सर्वज्ञानोत्तरवृत्तिः

श्रीः
योगप्रकरणम् सर्वज्ञानोत्तरवृत्तिः

अतः परं प्रवक्ष्यामि योगं
योगस्यारब्दकार्याक्षिप्तमलादिक्षपणोपायत्वात्पदार्थसम्बन्धः
पतिपदार्थतया पाटलिकः सम्बन्धः । * द्विहेतुत्वात् शुचिशब्देन
सूचितः प्रकरणसम्बन्धो योगकाण्डतया सूत्रसम्बन्धः
समुच्चयपदेनैव वाक्यात्मकोऽपि योगि योगात्मकान् गुणानि *
भिर्वाक्यैः । अतश्चर्याकाण्डादनन्तरं योगं सङ्क्षेपतः
प्रकर्षाद्वक्ष्यामि । कस्यायं योगसंस्कार अत-आह-

एकाकिनस्तु शान्तस्य यतचित्तस्य विरागिणः निस्पृहस्य ।   

उक्ताहारविहारस्य उक्तचेष्टस्य कर्मसु । उक्तस्वप्नोवबोधस्य तत्त्वतः
शृणु षण्मुख । पुरुषस्यैवायं संस्कारको न * * तं
जलानामिवचित्तस्येत्यर्थः । शिवयोगस्य सर्वज्ञत्वादि प्रकाशकात् ।
कीदृशस्य एकाकिनः सर्वसङ्गपरित्यागादपरिग्रहस्य
सन्न्यासाश्रमः शान्तस्य हिंसादिरहितस्य
यमनियमयुक्तस्येत्यर्थः । चित्तसंयमो हि यमो
नियमश्चेन्द्रियसंयमः । यदाह पतञ्जलिः �

अहिसां सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः यमाः ।
शौचसन्तोषस्वाध्यायेश्वर प्रणिधानानि नियमा इति ॥

अत एव यतचित्तस्य प्राणायामप्रत्याहाराभ्यां वशीकृत * * *
पलक्षितसर्वज्ञः यस्य शक्तिपादवशात् विरागिणः

प्। २) संसारवैराग्ययुक्तस्य निस्पृहस्य वैहिका भोगविमुखस्य
युक्ताहारविहारस्य यदु * मन्मृगेन्द्रेमिलं जीर्णाशनस्वस्थेत्यादि ।
किं च । सर्वकर्मसु युक्तचेष्टस्य उचितकरण इति यावत् ।
उक्तस्वप्नावबोधश्चोक्तकालानति * मयस्य? तस्य तं योग ध्येय
ध्यातृ सम्बन्धात्मकस्त्वतः शृणु । न तु पतञ्जलादेरिव
समाधिरूपं तस्य योगाङ्गत्वेन श्रुते यदुक्तं श्रीमन्मतङ्गे �

प्राणायामस्तथा ध्यानं प्रत्याहारोऽय धारणम् ।
नर्कश्चैव समाधिश्च षडङ्गो योग उच्यते इति ॥

अत एव युजिन् योग एव इत्यस्माद्धातोर्योगशब्दोन तु युज   

समाधाविति । एतदेव सूचयन् ज्ञानिन एव योगाधिकार इत्याह योध्यो
यच्चत ध्यानं तद्वै ध्यानप्रयोजनम् । सर्वाण्येतानि यो सयोगं
योक्तुमर्हति । च शब्दा ध्येयं चेत्यर्थः । यदाह �

आत्मा ध्याता मनो ध्यानं ध्येयः सूक्ष्मो महेश्वरः ।
यत्परं परमैश्वर्यमेतध्यान प्रयोज * ननं मनः ।
यथावध्येय वस्तुस्वरूपालोचनं चिन्तेत्यर्थः । ततो ध्यानमुच्येते ।
यच्छ्रूयते तद्रूपचिन्तनं ध्यानमिति ननु मनश्चित्तमिति व्या * यं
तस्य योगाङ्गत्वेनाप्रसिद्धेः । उपलक्षणं चैतत् अन्यान्यपि
यागाङ्गान्यं गिनं च योगं ज्ञात्वा योगाभ्यासः कार्यः ।

प्। ३) किं च ।

मानामानौ समौ कृत्वा सुखदुःखे समे तथा ।
हर्षं भयं विषादं च सन्त्यज्य योगमभ्यसेत् ॥

यदाहुः �

न हृष्यत्युपकारेण नापकारेण कुप्यति ।
यः समः सर्वभूतेषु जीवन्मु * * * म इष्यत इति ॥

अथ योगस्थानम्-

शून्यागारे मठे रम्ये देवतायतने शुभे ।
नदीतीरे विविक्ते वा गृहे घोरवनेऽपि वा ॥

प्रच्छन्ने च विविक्ते च निः * तनवर्जिते ।
योगदोषविनिर्मुक्ते निर्विकल्पे निरातपे ॥

योगदोषा पिपीलिकादयः । निर्विकल्प इति परकीयत्वादि विकल्परहिते ॥

योगाभ्यासोपक्रमः ।

स्नात्वा शुचिरूपस्पृश्य प्रणम्य शिरसा शिवम् ।
योगाचार्यं नमस्कृत्य योगं युञ्जीत मानवः ॥

योगासनान्याह �

पद्मस्वस्तिकं वापि उपस्थायाञ्जलिं तथा ।
पीठार्थमर्धचन्द्रं वा सर्वतोभद्रमेव च ॥

आसनं रुचितं बध्वा पद्माद्यासनलक्षणम् ।
संहितान्तरो देवध * ॥

अथकरणमाह �

प्। ४) ऊर्ध्वकायः समशिराः ।
सर्वसङ्गान्परित्यज्य आत्मसंस्थमनोगुहः ।
कुर्यादित्यध्याहारः? ।

ततश्च सर्वसङ्गान्परित्यज्य आत्मसंस्थं मनः कुर्यादिति
विषयेभ्यः समस्तेन्द्रियाधिष्ठातुर्मनसः प्रत्याहरणं कुर्यादिति
यावत् । अनेन प्रत्याहाराख्यं योगाङ्गं सङ्क्षेपात् ज्ञेयम् । किं च
तदानीं न दन्तैः संस्पर्शेद्दन्तान् सृक्वण्यौ च न जिह्वया,
किञ्चित्कुञ्चितनेत्रस्तु शिवं सम्यक् नदोच्चरेत् । प्रत्याहारकाले
विबीजात्मकमूल * * मनसा स्मरेदित्यर्थः । अथतदुच्चारप्रयोजनम् ।
सोद्गासयति तत्वानि तन्मात्राद्यानि देहिनाम् । अयमभिप्रायः ।
छान्दसो ।

विसर्जनीयलोपात् * ति शिवमन्त्रो श्वक्ष्यमाणवत् ।   

सगर्भप्राणायामपूर्वं शिवाधिष्ठिततत्वाद्यनेनोच्चार्यमाणः ।
समाधिलाभक्रमेण तत्त्वानि तावत्प्रकाशयति । मन *
त्रानुसन्धानेन शिवाधिष्ठिताभिमतत्वयोजना ॥ तत्तत्साक्षात्कारो
भवतीति यावत् तन्मात्रा माद्यानि यानि पृथिव्यादीनि भूतानि तन्मा
वाद्या एषामिन्द्रियादीनां तानि सर्वाणितत्त्वानि
श्रीमन्मतङ्गाद्युक्तवत्प्रकाशयतीति वेदितव्यम् । तानि च तत्त्वानि ।
तस्यैव च शास्त्रस्यानुसं(धाना)त् बन्धकत्वान्निवर्तत इत्याह-

पुनर्विनाशकश्चैव असंयुक्तः षडाननः । तेषामिति शेषः ।
प्। ५) तदानीं चाङ्गानामपि तदुद्भूतत्वात् पृथगुच्चारणयोगीत्याह
। न पृथक् हृदयं तस्य शिरो न शिखा गुह । चर्मास्त्र नेत्रसहितं
तस्मादेव प्रवर्तते । अथ प्राणायामस्यापि सगर्भतां प्रय * नु
कुम्भक प्राणायामपूर्वकं ध्यानं कार्यमित्याह ।

प्राणापानौ समौ कृत्वा सुषुम्नान्तरचारिणौ ।
तयोर्वृत्तिं निरुध्यात्मा शिवं ध्यायेद्वि * गः ॥

प्राणायामस्य सगर्भतोक्तां श्रीमन्मृगेन्द्रेऽपि ।
सोऽपि ध्यानजपोपेतः सगर्भौ न्यस्तदुज्झित इति ॥

अथ ध्यानस्यैव प्रकर्षावस्थात्मकं समा * * * ह

अविनाभावसंयुक्तो ज्योतीरूपं सुनिर्मलम् ।
सुसूक्ष्मव्यापकं नित्यं निर्विकल्पं सदा बुधः ॥

निर्विकल्पमिति ध्येयाकारस्फुटीभावेन ध्यात्रादि * * गेरहितमित्यर्थः
। यदाह पतञ्जलिः । प्रत्ययै तानता ध्यानं तदेव
स्वरूपशून्यमेव समाधिरिति । इत्थं सगर्भनिगर्भभेदेन
प्राणायामानां द्वैविध्ये * न्यथा त्रैविध्यमाह ।
उत्तमामध्यमामन्दाः सगर्भास्त्रिविधाः स्मृताः । सगर्भा
इत्युपलक्षणम् । अगर्भाणामप्युत्तमादि भेदं चानन्तरमेव
वक्ष्यति । * * रान्तरेणापि त्रैविध्यमाह ।

प्राणायामांश्च तान् कुर्यात् पूरककुम्भकरेचकान् । सगर्भाणां
प्राणायामादीनां समाधिलाभक्रमेण तत्त्वजयस्योक्त * * *

प्। ६) अगर्भाणां फलमाह �

प्राणायामैर्बहिर्दोषान् धारणाभिस्तु किल्विषम् ।
प्रत्याहारेण संसृज्य ध्यानेनानश्वरान्गुणान् ॥

यावच्छरीरभावि * * णि मादीन् गुणानित्यर्थः । अनश्वरः अशून्यः
शरीरः स्थैर्यमपि जायत इति सिद्धम् । अथ पूरकादिलक्षणमाह �

उदरं पूरयित्वा तु वायुना या * * प्सितम् ।
प्राणायामो भवेदेव पूरको देहपूरकः
विधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।
सम्पूर्णकुम्भवत्तिष्ठेत्प्राणायामः स कुम्भकः ।
तदो * रेचयेद्वायुं मृदुनिश्वाससंयुतम् ।
रेचकस्त्वेषविख्यातः प्राणसंशयकारकः ।

पूरकरेचकौवामदक्षिणनाडीभ्यां कार्यावित्युक्तं
प्राणसंशयकारक इत्युत्क्रान्तिदशायां ग्रन्थिछेदपूर्वं
रेचकस्य प्राणवियोगहेतुत्वादुच्यते ।

तेषामेव कालभेदादुत्तमादि भेदमाह ।
प्रसार्यं चाग्रहस्तं तु जानु कृत्वा प्रदक्षिणम् ॥

छोटिकां तु ततो दद्यान्मात्रैषा त्वभिधीयते ।
मात्राद्वादशविज्ञेयः प्रमाणं तालसञ्ज्ञकम् ।
तालद्वादशकं ज्ञेयं प्राणायामस्तु कस्यसः ।
मध्यमस्तु चतुर्विंशत् ज्येष्ठो द्विगुणो भवेत् ॥
तेषां चानुष्ठानविधिः ।

प्। ७) एकैकान्वर्धयेन्मात्रां प्रत्यहं योगवित्तमः ।
सत्वरेण विलम्बेन क्रमेणैव विवर्धयेत् ॥

इदानीं हृदयादिस्थानेषु ध्येयस्वरूपविषये निबद्धस्य मनसो
धारणादिकालमाह ।

प्राणायामोत्तमो यत्तद्विगुणा धारणामता ।
धारणाद्विगुणो योगो योगोऽपि द्विगुणी कृतः ।
योगसिद्धिरिति ज्ञेया शिवेन परमात्मना ॥

अत्र योगशब्देन ध्येयस्वरूपचिन्तनमपि ।
ध्यात्रा सह ध्येयस्थ सम्बन्ध इति कृत्वाध्यानमुच्यते ।
योगसिद्धिशब्देन तु समाधि । धारणाध्यानसमाधीनां
योगाङ्गानां क्रमेण प्राप्ते श्रवणात् ।

ननु श्रीमन्मृगेन्द्रे धारणादीनां कालाधिक्यं श्रूयते   

उक्तं हि तत्र �

अयमर्कगुणः कालः कृतचित्तव्यवस्थितिः ।
प्राप्नोति धारणाशब्दो धारणा सिद्धिदानतः ॥

धारणा द्वादश ध्यान दिव्यालोकप्रवृत्तितः ।
समाधिमणिमादीनां द्वादशैतानि कारणमिति ॥

सत्यं क्रियाभेदस्य तन्त्रभेदहेतुत्वादविरोधः अङ्गी तु योगो
ध्येयवस्तुसाक्षात्कारात्मको विशेषसम्बन्ध इत्याह । तदानु पश्यते
सूक्ष्मं गन्धतन्मात्रमात्मनि ।

रसं तेजश्च स्पर्शं च ऽसब्दतन्मात्रमेव च ।
पश्यते क्रमयोगेन वर्णभावैः पृथग्विधैः ॥

प्। ८) अहङ्कारं मनोबुद्धिगुणमव्यक्तपूरुषम् ।
अभिव्यक्तानि जानीयात् स्वधर्मगुणलक्षणम् ॥

विद्यां कलां ततः कालमायां विद्यां ततः परम् ।
दृष्ट्वानुक्रमशः सर्वान् पुनरस्त्रेण भेदयेत् ॥

विद्येश्वरं ततस्तत्वं ततस्सादाशिवं परम् ।
हित्वार्कं तु क्षुरिकास्त्रेण ततः सूक्ष्मं शिवं विशेत् ॥

अत्र च भूतानां स्थूलानामस्य प्रत्यक्षेणापि विज्ञातुं   

शक्यत्वात् केवलयोगसाक्षात्कार्याणि तन्मात्रादीन्युच्यन्ते
परमार्थतः पृथिव्यादिस्वरूपमपि सूक्ष्मयोगेन
साक्षात्कर्तव्यमित्युक्तं श्रीमन्मतङ्गादौ ।

ततश्च पृथिव्यादीनि शिवान्तानि तत्त्वान्येवं साक्षात्कृत्य   

प्रागुक्तवन्मूलयुक्तेन क्षूरिकास्त्रेण भेदयेज्जयेत् ।
बन्धकत्वान्निवर्तयेदित्यर्थः । उक्तं हि प्राक् सोद्गासयति तत्त्वानि
तन्मात्राद्यानि देहिनाम् पुनर्विनाशकश्चैव अस्त्रयुक्तः षडाननेति ।
एवमेतानि सालम्बनेन योगेन निष्कले शिवे स्वात्मानं युज्यादित्यर्थः ।
अत्र च तत्वजयोपयोगित्वेन शास्त्रान्तरोक्तं तर्काख्यमपि
योगाङ्गमर्थसिद्धिमेव यच्छ्रूयते-ऊहोऽन्तरङ्गो योगस्येति । अथ
योगफलं दर्शयति ।

अमृतात्मा शिवः साक्षात् तस्मिन्विष्ठस्तु योगवित् ।
सर्वज्ञः सर्वगः सूक्ष्मः सर्वेशः सर्वकृद्भवेत् ।

ननु । यद्येवं योगेनैव मुक्तिसिद्धेर्दीक्षाया अप्यानर्थक्यप्रसङ्गः ।

प्।९) तन्न एवं विधस्य शिवयोगस्य दीक्षाया
विनानुष्ठानासिद्धेरारब्धकार्यकर्मक्षिप्तमलादिनिवर्तन एव
चरितार्थत्वादनधिकारिणां शिवशास्त्रं विना
समस्ततत्त्वविषयज्ञानाद्यभावाच्च । अत एव मात्रप्रसङ्गात् ज्ञेयं
वस्तुदर्शयति ।

सर्वेष्वेव शास्त्रेषु ज्ञेयं वस्तुचतुष्टयम् ।
पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् ।

पतिरधिकारावस्थं शिव एवातश्च पतिपदार्थः सैव सोपाधिका
निरूपाधिकाभ्यां भेदद्वयमुपचारादुच्यत इति वक्ष्यामः ।
ततश्च ज्ञानस्यापि दीक्षाद्यङ्गत्वान्मोक्षहेतुत्वं परम्परया
सिद्धमित्याह ।

ज्ञात्वा तु तत्त्वसद्भावं तत्रसारं तु दुर्लभम् ।
सर्वथावर्तमानोऽपि गृह्णाति न पुनस्तनुम् ॥

इति लक्षद्वयाध्यापक श्रीमदघोरशिवाचार्यविरचितायां
शीमत्सर्वज्ञानोत्तरवृत्तौ योगप्रकरणम् ॥