन्तो मकरकेतरः।
चतुर्भुजश्चतुर्वक्त्रो धूम्रवर्णो महाबलः॥
एणासीनों कुंशी पीनः कुञ्चितभ्रूः सदा गतिः।
सोमः सौम्यो विमानस्थो गदाशङ्खवरप्रदः॥
विश्वरूपमणिप्रख्यः कलशामृतसंयुतः।
चतुर्भुजश्चतुर्वक्त्रः शूली डमरुधुक्करः॥
शङ्खलवाङ्गध़ऋक्वयोमकुन्देषु कुहिनद्युतिः।
लोकपालगुणैर्युक्तो स्वदिक् शस्त्रोपलक्षिता॥
विद्योशोक्तवपुर्भाजः शर्वाद्यामूर्जपा मताः।
तप्तचामीकरा करा चतुर्वक्त्रे बहुभूषिता॥
वज्राभयाक्षमालाब्जा निवृत्तिः परिकीर्तिता।
शुद्धस्फटिकसङ्काशा चैकवक्त्रा चतुर्भुजा॥
पाशाभयाक्षमालाब्जा प्रतिष्ठा रत्नभूषिता।
रक्तवर्णा कपर्देक्षु त्रिवक्त्रा च चतुर्भुजा॥
शक्त्याभयाक्षमालाब्जा विद्याज्वलनसन्निभा।
चतुर्वक्त्रा चतुर्बाहुः कृष्णवर्णा महाबला॥
ध्वजाभयाक्षमालाब्जा शान्तिः सर्वोपवीतिनी।
शुद्धस्फटिकसङ्काशा पञ्चवक्त्रा चतुर्भुजा॥
पद्माभयाक्षमालाब्जा शान्त्यतीता वरप्रदा।
बालवेषस्थितत्र्यछक्षः पीनः खण्डेन्दुशेखरः॥
आप्यः कुण्डलवान् सद्यः पुण्डरीकनिभेक्षणः।
[वामायोषामुखः?] सौम्यः कान्तालङ्कारभूषितः॥
चूडेन्दुमण्डितः पीनश्रीरामीव निभेक्षणः।
पिङ्गभ्रूश्मश्रुवृत्ताक्षजटाचन्द्राभिभूषणः॥
दंष्ट्रालो लेलिहज्जिहः कृतान्ता शास्थि*॥।नः।*
कुम्भभ्रूश्मश्रुवोषैढ्या पवनो यौवनान्वितः॥
सुभ्रूस्मिताननो व्यालकपालव्यालमण्डितः।
पीतवर्णः कपर्देन्दुः प्राचि तत्पुरुषस्मृतः॥
मन्त्रेशानः सितोत्तानो मूर्ध्नि स्व स्व दिगीशणः।
कुण्डलालङ्कृतस्त्र्यक्ष्यो मौली सुस्तरुणद्युतिः॥
युक्तोऽथ मरुत्सर्वाक्षमालेन्दीवरपूरकैः।
सव्यहस्तेषु खट्वाङ्गशक्तिशूलवराभयैः॥
विद्येश्वराश्चतुर्वक्त्रा हरवद्दशबाहवः।
खण्डेन्दुमौलयः सव्ये पद्मस्था विविधायुधः॥
खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः।
वराभयकरोपेतशूलपङ्गजपाणयः॥
शक्रः सहस्रदृग्वह्नी गजारूढो मरु दृतः।
शरेक्षणो यमो दण्डी भीमो महिषवाहनः॥
प्रेतारूढः करालास्यः खड्गी निरुतिरुग्रदृक्।
गदी वैश्रवणः पीनो बृहज्जठरमण्डितः॥
कुन्देन्दुतुहिनप्रख्यो वृषस्थः खण्डचन्द्रवान्।
विद्योशोक्तायुधोपेत ईशानो गण्डसंवृतः॥
ब्रह्मा चतुर्मुखः पीतश्चतुर्दोर्दण्डमण्डितः।
स्रुक्दण्डाक्षकुशोपेतः किरीटी हंसवाहनः॥
विष्णुश्चतुर्भुजो माली शङ्खचक्रगदाब्जधृक्।
नीलाम्बुदप्रतीकाशो गरुडासनसंस्थितः॥
पञ्चवक्त्रस्त्रिपञ्चाक्षो दशबाह्विन्दुभूषणः।
वृषस्थो ह्युपवीती च रुद्रः कुन्देन्दुनिर्मलः॥
अष्टबाहुश्चतुर्वक्त्रस्फटिकाभस्त्रिलोचनः।
नागययज्ञोपवीती च विज्ञेयो भुवनेश्वरः॥
कुन्देन्दुनिर्मलो देवः पञ्चमन्त्रो महातनुः।
दशबाहुः प्रसन्नास्यः पञ्चवक्त्रः सदाशिवः॥
चतुर्भुजं चतुर्वक्त्रं चतुरश्राम्बुजस्थितम्।
आत्मतत्वं स्मृतं ह्येतत् तप्तचामीकरप्रभम्॥
नीलाम्बुदनिभं नीलमष्टाश्राष्टभुजान्वितम्।
एकवक्त्रं तु सौम्यास्यं विद्यातत्वं प्रकीर्तितम्॥
कुन्देन्दुकुहिनप्रख्यं सर्वाध्वगर्भितम्।
शिवतत्वं स्मृतं ह्येतत् पञ्चवक्त्रं चतुर्भुजम्॥
स्वदेशकालयोरेवं यज्ञोऽधिष्टफलप्रदा।
अन्यदेशेऽन्यकाले च त एवानिष्टहेतवः॥
प्रतिष्टा यामतो देशकालापादानमाचरेत्।
आग्नेय्यां दिशि देशं च कालमैन्द्र्यां प्रपूजयेत्॥
स्वाष्टका देवमावाह्य देशं कृत्वा [ग?]कं स्वतम्।
का वा द्वादशकात् स्वीयात् कृतयाहं यश्च वत्सरम्॥
देशा क्ष्मादिगतां पञ्चामनेशाद्यष्टकं क्रमात्।
कालं च प्रभवादि स्यात् द्वादशक्रमयोगतः॥
पञ्चस्वेषु क्रमात् पञ्चब्रह्माद्याः कारणेश्वराः।
तद्याप्तान्तस्थितश्चान्ये ॥॥॥॥॥॥ देशादियोगतः॥
अथ देशप्रसङ्गेन दृश्यन्ते वास्तुदेवताः।
ब्राह्मशः पर्जन्यो जयन्तमहेन्द्रारविसत्यकः॥
भृशोऽन्तरिक्षः सप्तार्धिः पूषावितथसञ्ज्ञकः।
ग्रहक्षतः प्रेतपतर्गन्धर्वो भृङ्गना[बृ]गः॥
पितृदौवारिसुग्रीवपुष्पदन्तप्रचेतसः।
असुरः शोषरोगौ च वायुं नागोऽथ मुख्यकः॥
भल्लाटश्चैव सो देव अदितिर्दितिरेव च।
मरीचिश्च विवस्वांश्च मित्रश्चैव धराधरः॥
आपापवत् डौडविता सावित्रेन्द्रेन्द्रजित्तमाः।
रुद्रोऽथ रुद्रदासश्च चरकी च विदार्यथ॥
पूतना पापराक्षस्यौ स्कन्दोऽर्यमाथ जम्भकः।
पिलिपिच्छ इति प्रोक्ता त्रिपञ्चाशदथोपदम्॥
प्राच्युदीच्या नानारेखास्ताश्चाष्टादशनाडिकाः।
उभौ कोणगतौ वंशौ रज्जवोऽष्टौ द्विषट्पदाः॥
चतुष्षष्टिपदैर्वास्तु भवेदेवं प्रसङ्गतः।
उद्दिश्यन्ते त्रिपञ्चाशत् क्रमेणैवात्र देवताः॥
मध्यचतुष्पदो ब्रह्मा मरीची प्राचि षट्पदा।
वायुकोणादधो रुद्रो रुद्रदा सप्ततोऽप्यधः॥
दिशि यक्षेश गुप्तायां षट्पदस्यात् धराधरः।
आपस्त्वीशानतोऽधस्तादापवत् स[र्त]तोप्यधः॥
ईशार्धपदमारभ्य ईशानान्तवदावधि।
प्रान्तेष्वीशानशक्लन्ता द्वात्रिंशद्दक्षिणक्रमात्॥
षट्पदस्थो मरीचिश्च विवध्वान् मित्रभूधरौ।
आपापवत्सौ सविता सावित्रेन्द्रेन्द्रजित्तमाः॥
रुद्रतद्दासकौ द्वि द्वि पदौ स्युः पदिकाः परे।
एतद्बीजद्वयं दीक्षाप्रतिष्ठेत्यनयोर्द्वयोः।
सङ्ग्राह्य देशिकैकाले तन्निष्पत्तिसमीहया॥
इत्याहरत्ग्र(द्ग्र)न्थशतद्वयेन श्रीसोमश्म्भुगुरुरागमेभ्यः।
कालेऽन्धरित्येकतमीक्षितत्वं बीजद्वयं ॥।(ना)माभिधानः॥
॥ इति वरुमपद्धतिः समाप्ता। वरुणाभिधानः वरुणशम्भुरिति ज्ञेयः ॥
॥ विषुवलक्षणम् ॥ (१४७अ)
आत्मानं च मनः प्राणैः संयोज्य विषुवं भवेत्।
प्राणविषुवमाख्यातं शिष्यस्वमनसोरपि॥
आत्मनो नादमध्ये तु लयं सञ्चिन्त्य कन्दतः।
अकारोकारवर्णादिसंयोगेन वियोगतः॥
हृदयादिबिलान्तेषु वुषुवं मन्त्रसञ्ज्ञकम्।
मेढ्रोर्ध्वे कन्दनाभिश्च हृदयं कण्ठकूपिका॥
कण्ठस्याग्रं भ्रुवोर्मध्यं ललाटं ब्रह्मणो बिलम्।
शक्तिं च द्वादशान्तं च दशग्रन्धीननुक्रमात्॥
मूलमन्त्रं त्रिशूलेन भित्वा नादः प्रवर्तते।
नादनाडिसमायोगात् तन्नाडी विषुवं मतम्॥
अकारोकारवर्णौ च मकारो बिन्दुसञ्ज्ञकः।
नादनादान्तसंयुक्तौ च त्यक्त्वा ब्रह्मादिषु क्रमात्॥
सप्तमे शक्तिमध्ये तु शिष्यात्मानं लयं नयेत्।
प्रशान्तं तद्विजानीयात् प्रशान्तेनद्रियगोचरम्॥
शक्तिमध्यगतो नादः स मनान्तं प्रसर्पति।
तच्छक्ति विषुवं प्रोक्तं काल्यं विषुवमुच्यते॥
भ्रूक्षेपमात्रो यः कालः स त्रुटिः परिकीर्तितः।
प्राणमेवं त्रतिधा कालं ज्ञात्वा चैवं त्रिधा कुरु॥
अपरः षोडशो यावत् सप्तदश परापरः।
तस्मात् परं तु यः कालः स प्रियेऽष्टादश स्मृतः॥
प्राणमेवं त्रिधा कालं ज्ञात्वा चैवं क्रिया कुरु।
अपरः षोडशो धायकीम्॥
तृतीयं समनान्तं तु कालयं विषुवमुच्यते।
उन्मन्यन्तं ततः प्रोक्तं तत्वं विषुवसञ्ज्ञकम्॥
॥ एतद्विषुवलक्षणं प्रासादचन्द्रिकायां सिद्धान्तसारावल्यामपि प्रकारान्तरेण
द्रष्टव्यम् ॥ (१४७ब् blank)
१४८ तो १५७ मिस्सिन्ग्।

॥ शिवलिङ्गप्रतिष्ठै ॥ (८६अ, १स्त् line[१४८अ])
शिष्यै॥।गुरुसम्बन्धगुरुसम्बन्धिनश्च ये।
न्यसेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकम्॥
ब्रह्मशम्भुपद्धतौ –
अस्ति संस्कारबीजस्य ज्ञानिनः सत्क्रियावतः।
क्षणमात्रं भवेत्तच्च स्नानादेव निवर्तते॥
भक्तिर्ज्ञानं च वैराग्यमेतेष्वन्यतमं तु वा।
यस्य सम्यक्भ(ग्भ)वेत्तेन कार्यं समयिनार्चनम्॥
मन्दं मन्दतरं वापि यस्यै तत्त्रितयं भवेत्।
अन्तर्यागश्च तेनापि कर्तव्योऽन्ते दिनद्वयम्॥
एकाहं वा यवाहारीं च श्रम् ॥॥। सहस्रकम्।
जपेदघोरं स्नानान्ते दशांशं होममेव च॥ इति।
॥ इति
परमेश्वरापरनामधेये श्रीमदघोरशिवाचार्यविरचितायामन्त्येष्ट्यादिविधिः समाप्तः ॥

विघातपादपोऽञ्जललीलानुभवलिप्सया।
पदे मा॥तुभ भावेन क्रीडन्तं गणनायकम्॥

॥ अथाङ्गुरार्पणविधिः ॥
प्रजादिकमुद्दिश्य यत्र दिवसेऽधिवासकर्म क्रियते तद्दिनमेकं विहाय
पूर्वे नवसप्तप॥॥कतमाहे सद्यो वा शुद्धभूतले षोडशधा विभक्ते
मध्यकोष्ठचतुष्टये धान्यपुञ्जैरलङ्कृतं कुम्भं निवेश्य ईशानादिकोष्ठेषु
द्वादशसु मृत्पूर्णपालिकाघटिकाशरावाणां द्वादश संस्थाप्य महादेवशब्दविशिष्टं
पुण्याहं वाचयित्वा सकलीकृत्य मध्यकुम्भे सोमं ॐ

रं पं(वं) यं सं षीं हां श्रीम् अमृतेश्वराय नमः इति सम्पूज्य मध्यबीजेन
चाङ्गानि सम्पूज्य पूर्वादीशान्तपालिकाद्यासु द्वादशादित्यान् प्रणवनमस्कारयुक्तेन
चतुर्थ्यन्तेन स्व नाम्ना पूजयेत्। यथा –
वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः।
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः॥
आदित्यश्चैव सूर्यश्च अंशुमाली दिवाकरः।
इति
एषां पायसं निवेद्य शुद्धपात्रक्षीरे ॐ ह्रीं शक्तये नमः इति सम्पूज्य
तस्मिन् नीवारमुद्गतिलमाषशिम्बकुलस्थ(कुलुत्थ)-
निष्पावकसर्षपाणि चतुः संस्कारैः संस्कृत्य संहितया सम्पूज्य
शिवबीजमित्यभिसन्धाय निक्षिप्य पालिकादिष्वाधारशक्तिं सम्पूज्य धूपदीपादि दत्वा
शङ्खमङ्गलध्वनिपूर्वं हृदयेन मूलब्रह्माङ्गैर्वा बीजानि सक्षीरं निक्षिप्य
चन्द्रकुम्भजलेनाप्याययेत्। पुनः प्रतिदिवसं कुम्भजलेनाप्याय्य
कुम्भमपि विशुद्धजलेन पूरयेत्। निर्दिष्टदिवसावसाने कुम्भं विसृजेत्। अङ्कुराणि
त्ववक्राणि शुभ्राणि चेत् सर्वसम्पत्कराणि भवन्ति।
धूम्राणि कुब्जानि च चेच्छ्रेयो विघ्नकराणि मत्वा शान्तिं कुर्यात्।
॥ अथ जलाधिवासविधिः ॥
लक्षणोद्धारमण्डपे स्नपनपूर्वं वक्ष्यमाणवल्लक्षणोद्धारं
विधाय पुनरपि संस्नाप्यालङ्कृत्य रथादावारोप्य ग्रामादिप्रदक्षिणं विधाय नदीय।
जलतीरे विधायैवं स्थण्डिलद्वितयं गुरुः।
भद्रपीठे समारोप्य देवदेवीं क्रमेण तु॥
आच्छाद्य नववस्त्रेण लम्बकूर्चसमन्वितम्।
परितोऽष्टौ घटा(न्) न्यस्त्वा लोकपालान् समर्प्य च॥
जलमध्ये न्यसेत् पश्चाद्देवं देवीं पदान्वितम्। (८७अ, १स्त् line[१४९अ])
शाययेद्वाथ फलके प्राक्शिरस्कोर्ध्ववक्त्रकम्॥
जलेऽधिवासयेद्देवं त्रिद्विरात्रं सपीठकम्।
एकरात्रं दिवामात्रं याममात्रमथापि वा॥
प्रत्यहं च हविर्नृत्तवेदगीतादिभिः सह।

जलेऽधिवास्य तद्देशादानीय स्नानमण्डपे। प्राग्वेद्यामाकारशोधनं विधाय   

उत्तरवेदिकायामानीय लिङ्गं सवेदिकमलङ्कृत्य
गन्धपुष्पादिभिः सामान्यमन्त्रेणाभ्यर्च्य कौतुकं वा बन्धयेत्। शुद्धतण्डुलपूर्णे
स्वर्णादिपात्रे क्षीरोदवर्णां बीजाङ्कुराकारामाधारशक्तिं सम्पूज्य
तस्यां क्षीरोदनिभां नीवारशूकवत्तन्वीं कुटिलाशक्तिं विभाव्य
स्वर्णरजतक्षौमकारपासेभ्योऽन्यतमं रक्षावस्त्रं विन्यस्य सम्पूज्यालयं परिभ्राम्य

पुण्याहं वाचयित्वा सर्वातोद्यसमन्वितम् अङ्गुष्ठानामिकाभ्यां त्र्यम्बकमन्त्रेण
भस्मना त्रिभिर्विमृज्य सुमुहूर्ते सुलग्ने -
रुद्रांशे बन्धयेत् सूत्रमीशानेन तु मन्त्रतः।
पिण्डिकायाश्च नाले कौतुकं बन्धयेद्धृदा।
त्रैय(त्र्य)म्बकेन मन्त्रेण गन्धौ रक्षां विभावयेत्।
ततः सर्वजनानां तु ताम्बूलं दापयेत् बुधः।
मण्डपस्य पूर्वे शान्तं लिङ्गस्पर्शनपूर्कम्।
वेदमन्त्रजपं चैव कारयेद्वा स्वतन्त्रतः॥
यमुद्दिश्य एष ते रुद्रभागः सहस्वस्राम्बिकया तं जुषस्व ॥॥॥हेत्यादि
कौतुकं बन्धयेत्। रात्रौ सद्यः काले दिवापि वा।
॥ इति जलाधिवासविधिः समाप्तः ॥

(प्रवेशबलिः)
मण्डपे विनायकपूजापूर्वं वास्तुपूजाहोमौ विधाय
तदग्निना पर्यग्निकरणपूर्वं पुण्याहप्रोक्षणं विधाय
वितानदर्भमालाद्यैर्मण्डपमलङ्कुर्यात्। लौहप्रतिमाप्रतिष्ठायां तु रत्नन्यासपूर्वं

पद्मबन्धं सुदृढं कृत्वा पश्चाल्लक्षणोद्धारादि कुर्यात्।

अथ प्रतिष्ठायै शिलाग्रहणार्थं शुभे दिने शिवमभ्यर्च्य सम्प्रार्थ्य   

लब्धानुज्ञसन्निमित्ते शिल्पिभिः
सहायैश्चोपेतः प्राणानायम्य हृद्यस्त्रं स्मरन्नभिमतं शिलास्थानं यायात्। प्राप्य
चोक्तलक्षणां शिलामूरुपृष्ठशिरःपादादि निश्चित्य तदुत्तरभागे
स्थण्डिले शिवमभ्यर्च्याग्नेय्यामग्निमुत्पाद्य मन्त्रतर्पणं विधायान्तर्बलिं दत्वा
शिलामस्त्रेण सम्प्रोक्ष्य
वर्मणावेष्ट्य प्रणवेनाभ्यर्च्य शिल्पिनः सहायान्
अङ्कमुद्गरादिकं चास्त्रेण सम्प्रोक्ष्य प्रणवेन सम्पूज्य वह्नावप्यस्त्रेण शतं हुत्वा
निरुध्य चरुभुङ्मन्त्रकाय स्वप्नमाणवं जपन्
सुप्यात्।
खट्वाङ्गं वरमुद्रां च त्रिशूलमभयं दधत्।
स्वप्नमाणवकः पिङ्गो जटा चन्द्रार्धशेखरः॥
ॐ लिस्तिलिहि शूलपाणये स्वाहा
ॐ नमः शम्भो त्रिणेत्राय पिङ्गलाय महात्मने।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः॥
आचक्ष्व देवदेवेश प्रपन्नोऽस्मि तवान्तिकम्।
स्वप्ने सर्वाणि कार्याणि हृदिस्थानि भयानि मे॥
इति प्रातरुत्थाय शिवं सम्पूज्य शुभे स्वप्नेऽनुमोद्या शुभे शान्त्यर्थमस्त्रेण
शतं हुत्वा प्रागुदगीशानशिर॥।गं शिलां [८८अ ???{१५०अ}] वृषसंयुक्तां चाकोट्य
चतुरश्रीकृत्य देवाग्नी विसृज्य याने समारोप्यानाय्य प्रासादोत्तरदिग्भागे कर्मशालां
प्रापयेत्। अभावे शिलामानाय्य वा ग्रहणं
विदध्यात् पश्चाल्लिङ्गं पिण्डीं ब्रह्मशिलां वृषं चण्डेश्वरं च
शास्त्रोक्तवत् सलक्षणं कारयेत्। तत उक्तलक्षणां भुवं प्राप्य रात्रौ सुमुहूर्ते
सामान्यार्घ्यजलेन
सम्प्रोक्ष्य गन्धादिभिः सम्पूज्य तन्नवधा विभज्य ब्रह्मस्थानादिभागेषु ॐ
भूतप्रेतपिशाचराक्षसादिभ्यसम्रे(र्वे)भ्य स्वाहेति बलिं दत्वा ये ते भूमै वसन्ते
स्यां भूतपैशाचराक्षसाः। स्वेच्छं गच्छन्त्विमां त्यक्त्वा आमिं गृह्णामि वा वितुनः। इति
विज्ञाप्य
विसृजेदिति प्रवेशबलिः।

ततो गुरुः शिल्पिभिः सहैशान्यां   

शिवकुम्भवदेकं कुम्भं विधाय तत्र विश्वकर्माणमप्यताव शमकृनुक्तलक्षणान्
कुम्भपार्श्वे न्यस्त्वाभ्यर्च्य तेनाम्भसा संसिच्य सुमुहूर्ते
आग्नेय्यादिकोणेषु पूपुरः सांशं कृना ताड्य ॐ आग्नेयेभ्योऽथ सर्वेभ्यो ये चान्ये
तत्समाश्रिताः।
बलिं तेभ्यः प्रय॥॥पुण्यमोदनम(मु)त्तमम्।
सर्वे गृह्णन्तु मे॥।ष्टाः स्वाहाकारानुयोजिताः।
नैरुत्योऽधिपतेश्चैव नैरुत्या ये च राक्षसाः॥
बलिं तेभ्यः प्रयच्छामि गृह्णन्तु सुमनोत्सुकाः।
पुण्यमोदनम्। ॐ (८थ् लिल्ने)
रुद्रेभ्यश्चैव सर्वेभ्यो ये चान्ये तत् समाश्रिताः।
बलिं तेभ्यो प्रयच्छामि गृह्णन्तु सुमनोत्सुकाः। इति बलिं दद्यात्।
॥ इति शङ्कुस्थापनम् ॥
॥ ह । भ परिग्रहविधिः ॥

अथ प्रासादं चिकीर्षुर्यथोक्तलक्षणं भुवं खातादिभिः परीक्ष्य परिगृह्णीयात् तस्यां
यथोक्तमण्डपं कुण्डसहितं कारयित्वा द्वारतत्पालपूजादि मन्त्रतर्पणान्तं
कर्म कृत्वा वस्त्रान् गुणद्रव्यलोहे वर्णापादनार्थं तच्छान्तीशमन्त्रेण सहस्रं कृत्वा
भूशुद्ध्यर्थमघोरास्त्रेण सहस्रं हुत्वा वास्तुमध्ये तुवं समीकृत्योपलिप्य
तस्यां शङ्खादिना दिक्सिद्धिं कृत्वा स्वर्णदध्यक्षतैः
प्रदक्षिणां रेखां विधाय मध्यादीशकोणे सर्वधान्योपरिस्थितं पुम्योदपूर्णं
प्रशस्तौषधिरत्नगर्भचूताश्वत्थपल्लवबीजपूरादिफलोपशोभितमुखं
शुक्लसूत्रवस्त्रयुगावृतं कुम्भं साङ्गेन भगवता समधिष्ठितं सम्पूज्य
वास्तुमभ्यर्च्य
कुम्भजलेन कुद्दालादिकं संस्नाप्य वास्तुबाह्ये रक्षोगृहानिष्पाविधिना दिग्बलिं कृत्वा
वास्तुगतां पूजां कुम्भे समाकृष्य लग्ने प्राप्ते

आग्नेर्यामभिषिक्ते मध्वक्तेन कुद्दालेन हस्तप्रमाणं खात्वा मृत्स्नां नैरुते प्रक्षिप्य
खातं कुम्भजलेन पूर्य भूमिं संसिच्य कुद्दालाद्यं
संस्नाप्य पूजयेत्। परं पूर्णकुम्भं वस्त्रयुगच्छन्नं ब्राह्मणस्य दक्षिणस्कन्धे
निधाय गीतवाद्यादिब्रह्मघोषेण बहुजनसाक्षिकं यावदभीप्सितं
पुरस्य पूर्वसीमान्तं नयेत्। तत्र च मुहूर्तमात्रं स्थित्वा प्रदक्षिणं परितः
सीमान्तचिह्नानि सिञ्चन्
यावदीशानगोचरं भ्रामयेत्। इत्थं भद्रकुम्भपरिग्रहमनेन
भूपरिग्रहं कृत्वा यागं विसृजेत्। तदनन्तरं प्रासादभूमिं
श(शि)ष्याशङ्कानिवृत्यर्थं जलान्तं खात्वा हस्तापूरणपूषाणैरष्टाङ्गुलोच्छ्रितं
मृदन्तरैर्जलाप्लुतैर्मुद्गराकोटितै पादत्रयान्तमापूर्य समां सुघट्टितां
श्लक्ष्णादीशानप्लवां भुवं विधायेष्टमानं चतुरश्रं संसाध्य
शिलान्यासमुपक्रमेत्।

तत्र शुभदिने मूर्तिपैः सहितो गुरुर्वक्ष्यमाणवत् मण्डपे द्वारपूजादिमन्त्रतर्पणान्तं
कर्म कृत्वा देशापादन-कालापादन-दुर्निमित्तशान्ति-
सुनिमित्तापादनानि विधाय यजमानार्चितस्नानमण्डपं गत्वा शिलानां स्नपनमुपक्रमेत्।
ताश्च शिलामये प्रासादे शिलामयाश्चतुरश्राः कराय
तास्तदर्धविस्तृताः अष्टाङ्गुलोच्छ्रिताः यद्वा इष्टकामये तदर्धप्रमाणा
इष्टका वज्राद्यैरङ्किता नवपद्माणिताः पञ्च वा पञ्चपक्षे
तासु विदिक् शिलासु चिह्नानि कृत्वा आसामविशेषेण प्रणवासनं दत्वा सदर्भं दत्वा मध्ये
याः श्रीसञ्ज्ञां शिला तत्पार्श्वे उत्तराख्यघटं च
पूर्वाद्यष्टदिक्षु नन्दा-भद्रा-जया-पूर्णा-अजिता-अपराजिता-विजया-मङ्गलाद्योः शिलाः
तत्पार्श्वेक्षु-सुभद्रा-विभद्रा-सुनन्दा-पुष्पनष्टका-जया-विजया-कुम्भपूर्णसञ्ज्ञान्

घटान् क्रमेण विन्यसेत्। पञ्चपक्षे मध्ये पूर्वाख्यां समुद्रकलशं चाग्नेय्यादिकोणेषु
नन्दा भद्रा जयारिन्ताख्याश्चतश्रः
शिलास्तत्समीपेषु पद्म-महापद्म-शङ्ख-मरतकाद्योन् घटान्विन्यस्यास्त्रेण तस्योल्लिख्य
वर्मणा वेष्ट्य मृद्भिर्गोमय-गोमूत्र-कषायोदकैर्गन्धवारिणा च
हुं फडन्तास्त्रेणाकारशोधनं विधाय पञ्चगव्यपञ्चामृतान् गन्धतोयान्तरं
क्षरार्णवादिफलरत्नसुवर्णपुष्पसस्यगोशृङ्गजलैः
प्रणवनमस्कारान्तनिजनामां संस्नाप्य चन्दनेन समालभ्य रक्तवस्त्रैराच्चाद्य
यागमण्डपं प्रदक्षिणीकृत्य पाश्चात्यद्वारेण प्रवेश्य वेदिकायां
शाल्यादिस्थण्डिलशय्यायां
षडुत्थासनपुरस्सरं हृदयेन मध्यात् स्व स्व दिक्षु प्राङ्मस्तकं शाययित्वा
वर्मजप्तवाससाच्छाद्य नैवेद्यं दत्वा मूर्धादिपादान्तं

तत्वतत्वेश्वरान् बुद्ध्यादीन् न्यसेत्। यथा ॐ हां बुद्धितत्वाय नमः। ॐ हां
बुद्धितद्वाधिपाय बुद्धाय नमः। ॐ हाम् अहङ्कारतत्वाय नमः। ॐ
हाम् अहङ्कारतत्वाधिपाय अहङ्कृते नमः। ॐ हां मनस्तत्वाय नमः। ॐ हां
मनस्तत्वाधिपाय सङ्कल्पाय नमः। ॐ हां श्रोत्रतत्वाय नमः। ॐ हां
श्रोत्रतत्वाधिपाय वयोमचाराय नमः। ॐ हां त्वक्तत्वाय नमः।
ॐ हां त्वक्तत्वाधिवाय सर्वाङ्गाय नमः। ॐ हां चक्षुस्तत्वाय नमः। ॐ हां
चक्षुस्तत्वाधिपाय
प्रकाशाय नमः। ॐ हां जिह्वातत्वाय नमः। ॐ हां जिह्वातत्वाधिपाय महावक्त्राय
नमः। ॐ हां नासातत्वाय नमः। ॐ हां नासातत्वाधिपाय (९०अ, १स्त् line [१५२अ])
विलुम्बकाय नमः। ॐ हां वाक्तत्वाय नमः। ॐ हां वाक्तत्वाधिपाय दुन्दुभये
नमः।
ॐ हां पाणितत्वाय नमः। ॐ हां पाणितत्वाधिपाय समादाय नमः। ॐ हां
पादतत्वाय नमः। ॐ हां पादतत्वाधिवाय रमणाय नमः। ॐ हां पायुतत्वाय
नमः। ॐ हां पायुतत्वाधिपाय तूर्णकृते नमः। ॐ हाम् उपस्थतत्वाय नमः। ॐ हाम्
उपस्थतत्वाधिपाय
घनानन्दाय नमः। ॐ हां शब्दतत्वाय नमः। ॐ हां शब्दतत्वाधिपाय
सूक्ष्मनादाय नमः।
ॐ हां स्पर्शतत्वाय नमः। ॐ हां स्पर्शतत्वाधिपाय बलवत्तराय
नमः। ॐ हां रूपतत्वाय नमः। ॐ हां रूपतत्वाधिपाय भानुमते नमः। ॐ हां
रसतत्वाय नमः। ॐ हां रसतत्वाधिपाय जलदाय नमः। ॐ हां
गन्धतत्वाय नमः। ॐ हां गन्धतत्वाधिपाय गन्धाङ्गाय नमः। ॐ हां
व्योमतत्वाय नमः। ॐ हां व्योमतत्वाधिपाय सूक्ष्माय नमः।
ॐ हां वायुतत्वाय नमः। ॐ हां
वायुतत्वाधिपाय मातरिश्वने नमः। ॐ हाम् अग्नितत्वाय नमः। ॐ हाम् अग्नितत्वाधिपाय
त्विषां निधये नमः। ॐ हां जलतत्वाय नमः। ॐ हां जलतत्वाधिपाय
जलेशाय नमः। ॐ हां पुथिवीतत्वाय नमः। ॐ हां पृथिवीतत्वाधिपाय श्रीकण्ठाय
नमः। एवं मध्यशिलादि क्रमाद्विन्यस्य पुष्पमालां विभज्या
त्रिखण्डासु
शिलासु बुद्ध्यादिमनः पर्यन्तं ॐ हुं शिवतत्वाय नमः। ॐ हुं शिवतत्वाधिपतये
रुद्राय नमः। तन्मात्रान्तं ॐ हीं विद्यातत्वाय नमः। ॐ हीं विद्यातत्वाधिपतये
विष्णवे नमः। पृथिव्यन्तम् ॐ हाम् आत्मतत्वाय नमः। ॐ हाम् आत्मतत्वाधिपतये
ब्रह्मणे नमः इति विन्यस्य प्रतिभागं प्रागादीशान्तदिक्षु ॐ हां लूं

पाक्ष्मामूर्तये नमः। ॐ हां क्ष्मामूर्त्यधिपतये शर्वाय नमः। ॐ हाम् ईम्
अग्निमूर्तये नमः। ॐ हाम् अग्निमूर्त्यधिपतये पशुपतये नमः। ॐ हां शूं
यजमानमूर्तये
नमः। ॐ हां यजमानमूर्त्यधिपतये उग्राय नमः। ॐ हां षूम् अर्कमूर्तये नमः।
ॐ हाम् अक्रमूर्त्यधिपतये रुद्राय नमः। ॐ हां पूं जलमूर्तये नमः। ॐ हां
जलमूर्त्यधिपतये भवाय नमः।
ॐ हां यूं वूयुमूर्तये नमः। ॐ हां वूयुमूर्त्यधिपतये ईश्वराय नमः। ॐ हां
ह्रूम् इन्दुमूर्तये नमः। ॐ हाम् इन्दुमूर्त्यधिपतये
महादेवाय नमः। ॐ हां हूं खमूर्तये नमः। ॐ हां खमूर्त्यधिपतये भीमाय
नमः। इति मूर्तिमूर्तीश्वराष्टकं विन्यस्य
घृतमधुपञ्चगव्यलोहरत्नधातुबीजौषधिसम्पूजितान् त्रिसूत्र्यादिसम्बन्धगलान्
शिलापादभागन्यस्तान् कुम्भान्
शतधास्त्रेणाभिमन्त्र्य शक्रादिमन्त्रैरनन्तान्तैः
सम्पूजयेत्। पञ्चपक्षे पश्चिमोत्तरयाम्यपूर्वेशानदिक्षु ॐ हां ह्रूं पृथिवीमूर्तये
नमः। ॐ हां पृथिविमूर्त्यधिपतये ब्रह्मणे नमः।
ॐ हां पूं जलमूर्तये नमः। ॐ हां पूं जलमूर्त्यधिपतये विष्णवे नमः। ॐ हां
रूम् अग्निमूर्तये नमः। ॐ हाम् अग्निमूर्त्यधिपतये रुद्राय नमः।
(ओने blank leaf। थेन् ९१अ, १स्त् line[१५४अ]) ॐ हां यूं वूयुमूर्तये नमः। ॐ हां
वायुमूर्त्यधिपतये ईश्वराय नमः। ॐ हां हूम् आकाशमूर्तये नमः। ॐ हाम्
आकाशमूर्त्यधिपतये सदाशिवाय नमः। ततः
पञ्चकुम्भाः पष्ठादिनिजनामभिः सम्पूज्याः। ततो निष्ठुरमुद्रया निरोध्य सम्पूज्य
निद्राकुम्भं शिरो देशे विन्यस्यास्त्रेण शतधाभिमन्त्र्य भस्मदर्भतिलैः
प्राकारत्रितयं
विधाय समूर्तिपो गुरुः गुण्डसमीपं गत्वोपविश्य शान्तिकुम्भमस्त्रेण शतधाभिमन्त्र्य
सम्पातेन संस्कृत्य कुण्डमध्ये ॐ हाम् आधारशक्तये नमः।
इति सम्पूज्याहुतित्रयं दत्वा ॐ हाम् आत्मतत्वाय नमः। ॐ हाम् आत्मतत्वाधिपतये
ब्रह्मणे नमः। इति सम्पूज्याहुतिभिः सन्तर्प्य ॐ हां लूं क्ष्मामूर्तये नमः।
ॐ हां क्ष्मामूर्त्यधिपतये
शर्वाय नमः। इत्यनेन क्रमेण ॐ हां लूं पृथिवीमूर्तये नमः। ॐ हां
पृथिवीमूर्त्यधिपतये ब्रह्मणे नमः। इति वा मूर्तिमूर्तीश्वरान्
सम्पूज्याहुतिभिः सन्तर्प्य द्रव्यकलानुसारेण मूलाङ्गब्रह्मभिः क्रमात् शतं
सहस्रमर्धं वा पूर्णावसानं जुहुयात्। मूर्तिपाः पूर्वादित स्व स्व
मूर्तीश्वरान् स्वदिक् स्वब्रह्माङ्गैश्च आधारशक्तिविन्यासपूर्वं सम्पूज्य
होमद्रव्यकालानुरोधेन कुर्युः।
गुरुकृतहोमदशांशेन वा कुर्युः। ततः
समूर्तिपो गुरुः शिलासमीपं गत्वा स्व स्व शान्तिकुम्भजलैः सम्प्रोक्ष्य ब्रह्मभागं
कुशमूलेन स्पृष्ट्वा होमसङ्ख्यया जपं विधाय सम्प्रोक्ष्य
शुद्धाशुद्धयोरात्मतत्वविद्यातत्वयोः सन्धानं मूर्तिमूर्तीश्वराणां च
शुद्धाशुद्धानां सन्धानं कृत्वा पुनः कुण्डसमीपं गत्वा ॐ हां हीम्
आत्मतत्वविद्यातत्वाभ्यां
नमः इति
तत्वसन्धानार्थं मूर्तिमूर्तीश्वरसन्धानार्थं च हुत्वा विद्यातत्वं तदधिपं विष्णु
मूर्तिमूर्तीश्वरांश्च संस्थाप्य सम्पूज्य पूर्ववद्धुत्वा शिलां गत्वा पूर्ववत्
प्रोक्षणजपौ कुशमध्येन शिलामध्यस्पर्शं विधाय सम्प्रोक्ष्य सन्धानं कृत्वा पुनः
कुण्डसमीपं गत्वा ॐ हीं हूं विद्यातत्वशिवतत्वाभ्यां नमः। इति तत्वसन्धानं
मूर्तिमूर्तीश्वरसन्धानं च कृत्वा हुत्वा शिवतत्वं तदधिपतिं
रुद्रं मूर्तिमूर्तीश्वरांश्च संस्थाप्य सम्पूज्याहुतिभिः सन्तर्प्य शिलासमीपं गत्वा
पूर्ववत्
प्रोक्षणजपौ कुशाग्रेण शिलाग्रं संस्पृश्य कृत्वा शिवाज्ञां श्रावयेत्। हे तत्वतत्वेश्वरा
मूर्तिमूर्तीश्वरैः सह शिवाज्ञया सन्निहिताय भवतेति विज्ञाप्य
लोकपालमन्त्रैर्नवकुमाभानां पञ्चानां स्व स्व नाम्ना वा सम्पूज्य सन्निधानार्थं
होमं विधायाधिदेवताः स्मरेत्।
विद्यारूपाः कृतस्नाना हैमवर्णा स्मिताननाः।
सर्वाभरणसम्पन्नाः शिलानामधिदैवताः॥
इति प्रायश्चित्तार्थत्वास्तुभूमिशुद्ध्यर्थं चास्त्रेण पूर्णान्वितं शतं जुहुयात्। ततः
प्रासादक्षेत्रमष्टधा विभज्य चतुष्षष्ठिकोष्ठकान् कृत्वा
ऐशान्यादिनैरुत्यन्तमूर्ध्ववंशमाग्नेय्यादिवायव्यान्तं तिर्यग्वंशं दत्वा द्विपदं
(९२अ, १स्त् line [१५५अ]) षट्पदं च रज्वष्टकं विन्यस्य बाह्यपङ्क्तीशानकोणार्धात्प्रभृति
तदर्धपर्यन्तं द्वात्रिंशद्देवान् ईशान-पर्जन्य-जयन्ति महेन्द्रा-रवि। सत्यकि। भृश।
व्याम। पावक।
पूषा-वितिश-ग्रहक्षत-यम-गन्धर्व-भृङ्ग-दृग-मृग-पितृ-दौवारिकि। सुग्रीव-पुष्पदन्त-
जलाधिप-असुर-शोष-रोग-वायु-नाग-मुख्य-भल्लाट-सोम-ऋक्-अदिती-दिति
इत्येतान् मध्यपदचतुष्टयबाह्येशानपदे। आपम्। तदीशानपदे। आपवत्सम्।
प्राच्यामावाह्यान्तर्गतपङ्क्तिद्वयगतपदषट्के। मरीचिम्। आग्नेयपदे। सवितराम्।

तदन्तः कोणपदे सावित्रं दक्षिणस्यां बाह्यान्तर्गतपङ्क्तिद्वयगतपदषट्के विवस्वन्तं
नैरुते। तदन्तं कोणपदयोरिन्द्रेन्द्रजयौ वारुण्यां पूर्ववत्
षट्पदस्थं मित्रं वायव्यां तदन्तकोणपदयो रुद्ररुद्रदासकौ उत्तरस्यां पूर्ववत्
षट्पदस्थं धराधरं, मध्यपदचतुष्टये ब्रह्माणं च सम्पूज्य पायसेन
कुश-तिल-दद्ध्यक्षताभिर्वा बलिं दत्वा ईशादिषु दिक्षु पदबाह्ये चरम्, स्कन्दम्,
विदारिम्, अर्यमणम्, पूतनाम्, जम्भकम्, पापराक्षसीम्, पिलिपिञ्चं च सम्पूज्य
बलिं दद्यात्। ततः सान्निद्ध्यर्थं प्रतिदेवमाहुतित्रयं दत्वा कर्माणि परिहृत्य लग्ने
शिलां कुम्भांश्चादाय प्रासादं गत्वा मध्यश्वभ्रे आधारशक्तिं
विन्यस्यानन्तसञ्ज्ञकं
सकुम्भं ॐ लौम् अनन्ताय नमः। समुद्रकुम्भं वा स्व स्व मन्त्रेण विन्यस्य विद्यान्ता
स्वपदव्याप्तं सञ्चिन्त्य ॐ हां
शिवाय स्वाहेत्युच्चार्य नमोन्तं वा स धरणीं
पूर्वाख्यां वा शिलां मूलेन ईशानशिरस्कां विन्यस्य पूर्वाद्यष्टदिक्षु
भित्तिमध्यस्थश्वभ्रेषु आधारशक्तिं विन्यस्य सुभद्रादिकान् कुम्भान् लूं रूं शूं षूं
सूं यूं श्रूं हूं
इत्येतैरुक्तेरिन्द्रादिनामभिर्विन्यस्य नन्दाद्याः शिलाः क्रमेण शर्व-पशुपति-उग्र-रुद्र-भव-
महेश्वर-महादेव-भीममन्त्रै-र्विन्यस्य धर्म-ज्ञान-
वैराग्यैश्वर्याधिष्ठायकत्वेन
विन्यस्य निरुध्यात्। पञ्चपक्षे अग्न्यादिकोमश्वभ्रेषु लोपान् पद्मादिकुम्भान् तेषु तेषु
नन्यशिलांश्च ब्रह्मविष्णुरुद्रेश्वरसदाशिवमन्त्रैर्विन्यस्य
धर्म-ज्ञान-वैराग्य-ऐश्वर्यानधिष्टायकत्वेन विन्यस्य सम्पूज्य शिलां विज्ञापयेत्।
चन्द्रार्कतारकं यावत्प्रासादेष्टमानसाः। स्थित्वा
सर्वार्थसम्पत्तिः सर्वदा कुरुता व्रताः। प्रत्येकं वा।
ॐ पूर्णे त्वं महाविद्ये सर्वसन्दोहलक्षणे।
सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते॥ ॐ
नन्दिने नन्दिनी पुंसां त्वामत्र स्थापयाम्यहम्।
प्रासादे हृष्टसंहृष्टा यावच्चन्द्रार्कतारकम्॥
आयुष्कामश्रियं देहि देहि वा सिष्ठदेहिनाम्।
अस्मिन्रक्षा सदा कार्या प्रासादे यत्नतः त्वया॥
ॐ भद्रे सर्वदा भद्रं लोकानां कुरु कान्यपि।
कुयुर्दा कामदा देवि श्रीप्रदा च सदा भव॥३॥ ॐ
जयायेऽत्र सदा देवि निष्ठया त्वं स्थापिता मया।
नित्यं जयाय च भूत्यै च स्वामिनो भव भार्गवि॥४॥
ॐ रिक्ते रिक्ते दोषघ्ने सिद्धिमुक्तिप्रदे शुभे।
सर्वदा सर्वदेशस्थे निष्ठास्मि ह्रीं रूपिणी॥५॥ (९३अ, १स्त् line[१५६अ])
गगने प्रासादं ध्यात्वा तत्र तत्वत्रयं सेश्वरं विन्यस्य व्यापकं शिवं सञ्चिन्त्य
नमस्कृत्य यागण्डपं गत्वा प्रायश्चित्तं कृत्वा यागं विसृजेत्। ॥ इति
शिलान्यासविधिः॥

॥ अथ शिवलिङ्गप्रतिष्ठाविधिः ॥
विशेषसन्निधिर्यस्तु क्रियते व्यापकस्य हि।
समूर्तौ भावनामन्त्रैः प्रतिष्ठा साभिधीयते॥
शिवयोगविधानज्ञो विषुयोगविचिन्तकः। (३र्द् लिल्ने)
सर्वारम्भेष्वनारम्भी नादामानमनुस्मरेत्॥

अथ शिवलिङ्गप्रतिष्ठाविधिः
प्रासादाग्रे तत्प्रमाणां भुव कृत्वा कन्यसलिङ्गत्रयेष्टनवदशहस्तम्
इतरेषु चतुर्हस्तादिषु हस्तद्वयवृद्ध्या द्वादशहस्तादि द्वि द्वि हस्तवृद्ध्या वा
पादादिवृद्धलिङ्गेषु तमानानुगुणं बाणादिषु यथालाभं स्व
सामर्थ्यादेषामेकतमं मण्डपं निर्माय्य तन्नवधा विभज्य
मध्यभागेनाष्टाङ्गुलोच्छ्रितां द्विहस्तादिषु द्व्यङ्गुलवर्धितोच्छ्रायां वेदीं
तत्पातान्तरं न्यस्त्वा

पूर्वाद्यष्टदिक्षु ईशानोत्तरयोर्मध्ये नवमं यद्वा पूर्वपश्चिमदक्षिणोत्तरेशानदिक्षु
कुण्डानि पञ्च एकं वा शिवकाष्ठायां प्राच्यां वा वृत्तं
चतुरश्रं वा विधाय मण्डपस्य प्राच्यामुदीच्यामैशान्यां वा एतदर्धेन
स्नानमण्डपं वेदीद्वययुतं सभद्रपीठं विधाय एतद्वितयं
वितानदर्भमालाद्यैर्विभूष्याधिवासमण्डपे तोरणानि सलक्षणानि पूर्वादिदिक्षु विन्यस्य।
इन्द्रायुधोपमारणा कृष्णा धूम्रा शशिप्रभा।
शुक्लाभा हैमवर्णा च पताका स्फटिकोपमा॥
पूर्वादितो विधातव्या शक्ता च ब्रह्मणः पदे।
नीलानन्तस्य नैरृत्यां मध्ये चित्राथवा सिता॥
एवं विधान् ध्वजांश्चाष्टौ विन्यस्य
तोरणद्वारपालप्रशान्तशशिरादिघटान् लोकेशवास्तुलक्ष्मीगणगुरुधर्मादिविद्येश्वरघयान्
शिवकुम्भवर्धन्यौ एतान् सलक्षणान् ससूत्रान्
सवस्त्रपूतस्वर्णरत्नफलान्नानाधान्यपञ्जकृता धारान् यथास्थानं निवेद्य
स्रुक्स्रुवादिकारकसमूहमाहरेत्। ततः कृतस्नाननित्याह्निकद्वयो
गुरुसहायैर्मूर्तिपैः सहितो मखालयं
गत्वा सूर्यपूजां कृत्वा समाचम्य सकलीकृत्य सामान्यार्घ्यं संसाध्य तज्जलेन
पूर्वादितोरणद्वाराण्यस्त्रेण
सम्प्रोक्ष्य कवचेनावकुण्ठ्य पूर्वे शान्तितोरणाय नमः। शान्तिकलाद्वाराय।
दक्षिणेतरशाखयोः । नन्दिने। महाकालाय। प्रशान्ताय।
शिशिराय। दक्षिणे। भूतितोरणाय। विद्याकलाद्वाराय। शाखयोः। भृङ्गिणे। विनायकाय।
पर्जन्याय। अशोकाय।
पश्चिमे। बलतोरणाय।
निवृत्तिकलाद्वाराय। वृषभाय। स्कन्दाय। भूतसञ्जीवनाय। अमृताय। उत्तरे। आरोग्यतोरणाय।
प्रतिष्ठाकलाद्वाराय। देव्यै। चण्डाय। धनदाय।
श्रीप्रदाय। पश्चिमे। नित्यवद्वारपालांश्चाभ्यर्च्यार्घ्ययित्वा भवद्भिर्यज्ञस्य रक्षकत्वेन
स्थातव्यमाभीतादरैः। रि(इ)ति विज्ञापयेत्।

विस्तारपक्षे –
(९४अ, १स्त् line [१५७अ]) अस्त्रेण सम्प्रोक्ष्य पूर्वतोरणघटे। ॐ हां शान्तितोरणाय नमः।
ऊर्ध्वे ॐ ऋग्वेदाय नमः। ॐ कृतयुगाय नमः। त्रिशूले ॐ पूष्णे नमः। ॐ धात्रे
नमः।
ॐ विधात्रे नमः। दक्षिणेतरशाखामूलघटयोः। ॐ प्रशान्ताय नमः। ॐ शिशिराय
नमः। ॐ भूलोकाय नमः। ॐ भुवर्लोकाय नमः। ॐ प्रत्युषाय नमः। ॐ

प्रभासाय नमः। ॐ सोमाय नमः। ॐ भौमाय नमः। पुनर्द्वारघटे – ॐ हां
शान्तिकलाद्वाराय नमः। ऊर्ध्वोदुम्बरे। ॐ हां गणपतये नमः। ॐ हां
सरस्वत्यै नमः। ॐ हां महालक्ष्म्य नमः। दक्षिणेतरशाखयोः। ॐ हां नन्दिने
नमः। ॐ हां गङ्गाय नमः। ॐ हां महाकालाय नमः। ॐ हां
यमुनायै नमः। ॐ हः अस्त्रद्वारपालाय नमः।
ॐ अवर्गाय नमः। ॐ कवर्गाय नमः। अधिदेवतात्वेन ॐ हाम् ईश्वराय कारणेश्वराय
नमः। अधिष्ठातृत्वेन
ॐ हें तत्पुरुषवक्त्राय नमः। दक्षिणतोरणघटे। ॐ भूमितोरणाय नमः। ऊर्ध्वे ॐ
यजुर्वेदाय नमः। ॐ त्रेतायुगाय नमः। त्रिशूले ॐ भगाय
नमः। ॐ पर्जन्याय नमः। ॐ इन्द्राय नमः। शाखाघटयोः ॐ हां पर्जन्याय नमः।
ॐ अशोकाय नमः। ॐ स्वर्लोकाय नमः। ॐ महर्लोकाय नमः।
ॐ अजघन्याय नमः। ॐ जघन्याय नमः। ॐ बुधाय नमः। ॐ बृहस्पतये नमः।
पुनर्द्वारघटे। ॐ हां विद्याकलाद्वाराय नमः। ऊर्ध्वोदुम्बरे
ॐ हां गणपतये नमः। ॐ हां सरस्वत्यै नमः। ॐ हां महालक्ष्म्यै नमः।
शाखाघटयोः। ॐ हां भृङ्गिणे नमः। ॐ हां मह्यै नमः।
ॐ हां
विनायकाय नमः। ॐ हां नर्मदायै नमः। ॐ हाम् अस्त्राय द्वारपालाय नमः। ॐ
चवर्गाय नमः। ॐ टवर्गाय नमः। ॐ हां रुद्राय कारणेश्वराय नमः। ॐ हुं
अघोरहृदयाय नमः। पश्चिमतोरणघटे। ॐ बलतोरणाय नमः। ऊर्ध्वे ॐ सामवेदाय
नमः। ॐ द्वापराय नमः। त्रिशूले। ॐ अर्यम्णे नमः।
ॐ मित्राय नमः।
ॐ त्वष्ट्रे नमः। शाखाघटयोः। ॐ भूतसञ्जीवनाय नमः। ॐ अमृताय नमः। ॐ
जनलोकाय नमः। ॐ तपलोकाय नमः। ॐ धात्रे नमः।
ॐ विधात्रे नमः। ॐ भार्गवाय नमः। ॐ शनैश्चराय नमः। अथ द्वारे घटे। ॐ हां
निवृत्तिकलाद्वाराय नमः। ऊर्ध्वे ॐ हां गणपतये नमः। ॐ
हां सरस्वत्यै नमः। ॐ हां महालक्ष्म्यै नमः। शाखाघटयोः।
ॐ हां वृषभाय नमः। ॐ हां सिन्धवे नमः। ॐ हां स्कन्दाय नमः। ॐ हां
सरस्वत्यै
नमः। ॐ हः अस्त्रद्वारपालाय नमः। ॐ चवर्गाय नमः। ॐ पवर्गाय नमः। ॐ
ब्रह्मणे कारणेश्वराय नमः। ॐ हां सद्योजातमूर्तये नमः।
उत्तरे तोरणघटे। ॐ आरोग्यतोरणाय नमः। ऊर्ध्वे अथर्ववेदाय नमः। ॐ कलियुगाय
नमः। त्रिशूले ॐ विष्णवे नमः।
ॐ सवित्रे नमः। (९५अ, १स्त् line[१५८]) ॐ अंशुमते नमः। शाखाघटयोः। ॐ धनदाय
नमः। ॐ श्रीप्रदाय नमः। ॐ सत्यलोकाय नमः। ॐ ध्रुवलोकाय नमः। ॐ आवाहनाय

नमः। ॐ विवाहवे नमः। ॐ केतवे नमः। अथ द्वारघटे। ॐ हां प्रतिष्ठाकलाद्वाराय
नमः। ऊर्ध्वे ॐ हां गणपतये नमः। ॐ हां सरस्वत्यै नमः। ॐ हां

महालक्ष्म्यै नमः। शाखाघटयोः – ॐ हां देव्यै नमः। ॐ हां पयोष्ण्यै नमः।
ॐ हां चण्डाय नमः। ॐ हां ताप्यै नमः। ॐ हः अस्त्रद्वारपालाय नमः।
ॐ यवर्गाय नमः। ॐ शवर्गाय नमः। ॐ विष्णवे कारणेश्वराय नमः। ॐ हिं
वामदेवगुह्याय नमः। इति सम्पूजायार्घ्ययित्वा भवद्भिर्यज्ञस्य रक्षकत्वेन
स्थातव्यमाहितादरैः। इति ज्ञाप्य
पूर्वादिदिक्पताकासु ॐ वज्राय हुं फण्णमः। ॐ शान्त्यै हुं फण्णमः। ॐ दण्डाय
हुं फण्णमः। ॐ खचगाय
हुं फण्णमः। ॐ पाशाय हुं फण्णमः। ॐ ध्वजाय हुं फण्णमः। ॐ गदायै
हुं फण्णमः। ॐ त्रिशूलाय हुं फण्णमः। ईशाने। ॐ
पद्माय हुं फण्णमः। नैरुते। ॐ चक्राय हुं फण्णमः। मध्यपताया(काया)म्।
अघोरास्त्रमभ्यर्च्य पूर्वादिध्वजेषु –
ॐ कौं कुमुदाय नमः। ॐ कौं कुमुदाक्षाय
नमः। ॐ पौं पुण्डरीकाय नमः। ॐ वौं वामनाय नमः। ॐ शौं शङ्कुकर्णाय
नमः। ॐ सौं सर्वनेत्राय नमः। ॐ सौं सुमुखाय नमः। औं सौं (९५ब्, १स्त् line[१५८])
सुप्रतिष्ठाय नमः। इत्यभ्यर्च्य पूर्वादिदिक्षु ॐ हां हेतुकाय नमः। ॐ हां
त्रिपुरघ्नाय नमः। ॐ हां वह्नये नमः। ॐ हां यमजिह्वाय नमः।

ॐ हां कालाय नमः। ॐ हां काline नमः। ॐ हाम् एकाङ्घ्रये नमः। ॐ हां भीमाय
नमः।
दंष्ट्राकराला क्षेत्रपालास्तु सर्वे ज्ञेया महोदराः।
कांस्यखट्वाङ्गसंयुक्ता हेतुकाद्याः प्रकीर्तिताः॥
इति ध्यात्वा क्षेत्रपालान् सम्पूज्य सन्तुष्टान् विभाव्य मण्डपोर्ध्वस्थितेषु
कम्स्यादिषु कम्स्यां
ॐ हां पृथिवीतत्वाय नमः। ॐ हां सद्योजातमूर्तये नमः। तृणेषु – ॐ हाम् अप्तत्वाय
नमः। ॐ हिं वामदेवगुह्याय नमः। बन्धेषु – ॐ हां
तेजस्तत्वाय नमः। ॐ हुम् अघोरहृदयाय नमः। वंशेषु – ॐ हां वायुतत्वाय नमः।
ॐ हें तत्पुरुषवक्त्राय नमः।
स्थूणासु – ॐ हाम् आकाशतत्वाय
नमः। ॐ होम् ईशानमूर्धाय नमः। इति सम्पूज्य। सदाशिवतत्वान्तव्यापिकं मण्डपं
विभाव्य तत्वदृष्ट्यावलोक्य शेषद्वाराणि सङ्घट्टयन् नित्यवद्वारपालान्
पश्चिमद्वारे सम्पूज्य दिव्यान्तरिक्षभूमिष्ठान्विघ्नानुत्सार्य देहल्यामस्त्रमभ्यर्च्य
प्रविश्य प्रदक्षिणक्रमात् गत्वा नैरृते वास्तुनाथं
सम्पूज्य वेदीदक्षिणत
उत्तराभिमुखा उपविश्य भूतशुद्धिमन्तर्यागं स्थानशुद्धिं
विशेषार्घ्यद्रव्यमन्त्रशोधनपञ्चगव्यसाधनानि पूर्ववत् कृत्वा (९६अ, १स्त् line[१५९अ])
स्वात्मपूजां विधाय स्वस्मिन् ललाटकण्ठपादान्तभागेषु ॐ हूं शिवतत्वाय नमः। ॐ
हां रुद्राय नमः। ॐ हीं विद्यातत्वाय नमः। ॐ हां विष्णवे नमः। ॐ हाम्
आत्मतत्वाय
नमः। ॐ हां ब्रह्मणे नमः। इति विन्यस्य
सासनं सब्रह्माङ्गं शिवं तत्वव्यापकत्वेन विन्यस्य शिवहस्तमारोप्यात्मानं
समूर्तिकं सृग्वस्त्रमकुटादिभिरलङ्कृत्य
शिवोऽहमिति विभाव्य ज्ञानखड्गं गृहीत्वा विकिरानभिमन्त्र्य नेरृते स्थित्वा
निरीक्षणादिचतुष्पथान्तसंस्कारैः संस्कृत्य विकिरान्विक्षिप्य कुशकूर्च्योपसंहृत्य
वस्त्रन्यासनाय न्यस्त्वा वास्तुपतिं सम्पूज्य पश्चिमद्वारे पूर्ववल्लक्ष्मीं सम्पूजयेत्।
ततः
शिवकुम्भास्त्रवर्धन्यौ चलासनं
सम्पूज्य इन्द्रादिलोकपालान् विष्ण्वन्तान् वाहनायुधसंयुक्तां ध्यात्वा प्राच्यादिदिक्षु
सम्पूज्य भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये।
सावधानेन यागान्तं यावत्स्थेयं शिवाज्ञयेति प्रत्येकं विज्ञाप्य वेदिकोणेषु
धर्मादीनकोणेषु वा धर्मादीन् यच्छेत्। पुनः शिवाज्ञां श्रावयेत्।
कुम्भाग्रगामिनीमखण्डितधारां
वर्धनीमस्त्रदुर्गमनुस्मरन् मूलेनाभ्राम्य पूर्वं कुम्भं पश्चाद्वर्धनीं च
संस्थाप्य स्थिरासने कुम्भवर्धन्यौ सम्पूज्य
भगलिङ्गसमायोगं विधाय निजयागं जगन्नाथ रक्ष भक्तानुकम्पयेति विज्ञाप्य
ज्ञानखड्गं समर्प्य निरोधार्घ्यं संसाध्य निवेद्य
वर्धन्यासनविकिरोत्थास्त्रैर्यागगृहमपसारिता शेषविघ्नं समन्तात् सञ्चि॥।गणेशं गुरुं
च सम्पूज्य मण्डले स्थण्डिले
वेदीशानस्थे कुम्भे वा शिवमभ्यर्च्य कुण्डसमीपं गत्वा
गुर्वाज्ञया मूर्तिपाश्च स्व स्व कुण्डमासाद्य कुण्डसंस्कृतिं कुर्युः।
गुरुरीशानदिक्कुण्डं समासाद्य कुण्डनाभिं पुरस्कुर्वन् पूर्वास्यः सौम्यास्यो वा
समुपविशेत्।
तत्रानामिकाङ्गुष्ठाभ्यां न्यस्तमूलेन चक्षुषा कुण्डस्य निरीक्षणं शिवमन्त्रेण
प्रक्षणताट(ड)ने कुशै हुं फडन्तास्त्रेण अभ्युक्षणं

वौषडन्तकवचेन खननावकीरणपूरणसमीकरणसेचनकुट्टनसम्मार्जनसमालेपनानि
खट्गे(ड्गे)न विधाय। कुण्डे मध्यपूर्वयाम्योत्तरपश्चिमेषु
शान्त्यतीतादिकलामन्त्रान्य(न्न्य)स्त्वा कलामयं परिकल्प्य त्रिसूत्र्यार्घ्येण वेष्ट्य ॐ हां
कलामयाय कुण्डाय नमः। इत्यभ्यर्च्य प्रागायतमुदगायतं
वा तिर्यग्रेखयासह रेखाचतुष्टयमुभयत्र त्रिशूलाकृतिना कुशत्रयेण
वज्रीकरणं पूर्वोत्तराग्रकुशद्वयेन चतुष्पथं न्यासमस्त्रेण ॥॥॥।स्यात्यन्तरे (९७अ, १स्त्
line[१६०अ]) समन्तादुत्थितैः कुशैरक्षपाटं कवचेन विधाय मध्ये कूर्चरूपं विष्टरं
ॐ हां वागीश्वरिवागीश्वराय नमः। इति दत्वा तस्मिन्
देवीमावाहयेद्विद्यां विधिवद्विश्वमातरम्।
…मातृ तु मतीं ध्यात्वा सद्वासो माल्यभूषणाम्॥
प्रसन्नवदनां पद्मपत्राभनयनत्रयाम्।
इति ध्यात्वा ॐ हां वागीश्वर्यै नमः। इति वागीश्वरीं तद्वद्वागीश्वरं
च ॐ हां वागीश्वराय नमः। इति गन्धादिभिरभ्यर्च्य अरणे सूर्यकान्तात् द्विजगृहात्
स्वगृहाद्वा वह्निं मृत्पात्रे ताम्रपात्रे वानीयाग्नेय्यामैशान्यां
नैरृत्यां वा निधाय अग्निशकलं क्रव्यादार्थं नैरृते निस्सार्य निरीक्षणादिभिः चतुर्भिः
संस्कारैः विशोध्य ॐ हां हं हां वह्निमूर्तये नमः।
इति भूताग्निं
पूरकेण गृहीत्वा हृदयेन कुम्भकेन नाभ्यग्निना बिन्द्वग्निना च संयोज्य रेचकेण
निस्सार्य ॐ ह्रूं वह्निचैतन्याय नमः। इति पात्रस्थेऽग्नौ विन्यस्य
संहितया सम्पूज्य संरक्ष्यावकुण्ठ्य प्रासादेन वौषडन्तेन
धेनुमुद्रयामृतीकुर्यादाय कुण्डस्योपरि प्रदक्षिणं त्रिः परिभ्राम्य शिवबीजमिति ध्यात्वा

पितरावीशदिग्गतशिरसौ ध्यायन् वागीश्वरि
गर्भनाड्यां वागीश्वरेण क्षिप्यमाणं विभाव्य भूमिष्ठजानुं
मूलेनात्मसम्मुखं क्षिपेत्।
तन्नाभिदेशे समूह्य परिधानसंवृतिं विभाव्य शौचाचमनार्थं तोयबिन्दुं हृदा
दत्वा कवचेन सन्धिग्धनैराच्छाद्यास्त्रेण प्रज्वाल्य ॐ हां गर्भाग्नये नमः।
इति गर्भाग्निं सम्पूज्य गर्भरक्षार्थमन्त्रजप्तदर्भकङ्गणं देविहस्ते बध्वा।
गर्भाधानाय सद्योजातेनाभ्यर्च्य हृदयेनाहुतित्रयं
तिलैर्दत्वा
पुंसुवनार्थं तृतीये मासि वामदेवेनाभ्यर्च्य शिरसाहुतित्रयं दत्वा जलबिन्दुं विनिक्षिप्य
सीमन्तोन्नयननिमित्तं षष्ठे मास्यघोरेणाभ्यर्च्य शिखयाहुतित्रयं दत्वा
शिखयैव वक्त्राङ्गकल्पनां निष्कृतिं च विधाय जननार्थं दशमे मासि
पुरुषेणाभ्यर्च्य कवचेन त्रिस्राहुतीर्दत्वा जाते गर्भमलापहस्नानार्थं
वह्निं दर्भाग्रैः सन्धूक्ष्य देविहस्तस्थं
दर्भकङ्कणमुन्मुच्य स्वर्णबन्धनं देव्याः कृतमिति ध्यात्वा हृदाभ्यर्च्य सद्यः
सूतकनिवृत्तये कुण्डमस्त्राम्भसा संसिच्य
दर्भेणास्त्रेण ताड्य कवचेनाभ्युक्ष्य वह्निरक्षार्थं पूर्वादिमेखलासूत्तरपूर्वाग्रान्
अस्त्रेणास्तीर्य तेषु परिधिविष्टरान् संस्थाप्य वक्त्राणां
लालापनोदायाग्नेः पुष्टये च मूलाग्रयोः घृताक्ताः पञ्चसमिधः खड्गेन हुत्वा
पूर्वपश्चिमदक्षिणोत्तरदिक्षु ॐ हां
(९८अ, १स्त् line[१६१अ]) ब्रह्मणे नमः। ॐ हां विष्णवे नमः। ॐ हां रुद्राय नमः। ॐ
हाम् ईश्वराय नमः। इति परिधिस्थान् सम्पूज्य विष्टरेषु इन्द्रादिदिक्षु ॐ हाम् इन्द्राय नमः।
ॐ हां
अग्नये नमः। ॐ हां यमाय नमः। ॐ हां निरृतये नमः। ॐ हां वरुणाय नमः।
ॐ हां वायवे नमः। ॐ हां सोमाय नमः। ॐ हाम् ईशाय नमः। ॐ हां ब्रह्मणे

नमः।
ऐशान्यां ॐ हां विष्णवे नमः। नैर्रृत्याम् इति सम्पूज्यार्घ्ययित्वा विघ्नसङ्घातं
निवार्य बालकं पालयिष्यथ इति शिवाज्ञां श्रावयेत्।
तत स्रुक्स्रुवौ सकुशावूर्ध्वपदनाधोमुखौ गृहीत्वास्त्रेण सम्प्रोक्ष्य
कवचेनाभ्युक्ष्यावकुण्ठ्याग्नौ प्रताप्य भ्राम्य कुशाग्रेण तदग्रं
संस्पृश्य पुनः परिभ्राम्य मध्येन मध्यं पुनराभ्राम्य मूलेन मूलं संस्पृश्य
तयोः कुशस्पृष्टप्रदेशेषु
शिवविद्यात्माख्यतत्वत्रयं रुद्रविष्णुब्रह्माख्याधिपसंयुतं
क्रमात् ॐ हूं हीं हां शं बलैर्विन्यस्य सूचिशक्तिं स्रुवे शम्भुं न्यस्त्वा वर्मणा
त्रिसूत्री वेष्टितग्रीवावात्मनः सव्यभागे कुशोपरि मूलेन संस्थाप्य
हृदा सम्पूजयेत्। अथ गव्य॥।मानीय वीक्षणादिभिः विशोध्य स्वदेहं ब्रह्ममयं
विचिन्त्यादौ य कुण्डस्योर्ध्वौ त्रिधा वर्त्याग्निगोचरगो॥चरे

तापयित्वा दर्भाग्रेण घृतबिन्दुमादाय ॐ हां ब्रह्मणे स्वाहेति हुत्वा पुनर्विष्णुमयं
स्वदेहव्यापा(रे) ऐशाग्न्यामधिश्रित्य कुशाग्रेणाद्धि
बिम्बं ॐ हीं विष्णवे स्वाहेति हुत्वा पश्चात् स्वमूर्तिं रुद्रमयीं मत्वा नाभौ धृत्वा ॐ
हां रुद्राय स्वाहेत्याज्यबिन्दुं कुशाग्रेण जुहुयादित्युद्वास्य
प्रादेशमात्रं दर्भाग्रद्वयनिर्मितं मध्यग्रन्थिपवित्रकमङ्गुष्ठानामिकाभ्यां
गृहीत्वास्त्रेणाज्यमग्निसम्मुखं त्रिधोत्प्लावयेत्। तद्वदात्मसम्मुखं सम्प्लवनं हृदा

कृत्वा तत्पवित्रग्रन्धिमुन्मुच्याग्नौ क्षिप्त्वा हृदाभिमन्त्रितदग्धदर्भोल्मुकमस्त्रेण
घृते क्षिप्त्वा पवित्रीकृत्य तदप्यग्नावस्त्रेण क्षिपेत्।
दीप्तेनान्येन दर्भेण कवचेन नीराज्याग्नौ क्षिप्त्वा अपरेण दीप्तेनास्त्रेण सन्दीप्य
तदप्युल्मु॥।वह्नौ क्षिपेत्। ततः प्रादेशमात्रमध्यग्रन्धिकुशद्वयं

प्रणवेन घृतमध्ये न्यस्त्वा दक्षिणवामक्रमेण शुक्लकृष्णपक्षद्वयं
दक्षिणवाममध्यभागेषु पिङ्गलेडासु सुषुम्नानाडीत्रयं च
सङ्कल्प्य सव्यभागात् स्रुवेणाज्यमादाय ॐ हाम् अग्नये स्वाहा इत्यग्निदक्षिणनेत्रे
वामभागादाज्यमादाय ॐ हां सोमाय स्वाहा (९९अ, १स्त् line[१६२अ]) इत्यग्निवामनेत्रे
मध्यादादाय ॐ हाम् अग्नीषोमाभ्यां स्वाहेत्यग्निमध्यनेत्रे ॐ हाम् अग्ने स्विष्टकृते
स्वाहेत्यग्निवक्त्रे ॥।[प]स्वेति किञ्चिद्धुत्वा शेषमाज्यं
तत्तदाज्यभागेषु हेति क्षिपेत्। शुक्लपक्षे कृष्णपक्षे तु ॐ हां सोमाय स्वाहा ॐ हाम्
अग्नयो स्वाहा ॐ हां सोमाग्निभ्यां स्वाहा ॐ हाम् अग्नये
स्विष्टकृते स्वाहा इति वह्नेर्वामदक्षिणमध्यनेत्रेषु वक्त्रे च पूर्ववद्धुत्वाज्यं
संहितयाभिमन्त्र्य संरक्ष्यावकुण्ठ्य धेनुमुद्रयामृतीकृत्य सम्पूज्य

हृदयेनाज्यबिन्दुक्षेपादन्याज्यशोधनं कुर्यात्। तदनु ॐ हां सद्योजाताय स्वाहा ॐ हिं
वामदेवाय स्वाहा ॐ हुम् अघोराय
स्वाहा ॐ हें तत्पुरुषाय स्वाहा ॐ होम् ईशानाय स्वाहा इत्येकैकया घृताहुत्या
अग्निवक्त्राणामाघारम्। ॐ हं हिं
सद्योजातवामदेवाभ्यां स्वाहा ॐ हिं हुं वामदेवाघोराभ्यां स्वाहा ॐ हुं हेम्
अघोरतत्पुरुषाभ्यां स्वाहा ॐ हें हों

तत्पुरुषेशानाभ्यां स्वाहा इति वक्त्रसन्धानं ॐ हं हिं हुं हें हों
सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्य स्वाहा इत्यग्नितो
वायुं गतया निॠतीशानगतया घृताहुत्या वक्त्रेकीकरणं विदध्यात् ततो
नामकरणार्थमीशेनाभ्यर्च्यास्त्रेणाहुतित्रयं दत्वा ॐ हां
शिवाग्निस्त्वं हुताशनेत्यग्नेर्नाम कृत्वा हृदयेन वागीशिवागीशावभ्यर्च्य विसृज्य
कुण्डमानं यथाभिलषितं वक्त्रं परिकल्प्य जिह्वायां चूडान्तसंस्कारापूरणार्थं

वौषडन्तमूलेन पूर्णां दद्यात्। ततो नवधा पञ्चधा वाग्निं विभज्य तत्तद्दिक्
संस्थितानं शांस्तद्दिक् कुण्डेषु निक्षिप्य चर्वाज्यर्थं च
उद्धृत्य चुल्यां संरक्ष्य मध्यांशं प्रज्वाल्येध्महोमं विधायाग्निमध्येष्य
भगवन्तं सम्पूज्य मध्यतर्पणं कुर्यात् स्रुक्पाचाग्नौ शिवं स्व स्व

दिङ्मन्त्रपरिक्ताङ्गं सम्पूज्य मन्त्रतर्पणं कृत्वा पूर्णां दद्युः। ततो देशापादन-
कालापादन-दुर्निमित्तशान्ति-सुनिमित्तापादनहेतवे
शतं शतं हुत्वा पूर्वच्चरुपाकं कृत्वा प्रतिकुण्डं निवेद्य शान्तिकुम्भांश्चास्त्रेण
शतमन्त्रितान् सम्पाताभिहुतान् कृत्वा स्नानमण्डपं
व्रजेयुः। स्नानकालेऽधिवासमण्डपाभ्यन्तरे दीक्षिताः संहितामन्त्रं सर्वदिक्षु जपेयुः।
अदीक्षिता द्विजा
बाह्ये शान्तिं पठेयुः। तत्र ऋग्वेदी
पूर्वदिग्भागे। ॥॥।रुक्तं पापमानी मैत्रकं वृषाकपिं जपेत् देवव्रतं
भारुण्डज्येष्ठसामरथन्तरं पुरुषागतिं सामवेदी दक्षिणे।
{१६३अ}

श्रीकामिके –
यत्स्वेनैवोत्थितं लिङ्गं स्वायम्भुवमुदाहृतम्।
शिवेन संस्कृतं यत्तु बाणलिङ्गमुदाहृतम्॥
स्वायम्भुवादिलिङ्गानां स्थानं मानं न विद्यते।
स्थानमेना तु ब्रह्मभागं विष्णुभागं रुद्रभागத்தை எனவே ॥।அடயாளுக்குல்ளே
யிருந்த்து ब्रह्मभागமும் विष्णुभागமு மேலே பூஜாம்சமானது रुद्रभागமெனக்
மானமாக। ஓருமுழமுதலாயம்। ஒன்பது முழம் உடுமாமென்பது
கிரியாலிங்கப்ரமாணமாகலின் ஸ்வயம்புலிங்கத்தில சோணிகுந்தார்சமபுகுஷ ப்ரமாணமிருந்ததால்
மப்பாலுமாமெனக்
தினியோ லிங்கவசநம்।

एकहस्तं समारभ्य चैकैकांशविवर्धनात्।
नवहस्तप्रमाणान्तं लिङ्गमानमुदाहृतम्॥ இது லிங்கप्रमाणवचनम्।
अथ भागवचनम् –
सुप्रभेदे –
चतुरश्रमधोभागमष्टाश्रं मध्यगो भवेत्।
तदूर्ध्वं वृत्तमेवं स्यात्त्रिखण्डं समनाम॥॥॥ ॥॥னாது லிங்கமானத்தை
சமனாயமனசதுருக்கி
அந்தமுனை வதுனே நார்கோணமென கோணமுமான வாமभागं विष्णुभागமுமேலே ॥॥காம்சமான
रुद्रभागமும் சரியான அளவு நிர்மிப்பது
க்ரியாலிங்கமெனாபடி
तत्रैव
चतुर्विंसतिकायामथ सप्तांशं चतुरश्रकम्।
अष्टाश्रयं त्वष्टभागं तु नवांशै नैव वृत्तकम्॥
वर्तमानमिदं लिङ्गं शिवाय तु मतःपरम्। (१५३ब्)
என்பது வக்தமானலிங்கமானது முர்கூரிய ஒரு முழுமுதலாயொன்பது முழமளவு
நதானைதயிலே குரைந்த ப்ரமாணந்தானிருந்து ॥॥।த்தை ஏழும் எட்டும் ஒன்பதுமான
॥॥।பாகமு ருத்ரபாகமான
चतुरश्रमष्टाश्रं वृत्तதை பண்ணக்கடவனென்பதாம்। अन्यत्र, पक्षान्तरं च।
आयामं दशधा कृत्वा चतुरश्रं त्रिभागतः।
अष्टाश्रं च त्रिभागेन चतुरंशेन वृत्तकम्॥
என்ரது ॥॥॥॥॥। நாலுமாகப்பத்துபங்கா பண்ண வென்பதாம்। एवं
तल्लिङ्गवचनमाहात्म्यं तु तत्रैव शिवाधिकमिदं
लिङ्गं भुक्तिमुक्तिफलप्रदम्। இப்படி முனவ பக்ஷமல்லாமரபினஹங காமிகவசநம்।
नवधा लिङ्गमाने तु त्रिचतुरं द्विरजातयः।
स्वस्तिकं लिङ्ग॥॥।तं बहुधा तन्निगद्यते॥
என்ரது ஒன்பதுக்கு ॥॥॥॥நாஹ॥॥।போகமாய அநாதியான ஸத்யோஜாதாதி முகமுடயலிங்கம்
ஸ்வஸ்திகம் லிங்கமென்பதாம்।
எணபெம்ர்ரழனவம समलिङ्गं, वर्घमानलिङ्गं, शिवाधिक्यलिङ्गं என்ரதாயிரது
स्वयमुद्भूतलिङ्गस्वस्थापितस्य
महान्म॥।भिः। देवैर्वा स्थापितसा॥॥॥॥पि
रूपं च नानन्त विद्यते … तुभ्यम् । तुष्यं मूर्ति दैविकமென ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।

{१६३अ}(१००???) श्रीरुद्रं पुरुषसूक्तं श्लोकाध्यायं ब्रह्माणं च यजुर्वेदी   

पश्चिमे नीलुद्रं स्तं हि सूक्तमथर्वशिरश्चाथर्वा उत्तरे जपेत् ततस्नानं च मण्डपे
कोष्ठनवकं
विधाय मध्ये शिवतत्वं पूर्वे सदाशिवतत्वम् आग्नेय्यामीश्वरतत्वं दक्षिणे विद्यातत्वं
नैऋते मायातत्वं पश्चिमे कालतत्वं वायव्ये नियतितत्वम् उत्तरे पुरुषतत्वं
ईशाने प्रकृत्वं विन्यस्य
मध्ये दुग्धं, पूर्वे दधि, दक्षिणे सर्पिः, पश्चिमे गोमयम्, उत्तरे गोमूत्रम्,
पारिपहैर्मुपस्थरणमाहरणजातं धूपमधुवासांस्याग्नेये
नीराजनम्, नरृते कषायसङ्ग्रहम्, वायव्ये कुङ्कुमम्, ईशाने ? इति कारकव्रातं कोष्ठे
विन्यस्य क्षीरामलकगन्धरत्नफलपुष्पसस्यौ
क्षयाम्बः सञ्ज्ञकान् कुम्भान् विन्यस्यास्त्रेण प्रोक्षितान् कवचावकुण्ठितान् स्व
सञ्ज्ञाभिरभ्यर्च्यान्यत्र क्षारादिसमुद्रान्
परिकल्प्य बहिरन्यानपि कुम्भान् संस्थाप्यास्त्रप्रोक्षितान् कवचावकुण्ठितान् संरक्ष्य
प्ररोच्य मूर्तिपैः सह प्राग्वेद्यां सपद्माङ्के
भद्रपीठे प्रणवासने लिङ्गं संस्थाप्य अस्त्रेण ताड्य कवचेनावकुण्ठ्य संस्थाप्य
सम्पूज्य मद्भिः कषायवर्गेण गोमूत्रेणोदकान्तरं पञ्चगव्येन
गोमयेनान्तरान्तरावारिणा भस्मना
गन्धतोयेन हुं फडन्तास्त्रेणाकारशोधनं विधाय सामान्यमस्त्रेण सम्पूज्य
वर्मजप्तेन पीतेन वा वाससा
सञ्च्छाद्य पीठब्रह्मशिलावृषांश्च एवं संस्नाप्य लिङ्गमुत्तरवेदिकायामानीय तत्र
शय्यामासनं प्रणवेन दत्वा सन्निवेश्य कूलालिप्तसूत्रेण
शास्त्रोक्तमार्गेण विभज्य हेमशलाया गुरुर्लक्षणमघोरेण लिखेत्। तद्यथा -
रुद्रभागे त्रिधा भक्ते ब्रह्मरेखानुसारतः।
अधोभागद्वये लक्ष्म लम्बयेदाजलाश्रयम्॥
लिङ्गायामे जिनांशे तु लक्ष्मविस्तृतिरंशतः।
पृथ्वी निम्ना च तद्रेखा विस्तृते तन्नवमांशतः॥
लक्ष्मार्धात् पक्ष्मरेखे द्वे तत्क्षेत्रेऽष्टांशविभाजिते।
षट्सप्ताङ्गक्रमात् पृष्ठे तद्योगो यो विवर्जनात्॥
नयनोन्मीलनं व्यक्ते व्यक्ताव्यक्ते च लक्षणम्।
रन्ध्रमध्ये भगाकारमृस्वाश्रं लक्ष्मपीठगम्॥
रन्ध्यास्यैव विभागेन तन्मूले भ्रमरेखि सन्।
अश्वत्थपत्रवत् गुह्यं वर्तयेत् गुह्यलक्षणम्॥
प्रनालस्यार्धविस्तारात् पीठापादे कलेन्दुवत्।
द्वे यूके पञ्च लिक्षाश्च रेखयेरन्तरं भवेत्॥
रेखापुर्यत्वं साङ्घ्रि तु द्वे लिक्षे मूर्धजौ तथा। (१०१अ, १स्त् line[१६९अ????])
एकैकां वर्धयेद्यूकां लिक्षां च द्विक्षादिषु॥
लक्षणं नोत्किरेत् ब॥।णपिण्डिकायां तदुत्किरेत्। इति भार्गवे।
ततः शिप्पी शितशस्त्रेणोत्किरेत्।
घृतमधुभ्यां मृत्युजिन्मन्त्रेण पक्ष्मरेखां सम्पूर्य पात्रशलाकादिकं शिल्पिने दत्वा
पुनरासने संसथाप्य सवत्सां गां दर्शयित्वा
अविधवा सपुत्रका अष्टौ चतस्रो वा नार्योदङ्पल्लवैः संस्पृशन्त्यो मङ्गलाङ्गाय
न्योरोचनां दत्वा हरिद्रया नीराजनादिकं कर्म कुर्युः।
गुडलवणधान्यहरिद्रादिदानेन ताश्च विसृजेत्।
अनन्तरमस्त्रताड्य वर्मणावकुण्ठ्य हृदा वा प्रणवेन वा सम्पूज्य लिङ्गपुरस्सरं
विशेषस्नपनमुपक्रमेत्। अत्रान्तरे लिङ्गपुरस्सरं जलाशयं गत्वा लोकपूलपूजापुरस्सरं
जलेऽधिवास्य तस्मात् स्नानमण्डपमानीय
विशेषस्नपनं कुर्यादिति केचित्। तत्र मृद्भिः गोमयगोमूत्रभस्मपञ्चगव्यकषायैः
पञ्चामृतैर्जलान्तरैः संस्नाप्य बिल्वगोधूमादिचूर्णैर्विरूक्ष्य

सर्वौषधिजलेन पुष्पफलस्वर्णरत्नगोशृङ्गोदकैर्धारासहस्रेण दिव्यौषधिजलेन
गङ्गादितीर्थजलेन गन्धाम्भसा क्षारार्णवादिकुम्भैः (१०१ब्, १स्त् line[१६९ब्])
शिवकुम्भजलेन च संस्नाप्य शुद्धवाससा विरूक्ष्य सुगन्धैश्चन्दनादिभिरालिप्य
रक्तवाससी परिधाप्य ब्रह्मभिः सम्पूज्य बहुरूपेण नीराज्य
हृदाचमनार्घ्यौ दत्वा रक्षातिलकं रोचनया कृत्वा हृदयेनोत्थाप्य रथे
समारोप्य सुयन्त्रितं कृत्वा गीतवाद्यप्रनृत्तैर्ब्रह्मघोषादिमङ्गलैः
सलाजपुष्पाणि हिरण्यादिकं च विकिरानाचार्यप्रोक्षिते देशे नगरं पुरं प्रासादमण्डपं
वा यजमानेनाग्रतो रथमार्गानुगामिभिः शिल्पादिभिः
सार्धं प्रदक्षिणीकृत्य यागगृहस्य पश्चिमद्वारमानीय हृदयेन साष्टाङ्गमर्घ्यं
वषड॥॥।ड्युक्तं दत्वा रथात् समवतार्य हृदासने संस्थाप्य
सम्पूज्य
स्वस्त्ययने कृते प्रवेश्य वेदिकायाम् ॥॥ तण्डुलपुञ्जेन परिहृदा कुशानास्तीर्य स्वस्तिकं कृत्वा
खट्वां पट्टकं विन्यस्य
मृदुवस्त्रयुगावृतां कुलिकां प्रणवेन विन्यस्य तत्र क्षित्यादिशक्तिपर्यन्तासने शिरसा
लिङ्गं पश्चिमास्यप्रासादे वेदिमध्यात् पूर्वाश्रितं किञ्चिदिगीशानदिगाश्रयेण
पूर्वमस्तकं विन्यस् शिखयोपधानं दत्वा वर्मजप्तवाससा सञ्छाद्य लिङ्गमूले
शय्यायां
पिण्डिकां ब्रह्मशिलां वृषं च न्यसेत्। अथवा (१०२अ, १स्त् line[१६५अ]) लिङ्गमूले
ब्रह्मशिलामुत्तरे पुण्डिकां तदुत्तरे वृषं च न्यसेत्। पूषास्य प्रासादे तु विपर्यया न्यसेत्।
पिण्डिकादीन् रक्तवस्त्रैराच्छादयेत्। ततो
लिङ्गे शान्तिघटाम्भः प्रोक्षणपूर्वं मूर्तिमीशानादिब्रह्माणि च मूर्धादि विन्यस्य
पुष्पधूपादिभिः मूलेन सम्पूज्य नैवेद्यादि सम्पाद्य

छत्रचामरपादुकापीठानि गृहोपकरणानि पतत् ग्र(गृ?)हादीनि पाददेशे दद्यात्। तत्र
पादाभ्यङ्गार्थपात्रस्थे मधुसर्पिषि मृत्युञ्जयेन संस्थाप्य शिरः
समीपे शिवकुम्भोपम्। प्रणवासनमस्त्रशता लब्धं निद्राकुम्भं संस्थाप्य पूर्वादिदिक्
कुम्भेषु ॐ हाम् अनन्ताय नमः। ॐ हां सूक्ष्माय नमः। ॐ
हां शिवोत्तमाय नमः। ॐ हाम् एकनेत्राय नमः। ॐ हाम् एकरुद्राय
नमः। ॐ हां त्रिमूर्तये नमः। ॐ हां श्रीकण्ठाय नमः। ॐ हां शिखण्डिने नमः।

इत्यभ्यर्च्य लिङ्गमूले स्थित्वा मूर्धादिमूलपर्यन्तं लिङ्गे षट्त्रिंशत्तत्वानि सा शिवानि
विन्यसेत्।
यथा रुद्रभागे - ॐ हां शिवतत्वाय नमः। ॐ हां
शिवतत्वाधिपतये शिवाय नमः। ॐ हां शक्तितत्वाय नमः। ॐ हां शक्तितत्वाधिपाय
शक्तिमते नमः।
विष्णुभागे – ॐ हां सदाशिवतत्वाय नमः। ॐ
सदाशिवतत्वाधिपाय ब्रह्मणे नमः। ॐ हाम् ईश्वरतत्वाय नमः। ॐ हाम्
ईश्वरतत्वाधिपाय अनन्ताय नमः। ॐ हां शुद्धविद्यातत्वाय नमः। ॐ हां
शुद्धविद्यातत्वाधिपाय शम्बराय नमः।
ब्रह्मभागे – ॐ हां मायातत्वाय नमः। ॐ हां मायातत्वाधिपाय गहनेशाय नमः।
ॐ हां कालतत्वाय नमः। ॐ
हां कालतत्वाधिपाय कालनाम्ने नमः। ॐ हां कलातत्वाय नमः। ॐ हां
कलातत्वाधिपाय ज्ञानबिन्दवे नमः। ॐ हां नियतितत्वाय नमः। ॐ हां
नियतितत्वाधिपाय नियामकाय नमः। ॐ हां विद्यातत्वाय नमः। ॐ हां
विद्यातत्वाधिपाय वेदविज्ञानाय नमः। ॐ हां रागतत्वाय नमः। ॐ हां
रागतत्वाधिपाय कामदाय नमः। ॐ हां पुरुषतत्वाय नमः। ॐ हां
पुरुषतत्वाधिपाय सूक्ष्मदेहाय नमः। ॐ हां प्रकृतितत्वाय नमः। ॐ हां
प्रकृतितत्वाधिपाय प्रधानकाय नमः। ॐ हां गुणतत्वाय नमः। ॐ हां
गुणतत्वाधिपाय त्रिदेहाय नमः। ॐ हां बुद्धितत्वाय नमः।
ॐ हां
बुद्धितत्वाधिपाय बुद्धाय नमः। ॐ हाम् अहङ्कारतत्वाय नमः। ॐ हाम्
अहङ्कारतत्वाधिपाय अहङ्कृते नमः। ॐ हां मनस्तत्वाय नमः। ॐ हां (१०३अ, १स्त्
line[१६६अ]) मनस्तत्वाधिपाय सङ्कल्पाय नमः। ॐ हां श्रोत्रतत्वाय नमः।
श्रोत्रतत्वाधिपाय व्योमचराय नमः। ॐ हां त्वक्तत्वाय नमः। ॐ हां त्वक्तत्वाधिपाय

सर्वाङ्गाय नमः।
ॐ हां चक्षुस्तत्वाय नमः। ॐ हां चक्षुस्तत्वाधिपाय प्रकाशाय नमः। ॐ हां
जिह्वातत्वाय नमः। ॐ हां जिह्वातत्वाधिपाय महावक्त्राय
नमः। ॐ हां नासातत्वाय नमः। ॐ हां नासातत्वाधिपाय विलुम्बकाय नमः। ॐ हां
वाक्तत्वाय नमः। ॐ वाक्तत्वाधिपाय दुन्दुभये नमः। ॐ हां
पाणितत्वाय नमः। ॐ हां पाणितत्वाधिपाय समादानाय नमः।
ॐ हां पादतत्वाय नमः। ॐ हां पादतत्वाधिपाय रमणाय नमः। ॐ हां
पायुतत्वाय नमः। ॐ हां पायुतत्वाधिपाय तिष्णकृते नमः। ॐ हाम् उपस्थतत्वाय
नमः। ॐ हाम् उपस्थतत्वाधिपाय घनानन्दाय नमः। ॐ हां शब्दतत्वाय
नमः। ॐ हां शब्दतत्वाधिपाय सूक्ष्मनादाय नमः। ॐ हां स्पर्शतत्वाय नमः।
स्पर्शतत्वाधिपाय बलवत्तराय नमः।
ॐ हां रूपतत्वाधिपाय भानुमते
नमः। ॐ हां रसतत्वाय नमः। ॐ हां रसतत्वाधिपाय जलदाय नमः। ॐ हां
गन्धतत्वाय नमः। ॐ हां गन्धतत्वाधिपाय गन्धाङ्गाय नमः।
व्योमतत्वाय नमः। व्योमतत्वाधिपाय सूक्ष्माय नमः। ॐ हां वायुतत्वाय नमः। ॐ
हां वायुतत्वाधिवाय मातरिश्वने नमः। ॐ हाम् अग्नितत्वाय नमः।

ॐ हाम् अग्नितत्वाधिपाय त्विषां निधये नमः। ॐ हां जलतत्वाय नमः। ॐ हां
जलतत्वाधिपाय जलेशाय नमः। ॐ हां पृथिवीतत्वाय नमः। ॐ हां पृथिवी
तत्वाधिपाय श्रीकण्ठाय नमः। एवं विन्यस्य त्रिभागप्रदर्शकं पुष्पमालाप्रतिसरं
दत्वा त्रिखण्डं परिकल्प्य रुद्रभागे शिवतत्वान्तं ॐ हूं शिवतत्वाय
नमः। ॐ हूं शिवतत्वाधिपतये रुद्राय नमः।
विष्णुभागे सदाशिवतत्वान्तं ॐ हीं विद्यातत्वाय नमः। ॐ हां विद्यातत्वाधिपतये
विष्णवे नमः। ब्रह्मभागे
मायातत्वान्तं ॐ हाम् आत्मतत्वाय नमः। ॐ हाम् आत्मतत्वाधिपतये ब्रह्मणे नमः। इति
विन्यस्य ततः प्रतिभागं पूर्वादिक्रमेण ईशानान्तं ॐ हां
सूक्ष्मामूर्तये नमः। ॐ हां सूक्ष्मामूर्त्यधिपतये शर्वाय नमः। ॐ हां रूम्
अग्निमूर्तये नमः।
ॐ हाम् अग्निमूर्त्यधिपतये पशुपतये नमः। ॐ हां
हूं यजमानमूर्तये नमः। ॐ हां यजमानमूर्त्यधिपतये उग्राय नमः। ॐ हां
षूम् अर्कमूर्तये नमः। ॐ हाम् अक्रमूर्त्यधिपतये ({१०४अ, १स्त् line}[१६७अ]) रुद्राय नमः।
ॐ हां पुं जलमूर्तये नमः। ॐ हां जलमूर्त्यधिपतये भवाय नमः। ॐ हां यूं
वूयुमूर्तये नमः। ॐ हां वायुमूर्त्यधिपतये ईशानाय नमः।
ॐ हां
स्रुम् इन्द्रमूर्तये नमः। ॐ हा य इन्द्रमूर्त्यधिपये महादेवाय नमः। ॐ हां हूं
खमूर्तये नमः। ॐ हां खमूर्त्यधिपतये भीमाय नमः। इति मूर्तिमूर्तिपान् विन्यसेत्।
यद्वा
पञ्चपक्षे पश्चिमोत्तरयाम्यपूर्वेशानदिक्षु ॐ हां लूं पृथिवीमूर्तये नमः। ॐ हां
पृथिवीमूर्त्यधिपतये ब्रह्मणे नमः। ॐ हां यूं जलमूर्तये नमः। ॐ हां
जलमूर्त्यधिपतये
विष्णवे नमः। ॐ हां रूम् अग्निमूर्तये नमः। ॐ हाम् अग्निमूर्त्यधिपतये रुद्राय
नमः। ॐ हां यूं वायुमूर्तये नमः। ॐ हां
वायुमूर्त्यधिपतये ईश्वराय नमः। ॐ हां हूम् आकाशमूर्तये नमः। ॐ हाम्
आकाशमूर्त्यधिपतये सदाशिवाय नमः। इति प्रतिखण्डं विन्यस्य रोधयेत्।
मुमुक्षोर्निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीताख्या मूर्तीः
सद्योजातवामदेवाघोरतत्पुरुषेशानसञ्ज्ञा मूर्तिपाः। अथवा सर्वत्र त्रितत्वमेव साधिपं

विन्यसेत्। अत्र हि –
गरूपदेशात् कन्दादेर्मन्त्रमुच्चारयेच्छनैः।
नादशक्तिमयं सूक्ष्मं घण्टानादविसर्पिणम्॥
कारणत्यागयोगेन ब्रह्मरन्ध्राद्विनिर्गतम्।
दिवाकरसहस्राभं विद्युत् जोतिसमप्रभम्॥
स्फुरद्रंहि वितानेन प्रदीपितदिगन्तरम्।
मन्त्रेण मनसा भिन्नं प्राप्तानन्दरसोद्गमम्॥
द्वादशान्तात् समानीय निष्कलं व्यापकं शिवम्।
अष्टत्रिंशत्कलोपेतं सहस्रकिरणोज्वलम्॥
सर्वशक्तिमयं साङ्गं ध्यात्वेवावलिसन्निभम्।
तोजो बिम्बं ललाटस्थं घण्टिकृत्वा द्वारमानयेत्॥
सुषुम्ना निर्गतं ध्यात्वा स्फुरत्तारकसर्पिणम्।
विशक्तं ब्रह्मरन्ध्रेण सकले व्यापकं न्यसेत्॥
जीवन्न्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः।
स्थापकं सन्निधानं च सन्निरोधनकुण्ठने॥
मुद्रया दर्शनं पाद्यमाचमोर्घ्यप्रसूनकम्।
एभिः संस्कृत्य सम्पूज्य वस्त्रेणाच्छाद्य भस्मदर्भतिलैः
प्राकारत्रितयं बहिर्विदध्यात्। पिण्डिकायां नालभागभागमारभ्य ॐ हां शक्तितत्वाय
नमः। ॐ हां शक्तितत्वाधिपाय शक्तिमते नमः। इत्यादि
पूर्ववत् पृथिव्यन्तं तत्वानि तत्वनायकांश्च विन्यस्य त्रिखण्डदर्शनार्थं
मालाप्रतिसरं दत्वा नालभागे ॐ हं शिवतत्वाय नमः। ॐ हां शिवतत्वाधिपायै
इच्छायै
नमः। शक्तितत्वान्तं पीठकण्ठोर्ध्वभागे ॐ हीं विद्यातत्वाय नमः। ॐ हां
विद्यातत्वाधिपायै ज्ञान्यै नमः। सदाशिवतत्वान्तं पीठमूलाधारभ्य (१०५अ, १स्त्
line[१६८अ]) कण्ठान्तभागे ॐ हाम् आत्मतत्वाय नमः। ॐ हाम् आत्मतत्वाधिपायै क्रियायै
नमः। मायातत्वमेवं विन्यसेत्। यद्वा – कण्ठाधोभागे कण्ठे तदूर्ध्वे त्रितत्वं
च त्रितत्वं
विन्यसेत्। ततः प्रतिभागं पूर्वादिदिक्षु ॐ हां क्ष्मामूर्तये नमः। ॐ हां
क्ष्मामूर्त्यधिपायै धारिकायै नमः। ॐ हाम् अग्निमूर्तये नमः। ॐ हां
अग्निमूर्त्यधिपायै दीप्तिमत्यै नमः। ॐ हां यजमानमूर्तये नमः। ॐ हां
यजमानमूर्त्यधिपायै चेतनायै नमः। ॐ हां वायुमूर्तये नमः। ॐ हां
वायुमूर्त्यधिपायै बलोत्कटायै नमः। ॐ हाम् इषुमूर्तये नमः।
ॐ हाम् इषुमूर्त्यधिपायै धात्र्यै नमः। ॐ हाम् आकाशमूर्तये नमः। ॐ हाम्
आकाशमूर्त्यधिपायै
॥॥॥॥॥ नमः। यद्वा – पञ्चपक्षे ॐ हां पृथिवीमूर्तये नमः। ॐ हां
पृथिवीमूर्त्यधिपायै पामायै नमः। ॐ हां जलमूर्तये
नमः। ॐ हां जलमूर्त्यधिपायै ज्येष्ठायै नमः। ॐ हाम् अग्निमूर्तये नमः। ॐ हाम्
अग्निमूर्त्यधिपायै
क्रियायै नमः। ॐ हां वायुमूर्तये नमः। ॐ हां
वायुमूर्त्यधिपायै ज्ञान्यै नमः। ॐ हाम् आकाशमूर्तये नमः। ॐ हाम्
आकाशमूर्त्यधिपायै इच्छायै नमः। इति विन्यस्य निरोध्य ॐ ह्रीं
क्रियाशक्तये नमः। यद्वा ॐ ह्रीं सं महागौरि रुद्रदयिते स्वाहा। ॐ ह्रः क्रियाशक्तये
नमः। इत वाक्यम् उच्चार्य आवाह्य संस्थाप्य निरोधयेत्।
एवं वृषभेऽपि विन्यस्य ॐ
ह्रीं वृषभाय नमः। इत्यावाह्य निरोधयेत्। एवमाधारशिलायामपि विन्यसेत्।
सदाशिवादितत्वन्यासः। शब्दचित्तसदेशान्तं त्रिखण्डं पीठोक्तवद्विन्यस्य ॐ स्रूं
आधारशक्तये नमः। ह्रीं वा इत्यावाह्य निरोधयेत्। एतेषां भस्मदर्भतिलैः
प्राकारत्रितयं बहिर्विदध्यात् पश्चात् स्व स्व दिक्स्थितलोकपालानाराध्य रक्षार्थं

मध्यकुण्डान्तिकं व्रजेत्। तत्र कुण्डमध्ये परमेश्वरं मेखलासु
निवृत्यादिकलाचतुष्कं नाभौ क्रिया शान्तिम् ओष्ठे नादं विन्यस्य
घटस्थण्डिलवह्निस्थशिवेन
मूर्तिपैश्च सह नाडीसन्धानं कुर्यात्।

ऊर्णा तन्तुनिभा नाडीमुदितेन विनिर्गताम्।
अनुदितेन विशन्तीं तां निर्गतामुदितेन च॥
आत्मनोऽनुदितेनैव विशन्तीं चिन्तयेन्मिथा।
तत्सन्धानार्थमाहुतित्रयं दत्वा कुण्डे ॐ हाम् आधारशक्तये नमः। इति
सम्पूज्याहुतित्रयं दत्वा आत्मतत्वं तदीशं च सम्पूज्याहुतीनां त्रयं
दत्वा मूर्तिमूर्तीश्वरान् सम्पूज्य प्रत्येकमाहुतित्रयेण सन्तर्प्य मूलब्रह्माङ्गानि
प्रत्येकं शतं सहस्रमर्धं वा पूर्णासहितं जुहुयात् मूर्तिपां (१०६अ, १स्त् line[१६९अ])
चाष्टाचत्वारो वा स्व स्व कुण्डेषु परमेश्वरादीन् न्यस्त्वा
आधारशक्तिन्यासतर्पणे विधायात्मतत्वं तदीशं न्यस्त्वा आहुतिं दत्वा प्रागादिक्रमेण स्व
स्व
मूर्तिमूर्तिपान् विन्यस्य आहुतित्रयं दत्वा तत्पुरुषादिमन्त्रांश्च सम्पूज्य
द्रव्यकालानुरोधेन शतं सहस्रमर्धं वा गुरुः कृत होमदशांशेन वा पूर्णासहितं
जुहुयुः।
ततः सर्वे गुरुणासह शान्तिकुम्भहस्ताः लिङ्गसमीपं गत्वा स्व स्व दिक्षु स्थित्वा
गुरुपूर्वं शान्तिकुम्भजलेन
प्रोक्ष्य मूलमन्त्रेण कुशमूलेन ब्रह्मभागं
संस्पृश्य होमसङ्ख्यया जप्त्वा शान्तिकुम्भाम्भोभिः प्रोक्षयेत्। गुरुः पश्चात् हृदेव
तेषां सन्निधिं कृत्वा वर्मणावकुण्ठ्य निरुद्ध्य तत्वाधिपमाज्ञां
श्रावयेत्। आत्मतत्वाधिपब्रह्मन् यावद्दोषैः समुज्झितम्। लिङ्गं तावत्त्वात्रैव स्थातव्यं
सन्निधानतः। इति ततः ॐ हां
हिम् आत्मतत्वविद्यातत्वाभ्यां नमः।
इति मायान्तं नादान्तोच्चारेण सम्पूजयेत्। ॐ आम् आं हां हां वा क्ष्मामूर्तये नमः।
एवं वह्न्यादिमूर्तिभिः शुद्धाशुद्धाभिः
सन्दध्यात्। ॐ लूं लूं रूं रूं शुं षुम् आम् आं यूं यूं सूं सूं हूं हूं बीजानि
यद्वा ॐ लूं लूं हां हां वा क्ष्मामूर्तये
नमः। एवं वह्न्यादिमूर्तिभिः शुद्धाशुद्धाभिः सन्दद्ध्या(द्या)त्। मूर्तिपाश्च तत्वयोश्च
स्व मूर्तीनां च सन्धानं कुर्युः।
ततः कुण्डान्तिकं गत्वा एवं सम्पूज्य सन्धानार्थं
जुहुयुः। विद्यातत्वं तदीश्वं विष्णुं सम्पूज्य सन्निधाप्य मूर्तिमूर्तीश्वनान् सम्पूज्य
प्रत्येकमाहुतित्रयं दत्वा संहितां च पूर्ववज्जुहुयात्। एवं मूर्तिपाश्च
पूर्ववज्जुहुयुः। पश्चाल्लिङ्गसमीपं गत्वा पूर्ववच्छान्तिकुम्भाम्भः प्रोक्षणपुरस्सरं
कुशमध्येन मन्त्रेण विष्णुभागं संस्पृश्य होमसङ्ख्यया जप्त्वा
शान्त्यम्भसा
प्रोक्ष्य हृदा सन्निधिमवकुण्ठननिरोधनं च विधाय विष्णुमाज्ञां श्रावयेत् ।
विद्यातत्वपते विष्णो यावद्दोषैः समुज्झितः।

लिङ्गं तावत् त्वयात्रैवं स्थातव्यं सन्निधानतः।
इति ततः ॐ हीं हूं विद्यातत्वशिवतत्वाभ्यां नमः। इति सम्पूज्य मूर्तीनां
च पूर्ववन्मूर्तिपपश्चिमं सन्दध्यात्।
ततः कुण्डसमीपं गत्वा एवमग्नावपि सन्धाय हुत्वा शिवतत्वं तदीशं रुद्रं सम्पूज्य
सन्निधाप्य क्ष्मादि शर्वादि मूर्तिमूर्तिपानां प्रत्येकमाहुतित्रयं
दत्वा संहितयाश्च शतादि सन्तर्प्य मूर्तिपाश्च पूर्वद्धुत्वा लिङ्गसमीपं गत्वा शान्तिजलेन
सम्प्रोक्ष्य
मूलेन कुशाग्रेण रुद्रभागं (१०७अ, १स्त् line[१७०अ]) संस्पृश्य होमसङ्ख्यया जप्त्वा
शान्त्यम्भसा प्रोक्ष्य हृदा सन्निधिं कृत्वावकुण्ठ्य निरुद्ध्य रुद्रमाज्ञां श्रावयेत्। भो
भो रुद्र शिवाज्ञातः शिवतत्वपते त्वया यावददोषो
वर्जितं लिङ्गं स्थेयं तावदिह प्रभो। इति एवं पिण्डी शिलावृषेष्वपि आत्म-विद्या-शिवतत्वादि
इच्छा-ज्ञान-क्रियाख्याम् ईश्वरश्च
क्ष्मादिमूर्तीर्धारिकादिमूर्तीश्वरीं
च पृथिव्यादिमुर्तिर्वामादिमूर्तीश्वरीर्वा वह्नौ सम्पूज्याहुतित्रयेण सन्तर्प्य ॐ ह्रीं हूं
वाकीया शक्तये नमः। ॐ
ह्रीं वृषभाय नमः। ॐ स्रूम् आधारशक्तये नमः। इति प्रत्येकं शतं शतं मूर्तिपैः
सह पूर्णान्तं हुत्वा तत्समीपं गत्वा शान्त्यम्भसा प्रोक्ष्य पूर्ववत्
कुशमूलमध्याग्रैः संस्पृश्य होमसङ्ख्यां जप्त्वा
तत्वयोर्मूर्ति(र्ती)नां शुद्धाशुद्धानां मूर्तिपपञ्चिमसन्धानं कृत्वा गत्वा हुत्वा
गत्यजप्त्वा
सन्धाय गत्वा सन्धाय गत्वागत्य सर्वं पूर्ववदाचरेत्। ततो न्यूनादिकदोषनिर्हरणार्थं
शिवेनाघोरेणासिना च शतं शतं पूर्णासहितं
हुत्वा चरुं दत्वा पूर्णां विधायाचमनताम्बूलादि दत्वा शिवं निरुद्ध्य व्याहृतीं हुत्वा
अन्तर्बलिं दत्वा श्रोत्रवन्दनं कृत्वा सकलीकृत्य
शिवसमीपं
गत्वा शिवस्य दक्षिणे श्रक्वणे।
भगवन् आनने मोहात् ब्रह्माद्यंशत्रयेऽपि यत्।
कृतं कर्म मया न्यानं वाधिकं भक्तवत्सल॥
तत्सर्वमस्तु सम्पूर्णं त्वत्प्रसादादिहाध्वरे।
ॐ नमो भगवते रुद्ररौद्र नमोऽस्तु ते॥
कर्म पूर्णमपूर्णं वा स्वशक्त्या पूर्य गृह्यताम्।
इति विज्ञाप्य ज्ञानशक्तिं विन्यस्य निरुध्यात्।
पिण्डिकायां च भगवति मया भागत्रये कर्म निर्वर्तितं त्वत्प्रसादात् सम्पूर्मतां यूतु।
ॐ ह्रीं शङ्करि पूरय पूरय स्वाहा इति विज्ञाप्याक्रिया
शक्तिं विन्यस्य निरुध्यात्। ब्रह्मशिलायां सर्वकर्मापूर्य गृह्यतामिति विज्ञाप्य ॐ ह्रूम्
आधारशक्तये नमः। इत्याधारशक्तिं वृषमपि विज्ञाप्य ॐ

ह्रीं वृषभाय नमः। इति वृषं च निरुध्यात्।
होमैर्वेदादिघोषैश्च गीतनृत्तमहोत्सवैः।
भक्तितः सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम्॥

एकरात्रमथो सद्य कुर्याददे(द्दे)वाधिवासनम्।
होतव्यं प्रत्यहं स्व स्व मन्त्रैर्होष्यं शतं शतम्॥
शिवकुम्भादिपूजां च दिग्बलिं च निवेदयेत्।
सहमूर्तिधनैः प्राश्य पञ्चगव्यादिकं स्वपेत्॥
क्रियाकाण्डो बहुदिवसपक्षे मेध्याशनस्वपेन्मन्त्री।
मूर्तिपैस्तदनन्तरम्॥ (१०८अ, १स्त् line[१७१अ])
॥ इति परमेश्वरपरनामधेयश्रीमदघोरशिवाचार्यविरचितायां क्रियाक्रमद्योतिकायां
प्रतिष्ठाधिवासविधिः समाप्तः॥

अथ प्रातः   

कृतनित्यविधिं सूर्य-द्वारपालपूजा-भूतशुद्ध्यन्तर्यागविशेषार्घ्य-द्रव्याभिमन्त्रिण-
शिवहस्त-शिवभावना-लोकपाल-शिवकुम्भ-वर्धनी-गणपति-गुरु-
स्थण्डिलपूजां कृत्वा लिङ्गमष्टपुष्पिकयाभ्यर्च्य पिण्डिकां ब्रह्मशिलां वृषं च
सम्पूज्य वह्नौ पूर्ववत् शिवं समुरुज्य मन्त्रतर्पणं कृत्वा पिण्डिकादिमन्त्राणां
च तर्पणं विदध्यात्।
मूर्तिपाश्च स्व स्व कुण्डेषु शिवमभ्यर्च्य सन्तर्प्य स्व स्व मन्त्रान् पिण्डिकादींश्च तर्पयेत्।
अदीक्षितस्तु यः कर्ता
दीक्षयेत्तमिहान्तरे। चरु पाकं कृत्वा निवेद्य बलिं दद्यात्। ततः शिवं विज्ञाप्य लब्धानुज्ञो
हुं फडन्तमस्त्रमुच्चरन् प्रासादं गत्वा विघ्नानुच्चाट्यास्त्रेण
प्रोक्ष्य ब्रह्मस्थानं परीक्ष्य यवेन यवार्धेन वा परिहृत्य किञ्चिदीशानमाश्रित्य शिवां
मध्ये निवेशयेत्।
ॐ सूम् आधारशक्तये नमः। ओन्नमो
व्या ॥। नि स्थिरे अचले आवेलं ह्मीं लं स्वाहेति वा सृष्टिमार्गेण शिलां विन्यस्य सम्पूज्य –
त्वमेव परमाशक्तिस्त्वमेवासनया रिका।
शिवाज्ञया तु(कृ) …।(पा) देवी स्थातव्यमिह सर्वदा॥
इति विज्ञाप्य सम्पूज्य निश्रस्य तन्मध्यनवगर्तेषु पूर्वादिषु रत्न-लोह-धातु-
ओषधि-सस्यान्-प्रभा-देहत्वा-वीर्य-आरोग्यत्व-तृप्यशक्तिमयान् विभाव्य लोकपाल-शम्बरैः
लूं रूं शूं षूं पूं यूं सूं हूम् इति वज्रं सूर्यकान्तं नीलं महानीलं मौक्तिकं

पुष्यरागम्, पद्मरागम्, वैडूर्यम्, रत्नानि, हेमम्, ताम्रम्, कृष्णलोहम्, त्रपु, रौप्यम्,
पित्तलम्, कांस्यम्, सीसकं च लोहानि
हरितालम्। मनः, शिलाम्,
गैरिकम्, स्वर्णमाक्षिपम्। पार॥।वञ्चि, गैरिकं, गलकम्, अभ्रकं च धातुनि – उशीरम्,
विष्णुकान्तम्, रक्तचन्दनम्, कृष्णागरुम्, श्रीकण्ठम्, शारिबाम्,
कुष्ठम्, शङ्खपुष्पिकां च ओषधीन्। व्रीहि, गोधूम, तिलम्, माषम्, मुद्गवम्, यवम्,
नीवारम्, श्यामकम् इति सस्यांश्च विन्यस्य मध्ये हेममयं कूर्मं
हेमपद्मं
द्वारसम्मुखम्, वृषभम्, महीं लक्षणां सहदेवां चानन्तमस्त्रेण मूलेन वा
विन्यसेत्। अथवैषामलाभे वज्रम्, हेमम्, हरितालम्,
सहदेवा, देवां यवं च सहदेवांश्च यवं च सर्वगर्तासु विन्यसेत्। सर्वत्र पारदं वा
विन्यस्य आधारशक्त्याद्यासनं संवाप्तकं शक्तिपर्यन्तं (१०९अ, १स्त् line[१७२अ])
सम्पूज्यास्त्रेण संरक्ष्य वर्मजप्तवाससा प्रच्छाद्य लोकपालबलिं दत्वा समाचम्य
सकलीकृत्य शिवेनासिना वा शिलासूत्रसद्यातिच्छिद्रनिवारणाय
पूर्णासहितं शतं हुत्वा वास्तुदेवता एकैकाहुतिदानेन सन्तर्पयेत्।
ब्रह्मेशपर्जन्यजयहेन्द्ररविसत्यकाः।
भृशोऽन्तरिक्षः सप्तार्चि पूषा वितथसञ्ज्ञकः।
ग्र[गृ]हक्षत-प्रेतपति-गन्धर्वो भृङ्गको मृगः।
पितृदौ॥।वारसुग्रीव-पुष्पदत्त-प्रचेतसः॥
असुरः शोषरोगौ च वायुर्नागोऽथ मुख्यकः।
भल्लाटश्चैव सोमोऽथ अदितिर्दितिरेव च॥
मरीचिश्च विवस्वांश्च मित्रश्चै धराधरः।
आपापवत्सौ सविता सावित्रेन्द्रेन्द्रजिततः॥
रुद्रोऽथ रुद्रदासश्च चरकी च विदार्यपि।
पूतना पापराक्षस्यो स्कन्दोऽर्यमा च जम्भकः॥
पिलपिञ्च इति प्रोक्तास्त्रिपञ्चाशत्तु देवताः।
ततः पूर्णां दत्वा लिङ्गं प्राप्य देवव्रजस्वालयं प्रतीति विज्ञाप्य हृदादेवमुत्थाप्य
शिरसार्घ्यं दत्वा भगवन्तं छत्रसंयुक्तं नृत्तगीतवाद्यजयकुर्यमङ्गलनिर्घोषैः

॥॥ह कर्ता स्व बन्धुः पृष्ठतः शिवं स्पृशन् समूर्तिपो गुरुरग्रे प्रोक्षणपुरस्सरं
हिरण्य कांस्य वासो रत्नादिप्रक्षिपन्
प्रासादं प्रदक्षिणीकृत्यानीय द्वारस्याभ्यन्तरे भद्रपीठे द्वारसम्मुखमवतार्य स्थिरो
भवेत्युक्तेऽर्घ्यं दत्वा ब्रह्मशिलाश्वभ्रं महापाशुपतं
पठमुद्घाट्य दूर्वाक्षतादिभिः शिवमभ्यर्च्य तुर्यमङ्गलघोषपूर्वं
हृदोत्तिष्ठेत्युक्त्वा गुरुं मूर्तिपैः सह लिङ्गं सयन्त्रं धृत्वा लम्बनेन परीक्ष्य।
कशिला धारिकाशक्तिः शक्तिमान् परमेश्वरः।
ध्यानोदितं परं तेजो ध्यात्वा कारणकारणम्॥
मूलमन्त्रं लयान्तमुच्चार्य सृष्टिमार्गेण लिङ्गे व्याजेन तेजोरूपं
परशिवमूर्तिं श्वभ्रे संस्थाप्य सीसकं ह्यादिभिश्वभ्रं पिधाय स्थिरो भवेत्युक्त्त्वा
स्थिरीभूते लिङ्गे मस्तकान्तं समुत्सार्य ध्यात्वा
सकलरूपिणीम्।

विषुवं मन्त्रमुच्चार्य यावन्निष्कलगोचरम्।
शक्यन्ते तत्वमात्रं तु तन्मूर्तौ निष्कलं न्यसेत्॥
क्रियाशक्ति कृताधारं ज्ञानशक्तिप्रकल्पितम्।
ज्ञेयाधारस्वरूपेण स्थातव्यमिति तत्वतः॥
आवाह्य सम्मुखं ध्यात्वा सान्निध्यं सन्निरोधनम्।
कृत्वार्घ्यं निवेदयेत्। ततः पिण्डीमुद्बोध्यतां
पूर्ववत् समानीय द्विबन्धपीठे पूर्वं पीठबन्धमधः कृत्वा लम्बनैः प्रगुणीकृत्य
लिङ्गलक्ष्मस्पर्शलक्षणम् ॐ ह्रीं क्रियाशक्तये उमायै नमः। (११०अ, १स्त् line[१७३अ]) इति
देवीमन्त्रमुच्चार्य सृष्टिमार्गेण साक्षात् क्रियाशक्तिरूपां पिण्डीं बध्नीयात्।
लिङ्गपिण्डिकयोर्यस्यां दिशि भ्रान्तिचलने तत्तदिगीशमन्त्रैः शतं

पूर्णासहितं जुहुयात्। शब्दोत्थानादिसम्भवे तच्छान्त्यैव मूलेनाघोरेण वा शतं
जुहुयात्। तत्र दिगीशतृप्त्यर्थं गजं काञ्जनं महिषं च्छाभं
मौक्तिकं पित्तलां धेनुं रजतं गुरवे दद्यात्। सीसवज्रलेपादिभिः पीठपार्श्वसन्धिं
निस्सन्धिं विधाय मूर्तिपैः सहितो गुरुः शान्तिकुम्भाम्भसा
मूर्ध्नि पञ्चगव्यादिभिः शिल्प्यादिभिः स्पर्शशान्त्यर्थं हृदा संस्नाप्य
ॐ ह्रीं हौं क्रियाशक्तिशिवाभ्यां नम इति लिङ्गमुद्रया पीठलिङ्गे बुभुक्षोर्मुमुक्षोस्तु

ॐ हौं ह्रीं शिवशक्तिभ्यां नम इति लिङ्गपीठे वा संस्पृश्याध्वषट्कं न्यसेत्।
रुद्रभागे – शान्त्यतीता। विष्णुभागे – शान्तिः। ब्रह्मभागे -
विद्या। प्रतिष्ठानिवृत्तिरिति कलाध्वां रुद्रभागे शिवतत्वम् – शक्तितत्वम्। विष्णुभागे –
सदाशिवेश्वरशुद्धविद्यातत्वानि।
ब्रह्मभागे – माया, काल, नियतिकला,
विद्या, राग, पुरुष, प्रकृति, गुण, बुद्धि, अहङ्कार, मन, श्रोत्र, त्वक्, चक्षु, जिह्वा, घ्राण,
वाक्, पाणि, पाद, पायूपस्थ, शब्द, स्पर्श, रूप, रस, गन्धाकाश
वायुः, अग्नि-जल-पृथिवीतत्वानि। इति तत्वार्था। रुद्रभागे – अनाश्रिता। अनाथा। अनन्ता। व्योमरूपा।
व्यापिनी। ऊर्ध्वगामिनी। शोचिका। मोचिका।
दीपिका। शान्त्यतीता।
शान्ति। विद्या। प्रतिष्ठा। निवृत्तिः। विष्णुभागे – सदाशिव। शखण्डि। श्रीकण्ठ। त्रिमूर्ति। एकरुद्र।
एकनेत्र। शिवोत्तम। सूक्ष्म। अनन्त। मनोन्मनि। सर्वभूतदमनि। बलप्रमथिनी।
बलविकरिणी। बलविकरणी। काली। रौद्री। ज्येष्ठा। वामा।
ब्रह्मभागे – अङ्गुष्ठमात्र। भुवनेश। ईशान। एकपिङ्गेक्षण। उद्भव। वामदेव।
महातेजाः। शिखेद। एकवीर। पञ्चान्तक। शूर। संवर्त। ज्योतिः। चण्ड। करोध। एकशिव। अनन्त।
अज। उमापदि। प्रचण्ड। एकवीर। ईशान। भव। उग्र।
भीम। वाम। श्रैकण्ठ। औम। कौमार। वैष्णव। ब्राह्म। भैरव। कृत। अकृत। ब्राह्म।
प्राजेश। सौम्य। ऐन्द्र।
गन्धर्व। याक्ष। राक्षस। पैशाच।
स्थलेश्वर। स्थूलेश्वर। शङ्कुकर्ण। कालञ्जर। मण्डलेश्वर। माकोट। द्विरण्ड। छगलण्ड।
स्थाणु। स्वर्णाक्ष। भद्रकर्ण। गोकर्ण। महालय। अविमुक्त। रुद्रकोटि।
वस्त्रापद। भीमेश्वर। महेन्द्र। अट्टहास। विमलेश्वर। नखल। नाखल। कुरुक्षेत्र। गया।
भैरव। केदार। महाकाल। मध्यमेश्वर। (१११अ, १स्त् line[१७४अ])
आम्रादिकेश्वर। जल्पेश्वर। श्रीशैल। हरिश्चन्द्र। लकुलीश्वर। डिण्डिमुण्डि। भारभूति। आषाढि।
पुष्कर। नैमिश। प्रभास। अमरेश। भद्रकाली। वीरभद्र। त्रिलोचन।
लिप्सु। नभो। विवाह। संवाह। त्रिदशेश्वर। त्र्यक्ष। गणाध्यक्ष। विभु। शम्भु। दंष्ट्री। वज्री।
फणीन्द्र। उदुम्बरीश। ग्रसन। मारुताशन। क्रोधन। अनन्त। वृषधर। वृष। बलिप्रिय।

भूतपाटल। ज्येष्ठ। शर्व। सुरेशान। वेदपारग। ज्ञानभुक्। सर्वज्ञ। ईश। विद्याधिप। प्रकाश।
प्रसाद। श्रीधर। रत्नधर। लक्ष्मीधर। जटाधर। सौम्यदेह। धन्य।
रूपवान्। तिथीश। मेघवाहन। कपर्दिन्। पञ्चशिख। पञ्चान्तक। क्षयान्तक। तीक्ष्ण। सूक्ष्म।
वायुवेग। लघु। शीघ्र। सुनाद। मेघनाद। जलान्तक।
दीर्घबाहु। जलभद्र। श्वेत। महाबल।
पाशहस्त। अतिबल। बल। दंष्ट्रवत्। लोहित। धूम्र। विरूपाक्ष। ऊर्ध्वशेफ। भयानक।
क्रूरदृष्टि। हन्तृ। मारण।
निरृति। धर्मपति। धर्म। वियोक्तृ। संयोक्तृ। विधातृ। धातृ। हर। मृत्यु। याम्य। क्षयान्तक।
भस्मान्तक। बभृ। दहन। ज्वलन। हर। खादक। पिङ्गल।
हुताशन। अग्निरुद्र। त्रिदशाधिप। पिनाकिन्। शास्त्र। अव्यय। विभूति। प्रमर्दन।
वज्रदेह। बुद्ध। अज। कपालीश। रुद्र। विष्णु। ब्रह्म। हाटक। कूश्माण्ड।
कालाग्नि। नामानीति भुवनाध्वा।

रुद्रभागे – अ। आ। इ। ई। उ। ऊ। ऋ। ऋ। ऌ। ॡ। ए। ऐ। ओ। औ। अम्। अः।

विष्णुभागे – क। ख। ग।

ब्रह्मभागे – घ। ङ। च। छ। ज। झ। ञ। ट। ठ। ड। ढ।
ण। त। थ। द। ध। न। प। फ। ब। भ। म। य। र। ल। व। श। ष। स। ह। ऴ। क्ष इति वर्णाध्व।

रुद्रभागे – ॐ, विष्णुभागे – व्यो(म)व्यापिने। व्योमरूपाय। सर्वव्यापिने। शिवाय।
अनन्ताय। अनाथाय। अनाश्रिताय। ध्रुवाय। शाश्वताय। योगपीठसंस्थिताय। नित्यं योगिने।
ध्यानाहाराय।

ब्रह्मभागे – ॐ नमश्शिवाय। सर्वप्रभवे। शिवाय।
ईशानमूर्धाय। तत्पुरुषवक्त्राय। अघोरहृदयाय। वामदेवगुह्याय। सद्योजातमूर्तये। ॐ
नमो नमः। गुह्यातिगुह्याय। गोप्त्रे। अनिधनाय।
सर्वयोगाधिकृताय। सर्वविद्याधिपाय। ज्योतिरूपाय। परमेश्वराय। अचेतनाचेतन। व्योमिन्
व्योमिन्। व्यापिन् व्यापिन्।
अरूपिन् अरूपिन्।
प्रथम प्रथ(म)। तेजस्तेज। ज्योतिर्ज्योति। अरूप। अनग्नि। अधूम। अभस्म। अनादे। नाना नाना।
धूधू धूधूः। ॐ भूः। ॐ भुवः।
ॐ सुवः। अनिधन। निधन। निधनोत्भ(द्भ)व। शिव। शर्व। परमात्मन्। महेश्वर। महादेव।
सत्भा(द्भा)वेश्वर। महातेजः। योगाधिपते। मुञ्च
मुञ्च। प्रथम प्रथम। शर्व शर्व। भव भव। भवोत्भ(द्भ)व।
सर्वभूतसुखप्रद। सर्वसान्निध्यकर। ब्रह्मविष्णुरुद्रपर। अनर्चितार्चित।
असंस्कृतासंस्कृत। पूर्वस्थित
पूर्वस्थित। साक्षि साक्षि। तुरुतुरु। पतङ्गपतङ्ग।पिङ्ग पिङ्ग। ज्ञान ज्ञान। शब्द शब्द। सूक्ष्म
सूक्ष्म। शिव। शर्व। सर्वद। ॐ नमश्शिवाय। नमो नमः। शिवाय नमो
नमः। ॐ। इति पदाध्वा।

रुद्रभागे – ॐ हौं शिवाय नमः। ॐ होम् ईशानमूर्धाय नमः।

विष्णुभागे – ॐ हें तत्पुरुषवक्त्राय नमः।

ब्रह्मभागे –
ॐ हुम् अघोरहृदयाय नमः। ॐ हिं वामदेवगुह्याय नमः। ॐ हं सद्योजातमूर्तये
नमः। ब्रह्मभागे – ॐ हां हृदयाय नमः। ॐ
हीं शिरसे नमः। ॐ हुं शिखायै (नमः)।

विष्णुभागे – ॐ हैं कवचाय नमः।

रुद्रभागे – ॐ हौं नेत्रेभ्यो नमः। ॐ हः अस्त्राय नमः। इति
मन्त्राध्वा। रुद्रभागे – शिवतत्वम्। रुद्रम्।

विष्णुभागे – विद्यातत्वं विष्णुम्।

ब्रह्मभागे – आत्मतत्वं ब्रह्माणम्। विन्यस्य।

प्रतिखण्डम्।

क्ष्मावह्नियजमानार्कजलवटध्वन्मुखानि च।
मूर्तिः शर्वं पशुपतिं चोग्रं रुद्रं भवमश्वेश्वरम्॥
महादेवं च भीमं च इति मूर्तीश्वरान् न्यसेत्।
ततः पीठे
ऊर्ध्वभागे – शिवतत्वम्। इच्छाम् कण्ठे। विद्यातत्वं ज्ञानीम्। अधः - आत्मतत्वं क्रियाम्।
प्रतिभागम् – क्ष्मा वह्न्याद्यष्टमूर्तीः।
दण्डभङ्गिमुण्डभङ्गिन्यासः -
धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा।
धात्री च विभवी चेति मूर्तीश्वरीश्च विन्यसेत्॥
एवमाधारशिलामपि विन्यसेत्। पञ्चपक्षविषयश्चेत्
पृथिनीजलवह्निवाय्वाकाशमूर्तिः
ब्रह्मविष्णुरुद्रेश्वरसदाशिवाभिधानात् मूर्तीश्वरा विन्यस्य पीठशिलयोः
पृथिव्यादिपञ्चमूर्तिः। वामा ज्योष्ठा क्रिया ज्ञानी इच्छाख्या मूर्तीश्वरीश्च
विन्यसेत्। तत आधारशक्त्यादिशक्तितत्वामासनमन्त्रान् पीठे विन्यस्य लिङ्गे मूर्तिम्, ब्रह्माणि
शिरो मुख हृत् गुह्य
सर्वाङ्गेषु दण्डभङ्ग्या
ऊर्ध्व-पूर्व-दक्षिण-उत्तर-पश्चिमवक्त्रेषु वक्त्रभङ्ग्या च विन्यस्य कलाभङ्ग्या न्यसेत्।
यथा – ॐ ईशानः सर्वविद्यानां शशिन्यै नमः। ऊर्ध्वमस्तके॥
ॐ ईश्वरः सर्वज्ञतानामङ्गदायै नमः। पूर्वशिरसि॥ ॐ
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा इष्टायै नमः। दक्षिणशिरसि॥ ॐ शिवो मेऽस्तु
मरीच्यै नमः। उत्तरमूर्ध्न॥
ॐ सदाशिवज्वालिन्यै नमः। पश्चिममूर्ध्नि॥ एवमीशानकलाः॥ पश्चात् ॐ अव्यक्तकलायै
नमः। ऊर्ध्ववक्त्रे॥ ॐ (११३अ, १स्त् line[१७५अ]) तत्पुरुषविद्महे शान्त्यै नमः। पूर्ववक्त्रे॥ ॐ
महादेवाय धीमहि विद्यायै नमः। दक्षिणवक्त्रे॥ ॐ तन्नो रुद्रप्रतिष्ठायै नमः।
उत्तरवक्त्रे॥ ॐ प्रचोदयान्निवृत्यै
नमः। पश्चिमवक्त्रे॥ इति तत्पुरुषकालाश्चतस्रः॥
ॐ अघोरेभ्यस्तमायै नमः। हृदये॥ ॐ अथघोरेभ्यो मोहायै नमः। ग्रीवायाम्॥ ॐ
घोररक्षायै नमः। दक्षिणांसे॥ ॐ घोरतरेभ्यश्च निद्रात्वष्ठायै नमः। वामांसे॥
ॐ सर्वदः सर्वमृत्यवे नमः। नाभौ॥ ॐ सर्वेभ्यो मायायै नमः।
जठरे॥ ॐ नमस्तेऽस्तु रुद्रभयायै नमः। पृष्ठे॥ ॐ रूपेभ्यो जरायै नमः। उरसि॥
ओघोरकलाष्टकम्॥
ॐ वामदेवाय नमो रजायै नमः।
गुह्ये॥ ॐ ज्येष्ठाय नमो रक्षायै नमः। लिङ्गे॥ ॐ रुद्राय नमो रत्यै नमः। दक्षिणोरौ॥
ॐ कालाय नमः। पाल्यै नमः। वामोरौ॥ ॐ
कलकामायै नमः। दक्षिणजानुनि॥ ॐ विकरणाय नमः। संयमन्यै नमः। वामजानुनि॥
ॐ बलक्रियायै नमः। दक्षिणजङ्घायाम्॥ ॐ विकरणाय
नमो बुद्ध्यै नमः।
वामजङ्घायाम्॥ ॐ बलकार्यै नमः। दक्षिणस्फिचि॥ ॐ प्रमथनाय नमो धात्र्यै नमः।
वामस्फिचि॥ ॐ सर्वभूतदमनाय नमो
ब्रह्मण्यै नमः। कट्याम्॥ ॐ मनमोहिन्यै नमः। दक्षिणपार्श्वे॥ ॐ उन्मनाय नमो
भवायै नमः। वामपार्श्वे॥ इति वामदेवकलास्त्रयोदश॥
ॐ सद्योजतं प्रपद्यामि सिद्ध्यै नमः। दक्षिणपादे॥ ॐ सद्योजाताय वै
नमो ऋद्ध्यै नमः। वामपादे॥ ॐ भवेद्युत्यै नमः। दक्षिणपाणौ॥
ॐ अभवे लक्ष्म्यै नमः। वामपाणौ॥ ॐ अनादिभवे मेधायै नमः। नासायाम्॥ ॐ
भजस्व मां कान्त्यै नमः। शिरसि॥ ॐ भज स्वधायै नमः। दक्षिणबाहौ॥
ॐ उद्भवाय नमो धृत्यै नमः। वामबाहौ॥ इति सद्योजातकलाष्टकम्॥ एवं स्व स्व
मुद्राभिरष्टत्रिंशत्कलान्यासं विधाय
विद्यादेहमापाद्य
नेत्रन्यासानन्तरं मूलमन्त्रमावाह्य संस्थाप्य सन्निधाप्य निरोध्याङ्गानि स्व स्व
स्थानेषु विन्यस्य पाद्याचमनार्घ्यपुष्पप्रदानानि दत्वा
ॐ सौं ज्ञानशक्तये नमः। लिङ्गे रुद्रभागे। पीठे सर्वतः। ॐ ह्रीं क्रियाशक्तये नमः। इति
च विन्यस्य निरोध्य धूपदीपौ प्रदर्श्य गोमयपिष्टादिनिर्मितैर्वज्रादिभि
स्व स्व मन्त्रैरस्त्रेण वा निर्मन्त्र्य
पञ्चगव्येन पञ्चामृतादिना पञ्चविंशतिरष्टोत्तरशतैः सहस्रकलशैर्वा संस्थाप्य
चन्दनादिना (११४अ, १स्त् line[१७६अ]) सर्वतः समाविश्य वाससा परिधाप्य
हारकुण्डलमकुटयज्ञोपवीतपट्टाद्यैरलङ्कृत्य सम्पूज्य धूपं दत्वा लयाङ्गं
सम्पूज्य ईशानादिदलेषु भोगाङ्गानि
सम्पूज्य दलाग्रेषु – अनन्तसूक्ष्मशिवोत्तमेकनेत्रेकरुद्रत्रिमूर्तिश्रीकण्ठशिखण्डिनः
अष्टौ सम्पूज्य
पीठकण्ठे नन्दिमहाकालभृङ्गिविनायकवृषस्कन्ददेवि चन्धानष्टौ
पूर्वादिदिक्षु सम्पूज्य पीठपादे इन्द्राग्नियमनिॠतिवरुणवायुकुबेरीशानब्रह्मविष्णून् स्व
स्व दिक्षु सम्पूज्य ब्रह्मशिलोपरि
वज्रशक्तिदण्डखड्गपाशध्वजगदाशूलपद्मचक्राण्यस्त्राणि स्व स्व दिक्षु
सम्पूज्यार्घ्ययितवा नैवेद्यादि दत्वा पवित्र धूपदीपारात्रिकं
दर्पणछत्रचामरैर्गेयनृत्तादिभिः
सन्तोष्य जप्त्वा निवेद्य यजमानदेवीहरिसूर्यनाम्नाद्यमीश्वरान्तं नाम भगवते
अमुकैश्वर इति दत्वा प्रार्थयेत्।
चन्द्राणकतारकं यावत् मन्त्रेशैः मूर्तिपैः सह। स्वेच्छयैव त्वया नाथ स्थातव्यमिह
मन्दिर इति। तदनुज्ञामवाप्य साष्टाङगदण्डवत् प्रणम्य बहिर्गत्वा वृषं हृदयेन
ग्रा[ला]शकादि वापामार्गश्वत्थोदुम्बरशमीदूर्वा कुशैस्तिलैर्वा प्रत्येकमष्टोत्तरशतं
हुत्वा मृ॥च्छितापायसेन मूलमन्त्रोमामन्त्राभ्यां च शतं हुत्वा
प्रायश्चित्तार्थं च मूलेनाघोरेण वा शतं हुत्वा चरुं पूर्णां च दत्वाचमनचन्दनादि
दत्वा निरुद्ध्य लाजादिभिर्हुत्वा बलिं दत्वान्तः प्रविश्य
प्रदक्षिणीकृत्य
प्रणिपत्य ज्ञानादज्ञानतो वा यच्छास्त्रोक्तं न कृतं मया। शिलालिङ्गपिण्डीनां वृषस्य च
निवेशने। मखेऽस्मिन् कर्म वाक्कायमनोवैगुण्यतः
प्रभो तत्सर्वं त्वत्प्रसादेन सम्पूर्णं भवता मम। इति विज्ञापयेत्। ततो राजादिकर्ता
हिरण्यग्रामादिदासदासपर्यन्तं पूजार्थं नृत्तगीतादि
हेतवे अमुकेश्वरायेति निवेदयेत्। राजव्यतिरिक्तो
जनपवित्तस्य षष्ठांशं निवेदयेत्। आचार्यादिभोजनदीनान्धकृपणादीनां
महोत्सवं प्रत्यहं यावद्दिनचतुष्टयं कुर्यात्। ततो द्वितीयेऽहनि कृतनित्याह्निको
द्वारपालार्चा भूतशुद्ध्यन्तर्यागविशेषार्घ्यद्रव्याभिमन्त्रिणशिव
कुम्भादिलोकपालगणपतिगुरुपूजां लिङ्गपूजां चरुसाधनं च विधाय कुण्डसमीपं
गत्वा मूर्तिपैः सह विधिसम्पादनार्थं जिग्रह
(११५अ, १स्त् line[१७७अ]) चाघोरेणासिना शिवेन च शतं शतं जुहुयात्। पूर्वदक्षिणोत्तरपश्चिमेषु
कुण्डेषु शिवास्त्राघोरास्त्रपाशुपतास्त्रमूलमन्त्रेणाग्नेयादिकुण्डेषु
वाघोरास्त्रसावित्रीगायत्रीप्रत्यङ्गिरामन्त्रैः पृथक् पृथक् सहस्रमर्धं शतं वा जुहुयात्।
तत्र मन्त्रयथा। ॐ हः अस्त्राय फट्। शिवास्त्रम्।
ॐ प्रस्फुरस्फुर घोर-घोरतर तनुरूप चटचट प्रचट
कहकह वमवम घातय घातय हुं फट्। अघोरास्त्रम्। ॐ श्लीं पशुं हुं फट्।
पाशुपतास्त्रम्। ॐ व्योमव्योमाय विद्महे सूक्ष्मशूक्ष्माय धीमहि तन्नो रुद्रः प्रचोदयात्।
शिवसावित्री। ॐ तन्महेशाय विद्महे वाग्विशुद्धाय
धीमहि तन्नः शिवः प्रचोदयात्। शिवगायत्री। ॐ आम् ईम् ऊं रुद्रास्थिशृङ्खले हूं सर्वतो
भद्रे कुटि रुद्रपचनं विधारि रक्ष रक्ष मां प्रत्यङ्गिरे

धाम धाम ज्योति ज्योतिः सुवे सुवः। भुवे भुवः पाह्यमृतोऽहं देवं सत्यं त्रिभिदं
पादं जुषां लक्ष्मीं नमो वः किरिकेयं करोति तमेवायो
विशतु महादेव सुव्रतेन नमो नम स्वाहा। इति प्रत्यङ्गिरा। ततस्तृतीयेऽहनि रूपिणासिना च
शतं हुत्वा ऐन्द्राग्नेयीयाम्यानैॠती
वारुणी वायवी कौबेरी ऐशानीति दशां त्वष्टकाय स्व स्व मन्त्रैः
सहस्रमर्धं वा शान्त्यर्थं जुहुयात्। ततः चतुर्थे दिवसे यथाशक्ति भगवन्तं
पञ्चोपचारेण सम्पूज्य अघोरेण शतं हुत्वा वागीश्वरिमन्त्रेण स्व ब्रह्माङ्गसहितेन ॐ
किरिकिरि कुमारिके स्वाहेति प्रतिकुण्डं सहस्रमर्धं वा शतं वा
पूर्णासहितं हुत्वा चरुं संसाध्य देवाय निवेद्य यथाशक्ति मूर्तिपाश्च जुहुयुः। ततो
वेद्यां शिवकुम्भवत् कुम्भद्वयं संस्थाप्य सम्पूज्य
शिवं गत्वा
होम समर्पयेत्। चत्वारि वासराण्यत्र नार्चारूढस्य वस्तुनः। विमर्दे लङ्घने दाने
आघ्राणे वास्तिदूषणम्। ततो वेदवाद्यत्रस्य
घौषैश्चतुर्थीमङ्गलं सम्भाव्य गायत्र्याभ्यर्च्य लिङ्गान्निर्माल्यम् अपनीय
नैवेद्यनिर्माल्यादिपात्रे निधाय स्थलशुद्धिं विधायार्घ्याम्भसा
सर्वतः सम्प्रोक्ष्य लिङ्गं संस्नाप्याभ्यर्च्य साधारणलिङ्गे क्षमस्वेति वसृज्य
पुण्डिकेशानकोणे चण्डं सम्पूज्य तमप्यादायायतने प्रतिष्ठाप्य
लिङ्गमभ्यर्च्य स्थिराद्याहुतिसप्तकं विदध्यात्। यद्वा साधारणलिङ्गे चैतन्यं विहाय
स्वमन्त्रं विसृज्य तस्मिन् चण्डेश्वरमा(वा)ह्य सम्पूजयेत्। (११६अ, १स्त् line[१७८अ])
पूर्वोक्तमण्डपे मन्त्रतृप्त्यन्ते पूर्ववन्न्यासहोदादि विधाय ध्यानपूर्वकं
कृतकरशोधने नेत्रोन्मीलनपुनस्नान-श्यायानिवेशन त्रितत्वादिन्यासो

सोमैशान्यां जगति बाह्ये धाम गर्भप्रमाणमन्दिरस्थापिते चण्डमूर्तिरूपे लिङ्गस्थं
चण्डं प्राणपद्मना आत्मस्थं कृत्वानीय संस्थाप्य विशेषेण संस्नाप्य
विधिवत् स्व ब्रह्माङ्गैः पूजयेत्। ॐ आधारशक्तये नमः। ॐ अनन्तासनाय नमः। ॐ
धर्माय नमः। ॐ ज्ञानाय नमः। ॐ वैराग्याय नमः। ॐ ऐश्वर्याय नमः।
ॐ पद्माय नमः।
ॐ चण्डासनाय हुं फण्णमः। ॐ ॐ चण्डमूर्तये हुं फण्णमः। ओ चोम् ईशानाय
हुं फण्णमः। ॐ चं चण्डनेत्रेभ्यो हुं फण्णमः। ॐ
ध्वनिचण्डेश्वराय हुं फण्णमः। ॐ चुम् अघोराय हुम्फण्णमः। ॐ चिं
वामदेवाय हुं फण्णमः। ॐ चं सद्योजाताय हुं फण्णमः। ॐ चं चण्डनेत्रेभ्यो
हुं फण्णमः। ॐ
ध्वनिचण्डेश्वराय हुं फण्णमः। ॐ चां
चण्डहृदयाय हुं फण्णमः। ॐ चीं चण्डशिरसे हुं फण्णमः। ॐ चुं
चण्डशिखायै हुं फण्णमः। ॐ चैं चण्डकवचाय
हुं फण्णमः। ॐ चः चण्डास्त्राय हुं फण्णमः। इत्येभिः पञ्चोपचारेण जपान्तं
सम्पूज्य निर्माल्यं निवेद्य।
ब्रूयादेनं शिवद्रव्यरक्षं स्तिष्ठ शिवान्तिते।
वस्त्रार्थभूषणं न्यस्त्वा निर्माल्यं तव वर्तनम्॥
देवः सन्निहितो यावत् तावत्त्वं सन्निधीभव।
न्यूनाधिकं च यत्किञ्चित् कृतमज्ञानतो मया॥
त्वत्प्रसादेन चण्डेश तत्सर्वं परिपूरय।
इति विज्ञाप्य बहिर्गत्वा स्नायात्। यद्वा पादप्रक्षालन-भस्मस्नान-
सकलीकरणानि विधाय शिवान्तिकं गत्वा
पूर्वस्थापितकुम्भयोरेकेन शिवं संस्नाप्य -
प्रणवो मातृका-माया-व्योमव्यापि-षडक्षरः।
प्रासादो बहुरूपश्च सप्त साधारण स्मृताः॥
इत्युक्तत्वादेतेश्वन्यतमेन सामान्यमन्त्रेण विशेषं पञ्चोपचारेण जपान्तं
सम्पूज्य कुण्डान्तिकं गत्वा स्थिराद्याहुतिसप्तकं
दद्यात्। ॐ नमश्शिवाय स्थिरो भव स्वाहा ॐ नमश्शिवाय स्वापको भव स्वाहा ॐ
नमश्शिवाय अप्रमेयो भव स्वाहा। ॐ नमश्शिवाय अनादिबोधो
भव स्वाहा। ॐ नमश्शिवाय नित्यो भव स्वाहा।
ॐ नमश्शिवाय अविनश्वरो भव स्वाहा। ॐ नमश्शिवाय तृप्तो भव स्वाहा। इति
नित्यत्वादिधर्मान्वितस्यापि
भगवतः कर्मसम्पूरणार्थमाहुतिसप्तकं दद्यात्। कृताकृतकर्मपूरणार्थं पुनः
शतं सहस्रमर्धं वा ओघोरेण असिना (११७अ, १स्त् line[१७९अ]) शिवेन शतं शतं मूर्तिपैः
सह हुत्वा पूर्णां दत्वा आचमन-चन्दन-ताम्बूल-भस्म-वन्दनानि कृत्वा विसृज्य बलिं
दत्वा
कुम्भादि विसृज्य स्वहस्तस्थतोयोर्ध्वक्षेपणेन
मण्डपं विसृज्याचम्य सकलीकृत्य शिवान्तिकं गत्वा कर्म समर्प्य कर्मसमाप्तिं
विज्ञाप्य रुद्रादिभ्यो बलिं दत्वा तान् निरोधयेत्।
यावत्कालं महादेवो लिङ्गमाश्रित्य तिष्ठति।
तावत्कालं च रक्षार्थं यूयं तिष्ठत सर्वदा॥
इति विज्ञाप्य विसृज्य प्रणम्य अध्येष्यानुत्रातो बहिर्गच्छेत्। ततः शुद्धे स्थाने
यजमानं सबन्धुं सभार्यं सपरिकरं
संस्थाप्य शिष्टशान्तिघटजलैः पूर्वस्थापितकुम्भजलेन च संस्नापयेत्।
स्थापकं जयमानोऽपि सम्पूज्य च महेशवत्।
वित्तशाठ्यं विना दद्यात् भूहिरण्यादिभूषणम्॥
तत्प्रतिष्ठितलिङ्गादिहस्ताङ्गुलकसङ्ख्यया।
निष्कलं स्वर्णस्य दातव्यं भक्त्या द्वि त्रिगुणं नृपैः॥
तत्सङ्ख्यं निष्ठे ज्येष्ठादिक्य प्यान्यो वाधनी ददेत्।
यथा सन्तोषमायाति तथा पूज्यो गुरुस्तथा॥
असन्तुष्टौ गुरौ यस्मात् न कर्तुः तत्फलं भवेत्।
मूर्तिपान् विधिवत् पश्चाज्जापकान् ब्राह्मणांस्तथा॥
देवज्ञं शिल्पिनं भक्त्या शक्त्या सम्पूज्य दक्षयेत्।
तत्पाद पादहीना तु मूर्तिभृच्छस्त्रजापिनाम्॥
पूजा स्याज्चापिभिस्तु व्यापिप्रदेवज्ञशिल्पिनाम्।
स्थापकश्च फलं तुष्टः ततः कर्तुः प्रदर्शयेत्॥
प्रतिमालिङ्गवेदीनां यावन्तः प्रमाणवः।
तावद्युगसहस्राणि दुतुः भोगभुञ्जः फलम्॥
अपक्वमृण्मये लिङ्गे पुण्यमेतदुदीरितम्।
पक्वे दशगुणं प्रोक्तं दारुजे तद्दशाधिकम्॥
शैले दशगुणं चाष्ट लोहे दशदशाधिकम्।
स्वर्णाद्दशगुणं रत्नजातेः फलमुदाहृतम्॥
तत्रापि तत्तच्छ्रेष्ठोच्चफलाधिक्यं प्रकीर्तितम्।
बाणे कोटिगुणं लिङ्गे महाकोटिगुणं रसे॥
को गुणान्नृसलिङ्गस्य वक्तुं शक्नोति शाङ्करे।
सर्वत्रानुषङ्गिकमुच्यते।
सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम्।
तत्फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः॥
लिङ्गे संस्थापितो मोक्षो भूतयश्च निरन्तराः।
पितृजं मातृजं चैव यतश्चोद्वहतस्त्रियम्॥
कुलैकविंशमुत्तार्य ततो गच्छेत् परां गतिम्। इति।
यदत्र सम्मुखीभावे वेदितो भगव मया।
क्षमस्व नाथ तत्सर्वं कारुण्याम्बुनिधे मम॥
इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः।
प्रतिष्ठा पुण्यसम्भारं स्फुरत्तारकसप्रभम्॥
कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत्।
दीनान्धकृपणानाथ बालवृद्धकृशातुरान्॥
मलस्मिन् कर्मणो ये च सर्वानेतांश्च पूजयेत्। (११८अ, १स्त् line[१८०अ])
ततो गुरुः। पाशुपतास्त्रं जप्त्वा परमेश्वरं प्रदक्षिणीकृत्य स्व भवनं
व्रजेत्।
गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपम्।
सर्वोपकरणं शिल्पी तथा स्नपनमण्डपम्॥
॥ इति शिवलिङ्गप्रतिष्ठाविधिः॥

॥ अथ द्वारप्रतिष्ठाविधिः ॥
ततः
पूर्ववन्मण्डपद्वार-द्वारपालपूजादिमन्त्रतर्पणान्तं कर्म कृत्वा द्वाराङ्गानि
कषायादिभिः संस्नाप्य रक्तवाससा सञ्छाद्य शय्यायां समारोप्याधोदुम्बरे
मायान्तमात्मतत्वं ब्रह्माणमूर्ध्वविग्रहशाखयोः सदाशिवान्तं विद्यातत्वं
विष्णुमूर्ध्वोदुम्बरे शक्त्यन्तं शिवतत्वं रुद्रं सम्पूज्य मूर्तिमूर्तीश्वराणां न्यासं

वा कुर्यात्। निरूह्य भस्म-दर्भ-तिलादिना
प्राकारत्रयेण रक्षां विधाय कुण्डसमीपं गत्वा पूर्ववत्
तत्वतत्वेशानमभ्यर्च्याहुतित्रयेण सन्तर्प्य संहितां
हुत्वा अस्त्रलब्धशान्तिघटाम्भसा प्रोक्ष्य कुशमूलमध्याग्रभागैर्भागेषु संस्पृश्य
क्रमाद्धोमसङ्ख्यां जप्तावा विशोध्य द्वारप्रदेशे वास्तु
सम्पूज्य एकैकाहुति दानं च विधायानन्तमन्त्रेण रत्नादिपञ्चकं विन्यस्य प्रणवासनं
दत्वा प्रणवेन किञ्चिदीशानाश्रितद्वारं
विन्यस्य।

यवसिद्धार्थककान्तृद्धिवृद्धिसहानिला।
गोमृददरदरोगेन्द्रमोहनीलक्षणामृता॥
रोचना रश्वधौ दूर्वा कुसां दग्धं च पोट्टलीम्।
कृत्वोध्वो
शम्बरे रक्षार्थं प्रणवेन बध्वा स्थिराद्याहुतिसप्तकं दद्यात्।
स्थिरस्तथा प्रमेयश्चानादिबोधस्तथैव च।
नित्योऽथ सर्वगश्चैवा विनाशी तृप्त एव च॥
हुत्वा पूर्वदामादि तत्वत्रयं तत्तत् भागेषु विन्यस्य शाखासु नन्दि-महाकाल-गङ्गा-
यमुनामूर्ध्वोदुम्बरे गणेशं सरस्वतीं श्रियं च विन्यस्य
शिवाज्ञया निरुध्य स्व स्व नामभिः शतमर्धं वा जुहुयात्। ततः प्रायश्चित्तार्थम् अस्त्रेण
शतं हुत्वा दिग्बलिं दत्वा यागं विसृजेत्। गुरु
प्रपूजयेत् कर्ता स्वर्णाच्छादनभोजनैः।

॥ सृक्प्रतिष्ठाविधिः॥
पूर्ववन्मण्डपे मन्त्रतृप्त्यन्तकर्म निर्वर्त्य हेममयं पुरुषं
ताम्रमयं कुम्भं
संस्नाप्य चन्दनेन विलिप्य वस्त्रैराच्छाद्य वेद्यूर्ध्वे शय्यां निवेश्य।
मधुक्षीरयुतं कुम्भ न्यस्तरत्नादिपञ्चकम्।
विधाय पुरुषे
प्रलयोकलमेकं शिवाज्ञापदबोधि तद्द्वादशान्तात् समानीय ॐ हां हं हाम्
आन्मशिवाज्ञया त्वयात्र शरीरे स्थातव्यमिति रेचकेण (११९अ, १स्त् line[१८१अ]) विन्यस्यातिपाहिकं
देहं विन्यसेत्। ॐ हां कलायै नमः। ॐ हां कलाधिपाय ज्ञानबिन्दवे नमः।
कलाधिपास्य कर्तृत्वव्याप्तिं कुरुकुरु। ॐ हां कालाय नमः। ॐ
हां कालाधिपाय
कालनाम्ने नमः। कालाधिपास्य भोगेषु प्रेरणं कुरुकुरु। ॐ हां विद्यायै नमः। ॐ
हां विद्याधिपाय वेदविज्ञानाय नमः। विद्याधिपास्य
ज्ञानाभिव्यक्तिं कुरुकुरु। ॐ हां रागाय नमः। ॐ हां राघाधिपाय कामदाय नमः।
रागाधिपास्य विषयेषु रागं कुरुकुरु। ॐ हां नियतये नमः। ॐ हां
नियत्यधिपाय नियामकाय नमः। नियत्यधिपास्य भोगनियमं
कुरुकुरु। ॐ हां पुरुषाय नमः। ॐ हां पुरुषाधिपाय सूक्ष्मदेहाय नमः।
पुरुषाधिपाय सूक्ष्मदेहाय नमः। पुरुषाधिपास्य सूक्ष्मदेहभोगं कुरुकुरु। ॐ हां
प्रकृत्यै नमः। ॐ हां प्रकृत्यधिपाय प्रधानकाय नमः।
प्रकृत्यधिपास्याधिकारपूरकत्वं कुरुकुरु। ॐ हां गुणाय नमः। ॐ हां गुणाधिपाय
त्रिदेहाय नमः। गुणाधिपास्य सत्वप्रेरणं कुरुकुरु। ॐ हां बुद्धये

नमः। ॐ हां बुद्ध्यधिपाय बुद्धाय नमः। बुद्ध्यधिपास्य बोधं विषयास्य वसाय
रूपं कुरुकुरु। ॐ हाम् अहङ्काराय नमः। ॐ हां
अहङ्काराधिपाय अहङ्कृते नमः। अहङ्काराधिपास्याभिमानं कुरुकुरु। ॐ हां मनसे
नमः। ॐ हां मनोऽधिपाय सङ्कल्पाय नमः। मनोऽधिपास्य
सङ्कल्पविकल्पत्वं कुरु कुरु। ॐ हां श्रोत्राभ्यां नमः।
ॐ हां श्रोत्राधिपाय व्योमचराय नमः। श्रोत्राधिपास्य शब्दग्राहकत्वं कुरुकुरु। ॐ
हां जिह्वायै नमः।
ॐ हां जिह्वाधिपाय महावक्त्राय नमः। जिह्वाधिपास्य रसग्राहकत्वं कुरुकुरु। ॐ हां
घ्राणाय नमः। ॐ हां घ्राणाधिपाय विलुम्बकाय नमः।
घ्राणाधिपाय गन्धग्राहकत्वं कुरु कुरु। ॐ वाचे नमः। ॐ वागधिपाय दुन्दुभये
नमः। वादघिपास्य वाचं कुरु कुरु।
ॐ हां पाणिभ्यां नमः। ॐ हां
पाण्यधिपाय समदनाय नमः। पाण्यधिपास्य पदार्थग्राहकत्वं कुरुकुरु। ॐ हां
पद्भ्याय नमः। ॐ हां पदधिपाय रमणाय नमः। पदाधिपास्य
गमनोत्साहकत्वं कुरु कुरु। ॐ हां पायवे नमः। ॐ हां पाय्वधिपाय तूर्णकृते
नमः। पाय्वधिपास्य उत्सर्गं कुरु कुरु। ॐ हां
उपस्थाय नमः। ॐ हाम् उपस्थाधिपाय
आनन्दाय नमः। उपस्थाधिपास्य आनन्दं कुरुक्रु। ॐ हां शब्दाय नमः। ॐ हां
शब्दाधिपाय सूक्ष्मनादाय नमः। (१२०अ, १स्त् line[१८२अ]) ॐ हां स्पर्शाय नमः। ॐ हां
स्पर्शाधिपाय बलवत्तराय नमः। ॐ हां रूपाय नमः। ॐ हां रूपाधिपाय भानुमते
नमः। ॐ हां रसाय नमः। ॐ हां
रसाधिपाय जलदाय नमः। ॐ हां गन्धाय नमः। ॐ हां
गन्धाधिपाय गन्धाङ्गाय नमः। ॐ हां व्योमाय नमः। ॐ हां व्योमाधिपाय
सूक्ष्माय नमः। ॐ हां वायवे नमः।
ॐ हां वाय्वधिपाय मातरिश्वने नमः। ॐ हाम् अग्नये नमः। ॐ अग्न्यधिपाय त्विषां
निधये नमः। ॐ हां जलाय नमः। ॐ हां जलाधिपाय जलेशाय
नमः। ॐ हां पृथिव्यै नमः। ॐ हां पृथिव्याधिपाय श्रीकण्ठाय नमः।
एवं शब्दाद्यधिपा अस्य भोगसहायत्वं कुरुत कुरुत। इति विन्यस्य विज्ञाप्य
नाडीदशकं पायुदशकं च विन्यसेत्। ॐ हाम् इडायै नमः। ॐ हां पिङ्गलायै नमः। ॐ
हां सुषुम्नायै नमः। ॐ हां गन्धायै नमः।
ॐ हां शङ्खिन्यै नमः। ॐ हां कुहवे नमः। ॐ हां यशस्विन्यै नमः। ॐ हां
हस्तिजिह्वायै नमः। ॐ हां पूषायै नमः। ॐ हाम् अलं पूषायै नमः।

ॐ हां प्राणाय नमः। ॐ अपानाय नमः। ॐ हां समानाय नमः। ॐ हाम् उदानाय
नमः। ॐ हां व्यानाय नमः। ॐ हां नागाय नमः। ॐ हां
कूर्माय नमः। ॐ हां कृकराय नमः। ॐ हां देवदत्ताय नमः। ॐ हां
धनञ्जयाय नमः। इति मायां स्वविकारपूरकेन कालनियामिके स्वसाभ्यसाधकत्वेन
अं यं मात्रप्रभृतिं मन्त्रैः सह
पूरकत्वेन व्यापकत्वेन च भगवन्तं शिवं विन्यस्य संरुध्य च आत्मतत्व-विद्यातत्व-
शिवतत्वानि माया सदाशिव शिवप्रातानि
विन्यस्य दर्भतिलाक्षतै रक्षां विधाय कुण्डे आधारशक्तिं सम्पूज्य सन्तर्प्य
कलादितत्वप्राता पूर्ववत् सम्पूज्य आहुतित्रयेण सन्तर्प्य तत्वतत्वेश्वरान्
सन्तर्प्य संहिताहोमं विधाय होमसङ्ख्यया जपं विधाय आज्ञां श्रावयेत्।
कलाद्यधिपा स्वतत्वेन सह शिवाज्ञया।
प्रासादस्थितिपर्यन्तं स्थातव्यमित्यनेन मार्गेण धारान्तं निरोधयेत्। हृत्प्रदेशे
ज्ञापनार्थमुक्तम्।
पीठसमस्यासनं धाम्नः पादवत् पाद इष्यते।
प्रस्तरोऽस्य कटिः पाथमपरोजम् उरूष्यते।
प्रस्तरोऽन्योऽस्य हृदयं वेदस्कन्धो गलो गलः।
शिरः शिरः शिखा स्थूपी प्रासादो देवताय नमः॥
ततः
शुद्धनासोर्ध्वे प्राग्वेद्यां भित्तिगर्भे हृत्पद्मवद्धृदा कुम्भं संस्थाप्य तत्र
पुरुषं संस्थाप्य निरोधयेत्। ततः कुण्डसमीपं गत्वा (१२१अ, १स्त् line[१८३])
प्रायश्चित्तमस्त्रेण कृत्वा यागं विसृजेत्।
ततो दद्यात् गुरोः कर्ता मूलपादोनदक्षिणाम्।

॥ चुलिकादिप्रतिष्ठाविधिः ॥
पूर्ववत् सूर्यपूजा द्वार-
द्वारपालार्चनादिमन्त्रतृप्त्यन्तं कर्म विधाय शिखिपादयुतं चुलुकं संस्नाप्य
अधिवासमण्डपे समानीय शय्यायां पूर्वशिरस्कं विन्यस्य वृत्तभागे
शिवतत्वं रुद्रं शक्त्यन्तम् अष्टाश्रभागे विद्यातत्वं विष्णुं सदाशिवान्तं चतुरश्रे
आत्मतत्वं ब्रह्माणं मायान्तं विन्यस्य।
क्षमा(क्ष्मा)वह्नियजमानार्कजलवातेषु खानि च।
शर्वं पशुपतिं चोग्रं रुद्रं भव महेश्वरम्॥
महादेवं च भीमं चेति मूर्तिमूर्तीशान् प्रतिखण्डं क्रमेण विन्यस्य निरुध्य
कुण्डशक्तिन्यासपुरस्सरं
प्रतिभागं पूर्ववत् हुत्वा गत्वा जप्त्वा सर्वमाचरेत्। प्रासादे कारितस्थाने कण्ठोर्ध्वे
शिवतत्वं रुद्रं शक्त्यन्तं कण्ठे विद्यातत्वं
विष्णुं सदाशिवान्तं जङ्घायाम् आत्मतत्वं ब्रहमाणं मायान्तं
पूर्ववन्मूर्तिमूर्तिपान् प्रतिभागं सृष्टिक्रमेण विन्यस्य
निरुध्य
पूर्ववत् हुत्वा गत्वा स्पृष्ट्वा जप्त्वा सर्वं कृत्वा चुलकाधारे रत्नादिपञ्चकं मूलेन
विन्यस्य चुलकं संस्थाप्य ततः कालोचित॥॥॥॥

नालिकेरफलं चैव नारङ्गद्वितयं तथा।
डाडिमी मातुलुङ्गं च कदलीपनसस्मृजाः॥
एतैर्घटानापूर्य तैः प्रासादस्य फलस्नानं विदद्यात्।
ततो दण्डं संस्नाप्य ध्वजमस्त्रेण सम्प्रोक्ष्य कवचेनावकुण्ठ्य
प्रासादोत्तरवेदिकायां शय्यायां विनिवेश्य पूर्ववदुभयोरात्मतत्वविद्यातत्वे
दण्डे ध्वजे शिवतत्वं सेश्वरं मूर्तिमूर्तीश्वरांश्च सृष्ट्या विन्यस्य निरुध्य होमं
कृत्वा गत्वा स्पृष्ट्वा जप्त्वा सर्वं पूर्ववद्विशोध्य दण्डे सकलशिवं ध्वजे
निष्कलशिवम्
अङ्गानि च विन्यसेत्। ध्वजदण्डाघारे षडुत्थमासनं दत्वा आधारशक्तिं विन्यस्य
मूर्तिभूतदण्डं प्रतिष्ठाप्य अघोरास्त्रं पूजयेत्।
ॐ प्रस्फुर स्फुर घोर घोरतर तनुरूप चटचट प्रचट प्रटच कह कह वम वम
घातय घातय हुं फण्णमः। ॐ प्रस्फुर स्फुर हृदयाय नमः। ॐ
घोरतरशिवरसे नमः। ॐ तनुरूपशिवायै नमः। ॐ चटचट प्रचट प्रचट कवचाय
नमः। ॐ कह कह वम वम नेत्रेभ्यो नमः। ॐ घातय
घातय हुं फडन्तास्त्राय नमः। इति सम्पूज्य अस्मिन् ध्वजं संयोज्य तत्र पाशुपतास्त्रं
पूजयेत्। ॐ अस्त्रासनाय हुं फण्णमः। ॐ ॐ अस्त्रमूर्तये (१२२अ, १स्त् line[१८४अ]) हुं
फण्णमः। ॐ श्लीं पशूं हुं फट् पाशुपतास्त्राय नमः। ॐ ॐ हृदयाय हुं
फण्णमः। ॐ श्वीं शिरसे हुं फण्णमः। ॐ पं शिखायै हुं फण्णमः।

ॐ शूं कवचाय हुं फण्णमः। ॐ हूं नेत्रेभ्यो हुं फण्णमः। ॐ फडस्त्राय हुं
फण्णमः। इति सम्पूज्य विद्याङ्गमन्त्रैर्गन्धादीनि दद्यात्। ॐ
परमेश्वरपराय ब्रह्मशिरसे नमः। इति गन्धम्। ॐ सर्वयोगाधिकृताय विद्याधिपाय
नमः। इति पुष्पम्। ॐ ज्योतिरूपाय रुद्राण्यै नमः। इति दीपम्। ॐ गोप्त्रे
पुरुष्टुताय नमः। इति नैवेद्यम्। ॐ प्रथम
प्रथम पाशुपतास्त्राय नमः। इति धूपम्। एवमुपचारेण सम्पूज्य ध्यायेत्।
सूर्यकोटिप्रतीकाशं प्रलयाम्बुदनिस्वनम्।
त्र्यक्षं नागोपवीतं च चतुर्वक्त्रं चतुर्भुजम्।
प्रदीप्तदशनप्रान्तं दीप्तभ्रूश्मश्रुमूर्धकम्॥
शक्तिमुद्गरशूलासिहस्तं चन्द्रार्धशेखरम्।
देवदानवदैत्यानां दर्पितानां विमर्दनम्॥
इति प्रणम्य प्रासादं सर्वतत्वमयं ध्यायेत्।
अनन्तं कालरुद्रं च विभाव्य च पदाम्बुजे।
कूश्माण्डहाटकौ पीठे पातालनरकैः सह॥
भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतम्।
ब्रह्माण्डकमिति ध्यात्वा जङ्घायां च विभावयेत्॥
वारितोजोनिलो व्योमपञ्चाष्टकसमन्वितम्।
गर्भावरणसञ्ज्ञं च बुद्धिं योन्यष्टकान्वितम्॥
योगाष्टकसमायुक्तं नासावधि गुणत्रयम्।
घटस्थं पुरुषं सिंहे रागं च परिभावयेत्।
मञ्जरी वेदिकायां च विद्यादिकचतुष्टयम्॥
कण्ठे मायां समुद्रं च विद्यां चामलसानके।
कलशे चोपरिबिन्दुं विद्येश्वरसमन्वितम्॥
जटा चूडं च तं विद्याच्छूलं चन्द्रार्धरूपकम्।
शक्तित्रयं च तत्रैव दण्डे नादं विभाव्य च॥
ध्वजे कुण्डलिनीशक्तिम् इति धाम विभावयेत्।
जगत्याधामसन्धाय लिङ्गं पिण्डिकया यथा॥
इति ध्यात्वा शिवं च व्यापकत्वेन विन्यस्य कुण्डसमीपमागत्य
प्रायश्चित्तार्थं शिवेनाघोरेण चास्त्रेण च होमं
विधाय यागं विसृजेत्। गुरुं प्रतोषयेत् कर्ता स्वर्णाच्छादनभोजनैः।
॥ अथ जीर्णोद्धारविधिः॥
प्रासादस्य बहिर्दक्षे ईशे
पश्चिमद्वारैकतोरणमण्डपं विधाय -
तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम्।
मन्त्रतर्पणं कृत्वा वास्तुदेवांश्च सम्पूज्याहुतित्रयं त्रयं कृत्वा
सहस्रमघोरेणास्त्रेण लिङ्गचलनार्थं हुत्वा ततो दिक् बलिं बहिर्दत्वा समाचम्य
सकलीकृत्य लिङ्गिनां भोजनादिना तृप्तिं कृत्वा (१२३अ, १स्त् line[१८५अ]) सहायोऽन्तः प्रविश्य
शिवं विज्ञापयेत्। दोषदुष्टमयं लिङ्गं मललिङ्गमिदं विभो। अस्य चोद्धारणे शान्ति
स्यादस्तीति भवद्वचः। तस्मादत्र विधाने
मामधितिष्ठ महेश्वर।
एवमभ्येष्य लब्धानुज्ञः शानत्यर्थं मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टोत्तरशतं
पूर्णां हुत्वा अन्तः प्रविश्य लिङ्गं सम्पूज्य संस्नापय पूजयेत्। प्रणवासनं
दत्वा ॐ व्यापकेश्वर एह्येहि नमः। ॐ व्यापकेश्वरहृदयाय नमः। ॐ
व्यापकेश्वरशिरसे स्वाहा। ॐ व्यापकेश्वरशिखायै वषट्।
ॐ व्यापकेश्वरकवचाय हुम्। ॐ
व्यापकेश्वरनेत्रत्रयाय वौषट्। ॐ व्यापकेश्वरास्त्राय फट्। एवमङ्गसहितं सम्पूज्य
लिङ्गस्थसत्वं श्रावयेत्। सत्वः
कोऽपि भयः कश्चिल्लिङ्गमाश्रित्य तिष्ठति। लिङ्गं त्यक्त्वा शिवाज्ञातो यत्रेष्टं तत्र गचछतु।
विद्या विद्येश्वरैर्यक्षः शम्भुरत्र भविष्यति। एवमुक्त्वा
महास्त्रेण दत्वार्घ्यं विसृजेत्ततः। पाशुपतास्त्रेण प्रतिभागं सहस्रं हुत्वा
शान्त्यमम्भसा प्रोक्ष्य कुशै स्पृष्ट्वा
जप्त्वा प्रतिलोमार्घ्यं दत्वा
तत्वतत्वेश्वरमूर्तिमूर्तीश्वरान् विसृजेत्। क्रियाशक्तिं पीठमन्त्रांश्च लिङ्गभागत्रयमन्त्रा
षडध्वानं ज्ञानशक्तिश्च विसृज्य तच्चण्डेशं च विसृज्यास्त्रेण खनित्रेण
खात्वा सञ्छाल्य स्वर्णपा॥॥न लिङ्गं पण्डिं बध्वा वृषस्कन्धे आरोप्य शिवमसत्विति
गृह्णन् जनैः सार्धं बहिर्नीत्वा गायजले हृदा निक्षिपेत्। ततः शान्त्यर्थं

त्रिमधुराक्तदूर्वाया शतं हुत्वा दिक्पतीनां तृप्त्यर्थं तत्तदिगीशमन्त्रैर्हुत्वा
प्रासादवास्तुशुद्ध्यर्थमस्त्रेण हुत्वा पाशुपतास्त्रेण प्रासादं रक्षेत्।
तत्र पूर्वप्रमाणसिद्धं लिङ्गादि सम्पाद्य स्थापयेत्।
एष एव विधिः काल्यो जीर्णधामसमुद्धृतौ।
खट्गे मन्त्रगणां न्यस्य कारयेन्मन्दिरान्तरम्॥
शम्बरान् पूजयेद्धाम सिद्ध्यन्तं खट्गसङ्गतान्।
समाचरेल्लिङ्गरक्षां पूर्वमानेन कारयेत्।
सङ्कोचे मरणं प्रोक्तं विस्तारे तु धनक्षयम्॥
तद्द्रव्यं श्रेष्ठद्रव्यं वा तत्कार्यं तत्प्रमाणकम्।

(॥ स्वायम्भुवप्रतिष्ठै॥)
स्वायम्भुवप्रतिष्ठायां पीठ एव तु संस्कृतिः।
तत्वतत्वेशमूर्तीश न्यासहोमादिपूर्ववत्॥
स्वतो लिङ्गस्य देवत्वात् स्नपनादि पुनर्मतम्।
संहिता न्यासनं पूजां शान्तये हवनं चरेत्॥
स्वम्भवद्बाणलिङ्गं प्राक् देवैः संस्कृतं यतः।
तत्तत्र नोत्किरेल्लक्ष्म न स्याद्बाधादिकल्पना॥
भोगाद्यर्थं गतिं नात्र चतुर्थी चण्डकल्पना।
रोहे चित्सन्निधिः कार्या संस्कारो बाणलिङ्गवत्॥ (१२४अ, १स्त् line[१८६अ])
स्वयम्भुबाणलिङ्गं वा सर्वेषां भुक्तिमुक्तिदम्।
सहस्रगुणमन्यस्मात् फलं स्थापनपूजनात्॥
सुसंस्थानं विसंस्थानं सर्वसिद्धिकरं नृणाम्।
प्रतिष्ठाविधिरुक्तो यद्रथस्थापनमुच्यते॥
चललिङ्गे पृथक्पीठे भक्तेंशैः पिञ्चभिस्त्रिभिः।
द्वौ भागौ भागमेकं वा विन्यसेत् पिण्डिकावटे॥
तत्रार्चांशो भवेत्र्यंशोद्व्यंशो वाथ स्वशम्बरैः।
पूर्ववत् संस्कृते बाणे चले पीठे च संस्कृते॥
क्रमात् ज्ञानक्रियाशक्तिं न्यसेदित्यादि पूर्ववत्।
इति स्थापनमाख्यातं स्थितस्थापनमुच्यते॥
सपीठे चललिङ्गे तत्प्रकृत्या स्फाटिकादिके।
प्रराग्वत् सर्वो विधिः किन्तु लिङ्गपीठिकयोरिह॥
अभेदात् संस्कृतिः कार्या मण्डपे वा गृहेऽथवा।
किञ्च ब्रह्मशिलारत्नप्रभूतेश्च निवेशनम्।
योजनं पिण्डिकायाश्च मनसा परिकल्पयेत्॥
चलेऽपि संस्कृतिः पाग्वत् बाणलिङ्गे च रौहके।
मण्डपे वा गृहे वाथ सर्वपीठाश्रये चिते॥
प्रागुक्तस्थिरबाणादिन्यासन्यायोऽत्र च स्मृतः।
धातुजं रत्नजं वापि सयोऽन्यथ वियोनिजा॥
स्थापयेत् स्थिरवल्लिङ्गं शिलारत्नादिमानसम्।
प्रयोगबाहुल्यादत्र क्रियोच्यते। पूर्वोक्तमण्डपे गृहादौ
दीक्षादिमण्डपे वा पीठ॥।क्ते लिङ्गे स्थापनं कुर्यात्। तत्र लिङ्गपिण्डिके पञ्चगव्यादिभिः
पूर्ववत् संस्नाप्य चन्दनादिभिर्विलिप्य पीठिकादौ निवेश्य बाणलिङ्गे
सहितामन्त्रन्यासपूर्वं तैः सम्पूज्य शतं सहस्रमर्धं वा जुहुयात्। रोहे नदीसमु॥। वा
लिङ्गे जीवन्यासं विधाय संहितान्यासहोमौ

कुर्यात्। यद्वा जीवन्यासं च तत्वतत्वेशादिन्यासपूर्वत्वात् पूर्ववत् षट्त्रिंशत्तत्वानि
साधिपानि शिवतत्व-विद्यातत्व-आत्मतत्व-रुद्र-विष्णु-ब्रह्माणि च विन्यस्य
पश्चिमादिषु पृथिव्यप्तेजो वाय्वाकाशाख्या मूर्तिस्तदीश्वरान् ब्रह्मविष्णुरुद्रेश्वरसदाशिवान्
प्रतिखण्डं विन्यस्य जीवन्यासं विधाय तिलदर्भादिरक्षां
विधाय पूर्ववदाहुतित्रयेण सन्तर्प्य संहितया शतं
सहस्रमर्धं वा हुत्वा प्रोक्ष्य दर्भेण संस्पृश्य जप्त्वा सन्धाय सर्वं पूर्ववत्
शोधयेत्। पीठे पूर्ववच्छिवतत्वविद्यातत्वात्मतत्वानि तदधिपा इच्छाज्ञानक्रियाश्च
प्रतिखण्डं पृथिव्यप्तेजो वाय्वाकाशाख्या मूर्तिस्तदधिपा वामा
ज्येष्ठा क्रिया ज्ञानीच्छाश्च विन्यस्य ॐ ह्रीं क्रियाशक्तये नमः। इति जीवन्यासं विधाय
पूर्ववत् संरक्ष्य हुत्वा जप्त्वा सर्वं कृत्वा लिङ्गे ज्ञानशक्तिं
(१२५अ, १स्त् line[१८७अ]) पीठे क्रियाशक्तिं विन्यस्य लिङ्गे मनसा
ब्रह्मशिलारत्नादिनिवेशनपिण्डिकायोजनं विधाय पीठलिङ्गयोर्भगलिङ्गसमायोगं
शक्तिशिवमन्त्राभ्यां विधाय
षडध्वविन्यासं च कृत्वा पीठे आधारशक्त्यादिशक्त्यन्तमासनमन्त्रान्विन्यस्य लिङ्गे
मूर्तिं विद्यादेहं नेत्रं च विन्यस्य मूलेनावाह्य पूर्ववत् पञ्चोपचारेण
जपान्तं सम्पूज्य अमुकेश्वर
इति नाम दत्वा यावच्चन्द्रार्कतारकमत्र सन्निधी भवेति विज्ञाप्य प्रणम्य
मूलमन्त्रोमामन्त्राभ्यां तिलैः शतं
शतं पायसेन मृत्युजिता च शतं हुत्वा प्रायश्चित्तं च मूलेन पूर्णान्तं जुहुयात्।
यजमानो यावज्जीवं पूजां सङ्कल्प्य गुरुपूजां
कृत्वा प्रत्यहमुक्तवत् पूजयेत्।
मृद्भस्मगोशकृत्पिष्टगन्धखण्डादिजन्मनाम्।
तात्कालिकानां लिङ्गानां वीक्षणाद्यभिमन्त्रणैः॥
विशोध्य विधिना नित्यमर्चनादैहिकं फलम्।
प्राप्नुते वत्सरान्तेन विसृज्याप्सु प्रवाहयेत्॥
पटपुस्तकलेप्यानां दर्पणे स्नानमाचरेत्।
धारणाभिर्विशुद्धिस्यास्थापने लेप्यचित्रयोः॥
तभोद्घाटनमत्रेष्टमासनादिप्रकल्पनम्।
तेषामधस्तादस्पर्शात् पुष्पैः पूजादिकम् ॥।भिः॥
धूपमात्रं न दोषाय शिलारत्नादिमासनम्।
स्थितस्थापनमाख्यातमास्थापनमिहोच्यते॥
व्यक्ताच्चास्वपि पूर्वोक्तविधिं चण्डेश्वरं विना।
कूर्माद्यं कथितं यच्च यच्च रत्नकम्॥
प्रक्षिपेत् पीठगर्तेषु तच्च ब्रह्मशिलां विना।
षड्भिर्विभाजिते गर्भे त्यक्त्वा भागं च पृष्ठतः॥
स्थापनं पञ्चमांशेन दिवा वसुभाजिते।
स्थापनं सप्तभागे च प्रतिमासु सुखावह॥

॥ गौरीप्रतिष्ठा ॥
गौरीप्रतिष्ठायां पुर्ववन्मण्डपे मन्त्रतृप्त्यन्तं कर्व विधाय देवीं
पूर्ववद्दृ(द्धृ)दादिभिः संस्नाप्य नेत्रोन्मीलनं कृत्वा पुनः संस्नाप्य
शय्यायामधिरोप्य निद्राकुम्भं निधाय सम्पूज्य नैवेद्यादिगृहोपकरणान्तं सम्पाद्य

पाददेशे स्थित्वा क्षित्यादिशक्तितत्वान्ततत्वानि विन्यस्य जानुस्थाने कण्ठस्थाने च
त्रिखण्डदर्शनार्थं मालाप्रतिसरं दत्वा कण्ठोर्ध्वे

शिवतत्वमिच्छाशक्त्यन्तं जार्द्ध्वे विद्यातत्वं ज्ञानीं सदाशिवान्तं जान्वधस्थाने
आत्मतत्वं क्रियां मायान्तं विन्यस्य प्रतिखण्डम्।
क्ष्मावह्नियजमानार्कजलवाय्विन्दुखानि च।
धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा॥
धात्री विभवी च विन्यसेत्।
पञ्चपक्षे – (१२६अ, १स्त् line[१८८अ]) पृथिवीजलवह्निवाय्वाकाशमूर्तयः। तदधिपा वामा
ज्येष्ठा क्रिया ज्ञानीच्छाख्या विन्यसेत्। यद्वा ललाटान्तमाकाशमूर्तिमिच्छां हृदयान्तं वा
मूर्तिं ज्ञानीं नाभ्यन्तमग्निमू॥॥
क्रियाम्। जान्वन्तं जलमूर्तिं ज्येष्ठां वामान्तं पृथिवी मूर्तिं वामां विन्यस्य
जानुगलावधि त्रितत्वं तत्वेश्वरीश्च विन्यसेत्। ॐ ह्रीं सः महागौरी रुद्रदयिते

स्वाहा इत्यनेन जीवन्यासं विधाय तिलदर्भादिप्राकारं विधाय पीठेऽपि
मायाशुद्धविद्यासदेशान्तं त्रिखण्डस्थं तत्वत्रयमीश्वरीभिः सह विन्यस्य ॐ ह्रीं
क्रियाशक्तये नमः। इति सम्पूज्य निरिध्य कुण्डेऽपि पूर्ववदाधारशक्तिं विन्यस्य
तत्वतत्वेश्वरी मूर्तिमूर्तीश्वरीश्च स्व मन्त्रं संहितां च पूर्ववत् सन्तर्प्य
देवीं गत्वा स्पृष्ट्वा जप्त्वा सन्धाय पूर्ववत्
प्रतिखण्डं कृत्वा सुलग्ने गर्भं प्रविश्य पूर्ववन्मध्यं परीक्ष्य पीठिकाम् ॐ सूं
क्रियाशक्तये नमः। इति
विन्यस्य तत्र रत्नादि विन्यस्य ऐन्द्री आग्नेयीत्यादिमन्त्रैरासनं सम्पूज्य तत्र गौरीमूर्तिं
शक्त्यन्तां सृष्ट्या विन्यस्य ॐ स्रूं क्रियाशक्तये नमः। इति पीठे ॐ
सीं ज्ञानशक्तये नमः। इति गौरिमूर्ति मूर्तौ विन्यस्य तद्वापिकां पराशक्तिं समावाह्य
संस्थाप्यामुकेशीति
नाम सङ्कल्प्य सम्पूजयेत्। मन्त्रा यथा
ॐ आम् आधारशक्तये नमः। ॐ ईं कन्दाय नमः। ॐ ऊं नालाय नमः। ॐ ऋं
धर्माय नमः। ॐ ऋं ज्ञानाय नमः। ॐ ऌं वैराग्याय नमः। ॐ ॡं
ऐश्वर्याय नमः। ॐ एम् अधर्माय नमः। ॐ ऐम् अज्ञानाय नमः। ॐ ॐ अवैराग्याय
नमः। ॐ औम् अनैश्वर्याय नमः। ॐ अम् अधच्छदनाय नमः।
ॐ अः
ऊर्ध्वच्छदनाय नमः। ॐ अं पद्माय नमः। ॐ हं केसरेभ्यो नमः। ॐ हं
कर्णिकायै नमः। ॐ क्षं पुष्करेभ्यो नमः। ॐ ह्रां प्रवैप नमः। ॐ ह्रीं ज्ञान्यै
नमः।
ॐ ह्रूं क्रियायै नमः। ॐ ह्रें वाचे नमः। ॐ ह्रैं वाच्यै नमः। ॐ हौं ज्वालिन्यै
नमः। औ औं वामायै नमः। ॐ ह्रूं ज्येष्ठायै
नमः। ॐ ह्रूं रौद्र्यै नमः। इति नव शक्तयः।
ॐ गां गौर्यासनाय नमः। ॐ गौं गौरिमूर्तये नमः। ॐ ह्रीं सः महागौरी
रुद्रदयिते स्वाहा। ॐ
गां हृदयाय नमः। ॐ गीं शिरसे स्वाहा। ॐ गूं शिखायै नमः। ॐ गैं कवचाय
नमः। ॐ गं नेत्रेभ्यो नमः। ॐ गः अस्त्राय नमः। ॐ ह्रां ह्रीं
ह्रूं ह्रैं ह्रं ह्रः इति वा। ॐ स्कां सुभगायै नमः। ॐ स्ह ललितायै नमः। स्रुं
कामिन्यै नमः। ॐ स्भों
काममालिन्यै नमः। (१२७अ, १स्त् line[१८९अ]) इति गौरीसखीनामेवं जपान्तं पञ्चोपचारेण
सम्पूज्य प्रायश्चित्तं कुर्यात्। चण्डं विना यथापूर्वं चतुर्थ्यादि विदद्यात्।

॥ सौरप्रतिष्ठाविधिः॥
॥।द्यान्तासनशय्यायां कृतस्नानादिकं रविम्।
विन्यसेत्तत्र तत्वानां सेश्वरत्रयमुक्तवत्॥
मयासदेशशक्त्यन्त ख वाताग्न्यं ब्विला न्यसेत्।
सदाशिवेश्वरौ रुद्रं विष्णुं ब्रह्माणमित्यपि॥
ॐ ह्रां ह्रीं सः सूर्याय नम इति जीवन्यासं माया विद्या सदेशान्तं पीठे
त्रिखण्डकल्पनाशक्त्या च सर्वतो मुख्या संस्थाप्य
विधिवत्ततः। सथाणुना विधिवत् सूर्यं शक्त्यन्तं स्थापयेत् गुरुः। सूर्यमन्त्रा नित्योक्तवत्।

॥ गणपतिप्रतिष्ठा॥
विद्यान्तासनशय्यायां कृतस्नानादिकं गणम्।
न्यस्त्वा तत्वत्रयं सेशं माया विद्या सदेशगम्॥
जानुकण्ठशिरोन्तं तत्खवाताग्न्यं ब्विला न्यसेत्।
सदाशिवेश्वरौ रुद्रं विष्णुं ब्रह्माणमित्यपि॥
यद्वा क्ष्मावह्नियजमानार्कजलवाय्विन्दुखानि च।
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा॥
अविवेना विघ्नराजं च भक्ष्याशी पञ्चहस्तकः।
एतेष्टमूर्तिपाः ख्याता मन्त्रानामाक्षरोद्भवाः॥
माया विद्येश्वरान्तं च पीठे त्रिखण्डकल्पनम्।

॥ स्कन्दप्रतिष्ठा ॥
मायान्तासनशय्यायां कृतस्नानादिकं शुभम्।
आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि॥
अण्डधी शुद्धविद्यान्तं न्यस्त्वा मूर्त्यादिपञ्चके।
पूर्ववदष्टपक्षे तु क्ष्माद्या विद्येश्वराधिपाः॥
षण्मुखः शक्तिपाणिश्च कार्तिकेयो गुहस्तथा।
स्कन्दो मयूरवाही स्यात् सेनानी च विशाखकः॥
अण्जधी मोहिनीप्रान्तं पीठे त्रिखण्डकल्पना।
कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके॥
लिङ्गं पुरूणनृत्तेश प्रमुखानपि मुख्यवत्।
अनुक्तमत्र सामान्यस्थापनोदितमाचरेत्॥

यद्वा –
प्रतिष्ठा कारयेद्व्याप्त्या सदाशिवपदान्तगाम्।
पूर्ववद्वेदिशय्यायां दुर्गां स्नानादिकां न्यसेत्॥
आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि।
माया सदेशशक्त्यन्तं विन्यसेत् क्ष्मादयो यथा॥
क्ष्मावह्नियजमानार्कजलवाय्विन्दुखानि च।
तमा मोहा क्षया निष्ठा मृत्युर्माया भ॥॥परा॥
पञ्चाथवा तमा मोहा घोरा रतिरपरज्वरा।
तिस्रोऽथवा क्रिया ज्ञानी चच्छावा अधिनायिकाः॥
आत्मादि त्रिषु तत्वेषु तीव्रमूर्तिषु विन्यसेत्।
माया विद्या सदेशान्तं पीठे त्रिखण्डकल्पना॥
दक्षिणामूर्तिप्रतिष्ठायाम् –
कौशिकः काश्यपश्चैव जमदग्निर्वसिष्ठकः।
संस्थिता ऋषश्चैते दक्षिणेशस्य दक्षिणे॥ (१२८अ, १स्त् line[१९०अ])
भरद्वाजस्तथागस्त्यो गौतमश्चात्रिरेव च।
अदक्षे दक्षिणेशस्य स्थिता एते मुनीश्वराः॥
सजटामकुटादेव चूचुकान्ता गोलोन्तकाः।
तत्वानि पूर्ववद्देवे मुनिष्वपि यथोदितम्॥
ऋक्षयः पृथिवीतत्वे तत्वानां कल्पयेत्त्रयम्।
आत्मा चान्तरात्मा च परमात्माधिपा न्यसेत्॥
सुदेहप्रतिष्ठायां ज्ञेयं तत्वत्रयं पुनः।
तत्पीठेऽपि प्रकृत्यन्तं प्राग्वत् प्रज्ञान्तमश्मनि॥
तन्मात्राणि च प्रधानं पुंस्तत्वमेतत्त्रिकं हरेः।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्च त्रिविक्रमः॥
वामनश्रीधरश्चैव हृषीकेशस्तदन्तरे।
तथा दामोदरश्चेति मूर्तिपाः क्ष्मादयोष्ट च॥
पञ्चपक्षे पुनः सद्यो वासुदेवः सङ्कर्षणः।
प्रद्युम्नश्चानिरुद्धश्च श्रीधरो मूर्तयस्तथा॥
लक्ष्याणुना प्रकृत्यन्तव्यापिकां पिण्डिकां न्यसेत्।
अण्डबुद्धिप्रधानं तु त्रितत्वं ब्रह्मणः पदम्॥
अण्डाहङ्कृतिबुद्ध्यन्तं पीठे त्रिखण्डकल्पना।
अर्धनारीश्वरस्याण्डबुद्धिमाया व्यवस्थितम्॥
त्रितत्वं कल्पयेत् पीठे अण्डबुद्धिकलावधि।
एवं हरिहरेशोऽपि स्थापनीयो गुरूत्तमैः॥
हर्यर्धे पूर्ववत् ज्ञेयं क्रिया मन्त्रा यथाविधि।
क्षेत्रपालेऽण्डधी शुद्धविद्यान्तं तत्वकल्पना॥
पीठेऽन्तर्बुद्धिमायान्तं कल्पयेत्पूर्ववद्विधिम्।
हेतुकं त्रिपुरघ्नश्च वह्निश्च यमजिह्वकः॥
कालः करालिकश्चैव एकाङ्घ्रिभिरित्यपि।
यद्वा –
अनलश्चाग्निकेशश्च करालश्च तृतीयकः।
घण्टारवो महोक्रोध षष्ठो वै पिशिताशनः॥
सप्तमः पिङ्गलाक्षश्च ऊर्ध्वकेशस्तथाष्टमः।
एते च मूर्तिपाश्चैव क्ष्माग्न्यामूर्तयस्मृताः॥
नन्द्यादीनां प्रतिष्ठायाम् एवं व्याप्तिं प्रकल्पयेत्।
त्रिखण्डकल्पना सप्तमातॄणामेवमेव हि॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा।
वाराही चैव माहेन्द्री चामुण्डी वीरभद्रकः॥
वीरविघ्नं च विघ्नेशं प्रतिमां कल्पयेत् सुधीः।
यरलवशषसहबीजं गं गणपस्य च॥
मायानलसमायुक्तो बिन्दुनादसमन्वितः।
मन्त्र एषामिति प्रोक्तो दीर्घाण्यङ्गानि कल्पयेत्॥
रत्नन्यासं प्रकर्तव्यं सर्वासां पीठ एव वा।
ब्राह्मीं च मध्यमे स्थाप्य पूर्वे माहेश्वरीं न्यसेत्॥
कौमारीं पश्चिदेशे तु वैष्णवी दक्षिणे न्यसेत्।
वाराही चैव इन्द्राणीं पश्चिमे न्यसेत्॥
चामुण्डीं वायुदेशे तु उत्तरे वीरभद्रकम्। (१२९अ, १स्त् line[१९१अ])
गणपतिं तु चैशान्यां स्थापयेदथवा यथा॥
स्थापयेत् प्रतिमां तत्र वीरं पश्चिमतो मुखम्।
उत्तराभिमुखां देवीं स्थापयेद्देशिकोत्तमः॥
पूर्वाभिमुखमेवं तु विघ्नेशं स्थापयेत्ततः।

॥ भक्तप्रतिष्ठा ॥
सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत्।
आत्ममन्त्रसमाख्यातो हंसशब्दोऽथ वामतः॥
सान्तेनैव च वर्णेन ब्रह्माङ्गानि प्रकल्पयेत्।
विद्याङ्गानि च विन्यस्यादाख्याद्यार्णास्तिथा मनुः॥
ह्रीङ्कारस्त्रीप्रतिष्ठायां तेन ब्रह्माङ्गकल्पना।
आत्मविद्याशिवाख्यं तु तत्वत्रयमुदीरितम्॥
आत्मानमन्तरात्मानं परमात्मानमेव च।
तत्वत्रयाधिपत्वेन क्रिमेण विनिवेशयेत्॥
स्त्रीणामप्येवमेवं स्यात् क्ष्मादयो मूर्तयो मताः।
अष्टौ स्याः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि॥
इन्द्राद्या मूर्तिपाः पक्षे निवृत्याद्यास्तु मूर्तिपाः।
तत्तत् ब्रह्माणि विन्यस्य तत्तन्मूर्तीस्तनौ न्यसेत्॥
अकारादिक्षकारान्तं सेशमूर्धादिषु क्रमात्।
अकारं मूर्ध्नि श्रीकण्ठम् आम् अनन्तं ललाटके॥
इं सूक्ष्मं दक्षं नेत्रे तु ई त्रिमूर्तिं च वामतः।
महे मुं दक्षकर्णे वामे यीश्वर मूरुतौ॥
ऋं भाररुतिं दक्षेऽन्वे प्रा(घ्रा)णे ऋ मतिरीश्वरम्।
दक्षगण्डे च ऌं स्थाणुं वामगण्डे हरं चरुम्॥
उत्तरोष्ठे तु न्धण्डीशमेमैं भूमिं तथाधरे।
ऊर्ध्वदन्ते जातमोमौ दन्ते योऽनुग्रहेश्वरम्॥
कू[तू]रं शिखायामम् अस्तु महासेनं न्यसेन्मुखे।
क्रोधीश्वरं दक्षबाहौ चण्डं ख दक्षकोर्परे॥
पञ्चान्तकं गं दक्षे च मणिबन्धे शिवोत्तमम्।
दक्षपाणितले घं च तत् कराग्रे दरुद्रकौ॥
कूर्मं चं वामबाहावेकनेत्रं छं च कोर्परे।
ब्रह्माणं कर्मणि बन्धे हस्तान्ते न्धमजेश्वरम्॥
तत्कराग्रे ज्ञमिन्दुश्च सोमेशम् अं दक्षिणोरुके।
लां गणुं दक्षजानौ तु जङ्घाग्रे डं च दारुकम्॥
अर्धनारीश्वरण्डं च दक्षपादतले न्यसेत्।
णं पादाग्रे उमाकान्तण्डिण्डीशन्तमधोरुके॥
डिण्डित्थं वामजानौ च जङ्घाग्रे त्रिञ्चदं न्यसेत्।
ध[य]मिशानं पादतले न म मेषं च रणाग्रके॥
लोहितपं दक्षपार्श्वे फं शिखिं वामपार्श्वके।
बकारं जगजण्डं च पृष्ठभागे तु विन्यसेत्॥
भं द्विरण्डं च नाभौ मर्महा कालकं हृदि।
त्वचि यं वालिनं चैव रक्ते रं भुजगं न्यसेत्॥
पिनाकीं लं च मांसे च खड्गीशं पञ्च मेदसि।
अस्थिशं च बकं न्यस्य षं श्वेतं मज्जके न्यसेत्॥ (१३०अ, १स्त् line[१९२अ])
से भृ शुं शुक्लके चैव लकुलीशं च हं हृदि।
तमोरूपं तु लं लिङ्गे तदक्षे क्षं च वर्तकम्॥
म ष अ ख च क्षाश्चेति मातृकाङ्गसजातिकम्।
म अ अं क च इ ई क्षः वा मातृकाङ्गानि॥
म हृदयम्। अ शिरः। अं शिखा। क कवचम्। इ ई नेत्रम्। क्षः अस्त्रम्। जीवन्यासं
स्वमन्त्रेण
न्यस्त्वाङ्गानि च विन्यसेत्।
क्रमाद्धुत्वा च पूर्णान्तं तत्वतत्वेश्वरान् प्रति।
मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम्॥
विशोध्य स्थापयेत् पीठे रत्नादिन्याससंयुते।
कृत्वा घोराणुना होमं निच्छिद्रार्थं शतं यथा॥

॥ मानुषप्रतिष्ठा॥  

स्वनामाद्योऽहं युक्तो वा द्वितीयो वापि गृह्यतम्।
सप्तमस्य द्वितीयं तु प्रथमस्य चतुर्दश॥
बिन्दुनादसमायुक्तमानुषं बीजमुच्यते।
बीजमुच्यते।
ह्रस्वा ब्रह्माणि चाख्याता दीर्घैरङ्गानि कल्पयेत्।
राक्षसांश्च पिशाचांश्च सुरान् सिद्धांस्तथैव च॥
देवानां वाहनान्येव स्थापयेदेवमेव तु।
काये तु विन्यसेत्तत्र पञ्चविंशति तत्वकान्॥
प्रतिमामूर्ध्वदेशे तु निद्राकुम्भं च विन्यसेत्।
इडा च पिङ्गला चैव सुषुम्ना च तथैव च॥
गान्धारीह जिह्वा च पूषा चैव यशस्विनी।
अलं पूषा कुहुं चैव शङ्खिनी दशमी स्मृता॥
एताश्च नाडयश्चैव तद्रूपे विन्यसेत्ततः।
प्राणोपानः समानश्च उदानो व्यान एव च॥
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः।
जानुकण्ठावधा तत्वत्रयं तत्वगोचरम्॥
आत्मा चान्तरात्मा च परमात्माधिपा न्यसेत्।
जीवन्यासं च पूर्वोक्तमनुना कारयेद्गुरुः॥
विशोध्य स्थापयेत्पीठे रत्नादिन्याससंयुते।

॥ सम्प्रोक्षणम् ॥
वत्सरं वत्सरार्धं वा प्रतिष्ठितं पूजितम्।
शुनकाकादिभिर्लिङ्गं प्रायो वत्स्यां निषेवितम्॥
तत् पूज्यमानं लोकेऽस्मिन् महादोषसहस्रकृत्।
अचस्तत्र स्थितस्यैव संस्कारोऽत्र निगद्यते॥
पूर्वोक्तविधिना पूर्वं कारयेन्मण्डपादिकम्।
संस्नाप्य पूर्ववच्छस्त्रमनुना मृत्तिकादिभिः॥
त्रितत्वं वाथ मूर्त्यादितत्वत्रयपुरस्सरम्।
पूर्ववन्न्यस्तलिङ्गं समालभ्य प्रपूजयेत्॥
पूर्ववत् प्रतिभागं च हुत्वा शान्तिघटाम्भसा।
अभ्युत्थहोमसङ्ख्याभिर्जप्त्वाथ विनिवेदयेत्॥
पूर्णान्ते पूर्ववत् बुद्ध्या शिलारत्नानि पञ्चकम्।
पूर्वोक्तमासनं न्यस्य तस्य चोपरि पूर्ववत्॥ (१३१अ, १स्त् line[१९३अ])
मूर्तिमन्त्रान्वितं लिङ्गं पीठमन्त्रेण पीठकम्।
बुद्ध्वा शिवं समारोप्य तदङ्गानि च विन्यसेत्॥
दत्वार्घ्यं पूर्ववत् पूजां होमं कृत्वा तु देशिकः।
कुर्याच्चतुर्थिका कर्म स्वमन्त्रस्य विसर्जनम्॥
इति सम्प्रोक्षणं प्रोक्तं प्रोक्तं षट्त्रिमासाद्यपूजिते।
लिङ्गशुद्धिकरं मूलप्रतिमा फलदायिकम्॥
एवं प्रतिष्ठा लिङ्गादिपरिवारामरान्तिका।
सकलान्यानपेक्षा च कृता शिष्यविबोधिका॥
दीक्षाप्रतिष्ठयोरङ्गलक्षणं नोक्तमत्र तु।
क्रियाक्रमविबोधस्य परिभाषा भवेदिति॥ (४थ् लिल्ने)
श्रीमन्नेत्रशिवार्यतारकजिता तत्पूर्वजेनामलश्रीशानादिशिवाख्यदेशिकगणाधीशेन
चानन्दितः। श्रीमत्
घोरशिवाख्यदेशिकवरः पुण्यात्मविद्याज्ञः कः साक्षाद्यः परमेश्वरोऽपर इति वक्षिन्यां
रराजोदितः। वैदैरङ्गयुतैः
सुसंसकृतमतिस्तद्योजनापण्डितेन्धो त्रिः शास्त्रविदों वरोवरवपुं
न्यायादिशास्त्राम्बुधिः। वाक्यज्ञानविशारदः शिवमतव्याख्याग्रगण्यो
कृतज्ञतां
स्वात्मगुरूत्तमेषु चतुर्दिष्टा प्रतिष्ठाविधिः।
गोत्रं चतुर्विधं ज्ञेयं गोचराः षोडश स्मृताः।
चत्वारो गोत्रमुनयः स्थानं तेषां चतुष्टयम्॥
षट्त्रिंशत् भ्रातरस्तेषां मुनयः परिकीर्तिताः।
मठाः पञ्चदश प्रोक्ता वृक्षाश्चत्वार ईरिताः॥
गायत्र्याख्या तु सावित्री भारती च मनोन्मनी।
इत्याख्याता शिवस्यो॥॥शक्तिगोत्राणि केचन॥
गायत्र्यादेरधिष्ठेयाः शिवाद्या गोचरास्तथा।
तेषां भेदास्तु ते ज्ञेया प्राजापत्यादयस्तु ये॥
किचिद्विन्दन्ति चिच्छक्तेर्भेदोऽधिष्ठेयभेदतः।
तद्भेदानां हि गोत्रत्वं गुणता मुख्यतः पुनः॥
गोत्राणि तदधिष्ठयाः शिवाद्या एव गोचराः।
पृथक् भूतास्तु गोत्रेभ्यो गोचरा इति चेन्मतम्॥
वृत्तयस्तु तदा तेषां गोचरा इति गृह्यताम्।
साध्वेतदिति मन्यन्ते सिद्धान्तज्ञा गुरूत्तमाः॥
गोचरं कुलमुत्युक्तमिति श्रीकरणकृतेः।
गोत्रान्वयकुलादीनां पर्यायत्वप्रसिद्धितः॥
गोत्रं शिवशिखाज्योतिः सावित्र्याख्यमिति स्थितम्।
बिन्दुनादस्थूलबिन्दुनादाधिष्ठातृकल्पितम्॥
शिवाच्छक्तेस्ततो बिन्दुं नादादपि चतुर्विधम्।
कुलं ज्योतिर्मयं स्थानं गुरूणां पञ्चधा क्वचित्॥
शाल्मले शाकसञ्ज्ञे पुष्करे कुशसञ्ज्ञिते।
क्रमात् स्थितं चतुष्कं तु द्वीपेष्वन्येषु कृत्स्नशः॥
एकैकस्य चतुर्मूर्ति भेदात् षोडश गोचराः।
प्राजापत्यं हि पालाः कपोलतो ग्रन्धिकाः शिवे॥ (१३२अ, १स्त् line[१९४अ])
कुटिकाश्चैव वेतालाः पद्मगृहं साः शिखाकुले।
धृतराष्ट्रा बकाः काका गोपाला ज्योतिषि स्मृताः॥
तुटिकामाराश्चैव शुद्धिका दण्डिनो परे।
भारद्वाजः शिवकुले कुशिकश्च शिवाह्वये॥
काश्यपो ज्योतिषि ज्ञेयः सावित्रे गौतमो मुनिः।
भारद्वाजस्याभि[हि]च्छत्रं कुशिकस्य च पाण्डरम्॥
नागरं काश्यपस्योक्तं गौतस्य नखोद्भवम्।
आख्याता गोत्रपतय उच्यन्ते भ्रातरस्तथा॥
शङ्खो मृकण्डुसूनुश्च पाण्डरश्वभ्रसञ्ज्ञितः।
शुकाख्याः शुनकश्चैव मनुर्वै कृष्णपिङ्गलः॥
दुर्वासाश्च नवैवेते भारद्वाजानुजास्मृताः।
नमुचिर्दक्षसञ्ज्ञश्च भृगुर्वाल्मीकिनन्दनौ॥
पराशरस्तथाव्यासो बोधायनसनातनौ।
भ्रातरः कुशिकस्यैते नवाख्याताः शिखाकुले॥
अङ्गिरास्थूलसञ्ज्ञश्च शाण्डिल्योऽस्त्यसञ्ज्ञितः।
आपस्तम्बोशनाभूतिः शङ्कुकर्णविराजकाः॥
भ्रातरः काश्यपस्यैतो नवाख्यातास्तृतीयके॥
बाडबोगार्ग्यसञ्ज्ञश्च वसिष्ठो माठरोऽत्रिकः।
गार्गलो ऋष्यशृङ्गश्च कात्यायन उषस्पतिः॥
सावित्री गोचरे जाता भ्रातरौ गौतमस्य च।
कैलासाख्यो मठः प्रोक्तः पालाशश्च द्वितीयकः॥
वलाहकस्तृतीय स्यात् कल्पग्रामश्चतुर्थकः।
बदरिका पञ्चमी ज्ञेया देवदारुवनं ततः॥
कगम्बसप्तमः शङ्खुत्तरारण्यकं ततः।
दक्षिणारण्यकं तस्मात् गोविदानमतःपरम्॥
आमर्दो मत्तमयूरस्याद्रणभद्र॥गोलकि।
कदम्बारुश्वत्थवटामं विभूषणः॥
सामान्यमेतत् सर्वेषां समसन्ततरुच्यते।
अक्षिप्तकुण्डमासक्तेतरस्मातु शिवतत्परात्॥
आविर्भूतं शिवकुलं गायत्रिशक्त्यधिष्ठितम्।
तस्मान्मन्त्रमहेशान गणदेवादितः क्रमात्॥
नाडी चक्रात्मविज्ञानबीजयोगादिलक्षितम्।
अवतीर्णं शिवकुलं दुर्वाससि महामुनौ॥
तेनैवानुगृहीतानां न मृष्यादिनां निकेतनम्।
श्रीमदामर्दकं नाम कदम्बम्र भूषितम्॥
स्थानमत्राभवत् भूमौ भारते मोक्षसाधने। (५थ् लिल्ने)
तदामर्दकसन्धामगुरुवंशसमुद्भवम्॥
दुर्वाससमृषिं वन्दे शिवज्ञानविबोधकम्।
तस्मात् पैङ्गलनामादि गुरुसन्ततितः क्रमात्॥
पैतामहाख्ये मनुजे सङ्क्रान्तं वृत्तितस्ततः।
चत्वारो गोचरा जाताः प्राजापत्यादिसञ्ज्ञकाः॥
अहिंसा गुरुशुश्रूषा स्वाध्यायैः शौचसंयमैः।
सत्यास्ते यैर्गुणैर्लक्ष्यात् प्राजापत्यात्तु गोचरात्॥
गुरुसन्ततिरुत्पन्ना विशिष्टशिवमन्त्रगा।
तस्याङ्ग्री व्यापकशिवो लाटवर्यो गुरूत्तमः॥ (१३३अ, १स्त् line[१९५अ])
आमर्दाख्यमठेशानः सदुर्वासा यथाभवत्।
तच्छिष्यो गौडजग्रिमानासीत् सर्वेशपण्डितः॥
पत्तने नीलवाटाघे निरासमकरोत् गुरुः। (२न्द् लिल्ने)
ततः सोमशिवस्तज्जस्तद्देशी यो यतीश्वरः॥
ततः पूर्णशिवाचार्यो वारणस्यां नृपार्चितः।
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।स्ततः॥
विद्येशानशिवस्तस्मादार्य एव व्रतीश्वरौ।
चोलदेशोद्भवस्तस्माद्विद्यान्तशिवसञ्ज्ञितः॥
वाराणसी नृपाचार्यो ग्राही विद्यान्तपारगः।
ततो ब्रह्मशिवाचार्यस्तपस्वी लाटपुङ्गवः॥
ततो मूर्तिशिवस्तस्माद् विजयाख्यपुरे स्थितः।
मायापुर्यां गृहीतज्जः स्थितः सर्वात्मदेशिकः॥
तच्छिष्यो गौडवृषभः श्रीकण्ठशिवदेशिकः।
श्रीमद्दर्भसभेशाननिभं सोतोगतं तु यम्॥
श्रीविक्रमादिचोलेन स्वगुरुत्वे न्यवेशयत्।
ततो ध्यानशिवः श्रीमानभवत् गौडपुङ्गवः॥
अष्टाविंशतितन्त्राणां व्याख्याननिपुणो गुरुः।
चोलेश्वरार्चितो भूत्वा यः सभेशमपूजयत्॥
तस्मात् बभूव
सकलागमपारदृश्वा शुद्धाशयो हृदयशङ्कयु नामधेयः। अस्मत् पितामह
पितृव्यसुताग्र्य एष शैवाधिराज इति सुप्रथितो धरण्याम्।
मातुलोऽस्मत् *पितुस्तस्य कनिष्ठः परमेश्वरः।
श्रीमत् ध्यानशिवेनायमनुगृह्य कृतो गुरुः॥

तं वन्दे शिवतन्त्रचक्षुषमहं वेदादिविद्योत्तम
प्रत्यक्षैकशिवार्कशक्तिमुदितं साक्षादनुग्राहकम्।
तत्रोन्वयरत्नमीड्यमखिलैः काञ्चीनिवास
श्रियं स्वार्खस्पृक् परमेश्वराभिधं मुम्मद्बन्धविच्छेदनम्॥

तदाख्यया क्षितौ ख्यातं सोऽनुजग्राह मां सुधीः।
……………………………………॥
……………………………॥शरजन्मने।
श्रीकण्ठनाथो भगवानवोचत् करुणानिधिः॥
तैषु कालोत्तराख्येषु सङ्ग्रहेषु शतत्रयम्।
सार्धं तु ववितं कर्ता यत्र यो दशभिः शतैः॥
अत्रानुक्तं तु यत्किञ्चित् सूचितं न प्रकाशितम्।
विस्तीर्णसङ्ग्रहेऽन्यत्र संहितायामवेक्ष्य च॥
अनुष्ठितं गुरुश्रेष्ठैरस्मदीयैः पुरातनैः।
उत्तुङ्गशिवपद्धत्यां नित्यनैमित्तिकं पुनः॥
सिद्धान्तसारपद्धत्यां सोपदेशमनुष्ठितम्।
सर्वात्मशिवपादेभ्यो ह्यस्मत् गुरुवरान्तिकात्॥
एवं नित्यादिकं कर्म सोपपत्तिकमादरात्।
श्रुत्वा क्रियाक्रमस्येय द्योतिका रचिता मया॥
आदेशात् गुरुनाथस्य रचितेयं मया यतः। (१३४अ, १स्त् line[१९६अ])
ततोऽत्र गुरवो दोषं न गृह्णन्तु विचक्षणाः॥
नादज्ञेये शकस्याब्दे क्रियाक्रमविबोधिका।
द्योतिका रचिता पञ्चशताधिकसहस्रिका॥
॥ इति परमेश्वरापरनामधेय श्रीमदघोरशिवाचार्यविरचितायां
क्रियाक्रमद्योतिकायां प्रतिष्ठाविधिः समाप्तः ॥

बिन्दुनादात्मकत्वेन निरुपाख्योव्ययः शिवः।
आभाति योगयुक्तानां शक्त्यम्बुक्षालितात्मनाम्॥
कदम्बगोलकाकारं स्फुरच्छक्तिमरीचिभिः।
सर्वारम्भेष्वनारम्भी नादात्मानं विचिन्तयेत्॥
॥ हरिः ॐ ॥ ॥ शुभमस्तु ॥ ॥ साम्बशिवाय नमः॥ ॥ गणपतये नमः ॥
॥ करकृतमपराधं क्षन्तुमर्हन्ति सन्तवः॥ ॥ स्कन्दाय नमः॥

पीठिकासनं विष्णुः विष्णविष्णोर्ब्रह्मासनं ततः॥
ब्रह्मासनं तु कूर्मं स्यात्पञ्चासनं विधीयते।
निरीक्षणं मूलमन्त्रेण प्रक्षणं चास्त्रमन्त्रकात्॥
ताटनं चास्त्रमन्त्रेण वर्मणाभ्युक्षणं भवेत्।
गोकर्णहस्तवत् कृत्वा माषमग्नजलं बिपेत्(पिबेत्)॥
तन्नूनमधिकं पीत्वा तज्जलं रुधिरं भवेत्।
मण्बन्धस्वयं ब्रह्मा अङ्गुष्ठं तु शतक्रतुः॥
तर्जन्यामीश्वरं प्रोक्तं मध्ये माधवदेवता।
अनामिकायामनन्तं च कनिष्ठायां तु भास्करः॥
तलं वै सर्वतीर्थानि सावित्रि अधिदेवता।
शिष्यगोत्रं तु योनि स्यात् गुरुजिह्वा तु लिङ्गकम्॥
मन्त्रबिन्दुसमायोगात् शिष्यः पुत्रो विधीयते।

॥ अथ महाजालप्रयोगः ॥
नाडीचक्रमिदं प्रोक्तं महाजालमथ श्रुणु।
पृथिव्यादितत्वरूपं तु जालग्रन्धिश्च कीर्तितम्॥
अकाराति च यद्वर्णं तद्वर्णं मणिरुच्यते।
जालप्रयोगरज्जुत धर्माधर्ममिति स्मृतम्॥
अनाधिनाधथा जालं नद्या कूले तटस्थितः।
जलमध्ये गते मत्स्यजालसामर्थ्यमार्गतः॥
सव्यास्यजलपारेति पेट्टके मच्ययोजितः।
आचार्ये मन्त्रदेहेन दीक्षानाममुदीरयन्॥
आत्मानं मन्त्रजालेन आकृष्याङ्कुशमुद्रया।
संहारिण्या गृहीत्वा तु योजयेन्मन्त्रदेहके॥
पश्चात् कर्मावसाने तु योजयेद्वाधिमार्गतः।
आत्मतत्वं तु नाभ्यन्तं विद्यातत्वं गलान्तकम्।
शिवतत्वं द्वादशान्तं स्यात् पीत्वा पान्यं शुचिर्भवेत्॥
एवं त्रिवारं पीत्वास्य अङ्गुष्ठेन द्विधा स्पृशेत्।
नादज्ञेये इति न एकस्थानम् –
द दशस्थानम् - ञ शतस्थानम् - य सहस्रस्थानम् - स्त्र न शूलस्थानम् – स्त्र शून्यस्थानम्
अतश्च ஆயிரத்தெண்பது வருஷம் தடக்கயிலே கியாகிரம்ம பண்ணினாதெனது।

॥ ज्ञानदीक्षाविधिः ॥ (१३५अ [१९७अ])
कामिके –
ज्ञानदीक्षामहं वक्ष्ये शृणु द्विजसत्तमः।
सुवारे सुदिने पक्षे सुमुहीर्ते विशेषतः॥
एकान्ते निर्जने स्थाने मध्यरात्रावुपक्रमेत्।
सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः॥
शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे।
शुद्धदेशे सुखासीनोः पञ्चगोचरसम्भवाः॥
दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे।
सद्गुरुं नॄणां सुखावासे वासमात्रे शुभे दिने॥
स्नानोपचारमाल्यैश्च सर्वाभरणसंयुतैः।
गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे॥
पायसं चापूपं च ताम्बूलं च निवेदयेत्।
षोडशोपचारेणाभ्यर्चयेत् गुरुपादयोः॥
ज्ञानदीक्षां विशेषेण कुर्यात् सद्देशिकोत्तमः।
शरीरमर्थं प्रारणं च सद्गुरुभ्यो निवेदयेत्॥
दीर्घदण्डं न कुर्यान् निर्लज्जो गुरुसन्निधौ।
सच्छिष्यस्य विशेषेण बोधं कुर्यात् स देशिकः॥
गन्धपुष्पकरं स्वस्व शिष्यमूर्ध्नि कारयेत्।
अर्पितं तु शिरोमध्ये पादं कारुण्यदेशिकः॥
तत्पश्चात् ज्ञानसद्भावमिदं शिष्यस्य बोधयेत्।
प्रथमं तत्वरूपं तु द्वितीयं तत्वदर्शनम् ॥
द्वितीयं तत्वशरीराद्धि चतुर्थं चात्मलक्षणम्।
पञ्चमं चात्मसन्दृश्यं षष्ठं स्यादात्मशोधनम्॥
सप्तमं शिवरूपाख्यम् अष्टमं शिवदर्शनम्।
नवमं शिवयोगं च दशमं शिवभोगकम्॥ *
त्रित्रिभेदैश्चतुर्थेण पतिपाशपशुत्रियम्।
गुरुवचनमार्गेण जीवन्मुक्तप्रकाशितम्॥
इत्यर्थदर्शकज्ञानमार्गमेवं विधीयते। इति कामिके
॥॥॥॥।
अथ सूक्ष्मे –
अतःपरं प्रवक्ष्यामि ज्ञानदीक्षां विधिं शृणु।
मलबन्धशरीरस्य तद्दग्धं ज्ञानदीक्षया॥
अन्धकारपद॥।क्तं ज्ञानं भास्करवद् बुधः।
मन्त्रं च पदवर्णां च भुवनं तत्वमेव च॥
कला चात्मा यदा शुद्धिस्तस्य जन्म न विद्यते।
एवं निर्वाणसंयुक्ता तस्यान्ते ज्ञानदीक्षया॥
अथ दीक्षां गुरुः कुर्यात् पक्वस्यैवोपदेशयेत्।
गोमयेनोपलिप्योऽपि पिष्टचित्रैरलङ्कृतम्॥
सिंहासनं तदूर्ध्वे तु स्थापयेल्लक्षणान्वितम्।
गन्धपुष्पैरलङ्कृत्य कबरीकेशसंयुतम्॥
मुक्ताहृद्दुकूलवासनं पद्मनीलोत्पलैर्युतम्॥
आरग्वधेन बिल्वेन शमीदूर्वैरलङ्कृतम्।
आचार्यः।
दुकूलवस्त्रैरलङ्कृत्य उष्णीषादुत्तरीयकम्॥
सर्वाभरणसम्भूष्य गन्धचन्दनलेपनम्।
भस्मरुद्राक्षसम्पन्नयोगपट्टविभूषितम्॥
पुष्पमाल्यैरलङ्कृत्य मूर्तिभावमनुस्मरन्।
संहासनोपरि स्थाप्य लम्बपादसमन्वितम्॥
दक्षिणाभिमुखो भूत्वा धक्षिणामूर्तयेत् गुरुः।
शिष्यः।
देहे शुद्ध्यादिकं कृत्वा शुद्धवस्त्रैरलङ्कृतम्।
भस्मरुद्राक्षचिह्नाभं शिवमन्त्रं समुच्चरन्॥
गोरुः सन्निधीं गत्वा च अञ्जलीहस्तसंयुतम्।
उत्तराभिमुखो भूत्वा स्थित्वा ज्ञानं प्ररूरयेत्॥
आचार्यः।
मूर्धादिपादपर्यन्तं ज्ञनदृष्टिनिरीक्षणात्।
तत्काले सञ्चितं दण्डं पश्चात् शेषं यथाक्रमम्॥
शिष्यः।
जान्वादिपादपर्यन्तं शुद्धाभिषेकमाचरेत्।
पञ्चगव्याबिषेकं च ॥॥॥॥॥
॥षेचयेत्॥* (१३६अ, १स्त् line[१९८अ])
शुद्धाभिषेकसंयुक्तं वस्त्रोद्वत्तनमेव च।
गन्धचन्दनलेपञ्च अर्चयेद्विधि शिष्य च॥
पायासान्ननिवेद्यं च फलापूपगिलान्वितम्।
निवेदयेद्विधिवच्छिष्यो धूपदीपार्घ्यसंयुतम्॥
षोडशेनोपचारेण गुरुपादं प्रपूजयेत्।
तत्काले ॥॥॥॥। शिष्यदेहस्थितिर्भवेत्॥
प्रदक्षिणनमस्कारं पूर्ववत् गुरुरग्रके। (३र्द् लिल्ने)
आचार्यः।
शिष्यमूर्धौ शिवहस्तं सूक्ष्ममन्त्रोपदेशयेत्॥
पश्चात् श्रीपादं शिरसि मुखे हृदयचक्षुषि।
कर्णं वा भुजयोस्थान् न स्थापयेद्विधिवद्गुरुः॥
प्रारब्धमलमेवं तु सूर्याग्रे गृहदीपवत्।
अप्रकाशमयं कृत्वा तथैव मलमेव च॥
पञ्चमलं ग्रमाद्दग्धं शिवपादस्थापनात्ततः।
दशकार्यक्रमेणैव तच्छिष्यं बोधयेद्गुरुः॥
तस्य ज्ञानं महासूक्ष्मं वाङ्मनोतीतगोचरम्।
रहस्यमतिगुह्यं च सूक्ष्मात्सूक्ष्मं शिवमयम्॥
शिष्यः शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत्।
तस्यान्ते ज्ञानसम्पूर्णं गिरुर्नाम विधीयते॥ इति सूक्ष्मागमे।

क्रियाकरणमण्डने –   

उद्यानेषु शिवालयेषु सरितां तीरेषु पद्मालये।
कान्त्या तस्याघ्रपुरे पयोधिसिकते जल्पेश्वरे पर्वते॥
गोष्ठे वापि गुरोर्गृहेषु भवने श्रीकालहस्तीश्वरे ।
गोकर्णे बहुवाद्वने तनुभृतां दीक्षास्थलीशस्य ते॥

दीक्षाकालमाह – मकुटे –  

अत्तरायणकाले तु शुक्लपक्षे शुभे दिने।
सुमुहूर्ते सुलग्ने च दीक्षाकर्म समाचरेत्॥

कालोत्तरे –   

शरद्वसन्तयोर्योगो दीक्षाकर्मविधौ चरः।
तयोरसम्भवे वर्षं विनान्यत्रापि शक्यते॥
दीक्षायामभिषेके च तथा मन्त्रपरिग्रहे।
व्रतग्रहणमोक्षे च द्रव्यलाभ न कर्मणि॥
कार्तिक्यां चैव वैशाखां स्वभानोरपि दर्शने।
दिनच्छादियुक्तां च या चान्या स्थितय स्मृतः॥
चन्द्रसूर्योपरागे तु षडशीति मुखेषु च।
ग्रहनक्षत्रयोगेषु विष्वोरप्युत्सवेषु च॥
अयनेषु च सर्वेषु यागः सर्वार्थसिद्धिदः।
चतुर्थं नवमीं षष्ठमीमष्टमीं च चतुर्दशीम्॥
पौर्णमासीं विना शेषा हिताः सर्वे बुभुक्षुषु।
आदित्यमङ्गलं सौरिं त्यक्त्वा वाराणि भूतये॥
त्रीण्युत्तराणि रोहिण्यां पुष्यकर्कमृगशीर्षकम्।
हस्तं स्वातीरनुराधा माखामूलं च रेवती॥
अभिजिच्छ्रवणं चेच् शिवयोगे चतुर्दशी।
योगां च प्रीतिरायुष्मान् सौभाग्यः शोभनः शुभाः॥
सुकर्म व *धृतिवृद्धिस्रवसिद्धिश्च हर्षणः। *
वरीयान् सः शिवः सिद्धो ब्राह्मणै॥।श्च षोडश॥
करणानि ॥॥॥॥॥॥॥॥॥॥। रिक्तानि शुभानि।
यानि नित्यानि सर्वाणि प्रशस्तानि विमुक्तयै॥

॥ ज्ञाना(न)पूजाविधिः ॥
[१९९अ]

अथातः सम्प्रवक्ष्यामि ज्ञानपूजाविधिक्रमम्।
ज्ञानं प्रवर्तते पुंसां कथं वात्यन्तदुर्लभम्॥
ज्ञानं तद्विविधं ज्ञेयं परापरविभेदतः।
तदाद्यं परमं ज्ञानं पतिपाशात्मदर्शकम्॥
द्वितीयमपरं ज्ञानं केवलं पाशदर्शनम्।
यथा दृष्टान्तकं रात्रौ नरमार्जारनेत्रयोः॥
तथा विलक्षणं ज्ञानमेवमेतत् परापरम्।
यो यज्जन्मान्तरे कर्म परिपाकविशेषतः॥
ज्ञानाचार्येण कटाक्षेण त्रिपदार्थप्रमाणवित्।
ज्ञानात् ज्ञेयगतो धीमान् ज्ञानपूजामुपक्रमेत्॥
प्रातः पूर्वं समुत्थाय निष्ठायां चिन्तयेच्छिवम्।
क्रियाकाण्डविधानेन नित्यकर्म समाचरेत्॥
स्नानकाले जलं ध्यात्वा परमामृतसागरम्।
निष्कलं निर्मलं साक्षात् नित्यमुक्तं शिवं स्मरेत्॥
स्नात्वा वैदिकयुक्तश्चेत् सन्ध्योपस्थानमाचरेत्।
कर्तारं चिन्तयेत् सर्वकृत्यसाक्षिणमव्ययम्॥
आचमेदात्मतत्वादिमन्त्रैः सह शिवान्तिमैः।
परं ज्योतिर्मयं ध्यात्वा भस्मपञ्चाक्षरैर्धरेत्॥
उद्धूलनविधैर्वापि त्रिपुण्ड्रविधिना चरेत्।
प्राणायाम॥।मूलेनाभ्यन्तरात् पापनिर्गमम्॥
पूरितं शिवबोधेन तेन कृत्वास्य कुम्भकम्।
शोधयेत् प्रणवेनैव तलिकौ हस्तपृष्ठकौ॥
आसनं मूर्तिमूलाभ्यां सह पञ्चाक्षरैः क्रमात्।
करन्यासं विधायैवमङ्गन्यासमतःपरम्॥
सकलं निष्कलं नित्यं चिदानन्दं शिवं स्मरेत्।
शर्वादिमूर्तिपानष्टौ देवतान् तर्पयेद्गुरुम्॥
दक्षिणामूर्तिनं ध्यात्वा मूलेनास्य त्रयं ददेत्।
स्व स्व सन्ततिमार्गेण सन्तानाचार्यतर्पणम्॥
समयाचारमूर्तीनां तर्पणं च यथाविधि।
तत्तत् स्वनाममन्त्रेण कुर्यादर्घ्यं शिवेन तु॥
स्वाहान्तेन क्रमेणैव तर्पयेत्तज्जलेन च।
स्वात्मानं प्रोक्ष्य मूलेन चाचम्य सकलीकृतः॥
शिवं ध्यात्वा स देशादीन् नालये दर्शयेत्ततः।
प्रक्षाल्य पादावाचम्य पूजास्थानं प्रवेशयेत्॥
उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः।
भस्म धृत्वा करन्यासमङ्गन्यासं च कारयेत्॥
अर्घ्यं संसाद्य सर्वत्र शुद्धिं कृत्वा विशेषतः।
स्नापयेत् परमेशानम् अर्चयित्वा यथाविधि॥
अथ मध्यन्दिनं यावत् समाधिस्थो भवेद्यथा।
ज्ञिज्योतिर्मयं लिङ्गं शरच्चन्द्रवदुज्वलम्॥
मृल[गल]मध्ये संस्थितं तत्र मनः प्राणांश्च योजयेत्।
तल्लीनसमयो योगी चित्तं शून्यं नयेच्छनैः॥
नष्टे चित्ते चिदानन्दं स्वयमुद्योतते परम्।
समाधिः कथितो ह्येवम् अणिमादिगुणालयम्॥
एवं कर्तुमशक्तश्चेद्यथा ध्यात्वा शिवादिकान्।
प्रथमादीन् गुरूक्तेन मार्गेण शिवमन्त्रकम्॥
तदभावे जपं कृत्वा शास्त्रश्रवणमादरात्। (१३८अ, १स्त् line[२००])
ततो मध्याह्नपूजायामारम्भेत् ज्ञानदेशिकः॥
दक्षिणद्वारमाश्रित्य ज्ञानपूजां समाचरेत्।
दक्षिणास्यार्चनं श्रेष्ठं कैवल्यपदकारणम्॥
आचार्य मूर्तिमास्थाय दक्षिणाभिमुखो हरः।
पशूनां पाशनाशाय कुर्यात् ज्ञानोपदेशकम्॥
तस्माद्दक्षिणवक्त्रस्य पूजा ज्ञानवती भवेत्।
तत्र पूजां समारभ्य कृत्वा वै भस्मधारणम्॥
सकलीकरणं कृत्वा चिन्तयेत्परमेश्वरम्।
पञ्चाक्षरं सकृत् जप्त्वा सङ्कल्प्यार्घ्यं तु तज्जलैः॥
प्रोक्षयेच्छिवमन्त्रेण द्वारादिद्रव्यजालकम्।
द्वारपूजां ततः कृत्वा सन्तानाचार्यमन्त्रकैः॥
आग्नेय्यामक्षमालां च नैऋत्यां भस्मभाजनम्।
पश्चिमे शिवशास्त्राणि विन्यस्याभ्यर्चयेत्ततः॥
उदीच्यां शिवभक्तानां प्रमुखान् सम्प्रपूजयेत्।
प्रणम्य पूजासाक्षित्वमभिप्रोक्ष्य शिवं स्मरेत्॥
शुद्धात्मा सकलीकृत्य ध्यायेदञ्जलिपाणिना।
तत्वोपतत्वसंयुक्तं स्थूलसूक्ष्मोपलक्षितम्॥
देहन्देहिं च भिन्नं च देहेऽस्मिन् चाध्वसंयुते।
पृथिव्यादीनि तत्वानि चैकैके॥॥यं स्मरेत्॥
शिवाज्ञा चेष्टितस्या त्वा प्रारब्धफलभाजिनम्।
तद्देहं स्वेच्छया नष्टं विचारेण ॥॥॥॥दा॥
पुरातनं गृहं त्यक्त्वा नूतनं प्राप्त॥॥॥॥व।
देहं त्यक्त्वा ह दिव्य ॥॥॥॥॥॥॥॥।तेजो विजृम्भितम्॥
चिदानन्दमयं नित्यं प्राप्तवान् नव भावयेत्।
स्वदेहे निर्मले प्यासां क्षुण्डशक्तिपरिसृताम्॥
बहलामृतयानां च शिवालयमयीं तनुम्।
तदालयस्थमात्मानं शिवरूपं विचिन्तयेत्॥
अन्तर्यागं प्रकर्तव्यं तस्मिन्नात्मनि निर्मले।
नाभौ होमं भ्रुवोर्मध्ये निष्कलं सर्वगं शिवम्॥
पूजास्थानं शुद्धविद्यातत्वरूपं विभावयेत्।
दिव्यदृष्ट्या पाशजालं व्यपोह्य शिवतेजसा॥
परिपूरितमत्रैव भावयेदर्घ्यपात्रकम्।
प्रक्षाल्य बहुरूपेण वौषडन्तशिवेन च॥
पूरयेत्शुद्धतोयेन गन्धपुष्पादि विन्यसेत्।
पञ्चाक्षरेण मन्त्रेण रुद्रसङ्ख्याभिरर्चयेत्॥
दिग्बन्धनादिकं कृत्वा धेनुमुद्रामृतीकतम्।
प्रोक्षयेद्द्रवय्जालानि वीक्षणाद्यैर्विशोधयेत्॥
शिवमन्त्रेण पुष्पाणि दशवारमुदीरयन्।
विसृज्य तन्त्रशुद्धिः स्यात् तालत्रयपुरस्सरम्॥
दिग्बन्धनादिना स्थानममृताप्लावनं कृतम्।
शिवेन तेजसा पूर्णं बाह्यं चाभ्यन्तरं स्मरेत्॥
लिङ्गादाय मूलेन पुष्पं पर्युषितं त्यजेत्।
अभिषिच्यास्त्रमन्त्रेण पूर्वार्घ्येणाभिषेचयेत्॥
तस्मिन्नासनमन्त्रेण मूर्तिमन्त्रेण पूजयेत्।
मूलेन शिवमावाह्य गन्धपुष्पादि दापयेत्॥ (१३९अ, १स्त् line[२०१]अ)
धूपदीपौ हृदा दत्वा मूलेनार्घ्यं समर्पयेत्।
पञ्चगव्येन संस्नाप्य यथा पञ्चामृतादिभिः॥
गन्धोदकैः शुद्धतोयैर्मूलेनार्घ्योदकेन च।
संस्नाप्य खण्डवस्त्रेण परिमृज्यासने शिवम्॥
निदाय भस्मपुष्पार्घ्यबिन्दूनि च समर्पयेत्।
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥परिवेलि । परिचेलि॥
कुटिलान्तासनं मूर्तिम् इच्छाज्ञानक्रियात्मिकाम्।
मूलमन्त्रं शिवमयं ध्यात्वैवं लकुलीश्वरम्॥
पुनलासनमूर्तिभ्यां मूलेनैव समर्चयेत्।
ध्यात्वा शिवदानन्दं सततोदितमव्ययम्॥
क्रियाशक्त्यात्मिके पादे ज्ञानशक्त्यात्मिके मुखे।
इच्छाशक्त्यात्मिके मूर्ध्नि दद्यात् पाद्यादिकत्रयम्॥
गन्धपुष्पादिभिश्चैव मालाभिः पूजयेच्छिवम्।
पुरतो वृषभं यष्ट्वा पार्श्वयोश्च मुनीश्वरान्॥
अगस्त्यादीन् समभ्यर्च्य गुरुं पूजयेत्ततः।
शिवाय धूपदीपौ च दत्वा पुष्पाञ्जलित्रयम्॥
नैवेद्यं षड्रसोपेतं सोपदंशं तु दापयेत्।
पानीयाचमनं दत्वा ताम्बूलं च निवेदयेत्॥
धूपदीपादिकं दत्वा जपान्तं पूजयेच्छिवम्।
सोत्रैस्तुत्वा महादेवं भक्त्या नत्वा पुनः पुनः॥
पूजाफलं च तत्सर्वमुदकेन प्रदापयेत्।
अभीष्टं प्रार्थयेत्तत्र पुष्पैरभ्यर्चयेच्छिवम्॥
पराङ्मुखार्घ्यं दत्वास्मै मूलेन परमीकृतम्।
निष्कलं निर्मलं ध्यात्वा यथास्थाने निवेशयेत्॥
आसने स्वगुरुं पूज्य स्तुत्वा नत्वा विसर्जयेत्।
शिवं परमकल्याणं निष्कलं निर्मलं प्रभुम्॥
चिदानन्दमयं नित्यं तेजोरूपं विचिन्तयेत्।
अस्य निवेद्यं भुञ्जीयात् निर्माल्यं तं न विद्यते॥
इत्थं पूजां ज्ञानवतीमकरोत् भक्तिमान्नरः।
इहैव धनवान् श्रीमान् सोऽन्ते मोक्षमवाप्नुयात्॥
॥ इति वातुलाख्ये महातन्त्रे ज्ञानपादे ज्ञानपूजाविधिपटलः समाप्तः ॥
॥ शुभम् ॥

		       (१४०अ, १स्त् line[२०२अ])  
 ॥ ज्ञानपूजाविधिः – कामिके ॥   

नन्दिने पूजयेद्देवं रात्रौ नैव च नैव च।
सततं पूजयेद्देवं दिवा रात्रौ च वर्जयेत्॥
तदेवं ज्ञानपूजाक्रमम्। भूतरूपभेदाभिमानराहित्यं भूतशुद्धिः।
विषयाभिलाषराहित्यं द्रव्यशुद्धिः। अथवा शिवाष्टमूर्तित्वदर्शनं भूतशुद्धिः। शिवस्य
सर्वद्रव्यानुप्रवेशनदर्शनं द्रव्यशुद्धिः। पञ्चाक्षरे त्रिपदे
पाशपदाध्यपरपदाक्षरद्वयं विहाय पतिपदार्थपरपदाक्षरद्वयं
पशुपदार्थपरपदाक्षरमेकं च ज्ञात्वा वाचिकमानसं त्यक्त्वा वाच्यैक्यानुसन्धानं

मन्त्रशुद्धिः।

तदुक्तं सिद्धान्तबोधे –
हित्वा नमः पदं तस्य शिवाय इति कीर्तिते।
शुद्धपञ्चाक्षरमिदं स्वानुभूतिप्रकाशकम्॥ इति।
शिवज्ञानेन स्व स्व
रूपमालोक्य तन्मयेन स्थितिः आत्मशुद्धिः।
अखण्डाकारसच्चिदानन्दस्वरूपमनुभवैकवेद्यं शिवभावनं लिङ्गशुद्धिः।
अथासनमूर्धादिकमुच्यते। आत्मा शिवासनम्,
मूर्तिः सत्यज्ञानमनावृतम्, मूलं तु परमानन्दमावाहनमथोच्यते।
शिवाभिव्यक्तिरेवात्रावहनमिति स्मृतम्। नैश्चल्यं स्थापनं चाभिमुख्यत्वं

सन्निधानकम्।
लयविक्षेपगलनं सन्निरोधनमुच्यते।
अतः परं प्रवक्ष्यामि पाद्यादिशिवपूजनम्॥
मायाद्वयस्य गलनं पाद्यमाचमनं तथा।
कर्मत्रयविनाशस्यादर्घ्यमज्ञानमोचनम्॥
माहोभिषेको नैर्माल्यं वस्त्रं शुद्धं निरावृतिः।
निर्लेपनं च श्रीगन्धो द्वन्वरागः प्रसूनकम्॥
अज्ञानवासनानाशो धूपो दीप स्वयम्प्रभा।
शिवानुभूतिर्नैवेद्यं पानीयं च सुवासितम्॥
रसाध्वादव्यगलनं भस्मोद्वर्तनमीरितम्।
क्षायगलनजातं ताम्बूलं मुखवासनम्॥
आहताख्यस्य नादस्य लयस्तेत्रं समीरितम्।
प्रदक्षिणं च सर्वत्रव्यापित्वं सह शम्भुना॥
सरित्समुद्रसम्योगात् जलं समरसं यथा।
तथात्मशिवयोर्योगो नमस्कारं प्रकीर्त्यते॥
ज्ञाता ज्ञानं यथा ज्ञेयं मग्नं भवत्ते तथा।
पराङ्मुखार्घ्यमित्याहुरात्मनश्च निवेदनम्॥
॥ एवमवान्तरशैवपद्धतिप्रकारं ज्ञानपूजा समाप्ता ॥

शैवसन्यासपद्धत्यां दीक्षाक्रमः ॥ (१३७अ, [१४१अ])
आचार्यः वर्णपदमुक्तकलामन्त्रन्यासं कृत्वा शिवोहमिति सम्भाव्य
परमानन्दनिमग्नो भूत्वा शिष्याणां समयादिदीक्षां कुर्यात्। शिष्यान्
संवत्सरपर्यन्तं शुश्रूषया परीक्षितान् शिवपुण्यापेक्षया शिवपूजापेक्षया
प्रपञ्चवैराग्येण मुमुक्षुत्वेन च मन्द-मन्दतर-दी(ती)व्र-दी(ती)व्रतरशक्तिं
निपातयुक्तान् परिज्ञाय तदनुगुण्येन समयादिदीक्षां कुर्यात्।
तदुक्तं कालोत्तरे –
गुरुश्च स्वाश्रितान् शिष्यान् वर्षमेकं परीक्षयेत्।
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः॥
उत्तमाश्चाधमान् कृत्वा चैवानुत्तमकर्मसु।
आकृष्टास्ताधि(धी)ता वापि न विषादं प्रयान्ति चेत्॥
ते योऽभ्यासं यताश्शराप्संस्कारककर्मणि।
रौरवे –
तीव्रशक्तिनिपातेन युक्तं शिष्यं सदेशिकः।
महूर्तं परमानन्दो निमग्नो भूत्वाभ्यन्तरम्॥
पराशक्तिमयो भूत्वा पश्येत्पाशनिवृत्तये।
॥ अथ समै(म)यदीक्षाविधिः ॥
आचार्यो गन्धपुष्पादिना स्वात्मानमलङ्कुर्यात्।
तदुक्तं चिन्त्यविश्वसादाख्ये –
कर्पूरक्षोदसंयुक्तैश्चन्दनैः कुङ्कुमैस्तथा।
भस्मना गन्धसंयुक्तेन स्वात्मानं भूषणैस्तथा॥ (१३७ब्-१४१ब्)
परिष्कुर्यात् विशेषेण देशिकोऽत्यन्तनिर्मलैः।
क्षौमैशश्च विज्ञस्त्रैः शुद्धैश्च विविधाभरणादिभिरिति॥ अथाचार्यस्य सन्निधौ करमानं
करान्तरं चतुरश्रं
दक्षिणोत्तरसंस्थानं मण्डलद्वयं गोमयेनास्त्रेण कारयेत्। भौतिकीदीक्षायां तु
मण्डलद्वयं पश्चिमपूर्वसंस्थानं कारयेत्। सन्यासनैष्ठिकदीक्षायां (३र्द् निने)
मण्डलद्वयेऽपि साक्षतानुत्तराग्रान् कुशान्विन्यस्य तत्र षडुत्थासनं सम्पूज्य तत्र
परीक्षितं ततोद्गमनीयमुपोषितं
प्राशितपञ्चगव्यं स्व स्व
प्रथमशिष्येणाकारितं शिष्यमुदङ्मुखमवस्थाप्य तं मूलमन्त्रविन्यस्तदिव्यदृष्ट्या
पादादिमूर्धपर्यन्तमवलोक्य हुं फडन्तास्त्रेण सामान्यार्घ्याम्बुना सम्प्रोक्ष्य
शिष्यस्य
हृदयं तेनैव मन्त्रेण भस्मना सन्ताड्य तेनैव मन्त्रेणार्घ्याम्बुना पुनस्त्रिवारं
सम्प्रोक्ष्य वौषडन्तकवचेनाभ्युक्ष्य नाभेरधश्चोर्ध्वं च क्रमेण
कुशमूलैः कुशाग्रैश्चास्त्रेण
त्रिवारमुल्लिखेत्। भौतिकदीक्षायां मण्डलद्वये पूर्वाग्रान् साक्षतान् कुशान्विन्यस्य तत्र
षडुत्थासनं पूज्य तत्र भौतिकं
शिष्यं सम्पादाङ्गुष्ठृजुकायमञ्जलिहस्तमाचार्यं ज्योतिर्मयस्यायं तम् अवस्थाप्य तं
मस्तकादिपादान्तं मूलमन्त्रविन्यस्तदिव्यदृष्ट्या विलोक्य पूर्ववत् प्रोक्षणं
हस्तताडनं पुनः प्रोक्षणम् असूक्षणं च कृत्वा नाभेरूर्ध्वमयश्च क्रमेण
कुशाग्रैः
कुशमूलैश्चास्त्रेण त्रिवारमुल्लिखेत्। ततः शिष्यहृत्पद्मे (१३८अ, १स्त् line [१४२अ])
सूर्यसोमाग्निशक्तिमण्डलानि विभाव्य तत्र स्फुरत्तारकाकारं जीवं स्थितं विभाव्य हुं
फडन्तास्त्रेण शिष्यात्मानं सन्ताड्य ॐ हां हं हाम् आत्ममूर्तये नम इति निरुध्य
शिष्यमस्तके
शिवमष्टपुष्पिकया शुक्लपुष्पादिभिः सम्पूज्य ललाटे तिलकं दत्वा हृदयेन तदर्धं
हस्तयोः पुष्पं निक्षिप्य
नेत्रपटं दुकूलं कार्पसं वा नववस्त्रनिरीक्षणादिचतुः
सिद्धियुक्तं मूलाभिमन्त्रितवर्मावकुण्ठितमस्त्ररक्षितं कृत्वा तद्वस्त्रेण नेत्रमन्त्रेण
तन्नेत्रे बध्नीयात्। तथागमः।
स दत्तो नेत्रपट्टोधस्तदन्येषामदर्शने।
दर्शनाद्वासना सैव पाशं विजायते पुनः॥
तेन तन्नेत्रबद्धस्यात् पशुपाशविघट्टन इति।
ततः शिष्यं प्रदक्षिणमानीय सन्यासनैष्ठिकमुत्तरमण्डले
भौतिकं पूर्वमण्डले षडुत्थासने पूर्ववदवस्थाप्य।
अधमात्मा शिवत्वार्हशिथिलीकृतबन्धनः।
निजशक्त्या मयैवायं पाशव्रातोऽपि मद्वशः॥
तममुन्तात्र संस्थापनं स्वगुणोदययोग्यकम्।
स्पर्शवेदिमणिप्रख्यः शिलोऽहं च वरः प्रभुः॥
स्पर्शाद्विमलीकृत्य कलश्रतमिवाचिरात्।
करोमि गुणसम्पन्नं सतां मस्तकभूषणम्॥
इति विज्ञाप्य हुं फडन्तास्त्रेणाङ्गुष्ठतर्जनीप्रेषितपुष्पेण शिष्यहृदयं
सन्ताड्य नाडीमार्गेण तद्देहं प्रविश्य पञ्चधारणाभिर्भूतशुद्धिं शिष्यदेहं
संशोध्य (१३८ब्, १स्त् line१४२ब्) शिवतनुं कृत्वा तत्रैनमुपवेश्य दद्धृं लाडीबिन्दुषु
यजनहवनध्यानानि विभाव्य तस्मादात्मानमासाद्य शिष्यमिष्ट्वा वामाङ्गुष्ठेन
सव्यहस्ततले
गन्धमण्डलं कृत्वा तत्र शिवं साङ्गं सावरणं
निर्वत्सं पूज्य मूलमन्त्रं हृदयादिग्रन्धिभेदेन परशिवपर्यन्तमुच्चार्य शिष्यमस्तके
शिवहस्तं विन्यस्य ब्रह्मरन्ध्रादुपविष्टशिवतेजसा
हस्तकल्मषं शिष्यं सकलीकृत्य त्रैवर्णिकश्चेत् चतुर्थ्यन्तषडक्षरं चतुर्थश्चेत्
चतुर्थ्यन्तपञ्चाक्षरमुपदिश्य नेत्रपट्टमवसार्य नाडीत्रयं
शिष्यदेहान्निर्गत्य स्वच्छदेहलीनं विभाव्य शिवे स्वस्मिन् पुष्पाञ्जलिप्रसादनपूर्वकं
नत्रिं कारयित्वा
समै(म)याचारं गुरुशुश्रुषणादिकमुपदिश्य
श्रीकण्ठपदे योजयेत्।
तथा स्वायम्भुवे –
गन्धदियं करं (गन्धाद्यलङ्गारं) कृत्वा वामाङ्गुष्ठेन दक्षिणम्।
कनिष्ठाद्यासु सद्यादीन् पञ्च पञ्चसु विन्यसेत्॥
शिवं करतले साङ्गं सम्पूज्य च यथाक्रमम्।
तेन हस्तेन तं शिष्यं संस्पृशेन्मस्तके हृदि॥
हृदयेन गुरुः पश्चात् विदध्यात् सकलीकृतम्।
॥ इति समयदीक्षाविधिः ॥
॥ एवमीश्वरशिवाचार्यपद्धतौ च ज्ञेयम् ॥

॥ विशेषदीक्षा ॥
समै(म)यदीक्षासंस्कृतं शिष्यं पूजितषडुत्थासनमण्डले पूर्ववदुपदिष्टं
शिवाश्रमिणज्ञा सूद्धरण(१३९अ, १स्त् line१४३अ)दीक्षया संस्कुर्यात्। जात्युद्धरहीनया
सामान्यं विशेषं द्विविधं प्रोक्तं बाह्यमान्तरं तथेति वचनात् सामान्यविधिमन्तरेण
संस्कुर्यात्।तद्यथा –
शिष्यमर्घ्याम्बुना प्रोक्ष्य हुं फडन्तास्त्रेण सप्तधाभिमन्त्रितपुष्पेण ॐ हां हं
हाम् आत्मदेहहुं फडिति
हृदये ॥॥॥नम् अनेनैव मन्त्रेण
भेदनं च कृत्वा वामया प्रविश्य ज्यष्ठया विश्लिष्य अङ्कुशमुद्रया रौष्टम्योत्कृष्य
सङ्गृह्याङ्कुशमुद्रया तद्वादशान्तं नीत्वा संहारमुद्रया
आत्मानं सङ्ग्राह्य वामया पूरकेण स्वात्मस्थं कृत्वा कुम्भकेन समरसीकृत्य
आत्मानं सदाशिवबीजं विभाव्य।
भावाहारविशुद्धो ॥॥ बीजदेहविशुद्धिमान्।
द्विजो भवतु रुद्रांशस्त्वत्प्रसादात् सदाशिवः॥
इति विज्ञाप्य गर्भाधानादिजातकर्मान्तैः सम्स्कारैः सम्स्कुर्यात्। तदनु
शिष्यदेहं प्रविश्य सूक्ष्मस्थूलदेहशुद्धिं पूर्ववत् कृत्वा
पराशक्तिपरिसृतबहलामृतधारयाप्लावं वैन्दवदेहं कृत्वा शिष्यदेहान्निर्गम्य
गर्भाधानादिसम्स्कारसम्स्कृतं स्फुरत्तारकाकारमात्मानं रौद्र्या स्व द्वादशान्नीत्वा
संहारिण्या सङ्गृह्य शिष्यस्य ब्रह्मरन्ध्रं नीत्वा सुषुम्नामार्गं
व्यापय्य (१३९ब्, १स्त् line१४३ब्) ज्योतिर्मयमात्मानं हृदये
संयोज्याप्यायनायाघ्यजलबिन्दुं शिष्यशिरसि दद्यात्। तदनु – गोमयेन मण्डलं कृत्वा
तत्राष्टदलं पद्मं समालिख्य
दलेषु पञ्चसु ब्रह्मषडङ्गान्यावाहनादिभिः सम्पूज्य तत्र मण्डले पुष्पाञ्जलिं
प्रदाप्य पतितपुष्पकौष्ठमूर्तिनाम्ना शिवपदान्तेन तस्य नाम कुर्यात्।
शिवत्वप्रवेशभावनया निष्क्रामणं
परमानन्दभोक्तृत्वभावनयान्नप्राशनं शिवप्रसादोत्कर्षत्वभावनया चूडा कर्म च
कृत्वा पञ्च त्रि द्वे एक सम्पूरम्
यज्ञोपवीतं ब्राह्मणादिक्रमेण धारयेत्। ब्रह्मचर्याद्याश्रमनिष्ठस्य शिष्यस्य
तत्तदाश्रमपर्यन्तं सम्स्कुर्यात्।
सर्वज्ञानोत्तरे –
यज्ञोप॥॥।सूत्रं तु विप्रे पञ्चसरं स्मृतम्।
त्रिसरं क्षत्रियस्योक्तं नैश्यस्य हि द्विसरं स्मृतम्॥
शूद्रस्यैकसरं ज्ञेयं नित्यमव्यभिचारिणः। इति ।
तत्र शूद्र॥॥ज्ञो
पवीतधारणस्य सामान्यशास्त्रेणाप्राप्तत्वात् कालनियममाह।
अर्चायामग्निकार्ये च सन्ध्याकाले च नान्यथा। इति।
ज्ञानरत्नावल्यां चतुराश्रम॥॥॥।षु
तत्तदाश्रमकावधिः ।
सम्स्कारं कुर्यादेवमत ऊर्ध्वं न कारयेत् इति।
तदनु – शिष्यस्य प्रासादपञ्चाक्षरमुपदिश्य सिद्धान्तश्रवणे
शिवाग्निगुरुपूजायां
निर्वाणदीक्षायां च योग्याभावा नीतिज्ञश्च न पदे योजयेत्। अत्र ईश्वरशब्दस्य
ईश्वराधिष्ठिताशुद्धमायाकलमस्तकोर्थः। तदनु – अशक्तस्य लौकिकस्य (१४०अ, १स्त् line२०६ ।
१४४) बालादेः समयात् संशोध्य भक्तिमार्गमुपदिशेत्। शक्तस्य शिवाश्रमिणः
शिवाश्रमधर्मं
प्रपत्तिमार्गं चोपदिशेत्। तथागमः।
कृत्वैवं शोधयेत्तस्य समैयान्देशिकोत्तमः।
शिष्यस्य समैयान् सर्वान् श्रावयेद्गुरुसत्तमान्॥
न शिवं शिवशास्त्रं च शिवाग्निं च गुरूं तथा।
निन्यान्न लम्बयेत्तेषां छायामपि कथ(ञ्च)न॥
शिवाग्निगुरुपूजा च कर्तव्या जीविकावधिः।

॥ अथ व्रतविधिः ॥
तदुक्तम् अचिन्त्यविश्वसादाख्ये –
अतः परं व्रतं वक्ष्ये दीक्षितानां व्रताय वै।
वैदिकं शैवमित्येव व्रतं हि द्विविधं भवेत्॥
त्रैवर्णिकानां कर्तव्यमुपवीतादि वैदिकम्।
शिवदीक्षा प्रधानं तु शेषमत्यन्तमुत्तमम्॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः।
द्विविधं ब्रह्मचर्यं हि नैष्ठिकं भौतिकं तथा॥
आजन्मब्रह्मचर्यं तु यावदामरणान्तिकम्।
यज्ञोपवीती दण्डी च भस्मोद्धूलितविग्रहः॥
त्रिपुण्ड्राङ्कितदेही च रुद्राक्षैश्च विभूषितः।
त्रिकालमेककालं वा स्नानयुक्तो ज(जि)तेन्द्रियः॥
सत्यवाद्यप्यशः शायी[धी]क्षमायुक्तो दृढव्रतः।
गुरुशुश्रूषणायुक्तो गुर्वाज्ञापालने रतः॥
भिक्षाशी देहरक्षार्थमेककालं गुरोर्गृहे।
तां पूजलमञ्जनं चैव हरिद्रालवणं तथा॥
पातु(दु)कामकुटं वापि गन्धमाल्यादि वर्जयेत्।
गोरोस्थाने वसेन्नित्यमन्यगेहे च न स्वपेत्॥
स्व स्वातन्त्र्यादिकं हित्वा गोरोस्वातन्त्र्यसंयुतः।
पुण्यक्षेत्रं च तीर्थं च काममादिकं तथा॥ (१४०ब्, १स्त् line१४४)
सर्वं च गुरुकारुण्यदर्शनं च पुनः पुनः।
गुर्वाज्ञाविहीनं तु तपो दानादि निष्फलम्॥
तस्मात् सर्वप्रयत्नेन गुर्वाज्ञापालनं भवेत्।
नैष्ठिकब्रह्मचर्यं हि भौतिकानां विधिं श्रुणु॥
कालं सङ्कल्प्य विधिना पूर्ववत् ब्रह्मचर्यकम्।
अन्ते व्रातेश्वरं यागं कृत्वोद्वाहं ततश्चरेत्॥
शिवभक्तो जटीभूयात् जटाः प्रिति दिने दिने।
शाश्वथैकफलं तेन प्राप्यते नात्र संशयः॥
यावज्जीवं व्रतीभूयात् कालं सङ्कल्प्य संयुतः।
समाप्ते कल्पिते काले यजेत्सद्यो व्रतेश्वरम्॥
इति।

किरणे –   

जडाभस्मद्विजस्योक्तं शिखान्येषां त्रिपुण्ड्रकम्।
भस्मलेपनं ब्राह्मणस्य तु त्रिपुण्ड्रकं शिखा ॥
चैकक्षत्रियादित्रयस्य तु ॥॥॥॥॥॥ …॥।
स्थूलास्तद्विगुणां ज्ञेयाः क्षत्रियस्य ह्यन्तरः॥
वैश्यत्वे ॥॥ का शिखा प्रोक्ता तथा शूद्रस्य कीर्तिता।
बहुसङ्ख्यात्वे सङ्ख्यानियम उक्तः मृगेन्द्रे।
कलाशक्तिपवित्राणं तत्वमन्त्रेशसङ्ख्यया॥
इति जटांशो
बित्रयादित्यादिवचनं सन्यासविषयम्। त्रिव्रतविधिः। एवं विशेषदीक्षाक्रमः समाप्तः।
एवमीश्वरशिवाचार्य च व्रतौ च ज्ञेयम्।
॥ अथ निर्वाणदीक्षोच्यते ॥ (१४१अ [२०७ – १४५अ])
द्वेधा निर्वाणदीक्षा स्यात् लौकिकी शिवधर्मिणी।
शिखाच्छेदं विना वत्स ज्ञेया सा लोकधर्मिणी॥
शिखाच्छेदेन संयुक्ता दीक्षा सा शिवधर्मिणी।
दीक्षया लोकधर्मिण्या भौतिकान् दीक्षयेद्गुरुः॥
तथैव शिवधर्मिण्या नैष्ठिकां दीक्षयेद्गुरुः।
निर्बीजा त्वसमर्थानां किञ्च भोगरतात्मनाम्॥
दीक्षां पूर्वोदितां कृत्वा समयादिविशोधिनीम्।
वयः कार्यः परे तत्वे भोगं शुद्धाध्वनि स्मरेत्॥
शिवधर्मिणी द्विविधा –
नैष्ठिकी देहपातान्ता भौतिकी व्रतमोक्षता।
उभयोरपि सा दीक्षा साधिकारा न वा भवेत्॥
नैष्ठिकी द्विविधा –
मायातोऽध्वविशुद्धौ शुद्धेशाध्वनि भोगदा।
सा कामा सबीजाख्या भोगान्ते मोक्षदा भवेत्॥
निष्कामस्य तु या दीक्षा विनारब्धेन कर्मणा।
अशेषपाशहन्त्री सा निर्बीजा द्वैतदायिनी॥
प्रागार्जितफलं तत्र दग्धं बीजत्वमाश्रयेत्।
आगामिकं फलं तस्य निरोध्यं विषशक्तिवत्॥
आरब्धतनुना तस्य भोगान्ते शिवपदं व्रजेत्। इति।
ततः समैयविशेषदीक्षानन्तरनिर्वाणदीक्षाकाङ्क्षिणः शिष्यस्य ज्ञानदीक्षां
कुर्यात्
तद्यथा शीभनक्षत्रादियुक्तकालं निर्णीय ततः पूर्वदिने शिष्यमेकभुक्तं कारयित्वा
अयुतमघोरजपं कारयेत्। ततो रात्रौ भुभुश्चेत् दर्भेषु (१४१ब्, १स्त् line१४५ब्) पूर्वशिरसं
मुमुक्षुश्चेत् भस्मनि दक्षिणशिरसं शायित्वा ब्राह्मे मुहूर्ते उत्थाप्य शिष्यं रात्रौ
दृष्टं स्वप्नं पृष्ट्वा शुभे सन्तोष्य
दोषसद्भावे तदनुगुणे
अयुतादिनियुतपर्यन्तमघोरजपं कारयेत्। तत स्नाते कृतनित्यक्रियशिष्ये आचार्यः शिवोऽहं
भावनया स्थित्वा स्वरे च कया शिष्यस्य पूरकेण तद्देहस्थं कुर्यात्।
तन्मण्डपात् पश्चिमभागे पूर्वादिपश्चिमान्तं मण्डलत्रयमुत्पाद्य पश्चिममण्डले
त्रैवर्णिकसन्यासिनं चतुर्थं हंसेन उभावपि मुमुक्षू पञ्चाक्षरेण
ब्रह्मकूर्चं
पाययित्वा मध्यं मण्डले दन्तशोधनपूर्वं मण्डले पादप्रक्षालनं शुद्धाचमनं
च कारयित्वा तदहरूपवायसं कारयेत्। इत्यधिवासविधिः॥
तथोक्तं वारुणपद्धत्याम् –
समयादौ च दीक्षायां नित्यकर्म यथाविधि।
समापय्य तमाचार्यो मन्त्रमूर्त्यात्मना स्थितम्॥
शिवभावे स्वयं स्थित्वा मन्त्रमूर्तं यथाविधि।
स्थापयेदस्य चैतन्यं पूरकप्राणवायुना॥
गृहीत्वा स्वमनस्थेन शिवेन सह योजयेत्।
कुम्भके तदवष्टभ्य रेचकैः शिष्यदेहगम्॥
कुर्यात् कृतनमस्कारं पञ्चगव्यममुं पुनः।
पाययित्वा ततो मन्त्र हंसेन प्रणवेन वा॥
पञ्चाक्षरेण वा साकं यः पुनः कारयेद्बुधः।
अधिवासोऽयमाख्यायः इति वचनात्॥
तदनु – आचार्यस्तनि(न्नि)र्वाणदीक्षायामधिकारि भवस्व रित्युक्त्वा स्व स्व प्रथमशिष्यम्
आनीयास्य निर्वाणदीक्षार्थं सम्पादिकं सम्पादयेति वदेत्।

मण्डपलक्षणम् –
स्व (१४२अ, १स्त् line [२०८ – १४६अ]) स्व गृहे मठे नदीकूले पर्वताग्रे गुरुमन्दिरे शुचिस्थाने वा
चतुरङ्गुलं खात्वा संशोध्य चतुर्हस्तं चतुरश्रं चतुर्द्वारं चतुस्तोरणं
विमानाकारं
क्षौमादिचित्रपटैः सुगन्धिपुष्पमालादिभिरलङ्कृतमण्डपं गोमयेनालिप्य पञ्चगव्येन
प्रोक्ष्य गन्धोपलिप्तं कारयेत्। तदनु – अर्धरात्रौ ज्ञानदीक्षायुक्तं
स्व ज्येष्ठं पुरोहितं
कृत्वा मण्डपस्य दक्षिणभागे दर्भासन-उदङ्मुख-उपविश्य
भूतशुद्धिकरन्यासाङ्गन्यासकलान्यासनात्मपूजां च विधाय
पाद्याचमनार्घ्यपात्राण्यासाद्य गन्धपुष्पादिपूजाद्रव्याणि संशोध्य चतुरश्रं
षट्त्रिंशदङ्गुलोन्नतं गन्धानुलिप्तं क्षित्यादिकुटिलाप्रान्तमन्त्रसिंहासनकं
सम्पूज्य गन्धोदकेन स्नातं सिंहासनम् उपविष्टं ज्ञानाचार्यं स्वामिन् भवन्तं
पूजयामीति
प्रार्थ्य लब्धानुज्ञः घृतकान्येवत् ज्ञान एव
शिष्यानुग्रहार्थम्।
द्विभुजमेकवक्त्रं त्रिणेत्रं चन्द्रशेखरम्।
स्फटिकाभं जातं ध्यात्वा शत्मानं रक्तस्फटिकाभं जातं ध्यात्वा शक्तिशिवात्मकं
रक्तस्फटिकाभं
पादाम्बुजद्वन्द्वं सङ्गृह्य गन्धादियुक्तेन जलेन शिवमन्त्रेणाभिषिच्य दुकूलेन
परित्रज्य भूर्जपत्रे शिलावृत्ते वा गन्धानुलिप्ते प्रणवं लिखित्वा (१४२ब्, १स्त् line १४६ब्)
तन्मध्ये तिरोधानमलरूपनमो(मनो)रथं लिखित्वा ज्ञानाचार्यदक्षिणपादस्यासनं
क्षिपेत्।
ततो दक्षिणामूर्तिरूपं वीरसिंहासनस्थितिम्।
दिव्यगन्धैः
पुष्पादिभिर्भूषणैः दिव्यवस्त्रकिरीटमकुटैश्च शिवमन्त्रेण सम्पूज्य धूपदीपौ दत्वा
विधिवदुत्पन्नं स्थालीपाकं सव्यञ्जनं घृतक्षीरं मधुशर्करापूपानीय
फलादिसहितं
कनकादिपात्रे शिवमन्त्रेण स्वाहान्तेन निवेद्य निवेद्यमन्नमन्यत्र शुद्धदेशे
पादाभिषेकजलं च निधाय स्थलशुद्धिं कृत्वा पाद्याचमनार्घ्यक्षिमुखवासं च
दत्वा

धूपदीपारात्रिकछत्रचामरव्यञ्जनदर्पणानि समर्पयेत्। तत आचार्यः शिष्यसमर्पितपूजां
शिवोऽहं भावनया स्वीकृत्य शिष्यस्य कलाः शोधयेत्।
अत्र ग्रमः। मण्डले षडुत्थासने उदङ्मुखं शिष्यमवस्थाप्य शिखादिपादान्तं
शान्त्यतीतादिनिवृत्यन्तकलाभिर्मन्त्रपदवर्णभुवनतत्वरूपं विभाव्य
मलमायाकर्माणि कलाव्यापकानि सञ्चिन्तयेत्।
तद्यथा – शिरसि शान्त्यतीतकलायां शितत्वशक्तितत्वे द्वे। अनाश्रिता अनाथा अनन्ता अव्योमरूपा
व्यापिनी
ऊर्ध्वगामिनी। शोचिका। मोचिका दीपिका इन्धिका इति नादकलाभुवनानि शिवतत्वे। शान्त्यतीता
शान्तिविद्या प्रतिष्ठा निवृत्तिरिति बिन्दुकला भुवनानि शक्तितत्वे। (१४३अ, १स्त् line [२०९ – १४७अ])
एतन्नामका एव पञ्चदश भुवनेश्वराः।
अ आ इ ई उ ऊ ऋ ऋ ऌ ॡ ए ऐ ओ औ अम् अः इति षोडशवर्णाः। आद्यमोङ्कारं पदमेकम्।
शिवेशनावस्त्रमन्त्राः।
नादहकारौ बीजम्। शिखीनी आस्यौ नाडी। ध न ज य देवदत्तौ वायू। श्रोत्रा वाचाविन्द्रिये।
शब्दविषयः। ध्वनिर्गुणः। सिक्तं मण्डलम्। व जु ज्ञां कितम्।
तुर्यातीतावस्था। सदाशिवः कारणेशः। इति भावयेत्।
तदनु – वदने शान्तिकलायाम्। सदाशिवेश्वरशुद्धविद्यातत्वानि त्रीणि। सदाशिवभुवनं
सदाशिवतत्वे। शिखण्डी
श्रीकण्ठी त्रिमूर्ति एकरुद्राः। कनेत्रा शिवोत्तमा सूक्ष्मा अनन्ता खानि अष्टौ भुवनानि
ईश्वरतत्वे। मनोन्मनीं सर्वभूतदमनी बलप्रमथनीं बलविकरणीं
कलविकरणीं काली रौद्री ज्येष्ठा वामेति नव भुवनानि शुद्धविद्यातत्वे।
एतन्नामका एव अष्टादशभुवनेश्वराः। क ख गा ञयो वर्णाः।
व्योमव्यापिने व्योमरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय
शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानहराय इति द्वाद
॥॥॥॥ पुरुषकवचौ मन्त्रौ। विन्दय कारणबीजम्। मूलं पुरुषाय द्वौ नाड्यौ।
कूर्मकृकरौ वायु। त्वक्पाणीन्द्रियौ। स्पर्शः विषयः।
शब्दस्पर्शौ गुणौ। (१४३ब्, १स्त् line१४७ब्) …।स्था। कृष्णं षट्कोणम्। षट्बिन्दुलाञ्छितं
मण्डलं नश्वरः कारणेश इति भा(या)वत्। तदनु – हृदये विद्याकलायां
मायाकालनियतिकालविद्यारागपुरुषतत्वानि
सप्त। अङ्गुष्ठमात्र इव नेशेशानैकपिङ्गेक्षणोद्भववामदेवमहातेजाख्यान्यष्टौ
मायायाम्। शिखेदैकवीरौ कले पञ्चान्तः
श्रुरौ नियतौ
संवर्तज्लेतिषु कलायां चण्डक्रोधौ विद्यायाम् एकशिव शिवान्तो जोमापतिप्रण्याख्यानि
पञ्चभुवनानि रागे।
एकवीरेशानभवोग्रभीमवामाख्यानि षट् भुवनानि पुरुषे। एतन्नामका एव
सप्तदशभुवनेश्वराः। घ ङ च छ ज झ ञाः सप्तवर्णाः। ॐ नमश्शिवाय। सर्वप्रभवे

शिवाय ईशानमूर्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्तये
ॐ नमः नमः ख गुह्यातिगुह्याय गोलत्र
अनादिनिधनाय सर्वयोगाधिकृताय ज्योतिरूपाय परमेश्वरपराय चेतनाचेतने व्योमिन्
व्योमिन् इति एकविंशतिपदानि अघोरशिखे मन्त्रौ म र ऴ बीजम्। पूषा
हस्ति जिहे नाड्यौ। व्याननागौ वायु। चक्षुः पादाविन्द्रिये। रूपं विषयः। शब्दस्पर्शरूपाणि
गुणाः। त्रिकोणं रक्तं स्वस्तिकलाञ्छितं मण्डलम्।
(१४४अ, १स्त् line[२१० – १४८अ]) सुषुप्तिरवस्था। रुद्रः कारणेशः। इति भावयेत्। ततो नाभौ
प्रतिष्ठाकलायां गुणबुद्ध्यहङ्कारमनश्रोत्रत्वक्चक्षुजिह्वाघ्राण
वाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवूयुतेजो बलाख्यानि
त्रयोविंशतितत्वानि। श्रेकण्ठ्यसौम्यकौमारवैष्णवब्रह्माभैरव
कृताकृताख्ययोन्यष्टकं गुणे।
ब्राह्म्यव्याजेशसौम्येन्द्रगान्धर्वयाक्षराक्षसपैशाचाख्यं देवयोन्यष्टकं बुद्धौ।

स्थलेश्वरमहङ्कारे। स्थूलेश्वरं मनसि। श्रोत्रादिबुद्धीन्द्रियपञ्चके शङ्कुकर्णं
वागादिकर्मेन्द्रियपञ्चके शब्दादिपञ्चके तन्मात्रपञ्चके
कालञ्जरमण्डलेश्वरमाकोटद्विरण्डघच्छगलण्डाद्योनिपञ्चस्थाणुस्वर्णाक्षभभृकग्
ओकर्णमहालयाविमुक्तरुद्रकोटिवस्त्रापदाख्यानि

अष्टौ भुवनान्याकाशतत्वे। भीमेश्वरमहेन्द्राट्टहासविमले
विमलेश्वरनखलनाखलगुरुक्षेत्रगधाख्यान्यष्टौ भुवनानि वायुतत्वे।
भैरवकेदार
महालमध्यार्जुनात्रादिकेश्वरजल्पेश्वरश्रीशैलहरश्चन्द्राख्याष्टौ भुवनानि तेजस्तत्वे।
लकुलीशभारभूतिडिण्डिमुण्डाषाढि(१४४ब्, १स्त्
line१४८ब्)पुष्करनैमिशप्रभासामरेशाख्यान्यष्टौ भुवनान्यप्तत्वे। एवं षट्पञ्चाशत्
भुवनानि।
एवं नामका एव षट्पञ्चाशत् भुवनेश्वराः। ट ठ ड ढ ण त थ
द ध न प फ ब भ म य र ल व श ष स ह इति त्रयोविंशतिवर्णाः। व्यापिन् व्यापिन्
अरूपन्नरूपिन् प्रथमप्रथम तेजस्तेजः ज्योतिर्ज्योतिः। अनग्ने अश्रम अभस्म्य।
अनादे। नाना नाना। धूधू धूधू। ॐ भूः। ॐ भुवः। ॐ सुवः। अनिधन। निधन।
निधनोद्भव। शिव शर्व। परमात्मन्।
महेश्वर। महादेव। सद्भावेश्वर।
महातेजः। योगाधिपते। मुमुञ्च मुमुञ्च। प्रथम प्रथम। शर्व शर्व। इति द्वात्रिंशदानि
पदानि। वामदेवशिरसी मन्त्रौ। उकारवकारौ बीजम्। गान्धा॥॥षु
॥।नास्यौ। उदानसमानौ वायू। जिह्वा वायु इन्द्रिये। रसो विषयः। शब्दस्पर्शरूपरसाः गुणाः।
शुभ्रमर्धचन्द्रम्। पद्मा कमण्डलं
स्वप्नावस्था विष्णुः
कारणेश इति भावयेत्। तदनु जानुनी निवृत्तिकलायां पृथिवीतत्वमेकं भद्रकाली वीरभद्र॥
ब्रह्मणस्योपरि॥।परद्वयं
त्रिलोचलिप्सु नभो विवाहसंवाहत्रिदशेश्वरत्र्यक्षगणाध्यक्षविभुः शम्भुरूर्ध्वे च दश।
दंष्ट्री वक्त्री पणीन्द्रोदुम्बरीश॥। (१४५अ, १स्त् line[२११ –
१४९अ])सनमारुताशनक्रोधनानन्तवृषधरवृष इत्यधो दश
बरिप्रियभूतपालभ्लेष्ठसशर्वसुरेशस्देपाङ्गज्ञानभुक्
सर्वज्ञेश विद्याधिप इतीशाने दश
प्रकामद॥।स्प्रसादश्रीधरलक्ष्मीधरन्धमू आधरसौम्यदेहधान्यरूपवान् निधीश
इत्युत्तरे दश मेघवाहनकपर्दिपञ्चशिखपञ्चान्तकक्षयान्तक
तीक्ष्णसूक्ष्मवायुवेगलघुशीघ्र इति वायौ दश।
सुनादमेघनादजलजलान्तकदीर्घबाहुजय-भद्रश्वेतमहाबल-पाशहस्तादिसबलबल इति
वारुणे
दश।
दंष्ट्रवान्लोहितधूम्रविरूपाक्षोर्ध्वशेफभयानकक्रूरदृष्टि हन्तर्मारौ नॄकीर्ति
नैऋते दश। धर्मपतिं धर्मवियोक्त्रे
संयोक्त्रृकर्तृविधात्रभरतृ॥॥। इति याम्ये दश। क्षयान्तक यान्तक
भस्मान्तसत्रदहनज्वलनहरखानकपिङ्क(ङ्ग)लहुताशनाग्निरुद्र इत्याग्नेये दश।
त्रिदशाधिपपिनाकिशास्त्रव्यधविभूतिप्रमर्दनवज्रदेहबुद्धाजकपालीश इति पूर्वे दश।
रुद्रविष्णुर्ब्रह्माटककूश्माण्डकालाग्न्याख्यषट्कम् (१४५ब्, १स्त् line१४९ब्-२११)
ब्रह्माण्डमध्ये एवमष्टोत्तरशतं भुवनानि। एतन्नामकभुवनेश्वराः। क्षकारो वर्णः।
भव भव भवोद्भ्व सर्वभूतसुखप्रद सर्वसान्निध्यकर
ब्रह्मविष्णुरुद्रपर अनर्चितानर्चित असंस्कृता संस्कृत पूर्वस्थित पूर्वस्थित साक्षिन् साक्षिन्
कुरु कुरु पतङ्ग पतङ्ग पिङ्ग पिङ्ग ज्ञान ज्ञान शब्द शब्द सूक्ष्म सूक्ष्म
शिव
सर्व सर्व। ॐ नम शिवाय ॐ नमः नमः ॐ इत्यष्टाविंशतिपदानि।
सद्योजातहृदयाख्यं मन्त्रद्वयम्। ककारलकारौ बीजे। पिङ्गले धानाध्यौ।
अपानप्राणौ वायू। घृणोस्थेन्द्रियौ। गन्धो विषयम्। शब्दस्पर्शरूपरसगन्धाः गुणाः।
पीतं चतुरश्रं वज्रं कमण्डलं जाग्रदवस्था ब्रह्मा कारणेशः
इति भावयेत्। तदनु – मन्त्रादीनां
व्याप्यव्यापकभावमनुसनदद्ध्यात्। तद्यथा। मन्त्राः पदैर्व्याप्ताः पदानि वर्णैः
वर्णानि भिवनैः भुवनानि तत्वैः
कर्मानि ॥॥तानि तत्वानि मायाभ्यां ते च मलेन मलं कलाभिरिति विभाव्य शकलाः शोधयेत्।
तदनु – शिष्यस्य नाभिकुण्डे वागीवागीश्वरौ ध्यात्वा (१४६अ, १स्त् line[२१२ – १५०अ])
समयाचाराधिकारी चेत् सबीजदीक्षया
वर्तमानशरीराम्भकधर्मादिष्टपूर्तादिकात् सानुषङ्गिकात् समयाचाराच्चान्यत् सर्वं
कर्म युगपत्परिपक्वं
कृत्वा वागीश्वरिवागीश्वरयोः संयोगं विभाव्य शिष्यात्मानं तत्गर्भे स्थित्वा युगपत्
सर्वयोनिषु जातं सञ्चिन्त्य कालत्रयव्यापि धर्माधर्मात्मकं सर्वं
कर्म युगपत् भोजयित्वा मन्त्रौषधतिरोहितविषशक्तिवत् अज्ञानप्रतिबन्धं विभाव्य
ब्रह्मादिकारणत्यागक्रमेण शिवपदे योज्य
सर्वज्ञत्वादिषाड्गुण्याभिव्यक्तिं प्रकाश्य शिवसमत्वं प्रापयेत्।
समयाचारानधिकारबा(ब)लादिश्चेत् निर्बीजदीक्षा देहारम्भकधर्मात् आनुषङ्गिका
स्वान्यत्समयाचारसहितं सर्वकर्म शोधयित्वा प्रागुक्तवत् शिव॥।मत्वं प्रापयेत्।
उभयत्रापि बुभुक्षुश्चेत् कालत्रयव्यापिधर्मात्मकं सर्वं
कर्म वर्तमानशरीरे
भोगदायकं सम्भाव्यातिरिक्तसर्वाधर्मात्मकं शोधयित्वा
ब्राह्मादिकारणत्यागक्रमेण तदभिमतस्थाने संयोज्य शिष्यमस्तके
शिवहस्तं निधाय मात्रालक्षणसंयुक्तं सकलप्रासादमुपदिशेत्। अत्रत्यविकल्पः।
सशिष्यत्वपरलोक॥॥।दीक्षितम् ॥॥क्षुश्चेत् शैवमन्त्र॥॥॥॥।(१४६ब्, १स्त्
line१५०ब्)त्प्रक्षीणमुत्कृतांशस्य इष्टापूर्तादितत्परस्य तस्य साधकस्य देहान्ते
निरतिशयाणिमादिसिद्धिं प्रापयेत् न तु पातजल्यादिप्रणीतशास्त्रसिद्धयोगिनां साधनाः
सिद्धयः।

यदुक्तं श्रीमन्मृगेन्द्रे –   

भोगभूमिषु सर्वासु दुष्कृतांशे हते सति।
देहोत्तराणि माद्यर्थं शिष्टेष्टालोकधर्मिणि॥ इति।
अत् सदा तदभिप्रेतभुवनेश्वरेषु
यो॥।त्वा क्रियते तदा यस्य यो यावानध्वा यवती व्याप्ति तदन्तस्तन्मध्ये तद्भुवनेश्वरे
तच्छक्त्यासहितमुपस्थाप्य तद्वाचकमन्त्रं नादान्तमुच्चार्य
दुष्कृतामशेहत इति पूर्वमुक्तत्वात् कष्टमशुभभोगात्मकमस्पृशं कष्टस्थितस्थाने
शिष्यात्मानं योजयेत्। तत्तत् ॥॥॥॥॥॥।संयोज्य तद्धर्मापादन॥।कुर्यात्।

तद्गतान् सर्वज्ञतादीन् गुणानापादयेदित्यर्थः। अथ तथाविधभोगानन्तरं मुमुक्षुश्चेत्
परलोकधर्मिण्या दीक्षितस्य तस्य भोग्यतया धामकाश्च न
भाविन्यस्तांशसर्वासु दुष्कृतांशे नष्टे शुभकर्मांशे व्यवस्थापिते ता॥॥भमिषु
भुक्तभोग्यस्य देहोत्तरकालं तस्य मुक्त्याकाङ्क्षिणः शिवप्राप्त्यर्थं
परमेश्वरं शतमात्मानं योजयेत्। यदुक्तं तत्रैव –
लोकधर्मिणमारोप्य मते भुवा कर्तरि।
तद्धर्मापादनं कुर्यात् शिले वा मुक्तिकाङ्क्षिणम्॥ इति। (१४७अ, १स्त् line[२१३अ - १५१अ])
अत्रोक्तभुवनेस्वराः गौरीभास्करादयः।
यदुक्तं तत्रैव –
एवमेवाम्बिकासूर्यस्मरविष्णुप्रजासृजाम्।
सायुज्यं भक्तिमान्नेयः तदध्वनि विशोदिते॥
मार्गस्थानं परेषां च देवानामेवमेव हि।
परस्यां सोत्तरोपायो लौकिक्यामिष्टचेष्टितम्॥ इति।
तदर्थ(र्ध)स्तु प्रागुक्तेनैव क्रमेण च गौरी रवि मनोभव
केशवब्रह्मणामन्येषां च मार्गस्थानामध्वमध्वे व्यवस्थितानां देवानां
भक्तिमान् दीक्ष्यं तस्मिन्नध्वनि विशोधिते सति तत्तत्सायुज्यं प्रापणीयः
इत्यपरलोकधर्मिणीविषये।
अथ परलोकधर्मिण्यां प्रागुक्तायां मुक्तिकामित्वेन शिवसायुज्यरूपायां सोत्तरोपायस्सन्
भक्तिमान् सायुज्यकेयः।

उत्तरोपायो समयाचारोल्लङ्घनप्रत्यवायनिराकरणविधिनासह निरपेक्षा दीक्षयायुक्तः
शिवसायुज्यं प्रापणीय इति यावत्। अत्र
लोकधर्मिणीमिन्धो कशन्देन कदाचित् शुद्धविद्याया अर्वाक्तनस्य भुवनस्य
सदाशिवभुवनस्य वान्धोको ज्ञातव्यः। अथापरकोष्ठेषु भौतिकदीक्षया दीक्षितस्य
भुक्षुश्चेत् यत्र यत्र
भुवने भोगाभिलाषस्तत्रतत्र
तद्देहयोग्यभोगार्थमिष्टविग्रहे संयोगः कार्यः। कर्माप्यारम्भकार्यदेहिनो जन्तोः
शरीरपातसंरक्षार्थं (१४७ब्, १स्त् line१५१ब्) समयाचारपारनेन ॥॥॥रक्षयेत्। तस्यातिरिक्तं
सर्व कर्म भयो भयः फलानु ॥॥। ज्ञानाग्नौ दहेत्।
अन्यत् कर्म कर्वं नैष्ठिकदीक्षाविधिवत् कार्यम्। अथ परभौतिकदीक्षया दीक्षित॥॥क्षुश्चेत्।
क्षित्यादिमायान्तपदौ भवपदस्य कषस्य
शुद्धविद्यादीश्वरान्त
पदस्याभवपदस्याकषस्यान्ते सादाख्यतत्वे सदाशिवे योगमथार्यः। यदुक्तं तत्रैव
श्रीमृगेन्द्रे –
एपमेव क्रियायोगात् भौक्यपि परा परा।
किन्तु देहावियोगार्थं प्रारब्धं कर्म देहिनः॥
शैवसाधकसाध्येन सन्धाय परिपालयेत्।
सानुबन्धं दहेदन्यदीप्ते दीक्षा हुताशने॥
कष्टाकष्टपदान्तस्थे साध्यके पञ्चकेश्वरे।
योगो व्याकिकदेशिन्यामन्यस्यामिष्टविग्रहे॥
अथापरनैष्टिकदीक्षया दीक्षितबुभुक्षुश्चेत्
पुरुषार्थप्राप्तिहेतुतया देहभङ्गव्यतिरेकेण स्वेच्छापनिग्रहीतदिव्यशरीरस्सन्
भूभोगभूमीनामा विषयं यथेष्टं भोगं कृत्वा तदनन्तरं शिवसमयतां
प्राप्तुमिच्छालोभत्वप्रमतौ ॥। तत्सन्तां प्रापयेत्। सदाशिवभुवनादयो
भुवनभोगानन्तरं सदाशिवसमतामुत्प्राप्यमिति यावत्। (१४८अ, १स्त् line[१५२अ – २१४])
एतदपरनैष्ठिकदीक्षा यागाभ्यासादौ चित्तविषयेति न तु निर्बीजिकाख्या। तदेवं
दीक्षापञ्चकेन सबीजनिर्बीजभेदेन यथायोग्यं दीक्षित बुभुक्षुश्चेत् कण्ड
प्रागुक्तवत् तत्तदभिमतस्थाने शुद्धविद्यातत्वादयो भुवनेषु ईश्वरतत्वान्तभुवनेषु वा
संयोज्य शिष्यमस्तके शिवहस्तं निधाय मात्रलक्षणसंयुक्तं
सकलप्रासादमुपदिशेत्। तथाविधदीक्षा
दीक्ष्यभोगानन्तरमुमुक्षुश्चेत् तथाविधकर्मशोधनानन्तरं
पूर्ववदज्ञानप्रतिबन्ध्यं विभाव्य
ब्रह्मादिकारणत्यागक्रमेण सदाशिवतत्वे सदाशिवसमक्षमनत्ये योजयित्वा शिष्यमस्तके
शिवहस्तं निधाय मात्रलक्षणसंयुक्तं निष्कलप्रासादमुपदिशेत्।
निर्बीजसहजभेदपरनैष्ठिकदीक्षा दीक्ष्य मुमुक्षुश्चेत् तस्य सर्वत्र भोगानपेक्षया
प्राप्तवत् सर्वज्ञत्वादिषाड्गुण्याभिव्यक्तिं
प्रकाश्य षडाख्यतत्वे
सदाशिवसमक्षं प्रापयेत्। उपरिक्रिया तद्वत् तदमीक्षा दीक्ष्य नैष्ठिको
लौकिकाचारविमुखः शिवकर्मानुष्ठानमात्रतत्पर इति। एवं शिवदीक्षासु
यागादीनामङ्गानां (१४८ब्, १स्त् line१५२ब्) कारकाणां तु स्वत्वेऽपि
शिष्यागगवर्ममेदृक्विधदीक्षा क्रियतामिति गुरुशिष्ययोरभिसंवाहे भेदेन भिन्नत्वादेताः
सर्वा दीक्षाः भिन्नफलप्रदाः।
यदुक्तं श्रीमृगेन्द्रे –
एताः कारकसाध्येऽपि भिन्नार्थप्रतिपादकाः। अभिसन्धिकृतात् भेदात् देशिकोक्तमशिष्ययोरिति।
एतत् सर्वं मन्दभेदमन्दमन्दभेदतरादिशक्तिनिपातयुक्तविषयम्।
अथ तीव्रं मन्दमन्दतरादिविषये तु केवलं ज्ञानवत्मना ज्ञानदीक्षा कार्या। तद्यथा –
अथ शान्त्यतीतकलास्थित इव न पर्यन्तगत भोगानपेक्षिततीव्रभेद

शक्तिनिपातयक्तश्चेत् तं शिष्यमाचार्यः मुहूर्तं परमानन्दे निमग्ना भूत्वाभ्यन्तरं
पराशक्तिमयो भूत्वा चक्षुषी उर्वस्य प्रारब्धकर्म ॥॥।
षु मानं दृष्ट्यवलोकनेनाग्निना नियुक्त्यादिकलांशस्थं सञ्चितं सर्वकर्म दाहयित्वा
मन्त्रपदवर्णभुवनतत्वानि क्रमेण कलासु प्रागुक्तवत् संयोज्य
कलापञ्चशक्तिषु योज्य हस्त मस्तके संयोगेन मायाद्वयं
विसर्ज्याणवमलावृतस्य ना॥।ग्रन्थस्य चहवत् स्थितस्यात्मनो मलं
ज्ञानप्रियाशक्त्यादिशपशा(१४९अ, १स्त् line[१५५अफ़्तेर् १५२ १५५ – २१५]) पसाश्याद्यनं पराशक्त्यां
योज्य पुनरात्मानमपराशक्तिश्चाट्यैतरूपे परशिवे नदीसमुद्रजलवत् क्षीरे क्षीरवत् घृते
घृतवत् योजयेत्। तदनु –
जीवपरयोरैक्यं प्रासादेन पञ्चाक्षरेण वा दर्शयेत्। एवं योजितमात्मानं
प्रारब्धकर्मभोगार्थं देहे स्थितत्वात्
पञ्चभूतपञ्चेन्द्रियान्तःकरणबाधानिवृत्यर्थं
समाधिसामर्थ्यसिद्ध्यर्थं च ब्रह्मरन्ध्रचक्षुर्हृदयभ्रूमध्यात्
शिवशक्तिस्वरूपपादद्वयेन संस्पृशेत्। ब्रह्मरन्ध्रस्याकाशस्थानत्वादितरेषां
चतुर्णां तदन्तर्भूततया तत्संस्पर्शेण भूतशुद्धिः तत्शुद्ध्या
तदाशयतन्मात्राशुद्धिश्च। अथ जाठरेन्द्रियेषु चक्षुषः प्राधान्यतया तत् शुद्ध्या

तदन्येषां चतुर्थ्यां शुद्धिः। तथा ज्ञानेन्द्रियशुद्ध्यातः सापर एव कर्मेन्द्रियशुद्धिश्च।
हृदयस्यान्तकरणस्थानत्वेन तद्वशात् अन्तःकरणशुद्धिः।
भ्रूमध्यस्य समाधिस्थानत्वात् तत्संस्पर्शेन समाधिसिद्धिः। तदनु –
गर्भाधानादिसंस्कारेषु तत्तदाश्रमावधि ज्ञानेन संस्कुर्यात्। ततः शिष्यः उत्थाय गुरुं
प्रदक्षणीकृत्य
नमस्कृत्य स्तुत्वा
शरीरमथमात्मनं च जलसहितं गुरवे दत्वा ज्येष्ठानपि वर्णाश्रमानुगुण्येन
नमस्कृत्य गुरुपादोदकं पीत्वा ज्ञानप्रदं प्रसादं च
किञ्चित् स्वीकृत्य प्रभाते कृतनित्यक्रियः सन् गुरुं ज्येष्ठान् शिवभक्तान् ब्राह्मणांश्च
भोजयित्वा पश्चात् गुरुभुक्तशेषं भञ्ज्यात्।
ततः शिवागमं शिवज्ञानबोधादिकं गुरुमुखात् श्रुणुयात्। इयमेव ज्ञानदीक्षा
शाम्भवीभेदा॥।णवती
दीक्षेति ज्ञेया। उक्तार्थे सम्मतिः।

श्रीमद्रौरवे –
मनोभावनदीक्षायाः किञ्चिन्मात्रं विशिष्यते।
ज्ञानाचार्येण कर्तव्या या सा ज्ञानवती मता॥
चर्यादिज्ञाननिपुणेशः सोऽहं भावकात्मको गुरुः।
तद्गुरुं शिष्य आगत्य संसारे जन्मसागरे॥
मलबन्धत्रययुक्तं सुखदुःखादिवेदने।
निमग्नं मूर्च्छितं मुढमधुना तु कृपानिधे॥
अनेकजन्मसुकृतं तवपादाम्बुजे गतम्।
शरणागतमात्मानं रक्षस्वरपरमेश्वर॥
इति विज्ञापयेच्छिष्यो भक्त्या चैकाग्रचित्ततः। (१५०अ, १स्त् line[१५६ - २१६])
एवं शिष्यं गृहीत्वा तु वाङ्मनः कायकर्मभिः॥
षण्मासे वत्सरे वीक्ष्य तस्य शक्तिनिपातनम्।
धारणं ग्रहणाशक्तिं साधनं गुह्यदर्शनम्॥
ज्ञानरूपमपि ग्राह्य बोधयेन्निश्चलं गुरुः।
देशस्थानं च कालं हि कर्मभावनदर्शनम्॥
सदाचारमनुष्ठेयं क्रमात् बोधं मम शृणु।
तीर्थभूमिनि शिवोत्कृष्टे तद्देशे नद्यमन्वितम्॥
नदीतीरे मठे वापि स्वस्थाने गुरुमन्दिरके।
पर्वताग्रे शुचिस्थाने मण्डपं तत्र कारयेत्॥
परीक्ष्य चतुरङ्गुल्या चतुर्हस्तस्य देविका।
चतुर्द्वारसमायुक्तं चतुस्तोरणसंयुतम्॥
दुकूलचित्रपटैश्च मुक्तादामैरलङ्कृतम्।
ऊर्ध्वं विमानकं कुर्यात् पुष्पदामैः सुगन्धिभिः॥
गोमया लेपनं कृत्वा पञ्चगव्येन प्रोक्षणम्।
स्थानमित्युक्तमाश्रित्य कालं कल्पितमेव च॥
शुभनक्षत्रयुक्ते तु दीक्षा कार्यास्य तद्दिने।
ज्ञानदीक्षा समायुक्तं जेष्ठं कृत्वा पुरोहितम्॥
पुरोदिने त्वेकभुक्तं तद्रात्रौ गव्यमीरितम्।
पुनर्दिनं कूपवसन् स्नानशौचसमन्वितः॥
तद्दिने मध्यरात्रौ तु ज्ञानदीक्षामवाप्नुयात्।
अशुद्धमायास्वरूपं कालरात्रिरुदाहृता॥
मायातत्वान्तिकस्थाने चिद्रूपं दर्शयेत् क्रमात्।
चिद्रूपं शुद्धमायान्ते वातनिश्चय एव हि॥
मायाद्वयोर्विलयनमेकाकारस्य भावनम्।
तिरोधानातिरोधानं निर्दशनमु(म)दर्शनम्॥
एतैः संयुक्तकाला तु कालरात्रिर्विशिष्यते।
क्षयकृत्यार्धरात्रीति निशि स्यान्नित्यसंहृतिः॥
देहेन्द्रियस्य व्यापारो रात्रौ संलीयते यतः।
निशासु दीपकालं वा ज्ञानदीपस्य दर्शनम्॥
एतेन शास्त्रविदुषां रात्रिः कालोत्तमो भवेत्।
तत्काले मण्डपे वेश्य गन्धपुष्पादिषौडशैः॥
पूजाद्रव्याणि सम्पाद्य उत्तराभिमुखस्थितः।
भूतशुद्ध्यात्मशुद्ध्यादि कृत्वा चार्घ्यादिकं तथा॥
चतुस्तालस्य दीर्घं स्यात् षट्त्रिंशाङ्गुलमुन्नतम्।
गन्धानुलेपनं कुर्यात् विधिवत् कु(गु)प्तमासनम्॥
क्षित्यादिकुटिलाप्रान्तं मन्तरूपं समर्चयेत्।
गन्धोदकेन सुस्नातं रत्नभट्टाम्बरान्वितम्॥
अष्टत्रिंशत्कलान्यासस्योऽहं भावनयान्वितम्।
ज्ञानदेशिकमास्थाय दिव्यपादाम्बुजं ग्रहेत्॥
शास्त्रोपचारद्रव्येण चाभिषिच्य पदद्वयम्।
शुक्लवस्त्रेण सम्मृज्य कुमुदानि समर्पयेत्॥
भूर्जपत्रे शिवा॥॥ सुगन्धेनानुलेपिते।
प्रणवं च विलिख्याथ तस्य मध्ये नगे लिखेत्॥ (१५१अ, १स्त् line[१५७ – २१९])
तिरोधानमलस्यज्ञात्वा गुरुपादा संरक्षयेत्।
नानादिव्यसुगन्धैश्च पुष्पदामैश्च पूजयेत्॥
धूपदीपौ समारोप्य स्थालीपाकं निवेदयेत्।
दक्षिणामूर्तिरूपेण गुरुं शिष्यं तु भावयेत्॥
इदं हि भावं शिष्यस्य गुरोः पाशविमोचने।
शिष्येण कृतां पूजां श्रद्धया च समन्विताम्॥
दक्षिणामूर्तिरूपेण गृह्णीयाद्देशिकोत्तमः।
स्वीकृत्य तादृशीं पूजां शिष्यपाशं विमोचयेत्॥
शिष्यदेहे यथायुक्तभूतस्थानेषु देशिकः।
मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनानि च॥
कलाध्वा चेति षट्भे(ड्भे)दात् अध्वानो व्याप्तिभिः सह।
प्रवेश्य संसृति क्लेशहेतुभूतमथाध्वरे॥
बन्धकर्म तथा छित्वा ज्ञानेन निशिताशिना।
ज्ञानिनामध्वनः शुच्याः शोधयेद्विधिना गुरुः॥
तीव्रशक्तिमुहूर्तं परनिपातेन युक्तं शिष्यं स देशिकः।
मुहूर्तं परमानन्दे नित्यग्नो हुत्वाभ्यन्तरम्॥
पराशक्तिमयो भूत्वा पश्वर्थे पाशनिवृत्तये।
महामायात्मिकां कृत्वा शिष्यचैतन्यरोधिकाम्॥
आणवीं तस्य तां शक्तिमनुसन्धाय चक्षुषा।
दृष्ट्या ततस्तु चैतन्यं पृथक्कृत्वा सुधाकरम्॥
राहुमुक्तमिवातीवरुद्धं शिवपदोचितम्।
योजयित्वानुसन्धानं पशुचित्तस्य तस्य हि॥
जलं जले यथा क्षिप्तं क्षीरे क्षीरमिवार्पितम्।
पूरिततयोरैक्यं कृत्वा च सरित्तोयमिवाम्बुधौ॥
मात्रालक्षणसंयुक्तं प्रासादमनुना सह।
विधाय त्रिपदार्थानामुपदेशं यथाविधि दीक्षानाम यथा युक्तं कल्पयेत्तस्य देशिकः।

ततस्त्वभिमुखं शिष्यं कृत्वा पादद्वयेन च।
शिवशक्तिस्वरूपेण मूर्धादौ विन्यसेद्गुरुः॥
पृथिव्यादिभूतसञ्चार आकाशगुण उच्यते।
आकाशब्रह्मरन्ध्रे च निर्दह्यः कर्म नाशनः॥
ज्ञानेन्द्रियाणां सर्वेषामधिका चाक्षुषी भवेत्।
तस्मात् दृष्टिद्वयं चैव युग्मपादस्पृशो भवेत्॥
कर्मेन्द्रियार्जितं दण्ड्यं ज्ञानेन्द्रियस्य कर्मणि।
मनोबुद्धिरहङ्कारं सर्वेन्द्रियप्रवर्तकम्॥
तस्य कर्म च दग्धं च हृद्देशे तु स्पृशेत्प(त्स)दा।
पुनरागत्य भ्रूमध्यमात्मनः सोहमाप्नुयात्॥
प्रारब्धमलनाशार्थम् एवं कृत्वा स देशिकः।
स्वस्थाने पादमाहृत्य प्रणतं दण्डवत् पुनः॥
गर्भाधानादिसंस्कारेषु तत्तदाश्रमकावधि।
ज्ञानसंस्कारतः शिष्यं शिवं कृत्वा निरामयम्॥
शिवज्ञानबोधशास्त्रं च दद्यात् पत्यादिचिन्तनम्।
अनुग्राह्यस्तु यः शिष्यो वाङ्मनःकायकर्मभिः॥
शरीरमर्थं प्राणं च नेxत् leaf नो चोन्तिनुत्य् ( ब्रोकेन् मर्गेन् नो नुम्बेर्)[१५८अ १स्त् line –
(२१९[२])]
जलपूर्वं गुरोः करे निवेद्य सुस्थितं शिष्यं यद्यद्देहान्तिकं तव।
मदीयमेव तत्सर्वं मत्वार्थं विचरेः सदा।
इत्युक्तं तं गुरुं शिष्यः प्रणतिं कारयेत्त्रयम्॥
संहृदि क्लेशसन्तापं हन्तुं न स्वमिहेशिषे।
न परोऽस्ति कृपामूर्ते पाहि मां देशिकेश्वर॥
इत्यभिषु(ष्टु?)त्वा नत्वा च गुरुपूजां समापयेत्।
ततो दीक्षाविशुद्धात्मा ज्येष्ठानपि कृताञ्जलिः॥
गुरुपादोदकं पीत्वा तत्प्रसादं च स्वीकरेत्।
ततः प्रभाते शिष्यस्तु कृतनित्यक्रियान्वितः॥
सम्पूज्य स्वगुरुं पश्चात् गुरुजेष्ठादिकानपि।
भोजयित्वाथ शेषान्नं भुञ्जीयात् साधकोत्तमः॥
ततः सान्तानिकैःसार्धं शिवज्ञानं विचिन्तयेत्।
ज्ञानदीक्षा समाख्यात् दीक्षोत्तरविधिं शृणु॥
इति।
इति तीव्रशक्तिनिपातयुक्तस्य। अथ परतत्वे संयुक्तात्मनः
प्रारब्धकर्मभोगार्थं पुनरपि मायिकेन देहेन सम्बन्धे
हिताहितरूपस्यागामिकर्मसम्भवार्थतत्फलभोगार्थं पुनब्रह्मनन प्रसङ्गस्यादिति चेत्।
न। शिवेन संयुक्तत्वादधमात्मा आगामिककर्मेण न लिप्यते तेन न
॥।जाननं किं तु शिवसायुज्यमेव प्राप्नोतीति।
यदुक्तं तत्रैव रौरवे – दीक्षोत्तरविधौ ः-
एवं दीक्षा विरधाक्या देहः सोऽपि न देहभाक्।
निर्दग्धा शेषपक्वार्जवं मुक्तः शिवैकधीः॥
देहपाते चिदानन्दं शिवैकरसतां व्रजेत्।
न पुनर्भेदमायाति सरित्तोयमिवाम्बुधौ॥
यथा सूर्योदयं प्राप्य तमः क्षिप्रं विनश्यति।
एवं भिक्षां समासाद्य धर्माधर्मौ विनश्यतः॥ इत्यादि। अन्यत्र च।
एवं शैवाध्वरं प्राप्य दीक्षामन्त्रसमुद्भवम्।
न पुनर्जायतां याति दीक्षितो मनुजोत्तमः॥
भिन्ने देहे शिवो भूत्वा शिवधर्मैः समन्वितम्।
शिवानन्दमनुप्राप्य चाविभागा च कल्पते॥
भवादि ॥।किञ्च।
अर्थप्राणाभिमानानि यत् गुरुभ्यो निवेदनात्।
स्वतन्त्ररहितश्चापि समयाचारकल्पितः॥
निर्दग्धपटवद्देही वाङ्मनः कायकर्मभिः।
निस्सारदेहं सङ्गृह्य शुद्धकृत्येन तुष्टितम्॥
लोलचक्रभ्रमण*॥॥।र्वाणसमन्वितम्।*
संस्कारेण ॥॥॥॥॥॥नं पात्रं परिमलं भवेत्॥
॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥तत्कृत्यनिष्ठोऽपि पिनर्जन्म न विद्यते।
इत्यादि (१५९अ, १स्त् line[२२०]) अथायंशब्दादिविषयानुभवत्वसम्बुद्धोऽपि तस्य न बन्धः।
यदुक्तं श्रीमत् शिवधर्मोत्तरादौ –
वाव । पाप इन्द्रबलोपेतः त्रिधन्सर्पै॥॥भ्राम्यते।
क्रीडं न दृश्यते ज्ञानी तद्वदिन्द्रियं पन्नगैः॥
पद्मपत्रं यथा तोयैस्तत् स्थैरपि न लिप्यते।
शब्दादिविषयाम्बोभिस्तद्वत् ज्ञानी न लिप्यते॥
मन्त्रौषधबलैर्यद्यन् मर्ज्यते भक्षितं विषम्।
तद्वत् सर्वाणि कर्माणि सूर्यतेजानि नः क्षणात्॥
क्षारोदधिस्थितं मत्स्यं भारभावं न भजत।
तद्वत् योगी च विषये न लिप्यत शुभाशुभैः॥ इति।
॥ ददेवं ज्ञानदीक्षाविधिः समाप्तः ॥
॥ शुभमस्तु ॥

ज्ञानज्ञो यां ज्ञानिने ॥॥॥॥॥॥॥॥॥ वचनं श्रीमच्चिन्त्यविश्वसादाख्ये विशेषं दीक्षाविधौ।
द्विजभोजनसंरद्धौ गर्भाधानाय पुङ् कृतौ।
सीमन्तोन्नयने चैव जातकर्मणि नाम च॥
होमयेन्मूलमन्त्रेण पञ्चब्रह्म शतं शतम्।
निष्क्रामेण तथान्नस्य प्राशने चौलकर्मणि॥
उपनीतौ व्रतादे ॥ गोदाने स्नानकर्मणि।
विवाहे वनवासित्वे यतित्वे नन्दिकेश्वर॥
पञ्चांशं मूलमन्त्रेण प्रत्येकं होममाचरेत्।
चतुराश्रमनिष्ठेषु तत्तदा॥मकावधि॥
संस्कारं कुर्यादेवमतूर्ध्वं न कारयेत्।
गृहस्थारण्यवासिभ्यं यतित्वं च विशेषतः॥
पूर्ववन्नवमात्रेण जुहुयाद्देशिकोत्तमः।
इति
क्रियासंस्कारविधानन्तरम्
शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं तु यत्।
आत्मनो रुद्रपुत्रत्वं गर्भाधानं तदुच्यते स्वातन्त्र्यादिगुमव्यक्तिम् तथा पुंसवनं
भवेत्।
मायात्मको विवेकेन ज्ञानं सीमन्तवर्धनम्। शिवादिसदसद्वस्तुस्वीकारो जननं भवेत्।
बोधनं यच्छिवत्वेन शिवत्वार्हस्य नाम तत्। शिवत्वस्य
प्रवेशो हि निष्क्रामाणमितीर्यते। परमानन्दभोक्तृत्वमन्नप्राशनमुच्यते।
शिवप्रसादोत्कर्षं तु यत्तत् ॥। करं भवेत्।
निर्वाणज्ञानसूत्रेण
सम्बन्धमुपवीतकम्। इन्द्रियाण(णां) च संशोधो व्रतादेश इति स्मृतः।
पुनर्जन्मपरित्यागो गोदानमिति कीर्तितम्। सर्वेषु निरपेक्षत्वं सद्भावस्नान (नेxत् १६२ leaf –
१६०-१६१)
नो चोन्तिनुत्य् (१५३अ, १स्त् line[१६२अ])
सिदेहेअदिन्ग् शिवसन्यासिनः आचार्याभिषेकविधिः।
सन्यासी त्रिवर्णकश्चेत् जटाबध्नीयात्। चतुर्थश्चेज्जटा न शूद्रो बिभृयादित्यादिवचनात्
वपनमेव कुर्यात्। शूद्रस्यैका जटेत्यादिवचनं
नैष्ठिकविषयं ब्रह्मचारिविषयम्।
तथोक्तं शिवधर्मे –
जडीमुण्डीशिखी वापि भिक्षाशी विगतस्पृहः।
मौनीभूत्वानुकम्पा च यतिः शान्तमथाचरेत्॥
यः सर्वसङ्गिनिर्मुक्तः शूद्रः शिवपरायणः।
सोपीह वपनं कृत्वा योगीन्द्रानुपरो भवेत्॥ इति

किरणे –  

ब्रह्मचर्यादयुक्तश्चेत् गृहस्थाश्रममाश्रयेत्।
वानप्रस्थाश्रमस्थोऽपि गृहस्थानात्ततोऽधिकम्॥
वानप्रस्थाश्रमस्थानात् स नीडी तु विशिष्यते।
एतेषामपि सन्यासो योग्यो मुक्ते विधीयते॥
सन्यासाश्रममत्यन्तमुत्तमं दीक्षितं भवेत्।
तस्माद्व्रतिनं मुक्तेस्तु नास्ति कैवल्यकारणम्॥ इति।
तीर्थयात्रा मृगोर्वातः सन्यासोग्न्यम्बुवेशनम्।
महापथप्रवृत्तिं च मौर्ख्यं चानशनादिकम्॥
इत्यादि पशुवत् कर्म दीक्षितो न समाचरेत्।
इति वैदिककर्मनिषेधपरत्वात् तत्र विहितकर्म सन्यासनिषेधपरं सन्यास इति
वचनम्। अत एव।

अचिन्त्यविश्वसादाख्ये –
प्रवृजेत् ब्रह्मचर्येण प्रवृजेच्च गृहादपि।
वनाद्वा प्रवृजेद्विद्वान् इत्यादिविहितम्॥ ॥॥॥

ननु ज्ञानरत्नावल्याम् –  

द्वावेवाश्रमिणौ शैवे गृहस्थब्रह्मचारिणौ।
लोकानुग्रहकर्तारौ परिव्राट्तापसौ न हि॥
इत्यादिवचनान्निषेधत्वात् कथं (१५३ब्, १स्त् ल्line[१६२ब्]) सन्यासिनः आचार्याभिषेकमिति चेत् न।
तन्निषेधस्य अग्निकार्यसहितक्रियादीक्षापरत्वात् ज्ञानदीक्षायां विहितत्वाच्च।

ज्ञानरत्नावल्याम् – तथा च गुरवो ज्ञेया सन्यस्तानां स्वदर्शन।
इति।

किरणे – सन्यासाश्रममत्यन्तमुत्तमं दीक्षितं भवेत्। इति।  

अचिन्त्यविश्वसादाख्ये – यतीनामनपेक्ष्यैव शिवाग्निविधिरीरितः।   
			 तस्माद्यतेश्च कर्तव्यं शैवमार्गे   

विशेषतः॥
आचार्याणां च मध्ये यदी(ती)नां
किञ्चिदन्तरम्।
परहंसयतीनां च तपस्सन्यासिनश्च
ये॥
अनयोरग्निगार्ये सु योग्यत्वं न
विधीयते।

होमं विना तयोरेव अभिषेकौ
विधीयते॥ इति।
तत्रैव।
आचार्यौ द्वौ समाख्यातौ विरक्तः प्रथमो भवेत्।
भौतिकस्तु द्वितीय स्यात् प्रथमे तौ विशेषकौ॥
आजन्मब्रह्मचारी च यतिश्च तदनन्तरम्।
एवं द्वयं तु प्रथमे द्वितीये तु द्वयं भवेत्॥
गृहस्थो वानप्रस्थश्च द्वयमेव समीरितम्।

स्कन्दपुराणे –   
	ईश्वर ऊच –  

चत्वारा आश्रमाः प्रोक्ताः पृथगाचार्यलक्षणाः।
तेषां चतुर्णां चत्वारो मुनयोप्यवतारकाः॥
दधीचो गौतमोऽगस्त्यो दुर्वासाश्च यथाक्रमम्। इत्यादि।
आचार्यलक्षणमाह –
अचिन्त्यविश्वसादाख्ये –
शिष्याणां गुणदोषेषु विज्ञानी च जितेन्द्रियः।
रागद्वेषविनिर्मुक्तः ॥॥शक्तियुक्तश्च विवाह इति कीर्तितम्॥ (१५४अ, १स्त् line[१६० – २२१])
अनन्तशक्तिविस्लेषो वानप्रस्थत्वमिष्यते।
केवलं शिवसद्भावो यतित्वमिति निर्दिशेत्॥
शिखा सा ॥
॥॥॥॥।सन्त्यजेत्यतिनं प्रति।
तत्सर्वासु च दीक्षासु निर्वामादिषु चाचरेत्॥ इति। अथ -

चाक्षुषी स्पर्शदीक्षा च वाचकी मानसी तथा।
स्त्री च इमि चाक्षुषादिसङ्क्षिप्तज्ञानदीक्षा पञ्चसु आणवनिर्वाणज्ञानदीक्षायाम्। मुहूर्तं
परमानन्दमग्नो भूत्वाभ्यन्तरम्। पराशक्तिमयो भूत्वा
पश्येत् पाशनिवृत्तये। इति चाक्षुषी।
ततस्त्वभिमुखं शिष्यं कृत्वा पादद्वयेन च।
शिवशक्तिस्वरूपेण मूर्धादौ विन्यसेद्गुरुः॥ इति स्पर्शदीक्षा।
मात्रालक्षणसंयुक्तं प्रासादमनुना सह।
विधाय त्रिपदार्थानाम् उपदेशं यथाविधि॥ इति वाचकीदीक्षा। मानसीति भावनादीक्षा। सा तु

मानसंस्कारतः शिष्यं कृत्वा निरामयमिति आत्मानं शिव इति निर्मलीकरणेन सिद्ध्या।
अथवा चाक्षुषीं गर्भदीक्षा वाचकीति त्रिविधदीक्षास्वपि मानसीदीक्षा सम्भवति
तदन्ते शिवभावनया निर्मलीकरणसम्भवात्। अत एव श्रीमत् शिवज्ञानसिद्धौ –

ரெங்கிய வாரணமாமை மீனடைஞ்சினையை யியலாலேடு பரிசித்தும் நனைந்து மலராததும்
பரிந்திவைதானாக்குமாலந சிவமேயாதகும் பரிமுத்துஞ்சிந்தித்ததும் பார்த்துந்தானெ எனவருவதூம்।

अथ त्रिपदार्थानामुपदेशं यथाविधि इति शिवज्ञानबोधशास्त्रं च
दद्यादिति च शास्त्रदीक्षा सिद्धा।
एवं शाम्भव्यां च श्रीकामिके।
गन्धपुष्पकरं स्पृष्ट्वा शिष्यमूर्ध्नि कारयेत्। इति स्पर्शदीक्षा।
श्रीमत्सूक्ष्मे तु –
पञ्चमलं क्रमाद्दग्धं श्रपादस्थापनात्ततः।
इति स्पर्शदीक्षा।
मूर्धादिपादपर्यन्तं ज्ञानदृष्ट्या निरीक्षयेत्॥ इति चाक्षुषी। सूक्ष्मतन्त्रोपदेशयेदिति वाचकी।
मन्त्रं च पदवर्णं च भुवनं तत्वमेव च।
कला चात्मा यथाशुद्धिं तस्य जन्म न विद्यते॥
एवं निर्वाणसंयुक्तं तस्यान्ते ज्ञानदीक्षयेति भावनान्तदीक्षा निर्मलीकरणात्। अथवा
स्पर्शाद्युक्तभावनादीक्षा सिद्धा। दशकार्यक्रमेणैव तद्धिष्ट्यं
बोधयेदिति शास्त्रदीक्षा एव ॥॥। शास्त्रविधाने पूजितव्यम्। (नो १५५, १५६अ, १स्त् line{नो चोन्तिनुत्य्}
[१६३अ – २२२])
…………………॥कृपरणसमन्वितम्।
समैयानां च सर्वेषां ज्ञानसारपरिग्रही॥
शिवानुभूतिसंयुक्तः संशयच्छिदसंशयः। इत्यादि स्वच्छन्दभैरवे।

यस्यानुभवपर्यन्ते बुद्धिस्तत्वे प्रवर्तते।
यस्यावलोकनाद्यैश्च परानन्दोऽभिजायते॥
गुरुं तमेव वृणुयान् नापरं मतिमान्नरः। इति।
एवं भूतमधिकारिणमभिषिञ्चेत्। अत्र कर्म
अचिन्त्यविश्वसादाख्ये –
होमं विना तपोरेवमभिषेकौ विधीयते।
पूर्वोक्तगुणसंयुक्तं पूर्वदीक्षासमन्वितम्।
श्रतं ज्ञानोपपन्नं तमाचार्यं गुरुसंयुतम्॥
तमुद्दिश्याभिषेकं च विदध्यान्नन्दिकेश्वर।
एवं सम्पूर्णवत् पूज्यं मण्डपादि च पूर्ववत्॥
स्तण्डिलोपरि कुम्भांश्च प्रथमं शिवकुम्भकम्।
वर्धनीं तस्य वामे तु विन्यसेच्छक्तिमन्तितम्॥
विद्येशान् च कलशात् तस्य बाह्ये तु विन्यसेत्।
पञ्चभिस्त्वौषधैर्वापि दशपुष्पैश्च रथापि वा॥
सहदेव्यैकपत्रं तु भद्रं वैकङ्कतं तु वा। इत्यादि।
॥ एतानि नैष्ठिकाचार्यवर्याय प्रददेदित्यन्तम्। अचिन्त्यविश्वसादाख्ये प्रसिद्धम् ॥

श्रीमन्मकुटे विभूतिधारणविधौ –
ब्रह्मा विष्मुश्च रुद्रश्च त्रिपुण्ड्रस्याधिदेवताः।
मस्कते च ललाटे च ग्रीवायां कर्णयोस्तथा॥
उरस्थले च बाहौ नाभौ पृष्ठे तथैव च।
ऊर्वौ च जानुनोश्चैव पादयोश्च क्रमान्यसेत्॥
ब्रह्मरन्ध्रे स्वयं ब्रह्मा सुब्रह्मण्यो ललाटके।
कर्णे विनायको देवो नेत्रयोस्सूर्यसोमकौ॥
बाह्योरिन्द्रश्च विष्णुश्च हृदये च तथैश्वरः।
नाभौ च दुर्गादेवी स्यात् पृष्ठे च पितरस्तथा॥
ऊर्धोश्च जानुनोश्चैव पादयोश्च क्रमान्यसेत्।
ऊरुद्वये च नागाश्च नागकन्यां तथैव च॥
ऋषयश्च ऋषिपत्नीश्च जानुयुग्मे तथा पुनः।
पादयोरर्णवाः सप्त सर्वतीर्थानि च स्थिताः॥
स्थानानि च त्रिपुण्ड्रस्य देवाश्च परिकीर्तिताः।
ध्यानम् –
चिन्त्यविश्वसादाख्ये –
तन्मध्ये देवदेवं परमेशं तु भावयेत्।
सदाशिवस्वरूपेण शुद्धस्फटिकसन्निभम्॥
पञ्चवक्त्रयुतं तेषु प्रतिवक्त्रं त्रिलोचनम्।
जटामकुटसंयुक्त इशितोभिः समन्वितम्॥
शूलं परशुखट्गं च वक्त्राभये च दक्षिणे।
पाशनागाङ्गुशं चैव घण्टावह्निं च वामके॥
सर्वावयवसम्पूर्णं दिव्याम्बरधरं शुभम्।
दिव्या गन्धानुलिप्ताङ्गं दिव्यपुष्पैरलङ्कृतम्॥
सर्वाभरमसंयुक्तम् । इत्यादि श्रीमत्कामिके।
ऊर्ध्वेस्यावाहनं कुर्यात् मूलमन्त्रं समुच्चरन्।
सद्योजातेन मन्त्रेण स्थापिन्यं स्थापनं कुरु॥ इति क्वचित्। (१६१अ, १स्त् line[१६४ – २२३])

११० கல மழைக்கு ११० கலமுர பக்கத்தில் विन्यसेद्गुरुः என்ர பின்புள்ள டிக்கு
पृथ्व्यादिभूतसञ्चार आकाशगुण उच्यते।
आकाशे ब्रह्मरन्ध्रेऽपि निर्दश्यः कर्मनाशनः॥
ज्ञाना(ने)न्द्रियाणां सर्वेषामधिका चाक्षुषी भवेत्।
तस्माद्दृष्टिर्भये चैव युग्मपादस्पृशेत्पदा॥
पुनरागत्य भ्रूमध्यमात्मनः सोहमाप्नुयात्।
मनोबुद्धिरहङ्कारं सर्वेन्द्रियप्रवर्तकम्॥
तस्य कर्म च दह्यं स्याद्धुद्देशे तु स्पृश्ते पदा।
पुनरागत्य भ्रूमध्यमात्मनः सोहमाप्नुयात्॥
स्वस्थाने पदमाहृत्य प्रणतं दण्डवद्गुरुः।
भावनादीक्षया चैनं शुद्धं कृत्वा यथाविधि॥
शिवज्ञानबोधशास्त्रं च दद्यात् पत्यादिचिन्तनम्।
अनुग्राह्यस्तु यः शिष्यो वाङ्मनकायकर्मभिः॥
अर्थप्राणाभिमानानि स गुरुभ्यो निवेदयेत्।
एतस्मात् कारणादेव स्वतन्त्ररहितो भवेत्॥
स्वतन्त्ररहितोह्येशः समयाचारकल्पितः।
निर्दह्यपटवद्देही वाङ्मनः कायकर्मभिः॥
निस्सारदेहं सङ्गृह्य शुद्धकृत्यैरनुष्ठितम्।
कुलालचक्रभ्रमणं धनुर्बाणसमन्वितम्॥
एवं तत्करणैर्हृत्वा शब्दादिविषयान्वितम्।
संस्कारेण लशुनं पात्रं परिमऴं भवेत्॥
पद्मासने स्थितिं कृत्वा कायकर्म सुनिश्चलम्।
मौनमास्थाय ला॥।त् दोषात् प्राणायाममनो भवेत्॥
शिवध्यानपरो यस्मात् सर्वकर्म विनश्यति।
चिदाकाशे हि हृत्पद्मे ज्योतिरूपं विभावयेत्॥
ईक्षेण (ईक्षणे) सर्वद्रव्याणि कार्पासाश्रयदीपवत्।
देहे [॥।र्य ?] सर्वपापानि देहनाशे तु मुक्तिदम्॥ इति पुनश्च तत्रैव –
रौरवे –
एवं शैवाध्वरं प्राप्य दीक्षामन्त्रसमुद्भवम्।
न पुनर्जायतां याति दीक्षितो मनुजोत्तमः॥
भिन्ने देहे शिवो भूत्वा शिवधर्मे समन्वितः।
शिवानन्दमनुप्राप्या चाविभागय कल्पते॥
जलं सामुद्रीमासाद्य नदीहृष्टाम्बुवाहिनी।
क्षारतोयत्वमायाति प्रभावाद्धि महोदधेः॥
एवं वै देह भिन्नात्मा शिवमेवाधिगच्छति।
इति
एतत् ज्ञानदीक्षामध्ये ज्ञानमार्गेण षोडशसंस्कारमाह
श्रीमदचिन्त्यविश्वसादाख्ये इत्यादि वाचनीयम्।

॥ शैवसन्यासपद्धत्यामनुष्ठानविधिः ॥
शुद्धाचमनं कृत्वा पूरकरेचकयोः प्रणवं कुम्भके संहितामुच्चरन् त्रिः
प्राणानायम्य संहारन्यासं कुर्यात्। तथा।
ॐ हः अस्त्राय हुं फट् इति मन्त्रं द्विरुच्चार्य दक्षिणेन पाणिना वामकरतलं द्विः
सुशोध्य एनमेव मन्त्रं सन्तुमुच्चार्य वामेन करेण दक्षिणकरतलं सकृत्
संशोध्य हस्तमणिबन्धपर्यन्तमस्त्रतेजोऽन्वितौ स्मरन् पाणि सम्पुटीकृत्य
अङ्गुष्ठद्वयमध्ये
शक्तिमण्डलममृतबीजेन ध्यायेत्। ॐ हौं शक्तये वौषडिति
करद्वयं सम्प्लाव्य पुटमध्ये शिवासनमष्टदलं शुद्धविद्या पद्माकारम् ॐ हां
शिवासनाय नमः इति सम्भाव्य ॐ हां हं हां शिवमूर्तये नम इति
सूक्ष्मा मूर्तिं विन्यस्य ॐ हौं विद्यादेहाय नम इति मन्त्रमुच्चरन् सदाशिवरूपं
विन्यसेत्। ॐ हं
सद्योजाताय नम इति कनिष्ठिकयोः।
ॐ हिं वामदेवाय नम इति अनामिकयोः। ॐ हुम् अघोराय नम इति मध्यमयोः। ॐ हेत्
(हें) तत्पुरुषाय नम इति
तर्जन्योः। ॐ होम् ईशानाय नम इत्यङ्गुष्ठयोः। ॐ हौं नेत्रत्रयाय नम इति
मध्याङ्गुलत्रयोः। ॐ हां हृदयाय नम इति कनिष्ठिकयोः। ॐ हिं शिरसे
नम इत्यनामिकयोः। ॐ हुं शिखायै नम इति मध्यमयोः। ॐ हैं कवचाय नम इति
तर्जन्योः। ॐ हम् अस्त्रायफडिति अङ्गुष्ठयोः। मूलेन
करतलकरपृष्ठे परमीकृत्य कवचेनावकुण्ठ्य ॐ हां शिवासनाय नम इति नाभौ
विन्यस्य ॐ हां हं हां शिवमूर्तये नम इति तदारभ्य ललाटपर्यन्तं सूक्ष्ममूर्तिं

विभाव्य ॐ हौं विद्यातत्वाय नम इति नाभिप्रभृति ब्रह्मरन्ध्रपर्यन्तं विभाव्य
वक्षसि अङ्गुल्यग्रैर्विन्यस्य द्वादशान्ते मूलमन्त्रमुच्चरन्
शिरसि विन्यस्य मुण्डभङ्ग्या न्यसेत्।
ॐ हं सद्योजाताय नम इति कनिष्ठिकाङ्गुष्ठाग्राभ्यां शिरसं पश्चात् पश्चात् भागे ॐ
हिं वामदेवाय नम इति अङ्गुष्ठानामिकौ भाभ्यां शिरसो वामभागे। ॐ हुं
अघोराय नम इति अङ्गुष्ठमध्यमाग्राभ्यां दक्षिमभागे। ॐ हें तत्पुरुषाय नम इति
अङ्गुष्ठतर्जन्यग्राभ्यां जानुनोः। ॐ हिं वामदेवगुह्याय प्रतिष्ठाकलायै

नम इति अङ्गुष्ठानामिकाग्राभ्यां गुह्ये। १ । ॐ हुम् अघोरहृदयाय विद्याकलायै नम इति
अङ्गुष्ठमध्यमाग्राभ्यां हृदये। ॐ हें तत्पुरुषवक्त्राय शान्तिकलायै
नमः अङ्गुष्ठतर्जन्यग्राभ्यां मुखे। ॐ हाम् ईशानमूर्धाय शान्त्यतीतकलायौ नम इति
पाणिम् मुष्टिं कृत्वा अङ्गुष्ठाग्रेण मूर्ध्नि। ॐ हां सर्वज्ञशक्तिधाम्ने हृदयाय
नम इति
कनिष्ठाङ्गुष्ठाभ्याग्राभ्यां हृदये ॐ हिं तृप्तिशक्तिधाम्ने कवचाय हुमिति
कण्ठप्रावरणत्वेन स्तनमध्यान्तं तर्जनीभ्यां कवचम्। ॐ हौम् अलीप्तशक्तिधाम्ने

नेत्रत्रयाय वौषडिति मध्यमाङ्गुलिभिर्नेत्रयोः। अनन्तशक्तिधाम्ने अस्त्राय हुं णु इति
तालत्रयं कृत्वा फडिति चोटिकामुद्रया आत्मानमभितः प्रदक्षिणं ( १६२[१]-[१६५])
दशदिग्बन्धनं कृत्वा मूलेन पादादिमस्तकान्तं
परमीकुर्यात्।
तथा सन्तानसंहितायाम् –
सृष्टिस्थितिश्चसंहारः त्रिविधो न्यास उच्यते।
गृहस्थः सृष्टिमार्गेण ब्रह्मचारी स्थितिं चरेत्॥
वानप्रस्थयतीनां तु संहारं न्यास उच्यते।
अपत्नीको वनस्थश्चेत् संहारन्यास उच्यते॥
त्रिशतिकालोत्तरे –
तलिकां हस्तपृष्ठं चास्त्रबीजेन शोधयेत् इति।
अचिन्त्यविश्वसादाख्ये –
एवं मन्त्रं द्विरुच्चार्य वामपाणिं च शोधयेत्।
करेण दक्षिणेनेव दक्षिणं वामपाणिना॥
एकवारं तमुच्चार्य शोधयेन्नद्दिकेश्वर।
अस्त्रतेजोन्वितौ हस्तौ मणिबन्धावधि स्मरन्॥
पाणिभ्यां शम्पुटं कृत्वा चाङ्गुष्ठद्वयमध्यमे।
ध्यायेदमृतबीजेन शक्तिमण्डलमुत्तमम्॥
ॐ हौं शक्तये वौषट् सम्प्लावं तत्करद्वयम्।
पद्माकारं पुटे भाव्य तन्मध्ये तु शिवासनम्॥
मूर्तिं सूक्ष्मां तु विन्यस्य पश्चान्मन्त्रं समुच्चरन्।
एवं सदाशिवं रूलं(पं) विन्यसेन्नद्दिकेश्वर॥
सन्तानसंहितायाम् –
कनिष्ठे सद्योजातं तु वामदेवं त्वनामिके।
अघोरं मध्यमे न्यस्य तर्जन्यां पुरुषं न्यसेत्॥
ईशानं चैव देवेशि अङ्गुष्ठे चैव विन्यसेत्।
पादादि केशपर्यन्तं संहारन्यास उच्यते॥
सार्धत्रिशतिकालोत्तरे –
कनिष्ठामादितः कृत्वाङ्गुष्ठां चापि पश्चिमम्।
ब्रह्माणि विन्यसेत्तत्र तथैवाङ्गानि युक्ततः॥
हृदादीनि नमोन्तानि फडन्तं चास्त्रमुच्चरेत्। इति
अचिन्त्यविश्वसादाख्ये –
पश्चात् तत् परमीकारं कारयेन्मूलमन्त्रतः।
अवकुण्ठ्य तनुत्रेण पुनर्नाभौ ॥॥॥॥॥॥।॥
…।भेल्लाटपर्यन्तं सूक्ष्ममूर्तिं विभावयेत्।
विद्यादेहस् सम्प्राप्तिर्नाभेराब्रह्मरन्ध्रकम्॥
द्वादशान्तसमुच्चारादासनादि चतुष्टयम्।
हृदयं हृदयेन स्यात् शिरस्शिरसि विन्यसेत्॥
शिखायां तु शिखा न्यस्य तनुत्रं तनुमध्यमे।
नेत्रेषु नेत्रं विन्यस्य हस्तयोरस्त्रमेव च॥
चोटिकामुद्रया तेन दिशदिग्बन्धनं कुर्यात्।
मूलेन परमीकृत्वा महामुद्रां ततः क्रमात्॥
हस्तद्वयेन पादाभ्यां मस्तकान्तं तु संस्पृशेत्।
इति प्रासादा(द)न्यासविधिः। शुद्धपञ्चाक्षरन्यासं तु पूजोत्तरजपप्रकरणे
वक्ष्यामः।
सकलप्रासादविषये -
ॐ हां हौं हं हां हिं हीं हु हूं हें हैं हों हौं हः शिवाय नम
इति संहिता। निष्कलप्रासादविषये तु ॐ हां हौं
हां हीं हूं हैं हः शिवाय नम इति संहिता इति न्यासविधिः। पञ्चाक्षरन्यासः
अवान्तरशैवपद्धत्यां जपप्रकरणे द्रष्टव्यः।
शैवसन्यासपद्धत्यां दहनोपसनां पूजानन्तरं कुर्यादिति उक्तम्। तथा। अथ विद्वान्
दहनोपासनां कुर्यात्। तद्यथा – ब्रह्मण्यपरे हृदयकमलमध्ये वाच्या वाचकं
वाध्यं वाथ
कोत्पत्ति विना शक्वादिनीरहितनिर्मलनिर्गुणनिरवयवनिक्रियनिरालम्बनिरूपमं
सत्यज्ञानानन्दस्वरूपं चिदाकाशमद्वैतं भावयन् ज्ञातृज्ञानज्ञेयत्वं विसृज्यामृतो
भूयात्।

तदुक्तम् ॥॥॥॥वणेषु।
तथा शैवपुराणे – श्रीरुद्रसंहितायां पुण्डरीकपुरमाहात्म्ये। अथ ब्रह्मण्यपुरे
वस्मश्म पुण्डरीकायं तु यदित्यादि। (१६५अ, १स्त् line [१६२?]नो चोन्तिनुत्य्)
दशदिग्बन्धनं कृत्वा मूलेन पादादिमस्तकान्तं परमीकुर्यात्।
तथा सन्तानसंहितायाम् –
सृष्टिस्थितिश्चसंहारस्त्रिविधो न्यास उच्यते।
गृहस्थस्सृष्टिदुर्गेण ब्रह्मचारीस्थितिं चरेत्॥
वानप्रस्थयतीनां तु संहारं न्यास उच्यते।
अपत्नीको वनस्थश्चेत् संहारन्यास उच्यते॥
त्रिशतिकालोत्तरे –
तलिकां हस्तपृष्ठं चास्त्रबीजेन शोधयेति।
इति
अचिन्त्यविश्वसादाख्ये –
एवं मन्त्रं द्विरुच्चार्य वामपाणिं च शोधयेत्।
करणे दक्षिणेनैव दक्षिणं वामपाणिना॥
एकवारं तमुच्चार्य शोधयेन्नन्दिकेश्वर।
अस्त्रदेजोन्वितौ हस्तौ मणिबन्धावधि स्मरन्॥
पाणिभ्यां शम्पुटं कृत्वा चाङ्गुष्ठद्वयमध्यमे।
ध्यायेदमृतबीजेन शक्तिमण्डलमुत्तमम्॥
ॐ हौं शक्तये
वैषट् सम्प्लावं तत्करद्वयम्। पद्माकारं पुटे भाव्य तन्मध्ये तु शिवासनम्। मूर्तिं
सूक्ष्मां तु विन्यस्य पश्चान्मन्त्रं समुच्चरन्। एवं सदाशिवं रूपं
विन्यसेन्नन्दिकेश्वर।
सन्तानसंहितायाम् –
कनिष्ठे सद्योजातं तु वामदेवं त्वनामिके।
अघोरं मध्यमे न्यस्य तर्जन्यां पुरुषं न्यसेत्॥
ईशानं चैव देवेशि अङ्गुष्ठे चैव विन्यसेत्।
पादादिकेशपर्यन्तं संहारन्यास उच्यते॥
सार्धत्रिशतिकालोत्तरे –
कनिष्ठामादितः कृत्वाङ्गुष्ठं चापि पश्चिमम्।
ब्रह्माणि विन्यसेत्तत्र तथैवाङ्गानि युक्ततः॥
हृदादीनि नमोन्तानि फडन्तं चास्त्रमुच्चरेत्।
अचिन्त्यविश्वसादाख्ये –
पश्चात् तत्परमीकारं कारयेन्मूलमन्त्रतः।
अवकुण्ठ्य तनुत्रेण पुनर्नाभौ ……॥॥
…भेल्लाटपर्यन्तं सूक्ष्ममूर्तिं विभावयेत्।
विद्यादेहस्य सम्प्राप्तिर्नाभेराब्रह्मरन्ध्रकम्॥
द्वादशान्तसमुच्चारादासनादिचतुष्टयम्।
हृदयं हृदयेन स्यात् शिस्शिरसि विन्यसेत्॥
खिशायां तु शिखा न्यस्य तनुत्रं तनुमध्यमे।
नेत्रेषु नेत्रं विन्यस्य हस्तयोरत्र(स्त्र)मेव च॥
चोटिकामुद्रया तेन दि(द)शदिग्बन्धनं कुरु।
मूलेन परमीकृत्वा महामुद्रां च ततः क्रमात्॥
हस्तद्वयेन पादाभ्यां मस्तकान्तं तु संस्पृशेत्। इति।
प्रासादा(द)न्यासविधिः –
शुद्धपञ्चाक्षरन्यासं तु पूजोक्तजपप्रकरणे
वक्ष्यामः।
सकलप्रासादविषये –
ॐ हां हौं हं हां हिं हीं हु हूं ह्लुं हें हैं हों हौं हः शिवाय
नम इति संहिता।
निष्कलप्रासादविषये तु –
ॐ हां हौं
हां हीं हुं हैं हः शिवाय नम इति संहिता इति न्यासविधिः।
पञ्चाक्षरन्यासः –
अवान्तरशैवपद्धत्यां जपप्रकरणे द्रष्टव्यः।
शैवसन्यासपद्धत्याम् –
दहनोपासनां पूजानन्तरम् उर्यादिति उक्तम्। तद्यथा। अथ विद्वान् दहनोपासनां कुर्यात्।
तद्यथा। ब्रह्मण(ण्ड)पुरे हृदयकमलमध्ये वाच्यवाचकं वाक्यं
वाथकोत्पत्तिविनाशकादिनी रहितनिर्मलनिर्गुणनिरवयवनिक्रियनिरालम्बनिरुपमं
सत्यज्ञानानन्दस्वरूपं चिताकाशमद्वैतं भावयन् ज्ञातृज्ञानज्ञेयत्वं विसृज्यामृतो
भूयात्।

तदुक्तम् ऋग्यजुस्सामाथर्वणेषु –
तथा शैवपुराणे – श्रीरुद्रसंहितायां पुण्डरीकपुरमाहात्म्ये। अथ
ब्रह्मण्डपुरे वस्वश्मपुण्डरीकाभियं तु यदित्यादि। (१६६अ, १स्त् ओर्देर्[१६२]नो चोन्तिनुत्य्) ॐ
हाम् आत्मतत्वाय स्वधा। ॐ हीं विद्यातत्वाय स्वधा। ॐ हूं शिवतत्वाय स्वधा। ॐ हः
अस्त्राय नमः। ॐ हां हृदयाय नमः। ॐ ह्लां निवृत्तिकलायै नमः। ॐ ह्वीं
प्रतिष्ठाकलायै नमः।
ॐ ह्रूं विद्यातत्वायै नमः। ॐ ह्यैं शान्तिकलायै नमः। (२न्द् ओर्देर्) ॥॥॥॥॥॥॥॥॥ होम्
ईशानमूर्धाय नमः। हें तत्पुरुषवक्त्राय नमः। हुम् अघोरहृदयाय नमः। हिं
वामदेवगुह्याय नमः। हं सद्योजातमूर्तये नमः। हां हृदयाय नमः। हीं शिरसे
नमः। हूं शिखायै नमः। (३र्द् ओर्देर्) ॥॥॥॥॥॥॥॥॥॥ हौं नेत्रेभ्यो नमः। हः अस्त्राय नमः।
हौं शक्तये वौषट्। हां शिवासनाय नमः।
हां हं हां शिवमूर्तये नमः। हां हौं विद्यादेहाय नमः। हं हां हं हां हूम्
आत्मने नमः। ह्लां ह्लां ह्लां ह्लां ह्लां निवृत्तिकलायै हः हुम्फट् हैं कवचाय
नमः। (१६६ब्, १स्त् ओर्देर्) ॥॥॥॥॥॥।प्रतिष्ठाकलायै हः हुम्फट् ह्रूं ह्रूं ह्रूं विद्याकलायै
हः हुं फट्। हां गणपतये नमः। हां महालक्ष्म्यै नमः। हां गुरुभ्यो नमः। हाम्
आधारशक्तये नमः। हाम् अनन्तासनाय नमः। हाम् अनन्ताय नमः।
हां धर्माय नमः। हां ज्ञानाय नमः। हां वैराग्याय नमः। हाम् ऐश्वर्याय नमः।
(२न्द् ओर्देर्) हाम् अधर्माय नमः। हाम् अज्ञानाय नमः। हाम् अवैराग्याय नमः। हाम्
अनैश्वर्याय नमः। हा अधच्छदनाय नमः। हाम् ऊर्ध्वच्छदनाय नमः। हां कन्दाय
नमः। हां बीजाय नमः। हाम् अङ्कुराय नमः। हां नालाय नमः। हां दलेभ्यो नमः।
हां केसरेभ्यो नमः। हां सूर्यमण्डलाय नमः।
हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः। हां सोममण्डलाय नमः। हां
सोममण्डलाधिपतये विष्णवे नमः। हाम् अग्निमण्डलाय नमः। अग्निमण्डलाधिपतये
रुद्राय नमः। हां शक्तिमण्डलाय नमः। हां शक्तिमण्डलाधिपतये ईश्वराय नमः। ॐ
हां शिवासनाय नमः। (१६७अ, १स्त् line१५६अ[१५३]नो चोन्तिनुत्य्)

अभिषेके च नैवेद्ये उपचारे तथैव च।
प्रदक्षिणं जब(प)ध्यानं नमस्कारं तु वर्जयेत्॥
अग्रतः पृष्ठतो वामे गर्भगेहे तथैव च।
रथं गते तु देवेशे नमस्कारं तु वर्जयेत्॥
रथ्यागते तु देवेशे तथैवास्थानमण्डपे।
मूललिङ्गं न सेवेत कस्दपुण्यं विनश्यति॥
सा(बा)ह्यमण्डपमासीने सेरे तत्रोत्सवेऽपि च।
दर्शनं मूललिङ्गस्य हन्ति पुण्यं पुरा कृतम्॥
प्रत्यङ्मुखे चोत्तरदिङ्मु[न्दि]खे च। वामे
स्थितोन्यत्र तदन्यपार्श्वे। ईशानपूजा प्रणतीश्च कुर्यात् दोषाय नो चेत् विफलायता स्युः।
समित्समृद्धं विरजाग्निजं तवैतानिकं वर्णिन एव
नान्यत्। शूद्रः शिवेनैव नमोन्तकेन कुर्यात्त्रिपुण्ड्रं परिधूलनं च। यच्छोत्रियाणां
पचनाग्निकेन वस्त्रावधू तेन सितेन निडम्। दावाग्निजं शुभ्रजनात् परेषां

मन्त्रकं धार्य मुशन्ति भस्म।
विभूति द्विविधा प्रोक्ता परापरा विभागतः।
परा सदाशिरे(वे)त्याहुरपरा च द्विधा स्मृता॥
सा धारणं हि सर्वेषां देवालयसमुद्भवम्।
असाधारणकं चापि षोढेति परिकीर्तिताः॥
विभूतिष्षड्विधा प्रोक्ता वैतानाग्निसमुद्भवम्।
विरजानलजं चैव स्मार्ताग्निजनितं तथा॥
समिदग्निसमुद्भूत ॥॥॥॥॥॥॥॥॥॥॥॥वम्।
शुचीनां ब्राह्मणानां तु पचनाग्न्युद्भवं तथा।
परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम्॥
बुद्धिपूर्वकृतं पापं कृस्नं दहति वह्निवत्।
अपरोक्षात्मविज्ञानं शाब्दं दिशिकपूर्वकम्॥
संसारवासना ज्ञनतमसच्छण्डभास्करः।
देवालये सभामध्ये श्मशाने राजसन्निधौ॥
मन्त्रोच्चाराय कर्तव्यं न दोषाय प्रकल्पते।
॥ अत्र तौ मध्याह्नात्प्राक् जलैर्युक्तं परं ता जलवर्जितमिति विभूतिधारणविधिः ॥

वासिष्ठे –
नमोन्तेनैव शिवेनैव शुभ्रं शुश्रूषणप्रियः।
उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत्॥ इति।
चिन्त्यविश्वसादाख्ये –
परमाणुसमं भस्म भूमौ न पतितं भवेत्।
तथा सङ्गृह्य यने(त्ने)न त्रिपुण्ड्रोद्धूलनं भवेत्॥
उद्धूलनेप्यशक्तश्चेत् त्रिपुण्ड्रादीनि कारयेत्।
सव्याङ्गुष्ठे च कालाग्निः मूले मूलाग्निरुच्यते॥
उदराग्निस्तु नाभौ च कामाग्निर्नेत्रमध्यगम्।
ज्ञानाग्निर्द्वादशान्ते च पञ्चाग्निश्च प्रकीर्तिताः॥
विपदि यैर्यमथाद्भुते क्षमाशतसिवात्पटुतायुधि विक्रमः।
यजति वाश्विरतिर्व्यसनं स्तुतौ प्रकृतिकोटिकन्या महादानम् एकपुष्पशिवार्चनम्।
॥ नमस्कारविधिः ॥
उरसा शिरसा भूष्या मनसा वचसा तथा।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग ईरितः॥
मङ्गलायतनदेवं यवानमतिसुन्दरम्।
ध्यायेत्कल्पद्वन वनाकारमागच्छन्तं पिनाकिनम्॥
हरे महेश्वरश्चैव शूलपाणिः पिनाकधृक्।
पशुपतिः शिवश्चेति महादेवेति नामभिः॥
महादेवेत्यविभक्तिनिर्देशः। तरोर्मूले सुवासुमं सम्भाव्यथा। भगवन्ता वामभागे
भगवतीमभ्यर्चयेत्। तत्र मन्त्रः। ॐ नम आदिर्भगवत्यै शङ्करप्रियाये नमः। इति
मृदाहरणसङ्घट्टप्रतिष्ठायानकर्म च।
स्नपनं पूजनं चेति विसर्जनमतः परम्।
प्रणवादिनमोन्तहरादिसप्तनामभिर्मृदा हरणादिसप्तकर्माणि
विधाय पार्थिवलिङ्गाराधनं भवतीत्यर्थः ॐ शर्वाय क्षितिमूर्तये नमः। भवाय
जलमूर्तये। रुद्रायाग्निमूर्तये। उग्राय वायुमूर्तये। भीमाय आकाशमूर्तये।
पशुपतये यजमानमूर्तये। महादेवाय सोममूर्तये। ईशानाय सूर्यमूर्तये। ॐ नमो
भगवत्यै शङ्करप्रियायै श्रीगौर्यै नमः।

श्रीरुद्रवामभागे गौरीमावाहयामि।
ॐ आं ह्रीं क्रों य र ल व श ष स हों हंसस्सोहं पिनाकयुतः प्राणा इह प्राणाः
पिनाकयूतो जीव इह स्थितः पिनाकयुतस्सर्वेन्द्रियाणि
पिनाकयूतो
मनोबुद्ध्यहङ्कारचित्तपृथिव्यप्तेजोवाय्वाकाशशब्दस्पर्शरूपरसगन्धश्रोत्रत्वक्चक्षुर्जिह्व्
आघ्राणवाक्पाणिपूयूपस्था
इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा।
वाय्वग्निवरुणीशाननृतिसोमयमाः एतेषां द ध ॥॥॥। य र ल व बीजं क्रमादष्टौ ज्ञेयाः।
आं पाशम् क्रोम् अं त गुरम् ह्रीं शक्तिबीजम्। (१६९अ, १स्त् line[नो चोन्तिनुत्य्])
शैवसन्यासपद्धतिमन्त्रम् –
सकलप्रासादविषये –
ॐ हां हौं हं हां हिं हीं हुं हूं हें हैं हों हौं हः शिवाय
नमः इति संहिता।
निष्कलप्रासादविषये –
ॐ हां हौं हां हीं हूं हैं हः शिवाय नम इति संहिता।
अङ्गन्यासमन्त्रभेदोऽयस्ति –
ॐ हिं वामदेवगुह्याय प्रतिष्ठाकलायै नमः। ॐ हुम् अघोरहृदयाय
विद्याकलायै नमः। ॐ हें तत्पुरुषवक्त्राय शान्तिकलायै नमः। ॐ होम् ईशानमूर्ध्ने
शान्त्या(न्त्य)तीतकलायै नमः। सद्योजात ॐ हं सद्योजातमूर्तये निवृत्तिकलायै नमः।
अथ अङ्गमन्त्रभेदः –
ॐ हां सर्वज्ञशक्तिधाम्ने हृदयाय नमः। ॐ हीं तृप्तिशक्तिधाम्ने शिरसे
स्वाहा। ॐ हूम् अनादिबोधशक्तिधाम्ने शिखायै वषट्।
ॐ हें स्वतन्त्रशक्तिधाम्ने कवचाय हुम्। ॐ हौम् अलुप्तशक्तिधाम्ने नेत्रत्रयाय वौषट्।
ॐ हः अनन्तशक्तिधाम्ने अस्त्राय हुं फट्। इति।
ॐ जुं सः इति मृत्युञ्जयमन्त्रम्।
तोत्रककारणे –
ख सप्तमः कर्णयुतोर्ध्वचन्द्रवान् कु पञ्चमो बिन्दुयुगोद्ध्रवादिकम्।
मनुश्च मृत्युञ्जयमात्मनस्फुटं समीहितं सायकरक्षणक्षमः। ख सप्तममा॥।र्ज
कर्णयुत…।कारम् अर्धचन्द्रवान् नादम्। आपञ्चममावतु पृथिवी वीजमान लकारத்திர்கு
அஞ்சாவதான सकारम्। विनुयुगमावतु विसर्जनीयम्।
………।घृतं प्रोक्तम्।
आत्मार्थे अष्टबन्धनस्य विधिः दीप्तागमे –
कुम्भो वर्धनीकाभितोऽष्टकलशा स्थाप्य यथा मण्डले। लिङ्गात्तेषु
यथाक्रमं शिवशिवाविद्येश्वराद्यर्चनम्। कृत्वा सोभयबन्धनं च जलतो वासाभिषेकं च
यत्।॥।(पञ्च)गव्यादि स्नपनं च कुम्भकरकाद्यावाहनादिक्रिया। निर्वर्त्याथ च
भद्रपीठमपि यल्लिङ्गं समारोप्य च। नैवेद्यादि समर्प्य सादथाघोरेण जप्तायुतम्।
प्रायश्चित्ततया आहोममथवा कुर्यात्।
सस्रंसतं दर्पणम्।
पूरकुम्भं च वृषभं युग्मा चामरम्। श्रीवत्सं स्वस्तिकं शङ्खदीपो
देवाष्टमङ्गलम्।
मासपूजाक्रमः –
मकुटे –
मार्गशीर्षे घृतं प्रोक्तं पुष्ये क्षौद्रं प्रशस्यते।
माघे तु कम्बलं चैव फाल्गुने दधिभोजनम्॥
चैत्रे दमनकं प्रोक्तं वैशाखे भन्धपूजनम्।
फलं तु पूजा ज्येष्ठमासि क्षीमाषाढपूजनम्॥
॥।वणे शर्करा पूजा अपूपैः प्रोष्ठपदार्चनम्।
तुलामासे न पूजा च कार्तिक्या दीपपूजनम्॥ इति।(१७०अ, १स्त् line[१०७?])
कार्पासकूलमहिषाज्यसुशर्कराणां लाक्षामधूच्छिष्टस्कुन्दुरुष्कम्।
काषायपाष(षा)णगुलं समानं लिङ्गस्य पीठस्य बिलाष्टबन्धनम्। செம்பஞ்சு, எருமை
வெண்ணை
சுக்கான் கல்லு, சுக்கு, மெழுகு, குந்துருக்கம், காவிக்கல், வெல்லம் மேற்படி ८ மருந்தாம்। पक्षान्तरम्।
ततोऽष्टबन्धनं
कुर्यात् तैलम्, गुलम्, गैरिकम्, गुल्गुलुम्, सिकतम्, शर्कम्, सर्जरसम्,
च लाक्षया। நல்ல எண்ணை, வெல்லம், நரசெங்கபொடி, குங்கிலியம், மனல், சுக்காந்கல்லு, சுக்கு மெழுகு
முரையே எட்டுங்கணக்கு। இனி पञ्च பந்தனம்।
शर्करं सर्जरसं चैव गुल्गुलुं च कदलीफलम्।
माहिषं नवनीतं च पञ्चबन्धं प्रकीर्तितम्।
இந்த अष्टबन्धनமும் पञ्चबन्धनமும் पारर्थषयम् (परार्थविषयम्) இனி
आत्मार्थत्व त्रिबन्धनं வருமாறு नीलगुल्गुलु
शर्करचूर्णकैर्योगतुल्यमहिषस्य सर्पिषा। लूखले मुसलद्वयकुट्टनं पाकयुक्तिवशात्
दृढबन्धनम्। இங்கு குங்கிலியமும் எருமை
வெண்ணையோடுகூட
ஸமமாகக்கூட்டி உரலிலே ஓலக்கயாலே மாரமலிடித்து யுக்திவஸத்தால் மருந்து கூட்டி பந்திக்கவென்ரவாரு।

धनुर्मासे गते सूर्ये प्रातःकाले शिवार्चनम्।
सहस्र॥वाकी पूजा दिनेनैकेन वद्यते॥
आरग्वधे च विल्वे च लिङ्गे च शिवविग्रहे।
शिवयोगिशरीरे च नित्यं सन्निहितः शिवः॥
उपपातककोटीश्च ब्रह्महत्या युतानि च।
दहत्यशेषपापानि शिवभक्तस्य दर्शनम्॥
सुदूरमपि गन्ध(त)व्यं यत्र माहेश्वरो जनः।
प्रयत्नेनापि द्रष्टव्यं *तत्र सन्निहितः शिवः॥
पूजाकोटिगुणं स्तोत्रं स्तोत्रात् कोटिगुणं जपः।
जपात्कोटिगुणं ध्यानं ध्यानात्कोटिगुणं लयः॥
पूशब्दं भुक्तिदं प्रोक्तं जाशब्दं मुक्तिदं तथा।
भुक्तिं मुक्तिं च कारेण पूजाशब्दमिहोच्यते॥
सोमवारे वरारोहे यः कुर्यान्निशि भोजनम्।
सप्तकोटिसहस्राणि वसन्ते मम सन्निधौ॥
एकादश्याम् अयुतं कोटिसोमार्कग्रहणं तथा।
सोमवारैकभुक्तस्य कौलान्नार्हन्ति षोडशैः॥
आचार्यस्य तपो योगात् पूजायाश्चातिशायनात्।

आतुरूप्याच्च बिम्बाच्च त्रिभिः सन्निहितः शिवः॥
वृषस्य वृषणं स्पृष्ट्वा हरस्य वचनं तथा।
शृङ्गमध्ये शिवं दृष्ट्वा पुनर्जन्म न विद्यते॥ (१७१अ, १स्त् ओर्देर्[१०८ नो चोन्तिनुइत्य्)
हां हौम् आत्मतत्वाधिपतये शिवाय नमः। हीं हौं विद्यातत्वाधिपतये
शिवाय नमः। हूं हौं शिवतत्वाधिपतये शिवाय नमः। हां हौं शिवाय नमः।
द्वारपूजामन्त्रम् –
ॐ हां गणपतये नमः। ॐ हां सरस्वत्यै नमः। ॐ हां
महालक्ष्म्यै नमः। ॐ हां नन्दिने नमः। ॐ हां गङ्गायै नमः। ॐ हां
महाकालाय नमः। ॐ हां यमुनायै नमः। (२न्द् ओर्देर्) हां सर्वेभ्यो मन्त्रेभ्य(भ्यः)
स्वाहा। हां देवेभ्य(भ्यः) स्वाहा। हां सर्वेभ्यो ऋषिभ्यो नमः। हां सर्वेभ्यो
मनुष्येभ्यो वषट्। हां सर्वेभ्यः पितृभ्य(भ्यः) स्वधा। हां
सर्वेभ्यो मातृभ्य(भ्यः) स्वधा। हां सर्वेभ्यो ज्ञातिभ्य(भ्यः) स्वधा। हां सर्वेभ्य
आचार्येभ्य(भ्यः) स्वधा। (३र्द् ओर्देर्) ॥॥॥॥॥॥॥॥॥॥॥ हां सूक्ष्माय नमः। हां शिवोत्तमाय
नमः। हाम् एकनेत्राय नमः। हाम् एकरुद्राय नमः। हां त्रिमूर्तये नमः। हां
श्रीकण्ठाय नमः। हां शिखण्डिने नमः। हां देव्यै नमः। (४थ् ओर्देर्) ॥॥॥॥॥॥॥॥॥॥॥। हां
नन्दिने नमः। हां महाकालाय नमः।
हां भृङ्गिणे नमः। हां विनायकाय नमः। हां वृषभाय नमः। हां स्कन्दाय
नमः। हाम् इन्द्राय नमः। हाम् अग्नये नमः। (१७१ब्, १स्त् ओर्देर्) …………॥ हां वरुणाय
नमः। हां वायवे नमः। हां कुबेराय नमः। हाम् ईशानाय नमः। हां ब्रह्मणे
नमः। हां विष्णवे नमः। (२न्द् ओर्देर्) हां वज्राय नमः। हां शक्तये नमः। हां
दण्डाय नमः। हां खड्गाय नमः। हां पाशाय नमः।
हाम् अङ्कुशाय नमः। हां गदायै नमः। हां त्रिशूलाय नमः। (३र्द् ओर्देर्) हां पद्माय
नमः। हां चक्राय नमः। ॐ हां वामायै नमः। ॐ हां ज्येष्ठायै नमः। ॐ हां
रौद्र्यै नमः। ॐ हां काऴ्यै नमः। ॐ हां कलविकरण्यै नमः। ॐ हां बलविकरण्यै
नमः। (४थ् ओर्देर्) ॐ हां बलप्रमथिन्यै नमः। ॐ हां सर्वभूतदमन्यै नमः। ॐ
हां मनोन्मन्यै नमः।
सरस्वतीबीजम् सं என்பது सरस्वतीत्यक्षरमाவது ऐं क्लीं सौं। (१७२अ, १स्त् ओर्देर्[नो चोनच्तिवित्य्])
……… புனகு विशेषம், चिरिबिल्वமாவது புனுகு, खदिरங்கருங்காலி, शिरीषம் வாகை, अर्जुन மருது,
आम्रम् மாமரம், निषिद्धक्षीरवृक्षम् ஆலமுதலிய, (२न्द् ओर्देर्) वानीरம் நீரவஞ்சி,
यवமென்பது மருதுகாரைமாம, अपामार्गम् நாயுருவி, धात्री நெல்லி, शिगृ முருங்கை, निम्बम्
வெ(வே)ம்பு, कतकम् தேரமாம(மாமரம்), त(ति)न्त्रिणी புளி, जपा செம்பருத்திசெடி, (३र्द् ओर्देर्) इडानाडि
இடப்பக்கதில பெருவிரல் துடங்கி தலைபர்யந்த
சுழுமுனையி, பிங்கலையோடு பின்னிக்கு २க்கும் पिङ्गलनाडि வலப்பக்கம் பெருவிரல துடங்கி
ததபரியந்தஞ் சுழுமுனையிலிடயொ(யோடு) பிணிநாமி॥।படும்।
पुष्पविधिः –
पुन्नागम् புன்னை, द्रोणम् தும்பை, माधवी பிச்சியியுமாம்,
குரவங்குரமாம், செங்குரிஞ்சியுமாம், जातिमी च செண்பகம், दूशरम् வெள்ளுமத்து, बकपुष्पम्
கொக்குரகுமா நாரை, गिरिकर्णी வெள்ளை காககொட்டம் பூ, भद्रा பீளை, भद्रकமது श्रीपुष्पम्,
தாளிப்பூ सिन्दुवारम्, நொச்சி लोध्र, ப३ள்ளிலொதி हय[ध]मारम्, அலரி सुरक्ता, बृहती
செங்கத்தரி, पिण्डीतकम् மருக்கானா மரம், हेमश्रद्ध्राम् பொன்னூமத்து, असनम् வெங்கை,
सङ्खिनी ஞாடிர பூ, वकुलम् மகிழமரம், பட்டிகை பட்டிய பூ, (४थ् ओर्देर्)
स्री(श्री)बेरम् ர மி த ॥ வொ ॥ जपा॥सि, दमनम् மருக்கொழுந்து, सहकारम् தெமாத்தளிர்,
शमीपुष्पम् வன்னிப்பூ, पाटलि பாதிரி, कनकापुष्पम् (हेमपुष्पमुமது) செண்பகம்,
एकपत्रारविन्दम् (एकपत्रमुமது) ஓரிதழ் தாமரை, अशरम् [मधुरम्] பெருங்குருமாயை,
नागदन्तिका, सहदेवी, सीतदेवीया
செங்கழுநீர், उशीरम् விளாமிச்சவேர், हिरिबेरम् வெட்டிவேர்। (१७२ब्, १स्त् ओर्देर्) ………॥ मुनिपुष्पम्
செவ்வகத்தி, कुरण्डकமென்பது பொன்குரிஞ்சி, ब्रह्मवृक्षं पलाशமாம், गोक्षुरम्
நெருஞ்சிரபூ, अतसी காசாம்பூ, कोशातकी பீர்க்கு, श्रीवर्णबिल्वम् तालियिसமுமாம் வில்வமும்
பொ(போ)லும், வைகம் न च முசக்கை, जतुः அரக்கு, (२न्द् ओर्देर्) मुरा அமுக்குரா, मांसि
சடமாமாஞ்சி, वचा வசம்பு, कोष्ठं செங்கழுநீர்கொட்டம், रजनीद्वम् மலைமஞ்சள், மஞ்சள்,
नु(च)व्यम् செவியமானகடைச்சாரு, अस्तम् கொன்ரங்கிழங்கு, हरिद्रा
மஞ்சல் நிராவுமது, गैरिकम् களவிக்கல், शतरजस மஞ்சபொடி, (३र्द् ओर्देर्)
संयोजनं सञ्जननं भोगभोजनमेव च।
पाशच्छेदस्ततोद्धारो दीक्षाकर्मणि पञ्चधा॥
सप्त ष विषुवं सिद्धान्तसारावलिயில் விளங்கும் षड्विधसमरसीभावமுமதிலே தானே
परिधियावत् कुण्डम् மூன்ற மேகலை யுடைத்ததாலே மத்யம்ல மேகலையிர் கிழக்கு வடக்கு மேற்கு
தமேற்கு தந்தாதநாலு புரமும் பொடுநதர்பை विष्टरமாவது தெதகடுத்த
ரெண்டாமேகலையின் நாலுவாக்கிலும் போடுனதர்பை படிலலு நுனி ஒருமெக்கலயாயின மேல மேகலயிலே
தானேதிரண்டையும் போடுநன தர்பைப்புல்லு இது अन्त्येष्टिயிலே வரும்। चतुष्पथान्तसंस्कारं १४ம்
மண்டபபூஜையில் விளங்கும்।
अस्य न्यासं प्रतिष्ठाप्रकरणதில் விளங்கும்। (१७३अ, १स्त् line[१६७?])

॥ प्रदक्षिणविधिः ॥
अथातः सम्प्रवक्ष्यामि निधनेशप्रदक्षिणम्।
सर्वपापहरं पुण्यं सर्वकामफलप्रदम्॥
प्रच्छनक्ति भयं सर्वं दकारो वाञ्छितप्रदः।
क्षकारः क्षीयते पापं णकारो मोक्षसाधनः॥
यानि तानि च पापानि जन्मान्तरकृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे॥
पदात्पदान्तरं गत्वा करौ चलनवर्जितौ।
स्तुतिर्वाचि हृदि ध्यानं चतुरङ्गं प्रदक्षिणम्॥
आसन्नप्रसवा नारी जलपूर्णं यथा घटम्।
वहन्ती स शनैर्याति तथा कुर्यात् प्रदक्षिण्॥
एकदण्डनमस्कारमेकं चापि प्रदक्षिणम्।
एकहस्तनमस्कारं हन्ति पुण्यं पुरातनम्॥
अग्रतः पृष्ठतो वामे गर्भागारे तथैव च।
जपहोमनमस्कारं न विद्यात् कदाचन॥
पद्भ्यां कराभ्यां मुष्टिभ्यां जानुभ्यां शिरसोरसा।
मनसा वचसा चैव प्रणामोऽष्टाङ्ग उच्यते॥
रेणुकुण्ठितगात्रस्य रेणुसङ्ख्या तु यावती।
तावद्वर्षसहस्राणि शिवलोके महीयते॥
अनादरेण शाठ्येन परिहासेन मायया।
नमस्कारे कृते लिङ्गे सर्वपापक्षयो भवेत्॥
पशोः पशुपतेर[र]ग्रे दण्डवत् पतिते भुवि।
पतन्ति पातकाः सर्वे नोत्तिष्ठन्ति पुनः सह॥
वस्त्रमाच्छाद्य देहे ध्येयो नरः प्रणमेत्तु माम्।
त्रिजन्म जायते मूकः सप्तजन्मसु निर्धनः॥
नृत्यतः शङ्करव्याग्रे का संस्थो अनादितः।
उर्धयन्ते शरीरस्था महापातकपक्षिणः॥
शिरोञ्जलिस्तु देवानां गुरूणां तु ललाटके।
अन्येषामुरसिप्रोक्तं नमस्कारं त्रिधा मतम्॥
आस्थाने तु सदा सेव्यस्त्वालयस्थस्तु कालतः।
स्वगृहे सन्ततं सेव्यस्त्वर्धरात्रं विना हरः॥
प्रदक्षिणत्रयं कृत्वा नमस्कारैस्तु पञ्चभिः।
पुनः प्रदक्षिणं कृत्वा पुनर्जन्म न विद्यते॥
एकं विनायकस्योक्तं षण्मुखस्य तु षड्भवेत्।
पद्धत्याः केशवस्यापि चत्वारि देव व्यवस्थितः॥
शिवस्य त्रीणि चोक्तानि सप्ताश्वत्थस्य कीर्तितम्।
अन्येषां देवदा(ता)नां तु प्रदक्षिणचतुष्टयम्॥
इति साधारणं प्रोक्तं विशेषं तत्परं भवेत्।
अपसव्यं यतीनां तु सव्यं तु ब्रह्मचारिणाम्॥
सव्यं चैवापसव्यं च वानप्रस्थगृहस्थयोः।
गेहे प्रदक्षिणं किं तु पूजकस्य विधीयते॥
तत्रापि देवदेवस्य छाया निर्माल्यलङ्घनम्।
सोमसूत्रं च तत्काले परिहृत्य समाचरेत्॥
सव्यापसव्यमार्गेण कर्तव्यं तत्परदक्षिणम्।
मानसूत्रार्धमानं वा तत् प्रामाणसमं तु वा॥
त्यक्त्वान्तर्मण्डलोदीच्यां बहिः कुर्यात् प्रदक्षिणम्।
देवदेवस्य वामे तु गत्वा सूत्रादिकं ततः॥
दक्षिणेनापरं प्राप्य पुनस्तत्सन्निधिं नयेत्।
सव्यापसव्यमेवं हि यामच्छायां च वर्जयेत्॥
यत्र यत्रावृतौ किं तु बलिपीठं वृषस्थितिः।
तत्र तत्रावृती कुर्यात् तत्प्रधानं प्रदक्षिणम्॥
देवेश वृषयोर्वापि बलिपीठवृषौ न चेत्।
तद्बाह्यस्थौ समावृत्य कृती कुर्यात् प्रदक्षिणम्॥
देवेशवृषयोर्वापि बलिपीठे शयोस्तु वा।
नान्तरा गमनं कुर्यात्तत्दावरणसुधीः॥
दशाश्वमेधजं पुण्यं गर्भगेहे प्रदक्षिणम्।
तस्माद्दशगुणं पुण्यम् अन्तर्मण्डलदेशके॥
अन्तर्हारादिसा(शा)लेषु तत्तद्दशगुणं भवेत्।
पञ्चमावरणे स्थाने कृतमेकप्रदक्षिणम्॥
स सप्तसिन्धुद्वीपायाः क्षितेः कोटिप्रदक्षिण्।
भानोरुदयमारभ्य यावदस्तमनं शुचिः॥
कुर्वन् प्रदक्षिणं भक्त्या शिवसालोक्यमाप्नुयात्।
अङ्गप्रदक्षिणे चेतत् शिवसायुज्कवारणम्॥
प्रदक्षिणसहस्रं स्यादेकमङ्गप्रदक्षिणम्।
प्रदक्षिणत्रयं कुर्यात् सर्वकामार्थसाधनम्॥
पञ्चप्रदक्षिणफलं विजयप्रदमीरितम्।
सप्तभिः शतत्रुनाशं स्यात् नवभिः पुत्रवर्धनम्॥
एकादशभिरायुष्यं त्रयोदशभिरीप्सितम्।
श्रीप्रदं पञ्चदशभि(भिः) स्यात् सप्तदशभिर्धनम्॥
एकोनविंशतेरुक्तमारोग्यं व्याधिनाशनम्।
एकविंशतिभिः पुंसां विद्यावृद्धिर्भविष्यति॥
त्रयोविंशतिपञ्चविंशत्फलं सौख्यं बलं क्रमात्।
इति काम्यार्थिभिः कार्यं नित्यमेव प्रदक्षिणम्॥
पूर्वाह्णे व्याधिनाशं स्यात् मध्याह्ने वाञ्छितार्थदम्।
सायाह्ने सर्वपापघ्नमर्धयामे विमुक्तिदम्॥
अष्टाविंशतिमानभ्ययावदष्टोत्रं शतम्।
दशवृद्ध्या विधातव्यमकाम्यार्थं तु प्रदक्षिणम्॥
अष्टाधिकं तु द्विशतं कुर्यात् भक्त्या प्रदक्षिणम्।
अतिरात्रस्य यज्ञस्य फलमेकदिनसंशयः॥
अष्टाधिकं तु त्रिशतं शुद्ध॥। कुरुते यदि।
वाजपेयस्य यज्ञस्य फलमेति न संशयः॥
अष्टाधिकं ततः कुर्यात् शतानां तु चतुष्टयम्।
गोमेधफलमाप्नोति ततः पञ्चशतं तथा॥
राजसूयफलं तत्र षट्शतानि तथाष्टयुक्।
यः करोत्यश्वमेधस्य फलं स भजते ध्रुवम्॥
शतानां सप्तकं कुर्यात् सादरं यः प्रदक्षिणम्।
नरमधफलं तस्मै शिवः प्रीतिं प्रयच्छति॥
शतानामष्टकं भक्त्या नयने श(स) करोति चेत्।
गो कोटिदानपुण्यस्य फलं निश्चमेति सः॥
शतनां नवकं शुद्धः करोति यदि भक्तितः।
पौण्डरीकफलं प्राप्य महाभोगी प्रमोदते॥
अष्टाधिकसहस्रं तु यः कुर्यात् भक्तिपूर्वकम्।
अष्टदीक्षाफलं लब्ध्वा शिवलोके महीयते॥
विद्यार्थी द्विसहस्रं तु कन्यार्थी त्रिसहस्रकम्।
चतुस्सहस्रमर्थार्थी भोगार्थी चायुतार्धकम्॥
षट्सहस्रज्ञयार्थी तु वश्यार्थी सप्तसङ्ख्यया।
आक्षकामोष्टसहस्रमन्नन्नवसहसस्रकम्॥
सर्वसम्पत्समृद्ध्यर्थं दशसाहस्रमाचरेत्।
सहस्राणि चरेद्विंशत् महापातकशुद्धये॥
चत्वारिंशत् सहस्रं तु सालोक्यं तषष्टिसङ्ख्यकैः।
सहस्रैरेति सामीप्यं सामीप्यं हि सहस्रकैः॥
अशीतिसङ्ख्यैः सायुज्यं शतसहस्रैः परमपदम्।
प्रदक्षिणप्रभावेन सर्वं सम्प्राप्यते ध्रुवम्॥
तस्मादेतत्समं पुण्यं त्रैलोक्येऽपि न विद्यते।
नित्यं प्रातः समुत्थाय स्नात्वा भक्त्या प्रदक्ष(क्षि)णम्॥
स्वरसङ्ख्यं चरेरन्तर्मण्डलान्तं शतं लभेत्।
यस्त्रिसन्ध्यां चरेत् गत्या संवत्सरमतन्त्रितः॥
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामीह मानवाः।
भूमिस्तु षाण्मासात् भूमि भजति प्रतिमान्॥
भूपतिः शत्रुनाशार्थ(र्थम्) अयुतं कारयेत्ततः।
मासत्रयं चरेत् क्षिप्रं राजो वश्यो न संशयः॥
गोभूसुतधनार्थी यो चरेन्मासत्रयावधि।
तत्सर्वं लभते मर्त्यो नात्र कार्या विचारणा॥
प्रदक्षिणानि यः कुर्यात् पञ्चविशत् दिने दिने।
भूतगृहं पिशाचाद्यैर्मुच्यते मण्डलत्रयात्॥
क्षयापस्या(श्या)रकुष्ठाद्यैर्व्याधिभिः परिपीडितः।
प्रदक्षिणायुतात् सेद्यो मुक्तो भवति सौख्यभाक्॥
बहुनात्र कुमुक्तेन यं युक्तौ मयते नरः।
अतन्तं काममाप्नोति देव देव प्रदक्षिणात्॥
पञ्च वा दश वा पञ्चदश वा पञ्चविंशतिः।
नमस्काराणि साष्टाङ्गं कुर्वत स्तोत्रसंयुतम्॥
उत्सवे रथयात्रायां पुण्यकाले तु वादरात्।
प्रदक्षिणं चरेदेव प्रीतः सुधीः प्रयच्छति॥
शम्भुं प्रदक्षिणीकृत्य यात्रां यः कुरुते नरः।
लब्धकामः सुखीभूत्वा पुनरप्यवमिष्यति॥
अपि प्रहीनस्य समस्तलक्षणै क्रियाविहीनस्य निकृष्टजन्मनः। प्रदक्षिणीकृत्य
शशाङ्कशेखरं प्रयास्य यः कुड्वनसिद्धिरग्रतः। प्रदक्षिणस्य माहात्म्यं
विस्तरेणैरितं मया। अङ्गप्रदक्षिणं चान्यदुदयादुदयान्तकम्। अनयोः
पुण्यमाहात्म्यं वक्तुं नास्माकमर्हकाः।
प्रथमं दण्डनमस्कारं द्वितीयमष्टाङ्गमेव च।
तृतीयं पञ्चागमेवं तु चतुर्थं त्र्यङ्गमेव च॥
पञ्चाङ्गं नृत्तकं कृत्वा षष्ठाङ्गं स्तोत्रकं कुरु।
सप्ताङ्गध्यानमेवं तु अष्टाङ्गं लिङ्गदर्शनम्।
नवाङ्गं शुद्धशक्तिं च दशाङ्गं ताण्डवदर्शनम्॥
एतत्दशोङ्गमिरेत्तत्तत् क्रममन्यविधिं शृणु।
शिवस्याग्रेषु सुमना दण्डवत् पतितो नरः॥
पातकात् सर्वनाशं स्यात् कृपया सर्वसिद्धिषु।
प्रथमाङ्गमिति प्रोक्तं द्वितीयाङ्गमत शृणु॥
शब्दश्च स्पर्शश्च रूपश्च रसो गन्धश्च पञ्चमः।
मनोबुद्धिरहङ्कारो अष्टाङ्गमिति निश्चयः॥
द्वितीयाङ्गमिति प्रोक्तं तृतीयाङ्गमत शृणु।
जानुद्वयो द्विहस्तौ च शिरसो बद्धि च क्रमात्॥
पञ्चाक्षरं समुच्चार्य पञ्चाङ्गं तु निवेशयेत्।
तृतीयाङ्गमिति प्रोक्तं चतुर्थाङ्गमत(तः) शृणु॥
शिरोर्ध्वहस्तमुकुलौ त्र्यक्षरप्रणवौ युतौ।
आत्मनिश्चलसंयुक्तौ प्रणवाङ्गमिति स्मृतम्॥
चतुर्थाङ्गमिति प्रोक्तं पञ्चाङ्गं तु तत(तः) शृणु।
हस्तौ तालं ततः कृत्वा कृपया नृत्तकं कुरु॥
आनन्दनृत्तकं कृत्वा नृत्ताङ्गमिति निश्चितः।
पञ्चाङ्गमिति विज्ञेयं षष्ठाङ्गं तु त(तः) शृणु॥
एकचित्तमनुप्राप्य कृपास्तोत्रं प्रणामतः।
यस्य धारणकं स्तोत्रं षष्ठाङ्गं तु प्रवर्तते॥
षष्ठाङ्गमिति विज्ञेयं सप्ताङ्गं तु तत शृणु।
मन्त्राः पदानि वर्णानि भुवनानि च तत्वतः॥
कलामिश्रमसंयोगा ध्यानाङ्गं तु विचक्षणः।
सप्ताङ्गमिति विज्ञेयम् अष्टाङ्गं तु तत शृणु॥
सूक्ष्ममन्त्रं समुच्चार्य भ्रूमध्ये लिङ्गदर्शनम्।
अष्टाङ्गमिति विज्ञेयं नवाङ्गं च तत शृणु॥
जाग्रनिर्मलभावेन तुर्यस्थानं प्रवेशयेत्।
नवाङ्गमिति विज्ञेयं दशाङ्गं तत शृणु॥
आधारे ब्रह्ममारभ्य तदूर्ध्वे विष्णुमेव च।
विष्णोरूर्ध्वे रुद्रे च रुद्रूर्ध्वे महेश्वरः॥
ईश ऊर्ध्वे च सादाख्यं तदूर्ध्वे बिन्दुरेव च।
तदूर्ध्वे दृष्टिकं दृष्ट्वा ब्रह्मरन्ध्रे शिवं यजेत्॥
तदूर्ध्वे ताण्डवं चैव दशाङ्गमिति कीर्तितम्।
अनादरेण शाद्येन परिहासेन मायया।
नमस्कारे कृते लिङ्गे शिवलोके महीयते॥
रेणुकुण्ठितगात्रस्य रेणुसङ्ख्या तु यावती।
तावद्वर्षसहस्राणि तावत्संयोजितो हरः॥
सान्तं यान्तं त्रिरावृत्य प्रणवेन षडक्षरम्।
शिवाग्रे वर्तते यस्य सफलं तस्य जीवितम्॥
दीप्तौ –
प्रणम्य दण्डवद्भूमौ अष्टाङ्गसन्निवेदयेत्।
शिरो हस्तौ च कर्णौ च चिबुकं बाहुयुग्मकम्॥
अष्टाङ्गं च नमस्कारं पञ्चाङ्गं च ततः शृणु।
शिरो हस्तौ च बाहू च कृत्वा जानू च संस्थितौ॥
शिरो हस्तौ द्वि जानू च इदं पञ्चाङ्गमुच्यते।
अन्यत्रापि –
पादौ जानू करा वूरू नाभिमंसौ हृदा शिरः।
अष्टोत्तरमङ्गानी
त्याहुस्तैः प्रणामं शिवस्य तु॥*
उरसा शिरसा दृष्टिं मनसा वचसा हृदा।
बहुभ्यां च कराभ्यां च प्रणामोऽष्टाङ्गमुच्यते॥
॥ अथ रुद्राक्षविधिः॥
दी(दि)व्यवर्षसहस्राणि चक्षुरुमी(न्मी)लितं मया।
पृथिव्यां म नेत्राभ्यां पतितं जलबिन्दुवत्॥
रुद्राश्रविन्दवो जातामहा रुद्राक्षवृक्षकाः।
रुद्राक्षस्य तदोत्पत्ति रुद्रनेत्रजलोद्भवः॥
रुद्ररूपं फलं वृङम् एवं रुद्राक्षमुच्यते।
यः कण्ठार्पितरुद्राक्षाश्चानो विजयते यदि॥
स रुद्रपदमाप्नोति कं पुनर्मनुषादयः।
एकवक्त्रं शिवः साक्षात् ब्रह्महत्यां व्यपोहति॥
द्विवक्त्रं देवदेवस्य गोवधं नाशयेद्ध्रुवम्।
त्रिवक्त्रमनलः साक्षात् स्त्रीहत्यां दहते क्षणात्॥
चतुर्वक्त्रं स्वयं ब्रह्मा नरा हत्यां व्यपोहति।
पञ्चवक्त्रं स्वयं रुद्रः कालाग्नेः नाम नामतः॥
अगत्या गमनं चैव अभक्षणस्याच भक्षणात्।
मुच्यते सर्वपापेभ्यो पञ्चवक्त्रस्य धारणात्॥
षड्वक्त्रं कार्तिकेयस्तु धारयेत् दक्षिणे करे।
भ्रूणहत्यादिकं पापं नश्यते नात्र संशयः॥
अ सप्तवक्त्रं महासेन अनन्तं नाम नामतः।
स्वर्णस्तेयगोहत्या पातकैर्मुच्यते नरः॥
अष्टवक्त्रं महे न साक्षाद्देवो विनायकः।
विष्णुश्चैवाष्टवक्त्रं तु नववक्त्रं चतुर्मुखम्॥
मानकूटं तु वा कूटं सर्वकूटं तथैव च।
पृष्टोदरकरेणैव स्पृशं चैव परस्त्रयाम्॥
दशवक्त्रं तु हे वत्स साक्षाद्देवो जनार्दन।
ग्रहाश्चैव पिशाचश्च वेतालब्रह्मराक्षसः॥
पन्नगागरुडश्चान्ये सर्वे नश्यन्ति धारणात्।
वक्त्रैकादशरुद्राक्षं रुद्रा एकादशस्तथा॥
शिखायां धारयेन्नित्यं तस्य पुण्यफलं शृणु।
अश्वमेधसहस्राणि वा जपेत् शत तानि च॥
रुद्राक्षद्वादशकखं कण्ठदेशे तु धारयेत्।
गोमेधस्याश्च मेधस्य बहुस्वर्णस्य यत् फलम्॥
तत्फलं लभते मर्त्यो नात्र कार्या विचारणा।
न चैवाग्निभयं चैव न च व्याधि(धिः) प्रवर्तते॥
वक्त्रं त्रयोदशं वत्स रुद्राक्षं यतिं धारयेत्। (१७७अ, १स्त् line[१७१?])
कामदं सिद्धितं ज्ञेयं सर्वसिद्धिप्रदायकम्॥
रसं रसायनं चैव धातुर्वादं च पातुका।
माता पिता तथा बन्धु भ्राताश्चैव निहत्य च॥
वक्त्रं चतुर्दशं वत्स रुद्राक्षं यदि धारयेत्।
धारयेत् सततं मूर्ध्नि शक्तिबिन्दुः शिवस्य तु॥
पूजितः सततं देवैः प्राप्यते पुण्यमुत्तमम्।
स्वपुशोऽ(रे)पि हिमत्वे तत् रुद्राक्षे शिरसि स्थिते॥
शिखायां धारणादेत् मूर्ध्नि षट्त्रिंशतिं तथा।
द्वात्रिंशत् कण्ठदेशे तु हृदि पञ्चाशतं तथा॥
षोशं बाहुवलयं द्वादशं मणिबन्धनम्।
श॥।चाष्टावक्षमाला नित्यं धारयते नरः॥
पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः।
शिखायां धारणात् कोटिकर्णयोर्दशकोटयः॥
सहस्रकोटयः कण्ठे असङ्ख्या बाहुधारणात्।
प्रयाणकाले रुद्राक्षं भक्षयित्वामृतो यदि॥
सोऽपि रुद्रत्वमाप्नोति पुनर्जन्म न विद्यते।
कुर्यादष्टोत्तरशतं तदर्धं वापि यो नरः॥
अथवा सप्तविंशत्या सुभा रुद्राक्षमालिका।
मोक्षार्थी पञ्चविंशत्या क्षेमार्थी सप्तविंशति॥
धनार्थी त्रिंशति कुर्यात् दशपञ्चाभिरारकी।
पञ्चविंशति मोक्षार्थं सप्तविंशति पौष्टिकम्॥
अष्टविंशति काम्यार्थं त्रिंशद्धनयान्यकम्।
जकारं जन्मनाशं तु पकारं पापनाशनम्॥
मकारं मलमोचं तु लाकारं मुक्तिकं तथा।
जपमालापरिभाषा तु उच्यते परिवाचकः॥
जकारं जन्मविच्छेदं पकारं पापनाशनम्।
जपं मृत्युहरं यस्मात् तस्मात् जपमिहोच्यते॥
स्पष्टघोषफलमेकं दन्ततालोष्टतं ददशः।
जिह्वामूले शतं विद्यात् शतसहस्रान्तमनो जपम्॥
उत्तमं मानसं जप्य ॥।पांशमध्यमं तथा।
अधमं वाचिकं प्राहुः आगमार्थविचारकाः॥
गोपुच्छवलयाकारं प्रत्येकं ग्रन्धिसंयुतम्।
मुखं मुखेन संयुक्तं पुच्छं पुच्छेन संयुतम्॥
अङ्गुष्ठमोक्षमाज्ञेयं तर्जनी शत्रुनाशनी।
अनामिके पौष्टिकं स्यात् मध्यमाधनगामिनी॥
अङ्गुलीजपसङ्ख्यानामेकमेकं षडानन।
रेखाभिश्चाष्टगुमकं पुत्रदीपफलैर्दश॥
तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारणम्।
पश्चिमे धनलाभं च उत्तरे शान्तिकं भवेत्॥
आग्नेय्यां व्याधिपीडा च नैऋते द्वेषणं तथा।
वायव्यां कर्षणं चैव ऐशान्यां मोक्षमेव च॥
शङ्खैः शतगुणं पुण्यं स्फटिकैस्तु सहस्रकम्।
रुद्राक्षदपतः पुत्रसङ्ख्यामेव तु विद्यते॥
जपमाला तु नक्षत्रं नायकं तु शशिर्भवेत्।
ग्रन्धि विष्णुशिवोपेतं तु ब्रह्मं तु देवता॥
रुद्राक्षमूलं तत् ब्रह्म तन्नालं विष्णुरुच्यते। (१७८अ, १स्त् line[१७२])
तन्मुखं रुद्रमित्युक्तं बिन्दु तत् सर्वदेवता॥
तस्मात् देवस्य रूपं च साक्षान्मोक्षस्य साधकम्।
अच(र्च)नादौ र(अ)लङ्कृत्य अश्वमेथफलं(ल)प्रदम्॥
रुद्राक्षमुपवीतं च उष्णीषं चोत्तरीयकम्।
भस्मं चादिशैवानां पञ्चमुद्रा प्रकीर्तिताः॥
अयुतं चोपशतं च हस्तकं कणलक्षकम्।
छिन्नभिन्नं च रुद्राक्षं सारूप्यं फलमुच्यते॥
सप्तजन्मकृतं पापं क्षिप्रनाशं यतेन्नरः।
सप्तजन्मसहस्रेषु रुद्रलोके महीयते॥
अक्षमालाशिरोभस्मोद्धूलचर्मासनं तथा।
पवि॥॥पवीतं च षण्मुद्राः शैवलक्षणम्॥
जपमालामु(क)रोमालां शिरोमालां तथा पुनः।
बाहुमालां हस्तमालां च कण्ठमालां क्रमात् श्रणि(शृणु)॥
पञ्चविंशतिरुद्राक्षैर्मुमुक्षूणां जप स्मृतः।
षड्विंशति शिवार्थं च ज्ञानार्थं च(श)त्र(त्रु)नाशनम्॥
सप्तविंशति इत्यर्थमष्टाविंशति कीर्तिताः।
त्रिंशत् जायार्थिनं पञ्चदशकं चाभिचारकम्॥
इत्थं वै जपमाला स्यात् अन्यानां लक्षणं शृणु।
कण्ठादारभ्य नाभ्यन्तमुरोमाल्यसुलक्षणम्॥
नाभेरूर्ध्वमनायुष्यमधोनाभेस्तपक्षयम्।
तस्मान्नाभिसम॥॥॥॥॥क्षं ब्रह्मसूत्र॥।म्॥
शिरोमालां तु तन्नाभा बाहुमाला च तत् समा।
हस्तमाला हस्तमाना कण्ठमाला च तत्समा॥
दर्शनं पापशमनं स्पर्शनं सर्वसिद्धिदम्।
प्रागुप्तधारणात् पुण्यं रुद्राक्षं धारयेत् सदा॥
शुचिर्धाप्य शुचिर्धापि रुद्राक्षं धारयेत् सदा।
अरुद्राक्षधरो मन्त्रि यः ॥। ति शिवार्चनम्॥
तत्कृत्यं निष्फलं सर्वं भस्मै(मे)नैव हुतं हविः।
श्वापि कण्ठे न रुद्राक्षं धारयन्मृयते यदि॥
रुद्रपदमाप्नोति किं पुनर्मानुषादयः।
तस्मात् सर्वप्रयत्नेन रुद्राक्षं धारयेत् सदा॥
धारणात् स्वर्गमाप्नोति पुनर्जन्म न विद्यते।
हस्तकर्णशिखाकण्ठयज्ञसूत्रेषु सर्वदा॥
सर्वपापप्रशान्त्यर्थं भस्मना सह धारयेत्।
राजावार्ता वणिग्वार्त लोकवार्ता विशेषतः॥
रुद्राक्षचलनादेव मन्त्रवत् फलदो भवेत्।
रुद्राक्षाणां सहस्रेण कल्पितां शिवरूपिणा॥
धारयन्त्यः सदा मालां स याति परमां गतिम्।
तस्मात् सर्वप्रयत्नेन रुद्राक्षं धारयेत् सदा॥
म्लेच्छा वापि चाण्डालो युक्तो पाप्यति पातकैः।
रुद्राक्षधारणैर्युक्तः स रुद्रो नात्र संशयः॥
॥ इति रुद्राक्षविधि समाप्तम् ॥ ॥ इति सकलागमसारे लिखितम् ॥ (१७९अ, १स्त् line[११७])
॥ भस्मविधिः ॥
अथातः सम्प्रवक्ष्यामि भस्मस्नानविधिं परम्।
कपिलागोमयं श्रेष्ठं श्वेतायास्तु स मध्यमम्॥
रक्तकृष्णाधमं प्रोक्तं ग्राहयेत् पञ्चपत्रके।
अरु॥।त॥धक्रभूमापतितं ग्राह्यं सद्योमन्त्रेण गोमयम्॥
पिण्डानि वाममन्त्रेण अघोरेण विशेषयेत्।
शिवमन्त्रेण दग्ध्वा तु तत्पुरुषेण ग्रहत्सुधीः॥
दग्ध्वा पुरुषमन्त्रेण ईशानेन परिग्रहेत्।
केतकी मल्लिका नागं चम्पकं पाटलं तथा॥
पद्मं पलाशतुलसीमपामार्गं कुशाग्रकम्।
जातिं च तत्र निक्षिप्य सद्भाण्डेषु परिग्रहेत्॥
हलाबुपात्रे मतिमान् भस्मधारे तु वा क्षिपेत्।
मृत्कुम्भे तु नवे स्थाप्य कवचेनाभिरक्षयेत्॥
तद्भस्म परिगृहीतशिवमन्त्रमनुस्मरन्।
पञ्चब्रह्मशिवाङ्गैश्च व्योमव्यापि जपेत् सकृत्॥
निबद्धब्रह्ममुद्राभ्यां कराभ्यां भस्म धारयेत्।
दक्षि॥॥णन करेणैव वामहस्ते तु विन्यसेत्॥
दक्षजानुनि संस्थाप्य शिवमन्त्रशतं जपेत्।
सकृत् जपित्वा तु मन्त्राणि भस्मनोद्धूलनं कुरु॥
उद्धूलनेप्यशक्तश्चेत् त्रिपुण्ड्रं सर्वसन्धिषु।
द्वात्रिंशत्सन्धिदेशेषु अथवा षोडशेषु च॥
अष्टसन्धिषु वा मन्त्री त्रिपुण्ड्रं विधिना कुरु।
मूर्ध्निललाटकर्णौ च चक्षुषी घ्राणकौ तथा॥
आध्वग्रीवा तु बाहु च कोर्परौ॥॥॥॥॥॥॥।।
॥॥णिबन्धे च हृन्नाभिमेढ्रपायु तथैव च॥
ऊरू च जानुजङ्घे च स्पिचौदे॥॥तथैव च।
पादौ द्वात्रिंशदित्येते पठन्ते सन्धयः क्रमात्॥
॥॥॥॥।ष्टमूर्तीनां विद्येशानां तथैव च।
दिक्पालानां वसूनां च मूर्ध्नादि परिकल्पयेत्॥
शिरो ललाटे ग्रीवे च स्कन्धे बाहू च कोर्परे।
हृदयं जढ(ठ)रं चैव नाभिपार्श्वौ च पृष्ठके॥
त्रिपुण्ड्रं षोडशस्थाने कारयेद्वे द्वे शिवाश्रमी।
शिवादिपञ्चमूर्तीनां वामादीनां तथैव च॥
अश्विन्योस्तु प्रियं ज्ञेयं मूर्ध्नादि परिकल्पयेत्।
शिरो ललाटकण्ठे च बाहू च हृदयस्तथा॥
नाभिः पृष्ठमिति ज्ञेयं त्यष्टौ सन्धयः क्रमात्।
ईशानेनैव मूर्धानं वक्त्रं तत्पुरुषेण च ॥
हृदयं घोरमन्त्रेण गुह्यं वै वाममन्त्रतः।
सर्वाङ्गं सद्यमन्त्रेण कुरु रुद्धूलयेत् क्रमात्॥
देहे च लाञ्छनं कुर्यात् भस्ममिश्रितचन्दनैः।
दीक्षितानां द्विजातीनां त्रिपुण्ड्रं तु षडङ्गुलम्॥
अदीक्षितं त्रिपुण्ड्रस्य लक्षणं वक्ष्यते शृणु।
मध्यानामिकतर्जन्यैः कुर्याच्चैव त्रिपुण्ड्रकम्॥
ब्रह्माविष्णुश्चरुद्रश्च त्रिपुण्ड्रस्याधिदेवताः।
सृष्टिस्थितिसंहार त्रिपुण्ड्रस्य स्वरूपकाः॥
ब्राह्मणानां षडङ्गुल्यं नृपाणां चतुरङ्गुलम्।
वैश्यानां द्वयमङ्गुलं शूद्राणामेकमङ्गुलम्॥
अन्येषामपि सर्वेषां त्रिपुण्ड्रं शूद्रवत् भवेत्।
नृपाणां दीक्षितानां च भस्ममिश्रितचन्दनैः॥ (१८०अ, १स्त् line[११८])
ब्रह्मरन्ध्र स्वयं ब्रह्मा सुब्रह्मण्यो ललाटके।
कण्ठे विनायको देवो नेत्रयोः सूर्यसोमकौ॥
बाह्वोरिन्द्रश्च विष्णुश्च हृदये च तथेश्वरः।
नाभौ च दुर्गादेवी स्यात् पृष्ठे च पितरस्तथा॥
ऊरू द्वये तु नागाश्च नागकन्यास्तथैव च।
ऋषयो ऋषिपत्निश्च जानुयुग्मे तथा पुनः॥
पादयोरर्णवाः सप्त सर्वतीर्थ॥॥।नि संस्थिताः।
स्थानानि च त्रिपुण्ड्र स्यात् देवाश्च परिकीर्तिताः।
पूर्वाह्णे भोजने चैव आसने शयनेऽपि च॥
भस्मना च त्रिपुण्ड्रं स्यात् सर्वरक्ष॥॥विधीयते।
वीडः सर्गे च भुक्तौ च भवने जलगाहने॥
चण्डालशूद्रस्त्री स्पृष्ट्वा चाग्नेयं स्नानमभ्यसेत्।
सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम्॥
स्त्रीपुन्नपुंसकं शूद्रं विलालबकमूषिका।
स्पृष्ट्वा तथाविधानन्याग्नेयं स्नानमभ्यसेत्॥
श्रीकरं च पवित्रं च रोगदोषविनाशनम्।
लोकवश्यकरं पुण्यं पापनाशं दिने दिने॥
सर्वरक्ष्या च मर्थ्यानां शिवलोगं(कं) स गच्छति।
दुस्वप्नदर्शनै चैव दुर्जनस्पर्शने॥॥॥॥॥॥।॥
स्नानशक्तिमनुष्याणामातुराणां च सर्वदा।
भस्मस्नानेन शुद्ध्यन्ते त्वर्चनायोग्य॥॥॥।॥
॥॥॥।ग्रहाश्च भूताश्च ॥॥॥॥॥॥॥॥॥॥।
अपस्मारापमृतयूनां सर्वरक्षा विधीयते॥
वृथा वेदं वृथा यज्ञो वृथा दानं वृथा तपः।
वृथा॥।वासश्च त्रिपुण्ड्रं च न धारयेत्॥
जलस्नानशतं कृत्वा मन्त्रस्नानं तु लक्षतः।
भस्मोद्धूलनन्त्रेण स लुद्रो नात्र संशयः॥
भस्मोद्धूलितदेहानामापादतलमस्तके।
रोमरोम भवेल्लिङ्गं तद्देहं पीठमुच्यते॥
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने।
यस्त्रि ॥॥॥॥(पुण्ड्रं) न धारे तु सर्वं निष्फलं भवेत्॥
त्रिपुण्ड्रं स्यात् ललाटेऽङ्गे शूलाङ्गे न परीकृतम्।
त्रिकालं वा द्विकालं ते एककालं त्रिपुण्ड्रकम्॥
शिवस्य सन्निधौ मा॥॥शिवाग्निगुरुसन्निधौ।
भस्मोद्धूलनकं न स्यात् कर्तव्यं शुद्धभूतले॥
पूर्वं भस्म प्रतादारं दत्वा द्रव्यं प्रणम्य च।
ततश्चैवोत्प्रणम्ये व भस्म धूलयेन्नरः॥
यावत्तु पतिता भूमौ भस्मस्य परमामवः।
तावदुत्सहस्स्राणि स कर्ता नरकं व्रजेत्॥
प्रमादात् पतितं भस्म भूमौ हस्तेन मार्ज्य च। (६थ् लिल्ने)
मूर्ध्नि वाथ हरेत्यत्र ततः शिवमनुस्मरेत्॥
लिङ्गाकारं च विल्वं च वेणुपत्रं तथैव च।
अश्वत्थोदुम्बरं चैव शम्भोश्शान लेखय॥
लिङ्गाकारं च दीपं च अर्धचन्द्रं त्रिपुण्ड्रकम्।
वृत्तमुद्धूलनं चैव षडैते शिवसाधनम्॥
(leaf १८१, १८२, १८३, १८४, १८५, १८६, १८७ अरे नोत् रेलतेद् तो सैवगम अन्द् अल्सो इन् तमिल् सो स्किपेद्)

रोच(व)कलापुरोदि न रुचिं मात्राष्टमांशेति तत्। दण्डः षोडशमांशको मणिनिभः
पश्चात्तमसां ततो दण्डान्तस्तटिदङ्कुरप्रतिभटज्योतिर्बिले ब्रह्मणः।
मध्ये भ्रूबिलयो
भवाङ्गुलमिते स्वीकृत्य तत्वप्रियम्। बिन्वर्धादिचतुष्पदस्य भगवानीशः स देशे स्व वधम्।
तस्मादूर्धमथैकलाङ्गलपदे शक्तिः कलाशांशिक।
पश्चात्तद्विगुणांशिका तदुपरि सान्यस्त्रयङ्गुले।
षट्कोपेतशतार्धपङ्क्तिदशकद्वन्द्वावशेषाङ्कितोः सूक्ष्माङ्गी चतुरङ्गुलेन य
समानपाशानुषङ्गावधिः। सा शक्ति। सा शक्तिश्चतुरङ्गुले विजयते। काप्यामनाख्यप्रभो।
इष्टे शक्ति श चतुष्कनाहतशिवः कल्पार्ककोटि द्युतिः।

बीजस्योच्चारणं जाग्रत्स्वप्नो बिन्दुपरिग्रहे।
सुषुप्तिर्नादसंयोगात् कुर्याजिन्तं(जीवन्तं) शिकिसंयुतम्॥
समनान्तं पाशजालमुम्मन्यन्ते परि(र)शिवः।
निष्कलं
॥॥॥द्रपुद्गलभूषणाद्धहिमांशुमद्रेयदण्डतदन्तशक्तिश्चतुष्टयेश्वरयोगिनम्।
शङ्गरं वा सु सागराङ्गुलचारिणं रसशून्यगम्।
सर्वमन्त्रपतिं ॥॥मपन्नतोऽस्मि षडध्वगम्।

आदिपञ्चममृत्युभूषण च खण्डगुणाश्रमुद्भानुं गड्वतिसीरभास्करसेन्दुवृत्तं
हलाकृतिः। सांशुमन्त्रिशिखं द्वि॥।
॥ब॥त द्विगुस्कग उन्मनः पातु च सकले परः सकलाकलः सकलश्शिवः। इति।
एतत् ज्ञानदीक्षायां षोडशसंस्कारप्रकार उच्यते।
अचिन्त्यविश्वसादाख्ये –
शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत्।
आत्मनो रुद्रपुत्रत्वं गर्भाधानं तदुच्यते।
स्वातन्त्त्र्यादिगुणव्यक्तिरिह पुंसवनं भवेत्॥
मायात्मनोर्विविकेन ज्ञानं सीमन्तवर्धनम्।
शिवादिसदसद्वस्तुस्वीकारो जननं भवेत्॥
बोधनं यत् शिवत्वे न शिवत्वार्हत्वनामतः।
शिवत्वस्य प्रवेशो हि निष्क्रामणमितीष्यते॥
परमात्मानन्दभोक्तृत्वमन्नप्राच(श)नमुच्यते।
शिवप्रसादोत्कर्षिं तु यत्तत् चूडाकरं भवेत् ॥
निर्वाणज्ञानसूत्रेण सम्बन्धमुपवीतकम्।
इन्द्रियाणां च संरोधो व्रतादेशे इति स्मृतः॥
पुनर्जन्मपरित्यागो गोदानमिति कीर्तितम्।
सर्वेषु निरपेक्षत्वं सद्भावस्ता(स्था)नमुच्यते॥
अनन्तशक्तियुक्तं च ॥।वाह इति कीर्तितः।
अनन्तशक्तिः संश्लैषो वानप्रस्थ॥॥ष्यते॥
केवलं शिवसद्भावो यदित्वमिति निर्दिशेत्। इति।
समयाचाराधिकीरी चेत् सबीजदीक्षया वर्तमानशरीराम्भकधर्मादिष्टपूर्वर्तादादिकात्
सानुषङ्गिकात् समयाचाराच्चान्यत्सर्वं कर्म युगपत्
परिपक्वं कृत्वा वागीवागीश्वरसंयोगम् ॥॥शित्य स्वात्मानं तत् गर्भे स्थित्वा युगपत्
सर्वयोनिषु जातं सञ्चिन्त्य कालत्रयव्यापि धर्माधर्मात्मकं सर्वं कर्म
युगपत् भोजयित्वा मन्त्रौषधतिरोहितविषशक्तिवत् अज्ञानं
प्रतिबद्धं विभाव्य ब्रह्मादिकारणत्यागक्रमेण शिवपदे संयोज्य
सर्वज्ञतादिषाड्गुण्याभिव्यक्तिं
प्रकाश्य शिवसमत्वं प्रापयेत्। समयाचारानधिकारी बालादिश्चेत् निर्वीजदीक्षया
देहारम्भकधर्मात् आनुषङ्गिकाच्चान्यत् समयाचारसहितं
सर्व कर्म शोधयेत् तदुभयत्रापि लोकधर्मित्वे शिवधर्मिभौतिकनष्टमेबुभुक्षुश्चेत्
कालत्रयव्यापिधर्मात्मकं सर्वं कर्म
वर्तमानशरीरे भागादायकं सम्भाव्यातिरिक्तसर्वमधर्मात्मकं
शोधयित्वा ब्रह्मादिकारणत्यागक्रमेण शुद्धविद्यातत्वे ईश्वरतत्वे वा द(अ)संयोज्य
शिष्यमस्तके शिवहस्तं निधाय मात्रालक्षणसंयुक्तं सकलप्रासादमुपदेशेत्।
मुमुक्षुश्चेत्
॥।करस्थकर्म विहाय धर्माधर्मात्मकं सर्वं कर्म शोधयित्वा
पूर्ववदज्ञानप्रतिबन्धं विभाव्य ब्रह्मादिकारणत्यागक्रमेण
पूर्ववत् परशिवपदे शिवसमत्वे
योजयित्वा शिश्य(ष्य)मस्तके शिवहस्तं निधाय मात्रालक्षणसंयुक्तं
निष्कलप्रासादमुपदिशेत्। एतत् सर्वं मन्दमलपरिपाकशिष्यविषयं
क्रियाद्यावद्गर्भणमन्त्रसामस्यात् कर्तव्यम् अथ ज्ञानवत्यानि तु अथ शान्त्यतीत
कलास्थितभुवनपर्यन्तगतो भोगानपेक्षितः दीप्यप्रशक्तिनिपातयुक्तः शिष्यश्चेत् तं
श्ष्यमाचार्यः महूर्तं परम(मा)नन्दनिमग्नो भूत्वान्तरं
मराशक्तिमयो भूत्वा चक्षुषी उन्मील्य प्रारब्धकर्मविभावज्ञानदृष्ट्यवलोकनेनाग्निना
निवृत्यादिकलासु स्थितं सर्व कर्म दाहयित्वा मन्त्रपदवर्णभुवनतत्वादि
क्रमेण सलासु संयोज्य कलाः पञ्चशक्तिषु नियोज्य हस्तमस्तकसंयोगेन मायाद्वयं
विसर्ज्य आणवमलावृतस्या
राहुग्रस्तचन्द्र
वत्स्थितस्यात्मनो मलं ज्ञानक्रियाशक्तिभिरपा(प)सार्य आत्मानं पराशक्त्यां योज्य
पुनरात्म(मा)नं पराशक्तिं चाद्वैतरूपपरशिवे नदीसमुद्रजलवत् क्षीरे
क्षीरवत् घृते घृतवत् योजयेत्। तदनु जीवपरयोरैक्यं प्रासादेन पञ्चाक्षरेण वा उपदिशेत्।
एवं योजितमात्मानं प्रारब्धकर्मभोगार्थं
देहे स्थितत्वात्
पञ्चभूतपञ्चेन्द्रियान्तःकरणबाधा निवृत्यर्थं समाधिसामर्थ्यार्थं च
ब्रह्मरन्ध्रचक्षुर्हृदयभ्रूमध्यान् शिवशक्तिरूपपादद्वयेन
स्पृशेत्। ब्रह्मरन्ध्रस्य आकाशस्थानत्वात् इतरेषां चतुर्णां तदन्तर्भूतत्वात् स्पृशेण
भूतशुद्धिः। भ्रूमध्यमं समाधिस्थानत्वात् तत्स्पृशात् समाधिसिद्धिः।
गर्भाधानादसंस्कारेषु तत्तदाश्रमकालविज्ञानेन संस्कुर्यात्।
ततः शिष्य उत्थाय गुरुं प्रदक्षिणीकृत्य नमस्कृत्य स्तुत्वा शरीरमर्थमात्मानं च
जलसहितं गुरवे
दत्वा ज्येष्ठानपि वर्णाश्रमानुगुण्येन नमस्कृत्य गुरुपादोदकं पीत्वा ज्ञानप्रदं
प्रसादं च किञ्चित् स्वीकृत्य प्रभाते कृतनित्यक्रियः सन् गुरुं
सम्पूज्य गुरुं ज्येष्ठान् शिवभक्तान् ब्रह्मणांश्च भोजयित्वा पश्चात् गुरुभुक्तशेषं
भुञ्जीयात्। ततः शिवागमं
शिवज्ञानबोधादिकं गुरुमुखात् श्रुणुयात्। इयमेव ज्ञानदीक्षा॥ एतत् त्वदर्थे सम्मतिः॥

(॥ मनोभावनदीक्षा ॥)
मनोभावनदीक्षायाः
किञ्चिन्मात्रं विशिष्यते। ज्ञानाचार्येण कर्तव्यं शास्त्रागमनिरूपणम्। चर्यादिज्ञाननिपुणः
सोऽहं भावात्मको गुरुः। तद्गुरुं शिष्य आगत्य संसारे
जन्मसागरे मलबन्धत्रययुक्तः सुखदुःखस्य वेदने निमग्नं मूढभूतं
मामधुना तु कृपानिधे अनेकजन्मसङ्कृ(स्कृ)तं तवपादाम्बुजे गतम्।
शरणाग॥(त)मात्मानं
रक्षणीयं स्वयं व्रतिः। इति विज्ञाप्य यः शिष्यो भक्तिमेकाग्रचित्तवित्।
एवं शिष्यं गृहीत्वा तु वाङ्मनःकर्मकायभिः।
षण्मासे वत्सरे वीक्ष्य ॥तु शक्तिनिपातनम्॥
धारणं ग्रहणाशक्तिसाधनं गुह्यदर्शनम्।
ज्ञानरूपमनुग्राह्यं बेधयेन्निश्चलं विदुः॥
देशस्थानं च कालं हि कर्मभावनदर्शनम्।
सदाचारमनुष्ठेयं कामात् बोध मम शृणु॥
तीर्थे भूम्नि शिवोत्कृष्टे तद्देशेन समन्वितम्।
नदीतीरे मठे वापि स्वस्थाने गुरुमन्द्रके॥
पर्वताग्रे रु(शु)चिस्थाने मण्टपं तत्र कारयेत्।
परीक्ष्य चतुरङ्गुल्या चतुर्हस्तस्य वेदिका॥
चतुर्द्वारसमायुक्तं चतुस्तोरणसंयुतम्।
दुकूलचित्रपटैश्चैकर्कत्ता दामैरलङ्कृतम्॥
ऊर्ध्वं विमानकं कुर्यात् पुष्पदामैः सुगन्धिभिः।
गोमयो लेपनं कृत्वा पञ्चगव्येन प्रोक्षणम्॥
स्थानमित्युक्तम्श्र(श्रि)त्य कालं कल्पितमेव च।
शुभनक्षत्रयुक्ते तु दीक्षा कार्यास्य तद्दिने॥
ज्ञानदीक्षासमायुक्तं ज्येष्ठमं कृत्वा पुरोहितम्।
तद्दिने त्वेकभुक्तं स्यात् तद्रात्रौ गव्यमीरितम्॥
पुनर्दिनं कूपवसन् स्नानशौचसमन्वितः।
अशुद्धमायास्वरूपं कालरात्रि सदा हृदौ॥
मायातत्वान्तिकस्थाने चिद्रूपान् दर्शयेत् क्रमात्।
चिद्रूपशुद्धमायान्ते वस्तु निश्यत एव च॥
माया द्विविधो द्विलयनमेकाकारस्य भावनम्।
तिरोधानातिरोधाननिर्देशन सुदर्शनम्॥
मृ(भू)तैः संयुक्तकाला तु कालरात्रिर्विशिष्यते।
क्षयकृत्येऽर्धरात्री स्यात् नित्यसंहृं निशि स्थितौ॥
देहेन्द्रियस्य व्यापारे रात्रौ संलीयते यः।
निशासु दीपकालं वा ज्ञानदीपस्य दर्शनम्॥
एतेन शास्त्रविदुषां रात्रिकालोत्तमो भवेत्।
स्वकाले मण्डपे वेश्य गन्धपुष्पादिषोडशैः॥
पूजाद्रव्याणि सम्पाद्य उत्तराभिमुखस्थितः।
भूतशुद्धिं चात्मखुद्ध्यादि कृत्वा चार्घ्यादिकं तथा॥
चतुस्तालस्य दीर्घं स्यात् षट्त्रिंशादङ्गुलमुन्नतम्।
गन्धानुलेपनं कुर्यात् विधिवत् शास्त्रमासनम्॥
क्षित्यादिकुटिलाप्रान्तं मन्त्ररूपं समर्चयेत्।
अष्टत्रिंशत्कलान्यासं सो(शो)कभावनयान्वितम्॥
ज्ञानदेशिकमास्थाय दिव्यपादाम्बुजं ग्रहेत्।
शास्त्रोपचारद्रव्येणाभिषिच्य मन्त्रतः॥
शुक्लवस्त्रेण सम्मृज्ज्य कुमुदानि समर्पयेत्।
भूर्जपत्रे शिलावृत्ते सुगन्धमनुलेपिते॥
प्रणवं च लिखित्वाथ तस्य मध्ये नमे लिखेत्।
तिरोधानमलं ध्यात्वा गुरुपादासनं क्षिपेत्॥
नाना दिव्यसुगन्धैश्च पुष्पदामैश्च पूजयेत्। ततः
धूपदीपौ समारोप्य स्थालीपाकं निवेदयेत्॥
दक्षिणामूर्तिरूपेण गुरुं शिष्यस्तु भावयेत्।
इदं हि भावशिष्यस्य गुरोः पाशविमोचनम्॥ इति
शिष्येण कृतां पूजां शुद्धया च समन्विताम्।
परानन्दमयो भूत्वा दक्षणा हि रूपेण गृह्णीयाद्देशिकोत्तमः॥ इति
पुनश्च स्वीकृत्य तादृशीम् आज्ञां शिष्यपाशान्विशोधयेत्।
शिष्यदेहे यथा युक्तं तत्तत्स्थानेषु देशिकः॥
मन्त्राध्वा पदाध्वा च वर्णाध्वा भुवनानि च।
कलाध्वा चेति षड्भेदान् अध्वानो व्याप्तिभिः सह॥
प्रवेश्य संसृतिक्लेशहेतुभूतमथार्घ्यसु।
बन्धकर्म तथा छित्वा ज्ञानेन निशितासिना॥
ज्ञानिनामध्वनः शुद्धाः शोधयेत् विधिना गुरुः।
महामायात्मिकां कृत्वा शिष्यचैतन्यरोधिकाम्॥
आणवीं तस्य तां शक्तिमनुसन्धाय चक्षान।
जृष्ट्वा ततस्तु चैतन्यं पृथक्कृत्य सुधाकरम्॥
राहुमुक्तमिवातीव शुद्धं शिवपदोचितम्।
योजयित्वानुसन्धानं पशुचित्तस्य तस्य हि॥
मात्रालक्षणसंयुक्तं प्रसादमनुना सह।
विधाय त्रिपादार्थानामुपदेशं यथाविधि॥
दीक्षा नाम यथा युक्तं परिकल्प्य शिवैकधीः।
शरीरमर्थं प्राणं च जलपूर्वं गुरोः करे॥
निवेद्य सुस्थितं शिष्यं यद्यद्देहान्तिकं तव।
मदीयमेव तत्सर्वं मत्वा त्वं विचरेः सदा॥
इत्युक्त्वा तं गुरोः शम्भोः प्रणतिं कारयेत्तु यम्।
स्वयं शिवस्य शुद्धात्मा कुर्यादभ्यर्चनं गुरुम्॥
अभिष्टुत्य परं स्तोत्रैः पूजामेवं समापयेत्।
कृत्वा शिष्यस्य यं पूजां गोरो श्रद्धा समन्वितः॥
वर्णगन्धोत्तरैः पुष्पैः धूपदीपादिभिः सह।
संसृति क्लेशसन्तापं हन्तुं नः त्वमिहेशिषे॥
न परोऽस्ति कृपामूर्ते पाहिं मां देशिकेश्वर।
इत्यभिषुत्वा नत्वाथ ज्येष्ठा न विकृताञ्जलिः॥
तान् स्वत्वं तानि कान् ज्येष्ठान् भोजयेत् स्व गुरूनपि।
शेषमन्नं स्वयं भुक्त्वा कुर्यात् गुरुनमस्कृतिम्॥
ज्ञानदीक्षा समाख्याता दीक्षोत्तरं विधिं शृणु। इति।
अथ च रौरवे च –
ईक्षणज्ञानदीक्षा च स्यां क्रमात् कृत्यं करोति सः।
ब्रह्माण्डस्य स्वरूपेण पृथिवी जानु॥॥।॥
पृथ्वी प्रकृतिपर्यन्तं व्याप्तोऽप्तत्वेन नाभि च।
पृथिवीश्वरतत्वं च व्याप्तमग्निस्तु कण्ठयोः॥
पृथिवी सदाशिवो(वे) लीनं वायुतत्वं ललाटयोः।
पृथिवी शक्तितत्वत्रयं च आकाशं ब्रह्मरन्ध्रतः॥
मन्त्रादिषड्विधं रूपं भूतादिद्व
न्द्वभागकम्।*
एतैः सुगर्भितै स्थानैर्निवृत्यादिकलाङ्गवित्॥
होमं भावित आचार्य अध्वसञ्चितकर्मणः।
ज्ञानाग्निदाहमाशृत्य अध्वसंशोधनं भवेत्॥
…मायाध्वरूपेण शिष्यचैतन्यभावनम्।
भाव्याणवमाख्यमलं तथा आद्यशक्तिं निरुध्यैव तिष्ठत्येतदनादितः ज्ञानदृष्ट्या
निरीक्षेत निर्मलत्व[म]भिधीयते शिष्यब्रह्मरन्ध्रे तु
…… संस्पृशः। निराहुनिग्रहतश्च चन्द्रयत्वं निर्मलो यथा। शिवे चैतन्यसन्धानं
शिवत्वव्यक्ति तत्पदं ततः शिवाश्रमि नातिरेक्यं शूलमन्त्रेण दर्शयेत्। ॥॥त्मानं तथा
कृत्वा स्वयमेकाग्रमानसम्।
स्वयं सन्धानयो शिष्य एकाग्रचित्तयो स्थितम्।
मात्रालक्षणसंयुक्तप्रासादसहिताक्षरम्।
विमुक्तेन प्रकारेण उपदेशं च कृत्य यत्॥
एषां कृत्य विशेषेण पाशकालिङ्गसम्भवम्।
पाशच्छेदनमुक्ति स्यात् अतिरात्रस्य कर्मणि॥
शिष्यस्य सम्मुखे कृत्वा दिव्यपादद्वयेन च।
शिवशक्तिस्वरूपेण मूर्धादौ विन्यसेद्गुरुः॥
पृथ्व्याति(दि)भूतसञ्चार आकाशगुण उच्यते।
आकाशे ब्रह्मरन्ध्रेऽपि निर्दग्धः कर्मनाशः॥
ज्ञानेन्द्रियाणां सर्वेषाम् अधिका चाक्षुषी भवेत्।
अस्मात् दृष्टिद्वये चैव युग्मपादस्पृशो भवेत्॥
कर्मेन्द्रिया जितं दग्धं ज्ञानेन्द्रियस्य च कर्मणि।
मनोबुद्धिरहङ्कारं सर्वेन्द्रियाणि प्रवर्तकम्॥
तस्य कर्म च दग्धं च हृद्देशे तु स्पृशेत् पदा।
पुनरागत्य भ्रूमध्यमात्मनः सोऽहमाप्नुयात्॥
शिवमधः कृत्वा ब्रह्मरन्ध्रे प्रवेशयेत्।
स्स्थाने पादमादृत्य प्रणत दण्डवत् गुरुम्॥
भावनादिक्षयाः चैनं शिष्यं शुद्धीकृत्य ॥।श्च सः।
शिवज्ञानबोधशास्त्रं च दद्यात् पत्या चन्तनम्॥
अनुग्राह्यस्तु यः शिष्यवाङ्मनः कायकर्मभिः।
अर्थप्राणाभिमानि सद्गुरुभ्यो निवेदयेत्॥
एतस्मात् कारणं कुर्यात् स्वतन्त्ररहितो भवेत्।
स्वतन्त्ररहितश्चैव समयाचारकल्पितः॥
निर्दिश्य पदपद्देहि वाङ्मनः कायकर्मभिः।
निस्सारदेहं सङ्गृह्य शुद्धकृत्यैरनुष्ठितम्॥
कुलालचक्रभ्रमणं धनुर्बाणसमन्वितम्।
एतैश्च करणै स्थित्वा शब्दादिविषयान्वितम्॥
संस्कारणाभिलशूनं पात्रं परिमलं भवेत्।
पद्मासने स्थितिं कृत्वा कायकर्मसु निश्चितम्॥
मौनमास्थाय वाग्दोषात् तस्य नश्यति तत्क्षणात्।
प्राणायाम मना स्थित्वा शिवध्यानपरायणः॥
चिदाकाशे हृदा पद्मे ज्योतिरूपं विभावयेत्।
ईक्षेण सर्वद्रव्याणि कार्पासाश्रयदीपवत्॥
दहेयुः सर्वपापानि देहनाशे तु मुक्तिदम्।
तत्रैव रौरवे –
जलं जले यथा क्षिप्तं क्षीरे क्षीरमिवाप्तितम्।
तथैव ह्येकतां याति दीक्षामन्त्रेण मन्त्रवित्॥
यथा प्रदीप्ते ज्वलने कुलराशिः समर्पिता।
गन्धा निर्वाति सर्वत्र न भूतस्तलतां व्रजेत्॥
एवं शैवाध्वरं प्राप्य दीक्षामन्त्रसमुद्भवम्।
न पुनर्जायतां याति दीक्षितो मनुजोत्तमः॥
भिन्ने देहे शिवो भूत्वा शिवधर्मैः समन्वितः।
शिवानन्दमनुप्राप्य चाविर्भावाय कल्प्यते॥
जलं समुद्रीमासाद्य नदीहृष्टाम्बुवाहिनी।
क्षारतोयत्वमायाति प्रभावाद्धि महोदधे॥
एवं वै देहभिन्नात्मा शिवमेवाधिगच्छति। इति।
ननु परतत्वे संयुक्तात्मनः
प्रारब्धकर्मभोगार्थं पुनरपि मायियेन देहेन सम्बन्धे हिताहितरूपस्यागामिकर्मणि
सम्भवात्तत्फलभोगार्थं पुनर्जननप्रसङ्ग इति चेत्
न शिवेन संयुक्तत्वादधमात्मा आगामिकर्मणा न लिप्यते।
तथोक्तं रौरवे –
तीव्रशक्तिनिपातेन युक्तं शिष्यं सदेशिकः।
महूर्तं परमानन्दे निमग्नो भूत्वाभ्यन्तरम्॥
पराशक्तिमयो भूत्वा पश्येत् पाशनिवृत्तये।
तन्निवृत्तौ चिदानन्दं जायते शिवयोगतः॥ इति।
एवं दीक्षा विशुद्धात्मा देहस्थोऽपि न देहभाक्।
निर्दग्धा शेषपाशत्वात् जीवन्मुक्तः शिवैकधीः।
देहपाते चिदानन्दं शिवैकरसतां व्रजेत्॥
न पुनर्भेदमायाति सरित्तोयमिवाम्बुधौ।
यथा सूर्योदयं प्राप्य तमः क्षिप्रं विनश्यति॥
एवं दीक्षां समासाद्य धर्माधर्मौ विनश्यतः।
यथा सूर्य इमां लोकान् प्रकाशयति रश्मिभिः॥

[शारदातिलके उक्तप्रकारं सुब्रह्मण्यकल्पम्]
तारं खड्गीश्वरः कूर्मो निस्वरो णान्तरीरितः।
भुवे नतिः सप्तवर्णाः सुब्रह्मण्यात्मको मनुः॥
वह्निबीजेन षड्दीर्घयुक्तेनाङ्गक्रिया मता।

सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिः
दिव्यैराभरणैः विभूषिततनुं स्वर्गस्य सौख्यप्रदम्।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकम्
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम्॥
लक्षमेकं जपेन्मन्त्रं शिध्येन हविषा ततः।
दशांशं जुहुयादन्ते ब्राह्मणानपि भोजयेत्॥
धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे।
पूजयेद्विधिना देवमुपचारैर्यथोदितैः॥
केसरेष्वङ्गपूजा स्यात् मन्त्रमध्यगतानिमान्।
जयन्ताख्यमग्निकोशं कृत्तिका पुत्रसञ्ज्ञकम्॥
अनन्तरं भूतपतिं सेनान्यं गुहसञ्ज्ञकम्।
हेमशूलं विशालाक्षं शक्तिवज्रकरान् न्यसेत्॥
दिग्दलाग्रेषु पूर्वादिदेवसेनापतिं पुनः।
विद्या मेधां ततो वज्रं कोणस्थान् शक्तिकुक्कुटौ॥
मयूरद्विपमभ्यर्च्य बाह्ये लोकेश्वरा(रान्) न्यसेत्।
अस्त्राणि॥।मनन्ते स्युः सुब्रह्मण्यार्चनेरिताः॥
स्वादुभिः भक्ष्यभोज्याद्यैः षष्ठ्यांसं(शं) प्रीणयेद्विभुम्।
पूजये दैवता बुध्या कुमारान् ब्रह्मचारिणः॥
स्थानं विजयं वीर्यं रक्षामायुश्रियं यः शः राः बीजम् नीं शक्तिः रूं कीलकं
प्रदद्यात् साधकस्याशु सुब्रह्मण्यः सुरार्चितः। इति शारा(र)दातिलके त्रयोदशः पटलः। अस्य
सुब्रह्मण्यमहामन्त्रस्य ब्रह्माविष्णु॥॥गायत्रीच्छन्दयः रां बीजं नी शक्तिः रूं
कीलकम्।
वज्रं शक्तिं च दण्डं च खड्गं पाशाङ्कुशं तथा।
गदा त्रिशूलं पद्मं च श(च)क्रं चेति दशायुधम्॥
षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत्।
कार्यकारणसंयुक्तं मूलमन्त्रमिहोच्यते॥
षष्ठम् ऊकारम्। त्रयोदशान्तं பதினாலாமெழுத்து அது ஔகாரம்। பஞ்சமமாவது
घोषाक्षरम् அது हकारम्।திஹரிணி யோஜகமாவது
ஹௌம் ॥॥ ஹௌம் கார்யம் बिन्दुः। कारणं नादम्। इति हरिन् கூட்டத்தால ॐ हां हूं हौं
शिवाय नमः எனல் வேண்டும்
பிரணவமும் हृदयबीजமும் எல்லா மந்திரங்கட்கும் பொதூ।
ஆரெட்டெழுத்தினமெல்லாமும் பதிநாலுமெட்டு நினரிசை விந்துவு நாதமு மீரிட்டு நின்று சிவாய
நமவென்க்கூரி மும்மல கூட்டை ॥॥॥ என்பது திருமந்திரம்।
(१९५अ, १स्त् ओर्देर्)

अमरेश्वराय नमः। आराध्याय नमः। इन्द्रपुरोगमाय नमः। ईशपुत्राय नमः।
उमापुत्राय नमः। ऊर्ध्वरेताय नमः। ऋषिप्रियाय नमः। ऋणोद्धराय नमः। (२न्द् ओर्देर्)
ऌवन्द्याय नमः। ॡ॥॥॥॥॥।। एकनायकाय नमः। ऐश्वर्यप्रदाय नमः। ओजस्विने नमः।
औत्पत्तिरहिताय नमः। अम्बुजासनाय नमः। अः क्षीणतेजसे नमः। कमण्डलुधराय नमः।
(३र्द् ओर्देर्)
खट्वाङ्गपाणये नमः। गङ्गासुताय नमः। घण्डहस्ताय नमः। ङप्रियाय नमः।
चन्द्रशेखराय नमः। छन्दोमयाय नमः। जगद्भुवे नमः। (४थ् ओर्देर्) झषकेतुजिताय
नमः। ज्ञानमूर्तये नमः। चङ्कहस्ताय नमः। ठस्वरूपाय नमः। डम्भाय नमः।
ढक्का प्रियाय नमः। णगम्या नमः। (५थ् ओर्देर्) तत्वरूपाय नमः। थविष्ठाय नमः।
दण्डपाणये नमः। धनुष्पाणये नमः।
नगरन्ध्रकराय नमः। पद्महस्ताय नमः। भणिभुक्वाहनाय नमः। बहुलापुत्राय
नमः। (६थ् ओर्देर्) भवात्मजाय नमः। महासेनाय नमः। यज्ञमूर्तये नमः। रमणीयाय
नमः। लम्बोदराय नमः। व चतुर्भुवे नमः। (१९५ब्, १स्त् ओर्देर्) शरसम्भवाय नमः।
षण्मुखाय नमः। सर्वलोकेशाय नमः। हरात्मजाय नमः। ल(ऴ)क्षमते नमः।
क्षमाक्षेत्राय नमः।
इति मातृकामन्त्रं समाप्तम्॥ (१९६अ)
॥सत्सुब्रह्मण्यकवचम्॥
गण्डस्थलप्रविलसत् सन्मदवारिधारा गन्धभ्रमद्भ्रमरविभ्रमलोलकर्णम्।
गन्धर्वसिद्धसुरकिन्नरगीयमानं गङ्गाधरस्य तनयं शरणं प्रपद्ये॥
सुब्रह्मण्यस्य कवचं वक्ष्येऽहं शृणु सुव्रत।
सर्वपापप्रशमनं सर्वोपद्रवनाशनम्॥
ब्राह्मानुष्टुपृषिच्छन्दः सुब्रह्मण्योऽस्य देवता।
षान्तदीर्घेण षट्(को)णषडङ्गन्यासकल्पना॥
सुब्रह्मण्योऽग्रतः पातु सेनानिः पातु पृष्ठतः।
गुहो मन्दाक्षिणे पातु व चतुर्भूः पातु वामतः॥
शिरः पातु महासेन स्कन्दो रक्षेल्ललाटकम्।
नेत्रयोर्द्वादशाक्षरश्च श्रोत्रे रक्षतु विश्वभूः॥
मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः।
ओष्ठं वल्लीपतिः पातु जिह्वां पातु षडक्षरः॥
देवसेनापतिर्दन्तान् चुपु(बु)कान् सहलासुतः।
कर्णं तारकजित् पातु बाहुद्वादशबाहुमान्॥
हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः।
हृदयं ब्रह्मभूः पातु कुक्षिं पात्वम्बिकासुतः॥
ऊरू पातु गजारूढो जानु द्वे जाह्नवीसुतः।
जङ्घे विशाखो मे पातु पादयोः शिखिवाहनः॥
सर्वाण्यङ्गानि दीनेशो सप्तधातूंश्च पावकिः।
सन्ध्याकाले निशीथिन्यां मां॥॥।या दुस्तरे जले॥
दुर्गमे च महारण्ये राजद्वारे सहायके।
दुर्मूले रणमध्ये च सर्वदुष्टमृगादिषु॥
चोरादिष्वस्व
देवेषु ज्वरस्य व्याधिपीडने।*
दुष्टग्रहादिभीतौ च दुर्नितित्तादि भूषणे॥
अस्त्रशस्त्रनिपाते च त्रातु मां क्रौञ्चरन्ध्रकृत्।
यः सुब्रह्मण्यकवचं इष्टसिद्धिप्रदं पठेत्॥
तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम्।
धर्मार्थी लभते धर्मम् अर्थार्थी चार्थमाप्नुयात्॥
कामार्थी लभते कामान् मोक्षार्थी मोक्षमाप्नुयात्।
यत्र यत्र जपेत् तत्र तत्र सन्निहितो गुहः॥
पूजा प्रतिष्ठाकाले च जपकाले पठेदिदम्।
तेषामेव फलावाप्तिर्महापातकनाशनम्॥
यः पठेत् श्रुणुयात् भक्त्या नित्यं देवस्य सन्निधौ।
सर्वान् कामानवाप्नोति सोऽन्ते स्कन्दपुरं व्रजेत्॥
॥ इति (सत्)सुब्रह्मण्यकवचं समाप्तम्॥
॥ गुरवे नमः ॥
षान्त इति सकारः इत्यर्थः – तद्दीर्घो नाम सा इद्यादि

असतु तुभ्यं महापुण्यं सर्वप्राणिप्रियङ्करम्।
जपमात्रेण पापघ्नं सर्वकामफलप्रदम्॥
मुनीन्द्राणाम् इदं देयं सर्वपीडानिवारणम्।
स्कन्दस्य कवचं सेव्यं पठना(नं) व्याधिनाशनम्॥
अग्नि लायात् प्रशमनं चोरोपद्रवनाशनम्।
पिशाचभीतिरोगाणां स्मरणादेवं(व) शान्तिकृत्॥
ईरितं स्कन्दकवचं हृदये धार्यते जनैः।
तेषां दारिद्र्यदुरितं न कदाचित् भविष्यति॥
भुवि सांराज्यसम्पत्तिरन्त्ये कैवल्यमाप्स्यति।
सदायुष्यं भवेत् सत्यं स्कन्दभक्तिश्च जायते॥
शिखां रक्षेत् कुमारश्च कार्तिकेयः शिरस्तथा।
ललाटं पार्वतीसूनिर्विशाखो भ्रूयुगं तथा॥
नेत्रे च कौञ्चभेदी च नासिकां शिखिवाहनः।
शक्तियुक्तस्तथा कर्णौ कण्ठमूले षडाननः॥
ओष्ठद्वयं च सेनानी रसनां तारकापहा।
दन्तं गुहः सदा पातु गाङ्गेयं चुबुकं तथा॥
गण्डं भवोद्भवः पातु वाचं वै शम्भुनन्दनः।
पार्वतीनन्दनो ग्रीवांसहिः कण्ठं तथाग्निभूः॥
नाडिकां सा(बा)हुलेयस्तु स्कन्धो षाण्मातुरस्तथा।
विशाखो बाहुयुग्मनं तु हस्तौ पातु वणिक् तथा॥
विनायकानुजः पातु अङ्गुलिं नखशालिकाम्।
सुब्रह्मण्यः सदा पातु कुक्षिं रक्षेत् सुरारिहा॥
वैकासं च तथाग्नेय स्तनौ रक्षेत् जगद्विभुः।
हृदयं युद्धशूरस्तु मनः कारुण्यवारिधिः॥
उदरे शिष्यमानश्च कटिं भक्तौघवतसलः।
नाभौ तु परमाचारी योनिकं वाञ्छितप्रदम्॥
गुह्यं शशिधरः पातु शिपिक्षेव च नीभदृक्।
ऊरू पायादुमासूनुर्जानु तु वल्लिकाप्रियः॥
जङ्घे पातु धनाध्यक्षः पातु गुल्फं महाबलः।
पादौ रक्षतु पापघ्नः सर्वाङ्गं कुक्कुटध्वजः॥
वसा-मज्जा-[अ]स्थि-रक्त-त्वक्-मेधा-शुक्लान्-सीत-क्वचित्।
देवचूडामणिः पातु मकुटं पद्मगोचरम्॥
महापराक्रमः पातु कपर्दी शम्भुलालितः।
शिवानन्दो निधिस्थानं बुद्ध्यादीन् मुनिसेवितः॥
प्राणादिवायून् सर्वज्ञः षड्वक्त्रस्तु सदा व तु।
लक्ष्मी कीर्तिगुणान् गोत्रं भार्यापुत्रान् विभुस्तथा॥
तथा ज्ञानमधः पातु सर्वदेवाभयप्रदः।
स्थलं यद्रक्षणं शून्यं कवचेन विवर्जितम्॥
तत्सर्वं रक्षतु प्रायो नित्यं यौवनगोचरः।
काव्यार्थस्य सदा सिद्धिः कवचं स्मरणाद्भवेत्॥
सङ्ग्रामे जयलाभश्च सर्वेषां जयकारकम्।
भूतप्रेतपिशाचादिशून्यनिष्कृतनाशनम्॥
पूर्वादि सर्वदिङ्मध्ये रक्षतां शक्तिवल्लभः।
आभिचारादिशून्यानि पठनात् स स्वमाप्नुयात्॥
स्कन्दस्य कवचं नित्यं यः पठेत् शृणुयादपि।
सर्वभाग्यानि सम्प्राप्य गुहसायुज्यमाप्नुयात्॥
॥ एतत् कवचमपि समाप्तम् ॥

॥ अथ सुब्रह्मण्यस्य मातृकान्यासम् ॥
शृणु कौशिक वक्ष्येऽहं सुब्रह्मण्यस्य मातृकाम्।
भुक्तिमुक्तिप्रदां पुंसां सर्वोपद्रवनाशनीम्॥
केशान्ते मुखवृत्ते च नेत्रयोः श्रोत्रयोः न्यसोः।
गण्डयोरोष्ठयोर्दन्तपङ्क्त्योमूर्ध्नि मुखे स्वरान्॥
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके।
टवर्गं दक्षिणे पादे तवर्गं वामपादके॥
पफौ तु पार्श्वयोर्न्यसेत् सकारं पृष्ठदेशके।
भकारं नाभिदेशे तु मकारं कुक्षिदेशके॥
यकारं हृदये न्यास्येत् रलौ दोर्मूलयोर्न्यसेत्।
वकारं कण्ठपृष्ठे तु शषौ कक्षद्वये न्यसेत्॥
सहौ शिश्ने च गुह्ये च ऴकारं भुजयोर्न्यसेत्।
क्षकारं व्यापकं त्वेषां सुब्रह्मण्याख्यमातृका॥
स्थानान्येतानि चोक्तानि पञ्चदण्डेश्वरान् शृणु।
॥ इति मातृकान्यासं समाप्तम् ॥
…पणञ्चம்படி द्वादशान्तதில் अन्नमः வலதுகண்ணில், इन्नमः இடதுகண்ணில்,
ईन्नमः வலச(து) செவியில், उन्नमः இடச(து) செவியில், ऊन्नमः வலது நாஸியில், ऋन्नमः
இடது நாஸியில், ऋन्नमः வலது கன்னத்தில், ऌन्नमः இடது கன்னத்தில்,
ॡन्नमः மெ(மே)லுதட்டில், एन्नमः கீழுதட்டில், ऐन्नमः மெமேர்பல்லோழுங்கில், ओन्नमः
கீழ்பல்லொழுங்கில், औन्नमः
ஶிரசிலே, अन्नमः [मुखे] வாயிலே, अः नमः வலது கை மணிக்கட்டிரதிப்பால அங்குட்டநது வக்கிக்க
கநிட்டை யீராக। कन्नमः,
खन्नमः, गन्नमः, घन्नमः ङन्नमः இடது கை மணிக்க
ட்டிரகிப்பாம்பபடியே, चन्नमः, छन्नमः, जन्नमः, झन्नमः, ञन्नमः வலது காலிலே
துடைமுட்டு, முழங்கால், பரங்கால் விரல் இவைகளில்। टन्नमः, ठन्नमः, डन्नमः, ढन्नमः,

णन्नमः இடது காலிலுமப்படியே,
तन्नमः, थन्नमः, दन्नमः, धन्नमः, नन्नमः வலது விலாபுரத்து, पन्नमः இடது
விலாபுரத்து, फन्नमः முதுகில், बन्नमः नाभिயில், भन्नमः வயிர்ரில், मन्नमः
हृदयத்தில், यन्नमः வலது முழங்கைக்கு மெ(மே)ல் தோளுக்கு க(கீ)ழை, रन्नमः இடது
கையிலவவிடசூலும்,
लन्नमः பிடரியில், वन्नमः வலது கக்ஷத்தில், शन्नमः இடது கக்ஷத்தில், षन्नमः ஆண்
குரியிலே, सन्नमः
உந்திக்கு கீழ், हन्नमः ॥॥। வலது தோளில், ऴन्नमः இடது தோளிலுமது, அன்திருடத்தொளில்
क्षन्नमः இப்படி பண்ணுக।
नमस्कन्दाय देवाय नमो ब्रह्मस्वरूपिणे।
शिखिध्वजाय देवाय नमो मायास्वरूपिणे॥
सदाशिवस्वरूपाय कुमारगुरवे नमः।
नमस्ते कार्तिकेयाय नमो वायुस्वरूपिणे॥
नमो गुहाय देवाय नमस्ते अग्निरूपिणे।
नमस्ते गणनाथाय ईश्वराय नमो नमः॥
गाङ्गेयाय नमस्तुभ्यं नमो रुद्रस्वरूपिणे।
नमो वरुणरूपाय नमस्ते शक्तिपाणये॥
नमो दैत्यारये तुभ्यं नमो विष्णुस्वरूपिणे।
नमस्ते पञ्चभूतानां पतये पापहारिणे॥
मूलाधारप्रतिष्ठाय मूलमन्त्राय नते नमः।
नमस्ते पञ्चवर्णाय वर्णातीताय ते नमः॥
षण्मुखाय नमस्तुभ्यं नमः षड्दर्शनात्मने।
ब्रह्ममन्त्रस्वरूपाय मायातीताय वै नमः॥
लक्ष्मिमन्त्रात्मने तुभ्यं नमो लक्ष्मिप्रदायिने।
नमस्ते प्राणिरूपाय नमो ब्रह्मस्वरूपिणे॥
नकारार्थस्वरूपाय नाना वर्णाय वै नमः।
नमो नारायणात्मन्ये
मकारार्थस्वरूपाय मायातीताय ते नमः।
नमः शिकाररूपाय शितिकण्ठायात्मने नमः॥
वकारार्थस्वरूपाय वागतीताय ते नमः।
यकारार्थस्वरूपाय यमरूपाय वै नमः॥
सकारार्थस्वरूपाय नमस्ते सार्वसाक्षिणे।
………।स्वरूपाय कालातीताय वै नमः॥
तकारार्थस्वरूपाय तत्वातीताय वै नमः।
यकारार्थस्वरूपाय नमो यज्ञस्वरूपिणे॥
मायाबीजार्थरूपाय नमस्ते मायारूपिणे।
पुनर्लक्ष्मिस्वरूपाय पुरुषाय नमो नमः॥
नकारार्थस्वरूपाय नमो नारायणात्मने।
मकारार्थस्वरूपाय नमो मातृस्वरूपिणे॥
नमस्काराय देवाय सुब्रह्मण्याय वै नमः।
प्रातःकाले च मध्याह्ने सायाह्ने च सदा शुचिः॥
यत्र तत्र भवे प्राप्ते राजस्थाने च दुर्गे।
विषमे चाचले वापि भयार्ते शत्रुपीडने॥
यो जपेत् परया भक्त्या मयोक्तं स्तोत्रमुत्तमम्।
सर्वान्कामानवाप्नोति स्कन्दसायुज्यमाप्नुयात्॥
शरणागतमातुरमायिजितं करुणाकरकामदकामहतम्।
शरकाननसम्भवचारुचिरं परिपालयतारकमारकमाम्॥
हरसारसमुद्भवहैमवतीकरपल्लवलाऴितकं मृतनोमुरवैरिविरिञ्च मुदां च निधे
परिपालयतारक
मारक माम्। जन्य विप्रजनप्रियवीर नमो जयभक्तपरायणभद्र नमः। जय शाख
विशाख कुमार नमः। परिपालय तारकमारक माम्। बहलासुतसायक-
भिन्नगिरे। सुरसिन्धुतनुजसुवर्णरुचे शिखि तोक शिखा वऴ वाहन हे परिपालय
तारकमारक माम्। शरदिन्दुसमानषडा
ननया सरसीरुहचारुविलोचनया निरुपाधिकया निजसालतया परिपालय तारकमारक माम्।
पुरतो भव मे परितापह मे पथि
मे सततं भज रक्ष गताम्। विराजिषु मे विजयं परितः परिपालय तारकमारक माम्।६॥ इति
कुक्कुटकेतुमनुस्मरतां
पठतामपि षण्मुखषट्कमिदम्। नमतामपि
नन्दनमिन्दुमृतोऽनुभयं क्वचिदस्ति शरीरभृताम्। ॥ सुब्रह्मण्यस्तोत्रं समाप्तम्॥
अथ अष्टोत्तरशतनाममन्त्रस्य मूलम्। सुब्रह्मण्याष्टोत्तरशतदिव्यनाममन्त्रस्य
गार्ग्यमहाऋषिः। अनुष्टुप्छन्दः। सुब्रह्मण्यस्य कृत्तिकासूनु देवता। श्रीम् बीजम्।
क्लीं शक्ति। मम स्कन्दप्रसादसिद्ध्यर्थे जपे ध्यानम्। विनियोगः। द्विषड्भुजं
षण्मुखमम्बिकासुतं
कुमारमादित्यसमानतेजसम्। वन्दे मयूरासनमग्निसम्भवं सेनान्य॥॥॥॥।
स्कन्दो गुहष्षण्मुखश्च पालनेत्रसुतप्रभुः।
पिङ्गऴं कृत्तिकासूनु शिखिवाहो द्विषड्भुजः॥
द्विषण्णेत्रः शक्तिधरः पिशिताशी प्रपञ्चनः।
तारकासुरसंहारी रक्षोबलविमर्दनः॥
मत्तप्रमत्तुन्मत्तः सुसङ्घस्य रक्षिता।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः॥
उमासुतः शक्तिधरः कुमारः क्रौञ्चदारिणः।
सेनानीरग्निजन्मा च विशाखः शङ्करात्मजः॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः।
अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः॥
गङ्गासुतः शरोद्भूतः पावकात्मज आहुतिः।
जृम्भप्रजृम्भउजृ(ज्जृ)म्भकमलासन उन्नतः॥
एकवर्णो द्विवर्णश्च त्रिवर्णश्च तथैव च।
चतुर्वर्णः पञ्चवर्णः प्रजपतिरथापरः॥
अग्निगर्भो शमीगर्भो विश्वरेतः सुरारिह।
हिरण्यगर्भशुभकृत् वसुमान् वटुवेषधृक्॥
पूषागभस्तिर्गगनश्चन्द्रवर्णः कलाधरः।
मयाधरो महामायी कैवल्यश्च कलात्मकः॥
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः।
परमेष्टिगुरुब्रह्म वेदगर्भो विराट् वसुः॥
पुलिन्त(द)कन्या भर्ता च महासारस्वतप्रदः।
आश्रिताखिलता(दा)ता च चोरघ्नो रोगनाशनः॥
अनन्तशक्तिरानन्दः शखण्डीकृतकेतनः।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः॥
कारणोपात्तदेहश्च कारणातीतविग्रहः।
अहीश्वरोऽमृतः प्राणः प्राणधारः परापरः॥
विरुद्धहन्तारवीरघ्नो रक्तः श्यामश्च पिङ्गलः।
बहुपर्णो गोपतिश्च दाक्षिणाद्यो वरप्रदः॥
सर्वेश्वरो लोकगुरुः असुरानीकमर्दनः।
अदेयं यस्य कस्यापि मुने गुह्यं गुरुष्विह॥
एवमष्टोत्तरशतै मन्नामभिः पूजितो गुहः।
सर्वाभीष्टं ददात्येव सुप्रसन्नो भविष्यति॥
एवं नामाष्टशतकं जपेत् चोरादिसङ्गुले।
राजद्वारे विवादे च प्रतिपा त्रिविवातने॥
भूतवेतालपैशाचब्रह्मराक्षसपीडने।
त्रिवारं पूजयेद्धीमान् गुरुभक्तिसमन्वितः॥
भस्माभिमन्त्रणं कुर्यात्तद्भस्मं परिधारयेत्।
भस्मधारणमात्रेण सर्वपीडा विनश्यति॥
जपान्तं पुरुषं दृष्ट्वा सर्पदुष्टः सुखी भवेत्।
उष्णशीतज्वरद्वे च जपमात्रेण नश्यति॥
संवत्सरजपेनैव अपस्मारः विनश्यति।
षण्मासात् कुष्ठरोगी च मुच्यते नात्र संशयः॥
कार्यवृद्धिकरं नॄणाम् अपमृत्युर्विनश्यति।
मन्त्राणां त्रिपदाय द्व द्व सु नाम पावको यथा॥
रक्षसा नामभूतं यद्वत् गङ्गा सर्वनदीषु च।
वसन्तकालः कालानां तपदान्तपनो यथा॥
तत्वं नामाष्टशत॥॥॥॥॥॥॥मुने शृणु।
एतत् जपस्य सततं स्कन्दभक्तिसमन्वितः॥
सुप्रीतः तपसान्निध्यं करोति शिवनन्दनः।
॥ इति सुब्रह्मण्यनामाष्टोत्तरशतकं समाप्तम् ॥
श्रीपर्वतः शिरस्थानं हृदयं तु चिदम्बरम्।
शोणाचलं गऴस्थानं कुम्भके पाणं तु नासिका॥
वारणासी च काञ्ची च वामदक्षणलोचने।
……।गङ्गा यत्रकुत्रापगाहिता। काश्यामुत्तरपाहिनी बहु सु कृच्छ्रफलदम् ॥॥॥॥॥॥॥।बुधः
न दूर्वा न तिला दर्भा नाक्षता न च मृत्यु(त्ति)का।
कावेर्यां मौसलं स्नानमष्टकृश्रफलप्रदम्।
ईक्षणं मूलमन्त्रेण प्रोक्षणं चास्त्रमन्त्रतः॥
ताडनं चास्त्रमन्त्रेण वर्मण॥॥क्षणं भवेत्। इति
जयचित् भेदनं विद्धि शिवसृष्ट्या निरीक्षणम्॥
प्रोक्षणं योग्यता॥॥ निर्जडात् भिन्नस्य वस्तुनः।
त॥॥तत्र चिद्स(श)क्तिर्यथा पाषाणताडनम्॥
उत्पत्तिस्तु लिङ्गानामभ्युक्षणमतः परम्॥ इति च।
क्षणं क्षणार्धं यो वर्तिः शिव कार्यपाशो भवेत्॥
तत्फलं शिवसायुज्यं नात्र कार्या विचारणा।
क॥।रो विजितेन्द्रियः प्रयतमा का नु व्रता॥
किं धनं विद्या किं त्वसुखं प्राज्ञेतरैर्भाषणम्।
का हानिर्विनयश्च कि(किं) निपुणता मोक्षे मतित्वे मतिः॥
अकृत्वा परसन्तापमगत्वा खनमन्दिरम्।
अदित्श(दिश)यित्वा चात्मानं यत्स्वल्पमपि तत्बहु॥
षट्सहस्रिकालोत्तरे आश्रमविधिपटले – ईश्वर उवाच –
ब्रह्मचारी गृहस्थश्च देशिकस्तु द्विधा मतः।
तयोर्वर्ज्यमवर्ज्यश्च कथयामि तवाखिलम्॥
माम्समुदुम्बरं शस्त्रं हरिद्रायाञ्जनवर्जनम्।
तथा स्त्री रागसंस्कारगीतवाद्यादिनर्तनम्॥
॥।सं बन्धिनं कृत्वा वर्ज्यमन्यत्र यत्नतः।
द्विकालभोजनं गानं वृतिना वर्जनं तम्॥
मृगेन्द्रे चर्यापादे –
मांसयोषिं मधुत्यागो वृतिनः क्षिति शायिता।
एतद्व्याख्याने – मांसत्यागश्चात्र
शूद्रस्यैव अन्येषामवृत्त्वेऽपि तन्निषेधसिद्धेः। इति लिखितम्। अस्तानेषु हीनेषु या धर्म ॥॥येत्
सुधीः। स तस्मादवमत्ये ॥।सर्वकरप्रदना यथा।
॥॥॥॥॥। वेष्वपि वा कुर्यात् गोषु च ब्राह्मणेषु च।(२०३अ, १स्त् line[१८२अ?]) [इन् तमिल् ओमितेद्], २०४ इन्
तमिल् ओमित्तेद्। २०५ उन् इम्पोर्तन्त्।
२०६ blank। २०७ blank। २०८ blank। २०९ blank। २१० blank।
गोमुखा विधिः।
………। सेप्रोक्ष्य शिवगायत्र्यभ्यर्च्य तज्जलेन स्वाहान्तमूलेन ग्र[गृ?]हस्थ
ईशानादिक्रमेण विरक्तस्तु
सद्योजातादिक्रमेण पञ्चशिरस्वर्घ्यं दत्वा पूजोपरिहंस्तं विन्यस्य ग्र[गृ?]हस्थः
सृष्टिक्रमेण। विरक्तस्तु संहारक्रमेण नमोन्तं ब्रह्मपञ्चकमावर्त्य
कनिष्ठिकानामिकाभ्यां पुष्पं यत्नतः सङ्गृह्य अङ्गुष्ठतर्जन्यग्राभ्यां
हुम्फडन्तास्त्रेण निर्माल्यमपनीय
कनिष्ठिकानामिकाभ्यां
पूर्वग्रहीतपुष्पं देवशिरसि विन्यस्य। हां ध्वनिचण्डेश्वराय हुं फण्णम इति निर्माल्यं
गौणैशाने चण्डेश्वरासने समर्प्य शिवास्त्रेण
लिङ्गं पाशुपतास्त्रेण पिण्डिकां च प्रक्षाल्य तत(तः) स्वाहान्तहृदयेन
सामान्यार्घ्यजलेन। இப்பால। देवमभिषिच्य इत्यादि பார்த்துக்கொள்ளவும்। இனி கோமுகை
யெங்கெங்கு வைத்துபூசிக்கலா தென்று உடை த்வான்தரன்தமுகமாக சிவனை வைத்து சாதகன்
வடக்கயாயிருந்து ॥॥॥॥॥॥॥।
கோமுகை கிழக்காய் இருப்பின் வைக்கச்சொன்ரா அது தெ(தே)வயில்ல என்ரதாகு
வசனம்। अरुणाचलोद्वद्धवामलिखितं तन्त्रसारे अर्चनाविधिपटले
परिवारार्चनं तु वा नालो वामे प्रयोक्तव्यः। सोमस्याभिमुखोऽथवा च यैशस्त्वीशदेशस्य

विघ्नराज ………।। अत्र पूर्वसन्धिं प्रति ॥॥।यानं पश्चिमसन्निधिं प्रति
वरुणदिगा॥॥॥ननम् इति परिवार॥॥॥। नालगोमुखा तस्याः
पूर्वाभिमुखलिम्म्(लिङ्गं) पश्चिमाभिमुखलिङ्गं
प्रति चलाने पार्श्वे प्रयोक्त सा गोमुखा। दक्षिणाभिमुखलिङ्गं प्रति
वामமென்றப்படியினாலேகி ம(மு)கம் தகோமுகே ஸ வை காமாம்। ஸோமம் உத்தரதிக் தா த்ரேவ प्रयोक्त
सा नाला इति ज्ञेयम्
उत्तरे हि मुखलिङ्गं प्रति वामपार्श्व एवेति ज्ञेयमिव विचारणीयम् எனவே அட்டபந்தன-
காலத்திலே முகம் உத்தரமாயிருக்க தெர்குமுகமானலிங்க॥॥॥தெர்கே உன்னதமாயி॥॥॥॥॥॥॥।

॥ गोमुखा निर्णयम् ॥ [॥ आवाहननिर्णयम् ॥] बोथ् अरे इन् थे मर्गिन्।
श्रीमत्कामिके –
पूर्वद्वारस्य पश्चिमस्य गोमुखामुत्तरे कुरु।
दक्षिणोत्तरके द्वारे गोमुखां पूर्व कल्पयेत्॥ என்ரது।
नालो वामे प्रयोक्तव्यः। என்ரதனாலே दक्षिणाभिमुख
लिङ्गத்துக்கு கிழக்கே गोमुखै யிருக்கிரதாமென்ராலும் सोमस्याभिमुखोऽथवा என்ரது
विशेषवचनम्। दक्षिणाभिमुखलिङ्गத்துக்கும் பிர்பட்ட வடக்கேயுங் கொழுமுனையிருக்
கலாமென்ரலின்।
எனவே दक्षिणाभिमुखलिङ्गத்துக்கு கிழக்கே கொமுகயுமாம் வடக்கே கோமுகையுமாம்। இதினாலே
சிவாக॥।உடையா गोमुकै இடிக்காயவைக்கச்
சொன்னதுமாம்। இது கிரியாபூசைக்கென்றால் ஞானபூசைக்கு
அட்டபெந்தநகாலத்திலே தானே வடக்கே गोमुகை யிருக்க உத்தரநாளமாயிருக்கிரதுதான் நல்லதாம்।
श्रीमद्विश्वसारोत्तरे – प्रतिमार्चनपटले –
देवस्य वरदाभावे वरदमभयं भवेत्।
तयोरभावे तत्कार्यं तत्र तत्रैव कल्पयेत्॥ इति
अथ वाहनविषये –
ऊर्ध्वे ह्यावाहनं कुर्यात् मूनमन्त्रं समुच्चरन्।
सद्योजातेन वामादित्रयेण स्थापनादिकम्॥
ईशानेन प्रदातव्यं सम्मुखार्घ्यं च तत्रैव। इति
ऊर्ध्वे शब्देन ईशानवक्त्र
मुच्यते तत्रैवावाहनविधानं तस्यैव शान्त्यतीतकलात्मकत्वेन
सद्योजातादिचतुर्मुखव्यापकत्वात् अत एव सम्मुखार्घ्यं स्वागतार्घ्यं च स्थापनादि च
तत्रेति
ईशानवक्त्रे விதித்து இதினானே
श्रीमत् सर्वज्ञानोत्तरे –
ऊर्ध्वं तत्र तु दातव्यं सम्मुखं च पराङ्मुखम्। इति
श्रीमत् वातुलशुद्धायां च –
किञ्चिदस्मिन् विशेषोऽस्ति ऊर्ध्वाननस्य षन्मु(ण्मु)ख।
मूलं सञ्चिन्त्य तद्वक्त्रं पराङ्मुखमिति स्मृतम्॥
पूजाकाले तु तं ध्यात्वा अर्चितं कर्म वक्रवत्।
एवं सङ्कल्प्य विधिवत् पूजान्ते पूर्ववद्भवेत्॥ इति
अथ श्रीमन्मकुटे –
आवाहयेत्ततो देवं पुष्पहस्तं सुखासनम्।
मूले स्मृत्वा परं ज्ञात्वा सर्वव्यापि सदाशिवम्॥
सदाशिवपरं ध्यात्वावाहयेत् सद्यमन्त्रतः।
स्थापनं वाममन्त्रेण अघोरेण निरोधनम्॥
पुरुषेण सन्निधानं स्यादीशानेन तु पूजनम्।
स्यात्॥
तथा श्रीमत्स्कन्दकोलोत्तरेऽपि –
आवाहयेत्ततो देवं सद्योजातेन मन्त्रवित्।
स्थापयेद्वामदेवेन अघोरेण निरोधनम्॥
यत् सान्निध्यं पुरुषेणैव ईशानेन तु पूजनम्।
पदोः पाद्यं पुरा दद्यात् आगतस्य शिवस्य तु॥
मुखेष्वाचमनं दद्यात् शिरस्वस्य निवेदयेत्। इति।
अथ श्रीमदूर्णाति –
ऊर्ध्वे ॥॥ पुनर्नीत्वा पश्चान्नाडाया सुषुम्नया।
क्रमेणाथ समानीय स्वगुरूक्तोपदेशतः॥
मूलेन स हृदावाह्य देयमावाहनाद्यकम्। इति
என்கிரவசனத்தாலே अघोरशिवाचार्यादिகள்
பண்ணினपद्धतिயில் हृदयमन्त्रத்தினாலே आवाहन-स्थापन-सन्निधान-सन्निरोधनम्
பண்ணச்சொன்னதென ॥॥॥ त्रिशतिकालोत्तरादिகளிலும்
आवाहयेत्ततो देवं हृदयेन तु षण्मुख।
स्थापनं पाद्यमर्घ्यं च तथाचमनमेव च॥
स्थापनं पूजनं चैव हृदयेन तु कारयेत्।
उक्तानुक्तं च यत् किञ्चित् तत्सर्वं हृदयेन तु॥
एकावरणमेवं तु सर्वकामार्थसाधकम्। எனவந்ததூஉம்।
இனி ததோ(தா)வது दण्डभङ्गिमुण्डभङ्गिविषये इति मूर्त्यर्चनं तस्य
मुण्डभङ्गिकलार्पणम्। अथ दण्डमुण्ड
भङ्गिக்கு
क्रियाक्रमद्योतिकायाम् – प्रतिष्ठाविधौ –
आसमन्तात् पीठे विन्यस्य लिङ्गे मूर्तिं ब्रह्माणि शिरो मुखहृद्गुह्यसर्वाङ्गेषु
दण्डभङ्ग्या ऊर्ध्व
प्रदक्षिणोत्तरपश्चिमवक्त्रेषु वक्रभङ्ग्या च विन्यस्य कलाभङ्ग्या न्यसेत्। तथा
पद्धत्यन्तरे –
दण्डभङ्गिन्यासस्तु मुष्टेरङ्गुष्ठाग्रतः ईशानमूर्ध्वे
नमः। इति मूर्ध्नि अङ्गुष्ठतर्जनीभ्याम् ॐ हें तत्पुरुषवक्त्राय नमः इति मुखे।
अङ्गुष्ठमध्यमाभ्याम् ॐ हुम् अघोरहृदयाय नमः। इति हृदये।
अङ्गुष्ठानामिकाभ्याम्
ॐ हिं वामदेवगुह्याय नमः। इति नाभौ। अङ्गुष्ठकनिष्ठिकाभ्याम् ॐ हं
सद्योजातमूर्तये नमः। इति पादे न्यसेत्। अथ मुण्डभङ्गिन्यासस्तु
मुष्टिं
बध्वा भद्रमुद्रया मूर्ध्नि ॐ होम् ईशानाय नमः। इति ऊर्ध्वमूर्ध्नि।
अङ्गुष्ठतर्जनीभ्याम् ॐ हें तत्पुरुषवक्त्राय नमः। इति पूर्वमूर्ध्नि।
अङ्गुष्ठमध्यमाभ्याम् ॐ हुम् अघोराय नमः। इति दक्षिणमूर्ध्नि।
अङ्गुष्ठानामिकाभ्याम् ॐ हिं वामदेवाय नमः। इत्युत्तरमूर्ध्नि।
अङ्गुष्ठकनिष्ठिकाभ्याम् ॐ हं सद्योजाताय नमः। इति
पश्चिममूर्ध्नि न्यसेत्।
इति இதர்கு வசனம் स्कन्दकालोत्तरे लिङ्गप्रतिष्ठायाम्।
सद्यं पश्चिमतस्था(स्स्था)प्य वामदेवं तथोत्तरे॥
अघोरं दक्षिणे स्थाप्य पूर्वे च पुरुषं न्यसेत्।
ईशानं तु शिरो मध्ये न्यसेदै(दे)व सृष्टिमार्गतः॥
என்பது मुण्डभङ्गिக்கு இனி दण्डभङ्गिக்கு
पञ्चब्रह्म न्यसेत्तत्र कलापिण्डं न्यसेत् क्रमात्। इति
तत्र शिवाध्वना
विधौ –
सद्यं वाममघोरं च तत्पुरुषेशानमेव च। இது முண்டபங்கிக்கு இனி தெண்டபங்கிக்கு
ईशानादि न्यसेद्वक्त्रे हृदि वक्त्रे गुह्यके॥
सद्यं वै पादयोर्न्यस्य ब्रह्मबीजेन विन्यसेत्।
इति।
सद्यः कलाभङ्गिरष्टाभिर्वामदेवस्त्रयोदश॥
अघोरस्यापि चाष्टाभिश्चतुर्भिश्चैव वक्त्रकम्।
ईशानं पञ्चधा चैव अष्टत्रिंशत्कला न्यसेत्॥ इति।
श्रमन्मकुटे –
द्वारं तु दक्षिणं श्रेष्ठं चातुर्वर्ण्यमनुक्रमात्।
पूर्वद्वारं प्रशस्तु ब्राह्मणानां महेश्वर॥
क्षात्रं तु दक्षिणद्वारं वैश्यानामुत्तरं शुभम्।
शूद्राणां पश्चिमद्वारं विशेषं तु महेश्वर॥
सर्वेषामपि वर्णानां दक्षिणद्वारमुत्तमम्। इति॥
॥ एन्द् ओफ़् रे १५५२७ ॥