मृगेन्द्रवृत्तिदीपिका

मृगेन्द्रवृत्तिदीपिका ॥

भट्टनारायणकण्ठविरचित-मृगेन्द्रवृत्त्याः व्याख्या

मृगेन्द्रवृत्तिदीपिका

यस्य ज्ञानक्रियारूपाशक्ति भुक्ति विमुक्तिदा सर्वज्ञानविधातारं तं वन्दे परमेश्वरम् । मृगेन्द्रवृत्तौ
नारायणकण्ठपादरचितागमयुक्त्यागमाविरुद्धं तात् पर्यार्थम् प्रकटयामः योऽर्थो वृत्तिकृता स्वयं
स्फुटतया विज्ञायते शाङ्करे शास्त्रेऽस्मिन्न हि तत्र किञ्चनमायावक्तव्य मालोत्वते यस्मात्
विस्तरभीरुणा न गदितो यस्यश्चास्फुटं सूचितः तत्रैवागमयुक्तियुक्तमधुना किञ्चित् मथापि उच्यते ।
रामकण्ठ महाकण्ठ कण्ठीरव पदानुगः न कुतार्कितः मातङ्ग गर्जितेभ्यो विभेम्यहम् तत्र तावत्र
भगवान् आचार्यशिष्ट विधानाय शास्त्रस्या विघ्न परिसमाप्तये च शास्त्रस्य करणोपादान कर्त्रो नव
तारकाश्च गुरून् पूर्वार्धेन प्रणमति उत्तरार्धेन तु शास्त्र व्याख्यां प्रतिजानीते चन्द्रार्धं
चन्द्रप्रकाशकत्वात् आह्लादत्वाच्च ज्ञानशक्तिरेवं चन्द्रकलात्वेन उच्यते सैव चूडाभूषणं यस्य
ज्ञानचन्द्रकलाच्चित इति श्रुते तस्य परमेश्वरस्य चर्येते गम्यते ज्ञायतेत्र चर्यते चानुष्ठीयते क्रियते
नेनेति च चरणौ ज्ञानक्रिया शक्ती शास्त्रप्रणयन करणभूते यद्वक्ष्यति करणाञ्च न शक्त्यन्यन्दिति
विकसन शीलत्वात् विमलत्वाच्चते वाब्जे तयोः युगं समष्टिरूपम् एकत्वेपि शक्तेः उपचारात्
ज्ञेयकार्योपाधिभेद विवक्षया युगमित्युक्तम् प्रणम्य कार्य वाङ्मनोभिः प्रग्वीभूय वागीश्वरीञ्च
शास्त्रोपादान भूताममहामायात्मिकां परिग्रहवर्तिनी परविद्या स्वरूपां यदुक्तं श्रीमत् पौष्करे ।
परा वागीश्वरी विद्या महामाया परास्मृता ।

प्। ३)

यद्वक्ष्यति शक्तेः नादोभवेदित्यादि तथा गणानां विद्येश्वराणां विद्यानामपरमन्त्रेश्वराणां
पशुसङ्घानाञ्च पतिः परमशिवस्तञ्च शास्त्र प्रणेतारम् प्रणम्य कर्तुक्रियाया साधकतात्वात्
प्रथमं करणोपादानं सकरस्यापि उपादानापेक्षितत्वात् उपादानोपादानं पश्चात् कर्तुम् उपादानं
क्रमञ्च यथा क्रमं गुरूरनन्त श्रीकण्ठशक्रभरद्वाजहारीतां स्तन्त्रावतारकानन्यांश्च स्वा
गुरुपारम्पर्यन्तान् प्रणम्य श्रीमन् मृगेन्द्र परमार्थं व्यनमति सम्बन्धा अनेन शास्त्रस्य परमेश्वर
प्रणी तत्वेन प्रामाण्यम् आत्मनश्च अविच्छिन्नसम्प्रदायत्वे नोप्तत्वं दर्शयति । लेशात् सङ्क्षेपात्
यथामति यथाबोधं तर्हि पारमेश्वरं शास्त्रं ब्रह्मणापि अशेषतः परिज्ञातुं शक्यम् यद्येवं
स्वमनीषि कथायत्किञ्चिदभिदधानो सावनाप्त एव स्यात् अत आह यथागम युक्ति आगमानुमानानति क्रमेण
अर्थः शुद्धमिति गहनमयश्च व्याख्या प्रवृत्तौ विशेषण द्वारेण हेतुः शुद्धत्वादेवासौ व्याख्येय
इत्यर्थः श्रीमत् सर्वेश्वरत्वात् परमेश्वरो विश्रः सा विद्यते कर्तुतया यस्मिन् शास्त्रे श्रामच्चेद
मृगेन्द्रञ्च ननु दशरष्टादशभिन्नेषु शास्त्रेषु मृगेन्द्राख्यया किमपि न भूयते सत्यम् अत एवेदं
कामिकाख्यं ज्ञानशास्त्रं मृगेन्द्ररूपिणा शक्रेण श्रुतत्वात् मृगेन्द्रमित्युच्यते । यद्वक्ष्यति
उपसंहार इत्येतत् कामिकं ज्ञानं मयाप्तम् । परमेश्वरादिति तथा ज्ञानं चैतत् परं गुह्यम्
यद्विपुष्टं जगत्रये श्रोतुः मृगेन्द्ररूपत्वात् मृगेन्द्रमिति सुरभिरिति तस्य परमार्थमर्थं यथाक्ष्यं
व्यज्यमीति प्रकटी करोमीति ये किल व्याख्यातारः प्रकृता न प्रयोगियत् किञ्चित् बहुतरं प्रलपन्ति ये च
कुशलं मन्यमाना व्याख्येयम् अर्थ स्पष्टम् इत्युपेक्षन्ते तानुभय प्रकारान् द्वितीयेनापि श्लोकेन
आक्षिपति । द्वितीयेनात्मव्याख्यायाः साधुत्वं सूचयन् साधुत्वव्याख्या लक्षणमाह साक्षादित्यादि
श्लोकत्रयेण शास्त्रसम्प्रदाय व्याख्या प्रवृत्तौ च कारणमभिधत्ते अध्ययन श्रवणादाविव
शास्त्रव्याख्यानेपि गुर्वाज्ञयैव प्रवर्तन हेतुः इत्यभिप्रायः यदुक्तम् आचार्यैः अपि गुरूपसदनात्
प्रतिसर्वत्र तैः गुरुवाक्यादेव प्रवर्तितव्यमिति मृगेन्द्रशास्त्रं सिंहञ्च गभीरत्वं शब्दस्य
गर्भारतया मन्त्रत्वेन चेति किमपीत्यादिना अनुक्तदुरुक्त सन्दिग्धानी समाधत्ते दोषारात्रिगुण
विपर्ययाश्च त्यन्तराव्यत्यनयैव मात्रया प्रवर्तन्तामित्याह । अतः परमित्यादि शास्त्र स्वरूपं दर्शयति
। अथानादीत्यादिना उपोत्घात पटलस्य प्रयोजनमाह यत् पुनरित्यादिना । यदाहुः चित्तां
प्रकृतसिद्ध्यर्थम् उपोत्घातं प्रचक्षते इति । उपोत्घातपटलस्य प्रस्तावमाह । पुराकिलेत्यादिना
समासादित दीक्षैरिति । नादीक्षितानां भुवनाधिकार इत्यर्थः ऊर्ध्वस्रोत इत्यादि सिद्धान्तरूपं
नवामादिक मृगेन्द्रोत्तर सञ्ज्ञमिति मृगेन्द्रं प्रत्युक्तत्वात् मृगेन्द्रोत्तराख्यं न तु मृगेन्द्रैकभूतं
ज्ञानादि पादचतुष्टय योगात् शिष्यगुणोपपन्नानीति यदाहुः अक्लीशक्तो विद्वान् शास्त्रेणापर्युदास्त
स्तन्त्रेधि क्रियत इति परमेश्वरादित्यादि ग्रहणात् भारद्वाजो व्याख्यानादौ पूर्जोभिवन्द्यश्च गुरुर्यतः
हारीतः हारीतशिष्य इत्यादि हारीत वचनमेव हारीतशिष्यादिभिः अनुभूत इत्यर्थः व्रतं शास्त्रीय
अनुष्ठानमिति सामान्य विशेषेण शास्त्रं सिद्धम् यदुक्तं श्रीमत् भार्गवे इति वर्णाश्रमाचारं
मनसापि न लङ्घयेत् यो यस्मिन् आश्रमे तिष्ठन् प्राप्तो दीक्षां शिवात्मिकाम् सः तस्मिन्नेव सन्तिष्ठेत् ।
शिवधर्मञ्च पालयेदिति श्रीमत् स्वायम्भुवेपि भ्रहिणो लोकमार्गस्थाः लङ्घयेत् न लौकिकम्
आचारदीक्षिताः तद्वत् कुर्वीरन्निति हरति पशुभ्यः पाशानीत्यादि हरशब्देनानन्त शिष्य श्रीकण्ठः
प्रोच्यत इति अत्रैव हेतुमाह इन्द्रशब्दस्य निधेरिति तत्रैव ब्रह्माण्डमध्याधिकारित्वादित्यर्थः एतदेव
प्रपञ्चयितुं प्रणयति कुत इत्यादि परिहरति यस्मादित्यादि हरादि मृत्युमायातमित्यत्रेन्द्रशाब्दो
भरद्वाजस्यापि उपलक्षणमित्याह इन्द्रादिक्रमेणेति ज्ञानपादं व्याचष्टे ज्ञायतेनेनेत्यादि ।
विद्याशब्देनात्र विद्यापादवाच्यः पत्यादिरधो गृह्यते तदनुगृहतश्शिवत्वाभि व्यक्तेरिति
विद्येश्वरादीनां शिवानुग्रहादेव सर्वज्ञत्वाभि व्यक्तेः यद्वक्ष्यति तत्रादौ केवलाणूनां योग्यानां
कुरुतेष्टकम् वामादि शक्तिभिः युक्तम् सप्तकोटि परिच्छदम् इति तस्मिन्नेवेश शब्दस्य मुख्यत्वमित्यर्थः
स्वातन्त्र्येणेत्यादि अनन्तादीनां तत् प्रेरणयैव सृष्ट्यादिकारणात् सर्वज्ञत्वेपि तेषां वा पेक्षया
कर्तृत्व न्यूनमित्यर्थः भरद्वाजस्य ऋषित्व प्रसिद्धौ ऋषिशब्दस्य पुनरुक्तताम् आशङ्क्य परिहरति ।
ऋगता विद्युत्यादि सम्बन्धादेरित्यादि ग्रहणात् अभिधेयम् प्रयोजनश्च गृह्यतेत्र सम्बन्ध
प्रकाशनार्थमिति हासमाह कदाचिदित्यादि विहरण हेवाकीनमिति क्रीडा व्यसनिनं निखिल
दुःखान्तश्चास्य सञ्जात इति निखिल दुःख हेतुत्वात् निखिल दुःखमलः तस्यान्तो व्यपगमः सञ्जातः
तत्काल एव मलपरिपाकवशात् शक्तिपातपूर्वं निर्वाण दीक्षास्य सम्पन्नेत्यर्थः ।

प्। १०)

अत एवाधिकारित्वात् श्रीमत् कामिकाख्यं चास्मै परमेश्वररूपादिदेश शास्त्रमिति शेषः सम्बन्ध
प्रकाशनाह सम्बन्धस्सित्यादि परादिरिति परो महानन्तरालो दिव्यो दिव्यादि वश्चेति तानेव दर्शयति तथा
हीत्यादि स्रोतः पञ्चकभिन्नमिति । सिद्धान्त रूपमेवेदम् पञ्चमन्त्रपरिग्रहात् पञ्चकृत्य प्रतिपादकत्वात्
पञ्चमन्त्रात्मिक शिवदेहाभि व्यक्तत्वाच्च पञ्चस्रोतो रूपमुच्यते नवादिकमपि तेषां शिवकर्म कत्वात्
कथं पुनः तेषामपि शैवत्वेन क्वचित् प्रसिद्धः उपचारात् शिवाधिष्ठितात्मान्तर प्रणीतत्वेन यद्येवं
परमेश्वरस्या शरीरत्वात् शास्त्रोपदेशानुपपत्तिः न जगत् सृष्ट्यादिवत् ।

प्। ११)

सङ्कल्पमात्रेणैव विद्येश्वरादीनां शास्त्रबोधकत्वात् तदेवाह स्वेच्छानुग्रहीतेत्यादि । ननु कामिकादयः
शिवभेदाः प्रणवादीनाम् उपदिष्टा इति श्रूयन्ते तत् कथं विद्येश्वराणामुपदेशः अत आह
विद्येश्वराष्टक प्रबोधानन्तरमिति प्रथमं विद्येश्वराणाम् उपदेशः पश्चात् प्रणवादीनामिति तेभ्य
उमापतेरिति तेभ्योऽनन्तरम् अनन्तभट्टारकात् श्रीकण्ठप्रापनम् सूक्ष्मादिभ्यो वानन्त शिष्यत्वेनैव
प्रसिद्धेः उक्तञ्च श्रीमत् रौरवे जगतः कारणम् अनन्तेशं परं गुरुं तेनोक्तमुपदेशानां
श्रीकण्ठाय महात्मन इति तदेवं शिवानन्तयोः परसम्बन्धः अनन्त श्रीकण्ठयोः महान्
श्रीकण्ठशक्रयोः अन्तरालः शक्रभारद्वाजयोः दिव्यं भारद्वाजहारी ततः शिष्याणामदिव्यं
ज्ञानक्रिया योगचर्या इति ज्ञानशब्दे नात्र ज्ञेयाः पति पशुपाशाः कथ्यन्ते प्रयोजनञ्चात्र ज्ञप्तिरिति
। त एवोपायोपेय लक्षणश्चायं सम्बन्धोऽत्र सूचितः तदेवम् इन्द्ररूपमिति परमाप्तद्वयोरपीति
कर्तुज्ञापकत्वेन विसदृश क्रियत्वात् नेतरे तराश्रय दोष इति । तदेव उदाहरणेन स्पष्टयति यथा
कश्चिदित्यादि । द्वितीयसूत्रं सम्बन्धयति तदेवमित्यादि । नारायणाश्रमाणाम् अनेकत्वात्
कस्मिन्नित्याकाङ्क्षायामाह बदर्याश्रमानामिति द्विजपदं व्याचष्टे भरद्वाजादीनामित्यादि । यदुक्तम्
मायाया प्रथमं जन्म यस्या जन्म ततः परमित्यादि कथं पुनः भारद्वाजादीनाम् इन्द्रसाक्षात्
करणात् पूर्वदीक्षितत्वं न तदानीं हारीतवचनकाले त्वस्यैव स्मार्तवदिति सूत्र प्रोक्तद्विजास्मवत्
यथाह देवलः मातापितृभ्यां गर्भाधानादिभिः संस्कृते गर्भाष्टमे वर्षे उपनयनार्हो भवति
तत्रोपाध्यायः पिता माता गायत्री एवम् उपनीतोपि को द्विजातिस्यादिति तत्रादिधी श्रवणानधिकारादिति
आदिग्रहनात् मन्त्राः यदुक्तं श्रीमत्कालोत्तरे मन्त्रतन्त्रं त्वया प्रोक्तमिति मन्त्रतन्त्र श्रवणेपि
दीक्षितानामेवाधिकारः यदुक्तं श्रीमत् वराख्ये दीक्षितो योधिकारी स्यात् योग्यस्थानार्चनादीष्विति
वक्ष्यति च अध्ययन प्रकरणे पूते महीतले स्थित्वा पशुश्रवणवर्जित इति । प्रत्यवाय श्रुतेरिति यदुक्तं
श्रीमत् रौरवे आज्ञा विलङ्घनात् प्रोक्तं क्रव्यादत्वं शतं समा इति । यदि वा द्विजशब्देन तेषां
द्विजत्व व्याप्तिः फलेनेव ज्ञानेन योगात् उत्कर्षः प्रोच्यते । स्वात्मादा वात्मज्ञाअनाद्य भावेपि
सर्वज्ञत्वात् दर्शनात् बन्धान्तर बन्धमात्मान मानानामेवां शक्तिः निपातवशात् तदुच्छेदोपायज्ञस्य
शिवस्य आराधनम् उपपद्यत इति शिवाराधन लक्षणमिति परिणतमलत्वेन शक्तिपातवशात्
शिवधर्माद्यात्मकं यदुक्तं श्रीमत् किरणे समे कर्मणि सजाते कालान्तरवशात् पु *
द्यतीव्रशक्तिनिपातेनेति । श्रीमत् स्वायम्भुवेपि सा शक्तिराप तत्याद्या पुर्जसो जन्मत्यपश्चिमे सन्निपातात्
क्षरत्यस्य मलंसंसारकारणम् क्षीणे तस्मिन्निधावास्यात् परं निश्रेयसम्प्रतीति ।

प्। १५)

तत्र बुद्धालुनीति पाठे शिवशुद्धालुनीत्यर्थः सर्वशब्दार्थमाह प्रत्येकमर्थं ब्रवीदिति मीमार्जसक
दृष्ट्या चोदितवानित्यभिप्रायः चोदना शब्देनात्र विधिनिषेध वाक्यानि अभिधीयन्ते इत्याह चोदनेत्यादि ।
चोदना वाक्यानां कार्य एवार्थे प्रामाण्याभ्युगमात् न बुद्धिरिति । बिन्द्वादेः प्रत्ययमात्रस्य
सिद्ध्यर्थत्वेन प्रवर्तकत्वात् कथं वचनम् इत्युपन्यासः सत्यं प्रत्यय मात्रस्यैव विधिरर्थस्तु
भावनापेक्ष एव पुरुषं प्रवर्तयति । अयमर्थः कुर्यादित्युक्ते किं केन कथम् इत्याकाङ्क्षायाम् इदमनेन
इत्थं कुर्यादिति वाक्यस्यैव प्रवर्तकत्वम् यदाहुः किमाद्यपेक्षितैः पूर्णसमर्थः प्रत्ययो विदधाति ।
धर्मशब्देन नात्र भावप्रत्यय रूपो बुद्धिगुणो विवक्षितः मीमांसकानामनर्हमतत्वात् नापि भाव
स्वभावः तस्य कार्यत्वात् नाप्य पूर्णाख्यस्संस्कारः तस्यानुष्ठोत्तर काल भावित्वादपि तु
यागाद्यनुष्ठानरूप एवेत्याह तदात्मातो वर्म इति नानुष्ठीयत इति । चोदनैवहि धर्मे प्रमाणमिति
धर्मस्यानुष्ठान रूपस्य प्रत्यक्षत्वेपि तज्जन्यस्यापि पूर्वाख्यस्य तत् फलस्य च स्वर्गादेः तत्
सम्बन्धस्य च अतीन्द्रियत्वात् प्रत्यक्षादि प्रमाणानां तन्त्र प्रामाण्यं न सम्भवतीति यद्येवं
प्रमाणं तन्त्राणां चोदना प्रमाणमत आह प्रमाणमेव चेदनेति । चोदनावास्तु नित्यत्वेन
कर्तृगतप्रलम्बादि दोषाद्यभावादिति इन्द्रियेषु अर्थेषु ज्ञापकत्वेन प्रामाण्यं

प्। १७)

अनिवार्यमेव यदाहुः अनधिगतार्थगन्तृप्रमाणमिति । अयोगान्ययोग व्यवच्छेदेनेति प्रमाण * * * *
चोदनायाः प्रामाण्यायोगं व्यवच्छिनत्ति । चोदनैवे व्यवधारणन्तु प्रत्यक्षादीनां प्रामाण्ययोगं
व्यवच्छिनत्ति फलस्या सङ्घात इति ननु क्वचित् पुत्रेष्ट्यादौ फलस्य विसंवादो दृश्यते । तत्कथं फला *
नाप्रामाण्य फलसाधक इति । फल प्रायम् इत्यल्प प्रयोजनमित्युत्तरत्र सूत्रमवतारयति इत्येवमित्यादि
योयमस्माभिरित्यादि चोदनैव धर्मे प्रमाणमस्तु वयमपि च चोदना धर्ममेव अनुष्ठामः इत्यर्थः ।

प्। १८)

समीहितसिद्ध्यर्थमिति समीहतं चैषां मलनिवृत्त्यादि चोदनां धर्मतामेव उपपादयति तथा हीत्यादि ।
प्रवर्तकं वाक्यं चोदनैवे त्युक्तम् ननु नास्माभिः प्रवर्तक वाक्यमात्रं प्रमाणमिष्यते अपितु श्रुति
रूपैव चोदना अत आह अभ्युपगम्यापिभ्रम इत्यादयः पुनरित्यादि शक्तिपातवशात् ईश्वरविष्टय संशय
विपर्यय ज्ञानविनाशेन प्रकाशित तदस्तित्वञ्च निश्चयानामित्यर्थः नत्वत्र महामोहो मल इति व्याख्येयम्
दीक्षयैव तत् क्षपणस्य वक्तुमाक्तत्वात् इत्युक्तेपीत्यादि सूत्रं व्याचष्टे एवमपीत्यादि परं भावमिति
व्याचष्टे तदीयभक्तिप्रकर्षमिति शक्तिपातयोग्यतैव तन्निष्ठत्वम् भक्तियोग्यतावेश लक्षणो
ज्ञानविशेषः यदुक्तम् अन्योपि योग्यतावेश लक्षणो परः उच्यते भक्तित्वेन समाख्यातो विज्ञानावयवोत्यथ
इति अत एव इदानीम् एतेषां मलपरिणतिः सम्पन्ना यतः शक्तिपात चिह्नभूता परमेश्वर शक्तिः वर्तते
तदहमेतेषां तत् प्रकर्ष ज्ञातुं पुनरपि मीमांसक दृष्ट्या क्षिपामीति स महासुन्दमाह
नत्ववभासशीलमित्याह कर्मानुष्ठानादेव फलं न देवता इति तस्यादेव तया वाचकाभिमत रुद्रेशादि
शब्दभेदेन प्रमाणान्तरैः असिद्धेः तेन सह सम्बन्धं ग्रहणासम्भवात् आगमेनापि असिद्धः तत
एवासम्बन्ध ग्रहणात् इतरेतराश्रयतो सिद्धेरेव ततश्च रौद्रं चरुं निर्वपेत् इत्यादावपि उपदेश्या
कारतया विशिष्टकर्माङ्गत्वेन स देवता शब्द एव प्रतीयत इति क्रियात एव फलन्न देवता इति इहापि
वक्ष्यति न च तत् साधकं किञ्चित् प्रमाणं भाग्यबाधितमिति ।

अथ शब्देतरत्वाभ्युपगमेपि न युष्मदभिमतश्च देवताविशेष सिद्धिरित्याह न चात्रेत्यादि
ब्रह्मविष्वादीनामपि विश्वेशिहत्वेन श्रवणात् इत्यभिप्रायः । न चाभ्युपगमो युक्त इत्याह तत्
संस्थितमेतदिति निश्चितमित्यर्थः शब्देतर इत्यादि सूत्रस्य सम्बन्धमाह एवम् अन्वयेनेत्यादि अनुभवरूप
इत्यादि विग्रहत्वाविग्रहत्वाभ्याम् अन्यस्याकेटेरसम्भवादिति उभरूप इत्यादि तदेव
सत्तदेवासदित्यादिनानेकान्तवादस्य नराकरिष्यमाह त्वादिति भावव्यस्तपक्ष द्वयेत्यादि
विग्रहत्वाविग्रहत्वयोः पक्षयोः दोषास्सम्भाव्यन्ते किञ्चिज्ञत्वात् अयोकर्तृत्वादयश्च तेषाम् उभयेषाम्
अत्र प्रसङ्ग इत्येव सामान्येन देवतायां शब्दमात्रं प्रसाध्यतद्विशेषस्य ईश्वराख्यस्य सत्भावे
प्रमाणाभावः न च तत् साधकमित्यादि ना प्रोच्यत इत्याह न किलेत्यादि । तत्र तावत् ईश्वरस्य
प्रत्यक्षाविषयत्वमित्याह परोक्षत्वेनेत्यादि न हीत्यादि ।

यदाहुः सत् सम्प्रयोगे विषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षनिमित्तं विद्यमानोपलम्भनत्वादिति
अथेत्यादिना योगि प्रत्यक्षं प्रमाणत्वेनांशकते परिहरति तन्नेत्यादि न हीत्यादि प्रमाणाभावात् योग्येव
तावन्न सिद्धः किं पुनस्तत् प्रत्यक्षेणेश्वासत् भावेनुमानम् प्रमाणमस्तीति चोदयति नन्वित्यादि
भरद्वाजादीनां सिद्धान्तशास्त्रानधि गमात् पौराणिकमतेन ईश्वरस्यैव शरीरम् अभ्युपगम्य उच्यते
तस्य पीत्यादि तस्यापि बाधामाह भवेदेतमित्यादि तत्र सा वयवीत्यादि हेतोः भावामाह
परमाण्विन्द्रियादेरित्यादि भवताम् अभ्युपगम इति भवादृशां परमाणुत्व वादीनां
साख्यादीनामित्यर्थः तर्हि ते नैव तेषां कार्यत्वमिति चेत् तन्ननित्याः परमाणवः निरवयव द्रव्य
त्वादात्मवदित्यादि अपि वक्तुं शक्यं यत् अत एव जगतः कार्यत्वासिद्धेः कर्तुपूर्वकत्वमपि बाधितं
भवतीति इदानीं जगतः कार्यत्वम् अभ्युपगम्य दूषणमाह किञ्चेत्यादि वाक्यं तदन्यथा सिद्धमिति
व्याख्यातुम् आशङ्कामाह अथोच्यत इत्यादि । अथोत्तरमनेन सूत्रखण्डेन उच्यत इत्याह एतदेवेत्यादि
पराणेति हासादि गीतमिति प्रवर्तकवाक्यं सामान्यविवक्षया श्रुतावपीति । विशेषविवक्षया उभय
प्रकारमपि वाक्यं दूषयितुं तदन्यथा सिद्धमित्य व्याचष्टे तदन्यथा सिद्धमिति चोदनानां कार्य
एवार्थे प्रामाण्यमित्यभि प्रायः तदेव उपपादयति । अत्र हीत्यादि वेदेभ्योर्थ वादादि वाक्यानां
प्रामाण्य प्रसङ्गः अत आह श्रुतावित्यादि इदानीम् उपमानार्थापत्योरनुमानान्तर्भावात् अभावस्य
सम्भवस्य च प्रत्यक्षान्तर्भावात् तान्यनादृत्य लोकवादात्व साधव इति

प्। २४)

व्याख्यातुं पौराणिकमते नैती हि अप्रामाण्य सिद्धत्वमिति श्वस्याशङ्कते अथ सकललोक सिद्धेत्यादि आहेति
। उक्तमाहेत्यर्थः तमेव सूत्रखण्डं व्याचष्टे अपर्यान्नोचितेत्यादि नैव तर्ह्यस्य प्रामाण्यं न
सम्भवतीति व्यभिचारदर्शनादिति भावः नन्वाप्त प्रवर्ति तस्य व्यभिचारो न दृश्यत इत्याशक्ते
अथेत्यादि अत्रापि दूषणमाह तर्हीत्यादि आगमस्य तु अयमेवोक्तो दोष इति आप्तत्वञ्च तत्तत् वाक्य वा
तॄणां कुतः प्रामाण्य सिद्धमित्याह प्रत्ययितश्चेत्यादि तस्येत्यागम कर्त्य ननु वेदेस्ति संहिता रौद्री
वाच्या रुद्रदेवतेत्युक्तम् अत आह नित्यत्वे त्वित्यादि एतच्च पूर्वमेवेत्युक्तमिति अनीशेत्यादि सूत्रम्
अवतारयतीति शक्रोक्तिमित्यादि सारवत्वात् गुरुत्वाच्चेति बुद्धे सारवत्वं सूक्ष्मत्वात् ग्राहित्वं गुरुत्वञ्च
स्थैर्यं ग्रहीतार्थ परिग्रह इत्यर्थः न जावित्यादि सूत्रस्य सम्बन्धमाह ततस्वेत्यादि अयमत्र सिद्धान्त
वादिनाम् अभिप्रायः देवतायाः शब्दमात्रत्वे अभ्युपगम्यमाने ज्योतिष्टोमेन स्वर्गकामो यजतेत्यादौ
स्वर्गाद्यात्मकमपि फलं प्रमाणान्तरासिद्धत्वात् शब्दमात्र एव स्यात् अथ पुराणेति हासादि प्रसिद्धत्वात्
स्वर्गशब्दोऽपि विशिष्टमेवार्थं फलत्वेन अभिधत्त इति उच्यते । तदिहापि समानमिति देवतायाः
शब्देतरत्व सिद्धिरिति अतश्च शब्देतरत्वे