मृगेन्द्र-पद्धति-टीका

लेखक-टिप्पनी (द्रष्टुं नोद्यम्)

सङ्ख्यायितो मृगेन्द्रपद्धत्य् आख्यो ऽघोरशिवाचार्यकृतोऽयं ग्रन्थः प्रतिलिपीकृतः ।
मूलेन नटेशशिव-कृत-टिकया च युक्तस्य ताल-पत्र-ग्रन्थस्यास्य १" X १" मितिर्भवति ।
प्रतिपत्रं षट्पङ्क्तयो ग्रन्थलिप्यां सन्ति ।
गन्थोपक्रमे क्रिमिकीट-दंश-हेतोस् तत्र तत्र पदानां लोपः ।
ग्रन्थस्यान्ते केषुचित् तालपत्रेषु सौष्ठवाभावाद् अक्षराणां लेखितुर्व्यक्त्यन्तरमनुमीयते ।
तथैव प्रमादा अपि प्रचुरा विद्यन्ते ।
ग्रन्थोऽयं क्रमेण पूर्णतां याति ।


मृगेन्द्रागमपद्धतिष्टीका च ॥


श्री ॥

नित्यार्चनविधिः

प्रणिपत्याभिधास्येऽहं मृगेन्द्रागमपद्धतिम् ॥

क्रियादिभेदभेदेन तन्त्रभेदः स्मृतो यतः ।
तस्मात्तन्त्रवदेवोक्तं कर्तव्य * * * * * ॥

वस्तुशक्त्याथवा प्रोक्तं तद्ग्राह्यं संहितान्तरात् ॥

प्रातरुत्थाय सञ्चिन्त्य शिवं हृत्पद्मवासिनम् ।
गत्वा * * * * * * * * * * * * सृजेत् ॥

न नदीभस्मगर्ताम्बुशष्पगोमयवर्त्मसु ।
क्रुष्टैकवृक्षशृङ्गाटश्मशानोद्यानकीर्तिषु ॥

मौनी दक्षिणकर्णस्थ * * * * * * * * ।

तृणादिच्छन्नभूरेकचित्तो नासाग्रलोचनः ।
गोविप्रलिङ्गचन्द्रार्कनार्यादीनामसम्मु * ॥

मृज्याद्गुदं तृणैर्लोष्टैर्न काष्ठोपलगोमयैः ॥

लिङ्गं वामेन सङ्गृह्य मृत् हृत्वान्येन पाणिना ।

लिङ्गे सैकागुदे पञ्चदशवामकरे द्वयोः ।
योज्याः सप्तस्फिजोरेका वामयोः करयोस्तथा ॥

गन्धलेपापनोदेन * * * * * * * * ।
आचम्य शुचिरासीनो दन्तधावनमाचरेत् ॥

क्षीरवृक्षोद्भवं सत्वश्युगवर्वाव्रणं शुचि ।
द्वादशाष्टाङ्गुलं भोगमोक्षयोर्दन्तधावनम् ॥

पिशाचधव * * * * * * * * * * * * ।
नाङ्गुली च कुशाश्वत्थौ न च याज्ञीयवृक्षजम् ॥

वारुणं तैजसं भौममानिलं दिव्यमानसे ।
गौरवं मान्त्रमित्यष्टौ स्नानान्येतेषु वारुणम् ॥

अस्त्रेण मृद * * * * * * * * * * * ।

संहितामन्त्रितां ब्रह्मवेष्टितां विभजेत्त्रिधा ।
एकेनांशेन कुर्वीत बाह्वोः शौचं पुनः पुनः ॥

गृही * * * * * * * * * * * * * * ।
कुर्यादूर्ध्वमाचम्य प्रागुदग्वदनो भजेत् ॥

ब्राह्मीं स विचिन्त्यास्त्रं विधिस्तानमथाचरेत् ।
शेषमंशं त्रिधा कृत्वा वामहस्तगतं जपेत् ॥

विघ्नानाद्येन हृत्वाम्बु कुर्यादन्येन चामृतम् ।
देहमालिप्य चान्येन संहितासु जलान्तरे ॥

निमज्य तारकमुखं तारकं * * * * * ।

स्नात्वोत्तीर्य शिखां बध्वा वसनं परिवर्त्य च ।
आचम्य विधिनाचामेत् तीर्थं संहृत्य तोयतः ॥

आत्मविद्या शिवै * * * * * * * * * * ।

बाहुनाभिं च हृदयं शिरस्तु विधिना स्पृशेत् ।
आग्नेयं परमं स्थानं कुर्याच्छुद्धेन भस्मना ॥

सन्ध्यासु स्त्र्यासु संस्पर्शे भोजनादिक्रिया स ॥

न मार्गे शिवविद्याग्निं कुर्वन्त्यजसमीपतः ।
दिवोद्धूलयेदङ्गे त्रिपुण्ड्राद्यैर्गृ * * * * ॥

स्पृशेदस्त्रेण मूर्धादिमन्यस्नानाय भस्मना ॥

स्नायादीशाभिममूर्धवक्त्रहृद्गुह्यविग्रहात् ।
प्रत्यङ्गकर्महस्तस्य शु * * * * * * * ॥

गङ्गाजलार्द्रया वापि भौममाग्नेयवद्भवेत् ॥

मारुतं संहितामन्त्रं जपन्वायुरजो भवेत् ।

गच्छेद्दिव्यमिदं स्नानं पावनं मानसं पुनः ।
मूलेन मनसा शक्तेरमृताप्लावनात्सदा ॥

शुद्धिमूर्धगुरोः * * * * * * * * * * ।
मान्त्रं संहितया सेको वारुणाग्नेययोचितः ॥

प्रागुदग्वन्दनं पश्चादाचम्य सकलीकृतः ।
साङ्गन्यासः करन्यासः स * * * * * * * ॥

ब्रह्मविष्ण्वीश्वराधीशा वागीशीममहेश्वरी ॥

अरूपिणीं निशीथे स्वं तत्प्रभान्तर्गतस्मरे ।

मार्जनं साघमर्षं च कुर्यान्मन्त्रादितर्पणम् ।
वामपाणिपतत्तोयं प्रोक्षयेदन्यपाणिना ॥

मूर्ध्निसंहितया सेक * * * * * * * * ।
शेषं दक्षिणपाणिस्थं सितमाघ्राय वायुना ॥

देहस्थकल्मषच्छेदिकृष्णपिङ्गलयोचितम् ।
जलं वज्रशिलापृष्ठे क्षिपेत्तदघमर्षणम् ॥

पुन * * * * * * * * * न्मन्त्रदेवताः ।
नामभिस्स च * ष्कैश्च स्वाहान्तैः प्रणवादिभिः ॥

दर्भयुक्तकराग्रेण मुनीन् कर्णावलम्बिना ।
उपवीतेन तीर्थेन कनिष्ठा मूलव * * ॥

वषड्वौषड्युतैर्मन्त्रैः सनकादीननुक्रमात् ॥

तर्जन्यङ्गुष्ठमूलाभ्यां प्राचीनावीतवान् पितॄन् ।
पितामहान् प्रपू * * * * * * * * * * ॥

ध्यात्वा सदाशिवं पूर्यं बिम्बे मूलाणुनार्चयेत् ।
संहितां शक्तितो जप्त्वा रक्तपुष्पादिभिर्यजेत् ॥

आचम्य सकली कृ * * * * * * * * * ।

ऊर्ध्वोदुम्बरे याम्यादिगणेशं कमलां गिरम् ।
स्वस्य दक्षिणशाखास्थं * * * * * * * * ॥

नामभिः सचतुर्थ्यन्तैर्नमोन्तैः प्रणवान्वितैः ॥

दिव्यान्तरिक्षभूमिष्ठान् विघ्नान् मूल * * * * ।

त्रिभिः सार्य पादाभ्यां देहलीमस्पृशन् विशेत् ।
तस्यान्यस्यास्त्रमभ्यर्च्य ब्रह्माणं वा * * * * ॥

अन्तर्बहिः करौ गन्धलिप्ता वस्त्रेण शोधयेत् ॥

ततो न्यस्यासनं मूर्तिमीशादिब्रह्मपञ्चकम् ।
अङ्गु * * * * * * * * * * * * * * ॥

कनिष्ठिकादिषु चाङ्गानि हृदादीनि च वर्मणा ॥

वेष्टितौ परिमीकुर्याद्वौषडन्तेन शम्भुना ।
शक्तिं ध्यात्वा समनान्तां शिख * * * * * * ॥

पूरकं कुम्भकं कृत्वा जीवं हृत्पङ्कजा हृदा ॥

सम्पुटं सूक्ष्मदेहस्थं मूर्तिबीजेन मध्य * ।

हृदये हृदयं न्यस्य शिरश्शिरसि चूलिका ।
शिखायां स्तनयोर्मध्ये वर्मास्त्रं दक्षिणे करे ॥

दर्शयित्वा म * * * * * * * * * * रेत् ।
कृत्वा तालत्रयं विघ्नानुत्सार्या छोटिकासिना ॥

तर्जन्यास्त्रमयं सालं कुर्याद् घानं च वर्मणा ।
बाह्यवद्धृदये दे * * * * * * * * * ॥

जुहुयान्नाभिकुण्डेऽग्निं वायया बिन्दुसृष्टया ।
भ्रूमध्ये च शिवं ध्यायेत् स्फुरद्बिन्दुसमासितम् ॥

सम्प्रक्षाल्य विशेषार्घ्यपात्रमस्त्रेण पूरयेत् ।
स्रुवेण * * * * * * * * * * * म्भसा ॥

मन्त्रैः सम्पूज्य साष्टाङ्गमभिमन्त्रास्त्ररक्षितम् ।
अवकुण्ठ्य मूलमन्त्रेण धेनुमुद्रां प्रदर्शयेत् ॥

तज्जलैः स्वशिरः प्रोक्ष्य द्रव्याण्यस्त्रे * * * * ।

मूलेनात्मानमभ्यर्च्य मौनं कृत्वा यथेप्सितम् ।
मन्त्रानुच्चारयेद्धीमान् शिवान्तन्मन्त्रशुद्धये ॥

सामान्यार्घ्येण सद्यादि प्रक्षिपेद् ब्रह्मपञ्चकैः ॥

निर्माल्यमपनीयाथ चण्डेशा यदि शीशितुः ।
हृदा न्यस्यास्त्र * * * * * * * * पीठके ॥

इत्थमात्माश्रयं दिव्यं मन्त्रलिङ्गविशोधनम् ।
विधाय पूजयेद्देवं भक्त्या दिव्यैः स्वशक्तितः ॥

सम्पूज्य गन्धपुष्पाद्यैर्वायव्ये विघ्नना * * ।

ध्रुवेण वा हृदाधारशक्त्यनन्तेशमध्यतः ।
धर्मज्ञानं च वैराग्यम् ऐश्वर्यं तद्बलात्मनः ॥

अग्निराक्ष * * * * * * * * * * न्यजेत् ।
पूर्वादिदिक्षु धर्मादीनधश्छदनकं पुनः ॥

नैऋत्यामीशकाष्ठायामूर्ध्वच्छदनमर्चयेत् ।
बीजनालाङ्कुरो प * * * * * * * * * ॥

सम्पूज्य पूर्वादिदिक्षुकेसरगाः क्रमात् ।
वामां ज्येष्ठां च रौद्रीं च कालीं विकरणीं ततः ॥

कलमपूर्वां बलाद्या * * * * * * * * ।

ब्रह्मणा सह सम्पूज्य दलाग्रेष्वर्कमण्डलम् ।
केसराग्रेषु सोमस्य मण्डलं * * * * * ॥

क्षित्यादिशक्तितत्त्वान्तं यजेद्ध्यात्वा शिवासनम् ॥

पीठमन्त्रान् यजेत् पीठे मूर्त्यादीन् लिङ्गविग्रहे ।

ईशादि पञ्चविन्यस्य विद्यादेहं विचिन्तयेत् ।
आगुल्फस्फटिकप्रख्यं रक्तपादकराम्बुजम् ॥

हिमरक्तास्तिहेमाभा सुश्वेत * * * * * ।

कुण्डिकामक्षमालां च वरदाभयमेव च ।
दधानं दशभिर्हस्तैः सुप्रसन्नं स्मिताननम् ॥

दृक्क्रियेच्छा वि * * * * * * * * * * * ।
गले नीलं मनोज्ञाङ्गं प्रतिवक्त्रं त्रिलोचनम् ॥

विद्यादेहमिमं ध्यात्वा न्यस्य नेत्राणि योजयेत् ।
मूलमन्त्रं समुच्चार्य शि * * * * * * * ॥

बिन्दावभ्युदितं ध्यात्वा प्राणमार्गेण निर्गतम् ॥

पुष्पाञ्जलिगतं ध्यात्वा वाहिन्या * * * * * ।

रुद्धनिष्ठुरयाङ्गानि स्वेषु स्थानेषु योजयेत् ।
आवाहनं च सन्निध्यै पूजानुज्ञप्तयेऽन्वहम् ॥

दर्शयित्वा महामुद्रां स्वागतेन प्रतोषयेत् ॥

पाद्यं पादाब्जयोर्दद्याद्वक्त्रेष्वाचमनीयकम् ।
शिरस्सु स * * * * * * * ष्पाक्षतानि च ॥

क्रमान्नमः स्वधा स्वाहा वौषडन्तेन शम्भुना ।
अभ्यङ्गोद्वर्तनीमच्चराजिकालवणादिभिः ॥

स्नापयेदथ देवेश शाक्तपञ्चा * * * * ।

ईशादि मन्त्रितैर्मूलजप्तगन्धोदकेन च ।
जलधूपान्तरैरेभिर्गड्डुकैरस्त्रशोधितैः ॥

गलतीर्थाम्भ * * * * * * * * मन्त्रितैः ।
स्नापयित्वा शिवं शुद्धवाससा मार्जयेच्छनैः ॥

वस्त्रादिगन्धमालाभिर्भूषणैश्च विभूषयेत् ।
सार्घ्यं पुष्पाञ्जलिं दत्वा * * * * * * * * ॥

पुनराचमनं दत्वा दर्शयित्वा मनोरथम् ॥

ब्रह्माङ्गानि लयाङ्गेषु सम्पूज्य प्रा * * * * ।

नरं पूर्वदले पीनं याम्ये घोरं सितेतरम् ।
उत्तरे लोहितं वाममजानं पश्चिमे सितम् ॥

शिरो धूम्रागमैशाने कृष्णान्नैशाचरे शिखाम् ॥

वायव्ये हरितं वर्म दिक्ष्वस्त्रमनलप्रभम् ।
ब्रह्मणाण्डेनुप * * * * * * * * * ॥

नैवेद्यपानताम्बूलमुखवासादिभिः शिवम् ॥

प्रतोषयेत् पवित्रेण पुष्पदूर्वाक्ष * * * ।

सन्तुष्टं भावयित्वेशं जप्त्वा मूलं स्वशक्तितः ।
वरहस्ते ददेत्सार्घ्यपुष्पं हृदयसम्पुटम् ॥

गुह्यादि * * * * * * * * * * कृतं जपम् ।
सिद्धिर्भवतु येन त्वत्प्रसादात्त्वयि स्थिते ॥

ॐ यत्किञ्चित् कर्म हे देव सदा सुकृतदुष्कृतम् ।
तन्मे शिवपदस्थस्य हृन्म * * * * * * ॥

शिवो यजति सर्वत्र यश्शिवः सोऽहमेव तु ॥

जपकर्म तथात्मानं निवेद्यैवं प्रदक्षिणैः ।

स्वगुरुं गन्धपुष्पाद्यैः पूजयेदग्निदिग्गतः ।
प्रर्थ्याग्नौ हवनं कृत्वा निवेद्यार्घ्यं पराङ्मुखम् ॥

दत्वा सम्पूज्य * * * * गस्थानस्थितानणून् ।
संहारमुद्रयोत्थाप्य मूर्त्या मूर्तौ नियोजयेत् ॥

प्रणवेनाथ चण्डेशमभ्यर्च्येशानदिग्गतम् ।
निवेदयीत निर्माल्यं * * * * * * * * ॥

एवं स्थण्डिलचित्रादौ पूजयेच्चण्डनायकम् ॥

इत्यर्चनाविधिरियं गिरिशस्य पद्यै- स्सन्ध्याभिषेक * * * * * * शतेन ।
श्रीमन्मृगेन्द्रगिरिशागममार्गगामी लेशादघोरशिवनामभृता बुधेन ॥

इति लक्षद्वयाध्यापकश्रीमदघोरशिवाचार्यरचि * * * * नित्यार्चनविधिः समाप्तः ॥

प्रायश्चित्तविधिः

अग्निकार्यार्थमीशानं प्रार्थ्याग्निसदनं व्रजेत् ।
अर्घ्यपात्रं समादाय ससंहारप्रदक्षिणे ॥

मरु * * * * * * * * * * प्रमाणकम् ।
चतुस्त्रिद्व्यङ्गुलोत्सेधं पृथुनेमित्रयान्वितम् ॥

वृत्तं वा चतुरश्रं वा नाभ्यश्वत्थदलाभया ।
द्वादशाङ्गुलया यु * * * * * * * * * ॥

अग्रस्थानाभिरासीनो विदध्यात् कुण्डसंस्कृतिम् ॥

निरीक्षणं शम्भुना कुण्डं प्रोक्ष्यास्त्रे * * * * ।

समीकृत्याथ * * च्य निकुट्य परिमार्ज्य च ।
उपलिप्य कलारूपं प्रकल्प्य परिधाप्य च ॥

त्रि त्रीं सं प्राङ्मुखं * * * * * * * * ङ्मुखम् ।
एका यद्वा विपर्या त्रिर्वज्रीकरणहेतवे ॥

कृत्वा चतुष्पथन्यासमक्षवाटं च वर्मणा ।
प्रदक्षिणक्रमान्न्यस्य त्रिंशद्दर्भदलैः कृतान् ॥

कुण्डमभ्यर्च्य तन्मध्ये हृदा विन्यस्य चासनम् ॥

देवीमावाहयेत् पश्चाद्वागीशीं विश्वमातरम् ।
अरणेः सूर्यकान्ताद्वा * * * * * * दिरात् ॥

वह्निमानीय सत्पात्रे क्रव्यादांशं परित्यजेत् ।
विशोद्ध्यावर्त्य सम्पूज्य हृदाबीजं विचिन्त्य च ॥

पक्त्वालभ्यामृतीकृत्य भ्राम्य त्रिः कुण्ड * * * ।
सम्मुखं निक्षिपेद्योनौ वागीशीं शिवमुच्चरन् ॥

दर्भैराच्छाद्य सम्प्रोक्ष्य बध्वा चास्त्रेण कङ्कणम् ।
गर्भाधाने निमित्ते तु सद्येनाहुतिपञ्चकम् ॥

कृत्वा पुंसि तु वामेन हुत्वा जलबिन्दुं दिशेत् ।
सीमन्ते बहुरूपेण हुत्वा वक्त्राङ्गकल्पना ॥

दर्भाग्रेण हृदा कृत्वा पुरुषेणैव जन्मनि ।
जुहुयादसिना कुर्याद्वक्त्रोद्घाटनशोधने ॥

कुण्डं सूतकनाशाय प्रोक्ष्यास्त्रेणाथ मातरम् ।
सम्पूज्य कङ्कणं मत्वा दिक्षु पूर्वादिषु क्रमात् ॥

ब्रह्माणं शङ्करं विष्णुमनन्तं च हृदार्चयेत् ।
विष्टरेष्वस्त्रमभ्यर्च्य लोकेशान् परिधिस्थितान् ॥

पूर्वादिष्विन्द्रमप्यग्निं यमं नि-ऋ-ऋतिं पतिम् ।
वायुं कुबेरमीशानमनन्तं नैर्-ऋते पुनः ॥

ब्रह्माणमीशदिग्भागे बहिरस्त्रकुशांस्तरेत् ।
हृदा नामार्थमभ्यर्च्य कृत्वैशाहुतिपञ्चकम् ॥

शिवाग्निस्त्वमिति ध्यात्वा वागीशं विसृजेत्ततः ।
हुत्वा षोडशहोम्या प्रान्ते मूले घृतप्लुतः ॥

अकाराद्यैः स्वरैरग्नौ पुष्ट्ये षोडशाङ्गुला ।
षट्त्रिंशदङ्गुलायामां सप्ताष्टमुखवेदिकाम् ॥

एकाङ्गुलगलां षट्त्रिपृथुगम्भीरपुष्कराम् ।
भागार्धमेखलां शेषचित्रपत्रादिभूषणाम् ॥

कनिष्कभाज्यनिर्माणं वेद्यार्धसाग्रगन्धिकाम् ।
सप्ताङ्गुलपनी * * * * * षण्णाहदण्डकाम् ॥

स्रुचं प्रणालगोकर्णमुखां याज्ञीयवृक्षजाम् ।
अङ्गुष्ठदण्डकं हस्तदीर्घद्व्यङ्गुष्ठपर्वकम् ॥

गोष्पदाभार्धविष्कम्भकर्ष * * * * * * ।
गृहीत्वा प्रोक्षितादूर्ध्वं वदनाधोमुखौ क्रमात् ॥

परिभ्राम्य परिभ्राम्य वह्नौ दर्भेण संस्पृशेत् ।
मूलेन मूलं मध्येन मध्यम * * * * * ॥

दर्भेण स्वापयेद्गुप्तौ हृदाभ्यर्च्य स्वदक्षिणे ॥

सर्पिरप्रोक्षितं गुप्तमीशानादेशमाश्रि * ।

प्रादेशमात्रमादाय मध्यग्रन्थिपवित्रकम् ।
अङ्गुष्ठानामिका ग्राह्य दर्भाग्रद्वयनिर्मितम् ॥

अग्नेरभिमुखं कृत्वा शस्त्रेणो * * * * * ।

वीक्ष्य दर्भाग्निनोद्दीप्य नीराज्यपुनरुन्मुखम् ।
क्षिप्त्वाग्नौ संहितालब्धममृतीकृत्य तत् सृतम् ॥

हृदा * * * * क्ष पात् कुर्यादन्याज्यशोधनम् ।
नाडीत्रयं घृतैः कृत्वा स्रुवेणादाय होमयेत् ॥

दक्षिणादग्नये हुत्वा वामात् सोमाय मध्यमात् ।
उभाभ्यामग्निनेत्रेषु कृष्णपक्षे विलोमतः ॥

सोमं हुत्वा पुनर्वह्निं ततः स्विष्टकृतं यजेत् ।
एकैकाहुतिदानेन वक्त्राघोरमथाचरेत् ॥

सद्यं वामेन सन्धाय वामं च बहुरूपिणा ।
अघोरं पुरुषेणाथ नरमीशेन होमयेत् ॥

ईशानं शिवमन्त्रेण वक्त्रैकीकरणं ततः ।
कुर्यादभीप्सिते वक्त्रे स्रुवेणाहुतिदानतः ॥

सर्पिषा स्रुवमापूर्य निहिताधोमुखं स्रुवम् ।
कराभ्यां दक्षिणाग्राभ्यां गृहीत्वा शङ्खमुद्रया ॥

ऊर्ध्वकायः समुत्थाय तदग्रन्यस्तलोचनः ।
वामस्तनान्तमानीय तयोर्मूलमुच्चरन् ॥

वौषडन्तं क्षिपेदाज्यं यवसम्मितधारया ।
पूर्णाचूडान्तसंस्कारप्रत्यर्थं विधिना स्पृशेत् ॥

प्रत्यहं कुण्डसंस्कारपूर्वं स्यदग्निसंस्कृतिः ।
संरक्ष्य वा नलं कुण्डे संस्कृतेऽन्यत्र होमयेत् ॥

ततो हृत्पङ्कजे ह्यग्नेः * * * पूजयेच्छिवम् ।
मूलेन जुहुयाच्छक्त्या ब्रह्मांशैस्तु दशांशतः ॥

होतव्यं नो प्रबुद्धेऽग्नौ न धूमन्याकुलार्चिषि ।
निर्धूमोऽग्निः सुसंस्थाने दीप्तशङ्खादिनिस्स्वनः ॥

स्निग्धप्रदक्षिणावर्तसुगन्धश्च प्रशस्यते ।
पञ्चशाखाहृतं व्रीहियवमुद्गतिलादिकम् ॥

एलावधिमधुक्षीरसर्पिरिक्षुदिवादि च ।
दधिपाणिनिकुञ्जेन ग्रासमात्रतथोदनम् ॥

भक्ष्यवस्तु यथा सिद्धं पर्ववत् पर्वलक्षितम् ।
पत्रपुष्पाण्यखण्डानि फलानि द्व्यङ्गुलाहृताः ॥

कस्तूरी चन्दनाद्यं यद्धोतव्यं चणकोपमम् ।
प्रसृत्यं पायसं लाजं मुष्ट्या मूलत्रिखण्डितम् ॥

प्रादेशमात्रास्समिधो गुग्गुलुं च दरास्थिवत् ।
एभिर्द्र * * * * * * लाभे हुत्वा पूर्णाहुतिं हुनेत् ॥

आचामं चन्दनं दत्वा ताम्बूलं च क्षमापयेत् ।
भस्मवन्देत संहृत्य देवमात्मनि योजयेत् ॥

द्रव्यकालादिसम्पत् * * * * * * होमयेत् ।
तं विसृज्याग्निमभ्यर्च्य हुत्वा व्याहृतिभिः क्रमात् ॥

विसृज्याग्निं सरात् कुण्डपार्श्वे मण्डलकद्वये ।
अन्तर्बहिर्बलिं दद्यात् स्वाहान्तै स * * * ॥

गणेभ्यः पश्चिमे भागे यक्षेभ्यश्चोत्तरे ततः ॥

ग्रहेभ्यो दिश्यैशान्यामसुरेभ्योऽग्निगो * * ।

नक्षत्रराशिविश्वेभ्यः कोणेष्वीशादिषु क्रमात् ।
तन्मध्ये क्षेत्रपालादि मध्ये वरुणन्त * * * ॥

क्षेत्रपालाय तन्मध्ये काकादिभ्यो बहिर्दिशेत् ॥

अथवानेन मन्त्रेण सङ्क्षेपेण बलिं दिशेत् ।

सौम्याश्चैव तु ये केचित् सौम्यस्थाननिवासिनः ।
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ॥

मातरो रुद्ररूपाश्च गणानामधिपाश्च ये ।
सर्वे सुप्रीतिमनसः प्रतिगृह्णन्त्विमं बलिम् ॥

सिद्धिं जुषन्तु नः क्षिप्रं भयेभ्यः पान्तु नित्यशः ।
निर्वर्त्य बलिमाचम्य देवदेवं नमस्कृतः ॥

शिवं विसृज्य चण्डेष्टिं कृत्वा भूमिं विशोध्य च ।
गुरुमभ्यर्च्य विद्यां च कुर्यात् स्वाध्यायमीप्सितम् ॥

मध्याह्नसमये स्नात्वा पूजयेत् पूर्ववच्छिवम् ।
पूर्वेऽर्चितेऽथवा देवे प्रदद्यादष्टपुष्पिकाम् ॥

पीठमूर्तशिवाङ्गाच्च नेत्रहीनाङ्गपुष्पिका ।
विशुद्धे भोजनस्थाने पक्वमन्नाद्यमानयेत् ॥

औदर्यं बैन्दवं भौममेकीकृत्वानलत्रयम् ।
आदाय वह्निबीजेन बिन्दोश्चुल्यां निवेशयेत् ॥

विशोध्यं नातिपात्रस्थां मृत्युञ्जमन्त्रमन्त्रिताम् ।
कृत्वा निवेद्यमादाय चुल्लिमस्त्रेण शोधयेत् ॥

सम्पूज्याग्निं च सोमं च सूर्यं चैव बृहस्पतिम् ।
प्रजेशं सर्वदेवांश्च विश्वदेवांश्च नामभिः ॥

अग्निं स्विष्टकृतं चापि स्वाहान्तैर्होममाचरेत् ।
सर्वेभ्यो वास्तुदेवेभ्यर्बलिं दद्यात्समासतः ॥

धौतपादः समाचान्त प्रागास्यः कामतोऽपि चा ।
रेखापरिष्कृते विनुयाद् बिम्बे गोमयकल्पिते ॥

सवर्णैरेखया पङ्क्त्या संस्कृतैः पङ्क्तिपावनैः ।
सौवर्णे रजते ताम्रे लोहजे देशिकादयः ॥

पलाशकदलीचूतपद्मिन्यादिदलेषु वा ।
न निषिद्धेषु मिश्रेषु तदूर्ध्वग्रथितेषु * ॥

न कांस्येन वटाश्वत्थपिशाचादिदलेषु च ।
अभावे भस्मसंशुद्धे कांस्ये घोराभिमन्त्रिते ॥

जानुमध्यकरो मौनी पृथग्वीरासनोऽथ वा ।
लग्नवामकरः पात्रे पूर्ववन्मन्त्रितोदनः ॥

परिषिच्य पवित्राञ्च आपोशानं विधाय च ।
प्राणाद्याहुतिदानेन दीपरूपोदरानलम् ॥

निष्ठीवं कुत्सनं जृम्भं कुर्यान्नो कुटिलासनम् ।
लशुनं गृञ्जनं मांसपलेडुकबकानि च ॥

लवणं हस्तदत्तं च मत्स्या * * * * * येत् ।
भुञ्जानो न ददीताज्यं लवणं च कदाचन ॥

नान्यस्योर्ध्वं पिबेद्वारि न प्रक्षालितपाणिना ।
न चैवात्याशनं कुर्यात् नान्त्यजाती * * * * ॥

मक्षिकानखकेशादिदृष्टं त्यक्त्वाल्पमोदनम् ।
शेषं धौतेन हस्तेन भुञ्जीत स्पृष्टभस्मना ॥

भुक्त्वामृतापिधानं च कृत्वाचम्यविधानतः ।
सिञ्चे * * * * * * * * * ङ्गुष्ठेऽम्बुदक्षिणे ॥

मुद्रया नासान्तं बध्वा च परिघाह्वया ।
ताम्बूलाद्येन संशोष्य मुखं विसृपणं भजेत् ॥

व्रती म * * * * * * * माधूकरीं चरेत् ।
गुरोरासादितानुज्ञो स्नात्वा शुद्धेन भस्मना ॥

ताम्राद्यमसिना शुद्धं पात्रं वालाबुसम्भवम् ।
आदाय वस्त्रसंशु * * * * * * * * तम् ॥

पवित्रं शिक्किकालम्बिदासं चास्त्राभिमन्त्रितम् ।
कृतमन्त्रतनुर्मौनी छत्रोपानत्परिग्रहः ॥

जपन्नस्त्रं चरेत्कोपं विवाद * * * * चेत् ।
कुर्यान्निष्ठीवनं स्पर्शं कृत्वा मन्मार्गसर्पणम् ॥

भिक्षार्थं गृहमासाद्य भिक्षां देहीत्युदीर्य च ।
तिष्ठेदवाङ्मुखस्तावद् गौर्वत्सयोगतः ॥

प्रस्तवं समवाप्तं यत् तद्रेतोर्नऽन्यत्र प्रजेपति ।
न दद्यान्न च हस्तेन न कांस्येनाददीत ताम् ॥

गर्भिणी वृषलीम्लान वस्त्राणां न करेण च ।
मृष्टान्नं संस्कृतां भिक्षां ना दद्यात्तद्विगर्हितम् ॥

व्रजन्नपि समाहूतो नागच्छेत्तत्प्रदेशतः ।
यजमानजनातीतां भिक्षां तत्रैव चाहरेत् ॥

न भिक्षां चरतो भिक्षामादद्यान्तगर्हिताम् ।
न लिङ्गिनो न च ब्रह्मदेवद्रव्योपजीविनः ॥

न हीनान्नाभिशस्ताच्च न स लीलाङ्गनागृहात् ।
अन्ते लोकशुभाशंसी समागच्छेन्निजाश्रमम् ॥

भिक्षापात्रं शुचिस्थाने न्यस्य स्नात्वा च भस्मना ।
धौतपादः समाचान्तः कौपीनं परिवर्त्य च ॥

प्रोक्ष्यास्त्रेण ततो भिक्षां मृत्युञ्जयेन मन्त्रिताम् ।
त्रिधा विभज्य देवाय भागमेकं निवेदयेत् ॥

दत्वा च गुरवे भागं शेषं भुञ्जीत पूर्ववत् ।
सायं सन्ध्यां भजेत् स्नात्वा जलेन भसितेन वा ॥

अभिषिच्य शिवं ध्यात्वा सुप्त्वा स्थाने यथोचिते ।
निशीथे भस्मना स्नात्वा कृत्वा सन्ध्यां शिवं यजेत् ॥

शक्तौ दिवोपनीतेन वस्त्रपूतेन वारिणा ।
पुनः सुप्त्वा समुत्थाय प्रातः कुर्याद्यथोदितम् ॥

अथ मुद्रां प्रवक्ष्यामि पूजाहोमोपयोगिनीम् ।
मुद्राघ्नशमनीमुद्राः कथ्यन्ते हरशक्तयः ॥

घटमुद्रार्धचन्द्राभौ सम्मुखौ सङ्गतौ करौ ।
ताला त्रिराहतिः पाण्योस्तर्जनी परिघा स्मृता ॥

आवाहित्यां जलौ ज्येष्ठकनिष्ठं मूलगते ततः ।
स्थापिन्यूर्ध्वपरोमुष्टिगर्भाङ्गुष्ठे तु रोधिनी ॥

महामुद्रां घृतस्पर्शं कराभ्यां मस्तकावधि ।
मध्ये कवचान्योन्यं पलिते स्वतलस्थिते ॥

अनामे तु प्रदेशिन्यो सङ्गताग्रे विधाय च ।
तन्मूलपर्वणे स्येदङ्गुष्ठाग्रे मनोरथा ॥

शिष्टे कनिष्ठे चान्योन्यं परस्परतलाश्रिते ।
अनामिके च मध्ये द्वे प्रसार्ये त्वग्रसंयते ॥

तर्जन्यौ मध्यमापृष्ठे लग्नप्रान्ते च कुञ्चिते ।
अङ्गुष्ठौ मध्यमालग्नप्रान्तौ मुद्रासुगीरिता ॥

ज्येष्ठाभ्यां पृष्ठतः क्रान्ते स्रुगे वामकरी भवेत् ॥

करयोस्तर्जनीयुग्मे नामयुग्मे च पृष्ठतः ।
लीने युग्मे त्रये * * * * * * * सारिते ॥

अङ्गुष्ठगर्भसंसिक्तौ पाणीपरिसृताङ्गुलि ।
विदर्भपाणिः संयोज्य तर्जनीमध्यमे मिथः ॥

कनिष्ठानामिके चैषा मुद्रा * * * * * * ।

इत्यग्निकार्यबलिभोजनभैक्षमुद्राः प्रोक्ता हिताय कृपया भुवि दीक्षितानाम् ।
श्री* * * * श्शतसङ्ख्यपद्यैर्- लेशादघोरशिवदेशिककुञ्जरेण ॥

इत्यघोरशिवाचार्यविरचितायां श्रीमन्मृगेन्द्रपद्धतौ अग्निकार्यादिविधानं समाप्तम् ॥

समयाचारलोपेन यान्ति शैवाः पिशाचताम् ।
तेषां तत्परिहारार्थं प्रायश्चित्तं शिवोदितम् ॥

अत्यन्तसरुजे देहे राजचोरभयादिषु ।
देवाग्निगुरुकार्येषु कर्मलोपो न दोषकृत् ॥

प्रायश्चित्तासमर्थस्य पितृभ्रात्रादिबान्धवैः ।
तद्विभज्य विधातव्यं द्विगुणं तु परैर्जनैः ॥

साधकोक्तं व्रतं कुर्यादनिच्छुर्गुरुरव्रती ।
स्वेच्छुर्द्विगुणं तावदनिच्छुर्व्रतसंयुतम् ॥

स्वेच्छस्तु द्विगुणं पुत्रः कुर्यात्तत्त्त्र्यंशवर्जितम् ।
तदर्धं समयीकुर्यात् प्रायश्चित्तेषु पाप्मनाम् ॥

सन्ध्याकाले परिभ्रंशे शिवैकादशिकां जपेत् ।
सकृत् सन्ध्याविलोपे तु सद्योजातशतं जपेत् ॥

अकामात् कामतः कुर्यात् सोपवासं तदेव हि ।
विलोपे नित्यपूजायां सद्योजातायुतं जपेत् ॥

शतं वा संयतप्राणो वासरं मारुताशनम् ।
विलोपे पक्षपूजायां जपेद् घोरायुतद्वयम् ॥

द्वयुतोत्तरया वृद्ध्या मासे मासे समावधि ।
अकामात् कामतो लोपे तदेव त्रिगुणं जपेत् ॥

स्वेष्टलिङ्गे परिभ्रष्टे नष्टे दग्धे हृतेऽपि वा ।

लक्षं जप्त्वा महेशस्य पुनर्लिङ्गान्तरं भजेत् ।
साधारे पतिते लिङ्गे ताले ताले युतं जपेत् ॥

तदर्धं त्वर्धमूलं वा सहस्रं स्वलीयसी ।
द्विगुणं तु निराधारे शम्भोर्वा बहुरूपिणम् ॥

सहस्रं पशुनामृष्टे स्पृष्टे दशगुणं जपेत् ।
सहस्रं स्फुटिते लिङ्गे द्विगुणात् परिवर्तने ॥

शुद्धिः शुभ्रच्युते लक्षात् त्रिचतुःस्फुटिते युतम् ।
गड्डुकाद्यभिघाते तु द्व्ययुतादर्धतो लघौ ॥

लिङ्गे पादेन संस्पृष्टे लङ्घिते वायुतद्वयम् ।
पादलग्नं च पीठं तु लङ्घितं चायुतद्वयम् ॥

रिपुणा सं * * * * * लिङ्गे वा प्रतिमादिके ।
तद्राष्ट्रनाशो नृपतिः शत्रुभिः पीड्यते नरः ॥

सर्वयत्नात्तदा दद्यात्तत्रैव स्थापनाय च ।
लब्धं चेल्लि * * * * * प्ते देशे निधाय च ॥

लिङ्गोपदनदोषस्य शान्त्यर्थं घोरमन्त्रतः ।
सहस्रं गोमयेदाज्यं तिलाभ्यां चरुणाशतम् ॥

कृत्वान्तं स्नपनोक्त्या तु स्थापयेदन्यभूतले ॥

लक्षणोद्धारणं चाक्षिमोचनं जलवेशनम् ।
विहाय * * * * व्यं स्थलके तत्त्वदर्शिभिः ॥

अलब्धबेरलिङ्गाद्यं यदन्यत् स्थापयेन्नवम् ।
मासादर्वाक् तदूर्ध्वं चेत् यावन्मासत्रयावधि ॥

प्रत्येकं शान्तिहोमं च कर्तव्यं स्नपनान्तिकम् ।
तदूर्ध्वं स्थापनं बालं लिङ्गाद्यैर्वात्रिनोदितम् ॥

तस्मात् सर्वप्रयत्नेन मासत्रितयमध्यमे ।
संस्नाप्य बाललिङ्गाद्यं * * * * पूर्ववत् कुरु ॥

प्रतिमामुखलिङ्गं वा बाणलिङ्गादिकं तु वा ।
प्रत्यक्च्छवत्यैवमन्विष्य स्थितिमन्यस्य चेद्ध्रुवम् ॥

तदा युद्धेन वा जित्वोचितं दत्वाथवादरा ।
दाहृत्य लिङ्गबेराद्यं स्वस्थाने स्थापयेद्भृशम् ॥

संवत्सरत्रयादर्वाक् संलब्धं बहुयत्नतः ।
संवत्सरत्रयादूर्ध्वं लब्धं चेत्तु मुनीश्वर ॥

मूलस्थाने यथा पूर्वं तद्द्रव्यैस्तत्प्रमाणतः ।
संस्थाप्य मूललिङ्गाद्यम् अर्चयेदर्चनोक्तवत् ॥

अज्ञातं पूर्वमानं चेदाकृतिर्वा गुरूत्तमः ।
प्रासादस्यानुरूपेण यजमानानुरूपतः ॥

लिङ्गमापाद्य विधिना स्थापयेदुक्तवर्त्मना ।
बाणलिङ्गं तु वा तत्र स्थापयेत् सर्वसिद्धये ॥

बेराद्यं पीठिकां वापि न्यायेनानेन कारयेत् ।
आलयाभ्यन्तरे चैव वारस्त्री च रजस्वला ॥

अथवा नृत्तकाले तु मार्जनं प्रोक्षणं तथा ।
महामार्यः प्रवर्तन्ते समुद्वास्य च तां स्त्रियम् ॥

यत्र देशे स्थिता कन्या तत्र तत्रैव मार्जयेत् ।
बलिबेरं तु संस्थाप्य नवकं शान्तिहोमकम् ॥

यानशेषं पुनः कृत्वाप्यालयाभ्यन्तरे गते ।
अष्टोत्तरशतानां च कुम्भानामभिषेचनम् ॥

पुण्याहं प्रोक्षणं चैव प्रतिमास्थापनं तथा ।
न कुर्यात् सारशै * * * * * * * शैवकैः ॥

एकसन्ध्याविहीने च स्नपनं शान्तिहोमकम् ।
सन्धिद्वयविहीने तु जपेद्घोरसहस्रकम् ॥

सन्धित्रयविहीने च * * * * * * * बुधः ।
विलोपे नित्यपूजायाश्चतुर्दश्यादिपर्वसु ॥

निर्दिष्टं देवदेवेन प्रायश्चित्तं चतुर्गुणम् ।
असम्पूज्य विशेषेण पर्वण्यु * * * * * ॥

व्रतादिपरिलोपे च गायत्र्याः परिवर्जयेत् ।
पूजोपकरणं किञ्चित् स्पृष्ट्वा पीठादिकं यदा ॥

शतद्वयमघोरस्य कामयंस्त्वयुतं जपेत् ।
केशामिषास्थिगीतादिदृष्टिनैवेद्यदर्शने ॥

अकामतः शतं तस्य कामतस्त्वयुतं जपेत् ।
पादेनाक्रमतः स्पृष्ट्वा गुरुदैवं शिवागमम् ॥

अयुतं घोरमन्त्रस्य कामतः षड्गुणं जपेत् ।
सेशे चैव निशान्तेऽग्नौ त्रिरात्रिं चैकरात्रिकम् ॥

उपोष्य जप्येऽघोरस्य दशायुतसहस्रकम् ।
अविसर्जितेऽर्घ्यपात्रे भग्ने चाप्यविवर्जिते ॥

शतद्वयात् सहस्राच्च तदर्धार्धशुचिः क्रमात् ।
महेशगुरुचण्ड्याज्ञा भगे लक्षणशुद्ध्यति ॥

एतदर्थार्जितं द्रव्यं भक्षणात् पादवर्जितान् ।
साक्षसूत्रं च पात्रे तु शुद्धिं लिङ्गं तु पादतः ॥

छिन्ने शतात् सहस्रं च सूत्रे जीर्णे नवेऽपि च ।
अक्षमालां कराद्भ्रष्टां क्षालयेद्गन्धवारिणा ॥

गायत्र्याश्शतजप्तेन सर्वत्रैष विधिः स्थितः ।
त्यजेच्च कफविण्मूत्र दुष्टामन्यत्र तैजसात् ॥

घण्टापाते तु संशुद्धिर्लिङ्गोक्ताष्टमभागतः ।
जपेन्निर्माल्यसम्पर्काज्जपेच्च ब्रह्मपञ्चकम् ॥

समग्रसंहितालक्षं जपेन्निर्माल्यभोजने ।
अकामात् कामतो * * * दीक्षयैव विशुद्ध्यति ॥

भक्षणेन समं दानं स्यात्तदर्धमुपेक्षणम् ।
निर्माल्यलङ्घने जाते बहुरूपायुतं जपेत् ॥

लङ्घनेन समः स्पर्शः समौ विक्रयभक्षणौ ।
देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ॥

चण्डद्रव्यं च निर्माल्यं निर्माल्यं षड्विधं स्मृतम् ।
ग्रामादीशस्य देवस्वं देवद्रव्यं पटादिकम् ॥

नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् ।
चण्डद्रव्यं च तद्दत्तं निर्माल्यं प्रेरितं बहिः ॥

एतेषां च यथायोगं भक्षणादिविवर्जयेत् ।
यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा ॥

पादोनं तत्र पूर्वोक्तं स्पर्शलङ्घनभक्षणैः ।
पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते ॥

लिङ्गे चतुर्थिपर्यन्ते न च सद्यः प्रतिष्ठिते ।
पूजायामन्नधूपादि गन्धो दीपप्रभाः * * ॥

नदीप्रवाहं निर्माल्यं न दूष्यति कदाचन ।
गुरुपुस्तकनागादौ न निर्माल्यं शिवो यथा ॥

स्वाध्यायविदुषः शुद्धा लिङ्गस्नानोदबि * * ।

जपेद्दशगुणं प्राणसंयमी च फलं हुनेत् ।
तत्समेष्वेवमेवं स्यात् किन्तु प्राणायतिं * * ॥

अनस्थिप्राणसङ्घातं कृत्वाघोरशतं जपेत् ॥

दत्तं यत् पापिना तस्य ग्रहणेऽर्धमुदीरिता ।
पुरुषाघोरवामा * जातीशा ब्राह्मणादिषु ॥

साधारणोऽप्यघोरस्तु ईशः साधारणः स्मृतः ।
दीक्षितेन सवर्णेन समुच्छिष्टेन दीक्षितः ॥

उच्छिष्टस्पृष्ट आचम्य स्वजातीशशतं जपेत् ।
अदीक्षितेन संस्पर्शे स्नात्वाचम्य शतद्वयम् ॥

सामीप्यं दीक्षिते तद्वत् उपवासोऽप्यदीक्षिते ।
वैश्यशूद्रौ द्विजं स्पृष्ट्वा समुपोष्यद्व्यहं त्र्यहम् ॥

तज्जातीशस्वजातीशावेकीकृत्य जपेत् क्रमात् ।
एता नदीक्षितान् स्पृष्ट्वा पूर्वोक्तद्विगुणं चरेत् ॥

क्षत्त्रियः शूद्रसंस्पर्शे तौ जपेद्गुरुपोषितः ।
उत्कृष्टवर्णसंस्पर्शे पादहीनं प्रकीर्तितम् ॥

अन्यत्राप्येवमालोच्य प्रायश्चित्तं चरेद्बुधः ।
अन्त्यजेन सहस्पर्शे स्वाजातीशायुतं जपेत् ॥

सम्पर्के श्वपचादीनां स्वजातीशदशायुतम् ।
द्विजाद्योच्छिष्टसम्पर्के वक्त्राद्यन्यतमं गुणम् ॥

चतुर्दलाब्जमध्येष्वा तत्स्थाने पञ्चमं यजेत् ।
षडहोपोषितं लक्षं जपेद्वन्याशनोऽपि वा ॥

जुहुयादयुतं जातद्विगुणं शुद्धिकारणम् ।
त्रयी नैष्ठिकबौद्धार्हकापालेशादजायः ॥

तदन्नभोजने शुद्धिर्जातिसम्पर्कशुद्धि यत् ।
किञ्चिद्देववृत्तप्रान्ते कापालान्नाशने मता ॥

ईशानस्य जपेल्लक्षं तत्सङ्करविशुद्धये ।
कपाले शङ्करे त्रीणि लक्षाणि कृतसंयमः ॥

अन्यत्राचान्तसाङ्कल्ये जपेद्वामायुतादिकम् ।
द्विजा विसूतके भुक्त्वा जपेद्वामसहस्रकम् ॥

परेषां सोपवासः स्यात् स्वकीये दक्षिणं जपेत् ।
निर्वाणदीक्षितानां तु पृथक् पाकभुजान्न तत् ॥

कारिदासि नरेन्द्राणां सूतकं नैव विद्यते ।
देवतानां प्रतिष्ठासु तटाकारामपर्वसु ॥

भुक्त्वा पञ्चशतं जप्त्वा पञ्चमस्य विशुद्ध्यति ।
पुंसवने चतुर्थां च भुक्त्वा वामशतं जपेत् ॥

द्वादशैकादशाहे तु दक्षिणस्य शतत्रयम् ।
गणानां गणिका * * च सन्न्यस्तानां तथैव च ॥

भुक्त्वान्तं भोजकान्नं च भुक्त्वा चान्द्रायणं चरेत् ।
पाकादियज्ञे गोदाने चौलोद्वाहव्रतेन च ॥

तथा साचारवर्णानां भुञ्जानोऽन्नं न दूष्यति ।
योऽन्नं नामन्त्रितो भुङ्क्ते यस्य वर्णस्य दीक्षितः ॥

तज्जातीशस्वजातीशावेकीकृत्य जपेत् क्रमात् ।
एकां चेत्त्रीणि चो * * * * साग्निविशुद्धये ॥

प्रमादाद्योषितं गत्वा प्राणायामायुतं जपेत् ।
प्रणवं च द्विगुणितं कामात् प्रणवोच्चार संयुतम् ॥

रेतसः स्यन्द * * * * * द्वामशतं जपेत् ।
स्नायाच्च द्विगुणं कुर्यात्तद्दिवसे तु तदेव हि ॥

भुक्ते भुङ्क्तेन्द्रियश्रावेच्छौ च द्विगुणमाचरेत् ।
स्नात्वोपोष्यदिनं चैकसहस्रं प्रणवं जपेत् ॥

स्नानपूजाजपं होममजीर्णे परिवर्जयेत् ।
जीर्णे स्नात्वा शतं साष्टगायत्र्याः परिवर्तयेत् ॥

मत्स्यकण्टकशम्बूकान् भुक्त्वा नखकपर्दकम् ।
पीत्वा न चाम्बुनोपोष्य पञ्चगव्येन शुद्ध्यति ॥

पीतशिष्टाम्बुपानेऽपि तथा मांसादिसाङ्करे ।
पीयमानपतत्तोयं दुष्टमन्नमदन्नरः ॥

पञ्चगव्योपवासाभ्यां सहस्रं दक्षिणं जपेत् ।
विना यज्ञोपवीतेन पिबेत् भुञ्जीत वा यदि ॥

अनाचान्तोऽथवा तद्वदेतदेव व्रतं चरेत् ।
संहितां प्रजपेन्नित्यं सर्वदोषविशुद्धये ॥

सङ्करेषु च सर्वेषु चेतसः शुद्धिकारणम् ।
अघोरमन्त्रो जप्तव्यो यावद्वित्तं प्रसीदति ॥

आषाडादित्रिके देवादविधायपवित्रकम् ।
लक्षद्वयमघोरस्य जप्त्वा चान्द्रायणं चरेत् ॥

दशकायत्रिशतं यावत् स्नानमात्रं प्रकीर्तितम् ।
ततः पञ्चशतं यावत् स्नानं नक्तं च कारयेत् ॥

उपवासस्ततो मूर्ध्वस्त्रिरात्रमयुतो भवेत् ।
होमं दशांशतो दद्यात् तदर्धं गड्डुकाञ्जपेत् ॥

भूशय्यो ब्रह्मचारी च अतैलः सत्यवाक्च्छुचिः ।
नक्तं हविष्यकं यावत् प्रायश्चित्तं समाप्यते ॥

इति प्रायश्चित्तविधिः ॥

पवित्रिकविधिः

सर्वपूजाविधिच्छिद्रपूरणाय पवित्रकम् ।
देशिकाद्यैः प्रकर्तव्यं सि मोक्षफलार्थिभिः ॥

नित्याङ्गमेतदुद्दिष्टदशां दृष्टविधिर्यथा ।
शुक्लाष्टमीं विनाषाढे विना श्रावणभाद्रयोः ॥

तासु तासु च कर्तव्यं चतुर्दश्यष्टमीषु च ।
आषाढेऽपि न कर्तव्यमप्रशस्ते जनार्दने ॥

स्वापस्तु मिथुने विष्णो शुक्लद्वादशिकातिथौ ।
माधवादिषु षट्खेकमाद्वद्वयं सदा ॥

द्विराषाढः स विज्ञेयो विष्णुः स्वपति कर्कटे ।
अकोशादिमिमुग्रन्थिकन्यकाकर्तितं समम् ॥

धौतशुक्लं शुभं सूत्रं कार्पासादिसमुद्भवम् ।
त्रिगुणीकृत्यन्ध्ये बलिशादितः क्रमात् ॥

शतादष्टोत्तन्तत्रोद्दशहान्या प्रकल्पयेत् ।
बाणरत्नादिलिङ्गानामेतासां सङ्ख्ययैकया ॥

एकाशीत्या च कर्तव्यं विंशत्या वा च सप्तधा ।
पूजाप्रयोजनं मूर्ध्नि त्रयात्मकम् ॥

पवित्र * * * व्यन्तुलगृज्यन्तरालकम् ।
ग्रन्थयो दशकर्तव्या अथवा तन्तुसङ्ख्यया ॥

बिन्दुबाणं समारभ्य यावत् स्यान्नभचन्द्रकम् ।
युग हंसेन लिङ्गेषु * * * ज्येष्ठपूर्वकम् ॥

द्वादशाङ्गुलमानानि बध्यादष्टाङ्गुलानि वा ।
अव्यक्तवेदिकालम्बि व्यक्तो आजानुलम्बि च ॥

गङ्गावतारकं तत्र ग्रन्थयोऽष्टादश स्मृताः ।
चतुष्टयानि चत्वारि विनस्त्यन्तरमानतः ॥

ग्रन्थीनां द्वितयं चान्ते कुर्याद्गङ्गावतारकम् ।
धौतं सूत्रमजातेन ग्रन्थितं गुह्यकेन तत् ॥

शोधितं बहुरूपेण वक्त्रमन्त्रेण रञ्जयेत् ।
रक्तचन्दनकाश्मीरहरिद्रागैरिकादिभिः ॥

प्रणवश्चन्द्रमा वह्नि ब्रह्मानागो गुणो रविः ।
प्रसादाख्यास्सर्वदेवाः क्रमेण नवतन्तुषु ॥

सर्वे विधिसमालिप्तमेकग्रन्थ्यमतन्तुकम् ।
मनोन्मानविनिर्मुक्तं कुर्याद्ग्रान्थ्यपवित्रकम् ॥

निजमूर्तौ गणाधीशे गुरावङ्गेषु पुस्तके ।
तदेकमेव सर्वेषां सर्वतत्त्वात्मकं भवेत् ॥

चण्डेश्वरविवह्नीनां शिववत्सूत्रसम्पतिः ।
अन्यथैकैकमेतेषां विदधीत पवित्रकम् ॥

स्यादेकैकं तथा द्वारदिक्पालकलशादिषु ।
कारकं धातुजादन्यं नवमेवं समाहरेत् ॥

सप्तम्यां वा त्रयोदश्यामधिवासमनारभेत् ।
स्नात्वा नित्यद्वयं कृत्वा विभूष्य मखमण्डपम् ॥

कुर्याद्विशेषसन्ध्यां च विशेषेण च तर्पणम् ।
शिवसूर्यं समभ्यर्च्य समाचम्य विधानतः ॥

सामान्यार्घ्यकरो द्वारपालादिकं यजेत् ।
प्राचीराजिकलाद्वारदक्षिणेतरशाखयोः ॥

नन्दिनश्च महाकालं गन्धपुष्पादिभिः क्रमात् ।
याम्ये विद्याकलाद्वारं तथा भृङ्गिविनायकौ ॥

तन्निवृत्तिकलाद्वारं पश्चाद्वृषगुहावसि ।
तत्प्रतिष्ठाकलाद्वारमुदग्देवीं च चण्डकम् ॥

नित्यवद्द्वारपालादीनभ्यर्च्य विधिनान्तरम् ।
प्रविश्य पश्चिमाद्वारौ वास्तुनाथं प्रपूज्य च ॥

देहशुद्धिं विशेषार्घ्यं कुर्या * द्रव्यशोधनम् ।
भूषितो दक्षिणे हस्ते क्षालिते गन्धलेपिते ॥

सुगन्धमण्डलं कृत्वा वामाङ्गुष्ठेन मध्यतः ।
ब्रह्माणी न्यस्य शाखासु मध्ये साङ्गं शिवं यजेत् ॥

शिवहस्तमिदं कृत्वा स्वशिरस्यधिरोपयेत् ।
षोडशाङ्गुलिषट्त्रिंशद्दर्भवेणीमयं ततः ॥

ज्ञानखड्गं समादाय शिवोऽहमिति भावयेत् ।
आहृत्य पञ्चगव्यानि मूलेन प्रोक्ष्य शोधयेत् ॥

शिवं कोष्ठे पयोमध्ये सुप्रतिष्ठाख्यपात्रिके ।
ईशानप्रकृतालभ्यः * * * सादेशकोष्ठके ॥

सुशान्ते दधिवक्त्रेण विद्यातत्त्वं च कोष्ठके ।
तेजोवत्पात्रके याम्ये त्रिवारन्रूपिणा घृतम् ॥

उदक्पुरुषको * * * * त्नोदके गुरुः ।
गोमूत्रं वामदेवेन चतुर्था पश्चिमे ततः ॥

कालकोष्ठे कृते मूर्त्य पञ्चधा शुद्धगोमयम् ।
ईशे प्रकृतिसम्भारमार्गेणा * * * दकम् ॥

सकुशं संहितालब्धं कृत्वा संरक्ष्य वेष्टयेत् ।
नै-ऋत्यामुदकाढ्योऽथ शाल्यदोषोऽनुवृत्तये ॥

कुशेन शस्त्रजप्तेन भूमिं लिख्य तु पूरयेत् ।
रक्तैश्शाक्तैः समीकृत्य मार्जिताल्लेपिता दृढा ॥

प्रोक्षयेदर्घ्यतोयेन पञ्चगव्येन वासिना ।
तिलसिद्धार्थलाजादीन् विकिरान् विक्षिप्य यत्नतः ॥

अभिमन्त्रास्त्रविक्षिप्य कुशकूर्चोपसंहरेत् ।
ततस्तानीशतो नीत्वा वर्धना सहहेतवे ॥

नैर्-ऋते वस्तुगीर्वाणा द्वारे लक्ष्मीं तु पूजयेत् ।
हेमाद्ये करके कुम्भे सर्वधान्योपरिस्थिते ॥

ताडितेऽस्त्रशतालब्धैर्मूर्तिभूते घनावृते ।
शीताम्बुपूरिते सूत्रवेष्टिते वस्त्रपूरिते ॥

पश्चिमास्ये कुशोपेते फलचूतदलानने ।
वृषारूढं शिवं साङ्गं षडुत्थासनकं यजेत् ॥

तस्य दक्षिणदिक्संस्थां पश्चिमास्यां च वर्धनीम् ।
सिंहारूढां शिवास्त्रेण सन्निधिं प्राययेत् ततः ॥

लोकपालानथाभ्यर्च्य शिवाज्ञां यागरक्षणे ।
दत्वा चादाय कुम्भाग्रगामिनीं वर्धनीं ततः ॥

विसृजन् वर्धनीधारामस्त्रमन्त्रमनुस्मरन् ।
प्रदक्षिणं परिभ्राम्य पुनः स्वस्थानमागतम् ॥

निधाय कलशं पूर्वं वर्धनीं स्थापयेत्ततः ।
ततः स्थिरासनं कुम्भे विस्तरेण शिवं ययेत् ॥

वर्धन्यां च शिवस्यास्त्रली * * मुद्रां विधाय च ।
अङ्गुष्ठेन स्पृशेत्कुम्भं मुष्ट्या संस्पृश्य वर्धनीम् ॥

मूलस्याष्टशतं जप्त्वा वर्धन्यास्त्रं दशांशतः ।
विधाय सन्निरोधार्घ्यं ज्ञानखड्गं समर्प्य च ॥

विज्ञापयेच्छिवं यावदमृतं यागरक्षणम् ।
गणेशं वायुदिग्भागे गुरुनीशेऽभिपूज्य च ॥

मण्डले स्थण्डिले वाथ पूर्ववच्छिवमर्चयेत् ।
पञ्चगन्धादिभिर्देवं स्नापयित्वा विशेषतः ॥

सम्पूज्य गन्धपुष्पाद्यैर्नैवेद्यैश्च यथाविधि ।
अग्निं संस्कृत्य पूर्वाह्णे * * ययेऽग्निं समृद्धयेत् ॥

शिवं सम्पूज्य कुर्वीत मूल मन्त्रादितर्पणम् ।
कुर्यात्स्वनाडीसन्धानं कुम्भयागाग्निशङ्करम् ॥

मण्डले गोमयालिप्ते प्रणवे कुशवि * * * ।

सूत्रेण वर्मणा बद्धगलां सदद्विषाम् ।
कुण्डोक्तशुद्धयोगिन्यां त्वा समारोप्य गोमय ॥

प्रो * * * * गुप्तं न्यस्यास्त्रशतमन्त्रितम् ।
सतण्डुलः समुद्दीप्य शिवाग्निं शम्भुना पचेत् ॥

चालयेदसिना नेत्रमनुनातं विलोकयेत् ।
हृदा विघट्टये * * तत्र तप्ताग्निकारणम् ॥

कृत्वा च संहिताज्येन स्वाहान्तं वौषडन्तकम् ।
सदर्भमण्डले कुर्याच्छ्हीतवक्त्राभिकारणम् ॥

वह्नेः पश्चिमतो धृत्वा मण्डले प्रणवासने ।
सम्पाताभिरितः कुर्यान्मन्त्रसंहितया सकृत् ॥

स्वेत्यग्नौ हेति जुहुयात् तत्र धन्वन् स्रुवाननम् ।
सिद्धोऽयमिति देवाय निवेद्यैशे निधाय तम् ॥

देवाग्न्यात्मविभागेन दर्भेण विभजेत्तथा ।
दत्वा भागं शिवाग्निभ्यां संरक्षेद्भागमात्मने ॥

पवित्राणिसमानीय प्रोक्षितान्यग्निसन्निधिम् ।
न्यस्तानि भाजने शुद्धे संहितामन्त्रितानि च ॥

कृष्णाजिनादिनाच्छाद्य स्मरन् संवत्सरात्मकम् ।
सर्वात्मव्यापकं देवं शिवं सकलात्मकं परम् ॥

यागयामादिसूत्रेण कारकाणि च वेष्टयेत् ॥

शिवसूर्याय मूलेन दत्वा गन्धपवित्रकम् ।
आचम्य द्वारदिक्पालब्रह्मादिभ्यो ददीत तत् ॥

शिवकुम्भाय वर्धन्यै गणाय गुरुपङ्क्तये ।
अनेनैव शिवायाथ द्रव्याणि विनिवेदयेत् ॥

ततदिक्स्थितमन्त्रेण पूर्वकोदन्तधावनम् ।
याम्ये भस्मभृतं प्रश्य उदग्धात्रीफलोदके ॥

गन्धाम्बुपञ्चगव्यपलाशपुटके शिवे ।
तत्रैव पुष्पमाग्नेय्यां चन्दने नैर्-ऋते गुरुम् ॥

चन्दनागरुकर्पूरकुङ्कुमानि च मारुते ।
होमद्रव्याणि वारुण्यां सकुशान्यथ दक्षिणे ॥

दण्डाक्षसूत्रकौपीनभिक्षापात्राण्यथोत्तरे ।
कज्जलं कुङ्कुमं तैलं शालाकां केशशोच्छनम् ॥

ताम्बूलं दर्पणं दद्याद्रोचनां चाथ शङ्करे ।
आसनं पादुके पात्रं योगपट्टातपत्रकम् ॥

चरुमाज्यसुगन्धादि पूर्वस्यां विनिवेदयेत् ।
यदसम्पन्नमेतेषां मनसा तत्प्रकल्पयेत् ॥

शिवासनाय तद्दत्वा पुष्पदूर्वाक्षतान्वितम् ।
अमन्त्रेण पदं ब्रूयात् गृह्णाद्गन्धपवित्रकम् ॥

समस्तविधिवच्छत्मपूरकेणमखं प्रति ।
प्रभवा मन्त्रयामि त्वन्त्वेदिच्छावाप्तिकारका ॥

तत्सिद्धिमनुजानी हि यजतश्चिदचित्पते ।
सर्वधा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ॥

इत्थं विज्ञाप्य देवाय दत्वा गन्धपवित्रकम् ।
साधकः साध्यमन्त्रेभ्यः तत्रैव बलिमारभेत् ॥

आचम्यास्त्रेण मूलेन रूपिणा वा शतं यजेत् ।
पूर्णां व्याहृतिहोमं च कृत्वानुद्धृतपावकम् ॥

पूतपात्रे निधायास्त्रं कवचं हृदयं क्रमात् ।
पवित्राणि समारोप्य हृदयं वर्म चायुधम् ॥

न्यस्यानेन विधायैतत् सूत्रैरावेष्ट्य वर्मणा ।
सम्पूज्य संहितामन्त्रैर्निदध्यात् कुम्भसन्निधौ ॥

सिद्धान्तपुस्तके दत्वा गुरवे च पवित्रकम् ।
मण्डलत्रितये बाह्ये पञ्चगव्यादिकं भजेत् ॥

प्राङ्मुखं पञ्चगव्यस्य प्राशयेच्चुलकत्रयम् ।
कालरक्षोऽनिलाशाभ्योऽन्यत्र चातोऽस्य शोभनम् ॥

अशुभेष्वेव शान्त्यर्थं मनसा जुहुयाच्छतम् ।
आचम्य सकलीकृत्य कृतसङ्गीतजागरः ॥

सोपवासः स्वपेत् तस्मिन् मुमुक्षुर्दर्भसंस्तरे ।
मुमुक्षुर्भस्मशय्यायामधिवासनमीरितम् ॥

पञ्चगव्याशनद्येन विना सद्योऽधिवासनम् ।
प्रातः स्नानादिकं कृत्वा पवित्राण्याहरेद्विभेत् ॥

ऐशान्यां भजने शुद्धे न्यस्य दत्वाष्टपुष्पिकाम् ।
विसृज्य शम्भुं शुद्धायां कुर्यान्नित्यद्वयं भुवि ॥

सूर्यादिगुरुपर्यन्तो न देवे पूर्ववद्यजेत् ।
सम्पूज्येशं विशेषेण कृत्वाग्नौ मन्त्रतर्पणम् ॥

विधिवच्चरुकं कृत्वा देवादिभ्यो निवेदयेत् ।
अष्टोत्तरशतं हुत्वा प्रायश्चित्ताय शम्भुना ॥

सूर्यादिगुरुपर्यन्तान् पवित्रैः पूर्ववद्यजेत् ।
पवित्रमानेन दत्वा द्रव्याणि च यथापुरा ॥

चरुवर्ज्यानि विन्यस्य निवेद्य चरुकं पुनः ।
पवित्राणां जलौ कृत्वा किञ्चित् कलशसम्मुखः ॥

स्मरन् कालात्मकं देवं ब्रूयादिदमपि स्खलत् ।
ॐ कालात्मना त्वया देव यद्दृष्टं मामके विधौ ॥

कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च यत्कृतम् ।
तदस्तु क्लिष्टमक्लिष्टं द्दृतं पुष्टमसत्कृतम् ॥

सर्वात्मनामुना शम्भोः पवित्रेण त्वदिच्छया ।
ततः प्रणवमुच्चार्य पुरयेत्तव तद्द्वयम् ॥

व्रतेति नियमे क्लन्ते चतुर्थ्यन्तं तथेश्वरम् ।
आत्मविद्याशिवैर्मन्त्रैः स्वाहान्तैर्मूलसंयुतैः ॥

कङ्कणत्रितयं दद्यात् साधकस्तु शिवादिभिः ।
सर्वतत्त्वादिमूलेन दद्यादङ्गावतारकम् ॥

ब्रह्माङ्गेभ्यः पवित्राणि दत्वा कृत्वा जपेद्विधिः ।
मन्त्रद्रव्यक्रियाहीनं कर्म यद्वार्षिकं मम ॥

त्वत्प्रसादात्पवित्रेण सर्वं सम्पूर्णमस्तु नः ।
इति विज्ञाप्य देवेशं गृहीत्वाभिमतं व्रतम् ॥

चतुर्मासं त्रिमासं वा द्विमासं मासमेव वा ।
मासार्धं सप्तरात्रं वा पञ्चरात्रं त्र्यहं द्व्यहम् ॥

क्रियापर्यवसानं वा द्विजा नीञ्च तर्पयेत् ।
दत्वाग्नये पवित्राणि चरुं हुत्वा बलिं हरेत् ॥

प्रायश्चित्ताहुतिर्दत्वा विद्यायै गुरवेऽपि च ।
दत्वा पवित्रमभ्यर्च्य विदध्याद्भोजनादिकम् ॥

व्रतान्ते पूर्ववद्यष्ट्वा प्रायश्चित्ताहुतीर्यजेत् ।
मूलेन शिवास्त्रेण रूपिणा च तिलादिभिः ॥

विसृज्याग्निं शिवं चैव पवित्राण्याहरेत् पुनः ।
विसृजेत् प्रतिलोम्येन मण्टपार्चितदेवताः ॥

टङ्कादेर्मण्डले चण्डं स्थण्डिले वा समर्चयेत् ।
दत्वा शुद्धपवित्राणि निर्माल्यं च निवेदयेत् ॥

विज्ञाप्य विसृजेद्भूमिं विशोद्ध्य चरुवं यजेत् ।
गुरुः शिव इवाभ्यर्च्यो वस्त्रवित्तविभूषणैः ॥

शैवांश्च पूजयेद्भक्त्या द्विजान्धकृपणानपि ।

इत्थं पवित्रविधिराब्दिककर्मलोपे दोषोपशान्तिविधये शिवदीक्षितानाम् ।
कैरवादिशतकेन मृगेन्द्रगामी लेशादघोरशिवदेशिककुञ्जरेण ॥

इति पवित्रिकविधिः समाप्तः ॥

समयदीक्षाविधिः

दिक्षाशुद्धिरशुद्धस्य भौतिकी नैष्ठिकी च सा ।
साधकस्य द्विधा दीक्षा सततो शिवधर्मिणी ॥

दुष्कृतांशविनाशेन भोगभूष्ठभोगदा ।
देहोत्तराणिमाद्यत्तातस्साख्या लोकधर्मिणी ॥

नैष्ठिकी च त्रिधा प्रोक्ता समयाचारवर्जिता ।
निरपेक्षा बलादीनां शक्तानां तत्समन्विता ॥

सापेक्षा शोभनीयात्तु देहारम्भककर्मणाम् ।
तीव्रशक्तिनिपातस्य सद्यो निर्वाणदा तु सा ॥

क्रियासाम्ये विभिन्नार्था सा भवाद्गुरुशिष्ययोः ।
अनुगृह्णाति देवेश सकलान् गुरुमूर्तिभिः ॥

ब्राह्मणः पुण्यदेशोत्थः सम्पूर्णावयवः शुचिः ।
पदवाक्यप्रमाणज्ञः संहितापारगो गुरुः ॥

शिवभक्तं सदाचारशिष्यं रत्नपरिक्षितम् ।
कुलीनमनुगृह्णीत अनुकूले सुलग्नके ॥

देशे वर्णानुगां भूमिं गृहीत्वा चास्त्रचोदिते ।
दिक्सिद्धे भूतले कुर्याद्विधिना यागमण्डपम् ॥

स्नात्वा ह्निकद्वयं कृत्वा गुरुःसम्भृतसाधनः ।
द्वाराणि द्वारपालांश्च सम्पूज्यान्तं प्रविश्य च ॥

गत्वा सव्यनिजस्थानमुपविश्योत्तराननः ।
भूतशुद्धिं विशेषेण कुर्याद्देहलिमात्रकम् ॥

पूर्ववद्द्वादशान्तस्थं कृत्वात्मानं लयं नयेत् ।
तत्त्वानि बिन्दुपर्यन्तं सूक्ष्मदेहविशुद्धये ॥

गन्धे पृथ्वीं रसे तोयं रूपेऽग्निं स्पर्शमारुतम् ।
खंशब्दोऽहङ्कृतौ मात्रास्तामसे राजसे पुनः ॥

कर्मेन्द्रियाणि सत्त्वे तु मनोबुद्धीन्द्रियाणि च ।
तद्बुद्धौ सागुणेष्वेते प्रधाने तल्लयं गतम् ॥

कलायां रागविद्ये च साकलो नियतिः पुमान् ।
मायायां शुद्ध * * शं ससदेशे सवर्तिगः ॥

सा शिवस्थात्सबिम्बस्थस्ततो भूतानि शोधयेत् ।
अर्धचन्द्रं द्रवं सौम्यं शुद्धमम्भोजलाञ्छितम् ॥

आप्यमण्डलकं ध्यात्वा वह्निभूतं विशोधयेत् ।
आग्नेयमण्डलं त्र्यश्रं खतं स्वस्तिकलाञ्छितम् ॥

जलभूतं विशुद्ध्याथ कृष्णं वायव्यमण्डलम् ।
षडश्रं बिन्दुभिः षड्भिर्युक्तं पृथ्वीमयं स्मरेत् ॥

बिन्दुशक्तियुतं व्योम व्रतं शुद्ध स्वयं स्मरेत् ।
दहनोत्प्लावने कुर्यात् हृद्यात्मानं निधाय च ॥

अष्टत्रिंशत्कलारूपं विद्योदहं विभावयेत् ।
नामन्तां शशिनीमूर्धेनामन्तां पूर्वतो गताम् ॥

ब्रह्मन्तां दक्षिणे त्वष्टां सौम्ये स्वान्तां मरीचिकाम् ।
वातां च ज्वालिनीं पश्चान्मूर्ध्नीशानकला न्यसेत् ॥

तारमूर्ध्नानले न्यस्य शान्तिः पूर्वत्र भेन्तिमाम् ।
मह्यन्तां दक्षिणे विद्यात् प्रतिष्ठाद्रोदिमामुदक् ॥

आ * * * * त्तियां दत्तां चतस्रः पौरुषीकला ।
तमां च हृदयेभ्योन्तां गलेक्षयाम् ॥

सव्यांसे द्व्यक्षरां निद्रां वामांसे च वदन्ति माम् ।

पृष्ठे श्रान्तां भयाभ्योन्तां जरामुरसि घोरजाम् ।
राजरक्षां रतीपाल्यां गुह्ये लिङ्गे नमोन्तिमाम् ॥

दक्षिणेतरयोरूर्वोर्वामांसंयमनीं तथा ।
जानुनोर्लान्ति मामोन्तां क्रियाबुद्धिं च पूर्ववत् ॥

जङ्घयोः पूर्ववर्णान्ते कार्याधात्रीस्फजोर्द्वयोः ।
भ्रामणीमोन्तिमां कट्यां पार्श्वेनान्तां च मोहिनी ॥

वामपार्श्वेभ्रया मेधा इत्थं वामे कलाक्रमात् ।
पादद्वन्द्वे द्विपर्यन्तां सिद्धिमृद्धिं च मोन्तिमाम् ॥

द्युतिं लक्ष्मीं च मेधां च करघ्राणेषु मेऽन्तिमाम् ।
का शिरसि मामन्तां बाहुद्वन्द्वेवथास्थितम् ॥

वान्तामोन्तां च विन्यस्य कृत्वान्तर्यजनान्तिकम् ।
स्थानशुद्धिं विशेषार्घ्यं यः कुर्याद्विधानतः ॥

शिवार्घ्यं शिवान्तव्याप्तं पाद्यादिहेतवे ।
विद्यान्तं व्याप्तिरोश्लोष्टमावाहनविसर्जयोः ॥

पश्वर्घ्यमात्मतत्त्वान्तव्याप्तं तत् प्रोक्षणादिषु ।
तेषां प्रमादाद्वैलोम्ये जुहुयादसि * * * * ॥

आपक्षीरकुशाग्राणि तण्डुलाः सुमनस्तिलाः ।
अर्घ्योऽष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैः सह ॥

अलङ्कृतः शिवं हस्तमारोप्य निजमस्तके ।
ज्ञानखड्गं समादाय शिवोऽहमिति भावयेत् ॥

संस्कृत्य पूर्ववत् पञ्चगव्याद्यैर्मुखमण्डपम् ।
लाजचन्दनसिद्धार्थभस्मपुष्पकुशाक्षतान् ॥

विकीर्यविकिरानस्त्रकल्पान् संहृत्य पूर्ववत् ।
वास्तुलक्ष्मीं तदा कुम्भे वर्धन्यौ च चलासने ॥

सम्पूज्य लोकपालांश्च रक्षामाज्ञाप्य पूर्ववत् ।
शिवकुम्भं परिभ्राम्य पूजयित्वा स्थिरासने ॥

शोद्ध्यमार्गोपरक्ताङ्गशिवं ब्रह्माङ्गसंयुतम् ।
शिवकुम्भास्त्रवर्धन्यां शिवास्त्रं पश्चिमानने ॥

अङ्गुष्ठेन स्पृशेत् पूर्वं घटं यष्ट्वा तु वर्धनीम् ।
भुक्त्यै मुक्त्यै घटं पश्चात् ज्ञानखड्गं समाप्य च ॥

यज्ञरक्षाधुरं तस्मै निवेद्यार्घ्येण रोधयेत् ।
गणेशं पद्मपत्राभं गुरुपङ्क्तिं च पूजयेत् ॥

स्थण्डिले शिवमभ्यर्च्य भक्त्या वैशेषिकैर्ध्वनैः ।
शोद्ध्यमार्गोपरक्ताङ्ग सर्वकृत्यैकसाक्षिणम् ॥

यजेतावरणे गर्भे ब्रह्माङ्गानि यथा पुरे ।
द्वितीयावरणेऽनन्तं सूक्ष्मं चैव शिवोत्तमम् ॥

एकनेत्रैकरुद्रा च त्रिमूर्तिश्च प्रपूजयेत् ।
प्राच्यादिष्वानुपूर्व्येण श्रीकण्ठं च शिखण्डिनम् ॥

हेमाग्नि नीलभृङ्गेन्दुहिमरक्तसितान् क्रमात् ।
तद्व * * * सम्पूज्य नद्यादीन् क्रमशो गणान् ॥

तद्वहिर्लोकपालांश्च बहिरस्त्राणि पूजयेत् ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुरम् ॥

गदात्रिशूलपद्मं च चक्रं चैव समर्चयेत् ।
नैवेद्यैर्वस्त्रकैर्देवं दर्पणाद्यैश्च तोषयेत् ॥

जपं कृत्वा निवेद्यास्मै गत्वा कुण्डान्तिकं गुरुः ।
पूर्ववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणम् ॥

कृत्वा शतानि चत्वारि सम्पत्त्यै देशकालयोः ।
दुर्निमित्तापनोदाय सुनिमित्तकृते तथा ॥

हुत्वा शिवाग्नौ पूर्वोक्तविधिना साधयेच्चरुम् ।
स्थाल्यामाज्येन दीप्तायां पञ्चप्रसृतिसम्मितम् ॥

एकशिष्ये द्वितीयादिप्रसृतिं वर्धयेत्ततः ।
तं सम्पातं हुतं हुत्वा मण्टपार्थं रजांसि च ॥

घटिकाशतसूत्राणि पाशसूत्रं तथैव च ।
भागौ मध्वाज्यसम्पृक्तौ चरो देवाय चाग्नये ॥

दत्वा भागं स्वशिष्यार्थं स्थापयेदाज्यसंयुतम् ।
इन्द्रादिभ्यो विशेषेण सम्पूज्य बलिमाहरेत् ॥

अविघ्नार्थं कृच्छिद्रपूरयेच्च शतद्वयम् ।
हुत्वासिना कृतानुज्ञा शिवेन पशुमोचने ॥

सदर्भमण्डले शिष्यमारोप्य प्रणवासने ।
हस्तं देहमुदग्वक्त्रं सम्पातं च कृताञ्जलिम् ॥

प्राङ्मुखो वीक्ष्य मूलेन प्रोक्ष्य स्नातमुपोषितम् ।
भस्मनास्त्रेण पाशानां शैथिले मूर्ध्निताडयेत् ॥

दर्भाग्रेण * रुल्लिख्य नाभेरूर्ध्वमधस्तथा ।
भौतिकं नैष्ठिकं पूर्वं नाधस्तदनूपरि ॥

संसितं न्यस्य तद्देहे नेत्रमन्त्रेण वाससा ।
नवेनाच्छाद्य तन्नेत्रे प्रवेश्य मखमण्टपम् ॥

स्रजं तदञ्जलौ कृत्वा देवस्याग्रे प्रदक्षिणम् ।
नीत्वा प्रक्षेपयेन्माल्यं पानीयाप्यन्धकापरम् ॥

दर्शयेत्परमेशानमदृष्टं पशुभिस्सदा ।
तं दृष्ट्वानन्दपूर्णाक्षं दक्षिणस्यां प्रभो दिशि ॥

मण्डले प्रणवासीनं विधायोदङ्मुखं शिशुम् ।
निरीक्षणादिकं कृत्वा धारणाभिर्विशोध्य च ॥

मन्त्रैः शिष्यशलीकृत्य शिवहस्तेन देशिकः ।
मूर्धादिमूलेनालभ्य पाशशैथिल्यहेतुना ॥

दापयित्वाथ ते नैव स्रजंस्थण्डिलकुम्भयोः ।
नीत्वाग्निसन्निधिं स्वस्य दक्षिणे प्रणवासने ॥

गुरुजङ्घानिविष्टाग्रकुशमूला कृतग्रहम् ।
निवेश्य नाडीसन्धानं कुर्याच्छिष्यस्य चात्मना ॥

पद्मतन्तुनिभां नाडीमात्म * * * णनया ।
निर्गतां वामया शिष्ये विशन्ती निर्गतां पुनः ॥

तस्य दक्षिणया स्वस्य विशतं वामया स्मरेत् ।
तत्सन्धानाय मूलेन जुहुयादाहुतित्रयम् ॥

कुम्भस्थण्डिलाह्नीशैरेव सन्धानमाचरेत् ।
कृत्वा तन्मूर्ध्निसम्पातशक्त्या मूलादितर्पणम् ॥

कृत्वासिनाशतं साष्टं प्रायश्चित्ताय होमयेत् ।
दद्यात् पूर्णां विधानेन वौषडन्तेन शम्भुना ॥

इति समयदीक्षाविधिः ॥

अधिवासनविधिः

बीजाशनाशयोत्थानान् दोषाणामपनुत्तये ।
आहुतित्रितयं दद्यात् रुद्रांशपादनाय च ॥

वागीशिगर्भयोग्यत्वं रुद्रांशत्वं न रुद्रता ।
द्विजत्वं चास्त्रशास्त्रेषु वागीशी गर्भयोग्यता ॥

न शरीरस्य जातेर्वा संस्कारः क्रियते यतः ।
शीर्षण्यास्त्रेण सन्ताड्य हृदि रेचकयोगतः ॥

प्रविश्य हृदये तस्य विश्लेष्याच्छाद्य चासिना ।
हृत्सम्पुटजीवं नीत्वा तद्द्वादशान्तता ॥

संहारिण्यात्मबीजेन नतिप्रणवयोगिना ।
पूरकेण स्वहृत्संस्थं कृत्वा समरसीकृतम् ॥

कुम्भकेन त्यजन् देवान् ब्रह्मकरेचकेण तु ।
द्वादशान्तपदं नीत्वा नाड्या दक्षिणया ततः ॥

यन्निस्सार्य हृत्पटवं शिष्यदेहे नियोजयेत् ।
केचिद्वागीश्वरीरोनौ पशुं न्यस्यात्रसंस्कृतिम् ॥

गर्भाधानादिकाः पञ्च कुर्वन्ति शिववह्निवत् ।
दत्वा यज्ञोपवीतिं च स्वजाती चाभिमन्त्रितः ॥

शतं साहस्रमर्धं वा जुहुयात् पूर्णया सह ।
श्रुत्यर्चाध्यानहोमादेर्योग्यः स्यादमुना शिशुः ॥

व्रतिने तत्र शिष्याय व्रतान्तानि समर्पयेत् ।
जटाभस्म च दण्डं च कौपीनमुपवीतकम् ॥

सम्पाद्य संहितामन्त्रैः क्रमादीशादिमन्त्रितम् ।
निवेद्य स्थण्डिलेशाय कुम्भपार्श्वे निधाय च ॥

शिवाज्ञया जटां बध्वा तानि तस्मै समर्पयेत् ।
कलाशक्तिपवित्राणुतत्त्वमन्त्रेशसङ्ख्या ॥

जटा देवस्य पुरतो बध्नीयाच्छिवमुच्चरन् ।
न शूद्रस्य जटाः कार्याः कुर्यादेकामथापि वा ॥

निष्ठाधियासतः पाशबद्धाद्यां कर्मकथ्यते ।
मन्त्राणां तर्पणं कृत्वा कुर्यान्मूलादिदीपनम् ॥

त्रीन् वारान् स्वर्णकैर्बीजैः हुम्फडन्तैः शिखापुटैः ।
पूर्वोक्तलक्षणं सूत्रं त्रिगुणं त्रिगुणीकृतम् ॥

प्रोक्ष्यावेष्ट्यासिवर्मभ्यां शिखया ततः ।
बध्वा धिष्ठ्यास्य कुर्वीत पादाङ्गुष्ठान्तलम्बितम् ॥

पाशच्छेदादिकं सूत्रे न देहे तन्मलादिभिः ।
पाशैरधितं ध्यायेत् सन्निधिं स्थानमात्मनः ॥

प्रविश्य नाड्या तं देहं चतुर्थ्यन्तं सतारकम् ।
विश्लेषायोच्चरन्नाम हुम्फडन्तं प्रगृह्य च ॥

सुषुम्नां हृत्पुटां सूत्रे नाड्यानन्यानि योजयेत् ।
सम्पूज्यावेष्ट्य सन्निध्यैर्जुहुयादाहुतित्रयम् ॥

शान्त्यातीतादिकान् पाशान् तत्त्वलोकादिगर्भिणः ।
शिष्यदेहात्समादाय सूत्रे संयोज्यतर्पयेत् ॥

शिवशक्ति उभे तत्त्वे पदं प्रणवमादिकम् ।
शिवेशानास्त्रमन्त्रांश्च विसर्गान्तान् सुरानपि ॥

लोकान न श्रितादींश्च निवृत्तिभुवनान्तिमान् ।
कलायां शान्त्यतीतायामन्तबह्यावलोक्यताम् ॥

हृत्सम्पुटात्मबीजेन स्वनाम्ना प्रणवादिना ।
हुम्फडन्तेन विश्लेष्य गृहीत्वाङ्कुशमुद्रया ॥

शिरस्सूत्रे नमोऽन्तेन संयोज्यभ्यर्च्य वेष्टयेत् ।
स्वाहान्तं सन्निधानाय जुहुयादाहुतित्रयम् ॥

शान्तिस्थान् कखगान् वर्णान् मात्रौ परुषचर्मणि ।
सदाशिवेश्वरे तत्त्वे शुद्धविद्यामनुक्रमात् ॥

नित्यं योगिनि इत्यन्तो नेकादशपदानि च ।
सदाशिवादिप्रभुणा प्रान्तानि भुवनानि च ॥

ललाटाद् गलपर्यन्ते सूत्रे तामपि योजयेत् ।
विद्यायां सप्ततत्त्वानि मायादिपुरुषावधि ॥

वर्णान् सप्त घकारादीन् मन्त्रौ घोरशिवात्मकौ ।
ध्यानाहारपटादीनि पदान्यपि च विंशतिः ॥

लोकांश्च गहनेशादीन् स्मरेत् सर्वेन्द्रियान्तिमान् ।
नाभ्यन्ते पूर्ववत्सूत्रे संयोज्याभ्यर्च्य होमयेत् ॥

चतुर्विंशतितत्त्वानि प्रकृत्यादिजलावधि ।
टकारादिमकारान्तान् वर्णान् वामशिरो मनुः ॥

श्रीकण्ठाद्यमरेशान्तभुवनानि पदान्यथ ।
प्रथमद्वयमारभ्य महादेवपदान्तिकम् ॥

मूलोक्त्यादाय तां सूत्रे जान्वन्ते पूर्ववत् क्षिपेत् ।
पृथ्वीतत्त्वाक्षवर्णं च हृत्सद्योजातशम्बरम् ॥

वीरभद्रादिकालाग्निपर्यन्तभुवनानि च ।
सद्भावेश्वरपूर्वादिपदानि द्रविणान्तिमम् ॥

निसृत्यन्तर्गतं ध्यात्वा गृहीत्वा तां च पूर्ववत् ।
जान्वङ्गुष्ठान्तिमे सूत्रे संयोज्याभ्यर्च्य होमयेत् ॥

कर्माणि मलशक्तिं च रोधशक्तिं च शाङ्करीम् ।
विलोक्य सूत्रे संयोज्य सन्निधानाहुतिर्यजेत् ॥

स्वाहान्तैस्तर्पणं दीप्तं हुम्फडन्तैः शिखापुटैः ।
दत्वाहुतित्रयं कुर्यादाज्येन यदि वा तिलैः ॥

अस्त्रेण हुम्फडन्तेन विश्लेषाय स्रुवादिना ।
सन्ताड्यात्राहुतीर्दत्वा निवृत्त्यादीन् विलोमतः ॥

शस्त्रेण हुम्फडन्तेन कलामन्त्रेण बन्धयेत् ।
पाशान् स्वावधिदेशेषु रोचनाकृतलक्ष्मसु ॥

जानुनाभिगलस्थानेष्वलिकब्रह्मरन्ध्रयोः ।
छिद्यन्ते ग्रन्थितः पाशास्त हि तत्स्कन्धसन्धयः ॥

शरावसम्पुटे पुंसः प्रणीता सम्पुटे स्त्रियः ।
निधाय पाशसूत्रं तत् कृत्वा तत्पातशोधितम् ॥

निवेश्यस्थण्डिलेशाय गुप्त्यै न्यस्येत् घटात्मिके ।
स्थण्डिलेशे घटे वह्नौ स्वस्ति मुकुशा शिशुम् ॥

प्रणामं कारयित्वान्तं बहिर्मण्डलकत्रये ।
पञ्चगव्यं चरुं दन्तकाष्ठं च शिवमन्त्रितम् ॥

भस्म दत्वा यथा पूर्वं दन्तकाष्ठस्य पातने ।
अशुभे शान्तिकं होममाचरेच्छान्तयेऽसिना ॥

कायवाङ्मनसो भूतश्छिद्रदोषनिवृत्तये ।
मूलाघोरासिभिः कृत्वा क्रमाद्धोमं शतं शतम् ॥

मन्त्राणां तर्पणं कृत्वा शक्त्या पूर्णां प्रदापयेत् ।
स्थण्डिलेशाय रोधार्घ्यं दत्वा पावकवर्त्मना ॥

कलशे तं समारोप्य शुद्धायामवरौ ततः ।
दर्भैरस्त्रशतालब्धैर्भोगिनः पूर्वमस्तकान् ॥

तत्रास्त्ररक्षितं गुप्तं शिखया च शिखं हृदा ।
आरोप्य वर्मणश्छाद्य वाससा स्वापयेत्ततः ॥

रेखास्तिस्रो बहिः कुर्यादस्त्रजप्तेन भस्मना ।
दत्वा बाह्यबलिं प्राश्य पञ्चगव्यं चरुं स्वयम् ॥

स्नात्वा हुत्वा समाचान्तः सकलीकृतविग्रहः ।
स्वपेच्च दर्भशय्यायां स्वप्नमाणवकं जपेत् ॥

सद्योऽधिवासने कार्यं न चरुं प्राशनादिकम् ।
अधिवासनविधिः समाप्तः ॥

शुभाशुभस्वप्नविधिः

शुभाशुभस्वप्नविधिः

प्रातः कृताह्निकः स्वप्नं श्रुत्वा शिष्यनिवेदितम् ।
मङ्गले मङ्गलं ब्रूयात् कुर्याच्छान्तिममङ्गले ॥

गजस्यारोहणं पङ्कवारिराश्यादिलङ्घनम् ।
राजोपकरणप्राप्तिहेमरत्नादियोगिताम् ॥

सस्याभिलापिसूर्याब्जोन्द्यालोकाश्च प्रशस्यते ।
खराद्यारोहणं पङ्कसरितादिषु मज्जनम् ॥

रक्तवस्त्रादियोगत्वं द्रुमादिपतनं नतः ।
अभ्यङ्गक्रोष्टकाकादिदर्शनं च न शस्यते ॥

भौम्यं शुभेतरे स्वप्ने निशारम्भेऽसिना शतम् ।
सहस्रं च निशाप्रान्ते निशीथे शतपञ्चकम् ॥

कृत्वा नैमित्तिकां पूजां चारादिगुरुपश्चिमाम् ।
मण्डले स्थण्डिले वाथ पूर्वपश्चिममर्चयेत् ॥

करण्या मण्डलं मध्ये सूत्रयेत् घटिकायुजा ।
चतुरश्रं विधायात्र विधिनाथ द्विहस्तकम् ॥

मध्येऽष्टतत्त्वद्वात्रिंशत् केसरं करमानकम् ।
व्योमरेखावृतं पद्मं विदध्यान्न च पिञ्छकम् ॥

वेदभक्तेधेकण्ठार्धे चतुर्व्रतानि कारयेत् ।
प्रथमे कर्णिकापीतनीलबीजैरलङ्कृतः ॥

पीतरक्तसिताग्राणि केसराणि द्वितीयके ।
तृतीये दलसन्धिः स्याच्चतुर्थे च दलाग्रकम् ॥

व्योमरेखासितावृत्तदलानि धवलानि च ।
पीठकैकाङ्गुलं कुर्याच्चित्रगोत्रोपशोभितम् ॥

रक्तं घ्रिनीलकीलं च पद्मार्धाद्विशिखा सिता ।
तत्प्रमाणचतुर्द्वारे रेखास्तिस्रस्ततो बहिः ॥

एकाङ्गुलपृथूत्सेधरेखाद्याः सात्त्विकी सिता ।
अपरे रक्तकृष्णे द्वे यवो ने च यवान्तरे ॥

भुक्तये मुक्तयस्तिस्रः समायैव प्रकीर्तिताः ।
शानिपिष्टैः सितारक्तधातुनाथ हरिद्रया ॥

पीता दग्धयवैः कृष्णनीलं शम्यादिपत्रजा ।
सम्प्रोक्ष्य हृच्छतालब्धे गुप्ते तत्र शिवं यजेत् ॥

विद्येशगणलोकेशांश्चास्त्रान् पीठान् बहिर्यजेत् ।
इष्ट्वाग्निसशिवं कुर्यात् पूर्णायां मन्त्रतर्पणम् ॥

हुत्वा सहस्रं मूलेन ब्रह्मांशैश्च दशांशतः ।
कृतं निवेद्य देवाय शिष्यानुग्रहणा यतः ॥

प्रार्थ्यन्ते न कृतानुज्ञो दक्षिणे मण्टपाद्बहिः ।
मण्डले पूर्ववच्छिष्यं स्थापयेत् प्रणवासने ॥

निरीक्ष्य प्रोक्ष्य सन्ताड्य भस्मनोल्लिख्य बर्हिषा ।
शिवीकृत्यशिवीहस्तमस्तके न्यस्य समर्चयेत् ॥

बद्धनेत्रां प्रवेश्याग्रां नीत्वा शम्भोः प्रदक्षिणम् ।
स्रजतासाञ्जलौ कृत्वोदङ्मुखस्य विलोचने ॥

उद्घाट्य दर्शयेद्देवं समन्त्रं पातयेत्स्रजम् ।
तत्पातस्थानमत्राद्यं नाम शिष्यस्य कारयेत् ॥

शिवान्तिकं द्विजेन्द्रस्य गणान्तं च परस्य तु ।
समयस्थस्य नान्यस्य पुष्पं कुम्भानलात्मसु ॥

दापयित्वा समीपेऽग्नौ स्थापयेदात्मदक्षिणौ ।
नाडीसन्धादिकं कृत्वा पाशसूत्रं प्रलम्बयेत् ॥

शिष्यदेहे स्वदेहेऽग्नौ मण्डले कलशेऽपि च ।
विलोक्य शोद्ध्यमध्वानं व्यापकं चापरार्चनम् ॥

सम्भाव्यान्योन्यसन्धानं मूलेन जुहुयाच्छतम् ।
आधारशक्तिमादाय वह्नौ सम्पूज्य तर्पयेत् ॥

संहारेण ततो व्याप्तिं निवृत्तेरवलोकयेत् ।
एकमेवावनीतत्त्वं लोकं चाष्टोत्तरं शतम् ॥

रुद्रैः समाननामानि भुवनानीह सर्वशः ।
कालाग्निरथकूश्माण्डहाटकब्रह्मकेशवौ ॥

रुद्रश्चेति बिसेतानि भुवनान्यण्डमध्यतः ।
वहिः प्राच्यादिदिक्ष्वस्य लोको दशदश स्थिताः ॥

कपालीशध्वजोबुद्धो वज्रदेहप्रमर्दनः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥

अग्निरुद्रो हुताशी च पिङ्गलः खातको हरः ।
ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकः ॥

पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
निधीशो रूपवान् धन्यो सौम्यदेहो जटाधरः ॥

लक्ष्मीधृग्रत्नधृक्छ्रीधृक् प्रासादश्च प्रकामतः ।
विद्याधिपेशः सर्वज्ञो ज्ञानधृग्वेदपारगः ॥

सुरेशशर्वो ज्येष्ठश्च भूतबालो बलिप्रियः ।
वृषो वृषधरोऽनन्तः क्रोधनो मरुताशनः ॥

ग्रसनोदुम्बरीशश्च फणीन्द्रो वज्रदंष्ट्रिणः ।
शम्भुर्विभुर्गुणाध्यक्षस्त्र्यक्षस्त्रिदशेश्वरः ॥

मूर्ध्निक्रोशतरुद्राश्च वीरभद्रस्तदूर्ध्वतः ॥

अन्तिमप्रणवाद्वानि पदान्यष्टौ च विंशतिः ।
नमो नमः ॐ शिवाय नमो नमः ॥

सर्वदः शर्वशिवसूक्ष्मसूक्ष्म शब्दशब्दज्ञान ज्ञान पिङ्ग पिङ्ग पतङ्ग पतङ्ग तुरु तुरु साक्षि साक्षि सु पूर्वस्थित पूर्वस्थित अस्तुतास्तु अनार्चितार्चित ब्रह्मविष्णुरुद्रपरसर्वसान्निध्यकर सर्वभूतसुखप्रद भवोद्भव शर्व शर्व प्रथम प्रथम मुञ्च मुञ्च योगाधिपतये महातेज सद्भावेश्वर महादेव ।

अजातहृदयौ मन्त्रौ क्षवर्णं चाध्वपञ्चकम् ।
व्याप्तिं निवृत्त्या सम्भाव्य नमोऽन्तेन निजाणुना ॥

सूत्रादादाय तां वह्नौ कालान्ते नैव योजयेत् ।
सम्पूज्य सन्निधौ दद्यात् स्वाहान्तेनाहुतित्रयम् ॥

तत्रस्थानि च कर्माणि प्रकृतिं युगपत् स्मरेत् ।
कर्मारब्धं तनोरन्यं मुमुक्षोस्तु विशोधयेत् ॥

प्राक् कर्मकाम्यं च धर्मसाधकस्य विशोधयेत् ।
हृदब्रह्माणमावाह्यभ्यर्च्य दत्वाहुतित्रयम् ॥

स्वाधिकारेऽनुजानीहि पशोर्दीक्षमितीरयेत् ।
योनिरनेकसङ्कल्य तत्र वागीश्वरी * * ॥

तद्व्यापिकां समावाह्य पूजयित्वाहुतित्रयम् ।
दत्वा प्रार्थ्य महेशानं शिष्यसंयोजनं प्रति ॥

प्रोक्ष्यास्त्रेण पशुं तेन सपुष्पं हृदि ताडयेत् ।
रेचकेन प्रविश्यास्य देहे विश्लेष्य चासिना ॥

वियोगो ज्येष्ठधा कार्यः पशो योनिषु योजनम् ।
वामया शिवशक्त्याथ रौद्रोद्धारश्च सर्वदा ॥

द्वादशान्तं स्मरन्मूलं नीत्वा तं घृणिमुद्रया ।
हृत्सम्पुटं समादाय बीजेन द्वादशान्ततः ॥

शेषं ग्रन्थान्तरे द्रष्टव्यम् ॥

शुभमस्तु ।
श्रीगुरुभ्यो नमः ।
हरिः ॐ ॥

श्रीसाम्बशिवाय नमः ॥

व्याख्यानम् ॥

शिवं शिवत्वसम्प्राप्तिकारणं करुणानिधिम् ।
प्रणमामि गणेशं च गुरुसञ्ज्ञं शिवं ततः ॥

श्रीकालोत्तरभेदेषु चतुश्शतिकसञ्ज्ञितम् ।
सम्प्रदायेन गर्भेण विवृतं गुरुभिः पुरा ॥

सर्वज्ञानोत्तरादीनि शास्त्राणि व्याकृतानि च ।
श्रीमन्मृगेन्द्रसञ्ज्ञ च पद्धतिश्च क्रियाक्रमे ॥

रचितं गुरुभिः पूर्वं पञ्चावरणसञ्ज्ञितम् ।
स्तोत्रं च तेन रचितं ध्यानशास्त्रानुसारतः ॥

श्रीमन्मृगेन्द्रपद्धत्याः प्रणेतारं गुरुत्तमम् ।
प्रणिपत्य विधास्यामि टीकामस्यास्त्वपेक्षिते ॥

अस्यां तु यान्यनुक्तानि सूर्यार्चादीनि सन्ततौ ।
क्रियमाणानि चात्रैव कर्माण्यपि वदाम्यहम् ॥

तत्रायमाद्यश्लोकः - शिवं शिवत्वसम्प्राप्तिकारणमिति ।
शिवत्वं नामात्मनः सर्वज्ञतादिविशिष्टं स्वदृक्क्रियारूपं तस्य प्राप्तिरभिव्यक्तिस्तस्यां कारणं दीक्षादिना निमित्तं शिवं प्रणम्य मृगेन्द्रागममिति शिवभेदेषु प्रथमभूतस्य श्रीमत्कामिकभेदस्य श्रीमन्मृगेन्द्रशास्त्रस्य पद्धतिः क्रियादिभेदभेदेनेति ।
अत्र क्रियाशब्देन शौचाचमन-

स्नानसन्ध्यावन्दनपूजाहोमादिरुच्यते ।
आदिशब्देन योगचर्ये गृह्येते ।
एतेषां क्रियादीनां भेदेन तन्त्राणां शास्त्राणां भेदः स्मृतो यतः ।
न तु ज्ञानभेदाच्छास्त्रभेदं ज्ञानभेदस्तु पाशुपतान्यतन्त्रत्वे प्रयोजकम् ।
दशाष्टदशभेदभिन्नस्य शिवभेदरुद्रभेदेन प्रसिद्धस्य सिद्धान्तशास्त्रस्य श्रोत्रभेदात् परम्परया वक्तृभेदाच्च भेदेऽपि प्रमेयविषये त्वैकमत्यमेव यथोक्तं श्रीमत्किरणे -

भेदान्तराणि सर्वाणि महान्ति न महान्त्यपि ।
दीक्षासम्प्रत्ययार्थानि सिद्धिमुक्तिफलानि चेति ॥

अन्यैरप्युक्तम् - सर्वशाखाप्रत्ययमेकं कर्म नेति च ।
तस्मात्तन्त्रानुष्ठायिनां तत्तत्तन्त्रोक्तमेव कर्म कर्तव्यम् ।
यथा कल्पसूत्रादिषु तत्र क्रियाभेदात्तन्त्रभेदो यथा श्रीमन्मृगेन्द्राग्निसंस्कारप्रकरणे -

दर्भैराछाद्य संस्कारान् कुर्याद्बद्धास्त्रकङ्कणः ।
ततः सद्यादिभिर्मन्त्रैर्गर्भाधान्नादिसिद्धये ॥

पञ्च पञ्चाहुतीर्दद्याद्धृदार्चनसमन्वितम् ।

इत्यस्मिन् शास्त्रे हृदयमन्त्रेण गर्भाधानादीनां पञ्चानामपि संस्काराणामविशेषेणार्चनं सद्योजातादिभिः

पञ्चभिर्ब्रह्मभिः प्रत्येकं पञ्चपञ्चाहुतय उक्ताः ।

श्रीमत्किरणे -

गन्धाद्यैरर्च्य सद्येन हृदा दत्वाहुतित्रयम् ।

गर्भाधाधे कृते पुंस्त्वमित्यादिना सद्यादिभिर्ब्रह्मभिरर्चनं हृदयादिभिः प्रतिसंस्कारमाहुतित्रयं च उक्तम् ।
इति क्रियाभेदात्तन्त्रभेदः योगभेदात्तन्त्रभेदः

श्रीमत्किरणे -

प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा ।
तर्कश्चैव समाधिश्च योगाङ्गानि स्थितानि च ॥

इत्यत्र प्राणायाम प्रत्याहारधारणा तत्समाधिध्यानात्मकषडङ्गो योग उक्तः ।
श्रीमन्मृगेन्द्रे तु प्राणायामाद्यनुष्ठानार्जिताक्षत्वं शनैः शनैः रित्यस्य सूत्रस्य वृत्तिः ।
वक्ष्यमाणलक्षणप्राणायामाद्यं प्राणायामाद्यङ्गसप्तकाभ्यासाज्जितेन्द्रियत्वमित्यादिना सप्ताङ्गयोग उक्तः ।
इति योगभेदात् तन्त्रभेदः ।
चर्याभेदस्तु श्रीमत्किरणे ।

अन्तेष्टिप्रकरणान्ते -

एकोद्दिष्टं यदत्रोक्तं कार्यमावाहनं विना ।
शिवश्राद्धादिकं श्राद्धं प्रोक्तमेतत्समासतः ॥

इत्यादिना शिवश्राद्धान्तं कर्मोक्तम् ।

श्रीमन्मृगेन्द्रे तु शिवश्राद्धमुक्त्वा तदनन्तरं गोत्रशक्रं मण्डले त्रीणि ततः पात्राणि विन्यसेदित्याचमनार्घ्यदानपर्यन्तं कर्मोक्तम् ।
इति चर्याभेदात्तन्त्रभेदः ।
एवं तन्त्रान्तरोक्तानि कर्माणि सर्वथैव किं न कर्तव्यं न शब्दसामर्थ्यादिति ।
शब्दसामर्थ्यादर्थसामर्थ्याद्वस्तुशक्त्या वा यत्प्राप्तं तत् कर्तव्यमेव ।
तत्र शब्दसामर्थ्यं नम सप्रकारस्य होमस्य विधानेऽपि अग्न्याश्रयस्य कुण्डस्य विधानाद्यन्यसंहितोक्तकुण्डलक्षणस्य ग्रहणम् ।
अथ सामर्थ्यं तु अग्निसंस्काराणामन्यतमुक्त्वा सर्वेषामनुक्तत्वेऽप्यनुक्तानां संस्काराणां संहितान्तरात् ग्रहणम् ।
वस्तुशक्तिरपि निरीक्षणप्रोक्षणादीनां वक्त्रैकीकरणान्तानां सर्वेषां संस्काराणां विधानेऽपि सर्वसंस्कारपूरणरूपायाः पूर्णाया अनुक्तत्वेन पूर्णाहुतेः संहितान्तरात् ग्रहणम् ।
एवं शब्दसामर्थ्यार्थसामर्थ्यवस्तुशक्तीनां लक्षणम् श्रीमद्रौरववृत्तिविवेकादिनावगम्य लिखितम् ।
प्रातरुत्थायेत्यादिना नित्यानुष्ठानक्रमः कथ्यते ।
शृङ्गाटकं चतुष्पथं कीर्तिः पङ्कः ब्राह्मीं सन्ध्यां विचिन्त्यास्त्रमिति ब्राह्मणादित्रयं

स्मार्तोक्तसन्ध्यावन्दनतः परं पारमेश्वरमस्त्रं शास्त्रोक्तक्रमेण ध्यायन्नस्त्रगायत्रीमन्त्रेण सूर्यमण्डले त्रिर्जलाञ्जलिं प्रक्षिप्य जपं च कुर्यात् ।
शूद्रस्तु ब्राह्मीं सन्धिं विहायान्यत् कुर्यात् ।
विधिस्नानसमये तीर्थं सङ्गृह्य तोयत इति गङ्गासारस्वतादि तीर्थाकर्षणं कर्तव्यम् ।
नात्र तीर्थत्वेनाकर्षणीयम् ।
गङ्गादिप्रवाहकं किं तु अध्यात्मनि द्वादशान्तावस्थित शिवचन्द्रमङ्क्षुब्धानि बिन्दुविभूषितानि तीर्थानि तत्र गाङ्गं पिङ्गलाप्रवाहप्राप्तमिडां प्रवाहप्राप्तं सारस्वतं तु मध्यनाडीप्रवाहप्राप्तं तान्येवात्राध्यात्मनि तान् सकलप्रवाहानुरूपं कल्पयेत् ।
तथोक्तं भोजराजेन तन्त्रोक्तम् अन्यदपि कर्तव्या आग्नेय्याधारणया तोयं शोषयित्वामृतधारणया पुनरापूर्य शिवजप्तमृद्भागेन बाहुभ्रमणाज्जलमावृत्त्य शिवतीर्थमेतदिति कल्पयेदिति तीर्थं सङ्कल्प्य तज्जलेन मूलब्रह्माङ्गशिवगायत्रीभिः कुम्भमुद्रया स्वशिरस्यभिषेकं कर्तव्यम् ।
एवं स्नात्वा अनन्तरमाग्नेयं परं स्नानमिति तत्र भस्म श्रीमद्ब्रह्मशम्भुपद्धत्युक्तेषु कल्पादिष्वन्यतमम् एतत्स्नानसमये निवृत्त्यादिकलामन्त्रैर्मूलब्रह्माङ्गैश्चाभिमन्त्रणमपि कर्तव्यं नित्य-

द्वयमिति वारुणभस्मस्नाने पूरणकुम्भकरेचकपूर्वं प्राणायामत्रयं मूलमन्त्रोच्चारेण कर्तव्यम् ।
सन्ध्यावन्दनसमये सन्ध्यां वन्दतेति अत्र सन्ध्याध्यानम् ।
सकलनिष्कलभेदो द्विविधम् ।
तत्र समयि विशिष्टसमयिविषये सकलं पुत्रकादिविषयेऽध्यात्मनि हृद्बिन्दुब्रह्मरन्ध्रपरस्थानेषु निष्कलं तत्र सकलध्यानं -

ब्रह्माणीं वैष्णवीं रौद्रीं रक्तां शुक्लां सितेतराम् ।
प्रातर्मध्याह्नसायाह्ने सन्ध्यां ध्यायेदनुक्रमात् ॥

रक्तभूषाम्बरारक्तां जटायज्ञोपवीतिनीम् ।
हंसपद्मासनासीनां चतुर्वक्त्रां चतुर्भुजाम् ॥

स्रुगक्षमालिनीं दक्षे वामे दण्डकमण्डलाम् ।
ब्राह्मीमष्टदिशं ध्यायेत्प्रातस्तारकितेऽम्बरे ॥

शुक्लाम्बरधरां शुक्लां वनमालोपवीतिनीम् ।
तार्क्ष्यपद्मासनासीनामुद्भिन्ननवयौवनाम् ॥

शङ्खचक्रधरां वामे दक्षिणे सगदाभयाम् ।
ध्यायेन्मध्यन्दिने देवीं वैष्णवीं सर्वभूषणाम् ॥

नीलोत्पलदलाभासां किञ्चिच्चलितयौवनाम् ।
चतुर्भुजां त्रिणेत्रां च जटाखण्डेन्दुमण्डिताम् ॥

त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकाम् ।
रौद्रीं ध्यायेद्वृषाग्रस्थां कालेऽर्धास्तमितारुणे ॥

कृष्णाजिनधराः सर्वाः साक्षिण्यः सर्वकर्मणाम् ।
तत्प्रभामण्डलाभोगप्रविष्टां स्वतनुं स्मरेत् ॥

निष्कलध्यानम् -

ज्ञानिनां परमाः सन्ध्याश्चतस्रोऽभिदधेऽधुना ।
एकैवानेकतां याति शिवशक्तिरुपाधितः ॥

मृणालतन्तुवत्तन्वी रक्ता शुक्ला सितेतरा ।
तुर्या त्वरूपा कृष्णा वा या निशीथे विभाव्यते ॥

हृद्बिन्दुब्रह्मरन्ध्रेषु परे चैताः क्रमात् सदा ।
तिस्रः सत्त्वादिसंयुक्ताः चतुर्थगुणवर्जितेति ॥

जलं वज्रशिलापृष्ठे क्षिप्ते तदघमर्षणम् ।

इत्यत्र जलक्षेपो नैरृत्यां दिशि कर्तव्यः ।
ध्यात्वा सदाशिवमिति मूलमन्त्रार्घ्याञ्जलिदानात् पूर्वमेव शिवगायत्र्यार्घ्याञ्जलित्रयं कृत्वा जपश्च कर्तव्यः ।
पश्चाच्छिवमन्त्रेण स्वाहान्तेनार्घ्यं दत्वा मूलब्रह्माङ्गानि सकृज्जपेत् ।
मन्त्रदेवतादीनां तर्पणं भोजराजपद्धत्युक्तक्रमेण वा उत्तूङ्गशिवपद्धत्युक्तक्रमेण वा कर्तव्यम् ।
सूर्यमूलमन्त्रेण तद्ध्यानपूर्वं जलाञ्जलित्रयं कृत्वा जपं च

कुर्याद्रक्तपुष्पादिभिर्यजेदित्यनेन सूर्यपूजायाः सूचितत्वादनन्तरं सूर्यपूजा अस्त्रशोधितेऽर्घ्यपात्रे बिन्दुप्रसृतरक्तवर्णपीयूषतोयाक्षतादिभिरघ्यपात्रं सम्पूर्य मूलमन्त्रेण सम्पूज्य स्वाहान्तेन मूलेन दर्शनार्घ्यं दत्वा पश्चात् पूजयेत् ।
पूजाया सकलीकरणे करन्यासे हृदयमङ्गुष्ठे न्यस्य शिरश्शिखाकवचास्त्राणि कनिष्ठादितर्जन्यन्तं न्यसेत् ।
एवमुत्तुङ्गशिवपद्धतावृत्तं सकलीकरणानन्तरमस्त्रपात्रशुद्धिं कृत्वा पूर्ववत्तोयादिना प्रपूर्य यन्त्रिकायामसनं सम्पूज्य मूर्तिने मूलहृदयशिरश्शिखाकवचास्त्राणि पात्रे सम्पूज्य एतैः सर्वैश्चाभिमन्त्र्य रक्षावकुण्ठने च कृत्वा वौषडन्तमूलेन धेनुमुद्रयामृतीकृत्य महामुद्रया प्ररोच्य एतज्जलेन द्रव्यस्थानानि सम्प्रोक्ष्य पूर्वाभिमुखो भूत्वा पूजयेत् ।
तत्रात्मनो दक्षिणवामशाखयोर्दण्डपिङ्गलद्वारपालौ ऐशानाग्नेयकोणस्थौ गणपतिगुरु पाथो उदुम्बरोऽस्त्रं च वक्ष्यमाणध्यानपूर्वं पूजयेत् ।
दण्डिने ध्यानं -

दण्डि तद्दक्षिणे गौरस्सुकूर्चस्थूलतुन्दिलः ।
मषिभाजनलेखिन्यौ धारयन् हस्तयोर्द्वयोः ॥

पिङ्गलो वामपार्श्वे तु प्रतीहारश्च दण्डहृत् ।

इति लक्षणसमुच्चये ।

लड्डुकाक्षमालान्वितवामहस्तं स्वदन्तकुठारान्वितदक्षिणहस्तं बद्धपद्मासनं रक्तवर्णं ध्यात्वा गणपतिं पूजयेत् ।
गुरुं च जटामकुटान्वितं संयोगपट्टधृतब्रह्मसूत्रं नाभिस्थलोपरि योगमुद्रान्वितं रक्तवर्णिनं ध्यात्वा पूजयेत् ।
अनन्तरं श्वेतपीठमध्ये प्रभूतासनं सम्पूज्य विमलसारानाराध्य परमसुखाख्यान् सिंहासनपादुकानाग्नेयनै- ऋतवायव्यैशानकोणेषु सितरक्तपीतहरिते सिंहाकृतीनन्योन्यं पृष्ठदर्शिन्यश्च ध्यात्वार्चयेत् ।
कन्दबीजाङ्कुरनालपद्मदलकेसरकर्णिकाश्च मध्ये पूजयेत् ।
पूर्वादिदलेषु दीप्ताद्यष्टशक्तिः कर्णिकांशेन भागे सर्वतोमुखीं च पूजयेत् ।
एतासां ध्यानं -

रक्ता कल्पा ललितांस्सुवेषास्सिन्दूराभानववयसः शक्तयस्ताः ।
पत्राग्रस्था नवमीं कर्णिकायां दीप्ताद्यास्य द्विभुजा वन्दनीयाः ॥

दाडिमीकुसुमाभासस्सर्वाभरणभूषिताः ।
वामहस्तारविन्दाश्च दक्षिणे धृतचामराः ॥

एवं ध्यात्वा सम्पूज्य कर्णिकामध्ये धवलाम्भोरुहरूपमर्कासनं मया तत्त्वान्तव्याप्तिकं ध्यात्वा तदुपरि सम्पूज्य तदुपरि रक्तवर्णवर्तुलतेजोबिम्बमध्यस्थं रक्तवाससं सर्वाभरणभूषितमंसासक्तस्फुटश्वेतसनालपङ्कजपाणिद्वय- द्विभुजं सर्वलक्षणसम्पन्नं सञ्चिन्त्य खषोत्कमन्त्रेण बद्धपुष्पाञ्जलिस्सदरशिवतत्त्वान्तव्याप्तिकां ध्यात्वा मूर्तिं पूजयेत् ।
नेत्रमन्त्रेण नेत्रयोर्नेत्रसम्पूज्य गोविषाणमुद्रां च दत्वा मूलमन्त्रेण माया सदेशशक्त्यन्तं शिवाशिवोष्णरोचिषामित्युक्तत्वाच्छक्तितत्त्वान्तव्यापकं मूलमन्त्रमुच्चार्य ललाटक्ष स्फुरदरुणबिन्दुमञ्जलौ विचिन्त्यावाह्यावाहिन्या तन्मूर्तौ व्यापकं संस्थाप्य सन्निधान्या सन्निधाप्य निष्ठुरया निरोध्य सन्निधानार्घ्यं दत्वा स्वागतं चोक्त्वा हृदयश्शिखाकवचास्त्राणि स्वेषु स्थानेषु स्तनमध्ये कवचं पाण्योरस्त्रं च सम्पूज्यास्त्रमन्त्रेण दिग्बन्धं कृत्वा कवचेनावकुण्ठ्य वौषडन्तमूलेन धेनुमुद्रां महामुद्रां च प्रदर्श्य पद्ममुद्रां बिम्बमुद्रां च प्रदर्श्य पादयोर्नमोऽन्तेन मूलेन पाद्यं स्वधान्तेनाचमनीयं स्वाहान्तेनार्घ्यं वौषडन्तेन दूर्वापुष्पाक्षतानि च दत्वा

धूपदीपाचमनीयार्घ्याणि दत्वा संस्नाप्य सम्पूज्यपाद्याचमनीयार्घ्याणि दत्वा मूलयुक्तेन तत्त्वत्रयेण पुष्पाञ्जलित्रयेण सम्पूज्य हृदयादिस्थानेषु हृदयादिमन्त्रैर्लयाङ्गं सम्पूज्यार्घ्यं दत्वा भोगाङ्गपूजार्थं विज्ञाप्य हृदयादिमूर्तिप्रदेशाद्धृदयादिन्यावाह्याग्नेयेशाननै- ऋतवायव्यदलेषु पश्चिमदले नेत्रं पूर्वादिचतुर्दलेष्वस्त्रं च पूजाप्रदेशाद्धृदयादिन्यावाहयेत् ।
एतेषां च स्वैर्मन्त्रैरर्घ्यं दत्वा भगवते बिम्बमुद्रां पद्ममुद्रां हृदयशिरश्शिखाकवचेभ्यः धेनुमुद्रां नेत्राभ्यां गोविषाणमस्त्रस्य त्रासनीं च दत्वा मूलेन परमीकरणं च कृत्वा महामुद्रां प्रदर्श्य पूर्वादिचतुर्दलेषु सोमबुधबृहस्पतिशुक्रानाग्नेयादिकोणेषु अङ्गारशनैश्चरराहुकेतूंश्च सम्पूजयेत् ।
एतेषां ध्यानं -

सौम्यानि रक्तवर्णानि वदनाब्जकराणि च ।
भूषितानि द्विहस्तानि भानोरङ्गानि भावयेत् ॥

दंस्ट्राकरालमत्युग्रप्रज्वलत्पावकप्रभम् ।
तर्जयन्विघ्नसङ्घातमित्थमस्त्रं विचिन्तयेत् ॥

सोमं सितं बुधं गौरं गुरुं गोरोचनाद्युतिम् ।
शुक्रं शुक्लं च पूर्वादि दिक्ष्वथाग्न्यादिकोणकान् ॥

रक्तं भौमं श्यामदेहं च सौरिं कृष्णं राहुं धूम्रवर्णं च केतुम् ।
वामे हस्तैर्नौमि तान् षट्समेतान् वामोरुस्थैर्दक्षिणैस्साभयैश्च ॥

पुनर्भगवन्तमाचमनीयनैवेद्यादिभिः सन्तोष्य मूलयुक्तेन सर्वतत्त्वमन्त्रेण पवित्रं दत्वा धूपदीपौ च दत्वा मूलाङ्गारां यथाशक्ति जप्त्वा निवेद्याष्टपुष्पिकां दत्वा स्तोत्रं च कृत्वास्त्रादिहृदयान्तैर्मन्त्रैस्स्वेषु स्थानेषु पराङ्मुखं सम्पूज्यार्घ्यं दत्वा भगवन्तं च सम्पूज्य क्षमस्वेत्युच्चरन् अर्घ्यं दत्वास्त्रमन्त्रेण भोगस्थानस्थितान् मन्त्रान् विद्युच्चस्थितान् ध्यायन् समुत्थाप्य मूर्तिमन्त्रेण मूर्तौ लीनान् कृत्वा मूर्तौ सापेक्षौ विसर्जनं कुर्यात् ।
असत्यां च मूर्तौ निरपेक्षविसर्जनप्रकारेण हृदयपुण्डरीकगतं कुर्यात् ।
ऐशान्यां दिशि तेजश्चण्डेशमूर्तिमासनमूलैः सम्पूज्यार्घ्यं च दत्वा सूर्यनिर्माल्यं च दत्वा विसर्ज्याघ्रपात्रं च विसर्जयेत् ।
तेजश्चण्डेश्वरध्यानम् -

दंष्ट्राकरालदीप्तां जटिलं रक्तवाससम् ।
दधानं टङ्कमम्भोजं तेजश्चण्डेश्वरं स्मरेत् ॥

इति सूर्यपूजा ॥

आचम्य सकलीकृत्येत्यादिना पूजोच्यते ।
तत्र सकलीकरणप्रकारः ।

अन्तर्बहिः करौ गन्धलिप्तावस्त्रेण शोधयेदित्यादिना वक्ष्यति ।

तत्र क्रमविधिः ।
तयोर्मायेयत्वं निरासार्थं प्रथमत एव हुम्फडन्तास्त्रेण दहरं कृत्वा वौषडन्तमूलेन शाक्तत्वसम्पादनायाप्लवनं च कृत्वा तलयोरासनमूर्तिं च विन्यस्याङ्गुष्ठादिकनिष्ठान्तासु शाखासु हृदयाद्यस्त्रान्ताङ्गमन्त्रान् विन्यस्य बीजयुक्तपदब्रह्ममन्त्रैरीशानादिब्रह्माणि विन्यस्य पुनस्तलयोर्विद्यादेहनेत्रमूलमन्त्रान्तं विन्यस्य कनिष्ठाद्व्यङ्गुष्ठान्तासु शाखासु हृदयाद्यस्त्रान्ताङ्गमन्त्रान् विन्यस्य कवचेनावेष्ट्य वौषडन्तेन मूलेन परमीकृत्य भ्यामङ्गन्यासं कुर्यात् ।
तत्र हृदयाम्भोजे आसनं पादतलप्रभृतिसकलशरीरव्यापकं विन्यस्य देहपञ्चब्रह्ममन्त्रैरीशानादिब्रह्मसमष्टिरूपं पञ्चवक्त्रादिविशिष्टं सकलशरीरव्यापकं विन्यस्य नेत्रयोर्नेत्रमन्त्रं विन्यस्य तालत्रयपुरद्वयं फडन्तास्त्रेण स्फोटिकया दिग्बन्धनं कृत्वा वौषडन्तमूलेन पादतलमस्तकं महामुद्रान्यस्त्र-

मन्त्राणां निभृताहेतोर्दर्शयेत् ।
इति सकलीकृत्य प्रणवयुक्तेनास्त्रेण सामान्यार्घ्यपात्रं सप्तकृत्वसमन्त्रणं सम्प्रोक्ष्य द्वारं पूजयेत् ।
तत्र चतुर्षुद्वारेषु सत्स्वपि नित्यवद्द्वारपालादीनभ्यर्च्य विधिनान्तरं प्रविश्य पश्चिमद्वारं वास्तुनाथं प्रपूजयेत् ।
पश्चिमं वाहयेद्द्वारमन्यद्वाराणि घट्टयेदित्युक्तत्वात् पश्चिमद्वारपूजैव चललिङ्गविषये प्रशस्थिरलिङ्गविषये तु यथाद्वारं पूजा कर्तव्या ॥

ऊर्ध्वोदुम्बरके याम्यां गणेशं कमलाङ्गिनमित्यादिनोक्तं तत्र देवतानां ध्यानं -

ऊर्ध्वोदुम्बरमुखदक्षिणे निविष्टं श्यामाङ्गं गणपतिमाश्रये दधानम् ।
वामे लड्डुकपरशुं कराब्जयुग्मे दन्तं च स्वकमपरत्र साक्षमालाम् ऊर्ध्वोदुम्बरमुखवामतो निविष्टां वन्देऽहं धवलरुचिं सरस्वतीं च ।

वामे पुस्तकमथ दक्षिणेऽक्षमालां बिभ्राणां करयुगले वराभयौ च ।
तन्मध्यतः कमलमध्यसुखोपविष्टां हस्तद्वयोद्धृतघटाम्बुकृताभिषेकाम् ॥

सव्ये वराब्जसहितां महतीं च लक्ष्मीं वामे तु बिल्वफलपद्मधरां सु ।
शूलाक्षमाला दधतं कराभ्यां वामेतराभ्यां जटिलं त्रिणेत्रम् ॥

द्वार्दक्षिणस्थां समवाप्यशाखां रक्तं स्थितं नन्दिनमाश्रयामः ।
तदुत्तरे तत्र निविष्टमूर्तिं गङ्गां च शुक्लां मकराधिरूढम् ॥

हस्तद्वये दक्षिणवामसंस्थे नीलोत्पलं पूर्णघटं वहन्तीम् ।
तद्वामशाखास्थितकृष्णमूर्तिं नागोपवीतं जटिलं सुदंष्ट्रम् ॥

कपालशूलान्वितवामसव्यकरं महाकालमहं प्रपद्ये ।
यमुनां दक्षिणे तस्य श्यामां कूर्मस्थितां भजे ॥

वामदक्षिणहस्तस्थ पूर्णकुम्भासितोल्पलाम् ।
कल्पान्ताग्निनिभं चास्त्रमधोदुम्बरगं भजे ॥

दिव्यान्तरिक्षभूमिष्ठविघ्नसङ्घनिवारकम् ।
हंसाब्जस्थन्दिलं लब्धकूर्चं गौरं वन्दे युक्तमाल्यैश्चतुर्भिः ॥

हस्तद्वन्द्वे कुण्डिकास्रुक्समेतं वामेऽन्यस्मिन् साक्षमालां स्रुवं च ।
तं वास्तुवह्निं निर्-ऋतिकोणगमिति ।

एवं ध्यात्वा स्वैः स्वैर्मन्त्रैः स्वेषु स्वेषु स्थानेषु सम्पूज्यार्घ्यं च दद्यात् ।
भूमिष्ठविघ्नोत्सारणं श्रीमच्छतुश्शतिकालोत्तरोद्धृतपाशुपतास्रे कर्तव्यम् ।
ॐ हुं फडुक्त इति प्रवेशसमये दक्षिणपादपुरस्सरं वामशाखापार्श्वेन प्रविशेत् ।

भूतशुद्धिः

उपविश्यासने कुर्याद्
आत्मशुद्धिम् उदङ्मुखम् ।

इत्यादिकभूतशुद्धिक्रमः सङ्क्षेपेणोक्तं
श्रीमन्मृगेन्द्रे दीक्षायाम् उक्तत्वात् ।
गुरुभिरपि तथैवोक्तम् अनवसाक्रान्तानां रोगिणां च सङ्क्षेपेण कर्तव्यम् ।
शक्तानां तु विस्तारक्रम एव नित्यं करणीयः ।

आत्मनः शिवे योजनम्

परमेश्वरस्य दक्षिण-भागे प्रसाद्यान्येषूदङ्मुख उपविश्य
पूर्वोक्त-क्रमेण करन्यासं कृत्वा
पूर्वम् अन्तर्गतम् अशुद्धं वायुं पूरककुम्भकरेचकपूर्वक-प्राणायामेनास्त्रमन्त्रेणोत्सार्य
बाह्येन शिवाधिष्ठितेन वायुनोदरं प्रपूर्य+++(5)+++

चरणाङ्गुष्ठयोर् युग्मात् प्रभृति
यावन्मूलाधारं द्विधा भूतां
तत ऊर्ध्वं द्वादशान्तमेकीभूतां सुषुम्नां
शिवधामसञ्ज्ञितां शरीरान्तराल-विद्युल्लेखाम् इव भास्वरां चिन्तयेत्
तस्यान्तर्बहिः परमेश्वरस्य नित्याधिष्ठेयां कुण्डलिनीं शक्तिं व्यापिनीं चिन्तयेत्

तस्या सुषुम्नाया मध्ये
हृत्-कण्ठ-तालु-भ्रू-मध्य–ब्रह्म-रन्ध्रेषु
अधो-मुखम् अवस्थितं पद्म-वृन्दं
पूरकेण पूरितं सद्वित्+++(=??)+++ सकुम्भकेन रोधितम् उत्तम्भितं
रेचकेनाक्षिप्तम् ऊर्ध्वमुखं भवति

ततो मूलाधार-प्रदेशे दीप-शिखोपमम् अन्ध्यायं+++(=??)+++
शिखा-बीजं शास्त्रम् उच्चार्य
फड्-अन्तेन पूरक-कुम्भक-रेचक-पूर्वेण
यावच्-छक्ति-मात्रा कल्पितेन प्राणायामेन
हृत्-कण्ठ-तालु–भ्रू-मध्य–ब्रह्म-बिल–द्वादशान्तेषु रन्ध्रीन् दक्षनासापुटेन वायुं विमुञ्चन्
प्रतिनिवृत्त्य पुनरपि शिखाबीजं पूर्वप्रदेशे ध्यान-पूर्वम् उच्चार्य
तस्मिन् मनः सन्निवेश्य
तद्वृत्तिरूपम् अवधानं च तत्र निक्षिप्य
+आपादमस्तकशरीर-वर्तिनं पुर्यष्टकाविच्छिन्नम् आत्मानं नक्षत्राकारं दीप-शिखाकार * * * स्योपरि प्राण-वृत्ति-निरोधवशेन निक्षिप्य
तत्-संस्पर्शात् शुद्धं ध्यात्वा
उद्घाटितेन प्राणवता एकोद्घातवशेन द्वादशान्त-पद्म-स्थे शिवे
रश्मिमात्र-वियोगेन संयोज्य,
पृथिव्यादि-बिन्दु-पर्यन्तं षट्त्रिंशत् तत्त्वानि
स्व-कारण-लय-क्रमेण शोधयेत्

तत्त्व-संहारः

तथा हि -

गन्धे भूः सलिलं रसे हृतवहो रूपे मरुत्स्पर्शने
शब्दे स्यात् खम्, अहं-कृतौ पुनर् इमास् तन्-मातृकास् तामसे ।
कर्माक्षाणि च राजसे, सह मनोबुद्धीन्द्रियैः सात्त्विके,
बुद्धौ तच्च, गुणेषु सा, गुणगणो ऽव्यक्ते लयं गच्छति ।

तद् रागविद्ये च कलां प्रयाति,
पुंस्त्वं च कालो नियतिः कला च ।
मायां सुविद्येशम्, असौ सदेशं
स शक्तिम्, एषा शिवम्, एष बिन्दुम् ॥

इति।

स्थूल-शरीरारम्भक-भूत-शुद्धिः

एवं सूक्ष्मदेहशुद्धिं कृत्वा
पश्चात् स्थूल-शरीरारम्भक-भूतशुद्धिं कुर्यात् ।

तत्त्वं पृथिवीतत्त्वं पीतं कठिनं वज्रलाञ्छितं चतुरश्रं शरीरव्यापकं
कारणेश्वरेण ब्रह्मणा युक्तं
सद्योजात-ब्रह्मणा चाधिष्ठितं
हृदय-मन्त्रेण संयुक्तं निवृत्ति-कलाधारं
जाग्रद्-अवस्था-युक्तं ध्यात्वा
हुम्-फड्-अन्तेन निवृत्तिकला-मन्त्रेण
एतद्-अन्तर्गत-शब्द-स्पर्श-रूप-रस-गन्धानां पञ्चकतया पञ्चोद्घाताः कर्तव्याः ।

ऊर्ध्वं घातो यो मन्त्रन्घातो+++(=??)+++
द्वादशान्तं यावन्-नादवृत्त्या प्रेरणं, यदुक्तं त्रयोदश-दशतिके -

प्राणेनोच्चार्यमाणेनापानं पीड्यते यदा ।
गत्वा चोर्ध्वं निवर्तेत एतदुद्घातलक्षणम् ॥

इति।

एतां यथावत् पञ्च कुर्यात्
प्रत्युद्घातं प्राणायामास् त्रयोऽर्थसिद्धाः ।
एवं पञ्चभिर् उद्घातैः
शिव-शक्ति-विशेषाधिष्ठेन बलेन
शोधकत्वशक्तियुक्तेन वायुना ऽभिभूतरूपं भावयेत्

ततः अम्भोभूतम् अर्धचन्द्राकारं द्रवं शुभ्रम् अम्भो-ज-लाञ्छितम्,
विष्णुना कारणेन युक्तं,
वामदेवेन ब्रह्मणाधिष्ठितं,
शिरो-मन्त्रेण संयुक्तं,
प्रतिष्ठा-कलाधारं,
स्वप्नावस्थया युक्तं,
तद्-अन्तर्गत-गुण-चतुष्टय-वशाच् चतुर्भिर् उद्घातैः
प्रतिष्ठा-कला-मन्त्रेण
शिव-शक्त्य्-अधिष्ठान-वशाच् छोधकत्व-शक्ति-युक्तेनाग्निना ऽभिभूतं भावयन् शोधयेत्

वह्निभूतं त्र्यश्रं रक्तस्वस्तिक-लाञ्छितं
रुद्रेण कारणेन युक्तम् अघोर-ब्रह्मणा ऽधिष्ठितं
शिखा-बीजेन संयुक्तं
सुषुप्त्य्-अवस्थया युक्तं
विद्या-कलाधारं सञ्चिन्त्य
हुं-फड्-अन्तेन विद्याकला-मन्त्रेण
तद्-अन्तर्गत-गुण-त्रय-वशात् त्रिभिर् उद्घातैश्
शिव-शक्त्य्-अधिष्ठान-बलेन शोधकत्व-शक्तियुक्तेन जलेनाभिभूतं भावयन् शोधयेत्

वायुभूतं षडश्रं कृष्णं षड्-बिन्दु-लाञ्छितम्
ईश्वरेण कारणेन युक्तं
तत्-पुरुषेण ब्रह्मणा ऽधिष्ठितं
कवचेन तुर्यावस्थया च संयुक्तं
शान्ति-कलाधारं सञ्चिन्त्य
हुम्फडन्तेन शान्ति-कला-मन्त्रेण
तद्-अन्तर्गत-गण-द्वय-वशाद् द्वाभ्याम् उद्घाताभ्यां
शिवशक्त्यधिष्ठान-सामर्थ्याच् छोधकत्वशक्तियुक्तेन पृथ्वीतत्त्वेनाभिभूतं भावयन् शोधयेत्

आकाश-भूतं वृत्तं बिन्दु-शक्त्य्-अधिष्ठितं
कारणेनाधिकारावस्थेन सदा-शिव-सञ्ज्ञेन परमेश्वरेण संयुक्तम्
ईशान-ब्रह्मणा चाधिष्ठितं
शिवास्त्र-बीज-संयुक्तं शान्त्य्-अतीत-कलाधारं
तुर्यातीतावस्थया युक्तं सञ्चिन्त्य
शान्त्य्-अतीतकला-मन्त्रेण
तद्-अन्तर्गतस्य गुणस्यैकत्वाद् एकोद्घातेन शिवशक्त्य्-अधिष्ठित-पर-बिन्दु-भूतं
शुद्ध-स्फटिक-निभं भावयन् शोधयेत्

दाह-प्रकिरण-प्लावना

इत्थं भूतशुद्धि-निर्वर्त्य
गुणक्षयवशात् क्षीण-शक्तिं भूत-समुदायात्मकम् इमं शरीरं
दक्षिण-पादाङ्गुष्ठोत्थितेन शिव-शक्त्य्-अधिष्ठित-कालाग्निना
हुम्-फड्-अन्तास्त्रेण दग्धं भावयित्वा
पुनर् भस्म शाक्तेन वायुना प्रोत्सारयेत्

तद्-अनन्तरं स्थूलात्मकं सर्वं वस्तु
बन्धकत्वाद् व्यावृत्तं सङ्कल्पम् इति कृत्वा
अनात्मन्य् आत्म-भावेनावृत्तम्
आलम्बनापेक्षाभावात् निरालम्बं
केवल-पाश-रहित-विज्ञान-मात्रम् -
एवम् आत्मस्वरूपं सूर्य-मण्डल-सङ्काशम् एवावशिष्यते

ततस् स्वच्छोत्क्रान्तिवत् स्थूलं सूक्ष्मात्मकं सर्वं
शरीरस्य सर्वधानपध्वंसात्मा+++(=??)+++
ये यस्य शरीर-परमेश्वर-स्पर्शनार्हत्वात्+++(=??)+++ परमेश्वरार्चनादिना विना
प्रारब्ध-कर्म-सहकारितया विशेषितस्य
मल-बन्धस्यानापोहनाच्
छुद्धि-कालेऽपि रश्मि-मात्रावियोगेन सर्वधा त्याजितत्वाच् च
सकल-वस्तूनाम् ओत-प्रोत-रूपेण
परमेश्वर-शक्तेर् नित्याधिष्ठेय-रूपस्य परमामृत-रूपस्य पर-बिन्दोः सर्वाधारत्वेन स्थिरत्वाद्
उद्भूतामृतेनाप्लावनं करणीयं,
मूलाधाराद् आरभ्य फकारण+++(=??)+++-काराद्य्-उन्मनान्तं मात्रोच्चारानुसन्धान-पूर्वं
मूल-मन्त्रेण वौषड्-अन्तेन द्वादशान्तेनावस्थित-शिव-चन्द्रम-सम-क्षुब्धात् प्रस्यन्दिना परमामृतेन
सृष्टि-क्रमेणाप्लाव्यानुसन्धेयम्

सूक्ष्म-देह-प्रत्यानयनादि

एवं विशिष्ट-ध्यान-भावना-विशिष्टे शुद्धे देहे
आधार-शक्त्य्-आदि-षड्भिर् मन्त्रैर्
आसनन्यासं कृत्वा

आत्मानं विद्या-तत्त्व-व्याप्तकङ्कारान्तव्याप्तिक+++(=??)+++ विन्यस्य
तदुपरि बीज-व्याप्तिकं शुद्धं पुर्यष्टकम् अवतीं भावयेत्

पुनरात्मानं नादान्त-व्याप्तिकं नक्षत्रसदृशं शुद्धं शिवमयं
नादेन च +एवं तीर्थं (नार्णं) भावयेत्

पुनर् अप्य् आत्मनश् शरीराद्
विशेषपूर्वं स्थापितत्वात्
तदर्थं पूर्ववन् मूलमन्त्रेण वौषड्-अन्तेनाप्लावनं करणीयम् ।

शाक्तमूर्तेर् न्यासः

एवमन्तः करन्यासं कृत्वा
बाह्येऽपि विशिष्टायाः शाक्तमूर्तेर् न्यासः करणीयः ।

तत्र क्रमः ।

शिवासनं व्यक्तां शिवमूर्तिं च स्वमन्त्राभ्यां हृदये विन्यस्य
पद्धत्युक्तक्रमेण माला ब्रह्महारङ्गभङ्गिं वक्त्रभङ्गिं च पुनरष्टत्रिंशत्कलारूपाभिः शशीत्यादिभिस्तदत्वान्तरकलाभिर्न्यासं कृत्वा बीजयुक्तपदब्रह्मन्यासं च कृत्वा ब्रह्मसमष्टिरूपं शाक्तं विद्यादेहं स्वमन्त्रेण हृदयप्रदेशसमस्तशरीरव्यापकत्वेन विन्यस्य हृदयादिन्यासं कृत्वा तालत्रयपुरस्सरदिग्बन्धनावकुण्ठनं च कृत्वा अस्त्रमयप्राकारं कवचमयपरिघां च कृत्वा वौषडन्तमूलेन महामुद्रां प्रदर्शयेत् ।
पुनर्हृदयपुण्डरीके बाह्यवद्भावपुष्पैः परमेश्वरमावहनादिक्रमेण सम्पूज्य जपन्निवेदनानन्तरं न हि कुण्डस्थे नित्यं सिद्धेऽग्नौ परमेश्वरमावाहनपूर्वं सम्पूज्य पूरकाकृष्टामृतरूपेण हविषा मूलर्ब्रह्माङ्गैर्यथाशक्तिहुत्वा तत्र निरपेक्ष्य विसृज्यास्त्रमन्त्रेण समादाय मन्त्रचक्रं हृदयमन्त्रेण हृदयपद्मस्थिते परमेश्वरे संयोज्याष्ट-

पुष्पिकां दत्वा प्रातिलोम्यक्रमेण पराङ्मुखं सम्पूज्य शिवलिङ्गवत् सापेक्षं विसृज्य ललाटपट्टमध्यस्थं शरच्चन्द्रमण्डलसदृशं परमेश्वरं ध्यायेत् ।
एषा च भूतशुद्धिः शुद्ध्यर्थत्वेऽपि न शुद्ध्यर्थस्य स्नानादेर्बाधिका तेन च बाह्यं ल शुद्धिरस्पृश्यस्पर्शजनितपापशुद्धिश्च क्रियते ।
अनया त अनात्मिन्यात्मादि भावनात्मकं बन्धकत्वं निवर्त्यते ।
एवं बाह्यान्तरशिवभावनया असावपि शिवसमो जातः ।
ननु अयं यदि शिवसमतापूज्यपूजकभावो न युक्तः स तु न्यूनाधिकयोर्न तु समयोः सत्यमत्र शिवीभावः शिवेन विशेषाधिष्ठितत्वं तदधिष्ठाने नैवासौ सवितृवत् पुरुषेण ज्ञातुं शक्यः यतः तथा च श्रुतिः ।
विभातीति ।
तदुक्तम् ।
श्रीमत्पराख्येऽपि -

पतशुद्धाध्वहर्म्यस्थं प्राप्तः सा समतास्य तु ।
यावन्न तत्समो जातस्तावन्नाराधने क्षमम् ॥
इति ॥

सम्प्रक्षाल्य विशेषार्घ्यं पात्रमिति विशेषार्घ्यपात्रमस्त्रेण सम्प्रक्षाल्य प्रणवयुक्तेन हृदयेन बिन्दुनिर्गच्छत्सुधाकाराम्भसा प्रापूर्य क्षीरकुशतण्डुलपुष्पयवसिद्धार्थतिलान्निक्षिप्य यन्त्रिकायां

शिवासनं पात्रे मूर्तिमीशानादिब्रह्मपञ्चकं विद्यादेहनेत्रमूलमन्त्रहृदयशिरश्शिखाकवचास्त्रैस्सम्पूज्य एतैस्सर्वैरभिमन्त्र्य रक्षावकुण्ठने कृत्वा वौषडन्तमूलेन धेनुमुद्रयामृतीकृत्य तज्जलेन संहितामन्त्रैः स्वशिरः सम्प्रोक्ष्य स्नपनार्थं गड्डुकानाहृत्यास्त्रेण प्रक्षाल्य निरीक्षणप्रोक्षणताडनाभ्युक्षणानि कृत्वा मन्त्रसंहिताय जलपवित्रमभिमन्त्र्य तेन गलिताम्भसा हृदयेन प्रपूर्य प्रत्येकपुष्पं दत्वा हृदयेनाभिमन्त्र्य विशेषार्घ्यजलबिन्दुप्रक्षेपाच्छिवतीर्थसङ्कल्प्य रक्षावकुण्ठने कृत्वा धेनुमुद्रां महामुद्रां च दत्वा पुष्पादिद्रव्यजातमपनिरीक्षणादिचतुस्संस्कारपूर्वं पिण्डमात्रैर्हृदावाभिमन्त्र्य रक्षावकुण्ठने च कृत्वा स्वशिरसि मूलमात्रेण पुष्पं दत्वा मन्त्रशुद्धिं कुर्यात् ।
तत्र विशेषार्घ्यपूजापात्रं पूजासमये शिवतत्त्वान्तव्याप्तिमूलमन्त्रप्रयोगः कार्यः रोधार्घ्यं च विशेषार्घ्यवत् सम्पूज्य विद्यातत्त्वान्तव्याप्तिकमूलमन्त्रप्रयोगः कर्तव्यः ।
मूलाङ्गब्रह्माणा प्रक्रियान्तनादान्तबिन्द्वन्तोच्चारेण शुद्धिः कार्य ततः पूजास्थानन्यस्तशिवमन्त्रेण चक्षुसा निरीक्ष्य विशेषार्घ्य-

जलेनास्त्रेण प्रोक्ष्य कवचेनाभ्युक्ष्यविघ्नप्रोच्चाटनतालत्रयपुरस्सरं फडन्तास्त्रमन्त्रेण पूजास्थानस्य मायेयत्वनिवृत्त्यै बैन्दवत्वापादानार्थं चास्त्रमयपरिखां च कुर्वीत तदनन्तरं लिङ्गस्य तीर्थस्नानवेदिकायां परमेश्वरं संस्थाप्य गायत्र्या सम्पूज्य सामान्यार्घ्यजलेन स्वाहान्तयतयार्घ्यं च दत्वा सद्यादिब्रह्मपञ्चकं संहारक्रमेण कनिष्ठाद्यङ्गुलीभिरावृत्त्य लिङ्गमस्तकात् पूजाहृदयेनावरोप्य निर्माल्यमैशान्यां दिशि शुद्धपात्रे चण्डेशाय निक्षिप्यास्त्रहृदयाभ्यां लिङ्गपीठशुद्धिं कृत्वा सामान्यार्घ्यजलेनाभिषिञ्चेत् ।
अनन्तरं तत्रैव संस्थाप्याष्टपुष्पिकया सम्पूज्य मूलमन्त्रेण सामान्यार्घ्यजलेनार्घ्यं च दत्वा मूलब्रह्माङ्गैः स्वपनं च कर्तव्यमिति केचित् ।
गुरुवस्तु षडुत्थासनं सम्पूज्य ऋषभरूपं ध्यायन् सम्पूज्य स्थिरलिङ्गवदावाहनपूर्वं वौषडन्तपुष्पदानान्तं सम्पूज्य पञ्चगव्यादिभिः स्नपनं कथयन्ति षडुत्थासनलक्षणं विमलावत्यामुक्तम् ।
तदुक्तं श्रीमत्पूर्वे -

अनन्तं चैव धर्मं च ज्ञानं वैराग्यमेव च ।
ऐश्वर्यं चैव पद्मं च षडुत्थमिदमासनम् ॥

चललिङ्गे तु स्नपनप्रकारो लक्षार्थादिभिरुक्तः ।
चले तु पञ्चगव्यगव्यादि विस्तरस्नपनाय च ॥

षडुत्थासनगं देवं लयाङ्गं संहितं बुधः ।
सम्पूज्य गन्धपुष्पादि दत्वाभ्यञ्जनपूर्वकम् ॥

पञ्चगव्यादिना स्नाप्य विमृज्य शुचिवाससा ।
दिव्याम्बरावृते पीठे संस्नाप्य जगदीश्वरमिति ॥

अस्य तु चललिङ्गत्वात् शक्त्यादिशक्तिपर्यन्तानामासनमन्त्राणां पीठे एव न्यस्त्वा समग्रासनपूजाष्टत्रिंशत् कलान्यासादिपूर्वं स्थिरलिङ्गवदावाहनादिषु कृतेष्वपि चलनमिच्छन्ति ।
तन्न युक्तम् ।

पूज्यमानं यदा लिङ्गं हस्तादिस्पर्शने मनाक् ।

चलितमघोरमन्त्रस्य शतं शेषक्रियां नयेदिति ज्ञानरत्नावल्यां मूलवचनोक्तवत् समग्रासनपूजायां विसर्जनात् ।
पूजां चलनं न योग्यं किं च वायव्येशानकोणयोर्गणपतिगुर्वोः पूजामध्ये विसर्जनस्याश्रुतत्वात् स्थण्डिलार्चितदेवतानां विसर्जनात् पूर्वं चलने प्रायश्चित्तस्य श्रुतत्वात्तयोश्चलनमवश्यम्भावि अतः समग्रासनपूजा न कार्या ।
शिवकुम्भवर्धन्योर्मण्डलपरिग्रहणार्थं चलनप्रसङ्गेन सर्वशास्त्रेषु

चलासनपूजाया उपदिष्टत्वात् पुनश्च स्थिरासनपूजाया उपदेशाच्च समग्रासनपूजितस्य लिङ्गस्य चलनं न कर्तव्यं किञ्च सहस्रलूतैर्लिङ्गद्विगुणान् परिवर्तते ।
शुद्धिः शुभ्रच्युते लक्षां त्रिचतुर्लुठितैर्युतान् ।
इति सोमशम्भुवचनात् ।
स्थण्डिलेऽपि आवाहनादिषु कृतेषु असमाप्ते पूजाकर्मणि अविसर्जित एव देवेशे प्रमादादुपघाते जाते पुष्पादिभ्यो मन्त्रान् संहृत्येति भोजवचनाच्चार्घ्ये विसर्जिते पात्रे भग्ने चापि विवर्तते शतद्वयात् सहस्राच्च तदर्धाच्च शुचिः क्रमात् ।
इत्यर्घ्यपात्रचलनविषये प्रायश्चित्तस्य श्रुतत्वाच्चलनं न कर्तव्यमेव अपि च राजाद्याधिरूढस्य सिंहासनस्य तदाधारभूताया भूमेश्चलने आरुढनृपतेरपि चलनं भवति ।
एवं तत्र सिंहासने देवं शुद्धस्फटिकनिर्मलम् ।
इत्यादिना परमेश्वरस्यापि समग्रासनपूजायां सिंहासनरूढत्वश्रुतेः सिंहासनरूपस्य पीठस्य भूमेश्चलनेन परमेश्वरस्यापि चलनं सम्भवत्येव ।
एतच्चायुक्तम् आन्दोलिका गजाश्वाद्यधिरूढा राज्ञोऽपि चलनमभिसन्धिपूर्वकत्वाद्यथा पूज्यते ।
तथा च लिङ्गविषयेऽपि

शिवकुम्भवृषभरूपचलासनं युक्तमेव अतश्चललिङ्गे चलासनपूजापूर्वं पूजां विधाय पद्धत्यां वक्ष्यमाणप्रकारेण पञ्चगव्यपञ्चामृतादिभिः संस्नाप्य परिशुद्धेन वाससा निमृज्य भद्रपीठे संस्थाप्य वायुकोणे पूर्ववत् गणपतिं ध्यात्वा सम्पूज्य उत्तरभागे महालक्ष्मीं पूर्ववद्ध्यात्वा सम्पूज्य ईशानकोणे जडमकुटयुक्तं सितपाण्डरागं योगपट्टान्वितं धृतयज्ञोपवीतं नाभिस्थलोपरि कृतयोगमुद्रद्विभुजं सौम्येक्षणं ध्यायन् गुरुपङ्क्तिं पूजयेत् ।

सदाशिवमनन्तं च श्रीकण्ठं पुनरम्बिकाम् ।
गुहं विष्णुं च धातारं गुरुन् सप्तसमाश्रये ॥

एषा गुरुपङ्क्तिः ध्रुवेण वा हृदाधारशक्त्यनन्ताविति पीठादधः समारभ्य प्रणव धयुक्तैराधारशक्त्यनन्तासनानां च स्वैःस्वैर्नामभिः पूजयेत् ।
एतेषां ध्यानम् -

आधारशक्तिं क्षीरोदवर्णां बीजाङ्कुराकृतिम् ।
सर्वाधारां भजेन्मध्ये स्थिरकूर्मशिलास्थिताम् ॥

कुन्देन्दुवर्णां वरदां त्रिणेत्रां कोटीरभारामभयाभयघ्नाम् ।

पाशाङ्कुशां पङ्कजमध्यसंस्थाम् आधारशक्तिं त्वभिचिन्त्यमूले ॥

प्रपञ्चव्याप्तितो ब्रह्मशिलास्थं मन्त्रनायकम् ।
मायापद्मासनं श्वेतमनन्तं प्रणमाम्यहम् ॥

इति पृथिव्यादिकलान्तं त्रिंशत्तत्त्वात्मककन्दनालादियुक्तं मायात्मकमेवानेकस्रोतोयुक्तत्वात् सहस्रदलपद्मरूपमनन्तासनं सम्पूजयेत् ।
तदुपरि तृतीयावरणवक्ष्यमाणलक्षणं ध्यात्वानन्तं पूजयेत् ।
धर्मज्ञानवैराग्यैश्वर्याणि आग्नेयं नै- ऋतवायव्येशानकोणेषु स्वस्वमन्त्रैः सम्पूजयेत् ।
तेषां ध्यानम् -

धर्मज्ञा श्वेतरक्तेषु पीतं वैराग्यं चैश्वर्यमित्येति कृष्णं सिंहाकारानन्तसामर्थ्यरूपान् शम्भोः पीठेऽग्न्यादिकोणस्थापनात् अनन्तसामर्थ्यरूपाणां धर्मादिशब्दवाच्यत्वे निमित्तं तत्र भगवता रामकण्ठेनोक्तम् श्रीमत्कालोत्तरवृत्तौ -

धर्मादयस्त्वनन्तसामर्थ्यविशेषा यैः सन्धत्ते जानाति च न केनचिदनुरज्यते सर्वेश्वरश्च भवतीति न तु बुद्धिधर्मा इति मौर्ख्याद्व्याख्येयम् ।
तेषामत्र सुगमासम्भवात् न चेह पशवः पाशाश्चेज्यन्ते

९४)

यत इति अधर्मादीनि चत्वार्यपि प्राग्दक्षिणपश्चिमोत्तरेषु सिंहासनस्य गात्ररूपाणि विचिन्त्यार्चयेत् ।
तेषां ध्यानं -

कृष्णं श्वेतं श्वेतरक्तं द्वितीयं रक्तपीतं पीतकृष्णं क्रमेण ।
चत्वार्यस्मिन् गात्रकाणीह पीठे पूर्वाद्याशासंस्थितानि प्रपद्ये ॥

एतान्यपि बुद्धिधर्मभूता धर्माद्यधिष्ठातृरूपानन्तसामर्थ्यरूपाणि तेनैवोक्तं तत्रैव अधश्छदनोर्ध्वच्छदने च नै-ऋतेशानकोणयोः ।
इति कन्दबीजाङ्कुरनालपद्मदलकेसरकर्णिकाश्च तदूर्ध्वं पूजयेत् ।

एवं तत्त्वानि भावाश्च करणानि वपूंषि च ।
शुद्धाशुद्धाध्वनोर्विप्रा व्याख्यातानि समासतः ॥

श्रीमन्मृगेन्द्रश्रुते शुद्धविद्यामयपृथ्वीतत्त्वरूपं ब्रह्माणं कन्दत्वेन ध्यायेत् ।
शुद्धविद्यामया पञ्चाशत्कृद्भावप्रत्यया बीजत्वेन ध्येयाः शुद्धविद्यामया बुद्धिरङ्कुरत्वेन ध्येया तन्मयं कलातत्त्वान्तं वस्तुनालत्वेन ध्येयम् ।
एतत्कारणं परमेश्वरस्य नित्याधिष्ठेयं बिन्दुतत्त्वं पद्मतत्त्वेन ध्येयं विद्येश्वर-

दलाकान्तमिति वचनात् अष्टानां विद्येश्वराणां शुद्धाध्वनि भोगार्थं मुख्यतया प्रतिसर्गं सृज्यत्वेनावस्थितेरुक्तत्वात्तदावासभूतानां पुराणां प्रागाद्यष्टसु दिक्षु अवस्थानश्रुतेश्च तदुपाधिनाष्टौ दलानि ध्येयानि केसराणि शुद्धानि चतुष्षष्टिसञ्ज्ञितविद्यारूपाणि ध्येयानि कर्णिका तु समस्तवाचकशब्दकारणभूतपञ्चाशदक्षरनिचिता परमाकाशरूपा परकुण्डलिन्येव ध्येया ।
एतेषां ध्यानं गुरुभिरुक्तम् -

शुद्धविद्यामयं पद्मविद्येश्वरदलाष्टकम् ।
पीतां च कर्णिकां वन्दे पञ्चाशद्बीजगर्भितामिति ॥

वामाद्या नवशक्तयः ।
पूर्वादिदिक्केसरगाः पूज्याः मनोन्मनी तु कर्णिकेशानभागे पूज्या एताः शक्तयः परमेश्वरस्य प्रेमानुग्राह्यत्वेन प्रोक्तानामनन्तादीनामधिष्ठानोपाधिभेदभिन्ना परमेश्वरी शक्तिरेव एतासां रक्तत्वमैश्वररक्तानाम् एतेषामधिष्ठानात् मनोन्मन्यास्तु तदधिष्ठानराहित्यात् शुक्लत्वम् ।
एतासां ध्यानम् -

वरप्रदेशाङ्कगवामहस्तं सव्यद्वयात्ताभयचामरं च ।
रक्तं जटाचूडशशाङ्करेखाविभूषणं भूषितविश्वगात्रम् ॥

पूर्वादिदिक्केसरपूज्यमानं वामादिशक्त्यष्टकमानतोऽस्मि ।
तत्तुल्यरूपामथ कर्णिकायां मनोन्मनीं शुक्लतनुर्निविष्टाम् ॥

इति दलाग्रकेसराग्रेषु सूर्यमण्डलसोममण्डलाग्निमण्डलानि तदधिपतीन् ब्रह्मविष्णुरुद्रांश्च पूजयेत् ।
एतानि मण्डलानि न लोकसिद्धानि ।
भुवर्लोकचारीणि अपि तु ज्ञानक्रियेच्छाशक्तीनामाविर्भावाधिकरणभूतानि आत्मतत्त्वविद्यातत्त्वशिवतत्त्वशब्दवाच्यानि बिन्दुलिकाणि तेषां लोकसिद्धानां ब्रह्माण्डागतत्वेन दिव्यसिंहासने प्रगमासम्भवात् तदधिपतयश्च न लोकासिद्धाः ।
तदधिष्ठातृशक्तिविशेषा इत्युक्तम् गुरुभिः ।
श्रीमन्मृगेन्द्रवृत्तिदीपिकायां मण्डलेश्वराणां ध्यानम् -

पीनं पीतं चतुर्बाहुं ब्रह्माणं चतुराननम् ।
हंसकेतुं च बिभ्राणं दण्डाक्षस्रुवकमण्डलुम् ॥

विष्णुश्चतुर्भुजो माली शङ्खचक्रगदाब्जधृक् ।
नीलाम्बुदप्रतीकाशो गरुडासनसंस्थितः ॥

ईशानं वृषभारूढं त्रिशूलं व्यालधारिणम् ।
शरच्चन्द्रावदातं च चन्द्रमौलिं त्रिलोचनमिति ॥

शिवासनस्य व्याप्तिस्वरूपे गुरुभिरुक्ते क्षित्यादिकुटिलाप्रान्तसमस्ताध्वमयं शुभम् ।
योगपीठमिदं दिव्यं शिवस्यासनमाश्रये इति कल्पनीयम् ।
ततः पीठं शेषाध्ववन्निर्मितम् ।

श्रीमत्किरणे - श्रुतेः शिवासनस्य क्षित्यादिशिवतत्त्वान्तरूपा व्याप्तिः ।
तत्सिद्धिमनुजानीहि यजतश्चिदचित्पद इति मन्त्रलिङ्गार्चिते चिह्ने तारमित्याचार्यवचनाच्च ।
विज्ञानकलप्रलयाकलसकलभेदभिन्नानामत्मनान्तेषु मलपाकवशात् परमेश्वरेणानुगृहीतानां मन्त्रमहेश्वरमन्त्रेश्वराणां पृथिव्यादिशिवान्तानां तत्त्वतत्त्वेश्वराणां कालाग्न्याद्यताश्रितान्तानां भुवनानां तद्भुवनेश्वराणां परमन्त्रेश्वरेषु रुद्रभट्टारकेणाधिकारेषु नियोजितानां विष्णुब्रह्मादीनां देवयोनीनाम् एवं सर्वेषामात्मनां लौकिकवैदिकाध्यात्मिकादिमान्त्रभेदभिन्नानां शुद्धाशुद्धरूपाणां सर्वेषां शब्दस्रोतसां तत्कारणभूतानामकारादिक्षकारान्तानां सर्वेषां वर्णानामेकाशीत्यादिपदभेदभिन्नस्य पदाध्वनः सद्याद्यस्त्रान्तस्य मन्त्राध्वनः समस्ताध्वव्यापकनिवृत्त्यादिकलाध्वनश्च एवं शब्दार्थभेदभिन्नस्य समस्तस्य कार्यवर्गस्य

तत्कारणयोश्च मायाबिन्दोर्दिव्यसिंहासनरूपे शिवासने अन्तर्भावा हृत्पुटात्मबीजेनेति द्विरभ्यासपदाविष्टामुद्यद्दिनकरप्रभाम् ।
मूर्तिमीश्वररक्ताङ्गीं परिणाहे निवेशयेदिति वचनाद्धृदयसम्पुटात्मबीजेन उद्यद्दिनकरप्रभाम् विरक्तावयवां द्वादशान्तपद्मस्थितस्य परमेश्वरस्य समवेतशक्तिरूपां परमेश्वरस्य जगत्कृत्यविषये कार्यकारणरूपां परनिष्ठाकारां शक्तिमूर्तित्वेन शिवलिङ्गस्य परिणाहे पुष्पाञ्जलिपूर्वं निवेशयेत् ।
ततश्च ब्रह्माण्डोदरगतानामनान्नाध * * शक्तितिरोधायकान्धकारोच्छेदकत्वेन यथा प्राभातिकः ।
एवं प्राकृतमाशयबैन्दवान्तर्गतानां मनुष्यमुनि * * * * दि विद्येश्वरान्तानां सर्वेषामात्मनां मलादिमहासन्तमसनिहारतयैषपरमेश्वरमूर्तिप्रकाशाद्ध्येयम् अव्ययः समवेतशक्त्यात्मिकाया मूर्तेरेव परमेश्वरस्य पञ्चकृत्ये कार्यकारणत्वेन स्थितत्वात् तत्तत्कृत्योपाधिवशाद् भिन्नस्य ईशानादिब्रह्मपञ्चकस्य तदवान्तरभेदानामष्टत्रिंशत्कलानां च न्यासः ।
इति मुष्टिं बध्वा भद्रमुद्रया ऊर्ध्वमूर्धनि पुष्पपूर्वमीशानं न्यसेत् ।
ॐ इति तर्जन्यङ्गुष्ठयोगात्

तत्पुरुषमुखे अश्रुतिरस्ति मध्याङ्गुष्ठयोगेन घोरं हृदये ॐ श्रुतिरस्ति ।
इति अङ्गुष्ठानामिकाभ्यां वामदेवं गुह्ये इति कनिष्ठाङ्गुष्ठयोगेन पादादारभ्य सर्वशरीरव्यापकत्वो मूर्तिभूतं सङ्ख्याकृतं न्यसेत् ।
ऊर्ध्वपूर्वदक्षिणोत्तरपश्चिमवक्त्रेषु अखण्डान्येवं माला ब्रह्माणि त्राभङ्गं न्यसेत् ।
ततः कलाभङ्गन्यासः कर्तव्यः ।
ॐ होम् ईशानः सर्वविद्यानां शशिन्यै नमः इति ऊर्ध्वमूर्धनि ॐ ईश्वरः सर्वभूतानां गदायै नमः इति पूर्वमूर्धनि ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्म इष्टदायै नमः इति दक्षिणमूर्धनि ।
ॐ शिवो मे अस्तु मरीच्यै नमः इत्युत्तरमूर्धनि सदाशिवो ज्वालिन्यै नमः इति पश्चिममूर्धनि ॐ अव्यक्तकलायै नमः इत्यूर्ध्ववक्त्रे ॐ हें तत्पुरुषाय विद्महे शान्त्यै नमः इति पूर्ववक्त्रे ॐ महादेवाय धीमहि विद्यायै नमः इति दक्षिणवक्त्रे ।
ॐ तन्तो रुद्रःप्रतिष्ठायै नमः इत्युरवक्त्रे ॐ प्रचोदयान्निवृत्त्यै नमः इति पश्चिमवक्त्रे ॐ हाम् अघोरेभ्यस्तमायै नमः इति हृदये ॐ अथ घोरेभ्यो मोहायै नम इति गले ॐ घोरक्षमायै

नम इति दक्षिणांसे ॐ घोरतरेभ्यो निह्रायै नम इति वामांसे ।
ॐ सर्वतश्शर्वमृत्यवे नम इति नाभौ ।
ॐ सर्वेभ्यो मायायै नम इत्युदरे ॐ नमस्तेऽस्तु रुद्रायै नम इति पृष्ठे ।
ॐ रूपेभ्यो जरायै नम इत्युरसि ।
ॐ हिं वामदेवाय नमः ।
रजायै नम इति गुह्ये ।
ॐ ज्येष्ठायै नमः रक्षायै नमः इति लिङ्गे ॐ रुद्राय नमः रत्यै नम इति दक्षिणोरौ ॐ कालाय नमः बाल्यै नम इति वामोरौ ॐ कलायै नमः कामायै इति दक्षिणजानुनि ॐ विकरणाय नम संयमिन्यै नम इति वामजानुनि ।
ॐ बलक्रियायै नमः दक्षिणजङ्घायां ॐ विकरणायै नमः बुद्ध्यै नम इति वामजङ्घायां ॐ बलकार्यायै नम इति दक्षिणस्फिजि ।
ॐ प्रमथनायै नमः धात्र्यै नम इति वामस्फिजि ।
ॐ सर्वभूतदमनाय नमः ग्रामिण्यै नम इति कट्यां ॐ मनोन्मन्यै नम इति दक्षिणपार्श्वे ॐ उन्मनायै नमः अभयायै नम इति सव्यपार्श्वे ॐ सद्योजातं प्रपद्यामि सिद्ध्यै नम इति दक्षिणपादे सद्योजाताय वै नमः ऋद्ध्यै नम इति वामपादे ।
ॐ भवे द्युत्यै नमः दक्षिणकरे ॐ भवे भक्ष्यै नमः इति वामकरे ।

ॐ अनादिभवे मेधायै नम इति नासिकायाम् ।
ॐ भजस्व मां कान्त्यै नम इति शिरसि ।
ॐ भव स्वधायै नम इति शिरसि ।
ॐ भव स्वधायै नम इति दक्षिणबाहौ ।
ॐ उद्भवायै नमः स्थित्यै नमः इति वामबाहौ ।
ततो बीजयुक्तपदब्रह्मभिर्मूर्धमुखहृदयगुह्यपादादिसर्वशरीरेषु पूजां विधाय ततो विद्यादेहं द्वादशान्तपद्मस्थितायाः समवेतायाः शक्तेरेव सर्वानुग्रहप्रवृत्तस्य परमेश्वरस्य शरीरकारणं तमकरणरूपं कलारूपशक्तिसमुदायात्मकं शिवलिङ्गस्यारोहे विन्यसेत् ।
तदुक्तं -

अष्टत्रिंशत्कलोपेतं विद्यादेहं सदाशिवम् ।

आरोहे विन्यसेद् ध्यात्वा शक्तिं लक्षणभास्वरमिति ।
एष सदाशिवेन विग्रहः शाक्त एव तदुक्तं -

या तस्य विमला शक्तिः शिवस्य समवायिनी ।
सैव मूर्तिक्रियाभेदात् सादाख्यं तत्त्वमुच्यते ॥

इति ।
अस्य भगवतः शक्तेर्नित्यनिर्मलनिरतिशयसर्वार्थज्ञानक्रियारूपत्वे नानावृतत्वान्न व्यञ्जकान्तरापेक्षा विद्येश्वरादीनाम् आवृतत्वादेव बैन्दवादि-

आवृतत्वादेव बैन्दवादिव्यञ्जकान्तरापेक्षम् ।
तदुक्तं श्रीमन्मृगेन्द्रे -

मूलाद्यसम्भवाच्छाक्तं वपुर्नो तदृशं प्रभोः ।
तद्वद्भिः पञ्चभिर्मन्त्रैः पञ्चकृत्वोपयोगिभिः ॥

ईशतत्पुरुषाघोरवामजैर्मस्तकादिकमिति ।

अस्य विद्यादेहध्यानं गुरुभिरुक्तं -

आगुल्फं स्फटिकप्रख्यं रक्तपादकराम्बुजम् ।
हिमरक्तालिहेमाम्भसुश्वेतमुखपञ्चकम् ॥

खड्गखेटधनुर्बाणखयाङ्गानि कपालकम् ।
कुण्डिकामक्षमालां च वरं चाभयमेव च ॥

दधानं दशभिर्हस्तैः सुप्रसन्नं स्मिताननम् ।
दृक्क्रियेच्छाविशालाक्षं ज्ञानचन्द्रकलान्वितम् ॥

गले नीलं मनोज्ञाङ्गं प्रतिवक्त्रं त्रिलोचनमिति ।

गले नीलमिति रोधशक्त्या परागाद्रोधशक्तेश्च नैल्यमात्मतिरोभावनहेतुमलाधिष्ठानवशात् तिरोभावकृत्यनिमित्तभूतस्य तत्पुरुषवक्त्रस्याधोभागे तस्यावस्थितिज्ञानचन्द्रकलान्वितमिति श्रुत्या पादपद्मादारभ्य जटाचूडपर्यन्तस्यास्य विद्यादेहस्य हस्तगतायुधविशेषस्याभरणादेश्च सर्वस्यापि

शक्तत्वमवसीयते ।
एवं विधस्य सदाशिवविग्रहस्य वैन्दवत्वं केचिदिच्छन्ति अन्ये तु बिन्दूद्भूतशरयोगिषु पशुशरीरेष्वतत्त्वमिच्छन्ति तदुभयमप्युक्तेन प्रकारेणानुपपन्नं युक्तिविरोधश्च पूर्वस्मिन् पक्षे तस्य शरीरस्य कार्यत्वादेव कर्त्रन्तरापेक्षायां स्वकृतत्वे अन्यकृतत्वे वानवस्थाप्रसङ्गः ।
उत्तरस्मिन् पक्षे परमेश्वरस्यासाधारणत्वेन शास्त्रेषूक्ते निष्कले लिङ्गे चिदन्तराध्यासोऽत्यन्तविरुद्ध एव ।
अत एव एवायं विद्याग्रहः शाक्त एवेति सुष्ठूक्तम् ।
एवं विधो विद्यादेहविकृत्यसेद्ध्यात्वा शक्तिं लक्ष्मणि भास्वरमिति चललिङ्गविषये पूजनस्यासाधारणतयार्च्यमानत्वात् ।
स्वात्मानुगृहीतत्वेन दक्षिणाभिमुखमेव ध्यातव्यम् ।
एवं कृते खलु शास्त्रेषूक्तं दक्षिणमुखं सिध्यति तथोक्तं श्रीमत्किरणे -

स्थानं प्रविश्य मेधावी दक्षिणामूर्तिमाश्रित इति ।
तत्रैव दीक्षायां -

प्रवेश्याभ्यन्तरं तस्य दक्षिणामूर्तिकरस्य च ।
उदङ्मुखं क्षिपेत् पुष्पं तत्पादान्नाम कारयेत् ॥

इति ।

श्रीमत्पराख्ये -

प्रक्षेपयेत् पुष्पमण्डलेशादुदङ्मुखः विज्ञापयेत् ।
प्रणम्येशं शिवस्वस्य शङ्करेति ।
श्रीमन्मृगेन्द्रे दीक्षायाम्

कृत्वाभिमुखमादाय कुसुमान्यञ्जलौ पुनः ।
त्याजयेत् स प्रणामानि श्रद्धावान् श्रद्धया युतम् ॥

ब्रूयादङ्गमहेशानां पश्येत्युद्घाट्य लोचने ।
विमूर्तियोग्यताशून्यैरदृष्टममरैरपि ॥

विलोक्यानन्दपूर्णाक्षमुत्थाप्य प्रणतं क्षिपेत् ।
दक्षिणस्यां प्रभो मूर्तौ निदध्यात् प्रणवासने ॥

अस्य सूत्रस्य वृत्तिः - शिवनिरीक्षणाह्लादनेत्रं दृष्ट्वा पुनः पुनः प्रणमन्तं क्षितेरुत्थाप्य प्रभोर्दक्षिणमूर्तिकटे गुरुं प्रणवासीनं कुर्यादिति तत्रैवाभिषेकवाससी परिधाय सन्निविष्टं सकलीकृतं पाणौ गृहीत्वा देवस्य दक्षिणस्यां तनौ न्यसेदिति पुनस्तत्रैव करणान्ते बलिं दत्वा ब्रूयान्नीत्वा पुनः प्रभोः व्याख्येयश्रुतमर्थिभ्य श्रोतव्यं च त्वयान्यत इति ।

श्रीमत्सर्वज्ञानोत्तरे -

पुष्पाञ्जलिसमायुक्तं दक्षिणामूर्तिमानयेत् ।

शिवस्याभिमुखं स्थाप्य ततः पुष्पाणि पातयेदिति ।

श्रीमन्मृगेन्द्रे प्रतिष्ठाप्रकरणे -

ईशानदिक्छिरोभागं शिरसा शिखरं ततः ।
विधाय सासनं कुम्भं होमादन्यतमं शुभमिति ॥

श्रीमद्रौरववृत्तिविवेकमुद्राप्रकरणे -

व्यापकत्वात्परमेश्वरस्यावाहनस्थापनसन्निधानसन्निरोधानं सम्भवन्तीति भ्रान्तिनिवृत्तये व्याचष्टेविशिष्टा स्थितिरिति ।
तदनुग्राहकत्वेनाभिमुखीभावोऽवशिष्टं सान्निध्यमिति ।

श्रीमत्सोमशम्भुपद्धत्यां-

सादरं सम्मुखीभाव आवाहनमिहोच्यते ।
इति ।

तत्रैव प्रदेशान्तरे -

ध्यायन्नभिमुखं देवं पञ्चवक्त्रं सदाशिवम् ।
इति ।
सन्निधाने ततः शम्भोरुपविश्य निजासनम् ।
इति ।

श्रीमद्ब्रह्मशम्भुपद्धत्यां -

न्यस्य शय्यासने शम्भोः प्रत्यक्षं पातयेत् स्थितम् ।
अपनीय दृशालोकाच्छादनं वसनं क्रमात् ॥

सहसालोकितेशान शिववक्त्रसरोरुहम् ।

ब्रूयात्तदङ्गमुञ्चेति प्रसूनं शिवसम्मुखम् ।
स्फुटभक्तिपराम्भोजपरागमिति पूजितम् ॥

पशूनामग्रणीर्यस्तु यददस्तु विशेषतः ।
प्रवृत्तिरस्य यागस्य त्वं नीत्वा शिवसन्निधिम् ॥

शिवं विज्ञापयेद्देवं प्राणैरन्तर्बहिश्चरैः ।
परीक्षितः समर्थो यन्निर्वाणार्थमुपस्थित इति ।
तत्रैव तस्मादादाय विस्रब्धं स्थिरधीः पुरतन्त्रिते ॥

देहे लक्षीकृते न्यसेत् ।

स्थापनं हृदयेन त्विति पुनस्तत्रैव ध्यात्वा तं सकलोपाधिविग्रहं सम्मुखं शिवम् ।

परमामृतनिष्यन्दधवलीकृतदिङ्मुखः ॥

समुत्क्षिप्य विशेषार्घ्यभोजनं वामपाणिना ।
अर्घ्यं निवेदयेत्पूर्वं दक्षहस्तेन सम्मुखम् ॥

इत्यादिभिर्वचनैरुत्तराभिमुखत्वेनासीनस्य साधकस्यापि मुख्यविधानाच्चललिङ्गविषये मण्डले च दक्षिणाभिमुखत्वं देवस्य सिद्धं दर्शितेषु वचनेषु मण्डलेश्वरभूयो वृत्त्या प्रतीतेश्चललिङ्गेऽपि दक्षिणाभिमुखत्वं प्रतीयते ।
किञ्च मण्टपस्येशानभागे पश्चिमाभिमुखं कुम्भं

सर्वधान्योपरि स्थितमिति उक्तत्वान्मण्टपरक्षार्थं पूजितस्य परमेश्वरस्य सर्वासु संहितासु सर्वासु पद्धतिषु च पश्चिमाभिमुखत्वस्य श्रुतत्वाद्रक्ष्यरक्षणार्थमाभिमुख्यसिद्धे स्वेष्टलिङ्गविषये स्वस्यासाधारणत्वादेव स्वस्य रक्षकत्वेन दक्षिणामूर्तित्वमुपपन्नतरम् उक्तेषु च वचनेषु दक्षिणामूर्तित्वेनोक्तस्य मूर्तिशब्दस्यार्थः श्रीमत्सार्धत्रिंशतिकालोत्तरे वृत्तिः कृता श्रीमता रामकण्ठेन निर्णितः ।
पश्चाद्गुरोः साधकानां मूर्तेस्तु ग्रहणं भवेत् ।
इति सूत्रम् ॥
अस्य वृत्तिः ।
एवमन्तः करणशुद्धेरपि पश्चात् परापरश्रेषयः साधकानां यो गुरुराचार्यः सञ्ज्ञानक्रियाव्यञ्जकपुर्यष्टकाख्यस्तस्य पूर्वबिन्दुतयाभियातस्य या मूर्तिः शिरोवक्त्राद्याकारशरीरं तस्या ग्रहणं भावनाद्वारेण स्वीकारो भवेत् ।
ओमित्यनेन कुर्यादित्यर्थः ।
यदुक्तं सद्गुरुभिरत्र पद्धतौ ध्यात्वादौ प्रणवेनाथ मूर्तिमूर्धादिभेदतः ।
तारेव सकलीकुर्यादिति ।
एवं दक्षिणाभिमुखसिद्धौ मूर्धमुखजठरहृदयपाणिपादाद्यवयवा-

नामपि दक्षिणाभिमुखत्वमुक्ता श्रीमच्चतुश्शतिकालोत्तरे -

ऊर्ध्ववक्त्रे महासेनस्तस्मिन् पूर्णाहुति स्मृतम् ।
सम्पादपाणिब्रह्मे तु आहुतिं सम्प्रदापयेत् ॥
इति ।

किञ्च - उत्तराभिमुखत्वेनासीनस्य साधकस्य स्वशरीरके अष्टत्रिंशत्कलान्याससमये अङ्गभङ्ग्या ब्रह्मन्यासकाले तत्पुरुषवक्त्रस्य उत्तराभिमुखत्वमवश्यम् अन्यथा अङ्गभङ्गिन्यासोऽनुपपन्न एव एवं परमेश्वरस्यापि दक्षिणामुखस्य अङ्गभङ्गिन्यासो दक्षिणामुख एव कर्तव्यः ।
अपि च ईशानवक्त्रस्य त्यपञ्चके अनुग्राहकत्वेन स्थितस्य रक्षाभिमुख्यहेतोर्दक्षिणाभिमुख्यत्वान्मूर्धाद्यवयवा अपि दक्षिणाभिमुखा एव ।
ननु ईशानतत्पुरुषस्थितेः कथमघोरवक्त्रादुपरि स्थितिरुच्यते ।
सत्यम् ।
तत्पुरुषकलानां च तसृणां विद्यमानत्वाद्दक्षिणेऽपि तत्पुरुषस्य स्थितेः तदूर्ध्वमीशानस्य पपन्नैव ।
केचित्तु बृहत्कालोत्तरादिषु परितानि चिद्वचनान्युररीकृत्य प्राङ्गमुख एव परमेश्वरः ध्यातव्य इति मन्यन्ते ।
पञ्चाननं प्रकर्तव्यं त्रिपञ्चनयनान्वितम् ।

वामादिशक्तिखचितं देवदेवं सदाशिवमित्याद्येषु वचनेषु मध्ये

ईशानस्य सदाकार्यं मूलद्वारावलोकनम् ।

सदा पूर्वाननं स्थाप्य स्थाप्यं वा पश्चिमाननमित्युक्तत्वादेतानि वचनानि पूर्वद्वाराभिमुखत्वेन स्थापितलिङ्गविषयाणि

पूर्वं पुरुषनामानं हृदये परिसम्मितमित्यादिषु वचनेषु

दक्षं दक्षांससम्बन्धकन्धरोपरि संस्थितम् ।
इति ।

एतद्वचनं चललिङ्गस्य पूर्वाभिमुखत्वप्रतिपादकत्वेन कैश्चिदुक्तम् ।
एतद्वचनं वचनशरीरे चललिङ्गविषयताप्रतीतेः ।
पूर्वद्वारतयावस्थापितलिङ्गविषयं पश्चिमावस्थितं किञ्चिदीशानं दिशमाश्रितमित्यादिवचनं च पूर्वाधारं तमेव प्रत्यगाननमिति वचनस्यापि पूर्वार्धे स्थिरलिङ्गविषये पूर्वाभिमुखत्वस्य नित्यत्वश्रुतेः शिवकुम्भादिविषयेऽप्येवमेव प्राप्तौ पश्चान्मुखत्वं विधीयते ।
ज्ञानविज्ञानपुञ्जादिवचनत्वे लिखितस्य

दक्षजानुसमीपस्थं हृदयं वह्निदिग्गतमिति

वचस्य पूर्वद्वारविषयत्वमेव वज्रदेहवचने ।
इति नित्यनैमित्तिक इत्यादौ सर्वेष्वधिकरणेषु प्राङ्मुखत्वप्रतीतिः ।
प्रत्यङ्मुखत्वेन स्थापितस्य लिङ्गस्य शिवकुम्भस्य च प्राङ्मुखत्वप्रसङ्गात् सर्वशास्त्रविरुद्धेनैव प्रभोः पुरस्तिष्ठेदित्यनेन वचनेन विशेषाभिधानात् पश्चिमद्वारत्वेन स्थापितस्यापि लिङ्गस्य पूर्वाभिमुखत्वं प्राप्तम् ।
एतच्च विरुद्धमेव अत एव तदपि प्राङ्मुखस्थापितलिङ्गविषयमेव किञ्च स्थिरलिङ्गविषयेऽपि प्राङ्मुखत्वस्यां मुखत्वं श्रीमत्स्वायम्भुवे दृष्टम् ।

श्रेष्ठं पश्चान्मुखं लिङ्गमभावात् प्राङ्मुखं स्मृतम् इति ।
किञ्च -

पूर्वाभिमुखं देवं चललिङ्गेऽर्चितां तेषामपि नित्यविषये मुख्यतया पश्चाद्यत्यद्वारास्येष्टदीशानस्य वदाकार्यमूलद्वारावलोकमिति ।
स्थिरबलाविशेषेण श्रुतत्वादीन सवक्त्रस्य पश्चान्मुखत्वं प्राप्राप्नम् इति क्रियाग्रन्थनिपुणैः कैश्चित् स्वमनीषिकया पूर्वत्वद्वारस्थापितलिङ्गवच्चललिङ्गविषयेऽपि पूर्वद्वारार्चनं मुख्यतया प्राप्तम् अत -

स्तेषामपि पूर्वद्वारार्चननिबन्ध आशामात्रकृत् एव किञ्च क्रियाग्रन्थे एषु पूर्वपश्चिमद्वारयोरिव दक्षिणद्वारार्चनमपि विहितं तस्मादपि पूर्वद्वारनिबन्धस्वपक्ष एव विरुद्ध एतेष्वपि सर्वोद्दिष्टेषु सर्वेषु वचनेष्वपि चललिङ्गविषयत्वादर्शनाच्चललिङ्गे पूर्वाभिमुखत्वनिबन्धस्वरुचिरवरचित इति प्रतीयते ।
अपि च सद्योज्योतिप्रभृतिभिर्महद्भिराचार्यैर्व्याख्या तेषु श्रीमद्रौरवस्वायम्भुवमृगेन्द्रकिरणपराख्यमतङ्गसूक्ष्मस्वा- यम्भुवद्विशतिसार्धत्रिशतिचतुःशतिका सर्वज्ञानोत्तरमोहशूरोत्तरेषु विव्याकृतेषु श्रीमत्त्रयोदशशतिकानिश्वासादिषु श्रीमत्सोमशम्भुब्रह्मशम्भुभोजराजर्वारुणशिवाद्यैर्विरचितासु पद्धतिषु च तत्तद्व्याख्यानेषु चललिङ्गविषये प्रतिष्ठास्वनिकर्तव्यताभेदवत् पूर्वमुखत्वस्य विधानादर्शनात् चललिङ्गविषये पूर्वाभिमुख्यदर्शकत्वेनोक्तानाश्वर्चनानां स्थिरलिङ्गविषयत्वेन चरितार्थत्वाच्च काश्मीरार्यवर्तगौडदेशीयैर्दाक्षिणापथैर्विशिष्टैर्विद्वद्भिर्- गृहस्थैस्तपस्विभिश्चाचार्यैश्चरितत्वात् स्वेष्टलिङ्गात्मकचललिङ्गार्चनं दक्षिणाभिमुखमेव

कर्त्वव्यं किञ्च अघोरहृदयायेति मन्त्रलिङ्गादङ्गभङ्ग्यामघोरब्रह्मणा हृदयस्य कल्पनीयत्वादघोरस्य दक्षिणस्यां दिश्यवस्थितत्वेन कल्पितस्य हृदयस्य शरीरावयवेषु प्रधानत्वात्तदूर्ध्वं तदधश्च मूर्धाद्यवयवा दक्षिणत एव कल्पनीयाः ।
ननु तत्पुरुषवक्त्रायेति मन्त्रलिङ्गात्तत्पुरुषस्य पूर्वतः स्थितत्वात् तदपेक्षया मुखादिकल्पनं किं न कल्प्यते ।
सत्यम् ।
तत्पुरुषकलानां चतसृणां विद्यमानत्वाद्दक्षिणतोऽपि तत्पुरुषकलायाः सम्भवाद्धृदयस्य तत्पुरुषस्य च ययोश्च दक्षिणस्यां सम्भवात् प्रधानभूतयोर्द्वयोरप्यपेक्षया तद्व्यतिरिक्तानामवयवानां दक्षिणतः कल्पनं युक्तम् ।
ननु वामदेवगुह्यायेति मन्त्रलिङ्गाद्वामदेवस्योत्तरतः स्थिते तत्कल्पस्यापेक्षयाप्यङ्गान्तरकल्पनामुत्तरतोऽपि प्राप्तं न याम्यकौबेरवक्त्रं तु न सिद्धाविद्यादिना वचनेनोत्तराभिमुख्यं न युज्यते ।
ननु याम्यस्यापि तत्समानमेव ।

अथाभ्यर्च्य महेशानां साध्यमन्त्रं यजेच्छ्रियै ।
सर्वथा सर्वदा गुप्तं साधके वक्ष्यमाणवत् ॥

याम्याब्जपत्रे वा पश्चाद्भागधेयो स्त्रीवृविग्रहम् ।

अघोरलोचनज्योतिर्मध्ये नान्यत्र कुत्रचिदिति ।

श्रीमन्मृगेन्द्रवक्त्रादघोरवक्त्रसन्निधौ श्रुत्यर्थं मन्त्रसाधनस्य विहितत्वात् सिद्धिकामानपि दक्षिणतो मन्त्रसमाराधनं तेन्तस्माद्दक्षिणाभिमुखत्वमूक्षुणां सिद्धिकामानपि साधीयं श्रुतितोऽपि दक्षिणाभिमुखत्वं साधुतरं यथा श्वेताश्वतरोपनिषदि ॥
उपनिषदस्ति ।

सपुराणवचनान्यपि सन्ति एतेषु दश प्रादुर्भावादि च श्रूयते ।
अतो हरिद्रयत्ते दक्षिणं दक्षिणगतमुपासीनस्य मे रक्षार्थमभिमुखमीशानसञ्ज्ञितं मुखेन नित्यं पाहीति कृत्यपञ्चकेषु अनुग्रहप्रवृत्तेन तेन रक्षेत्यर्थः ।
किं च पूर्वादिदिक्चतुष्टये उत्तरस्य एवं दिशो रौद्रत्वं यत्नेन श्रूयते ।
अत्र श्रुतिरस्ति ।
तदुदयपर्वतस्य मूर्धन्यादि तस्य स्विन्यः पश्चिमाभिमुखत्वमिवस्वस्यामुक्तस्यां दिश्यादितस्य परमेश्वरस्य दक्षिणाभिमुखत्वमेव युज्यते ।
तथा शैवपुराणे -

अजातमिममैश्वर्यं बुद्ध्या जन्मनि भीरवः ।
रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणं मुखम् ॥

महास्तोत्रेऽपि -

तावत्युदीचि पाचीशान्ता शाखासु वेदस्य हि ये ।
युष्मात् निषेदुषस्त्वक्परामनुती च पश्येत ततो दक्षिणतो मुखस्त्वम् ।

अजात इत्यस्मिं समाश्रितत्वां यो मृत्यवे रुद्रबिभेमि जातः ।

मामीक्षितुं दक्षिणतो मुखोऽर्हस्यस्त्येवमर्थः ।
खलु तत्र मन्त्रः ।
इति ।

न प्राच्यामग्रतः शम्भोरित्यादिना देवस्य सन्निधौ स्थित्वा पूजादिकं न युक्तमिति ।
यदुक्तं श्रीमन्मृगेन्द्रे -

स्नानमाशिरसः कृत्वा समाचम्योदगाननः ।

प्राङ्मुखो वा भजेत्सन्ध्यां वेदसिद्धाञ्छिराश्रमीत्याद्यारभ्य सन्ध्यावन्दनान्ते ततस्तीक्ष्णां शुचिं बिम्बस्थं ध्यात्वा देवं सदाशिवम् ।

क्षिपेज्जलोज्जलिमन्त्रविरतौ चेतसा स्मरन् ॥

अस्य सूत्रस्य वृत्तिः -

बिम्बगं सदाशिवनाथं ध्यात्वा मन्त्रोच्चारणान्ते

तमेव मनसा स्मरन् जलाञ्जलिं दद्यादिति तस्येवमुदितां सदिव्यां समुदितां पूजायां सम्पाद्यार्घ्यपुरस्सरं ततो जप्त्वा शिवं साङ्गमावेद्य उत्तरमारभेत् ।

अस्य वृत्तिः -

देवस्य या वक्ष्यमाणपूजा सा दिव्यातामर्घ्यपूर्वं समुदितामिति ।
धूपविलेपनकुसुमाद्यङ्गयुक्तां सम्पाद्य शिवमन्त्रस्याङ्गयुक्तस्य जपं कृत्वा तं च भगवते निवेद्य उत्तरकृत्यमाग्नेयं स्नानमारभेत् ।
इति अनेन सङ्क्षिप्तपूजनेन देवस्याभिमुखमेव विहितम् ।

श्रीमत्किरणेऽपि -

सन्ध्यावटले कृत्ययात् हृदयाञ्जलिं बध्वा त्रीन् वारानुदकेन तु कृत्वाञ्जलिं पुष्पाढ्यं रवेः पश्चाच्छिवं जपेत् ।

तावद्यावच्छतं पूर्णं स्वशक्त्या वाथवा जपेदिति ।

ब्रह्मशम्भुपद्धतावपि -

उपस्थानं षडङ्गेन कुर्यादादित्यमूर्तये ।

शतमूर्धमित्यादिना जपनिवेदनमुक्तम् ।
श्रीमत्सोमशम्भुपद्धत्यामपि -

समाचम्य विधानेन त्र्यञ्जलेनार्घ्यमुच्चरेत् ।

रक्तपुष्पादितोयेन मूलमन्त्रेण भानव इति तत्रैव सूर्यपूजायाम ।

कृत्वा कराङ्गविन्यासं तन्मन्त्रैर्हृदयादिभिः ।
आत्मानं रविरूपेण सञ्चित्यार्घ्यजनीम् * * ॥

पूरयेद्रक्तवर्णेन ललाटकृष्णबिन्दुना ।
तं सम्पूज्य रवेरङ्गैः कृत्वा रक्षावकुण्ठनाम् ॥
सम्प्रोक्ष्य तज्जले दिव्यपूर्वास्यो भानुमर्चयेत् ।
इति श्रीमत्क्रियाकाण्डशेखरेऽपि ।

द्रव्याणि तज्जलैः पूजाप्रकरणे -

क्रीडन्तः परदेशस्य मूर्तिरेषा ह्यनिन्दिताः ।
ऊर्ध्वस्फटिकसङ्काशस्वाङ्गोत्थकिरणोज्ज्वलः ॥

चिन्तयन् पञ्चमूर्धानं देवदेवं महेश्वरम् ।
त्रिपञ्चनयनं सौम्यं पञ्चास्यं चारुलोचनम् ॥

दशबाहुं विशालाक्षं नागयज्ञोपवीतिनम् ।
नीलनीरजनारा च खड्गाक्षवलयाभयम् ॥

सत्रिशूलं रहस्योक्तं दक्षिणे पञ्चबाहवः ।

बीजपूरं धनुश्चर्मवरदण्डकमण्डलुम् ।
या दतु देवदेवस्य वाहवः पञ्चकीर्तिताः ॥

ईशानं शुद्धकुन्दाभं कुङ्कुमवन्नरम् ।
दक्षिणे जनवद्घोरं वामदेवं सदोत्तरे ॥

दाडिमीकुसुमप्रख्यं सद्यं पश्चिमदिग्गतम् ।
हिमराशिचयाकारं पञ्चवक्त्रं सदाशिवम् ॥

अङ्गुष्ठपर्वमात्रं तं ध्यातव्यं कर्णिकोपरि ।
एवं मन्त्रतनुं कल्प्य ततस्तेजो निवेशयेत् ॥

इति निष्कललिङ्गविषये पूजायामष्टत्रिंशत्कलाभिः कल्प्यं मन्त्रमयं शरीरं श्रीमन्मृगेन्द्रादिसर्वसंहितासाधारण्येनोक्तम् ।
अस्यामेव संहितायां प्रतिमालक्षणप्रकरणे सिंहासनायां विस्तारोच्छ्रायलक्षणे पेतं पञ्चाननं प्रकर्तव्यम् ।
त्रिपञ्चनयनान्वितमित्यादिषु वचनेषु पूर्वाभिमुखत्वप्रतीतिप्रकरणाविरुद्धत्वेन चललिङ्गविषये पूजायां पूर्वाभिमुखत्वस्य न नियामिका संस्कार्य सदाशिवोपरागेण विद्येश्वराद्यापरक्तार्चनवत् सदाशिवभुवनप्राप्तिकाना साधकानां तद्भुवनप्राप्तये पूजार्थप्रतिष्ठार्थं तादृशं लक्षणं विहितम् ।

तदुक्तम् -

विद्याविद्याधिपतयः पशुपूर्वः सदाशिव इति ।
तत्त्वमेषामसूताङ्ग पुरभोगादिशोभनम् ।

सदाशिवमधिष्ठात् नाम्ना तेऽपि सदाशिव इति च संस्कार्य सदाशिवसद्भाव उक्तः ।

चतुर्विंशतिराख्याता मन्त्राणामीश्वराः *** ॥

आणवाः शाम्भवाः शाक्तास्तथान्या मन्त्रकोटयः ।

अण्डस्य धारका ह्येवं वीरभद्रपुरस्सरा इति वचनात् भुवनेश्वरोपरागेण परमेश्वरस्य तच्छक्तेश्च तदुपरागः श्रूयते ।
एवं सदाशिवभुवनप्राप्तिकामानां संस्कार्य सदाशिवोपरागेण परमेश्वरार्चनं युक्तं तस्मात् पञ्चाननं प्रकर्तव्यमित्यादिवचनशरीरे निष्कललिङ्गविषयादेशाभावात् प्रकर्तव्यमिति घटनश्रुतेश्च प्रतिमालक्षणविषयतयैव वक्तुं युक्तं कैश्चित् ।

यस्यां दिशि भवेद्द्वारं तां प्राचीं परिकल्पयेत् ।

इत्यस्यादिभिर्वचनैः पश्चिमद्वारवियतया स्थापितलिङ्गस्य पूर्वाभिमुखत्वमन्यैश्च हृदयस्योपरि तत्पुरुषस्य एव व्यवस्थितिरिति तदुभयमपि

शास्त्रविरुद्धत्वादयुक्तम् ।
यथा

सद्वारसम्मुखसद्योर्ध्वावस्थितं पृष्ठे तत्पुरुषं वक्त्रं दक्षवामौ च पार्श्वयोरिति ।
अनेन वचनेनापि -

दक्षं दक्षांससम्बन्धकन्धरोपरि संस्थितम् ।
वामं वामांससम्बन्धकन्धरोपरि संस्थितम् ॥
इति

एतदपि वचनं पूर्वद्वारविषयमेवेति सिद्धये तूक्तम् ।
शिवकुम्भविषये सर्वदा मण्डपाभिमुखत्वं विमलावत्यामुक्तम् ।
नित्यस्वाषसुर्थके मूर्त्य भूयः कुम्भे पुराननं शम्भुमभ्यर्चयेत् तस्य क्रियाशक्ति तथा वुकामिति वचनेन विरुद्धमिति ।
पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितम् ।
इत्यादिवचनैः परिभ्रमणात् पूर्वं पश्चान्मुखं पश्चात् प्राङ्मुखमिति विशेष्यानभिधानात् सर्वसंहिताविरोधाच्चास्य वचनस्य पूर्वाभिमुखत्वविधानपरत्वमयुक्तमत एव भूयः कुम्भे पुराननमित्यस्य वाक्यस्य यज्ञमण्डपाभिमुखत्वमेव युक्तं परशब्दस्य मण्डपार्थत्वात् पुरं प्रत्याननं पुराननं मण्डपाभिमुख इत्यर्थः ।
मण्डपरक्षणार्थं देवशिवकुम्भे परमेश्वरस्यार्चनं -

मण्डले कर्मणां साक्षि कलशे यज्ञरक्षक ।

होमाधिकरणत्वं वह्नौ शिष्यो पा विमोचक इति वचनात्तत्पूर्वद्वारचललिङ्गमण्डलशिवकुम्भाग्निषु सर्वेष्वप्यधिकरणेषु तत्पुरुषाघोरवामदेवसद्योजातकानां चतुर्णामपि वक्त्राणां श्रीमत्पराख्यादिशास्त्रोक्तक्रमेण शक्रयमकुबेरवरुणे परागात् पीतकृष्णहिमरक्तवर्णानां व्यवस्थितत्वादेतानि चत्वार्यपि तत्तद्दिग्भागने त्यजन्ति ।
ईशानं तु स्थिरलिङ्गविषये द्वाराभिमुखं चले तु पूजकाभिमुखं शिवकुम्भे तु मण्डपाभिमुखं मण्डले दक्षिणाभिमुखमग्नौ कुण्डनाभ्यमुखमेवं सदाशिवस्य मन्त्रस्य याननिमित्तस्य विग्रहस्य चललिङ्गादिविषयेष्वाभिमुख्यप्रकारो तिरुपितः ।
साधकस्य तु साधकस्य दक्षिणार्थं तस्य रूपमिदं स्मृतमित्याकारवांस्वनियमादुपास्यो न वस्तुनाकारमुपेति बुद्धिरिति एष विद्यादेहन्यासः पुष्पाञ्जलिपूर्वं हृदययुक्तमूलमन्त्रेण कर्तव्यः ।
मूलमन्त्रं समुच्चार्येति कथमुच्चारप्रकार इत्यपेक्षायां शिवान्तं मन्त्रमुच्चरन्निति उन्मनान्ते परश्शिव इति

वचनादावहने यदुक्तं ब्रह्मशम्भुपादैः

सर्वोपाधिविनिर्मुक्तमस्मिन् परमकारणम् ।
सर्वज्ञादिगुणैर्युक्तमनादिं परमेश्वरम् ॥

सत्कुर्यात् संविधाभिस्तु निष्कलं सकलात्मनि ।
आवाहनादिभिर्भक्त्या प्रासादात्मानमुच्चरन् ॥

पुष्पैरञ्जलिमापूर्य हृदयाग्रेसरं शिवम् ।
तावदुच्चारयेद्यावत् प्राप्तिं निष्कलगोचरम् ॥

तद्भावभावनाविष्टं प्रस्फुरद्रश्मिमण्डले ।
बिन्दावभ्युद्यतं ध्यायेदावाहनविधिं प्रति ॥

तस्मादादाय विस्रब्धः स्थिरधीपुरतः स्थिते ।
देहे लक्ष्मीकृते न्यसेत् स्थापनं हृदयेन तु ।

इति ॥

यदुक्तं विमलावत्यां -

ततो मन्त्रैः सकलीकृत्य हृदयादिस्थानस्थितब्रह्मादिकारणपञ्चकत्यागेन लयान्तमुच्चरन् या गच्छत् पतङ्गबिम्बोपमं हृदयमुच्चरन्तावाहनस्थापनसन्निधाननिरोधनानि स्वस्वमुद्रया मूलमन्त्रेण विधाय फडन्तास्त्रमुच्चरन् कालकर्णिमुद्रया विघ्नानुत्सार्य लिङ्गमुद्रां नमस्कार-

मुद्रां च प्रदर्श्य स्वागतं चोक्त्वा निरोधार्घ्यपात्रं वामहस्तेन सयन्त्रिकमुत्क्षिप्य दक्षिणहस्तेन मूलमन्त्रेण स्वाहान्तेन विद्यान्तव्याप्तिकेन ईशानादिपञ्चसमृद्धसन्मुखार्घ्यं दद्यात् ।

आवाहनं न सान्निध्यै पूजानुज्ञप्तयेऽन्वहम् ।
इति ।

नन्वत्र अप्राप्तसन्निधानस्य वस्त्वन्तरं स्वव्यापकत्वेन सर्वज्ञत्वेन च स्थितस्य परमेश्वरस्यावाहनं न युक्तं न व्यापकत्वेन स मृ तस्येश्वरस्य प्रतिष्ठाशास्त्रतः प्रोत्सारितमाधेयस्वरूपायां केवलज्ञानशक्तिस्वरूपायां लिङ्गमूर्तौ अनुग्राह्यम् प्रति विशिष्टसान्निध्यार्थमनुज्ञापनमावाहन नु स्वयम्भुबाणलिङ्गयोः कृतनित्यसन्निधानस्य परमेश्वरस्य इति पूजेति पूजाया विच्छेदात् आवाहनविसर्गान्तं प्रत्यहं कर्म कर्मिणामिति वचनात् प्रतिदिवसं पूजायाः कार्यत्वेन विधानात् तदारम्भप्रकार एषः ।
ननु प्रतिदिवसविशेषेण ह अकारौ ऊकारमकारबिन्द्वर्धचन्द्रनिरोधिनादनादान्तशक्तिव्यापिनी समनोन्मनान्तं मूलमन्त्रमुच्चार्य द्वादशान्तात् पुष्पञ्जलिगतत्वेन ध्यात्वा स्थापनं

न युक्तम् ।
नैव मन्त्रोच्चारवशात् पूजायाश्चोदितत्वान्मन्त्रोच्चारस्य मूलादारभ्य द्वादशान्तपर्यन्तत्वेनानुसन्धेयत्वात् तदन्तरावर्तिनः शरीरांरभावकस्य कालाग्निभुवनादारभ्यानाश्रितभुवनपर्यन्तस्य शक्तिमार्गमित्यभिध्येयतया शास्त्रे श्रुतत्वात्तदन्तरालवर्त्यध्वनां प्रतिपत्तिहेतुत्वेन स्थितस्य परमेश्वरस्य तत्प्रवर्तत्वस्य मुमुक्षुत्वेन विरक्तस्यास्य शुद्धात्मन अनपेक्षत्वादध्यतीतम् ।
परमेश्वरसाम्राज्यस्यापि तस्यानुसन्धानमवश्यं करणीयमेव एवमनुसंहितेऽपि तस्मिञ्छास्त्रोक्तस्वप्राकाराया पूजाया बुद्धया स्थैर्यात् कर्तुमशक्यत्वात् कृपानिधेः परमेश्वरस्य तस्यैव वचनात् सृष्टिक्रमविशिष्टमन्त्रोच्चारवशात् पूर्वमेव स्थापिते लिङ्गे आवाहनस्थापने तदैवैतदिति बुद्धिस्थैर्यं क्रियत एव एतत्सर्वमुरीक्ष्य पद्धतावस्मद्गुरुभिरुक्तम् ।

आवाहनं न सान्निध्ये पूजानुज्ञप्तयेऽन्वहम् ।
इत्याचार्यैरप्युक्तम् ।

सर्वज्ञं सर्वकर्तारं बोधानन्दमयं विभुम् ।
निष्कलं स्वप्रकाशं च विचिन्त्य परमं शिवम् ॥

ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदम् ।
ततो ललाटमध्यस्थं स्फुरत्तारापतिप्रभम् ॥

षडङ्गेन समाकीर्णं बिन्दुरूपं परं शिवम् ।
पुष्पाञ्जलिगतं ध्यात्वा लक्षमूर्तौ निवेशयेत् ॥

आवाहिन्या हृदावाह्य स्थापिन्या स्थाप्य शङ्करम् ।
सन्निधान्यान्तिकं कृत्वा निष्ठुरया निरोधयेत् ॥

कालकण्ठ्या फडन्तेन विघ्नानुच्चाट्यरिष्टिना ।
लिङ्गमुद्रां नमस्कारं हृदा बध्वावकुण्ठयेत् ॥

सादरं सम्मुखीभाव आवाहनमिहोच्यते ।
नित्यानिवेशनं तत्र स्थापनं कथितं बुधैः ॥

जगन्नाथं तवास्मीति यत् सिकारोपदर्शनम् ।
विभुत्वेऽपि तदीशस्य सन्निधानं न बाध्यते ॥

आकर्मकाण्डपर्यन्तं सन्निधेयो परीक्षयः ।
सशम्भोर्व्यापकत्वेऽपि निरोधः परिगीयते ॥

शिवस्यानन्दबीजस्य बोधानन्दमयस्य च ।
अभक्तेष्वप्रकाशो यस्तद्भवेदवकुण्ठनमिति ॥

ततोऽङ्गानि स्वेषु स्थानेषु योजयेदिति ।
हृदयशिरश्शिखाकवचास्त्राणि रक्षाङ्गानि

हृदयशिरश्शिखास्वस्थानेषु स्तनमध्ये कवचं हस्तेषु अस्त्रं च विन्यस्य दिग्बन्धमन्त्रेण कवचेनावकुण्ठनं कुर्यात् ।
ननु सन्निरोधानन्तरमवकुण्ठनमुक्तं श्रीमत्सोमशम्भुपद्धतौ ।
यथा -

आवाहिन्या हृदावाह्य स्थापिन्या स्थाप्य शङ्करम् ।
सन्निधान्यान्तिकं कृत्वा निष्ठुरया निरोधयेत् ॥

कालकण्ठ्या फडन्तेन विघ्नानुच्चाट्य रिष्टिना ।
लिङ्गमुद्रां नमस्कारं हृदा बध्वावकुण्ठयेत् ॥
इति ।


अनन्तरम् ।
सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकताम् ।

अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतिम् ।
इति हृदयादिमन्त्रन्यासोऽवकुण्ठनात् पश्चादुक्त इति अत्रोच्यते ।
यदुक्तं श्रीमन्मृगेन्द्रे -

मण्डलत्रितयप्रान्तं दत्वा हृद्यासनं प्रभो ।
मूर्तावाहनं कुर्यान्मन्त्रं तत्सृष्टिवर्त्मना ॥

इत्यावाहनमुक्तम् ।
ततः नवान्तेजसोऽङ्गानि विधायावाहनमुद्रया ।

स्थापिन्या स्थापनं कुर्यात् शान्तविग्रहसंश्रये ॥

प्रणम्य सन्निधीकृत्य निरुद्धयाद्रोधमुद्रया ।

अस्य वृत्तिः ।

भगवतः प्रथमोदित सा वपुषि हृदयाद्यङ्गानि यथास्थानं कल्पयेत् ।
आवाहनाङ्गन्यासौ कया कार्यावित्याह ।

आवाहिन्या तथावाह्य नमस्कारेण वन्दनम् ।
स्थापनं शशिकण्ठ्या च निरोधे निष्ठुराहिताः ॥

तद्रूपोपरिविघ्नानां कालकण्ठाप्रपादनम् ।
मूर्तिमतोरैक्यं सञ्चिन्त्य रविरश्मिवत् ॥

लिङ्गाख्यं सन्निधानेन हृदादीनि ततो न्यसेत् ।

अस्त्रं कराभ्यां विन्यस्य कर्तव्यं वागतम् विभोरिति श्रीमन्मतङ्गपारमेश्वरे ।

आवाहयेदजातेन गुह्यकेन निवेशयेत् ।
पूर्वस्थितद्विरभ्यासपदेनैव निरोधयेत् ॥

सान्निध्यं पुरुषेणैव ततोऽङ्गानि प्रकल्पयेत् ।
हृदि विन्यस्य हृदयं शिरः शिरसि विन्यसेत् ॥

शिखायां तु शिखां न्यस्य सर्वाङ्गेकवचं न्यसेत् ।
शिवास्त्रं वस्त्रयोर्न्यस्य वक्त्रेणार्घ्यादिकं प्रभोः ॥

इति श्रीमत्किरणेऽपि ।

ब्रह्माक्षरेण मूर्तिं तु पिण्डं चानुकलामयम् ।

सद्येनावाहयेद्देवं स्थापयेद्गुह्यकेन तु ।
सान्निध्यं स्यादघोरेण वक्त्रेणार्घ्यादिकं भवेत् ॥

ईशानेनार्चयेद्देवं ततोऽङ्गानि यथाक्रममिति यदुक्तम् ।
सूक्ष्मस्वायम्भुवे ।

आवाहिन्याञ्जलौ कृत्वा अघोरेण निरोधयेत् ।
निष्ठुरां च सकृद्बध्वा देयान्यङ्गानि वै विभोः ॥

नेत्रं स्याद्दृक्प्रदेशे तु गायत्रीं वापि विन्यसेत् ।
सावित्रीं चेत्ययं प्रोक्त सर्वात्मकर्मणि ॥

दिग्बन्धेऽस्त्रेण दिव्येन कवचेनावकुण्ठनमिति ।

श्रीमद्ब्रह्मशम्भुपद्धत्यां -

शिवमावाहयेद्बिन्दौ प्रसूनापूरिताञ्जलिः ।
पतत्पतङ्गबिम्बाभं बिम्बे सङ्क्रान्तवर्चसम् ॥

प्रसूनव्यपदेशेन तस्यां संस्थापयेत्ततः ।
अङ्गुष्ठाक्रान्तसम्पुष्पं पूर्णा किञ्चिताङ्गुलिम् ॥

संस्थापनाञ्जलिं मुद्रा भावनीया विपश्चिता ।
उच्छ्रिताङ्गुष्ठके मुष्टि पुष्पगर्भे सुसंहते ।
लिङ्गमुद्रा तया शम्भोः सन्निधानं हृदा भवेत् ॥

निष्ठुराङ्गुष्ठगर्भिण्यौ मुष्टिसर्व प्रकल्पते ।
सन्निरोधं तथा कुर्याद्विभोरप्याविसर्जनात् ॥

इत्येतान् गुणतः पूर्वमावाहनस्थितिसन्निधीन् ।
संस्काराश्चतुः कृत्वा सन्निरोधं विपश्चिमात् ॥

हृदयादिभिरस्त्रान्तैरङ्गैः शिवविशेषणैः ।
अवकुण्ठ्य निरासाय विघ्नानां मघवद्द्विषामिति ।

विमलावत्यां च -

कालणपुष्पं क्षित्वा लिङ्गमुद्रानमस्कारान्तं च कृत्वा हृदादिभिः सकलीकृत्येति ।
यदुक्तौ सार्धद्विशतिवृद्धौ गुरुभिः स्थापनं पाद्यं चार्घ्यमाचमनीयं च मन्त्रवित् ।
स्नपनं पूजनयेनैव कारयेत् इति सूत्रम् अस्य वृत्तिः ।
एषां चोपलक्षणत्वादावाहनं सन्निधानं सन्निरोधमवकुण्ठनममृतीकरणं पाद्याचमनार्घ्यदूर्वापुष्पाक्षतादिदानमिति एवं मूलशास्त्रवचने वृत्तिभिश्चावाहनस्थापनसन्निधानसन्निरोधार्घ्यचतुःसंस्काराद नन्तरं हृदयशिरश्शिखाकवचास्त्रमन्त्रा स्वेषु स्वेषु न्यस्य इत्युक्तम् ।

ब्रह्मशम्भुपादैस्तु हृदयादिन्यासादनन्तरमवकुण्ठनं चोक्तम् ।

सोमशम्भुपद्धत्यां तु अवकुण्ठनानन्तरं सकली-

सकलीकरणोक्तिः प्रतीयते सर्वशास्त्रसिद्धारामवाहनादिचतुः संस्काराणां क्वचित् क्वचित् संहिताभेदेषु मन्त्रभेदश्रुतिवत् सकलीकरणात्पूर्वमवकुण्ठनमपि पाक्षिकं भवेत् ।
ननु शिवविषये अवकुण्ठनात्पूर्वदिग्बन्धनस्य श्रुतेरभावात् दिग्बन्धनस्य दिग्बन्धनं कथं क्रियते ।

उच्यते सोमशम्भुपद्धत्यां -

सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकताम् ।
अभिनासार्धं विदध्यादमृतीकृतिम् ॥

इति सकलीकरणमादिष्टम् ।
सकलीकरणं तु आत्मविषये भूतशुद्ध्यनन्तरमेवोपदिष्टं - दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतिम् ।

हृदयादिकरान्तेषु कनिष्ठाद्यङ्गुलीषु च ॥

हृदयादिमन्त्रविन्यासः सकलीकरणं मतम् ।
क्षिपेत् सर्वासु काष्ठासु तालत्रयपुरस्सरम् ॥

चोटिकाभिः शिवस्यास्त्रं रक्षार्थं विघ्नपारकम् ।
शक्तिजालमधश्चोर्ध्वं ततश्च प्रपिता नयेत् ॥

दर्शयित्वा महामुद्रामापादतलमस्तकमिति ।

दिग्बन्धयुक्तमेव सकलीकरणमुक्तम् ।
पूजया

सकलीकरणमादिशता दिग्बन्धनमपि स्वकण्ठोक्तमेवं यदुक्तं सार्धत्रिशतिकालोत्तरे अन्तःकरणन्यासपटले ।

यथार्चने तथा होमे ध्याने स्थाने तथैव च ।
यथा देहे तथा देवे मन्त्रन्यासं प्रकल्पयेत् ॥
इति

श्रीमत्सर्वज्ञानोत्तरे ।

शिववन्मन्त्रविन्यासमात्मनस्तु सदा कुर्वीत ।

अस्य वृत्तिः सदेति अन्यत्रापि सन्ध्यादिषु कर्मस्वित्यर्थः ।

श्रीकण्ठशिवपद्धतौ -

द्वादशान्तपदं नीत्वा विद्युन्निकरभास्वरम् ।
पुष्पाञ्जलिगतं ध्यात्वा मूर्त्याचावाहयेच्छिवम् ॥

आवाहनं स्थापनं च सन्निधानं निरोधनम् ।
विधाय तत्तन्मुद्राभिरवकुण्ठनरक्षणे ।

कृत्वा कवचखड्गाभ्याममृतीकृतमाचरेत् ।

इति स्मदाराध्यमसमाम्ना तत्कनिष्ठेन गुरुणापि नित्यपद्धतावुक्तम् ।

पुष्पैरञ्जलिमापूर्य ब्रह्मादिकारणत्यागक्रमेण प्लुतान्तं मूलमन्त्रमुच्चार्य सृष्टिक्रमेण द्वादशान्तात् ब्रह्मरन्ध्रमार्गेण भ्रूमध्यागतं शरच्चन्द्रनिभं ध्यात्वा ततो दक्षिणनासया ।
विनिर्गत्य पुष्पाञ्जलिगतनिष्कलं स्वयं प्रकाशं च शिवमावाहिन्या मूर्तावावाह्य स्थापिन्या संस्थाप्य निष्ठुरया निरोध्य हृदयादिस्थानेषु स्वशरीररूपहृदयाद्यङ्गानि विन्यस्यास्त्रेण संरक्ष्य कवचेनावकुण्ठ्येति किं च संरक्ष्य भेति मन्त्रेण कवचेनावकुण्ठयेदिति मूलस्याष्टशतं जप्त्वा न द्रुतौ विलम्बितं हृदाभिमन्त्रितं वर्म चेष्टितं खड्गरक्षिकम् ।
पूते वशादिके पात्रे विन्यस्यास्त्रं सकङ्कटम् ॥

हृदयं च ततस्तत्र पवित्राण्याधिपे ययेत् ।
हृदयं कवचं शस्त्रं तेषामुपरि योजयेदिति ॥

प्रहृष्टमनसस्सर्वे व्रजेयुः स्नानमण्डपम् ।
पद्मपीठे सपद्माङ्के पार्श्वे द्व्यां प्रणवासने ॥

निधाय तत्र देवेशं ताडयित्वावकुण्ठयेदिति ।
लिङ्गमूलं च संस्पृश्य जपेयुर्होमसङ्ख्यया ॥

सन्निधानं हृदा कुर्याद्वर्मणा कुण्ठरोधनमिति ।
इत्यादिभिर्वचनैरवकुण्ठनस्य नान्तरीयकतया प्रतीतेर्यात्रावकुण्ठनं विधीयते ।
तत्र दिग्बन्धनमप्यवश्यं

कर्तव्यं किं बहुना गुरुभिरप्याचरितम् ।
तस्मादागमानं बहूनां बहुत्वेऽपि कर्तव्यस्स्वगुरुभिः इति वचनात् गुरूपसदनात् प्रभृति सर्वत्र गुरुवाक्यादेव प्रवर्तितमित्याचार्यवचनाच्चावाहनादि चतुःसंस्कारान्तं हृदयादिन्यासं कृत्वास्त्रकवचाभ्यां दिग्बन्धनावकुण्ठने कार्ये ।
ततो वौषडन्तेन मूलमन्त्रेण कराङ्गुलीदशकाभिमुखीकृतेन दशनाडिविवरेण निष्ट्यूतपरमामृतरूपां धेनुमुद्रां ततो महामुद्रां च प्रदर्शयेत् ।
ततो विशेषार्घ्यजलेन पादयोः पाद्यं मुखेष्वाचमनीयकं शिरस्स्वर्घ्यं च नमः स्वधा स्वाहान्तेन मूलेन दद्यात् ।
ततो दूर्वापुष्पाक्षतानि पञ्चसु शिरस्सु वौषडन्तेन मूलेन दत्वा इत्थमावाहनस्थापनसन्निधानसन्निरोधसकलीकरणामृतीकरण- पाद्याचमनार्घ्यवौषडन्तपुष्पदानाख्यैर्दशभिः संस्कारैः संस्कृत्य पश्चाद्वक्ष्यमाणप्रकारेण पूजयेत् ।
पञ्चगव्यपञ्चामृतादिभिः स्नपनं कृत्वान्ते गन्धतोयेनाभिषिच्य विशुद्धेन वाससा विमृज्य पाद्याचमनीयार्घ्यं च दत्वा कर्पूरचन्दनादीन् दद्यात् ।
स्थिरलिङ्गविषये समग्रासनपूजापूर्वं

स्नपनं कुर्यात् ।
मूलयुक्तैरात्मतत्त्वशिवतत्त्वैः पुष्पाञ्जलिभिः सम्पूज्य धूपदीपौ च दत्वाचमनीयमर्घ्यं च दत्वा पश्चाद्भोगाङ्गस्य पूजां कुर्यात् ।
तत्र पीठस्य ईशानदले ईशानादीशानं प्राचि तत्पुरुषात् तत्पुरुषं दक्षिणदले अघोरादघोरं सौम्यदले वामदेवाद्वामदेवं पश्चिमदले सद्योजातात् सद्योजातं पुनरीशानदले नेत्रेभ्यो नेत्रमाग्नेयदले हृदयाद्धृदयं पुनरीशानदलाग्रे शिरोभ्यः शिरः नै-ऋतदले शिखायां शिखा वायव्यदले सर्वाङ्गगतः कवचं कवचं करेभ्य अस्त्रं चतुर्दिक्षु दलाग्रे आवाह्य पूजयेत् ।
एतेषां ब्रह्माङ्गानां ध्यानं गुरुभिरुक्तं यथा

ईशानमानमतपङ्कजकरिणिकेश- भोगोपविष्टममलेन्दुजटाङ्कमौलिम् ।
शूलाभयान्वितकरद्वयमेकवक्त्रं सौम्याननं स्फटिकशुद्धतनुं त्रिणेत्रम् ॥

सव्येऽक्षसूत्रमपरत्र च मातुलङ्गं हस्ते दधानमखिलाभरणं त्रिणेत्रम् ।

पीताजटेन्दुमकुटं तपनायुताभं पीतानुलेपवसनं पुरुषं प्रपद्ये ॥

वाम्यैः खट्वाङ्गमुण्डे दधतमथ करैः खेटपाशौ च भीमं शूलं टङ्कं च खड्गं डमरुकमपरैर्दंष्ट्रं याम्यपात्रे ।
पिङ्गभ्रूश्मश्रुनेत्रं कपिलतरजटं वृश्चिकारब्धकर्णं वन्देऽघोरं सुकृष्णशशिशकलधरं भोगिभिर्भूषिताङ्गम् ॥

रक्तानुलेपकुसुमाम्बरनेत्रयुक्तं कान्ताखिलाङ्गमखिलाभरणैरुपेतम् ।
एकाननं शशिधरं *** त्रिणेत्रं वन्दे वराभयकरं नवयौवनाढ्यम् ॥

पद्मेशानदलाग्रस्य नेत्रत्रयमहं भजे ।
दृक्क्रियेच्छात्मकं तत्त्वं मम मेघनम्रतयालयम् ॥

ज्ञानशक्त्यात्मकं शम्भोर्हृदये वह्निपत्रकम् ।
सर्वात्मानं सितं यद्वा दीप्तं त्रिणयनं भजे ॥

ईशपत्रगतं गौरं धूम्रं वा सुशिवं शिव ।
रहस्सर्वेशितात्मकमैश्वर्यं शिवस्योज्ज्वलभूषणज्वालिनीं च ।

शिखां रक्तां कृष्णां वा नै-ऋते दले ।
शिवतामपराधीनां वक्ष्यमाणाकृतिं विभोः ।

पिङ्गलं कवचं कृष्णं हरितं वानिलाश्रयम् ।
विश्वरक्षाकरं वन्दे तेजो विश्वाधिकं विभोः ॥

शिखाग्रं प्रलयार्काभं चतुर्दिक्षु कृतार्चनम् ।
वन्दे प्रतापमीशस्य दंष्ट्रिणं भीमनिःस्वनम् ॥

अङ्गानि चोद्धृतवराभयशक्तिशूलान्यब्जासनान्यभिमुखानि शिवस्य वन्दे ।
आस्यैश्चतुर्भिरथवा सवराभयानि चैकाननानि सजटेन्दुविभूषणानि ॥

अङ्गानां मध्ये नेत्रस्य ध्यानं पादादारभ्य हृदयान्तं रक्तं तदुपरि नासान्तं नीलं तदुपरि मस्तकान्तं श्वेतं वराभयानि चैकाननानि सजटेन्दुविभूषणानि ।
अङ्गानां मध्ये नेत्रस्य शक्तिशूलानि बिभ्राणं च मण्डलत्रितयाश्रमित्युक्त गृत्वा ध्येयम् ।
एवं ध्यानपूर्वं ब्रह्माङ्गानि सम्पूज्य स्वैः स्वैर्मन्त्रैः स्वाहान्तमर्घ्यं दत्वा येन पद्मत्रिशूलमकरी

स्रुचोमुद्रा ब्राह्मणं दत्वा अङ्गानां च नमस्कारमुद्रां दत्वा -

प्रकृतेः परमीभावसम्पत्त्यर्थमनन्तरम् ।
परमान्तिकमुच्चार्य प्रासादं पूर्ववन्न्यसेत् ॥

प्ररोच्य च यथान्यायमुद्राया प्रागुपात्तया ।

इति ब्रह्मशम्भुवचनात् ।

पवित्रेण विना पूजा राजसी परिकीर्तिताः ।
तामसी च भवेत् पूजा परमीकरणं विना ॥

इति मोहशूरोत्तरे ॥

रक्तवचनाच्च परमीकरणं कर्तव्यम् ।
परमीकरणानां प्रकारः -

पुष्पाञ्जलिहस्तपूर्वं मूलमन्त्रं द्वादशान्तपर्यन्तमुच्चार्य भोगाङ्गार्थाहृतशक्तिपूरणार्थं सम्पूज्यार्घ्यं दत्वा महामुद्रां प्रदर्शयेत् ।
ततो द्वितीयावरणेऽनन्तादीनष्टौ तृतीयावरणे नन्द्यादीनष्टौ चतुर्थावरणे इन्द्रादिलोकपालान् दश पञ्चमावरणे वज्राद्यायुधानि दश च ध्यानपूर्वं सम्पूज्य सामान्यार्घ्येणार्घ्यं दत्वा नमस्कारमुद्रां प्रदर्शयेत् ।
अत्र लोकपालाद्वारेण शतरुद्रा एव पूज्याः ।
वज्राद्यस्त्रद्वारेण

पाशुपतास्त्रं पूज्य एवमुक्ता सार्धत्रिशतिकालोत्तरवृत्तौ तत्र भवता रामकण्ठेन ।

एतेषां ध्यानं -

द्वितीयावरणे प्राच्यामनन्तं हेमसन्निभम् ।
सूक्ष्मं च वह्निभागस्थं वन्दे वह्निसमत्विषम् ॥

तमालसन्निभं वन्दे याम्यभागे शिवोत्तमम् ।
नै-ऋते षट्पदाभासमेकनेत्रमवस्थितम् ॥

कुन्देन्दुधवलाकारमेकरुद्रं च वारुणे ।
त्रिमूर्तिं मारुते भागे नीहारनिभमाश्रये ॥

श्रीकण्ठं सोमदिग्भागे रक्तवर्णमवस्थितम् ।
प्रपद्ये पाण्डराकारमैशानेऽपि शिखण्डिनम् ॥

खड्गं बाणमथाक्षसूत्रमभयं पद्मं च सव्यैः करैः वामैः खेटधनुःकमण्डलुपरान् शूलान्वितान् बिभृमः ।
पद्मस्थांश्चतुराननान् प्रतिमुखं नेत्रत्रयेणान्वितान् विद्येशान् रुचिराननान् धृतजटाजूटेन्दुखण्डान् भजे ॥

तृतीयावरणे प्राच्यां चतुर्हस्तं विमानकम् ।
सवराभयशूलाक्षसूत्रं रक्तं च वन्दिनम् ॥

कपालखड्गान्वितवामहस्तं खेटत्रिशूलान्वितसव्यपाणिम् ।

पीनाङ्गमापिङ्गजटं सुभीमं वन्दे महाकालमथाग्निभागे ॥

स्रध्वस्थित्वजनिबाङ्ग याम्यभागे सितच्छविम् ।
विमानवर्तिनं त्र्यक्षं मृगिसञ्ज्ञं गणं भजे ॥

गणेशं वामनाकारं प्रोक्तरूपायुधं भजे ।
राक्षसाशास्थितं त्र्यक्षं शूर्पकर्णं गजाननम् ॥

प्रत्यगाशाश्रयं वन्दे वृषं च वृषभाकृतिम् ।
साक्षाद्धर्मं सितं त्र्यक्षं परमेशस्य वाहनम् ॥

पीतं शक्तिसकण्ठाध्वजमथकमलं कुक्कुटं प्रासदण्डौ बिभ्राणं वायुभागे वरमभयधनुर्बाणटङ्काश्च हस्तैः ।
षड्वक्त्रं द्वादशाक्षं शिखिनिशरभवं पाणिभिर्वा चतुर्भिः वक्त्रैक्ये शक्तिभीभ्यां भरजतवरयुतं कुक्कुटं चादधानम् ॥

सिंहारूढमहं वन्दे भूषिता दर्पणे द्व्यहम् ।
सौम्याभागे स्थितां देवीं द्विभुजां गौरविग्रहाम् ॥

चण्डेश्वरविमानस्थं वक्ष्यमाणाकृतिं नमः ।
ईश्वराशाशतं कृष्णं गणेशावरणे स्थितम् ॥

हेमवर्णं सहस्राक्षं वज्रहस्थं गजाश्रयम् ।
पूर्वाशानुगतं वन्दे चतुर्थावरणे स्थितम् ॥

मेषारूढं प्रदीप्तार्चिर्भास्वरं हव्यवाहनम् ।
दण्डिनं भीषणं वन्दे दंष्ट्रिणं चारुलोचनम् ॥

प्रेतारूढं करालाख्यं खड्गपाणिं निशाचरम् ।
निर्-ऋत्तिं च निजाशास्थं धूम्रमुग्रदृशं भजे ॥

पश्चिमाशापतिं पाशधरं मकरवाहनम् ।
नमामि पादसान्नाथ वरुणं श्वेतवर्णकम् ॥

पीनाङ्गं हरिणासीनं वायुमङ्कुशधारिणम् ।
सदागतिं निजाशायां श्यामाङ्गं कुञ्चितभ्रुवम् ॥

कुबेरं च गदाहस्तं गौराङ्गं निधिसंस्थितम् ।
ह्रस्वपादकरी स्त्रीभिर्वृत्तमुत्तरदिक्पतिम् ॥

श्वेतं वृषस्थमीशानं त्र्यक्षं व्याघ्राजिनाम्बरम् ।
शूलिनं जटिलं चन्द्रधरमीडे स्वदिक्स्थितम् ॥

तत्रैवोर्ध्वदिशानाथं प्रोक्ताकारं चतुर्मुखम् ।
कमण्डल्वक्षमालाङ्ककुशदण्डधरं भजे ॥

शङ्खचक्रगदापद्महस्तं गरुडवाहनम् ।
श्याममेकाननं विष्णु वरमालाविभूषणम् ॥

अधोदिगधिपं कान्तं पीतवस्त्रं श्रियान्वितम् ।
चतुर्वक्त्रं त्रिवक्त्रं वा भोगशय्यागतं भजे ॥

वज्रं तु पुरुषं स्थूलं दृढकर्कशविग्रहम् ।
बलिनं वक्त्रमूर्धानं दीप्तं प्राक्पञ्चमावृतौ ॥

शक्तिं च योषिताकारामाग्नेय्यां दिशि लोहितम् ।
बिभ्राणं शिरसा शक्तिं त्रिकोणस्थामुपाश्रये ॥

दण्डं च दक्षिणेभागे कृष्णं पुरुषविग्रहम् ।
दण्डाकारशिरोयुक्तं वन्देलोहितलोचनम् ॥

नै-ऋतं पुरुषाकारखड्गश्यामप्रभान्वितम् ।
खड्गालङ्कृतमूर्धानं क्रुद्धं क्रूरदृशं नमः ॥

नाभ्यधो भुजगाकारं तदूर्ध्वं पुरुषाकृतिम् ।
पाशं स्तब्धफणोपेतमूर्धानं पश्चिमे भजे ॥

पीताभं पुरुषाकारमावृतास्यं महाभुजम् ।
प्रपद्ये वायुदिग्भागे ध्वजमूर्ध्वध्वजान्वितम् ॥

कन्यारूपां गतां पीतामापीनजघनस्थलाम् ।
गदाकारशिरोयुक्तामुत्तरस्यां नतोऽस्म्यहम् ॥

त्रिशूलं पुरुषाकारं दिव्यं श्यामकलेबरम् ।
त्रिशूलशिरसं शश्वन्नमामीशानदिग्गतम् ॥

शङ्खाभं पद्मकोशाङ्कमूर्धानं पुरुषाकृतिम् ।
स्तौमि दिव्यं विरिञ्चेस्तु शुक्लाङ्गः शुभलोचनम् ॥

चक्रं शतारचक्राङ्कमूर्धानं पुरुषाकृतिम् ।
श्यामदेहं मुकुन्दास्त्रं सेवे निर्-ऋतिकोणगम् ॥

एवं ध्यात्वा सम्पूजयेत् ।
ततः परमेश्वराय धूपदीपौ दत्वाचमनीयार्घ्यं दत्वा पुनराचमनीयं च दत्वा नैवेद्यपानीयताम्बूलमुखवासादिभिः शिवमिति नैवेद्यादि सर्वोपचारा ईशानवक्त्र एव कार्या यदुक्तं श्रीमत्सर्वज्ञानोत्तरे -

भक्ष्यभोज्यान्नपानादिलेह्यं शोष्यमनेकशः ।
ऊर्ध्ववक्त्रं तु दातव्यं यत्किञ्चिद्विधिचोदितम् ॥

पुनरावरणे दद्यान्नैवेद्यं मन्त्रसंस्कृतम् ।
इति ।

बृहत्कालोत्तरे -

ईशाने मुक्तयोगितं तत्पुरुषे त्वणिमादिकम् ।
प्रायश्चित्तादिकं घोरे तथैव क्रूरकर्म च ॥

वश्याकर्षणहेतोश्च वामदेवे च होमयेदिति ।

श्रीमच्चतुश्शतिकायामपि -

ऊर्ध्ववक्त्रे महासेन तस्मिन् पूर्णाहुतिः स्मृता ।
सपादपाणिपृष्ठे तु आहुतिं सम्प्रदापयेदिति ॥

श्रीमद्द्वादशतिकालोत्तरे -

भक्ष्यं भोज्यं च पेयं च लेह्यं शोष्यं च पञ्चधा ।
ऊर्ध्ववक्त्रे प्रदातव्यं हृदयेन षडानन ॥

इत्यादिभिर्वचनैरीशान एव नैवेद्यादिभिरुपचारो देयः ननु

रेण वर्मणा वापि पूर्वतो दन्तधावनम् ।
पूर्वस्यां चरुकं साज्यं सान्नं गन्धादिकं नरे ॥

प्राच्यां तत्पुरुषेण दन्तकाष्ठमित्यादिभिर्वचनैस्तत्पुरुषादि नैवेद्यादि देयम् ।
तन्न ।
व्रताङ्गनिवेदनार्थत्वात् एतेषां वचनानाम् आग्नेय्यां दिशि रोचनागरु नै-ऋत्याशायां वायव्यां च चतुःसममित्यादिवत् पूर्वस्यां चरुकं साज्यमित्येतदपि व्रताङ्गानि वेदनामात्रम् ।
नैतन्नैवेद्यमानस्य नियामकं भवति ।
नैवेद्यदानसमये चेति विशेषानभिधानात् मुख्यतामूर्ध्ववक्त्रस्य मुख्यताप्रतिपादनाच्च ।
तदग्रकथितं सर्वे स्रोतसि ज्यायसि प्रभोः ।
दक्षेणोर्ध्ववक्त्रेण ततस्तदवधारयेत् ।
इत्यादीनां तत्पुरुषादीनां स्रोतो प्रवृत्तिहेतुत्वादूर्ध्वं वक्त्रस्याव्यवधानेनैव सिद्धान्तस्रोतसः प्रवृत्तिहेतुत्वाच्च सिद्धान्तशास्त्रोक्तानुष्ठायिनामीशानवक्त्र एव नैवेद्याद्युपचारो देयः ।
पुनराचमनीयार्घ्यौ दत्वा दूर्वाक्षतयुक्तेन पुष्पाञ्जलिना सर्वतत्त्वं मूलं लयान्तमुच्चरन् नित्य-

पवित्रं दद्यात् ।
पुनर्मूलेनार्घ्यं दत्वा कर्तव्यं कर्तृ चोत्तरमिति वचनात् आवाहनानन्तरप्राप्तपाद्याचमनव्यतिरिक्ताचमनीयार्घ्यौ ईशाने सकृदेव देयौ ।
अङ्गुष्ठदेशिकाभ्यां तु मर्थयामां व्यवस्थितम् ।
मन्त्रमुच्चारयन्नक्षमेकैकं कर्षयेच्छनैः ॥

न विलम्बितमस्पष्टं न चासीकृतमद्रुतम् ।
नासङ्ख्यं नमरो भ्रान्तं जपं कुर्याद्विचक्षणः ॥

इति वचनात् वामहस्तधृतपुष्पाञ्जलिभिव्यक्तिस्थानमिति सङ्कल्प्यास्त्रेण सम्प्रोक्ष्य हृदयेन समालिङ्ग्य कवचेनावकुण्ठितं रक्षितं कृत्वा गुह्यातिगुह्येति श्लोकं पठित्वा विशेषस्य शिवस्योद्भवमुद्रया स्वाहान्तशिवमन्त्रौ परमेश्वरस्य हस्तेर्दक्षिणहस्तेन संस्कृतां रुद्राक्षमालां सङ्गृह्य मूलमन्त्रमष्टोत्तरशतमुक्तप्रकारेण जपित्वा ब्रह्माण्यङ्गानि दशांशतो जपित्वा वामहस्तधृतपुष्पजपाभिव्यक्तिस्थानमिति सङ्कल्प्यास्त्रेण सम्प्रोक्ष्य हृदयेन समालिङ्ग्य कवचेनावकुण्ठितं रक्षितं कृत्वा गुह्यातिगुह्येति श्लोकं पठित्वा पूर्ववन्निवेदयेत् ।
गुह्यातिगुह्येत्यस्य श्लोकस्यार्थः ।

गुह्यातिगुह्यौ तदादिमन्त्रणपदं गुह्यं चातिगुह्यम् गुह्यातिगुह्ये तत्र शब्देन रहस्यपर्याये पञ्चविंशोऽयं पुरुषो इत्यादिश्रुतसिद्धानि पुरुषाकृतानि वस्त्राण्युच्यते ।
एतान्यतीत्य स्थितानि सिद्धान्तसिद्धानि अतिगुह्यानि ।
अतिगुह्यशब्देन बिन्दुबैन्दवानि तत्त्वानि नादादिवैपर्यन्तशब्दरूपाणि मायामायेयानि कलादिरागता तत्तत्ववासिनो विद्येश्वरास्सर्वे आत्मानश्च कथ्यते ।
एते सर्वेऽपि यस्याधिष्ठेयाः स गुह्यातिगुह्यः स त्वं गोप्ता सर्वेषामात्मानं रक्षकस्त्वमेव नान्यः ॥

अयमर्थः -

गुह्यातिगुह्यः शिवः सर्वेषां गोप्ता त्वमस्मत्कृतं जपं गृहाण ।
कारणे त्वयि रक्षकत्वेन स्थिते सति येन जपत्वप्रसादादस्माकं सिद्धिर्भवति सिद्धिशब्देनात्र साधकविषये तत्तद्भूमिषु स्थितानि अणिमाद्यैश्वर्याण्युच्यन्ते ।
मुमुक्षोपनिवेशितनिवेदितमनेन मुमुक्षूणां प्रतिबन्धकनिराकरणाय क्रियन्ते ।
यत्किञ्चिदित्यादि सुकृतदुष्कृतं वा यत्किञ्चित्कर्मास्माभिः क्रियते ।
तद्द्विविधमपि कर्म हे देव हे शङ्कर शिवपदस्थस्य

शिवत्वरूपे शिवपदे दिक्षुधायोजितस्य मे हुं क्षुम् इति मन्त्रस्वरूपस्यार्थः क्षपयेदिति पदेनोच्यते ।
अस्य मन्त्रस्य क्षपणार्थवाचकत्वं प्रथमपदस्य शिखान्वितत्वाद्द्वितीयपदस्य श्रीमत्किरणोक्तप्रधानमन्त्रत्वाच्छिखाप्रयोगेण हि ग्रन्थिच्छेदादिभिर्विधीयते ।
अथ क्षपणार्थत्वमेतेन दीक्षोत्तरकालः ।
बुद्धिपूर्वाप्तं पापकर्म अकामतया प्राप्तपुण्यकर्म च क्षेष्यते ।
बुद्धिपूर्वकृतस्य पापस्य सामान्यविशेषशास्त्रेषु प्रायश्चित्तस्य श्रुतत्वात् काम्यस्य च कर्मणो मुमुक्षोर्निषिद्धत्वाच्च अतः शङ्करमेतादृशं कर्म नाशायेत्यर्थः ।
शिवो दातेति अनेन श्लोकेनात्मनिवेदनं क्रियते ।
अस्य पूर्वार्धेनात्मनिवेदनस्य सम्प्रदानभूतश्शिव उच्यते ।
शिवो दाता शिवशब्देन नित्यनिर्मलनिरतिशयस्सर्वार्थ ज्ञानक्रियारूपशिवत्वयुक्तः परमेश्वर उच्यते ।
स एव दाता अनाद्यशुद्धियुक्तानामशोधकः ।
दैशोधन इत्यस्मातोर्निर्वृत्तिरूपदातेति शिवो भोक्ता एव सर्वेषां रक्षकः ।
भोक्तेति भुजिः पालन एव वर्तते ।
इत्युक्तत्वाच्छिवे पालन एव वर्तते ।
शिवस्यापहारासम्भवात्

अत्र श्रुतिरस्ति ।
शिवः सर्वमिदं जगत् सशिवशुद्धमिश्राः शुद्धरूपमिदं सर्वं जगद्रक्षकत्वेन शोधकत्वेन व्याप्य स्थितः ।
अस्मान्नान्यशोधको रक्षकश्च विद्यते ।
उत्तरार्धेन चोक्तस्य कर्त्रकारात्मोच्यते ।
शिवो जयतीति प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ।
शिवीभूयश्शिवं यजेत् ।
यावन्न तत्समो जातस्तावन्नारायणे क्षम इत्यादिभिर्वचनैः पूर्वोक्तभूतशुद्ध्यादिप्रकारेण शुद्धस्सर्वार्थशास्त्रे चोदितेषु सर्वेष्वधिकरणेषु स्वक्रियाशुद्धिक्षयाशुद्धिक्षया यो यजति अर्चयति सम्पूजकः शिवोऽहं तु शब्देन सम्प्रदानभूताश्शिवात्तत् प्रदेयभूतस्यात्मनः पूर्यष्टकावच्छिन्नं स्वरूपमुच्यते ।
अस्य मन्त्रस्यात्मनिवेदनानन्तरं प्रदक्षिणत्रयं कृत्वा ।
सुराधिपं नमस्कृत्य शशाङ्ककृतशेखरम् ।

कापमालिनं देवं प्रणतोऽस्मि सदाशिवम् ॥

सर्वकृत् सर्वदातारं सर्वज्ञमपराजितम् ।
सर्वभूतात्मभूतस्थं प्रणतोऽस्मि सदाशिवम् ॥

योऽसृजत् सर्वभूतानि ब्रह्माद्यांश्च सुरासुरान् ।
तमहं लोकवेत्तारं प्रणतोऽस्मि सदाशिवम् ॥

वरं वरेण्यं वरदं वरिष्ठं वरवाहनम् ।
वरमालाधरं देवं प्रणतोऽस्मि सदाशिवम् ॥

उमाप्रियं सदा कान्तं प्रणतोऽस्मि सदाशिवम् ।
यद्ध्यायन्ति महात्मानो मुनयः संश्रितव्रताः ॥

ततोङ्कारं परं सूक्ष्मं प्रणतोऽस्मि सदाशिवम् ।
मनोबुद्धिरहङ्कारतन्मात्रेन्द्रियगोचरम् ॥

प्रधानं पुरुषेशानं प्रणतोऽस्मि सदाशिवम् ।
भूमिरापोऽग्निरनिलं खमात्मा चन्द्रभास्करौ ॥

मनोबुद्धिरहङ्कारः परा प्रकृतिरेव च ।
यस्येच्छामनुवर्तन्ते भावाभावद्विकारिणम् ॥

तस्मै परमदेवाय पराय परमात्मने ।
महद्भ्यश्चातिमहते महामायातिमायिने ॥

सूक्ष्मेभ्योऽप्यतिसूक्ष्माय नमस्कृत्यामितात्मने ।
देवदेवाय शर्वाय विद्याविद्येश्वरैः सह ॥

शैवज्ञानं प्रवक्ष्यामि तच्छृणुध्वं समाहिताः ।
जयान्तकपृथुस्कन्दवन्दभेदे विचक्षणम् ॥

जयप्रवरवीरेश संरुद्धपुरदाहक ।
जयाखिलसुरेशान शिरश्छिद भयानक ॥

जयप्रथितसामर्थ्य मन्मथ स्थितिनाशन ।
जयाप्युततनुध्वंसी कालकूटधरावह ॥

जयावर्त महादेव परिद्वेगविधारण ।
जय दारुवनोद्यानमुनिपत्नीविमोहक ॥

जय नृत्तमहारम्भक्रीडाविक्षोभदारुण ।
जयोग्ररूपसंरम्भत्रासितत्रिदशासुर ॥

जयक्रूरजयेन्द्रास्य दर्शितासुत् सुनिर्जर ।
जयवीरपरिस्पन्ददक्षयज्ञविनाशन ॥

जयाद्भुतमहालिङ्ग संस्थानबलगर्वित ।
जय श्वेतनिमित्तोग्रमृत्युदेहनिपातन ॥

जयाशेषसुखावासकाममोहितशैलज ।
जयोपमन्युसन्ताप मोहजाल तमोहर ॥

जय पातालमूलोर्ध्व लोकाकोकप्रदाहक ।
तत्रासीनं स्फटिकसदृशं श्रीमदागुल्फगात्रं ब्रह्मेत्थाष्टान्वितमनुकलात्रिंशदारब्धमूर्तिम् ।
प्रत्यक् श्वेतच्छदनमरुणं चोत्तरं कर्णं याम्यं पूर्वं करकरुचिरं शुक्लमूर्ध्वं दधानम् ॥

रक्तपादकरं भो * प्रतिवक्त्रं त्रिलोचनम् ।
ज्ञानचन्द्रजलाचूडबद्धपद्मासनं विभुम् ॥

सुप्रसन्नं स्मितोपेतं जटामकुटधारिणम् ।
षोडशाब्द वक्ष्ये द्वात्रिंशल्लक्षणान्वितम् ॥

वामैः खेटं चोपयुक्तं कपालं बिभ्राणां चा कुण्डिकां चाभयं च ।
वन्दे खड्गं बाणखट्वाङ्गयुक्तं हस्तैरन्यैरक्षमालां वरं च ॥

वामेतरे निजपाणितलेषु यद्वा नागाक्षसूत्रं डमर उत्पलबीजपूरैः ।
खट्वाङ्गशूलवरशक्त्यभयैश्च युक्तं वन्दामहे वरतनुं सकलस्वरूपम् ॥

सर्वज्ञं सर्वकर्तारं सर्वानुग्राहकं परम् ।
अनादिपाशरहितं निष्कलं चाविकारिणम् ॥

सृष्टिस्थितिप्रलयरक्षणनामधेय- कृत्यैः पशोर्मलमलं परिपाच्य मोक्षम् ।
दीक्षात्मकेन करणेन कृपाम्बुनाशे पाशत्रयात् पशुपते कृपया करोषि ॥

विहितसलिलभस्मा स्नानसन्ध्या प्रणामं कृतदिनकरपूजा पञ्चशुद्धिर्विधाय ।
विधिवदिह जयन्ते दीक्षिता ये नरास्त्वां दिशसि शिव * * तेभ्यो विघ्नहीनां विमुक्तम् ॥

ये चात्र शुद्धभुवनोद्भवभोगकामा- स्त्वामर्चयन्ति विविधैर्यजनप्रकारैः ।
तेभ्यः प्रधाय परमेश्वरसाधकेभ्यो दा तदनन्तरमेव मोक्षम् ॥

शैवं ज्ञानमथाभिषेकसहिता दीक्षापि मोक्षप्रदा पूज्यान्यैस्तव पूजनोपकरणं हृद्रोगनिर्नाशनम् ।
भक्तिं भक्तनुग्रहं निरुपमं स्थिता च लभवेद्यत्- स्यात् त्वत्पदसेवितां न सुलभं किं तत् कृपाम्भोनिधे ॥

यत् कर्मनाथमजातं पूर्वं दीक्षोत्तरं विदधतो विहितेतरं स्यात्

तत्सर्वमेव भवतः स्मृतिमात्ररुद्धम् ।
क्रव्यादयोनिसमवाप्तिच्छलं न भूयात् ।
आदेहपातमिह मेऽभिमतार्थसिद्धि - त्रयान्महेशहृदयामथनाशनं च ॥

प्रारब्धदेहसहकारि * * * म्शनाशा- दन्ते च विघ्नरहितः परमोक्षनिलाभः ।

अव्यक्ताख्ये व्यक्तरूपेऽथ लिङ्गे व्यक्ताव्यक्ते स्थण्डिले वार्चयन्ति ।
ये त्वां नित्यं नाथ तेषां ध्रुवं स्यात् पाथप्रातात् तकेभ्यश्च मुक्ति ॥

मूर्ध्नोरसा करयुगेन पदद्वयेन वाचा दृशा विमलया मनसा च बुद्ध्या ।
विद्येश्वरादिनिखिलात्मगणाभिराध्यं तं त्वा महं स्तुतिपदैः प्रणतोऽस्मि भक्त्या ॥

ज्ञानक्रियेच्छा प्रमुखैरनन्तै- र्भेदैरुपेतामुपचारयुक्त्या ।
सृष्ट्यादिकृत्येषु कृपाम्बुराशे शक्तिं विभोः शक्तिमतः प्रपद्ये ॥

या देशिकाङ्गस्थितविनाथ व्यापारहस्ताग्निविभक्तिरूप ।
छिनत्ति पाशानखिलान् पशूनां तां शक्तिमाद्यां शरणं व्रजामि ॥

केचिद्वदन्ति भवतीमिह शैलकन्या- मन्येऽपि वाचमपरे कमलां मुनीन्द्राः ।
एके पुनः प्रकृतिमेव परेष मायां बिन्दुं च केऽपि वयमीश्वरमाद्याम् ॥

एतानि शक्त्युपहृतानि मयात्रशम्भो- रङ्गानि पूजनविधौ सकलानि कृत्वा ।
पूजाफलं मम समस्तमपेतविघ्नं पूर्णं विधेहि परमेश्वरि पाहि मां त्वम् ॥

स्तोत्रैः स्तुत्वा प्रणम्य चाग्निकार्यं पद्धत्युक्तक्रमेण लीलावल्ल्युक्तक्रमेण वा कुर्यात् ।
नैमित्तिके तु पद्धत्युक्तक्रमेणैव कुर्यात्तदनन्तरं सकलीकृत्य द्वारपूजागणपत्यादिपूजां च कृत्वा पूजाहोमादि कर्मगृहाण ।
पुण्यफलमित्यभिधाय मूलमन्त्रेण स्वाहान्तेनार्घ्योदकपूर्वं श्रीमत्किरणोक्तप्रकारेण तद्रूपविशिष्टमेव ध्यात्वा नैवेद्यादिदानपूर्वं जपनिवेदनान्तं कर्म कर्तव्यम् ।
सम्पूजनं च मूलब्रह्माङ्गैः कर्तव्यम् ईशानकोणे विद्यापूजामष्टपुष्पिकया

कृत्वा अस्त्रादीशानान्तमुत्तरादारस्ततन्मन्त्रैः सम्पूज्य रोधार्घ्येणार्घ्यं च दत्वा शिवमूर्तौ सद्यवामाघोरतत्तत्पुरुषेशानमूर्धसामन्त्रेण पूजां विधाय निरोधार्घ्येण स्वाहान्तेन मूलमन्त्रेण दद्यात् ।

तदुक्तं -

पराङ्मुखं ततश्चार्घ्यं सद्योजाताच्छिवावधि ।
अस्त्राद्धृदयपर्यन्तं गन्धधूपगादिभिः ॥
इति ।

ततो नाराचमुद्रया भोगस्थानस्थितान्मन्त्रानुत्थाप्य विद्युदुत्थितां ध्यात्वा पूर्वं दि या मूर्तिमन्त्रेण शिवमूर्तौ लीनात् भावयेत् ।
ततो रक्षावकुण्ठेन कृत्वा मूलमन्त्रेण सम्पूज्य लिङ्गमुद्रां धेनुमुद्रां च प्रदर्शयेत् ।
अनन्तरं गुरुमहालक्ष्मीं गणपतिं द्वारमन्त्रांश्चात्मगान् कुर्यात् ।
पुनरीशानदिग्भागे पीठे बेरावृते स्थण्डिले वा चण्डेश्वरमासनमूर्तिब्रह्माङ्गमूलैः सम्पूज्य विशेषार्घ्येणार्घ्यं च दत्वा नैवेद्यैर्धूपादिभिः सम्पूज्य जपं निवेद्य निर्माल्यं च निवेद्य-लेह्यशोष्यान्नपानादिताम्बूलं स्रग्विलेपने ।
निर्माल्यभोजनं तुभ्यं प्रदत्तं तु शिवाज्ञया ॥

सर्वमेतत् क्रियाकाण्डं मया चण्डतवाज्ञया ।

न्यूनाधिकं कृतं मोहात् परिपूर्णं सदास्तु मे इति विज्ञाप्य क्षमस्वेत्यर्घ्यं दत्वा संहारमुद्रया सङ्गृह्य हृदयमन्त्रेणात्मस्थं कुर्यात् ।
अर्घ्यस्थानविमन्त्रान् विसृज्य निर्माल्यशुद्धिं कृत्वा सामान्यार्घ्येण प्रोक्ष्य तमपि विसृज्य प्रक्षाल्य पाणिपादवाचसकलीकरणं कुर्यात् ।
स्थण्डिलविषये विमलावत्यां-विद्युदुत्थितां ध्यात्वा स्वस्थाने तु लयं नयेत् ।

लयस्थानगतान् मन्त्रान् मूलमन्त्रेण लयं गतान् ।
मूलमन्त्रं ततो ध्यायेत् स्फुरद्बिन्दुलयबिन्दुगतम् ॥

बिन्दुदेवे लये नादे नादविज्ञानशक्तिमान् ।
ज्ञानशक्तिपरे लीना यो हृद्व्योम्नि व्यवस्थितिः ।
तस्मात् प्रजयते मन्त्रस्तोत्रैव प्रविलीयत ।
इति ।
न पुंसि न परे तत्त्वे शक्तौ मन्त्रान् नियोजयेत् ॥

इति ।

च एवमुक्तप्राकारसम्पन्ना परमेश्वरी ।
पूजा सामान्यविशेषशास्त्रसिद्धेभ्यो ज्ञनयोगनसमाधिद्यानजपतपः प्रभृतिभ्यो निरतिशयमोक्षसाधनं तदुक्तम् श्रीमत्सोमशम्भुपद्धत्याम् -

समाधिना तपोध्यानधारणाभावनाजपैः ।
निजमूर्तौ गोरोर्मूतौ पुस्तके सलिलेऽनले ॥

चित्रादौ स्थण्डिले वापि लिङ्गेत्वत्यन्तमुत्तमम् ।

यजनमिति तथा ब्रह्मशम्भुपद्धत्याम् -

आसनं मूर्तिमावाह्यमेतत्त्रितत्त्वमध्वनि ।
व्याप्यव्यापकभावेन ज्ञात्वा यजनमारभेत् ॥

इत्येवं समाध्यादीनां पूजयास्समाधानत्वेनोक्तत्वात् ।
पूजायां प्राधान्यम् अङ्गाङ्गिरङ्गस्यां प्राधान्यात् ।
ज्ञानध्यानसमायोगसमाधितामपि पुरुषाणाम् ॥

शिवलिङ्गार्चनस्याकरणे प्रायश्चित्तश्रवणाच्च ।

ज्ञानाद्यभावेऽपि शिवार्चनं कुर्वीत ।
प्रायश्चित्त श्रवणाच्च ।
तदुक्तमवधूतगुरुणा-

मुग्धा मलीमसधियः समयादपोता- रगोपरक्तमनसो वशिनोऽपि सन्तः ।
त्वच्छासने विहितलिङ्गपरिग्रहेण मुच्यन्त इत्यतिमहांस्तवसिंहनादः ॥

अव्याहतस्य भगवन् भवदागमस्य चिन्तामणेरिव महानसमः प्रभावः ।
सन्धिदानविहितां यदवाप्य दीक्षां ज्ञानावृते खलु केवलतामुपैति ॥
इति ॥

शिवसप्ततौ -

यदैव बद्धोऽञ्जलिनादगर्भश्यामाङ्गुलिं स्त्रम्बकपुष्पगर्भः ।
तदेव संसारनिबन्धनानि गलन्ति कर्म निबन्धनानिति ॥

श्रीमन्मृगेन्द्रवृत्तौ नारायणकण्ठेनाप्युक्तम् -

साहल्यादङ्घ्रिसरोजसेवनं सक्तात्मनां शिववपुः करणानि येषाम् ।
उद्वीक्ष्यता ध्रुवमवैम्यपवर्गभाजं सद्यः शरीरकरणेष्वभिलाषिणा स्युः ॥

यदुक्तं श्रीमन्मोहशूरोत्तरे -

देवासुरनरा यक्षा मुनयो वीतमत्सराः ।
लिङ्गाराधनतः सिद्धिं गता मुक्तिं च शाश्वतीम् ॥

इति क्रियासमोपेतं लिङ्गमाश्रित्य साधकः ।
लभतेऽभिमतां सिद्धिं मोक्षं मोक्षपरायणः ॥

पद्मपत्रे यथा तोयं वातोद्धूतं सचञ्चलम् ।
तद्वत्सुचञ्चलं शक्रपाणिनां भुवि जीवितम् ॥

अस्थिरं यौवनं शक्रद्रव्यमस्थिरमेव च ।
अस्थिरं पुत्रपौत्राद्यं रम्भासारसमोपमम् ॥

तस्मात् पुत्रकलत्रादि सुहृन्मित्रधनानि च ।
विहाय मोहजालानि कुर्याल्लिङ्गपरिग्रहमिति ॥

श्रीमन्मृगेन्द्रेऽपि -

इति विलयहुताशनान्तपर्यन्तवर्तिद्युति- विभवनिमित्तस्यार्चनं लेशनस्ते ।
गदितमतुलमस्यान्यत्फलं तावदास्तां सम्पति पदिति समत्वं साध्वादुपैतीति ॥

इति नित्यविधिः ॥

अग्निकार्यविधिः


अग्निकार्यविधिः ॥

अग्निकार्यार्थमीशानमिति अर्घ्यपात्रमिति सम्भारांश्चेति चर्वाज्यसमिद्गर्भादयः चतुस्त्रिद्व्यङ्गुलोत्सेधपृथुनेमित्रयान्वितमिति ऊर्ध्वत आरभ्येति क्रमः ।
मेखलात्रयचतुरङ्गुलत्र्यङ्गुलद्व्यङ्गुलोच्छ्रायस्तारयुक्तं कार्यम् ।
पादशाङ्गुलायेति दैर्घेण षडङ्गुलविशालायेति विस्तारेण अङ्गुलं तु त्रिविधं ज्ञेयम् ।
षड्यवप्रभेदत इति वचनादधमं षड्यवम् ।
मध्यमं सप्तयवम् ।
उत्तम-

मष्टयवमेवं विधानामङ्गुलानामन्यतमया चतुर्विंशत्या हस्तो भवति ।
अथवा यजमानदक्षिणहस्तमध्याङ्गुलिमध्यपर्वविस्तारप्रमाणेन दैर्घ्यप्रमाणे नवाङ्गुलं कृत्वा तच्चतुर्विंशत्या हस्तः कार्य आहुत्यपेक्षया मुष्ट्यादिप्रमाणतो वा हस्तः कार्यः ।
नित्ये दीक्षादौ कर्मणि च हस्तप्रमाणमेव कुण्डं कार्यम् ।
काम्येषु यथा वनं प्रमाणादिभेदाकारभेदात् कर्तव्यः ।
सर्वेष्वपि कुण्डेषु कुण्डानां यश्चतुर्विंशो भागः साङ्गलसञ्ज्ञकं विभज्यानेन कर्तव्या मेखला कण्ठनाभय इत्युक्तत्वात् उक्तलक्षणेषु हस्तेषु अन्यतमं हस्तं चतुर्विंशतिधा विभज्य तैरङ्गुलैरवयवाः कर्तव्याः खाभूमेरुपरिस्थितेन मेखलासु शान्तिविद्याप्रतिष्ठानिवृत्तिकल्पनं मेखलान्तरालावकाश्शान्त्यतीतकल्पनं च कृत्वा ॐ कलामयाय कुण्डाय नम इति पूजयेद्विशोध्य चतुस्संस्कारेण आवृत्त्य कवचेनावकुण्ठ्य पद्मालभ्या मूले नाभ्या आत्मनः सम्मुखम् अत्र केचिद्वागीशीपूजनवत् वागीश्वरमपि पूजयन्ति ।
संहितान्तरेषु यथोक्तत्वानुष्ठायिभिस्तथा कर्तव्यं श्रीमन्मृगेन्द्रे त्वनुक्ता तत्र कर्तव्यम् ।

पुरुषेन तु जन्मनि जातकर्मणि गर्भाधानवदन्येषु पुंसवनादिषु कर्मस्वाहुतयः पञ्चपञ्च कर्तव्याः ।
ब्राह्मणशङ्करमिति ब्रह्मविष्णुरुद्रेश्वरान् पूर्वपश्चिमदक्षिणोत्तरेषु पूजयेत् ।
ततः सुरेशवरुणप्रेतनक्षत्रभर्तृषु इत्युक्तत्वात् ।
अनन्तशब्देनेश्वर उच्यते ।
पर्वादिष्विन्द्रमग्निश्चेति अत्रापि लोकपालद्वारेण शतरुद्रा एव पूज्याः ।
अनन्तनैर्-ऋते पुनरित्यत्र अनन्तशब्देन विष्णुरुच्यते ।
सप्ताष्टमुखवेदिकामिति सप्ताङ्गुलेन मुखमष्टाङ्गुलेन तदधोभागश्चतुरश्राकारप्रदर्शः ।
एकाङ्गुलगलाङ्गलशब्देन मुखवेद्योरन्तराल भाग उच्यते ।
षट्त्रिपृथुगम्भीरपुष्करामिति पुष्करशब्देन आद्याधारो गत उच्यते ।
स तु षडङ्गुलेन विस्तीर्णः कर्तव्यः ।
तस्य तु खातस्त्र्यङ्गुलेन कार्यं भागार्धमेखलेति भागशब्देनाङ्गुल उच्यते ।
अर्धाङ्गुला मेखला कार्येत्यर्थः ।
कनिष्ठाभ्यायाज्यनिर्यासमिति कनिष्ठाप्रमाणाज्यनिर्गमाधाराम् ।
वेद्यर्था शास्त्रगन्धिकामिति वेद्यामष्टाङ्गुलत्वेनोक्तत्वादर्धचतुरङ्गुलं कुशाग्रं चतुरश्रं गण्डिकावेद्या अधोभागस्थो यवविशेषः ।
सप्ताङ्गुल-

परिणाहखटामिति शृङ्मूलगतोऽवयवविशेषः ।
कुम्भाकारः सप्ताङ्गुलपरिणाहः कर्तव्यः ।
षण्णाहकामिति खटोपवेद्योरान्तरालिके भात्वगषडङ्गुलपरिणाहः कर्तव्यः ।
द्वयोस्तत्र यन्न्यस्येति स्रुक्स्रुवयोरग्रमध्यमूलेषु शिवतत्त्वक्रमेण न्यासः कर्तव्यः ।
नाडित्रयाद्धृते त्वेति घृतस्य धेनुमुद्रयामृतीकरणसिद्ध्यर्थम् आत्मनः शक्त्यभिव्यक्तिस्थानास्पदं नाडित्रयं तस्मिन् प्रविष्टं भावयेत् ।
दक्षिणादग्नयो भागादिति ।
अग्नेर्नेत्रोत्पाटनार्थमेतास्तिस्र आहुतयश्चतुर्थी स्विष्टकृन्मुखे कर्तव्या एकैकाहुतिदानेनेति सद्यादिभिः सद्यं वामेन सन्धायेति सद्यवामदेवबीजोच्चार्य उभयोर्वा शब्दाभ्यां चतुर्थान्ताभ्यां सन्धानाहुतिः कार्या ।
एवमन्येषामपि स्वस्वमन्त्रैरन्योन्यसंयोगात् सन्धानाहुतिः वक्त्रैकीकरणान्त इति सद्यवामदेवघोरतत्पुरुषेशानवाचकशब्दान् च क्रमेणोच्चार्य घृतपूर्णया स्रुवधारया कुण्डगतस्याग्नेराग्नेयीं दिशमारभ्य वायवीं प्राप्ताया पुननैर्- ऋतमारभ्येशानं प्राप्ताया कुण्डाकाशं सर्वमेव ईशानवक्त्रत्वेनानुसन्धायैकीकरणं कुर्यात् ।

तदुक्तं सोमशम्भुना -

अग्नितो गतया वायुः नैऋत्यां दिशि वान्तया ।
वक्त्राणामेकतां कुर्यात् स्रुवेण घृतधारया ॥
इति ।

अभिस्थुन्ते वक्त्र इति काम्यविषयम् ।
एवं विशिष्टस्याग्नेर्वक्त्रे जिह्वादेहं च श्रूयते ।
यदुक्तं श्रीमत्सोमशम्भुपद्धतौ - हिरण्या कनका रक्ता तदनुसुप्रभा ।
जिह्वाग्नेरतिरक्ता च बहुरूपा च सप्तमी ।

रुद्रेन्द्रवह्निमांसादवरुणानिलगोचरे ।
हिरण्यां दिवि निर्दिष्टा रसना षडनुक्रमात् ॥

मध्यतो बहुरूपा तु दक्षिणोत्तरगामिनी ।
हिरण्या तत्पहेमाभा कनका वज्रसप्रभा ॥

रक्तातिदारुणप्रख्या कृष्णानिलगोचरे ।
हिरण्याद्या विनिर्दिष्टा रसना षडनुक्रमात् ॥

मध्यतो बहुरूपा तु दक्षिणोत्तरगामिनी ।
हिरण्या तप्तहेमाभा कनका वज्रसप्रभा ॥

रक्तातिदारुणप्रख्या कृष्णा नीलमणिप्रभा ।
सुप्रभा मौक्तिकद्योतातिरक्ता पद्मरागवत् ॥

चन्द्रकान्तशरच्चन्द्रप्रभेव बहुरूपिणी ।
वश्याकर्षणयोराद्या करकास्तम्भने रिपोः ॥

विद्येषमेधयोरक्तकृष्णामरणकर्मणि ।
सुप्रभा शक्तिके पुष्टौ सुरक्तोच्चाटने मता ॥

एकैव बहुरूपा तु सर्वकामफलप्रदा ।

अभीष्टदेवता साग्निजिह्वानामित्युक्तत्वादभिलषितवक्त्र एव ।
रुद्रेन्द्रादिस्थानेषु सप्तजिह्वानुसन्धेयाः ।
प्रत्यहं कुरण्डसंस्कारपूर्वा स्यादग्निसंस्कृतेऽन्यत्र होमयेत् ।
इति संस्कृतेऽन्यत्र होमयेदिति ।
एकस्थन्नेव कुण्डे होमे क्रियमाणे होमान्ते चण्डपूजायामवश्यं भावित्वाच्चण्डादिकरणे शिवस्य पूजाहोमादिकं न योग्यमिति ।
अन्यत्राग्नौ रक्षमाणे सति धूपदीपादिसिद्धिरयत्नेन सुलभस्यादिति ।
ततो हृत्पङ्कजे वह्नेरिति अग्ने हृदय पङ्कजं नाडीसन्धानेन प्रविश्य पूजयेत् ।
मृग्यादितिलादिकमिति मृगमुद्रया भस्म च वन्देतेति शिवसज्जनात् पूर्वं दर्भेणाग्निप्राप्तेन तदभिव्यक्तशिवस्वरूपेण भस्मना शिवो ललाटादिषु आलम्बनं कुर्याद्द्रकालादिसम्पत्ताविति चण्डार्चनं द्रव्यकालाद्यसम्पत्तौ न कर्तव्यमेव ।
सम्पत्तौ क्रियमाणायामपि अधिकरणचण्डार्चनहोमौ शिवलिङ्गार्चनं परिसमाप्य

पूर्ववन्मण्डलादौ चण्डार्चनं विधाय पश्चादग्नौ कर्तव्यौ च ।
चक्रिणं चण्डनामानमीशानं च स्वगोचरे ।

प्रसादाभिमुखाः सर्वे मध्यसूत्रविवर्जिताः ॥
इति

श्रीमन्मोहशूरोत्तरे ।

श्रुत्या दक्षिणाभिमुख एव ईशानकोणे सम्पूज्य अन्तर्बहिर्बलिगतत्वेनाचम्याचम्या रुद्रादयः ।
शुद्धविद्यातत्त्वनिवासिनः अशुद्धाध्वनिवासिनां पूजयानुक्तत्वात् ।
देवयां वेदयेत् कृतमिति अपूर्वोक्तप्रकारेण होमफलं निवेदयेत् ।
गुरुमभ्यर्च्य विद्यां चेति पूर्वार्चनविद्यार्चने स्थानार्घ्यपात्रादिसङ्कटविवक्षयोक्तम् ।
इदानीं तेषां सामग्रीसम्भवविवक्षयोक्तं कुर्यात् ।
स्वाध्यायमीप्सितमिति ईप्सितं शिवशास्त्रसंहितासु अन्यतममधीतेत्यर्थः ।
स्वाध्यायशब्दश्रवणमननादीनामुपलक्षणार्थः ।
विशोद्ध्यान्नादिपात्रादन्नमुद्धृत्य परमेश्वराय निवेद्येत्यर्थः ।
पूर्ववन्मन्त्रितोदन इति मृत्युञ्जयमन्त्रेण प्राणाद्याहुतिदानेनेति आपोशनापूर्वमेव नागकूर्मकृकरदेवदत्तधनञ्जयेभ्यो आग्नेयनै-ऋतवायव्येशानकोणेषु स्वाहान्ते स्वस्वमन्त्रे बाह्यप्रवृत्ति-

कारत्वात् बाह्ये बलिर्देयः ।
बाह्यप्रवृत्तिकरत्वं चैषामुद्भाने तु स्वर्जातीया शुक्तमवर्णाश्च भिक्षेयुः ।
तदुक्तं -

चर्यासनान्नपानादेः तेषां मन्त्रं पृथक्स्थितिरिति शक्तौ दिवोपनीतेनेति शक्तावित्युक्तत्वान्निशीथस्य सन्ध्यार्चनयोरकरणे प्रत्यवायाभावः सूच्यते ।
सन्ध्यान्तराणां त्रयाणामकरणे प्रत्यवायश्रवणात् ।
इत्यग्निकार्यादिप्रकरणम् ॥

अथ प्रायश्चित्तम् ॥

समयाचारलोपेति शास्त्रोक्ताचारलोपेन पिशाचतामिति अत्र पिशाचतत्त्वे बुद्धितत्त्वस्थितदेवयोन्यष्टकमध्यवर्तिपिशाचत्वमुच्यते ।
तां पिशाचतां प्राप्यापि किञ्चित्कालं तत्रोषित्वा पश्चादपवर्गं प्राप्नुवन्ति तस्मादप्यकृतविधिः किञ्चित्कालं पिशाचवरराजं भ्रान्त्वा विमलात्मासौ व्रजति हि समतां प्रवेशेनेति ।
सद्योज्योतिः पदैरुक्तं पितृभ्रात्रादिबान्धवैरिति संस्कृतैः सद्भिः साधकोक्तं व्रतं कुर्यादिति प्रायश्चित्तशास्त्रस्य साधकमधिकृत्योदयान्तं पुरस्कृत्य

प्रायश्चित्तमुच्यते ।
अनिच्छुरु(?)रव्रती तत्प्रमादप्राप्तप्रायश्चित्तगृहस्थ आचार्यसाधकोत्तमं प्रायश्चित्तं कुर्यात् ।
स एव सेच्छुस्तु साधकोक्तं व्रतं द्विगुणं कुर्यादनिच्छुर्व्रतसंयुत इति व्रत्याचार्यो अबुद्धिपूर्वे बुद्धिपूर्वगृहस्थश्चाचार्यः प्रायश्चित्तं कुर्यात् ।
सेच्छुस्तद्द्विगुणमिति स एव ब्रह्मचार्याचार्यो बुद्धिपूर्वविषये स्वस्याबुद्धिपूर्वप्राप्तप्रायश्चित्तद्विगुणं कुर्यात् ।
पुत्रस्तत्त्र्यंशवर्जितमिति पुत्रकः निर्वाणदीक्षितः साधकोक्तप्रायश्चित्तबुद्धिपूर्वे त्र्यंशोनः कुर्यात् बुद्धिपूर्वोक्तं त्र्यंशोनं द्विगुणं कुर्यात् ।
समयी तु साधकोक्तस्य प्रायश्चित्तस्यार्धं कुर्यात् बुद्धिपूर्वे तु स्वबुद्धिपूर्वे प्रायश्चित्तं द्विगुणं कुर्यात् ।
समयीविशिष्टसमयिनोः प्रायश्चित्तविषये त्वविशेषः अध्वशुद्ध्यभावात्ताले तालेयुतं जपेदिति तालो द्विङ्गुलसहस्रं पशुनाष्ट इति ।
प्रतिलोमैकवर्तादिभिर्नकेवलमिति त्वदीक्षितैर्वर्णमात्रैस्तेषां स्पर्शेऽप्युत्तरलघुप्रायश्चित्तश्रवणात् श्वपचादीक्षितस्पृष्ट इति श्वपचाश्चण्डाला येषामादिस्ते च पचादयः तेषामीक्षितमीक्षणं स्पृष्टं स्पर्शनं

अनयाः सम्भवे यथाक्रमं पञ्चायुधशायुते कर्तव्ये रात्रौ पूजां च दानं चेति बुभुक्षुः सानुग्रहः ।
चतुर्दश्यादिपर्वस्विति आदिशब्देनाष्टमीपर्वग्रहणायनादयो गृह्यन्ते ।
अत्र पर्वशब्दः कालवाची चतुर्गुणं नित्यलोपा चतुर्गुणं व्रतरिलोपे वेद्यतशब्देनाष्टमीचतुर्दशीपञ्चदशीषूक्तं नक्तैकभुक्तादि आदिशब्देन क्रियानियमौ गृह्यते ।
स्वसङ्कल्प एव जपप्रदक्षिणादयः गायत्र्या परिवर्तते ।
यदिति गायत्र्या अष्टोत्तरशतं जपेत् ।
महेशगुरुचण्डाज्ञाभङ्गः महेशाज्ञाभङ्गः शिवशास्त्रोक्तज्ञानक्रियादिलङ्घनं शास्त्रस्य ज्ञात्मकत्वेन श्रुतत्वात् गुरूक्तादिलङ्घनं चण्डाज्ञातिलङ्घनं निर्माल्यसम्पर्के स्पृष्ट स्पृष्ट्या न साक्षाद्भुक्तान्नमिति सोच्छिष्टशेषं नान्त्यजातीन्विलोकयेदिति इत्यादिनिषेधेषु यत्र प्रायश्चित्तं न श्रूयते तत्र पद्धत्यन्तरेषु प्रायश्चित्तसमुच्चयं द्रष्टव्यम् ।
तत्राप्यदृष्टस्य स्मृतिषु द्रष्टव्यम् ।

इति प्रायश्चित्तप्रकरणम् ॥

पवित्रविधिः


अथ पवित्रविधिः ॥

शुक्लाष्टमीं विना आषाढा इति अत्र आषाढशब्देन मिथुनराशिरुच्यते ।
यदुक्तमस्मत् परमाराध्येन द्वादश्ये सिता रवौ मिथुनगे निद्रा-विधिक्ते हरेस्तारसंस्यैव करोति कर्कटरवौ मेषादि षड्राशिषु ।

एकत्राप्यधिमासता यदि हरौ सुप्ते पवित्रिक्रिया प्रायश्चित्तमथोऽन्यथेतमुदितं श्रीमन्मोहशूरोत्तरे ।
इति अस्य श्लोकस्य विवृत्तिरूपपवित्रकालनिर्णये मिथुनराशिरेव आषाढ इति गुरुभिरुक्तत्वान्निर्णीतं सिद्धान्तसमुच्चयेऽप्युक्तम् ।
यथा दीक्षाप्रतिष्ठापवित्रादीनां कालविशेषकार्यत्वात् कालो निरुप्यते ।
स च द्विविधः आध्यात्मिको बाहुदेवप्राणहंसात्मकजीवचारेणाध्यात्मिकः काल इत्याध्यात्मिककालो निरूपितः ।
आधिभौतिककालनिरूपणमारभ्यते ।
यदुक्तं श्रीमन्निश्वासकारिकायां -

मुहूर्ताः स्थितयश्चैव अहोरात्रायतानि च ।

ऋतुमासस्तथा पक्षो ग्रहा ऋक्षाश्च राशयः ॥

सर्वमेतन्महादेवि आदित्यात् सम्प्रवर्तते ।
अंशाः सन्ध्यास्तथा राहोराद्रेककाणकास्तथा ॥

उदिते भास्करे चैव सर्वमेतत्प्रवर्तते ।
स एष कथितः कालः लौकिकः परमेश्वरि ॥

ननु चन्द्रगत्या मासादिकरेप्तिः श्रूयते ।

यदुक्तं ज्योतिश्शास्त्रनिरुपकैः -

दर्शावधिर्मासमुशक्तिचान्द्रं सौरं तथा भास्करराशिचारात् ।
त्रिंशद्दिनं सावनसञ्ज्ञमाहु- र्नक्षत्रमिन्दोर्भगणप्रचारादिति ॥

सत्यम् ।
तथाप्याध्यात्मिकवत् सूर्यादिसिद्धान्ते वायदनादनाश्रित्य दीक्षाप्रतिष्ठादिकर्माणि मासादिकरेप्तिर्विधीयते ।
चन्द्रमसाकरेप्तिश्चाधिमासतिथ्यादावपेक्ष्यते ।
तदुक्तं ज्योतिश्शास्त्रनिपुणैः युगानर्तप्रभृतीनि सौरान्मानाद्विना द्विराष्ट्र्योरपि वृद्धिहानिपर्वाधिमासो न दिनादिचान्द्रात्तथा तिरेथरमपि प्रविष्टमिति सौरसंवत्सरे मकरादयो मिथुनान्ताष्षड्राशय उत्तरायणं कर्कटकादय दक्षिणायनमिति

सिद्धं तेषां च मकरादीनां माघादिसञ्ज्ञा शास्त्रेषु श्रूयते ।
तदुक्तं श्रीमन्निश्वासकारिकायां -

माघमासादितः कृत्वा आषाढान्तेन शोभने ।
विज्ञेयं लौकिकं कालमुत्तरायणमुत्तमम् ॥

श्रावणं चादितः कृत्वा पुष्यान्ते न तु शोभने ।
विज्ञेयं लौकिकं कालं दक्षिणायनमुत्तममिति ।

तत्रैव पाटलान्तरे

यस्मिन् राशौ स्थिते ह्यात्मा माघमादिकरोति सः ।
मकरे कुम्भमीनौ च मेषश्चैव वृषस्तथा ।

मिथुनः कर्कटः षष्ठोराश्यः षण्मासि कीर्तिताः ।
कर्कटे सिंहकन्ये च तुलावृश्चिक एव च ॥

धनुश्चैव समाख्यातो दक्षिणे भास्कराश्रय इति ।

प्रतिष्ठाकालविधाने च श्रीमन्मोहशूरोत्तरादौ उत्तरायणस्य माघादित्वं सर्वत्र श्रूयत इति दर्शयिष्यामः ।

ज्योतिश्शास्त्रनुपुणैरपि -

मृगादिराशिद्वयभानुभोगात् षड्वर्तव सुशिशिरो वसन्तग्रीष्मश्च वर्षाश्च शरच्च तद्वद्धेमन्तनामा कथितस्तु षष्ठ इति ।

वाहटे -

माघे द्विसङ्ख्यै माघाद्यैः क्रमाष्षडृतवः स्मृताः ।
शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम् ॥

इत्यादि ।

आयुर्वेदतन्त्रे -

मार्गशीर्षादिभिर्द्विरव्यैः क्रमाद्धेमन्तशिशिरवसन्तग्रीष्मवर्षासुदारव्याष्षडृतवो भवन्ति ।
तेषु शिशिरादयस्त्रयो रवेरुदगयनम् ।
आदानं च विशेषादक्षिणायनं विसर्जनं चेति ।
अमरकोशे च - द्वौ द्वौ माघादिमासौ स्यादृतुस्तैरयनं त्रिभिः ।
अयने द्वे गतिरुदण्दक्षिणार्कस्य वत्सरः ॥

इति ।
तस्मादुत्तरायणादिमासो मकर राशिरेव माघ इति सिद्धम् ।
ननु पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा ।
नाम्ना स पौषो माघाद्याश्चैवमेकादशा परे ॥

इति अमरकोशवचनात् माघादिसञ्ज्ञायाश्च लौकिकत्वाद्येषु मासेषु पुष्यनक्षत्रयुक्ता पौर्णमास्यो भवन्ति अत एव पौषादिसञ्ज्ञा मासा भवितुमर्हन्ति ।
सत्यम् ।
चान्द्रमासानां

सञ्ज्ञानिबन्धनमेतच्चन्द्रगनक्षत्रसम्बन्धेन सञ्ज्ञाविधानात् सौरमासानां सौरमाससम्बन्धानां माघादिसञ्ज्ञानां निर्वचनापेक्षया मकरादिराशिषु सूर्यचारनिमित्तत्वात्तदनभ्युपगमे च प्रागुक्तसर्ववचनविरोधात् ।
अत एवामरकोशेऽपि पूर्ववचने अर्कस्य वत्सर इत्युक्तम् ।
ततश्च मकरादीनां राशीनां सौरमासत्वेन माघादिसञ्ज्ञे क्त्वो सर्वत्र वचनादुत्तरायणसम्बन्धानाम् ऋतूनां शिशिरादित्वेन श्रवणात् मधुश्च माधवश्च वासन्तिकाभ्रकुलक्यादि तपश्च तपस्यश्च शैशिराभ्रकुलक्यन्तश्रुतिदर्शनादि तु मध्ये अनया सम्भवा चैत्रादिमासौ मधुमासौ द्वाविति निखण्डुवचनदर्शनात् ।
मकररतिराशिष्वपि माघादियुक्तम् पौर्णमासीसम्भवात् कचादिक् ।
पुष्ययुक्तपौर्णमासष्य भाचारदर्शनात् सञ्ज्ञाशब्दानां रूढित्वेनापि सिद्धेः संवत्सराणामपि माघादिसञ्ज्ञाप्रसिद्धे ध्रद्रमितदेशसर्वेषु देशेषु तुलादिराशिष्वेव कृत्तिकादीनां पाद्यनुष्ठानदर्शनाच्च ।
उत्तरायणादिमासो मकरराशिरेव माघ इति सुष्ठूक्तम् ।

द्रविडदेशे तु मकरादिराशीनां पौषादिसञ्ज्ञा ।
चान्द्रमासबन्धभूत या घटितं नक्षत्रयुक्तायां पौर्णमास्यां तेषु बाहुल्येन दर्शनात् सिद्धत्वविरोधात् ।
एवं च सर्वाणि वचनानि साधकानि भवन्ति ।
अन्यथा परस्परव्याघातात् ।
सर्वाणि तान्यप्रमाणानि भवेयुः ।
अत एव सर्वागमप्रामाण्यवादिनः सर्वज्ञेन परमेश्वरेणात्राध्यात्मिकवत्सपक्षमेवाश्रित्य दीक्षादिः श्रीमत्स्वायम्भुवादौ शरद्वसन्तयोर्योगो दीक्षाकर्मविधौ वरः ।
तयोरसम्भवाद्वर्षं विनान्यत्रापि शस्यत इत्यादिसामान्यशास्त्रेऽपि तथैव प्रायेण णि विधीयन्ते ।
यथा शरदि जपे येन वजेत्यादि एवं कालो निरूपितः ।
अथ नित्याङ्गभूतस्य पवित्रकरणस्य कालो लिख्यते ।
तत्करणेऽपि च त्रिविधो नियमो दिश्यते ।
तदाहुः -

आषाढादित्रये चैव सुप्त एव जनार्दने ।
पवित्रं विदधीतैव सूत्रेऽसौ नियमस्त्रिधेति ॥

तमाषाढादित्रये चैवेत्यवधारणेनोक्तवत् भाद्रपदसञ्ज्ञितात् सिंहराशेरूर्ध्वं पवित्रारम्भनिषेधं करोति ।
तदुक्तं श्रीमन्मोहशूरोत्तरे -

भद्रादूर्ध्वं न कुर्वीत सिद्धान्ते दोषभाग्भवेत् ।

लक्षद्वयमघोरस्य जपाच्चैव विशुद्ध्यति ॥

श्रीमत्सहस्रकालोत्तरेऽपि -

अथवा नियमेनैव कुर्यान्मासत्रयान्तर इति उपक्रमः ।

एवं काले ह्यतिक्रान्ते प्रायश्चित्तं समाचरेदिति अन्यत्राप्युक्तम् -

प्राप्ते आषाढे तदन्ते च तदन्ते च ततो न हीति ।
तथा

आषाढादित्रयो मासाः सुप्त एव जनार्दने ।
शुक्लपक्षेऽथवा कृष्णे प्रशस्तास्तत्र रोहणे ॥

रोगादिवृद्धिसंयुक्तः प्रवासी राजपीडितः ।
उक्तमासत्रये येन कुर्यात्तत्सूत्ररोहणम् ॥

असौ कन्यागते भानौ दत्वा दक्षानायुतम् ।
कुर्यात्पवित्रकरशम्भोस्तुलायां न कथं च न ॥
इति ।

तथा आषाढादित्रयो मासाः पवित्रारोहणे वशः ।

तदलाभेऽयुतं जप्त्वा कुर्यात् कन्यां गते रवौ ।
इति ।

यद्येवातसीं कृत्तिकीं कृत्वा नवमीं शुक्ल एव चेति श्रीमत्किरणे ।
कथं श्रूयते नायं पवित्रारोहण कालविधिः ।
आषाढादित्रये चैवेति नियमश्रुतेः भाद्रपदमासादूर्ध्वे तस्मिन् करणे प्रायश्चित्तविधाना च ।
किं तु पवित्रव्रतग्रहणावधि

नियमः ।
तदुक्तं तत्रैव -

चतुरो वार्षिकान्मासान् नियमेन नयेत् खग ।
इति श्रीमत्पौष्करेऽपि

सङ्कल्पचतुरो मासान् स्थानमाश्रित्य वाञ्छितम् ।
कार्यो नियमतस्तैस्तु हृद्भस्मादिपरिग्रहम् ॥

आषाढच्छेदः मेधाध्वानं गुरुरन्यत्र वर्जयेदिति ।

श्रीमन्मृगेन्द्रेऽपि -

चतुर्मासं त्रिमासं वा द्विमासं मासमेव वा ।
मासार्धं सप्तरात्रं वा पञ्चरात्रं त्र्यहं दिनम् ॥

क्रियापर्यवसानं वेति ।
कार्तिकमासश्च तुलाराशिरेवेत्युक्तम् ।
अस्मिन्नेव मासे शुक्लद्वादश्यां विष्णोः प्रबोधो भवति ।
तदुक्तं ज्योतिश्शास्त्रेबोधयेन्मधुसूदनमिति ।
तस्माद्भाद्रपदमासादूर्ध्वं पवित्रारम्भो न कार्य एव ।
सुप्त एव जनार्दन इत्यवधारणे विष्णुस्वापात् पूर्वं पवित्रान्निषेधं करोति ।
तदुक्तं श्रीमन्मोहशूरोत्तरे -

सुप्ते चैव हृषीकेशे दोषभागन्यथा भवेत् ।
इति ।
तत्रैव -

मोहादज्ञानतो वापि अप्रसुप्ते जनार्दने ।
पवित्रं कारयेद्यस्तु स पापी पापमोहितः ॥

पञ्चदिनमनाहारो जप्त्वा पञ्चायुधं हरेत् ।
शुद्धिमेष समभ्येति नान्यथा तु कदाचनेति ॥

अन्यत्राप्युक्तम् ।
आषाढेऽपि न कर्तव्यं सुप्तेऽपि मधुसूदन इति ।
कः पुनर्विष्णोः स्वापकाल उच्यते ।
सामान्यतस्तावन्मिथुनराशिस्थायमाषाढशुक्लपक्षसम्बन्ध- जन्यं दश्यां विष्णोः स्वापो भवति ।
यदुक्तं श्रीमद्बृहत्कालोत्तरे -

स्वापस्तु मिथुने विष्णोः शुक्लद्वादशिकातिथाविति ।
ज्योतिः शास्त्रेऽपि -

आषाढशुक्लद्वादश्यां कुरुते शयनं हरिः ।
इति ।

दक्षिणस्रोतसि च -

पवित्रं विदधीतैव मिथुनस्ते दिवाकरेति ।
तथा ज्ञानरत्नावल्यामपि श्रीमद्ज्ञानशिवाचार्येणोक्तम् ।

स्वकस्वरूपतो विष्णोः स्वापतो मिथुनमासि ।
तस्मादाषाढादिमासेषु नित्याङ्गरूपं पवित्रं कार्यमिति नियमः ।
उक्तं माधवादिसञ्ज्ञानां षण्णां मासादीनां राशिनामन्यतमस्मिन् राशौ यदा चान्द्रमसकरव्यामासाधिक्यं भवति ।
तदा तस्मिन् वत्सरे मिथुनकर्कटराशिद्वयस्थस्य

चान्द्रमासद्वयस्याषाढसञ्ज्ञात्वात् द्विराषाढोऽयं संवत्सरो भवति ।
तस्मिंश्च संवत्सरे कर्कटराशौ विष्णोः स्वापो भवति ।
तदुक्तं श्रीमन्मोहशूरोत्तरे -

दर्शद्वयं भवेद्यत्र रविसङ्क्रान्तिवर्जितम् ।
अधिमासः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥

इति ।
वर्षद्वयमिति पाठे पर्वमात्रद्वययोगादधिकमासत्वाभ्युपगमे सर्वमासानामधिकमासत्वप्रसङ्गात् ।
पौर्णमासीद्वययोगादधिकमासता भवतीति पक्षे वचनाभावादमावास्याद्वययोगादेव ।
सौरमासाधिकमासत्वाद्वचनान्तरसंवादाच्च ।
पर्वशब्देनामावास्यैव विवक्षिता ।
तदुक्तं ज्योतिः शास्त्रे -

दर्शद्वयमतिक्रम्य यदा सङ्क्रमते रविः ।
मलमासः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥

मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत् ।

द्विराषाढः सविश्रुते च श्रावणेऽच्युत इति माधवादिष्वन्यत्र माधवशब्देन मेषराशिः ।
श्रावणेश्च शब्देन च कर्कटराशिविवक्षितं माधवादिषु षट्सु अधिमाससम्भवस्योक्तत्वात् तुलाराशौ दिवसाधिक्याभावेनाधिकमासासम्भवाच्च ।

इत्थं भाधिकमाससंयुक्तसंवत्सरोक्तापवादसामर्थ्यादपि उत्सर्गतः मिथुनराशौ विष्णुस्वाप इति सुष्ठूक्तम् ।
एतदभिप्रायेणैव सर्वत्र विधिर्विधीयते ।
यदुक्तं श्रीमन्मृगेन्द्रे -

श्रावणे तदुपान्ते च नभस्येवोच्यमानवत् ।
शम्भोः पवित्रमापाद्य पूरयेद्वार्षिकं विधिम् ॥

इति ।

श्रीमन्मयेऽपि -

नभस्यनभसोर्मासो पक्षे यो शुक्लपक्षयोः ।
चतुर्दश्यामथाष्टम्यामाषाढाश्चादि मेहनी ॥
इति

श्रीमन्मोहशूरोत्तरेऽपि च -

आषाढस्य सुताधिर्वा श्रावणस्य सुतोऽसितेत्यादीति ।

श्रीमत्सोमशम्भुपद्धत्यामपि -

आषाढादिचतुर्दश्यामथ श्रावणभाद्रयोः ।
सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु च ॥
इति ।

यद्येवमाषाढांश्चादिमेहनीति श्रावणादाषाढमासपवित्रक्रियानिषेधपरत्वाद्विष्णुस्वापस्यैव पवित्रारोहणानि निमित्तत्वात् स्वापात् पूर्वं

भाद्रपदमासादूर्ध्वं च पवित्रारोहणे प्रायश्चित्तश्रवणात्तस्मिन् पक्षे कृत पवित्रारोहणे प्रायश्चित्ताश्रवणाच्च ।
अत एव श्रीमन्मृगेन्द्रे तदुपान्तशब्दो वृत्तिकारेण व्याख्यातः स श्रावण उपान्तो यस्य कालस्य तदुपान्तकालः आषाढपौर्णिमासी चतुर्दशी चेति ।
पौर्णमास्याः परतोऽवस्थितत्वात्तस्यान्तस्याषाढस्य समीपत्वाच्छ्रावणस्तस्या उपान्तो भवतीत्यर्थः ।
अत एव विमलावत्यामुक्तम् -

आषाढादौ ज्येष्ठमध्याधमं कार्यं द्विपक्षतः ।
सुप्तेऽच्युते देशिकाद्यैः प्रत्यब्दं स्याध्यसय ब्रह्मशम्भुरिति काम्यपद्धत्याम् ।
आषाढे श्रावणे वाथ मासे भाद्रपदेऽथ वेति ॥

भोजपद्धत्यां च -

तत्राप्याषाढश्रावणभाद्रपदानामन्यतमे मासि सितासितपक्षयोरेकस्मिन्निति ।
अन्यत्राप्युक्तम् -

आषाढादित्रयो मासाः सुप्त एव जनार्दने ।
शुक्लपक्षेऽथ वा कृष्णे प्रशस्तं सूत्ररोहणम् ॥

इति ।
यद्येवमस्याः पौर्णमास्या आषाढनक्षत्रसंयोगाभावात् कथमाषाढ इति नाम लभ्यते ।

?कार्तिक्यां द्वादश्यामित्यादौ कार्तिक्यादिशब्दपदाषाढस्य मासस्य सम्बन्धिन्याषाढीति अपि व्युत्पत्तिसिद्धेः क चिन्मिथुनराशावपि आषाढनक्षत्रसंयोगसम्भवाच्चाविरोधेन तु कर्कटकराशिस्थाषाढयुक्ता पौर्णमासी ।
अस्याः पूर्वचतुर्दश्येव आषाढाञ्चादिमेहनीति अनेनोच्यते इति केचित् ।
तदयुक्तम् ।
अस्मिन् पक्षे आषाढादिमासत्रयस्य सिद्धे सिंहराशेरेव भाद्रपदत्वेन साधितत्वात् कन्याराशौ पवित्रकरणे दोषश्रुते प्रायश्चित्तश्रवणाच्चेत्युक्ते अत्रापि मासत्रये चाधिकमासे पवित्रारोहणं न कर्तव्यमिति यदुक्तं श्रीमन्मोहशूरोत्तरे -

दीक्षादिस्थापनं चैव पवित्रादिशतक्रतो ।
अधिमासे न कुर्वीत यदीच्छेच्छुभमात्मनः ॥

इति ।

अन्यत्राप्युक्तम् -

मलिम्लुचं परित्यज्य द्विराषाढे विधिर्मतः ।
मलिम्लुचस्तु यो मासो गर्हितः सर्वकर्मसु ॥
इति ।

ततश्चाधिकमासरहिते संवत्सरे मिथुनराशिसम्बन्धनीं शुक्लपक्षचतुर्दशीं सिंहराशिपर्यन्तं

पवित्रोत्सवः प्रारम्भणीयः ।
अधिकमासयुक्ते तु कर्कटकराशिसम्बन्धिनीं चतुर्दशीमारम्भणीयः ।
तत्राप्यधिकमासे नारम्भणीयः ।
उक्तकालादतिक्रमे कन्याराशौ प्रायश्चित्तकरणपूर्वं पवित्रोत्सवारम्भः कार्यः ।
तुलायां तु कृतप्रायश्चित्तेनापि न कर्तव्य इति सिद्धम् ।
पवित्रं विदधीत्यैवेत्यवधारणे नासावश्यं कर्तव्यतामकरणे प्रायश्चित्तं च दर्शयति ।
तथा श्रीमन्मोहशूरोत्तरेऽपि लक्षद्वयजपसङ्ख्यामुपक्रम्योक्तम् ।

दैवतज्ञानतो वापि नाषाढादित्रये कृतम् ।
तद्ग्राह्यैव विनिर्दिष्टं प्रायश्चित्तं पुरन्दर ॥
इति ।

श्रीमत् षट्सहस्रोकालोत्तरेऽपि -

पवित्रारोहणं चैव नाषाढादित्रये कृतम् ।
तद्ग्राह्यैवं विनिर्दिष्टं प्रायश्चित्तं पुरन्दर इति लक्षमघोरस्य ।
तथा चाद्रायश्शुचिरिति सोमशम्भुपद्धत्यामपि -

आषाढादित्रये देवादविधाय पवित्रकम् ।
लक्षद्वयमघोरस्य जत्वा चान्द्रायणं चरेदिति ।

तस्मादुत्तरकाले पवित्रारोपणमाचार्यादिभिरवश्यं कार्यम् ।
उक्तं च श्रीमन्मृगेन्द्रे -

एवमेतत् परं गुह्यं व्रतानामुत्तमोत्तमम् ।
सर्वव्यतिकरो जित्यै कार्यलिङ्गाश्रितैर्नरः ॥

काननस्थैर्गुहायां वा रुद्राराधनतत्परैः ।
गृहस्थैर्देशिकाद्यैश्च भुक्तिमुक्तिफलार्तिभिः ॥

यतः सर्वफलावाप्तिर्विधाय विकले सति ।
सुदुर्लभ तस्मान्नैतत्कार्यं न केनचिदिति ॥

श्रीमत्किरणेऽपि -

एवं पवित्रकं कार्यं शिवाचारयुतैर्नरैरिति ।
कार्पासादिसमुद्भवमिति ।
आदिशब्देन पट्टवल्कलादयो गृह्यन्ते ।
यदुक्तं श्रीमन्मये -

अव्याविद्धं समं श्लक्ष्णं कीर्तितं द्विजकन्यया ।
क्षौमं कार्पासिकं सूत्रं मौञ्जी वा तदसम्भव इति ॥

श्रीमत्सोमशम्भुपद्धत्यामपि -

पट्टवल्कपद्मोत्थं क्षौमदर्भशणोद्भवम् ।
मुञ्जादिसम्भवं सूत्रं पवित्राय प्रशस्यत इति ॥

बिन्दुबाणमिति बिन्दुशब्देनैकस्थानं लक्ष्यते ।
दशस्थानस्थितेन बाणशब्देन पञ्चाशत् सङ्ख्या लक्ष्यते ।
नागचन्द्रकमिति ।
एकस्थानस्थितेन नागशब्देनाष्टसङ्ख्या लक्ष्यते ।
अतो नागचन्द्रशब्देनाष्टादश सङ्ख्या उक्ता भवति ।

अतः पञ्चाशदारभ्य युगह्रासेन चतुश्चहान्यो ज्येष्ठपूर्वकलिङ्गेषु नवसु ग्रन्थयः कर्तव्याः ।
ज्येष्ठज्येष्ठे नवहस्ते लिङ्गे पञ्चाशद् ग्रन्थयः ।
ज्येष्ठमध्ये अष्टहस्तलिङ्गे षड्ग्रन्थयः ।
ज्येष्ठाधमे सप्तहस्तलिङ्गे द्विचत्वारिंशद्ग्रन्थयः ।
मध्यमोत्तमे षड्ढ्स्ते अष्टत्रिंशद्ग्रन्थयः ।
मध्यममध्यमे पञ्चहस्ते लिङ्गे चतुस्त्रिंशद् ग्रन्थयः ।
मध्यमाधमे चतुर्हस्ते लिङ्गे त्रिंशद् ग्रन्थयः ।
अधमोत्तमे त्रिहस्तलिङ्गे षड्विंशत्यो ग्रन्थयः ।
अधममध्यमे द्विहस्ते लिङ्गे द्वाविंशत्यो ग्रन्थयः ।
अधमाधमे एकहस्ते लिङ्गे अष्टादशग्रन्थयो भवन्ति ।
एवं ग्रन्थयः समान्तरालाः कर्तव्याः ।
प्रणवश्चन्द्रमावह्निरित्यादिना तत्र ना च ताः प्रोक्ताः ।
ग्रन्थीनामपि देवताः श्रीमत्सोमशम्भुपद्धत्यामुक्ताः ।

प्रकृतिं पौरुषीं वीर चतुर्थी त्वपराजिता ।
जयान्या विजया षष्ठी त्वजिताथ सदाशिवा ॥

मनोन्मनी ततः प्रोक्ता दशमी सर्वतोमुखीति ।
सर्वौषधिसमालिप्ता इति सर्वौषधिलक्षणम् ।
इति श्रीमन्मोहशूरोत्तर उक्तम् -

मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम् ।

यदि चव्यकमुस्ताश्च सर्वौषधिगणाः स्मृताः ॥
इति ।
अङ्गेष्वथ ब्रह्मणाप्यङ्गलक्षणम् ।
घनाहृत इति ।
कवचावृते सम्पातहुतान्यस्त्रगुप्तानीति पूर्ववन्मूलब्रह्मषडङ्गैः सकृदेव सम्पातः कार्यः ।
पञ्चगव्यनाशनाद्येन विनेत्यादिना निषिध्यमाना पञ्चगव्यादयः पवित्रदानान्ते कर्तव्याः ।
विधिवच्चरुं कृत्वेति पवित्रदिवसप्राप्तचरुपाकसमये उद्धृत्य कुण्डान्तरे शिवावाहनात् पूर्वमेव रक्षितेन शिवाग्निना चरुपा * * कर्तव्यम् सम् ।
शिवस्याग्नेरनुध्यायत्वात् ।
अथवा लीलावत्युक्तप्रकारेण संस्कृतेनाड्यन्तरेण वा कालात्मना त्वयेति अस्य सूत्रस्य वृत्तिः ।
हे देवं मदीये स्थिन्वतानेकालात्मना त्वया यत् कृतं क्लिष्टं परिपूर्णदृष्टं समुत्सृष्टमविक्षितं नानुष्ठितं वा हृदं वा निचाव्य स्वां व सुरमुपेक्ष्य कृतं गुप्तं वा वित्तशाठ्येन प्यरक्षया न कृतं तत्क्लिष्टमप्यक्लिष्टमत् संस्कृतमपि पुष्टं कृतमधुना त्वदिच्छया कृतेन पवित्रेण तु ।
आत्मविद्या शिवैस्तत्त्वैरित्यत्र मूलमन्त्रोच्चारः ।
आत्मतत्त्वे प्रत्यन्ते पलिते प * * * अ नि नेति

श्रीमत्सोमशम्भुवचनात् प्रथमपवित्रदानसमये बिन्दुपरिणामरूपे आत्मतत्त्वे ब्रह्मणा पालिते प्रकृतितत्त्वान्तव्यापिते मायातत्त्वान्तव्यापकस्य तालुपदे प्रकाशमानस्य रुद्रवाचकस्य मकारस्य * * म्मूलोच्चारकाद्द्वितीयः पवित्रदानसमये बिन्दुपरिणामरूपे विष्णुकारणपालिते शुद्धतत्त्वान्तव्याप्तिके विद्यातत्त्वे मूलमन्त्रोच्चार ईश्वरं तस्य व्यापकस्य भ्रूमध्ये प्रकाशमानस्य ईश्वरवाचकस्य बिन्दोरन्तं कार्यम् ।
तृतीयपवित्रदानसमये बिन्दोः प्रमथमरूपस्य शिवतत्त्वान्तव्यापकस्य ब्रह्मरन्ध्रान्ते प्रकाशमानस्यार्धचन्द्रनिरोधिभ्यां सहितस्य नादस्यान्तमुच्चारः कार्यः ।
गङ्गावतारसमये ब्रह्मादिकारणपञ्चकैः परिपालितेषु सर्वतत्त्वेषु व्यापकस्याधः कुण्डलिनीमारभ्य हकाराद्युन्मनान्तस्य निष्कलवाचकस्य मन्त्रोच्चारः कार्यः एवं विधपवित्रचतुष्टयादिति चतुर्मासत्रिमासमित्येकाहत्र्यहादिद्व्यहस्य वृहतस्यापि श्रीमन्मृगेन्द्रे वृत्तौ श्रीमता नारायणकण्ठेनोक्तत्वात् कर्तव्यत्वम् ।
तथा वृत्तिः क्रिया पर्यवसानमेति ।
यावता कालेन क्रिया

समाप्यते द्व्यहेन दिनचतुष्टयेन षडहेन वेति रात्रपञ्चरात्रसप्ताहादिभ्योऽयं विशेष इति प्रायश्चित्ताहुतीर्हुनेदिति मूलाघोरासिभिः व्रतान्ते प्रायश्चित्तहोमान्तं कर्म कृत्वा नित्यपूजावत् पवित्रं च विशेषार्घ्यजलेन मास्तु मे नाथ बन्धकमित्युक्तं मूलमन्त्रेण निवेदयेत् ।
विज्ञाप्य विसृजेदिति ।
यत्किञ्चिद्वार्षिकमित्यादि विज्ञापयेत् ॥

इति पवित्रविधिः ॥

दीक्षा

अथ दीक्षा

दिक्षाशुद्धिरशुद्धस्येति ।
आत्मनो मलमासादिपाशसम्बन्धत्वादशुद्धत्वेन पशुत्वेन शास्त्रेषूक्तखातशुद्धस्यास्याशुद्धिनिर्हरणरूपा स्वसत्प्रकाशकरूपा च शुद्धिदीक्षा ।
तदुक्तं श्रीमत्स्वायम्भुवे - कारणसिद्धिमुक्तो यद्द्व्यक्षरद्व्यर्थमिष्यत इति दीयते ज्ञानसद्भावः क्षीयते

कर्मवासना ।

दानक्षपणयोगाच्च दीक्षाशुद्धिः कृतात्मना ॥

इति च ।
श्रीमन्मृगेन्द्रेऽपि -

अथेष्टसाधनं दीक्षा परमेशमुखोद्गता ।
निगद्यते समासेन द्वित्वादर्थस्य सा द्विधा ॥
इति ।

दीयते ज्ञानसद्भाव इत्यत्र ज्ञानदानदीक्ष्यत्वेनोक्तस्यात्मनः स्वकीययोर्मलसिद्धयोः ज्ञानक्रिययोरभिव्यक्तिरेव ।
तदुक्तं श्रीमन्मतङ्गपरमेश्वरे अथाणो बन्धसोपानपदपङ्क्तिनिवृत्तये ।
व्यक्तये चैव भुङ्क्ते च ।
बुभुक्षुणेति श्रीमत्स्वायम्भुवे च ।

अथात्ममलमायाख्य कर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते ॥

ब्राह्मणः पुण्यदेशोत्थ इति ।
अत्र पुण्यदेशशब्देन श्रुतिस्मृत्यादिसर्वशास्त्रोक्तशुद्धिसम्पूर्णो देश उच्यते ।
ननु ककाराद्यष्टवर्जितत्वमेव देशस्य पुण्यदेशनिरासार्थम् ।
तथा हि स्मृतिः -

सिन्धुसौवीरसौराष्ट्रास्तथा प्रत्यन्तवासिनः ।
कोङ्कवङ्ककलिङ्गाश्च गत्वा संस्कारमर्हति ॥

न क्रौञ्ची कौत्सकाश्मीरादिनिषेधार्थम् ।
काश्मीर-

मण्डलं पुण्यं सर्वतीर्थेष्वरिन्दमेति महाभारतादौ महापुण्यत्वेन कश्मीरादिदेशस्य प्रसिद्धेरिति ।
श्रुतिस्मृत्युक्ताचारप्रचुर्ययुक्तो देश एव पुण्यः ककारादिदेशापुण्यकवाचकस्य वचनस्यापि स्मृतिनिषिद्ध कोङ्कच्छकलिङ्गादिदेशो विषय इति ।
अतोऽस्य तु कारादिदेशनिषेधकस्य कवचनस्य त्रो स्रातो दे भेदसिद्धत्वात् सिद्धान्तशास्त्रस्थैरत्यन्तमादरेन कार्यः ।
शिवभक्तमिति शिवभक्त्यतिशयेन शक्तिपातलक्षणेन ज्ञातमलपरिपाकम् ।
तदुक्तं श्रीमन्मृगेन्द्रे -

येषां शरीरिणां शक्तिः पनहनिवृत्तये ।
तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवन्ति स्थितौ ।
भक्तिश्च शिवभक्तेषु श्रद्धा त जासते विधौ ।
इति सदाचरमिति श्रुतिस्मृत्युक्तवर्णाश्रममाचारसम्पन्नं न तु तदाभानवर्जितानामत्राधिकारः ।
यदुक्तं श्रीमद्रौरवे -

ब्राह्मणे व्रतसम्पन्ने क्षत्त्रिये वेदपारगे ।

वैश्ये तु क्रियया युक्ते शूद्रे शुश्रूषणान्विते ॥

गुरुर्दीक्षां प्रकुर्वीतेति ।
वृत्तिकृद्भिः सद्योज्योतिष्पादैरप्युक्तम् ।
वेदाधिकारिण एवात्रा -

धिकारिण इति शूद्रस्यापि शुश्रूषा शूद्रस्येतरेषां वर्णाधिनामित्यधिकारस्योक्तत्वात् दसावपि वेदाधिकार्येव ।
श्रीमत्पौष्करेऽपि -

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्त्रियस्तथा ।
जलानान्धबको मूका दीक्ष्याः शक्त्यप्रचोदिताः ॥

इति ।

श्रीमन्मृगेन्द्रेऽपि -

दीक्ष्याश्च साधकास्तन्त्रे ये शिवार्पितचेतसः ।
सत्सङ्गनिरताः शूद्रा असत्सङ्गपराङ्मुखाः ॥

शुश्रूषाभिरताः शान्ताःकालेषु परिकीर्तिताः ।
सहिष्णवोऽनुरक्ताश्च गुरोः सर्वात्मना सदा ॥

बहिश्चार्या सुनिष्णाता स्वकर्मपरिरक्षकाः ।
अन्तः करणचेष्टाभिलक्षयित्वा ।
शिवशक्तिकरैः स्पृष्टा विनीता प्रियदर्शना ।

अक्रोधा अप्रिचपला श्रद्धधाना जितेन्द्रियाः ।
तेऽनुग्राह्याः सदा क्रूराः स्वचारपरिपालका ॥

इति ।

श्रीमत्सर्वज्ञानोत्तरेऽपि -

ब्राह्मणक्षत्रियावैश्याः स्त्रीशूद्राश्च नपुंसकाः ।
दीक्षाकाले त्वमीमांस्या ज्ञानकाले विचारयेत् ॥

इत्यत्रादिशब्देनानुलोमः सर्ववर्णा अम्बष्ठादयो विवक्षिताः ।
ननु प्रतिलोमाः कैवर्तकादयः ।
यदुक्तं ज्ञानरत्नावल्यां -

अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ।
तेषां षडध्वशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥

इति ।
ननु एषा दीक्षा मान्वाद्युक्तवत् किं शरीरस्य संस्कारं करोति उत जातेः आहोस्विदात्मनो वा ।
आत्मन एवेति ।
तथा ब्रूमः

श्रीमत्पराख्ये -

संस्कारो यः शुभशैवेन पिण्डे चेतनेन्धिते ।
संस्काराध्यवथ तज्जातिनाधिष्ठानं विना न सा ॥

एकस्मिन् सर्ववर्णानां संस्कारः संस्कृतो भवेत् ।
निराधारा न संस्कार्या साधारा चिदधिष्ठिता ॥

संस्कार्यश्चेतरस्तेन फलभोक्ता स चोदितमिति ।

श्रीमद्रौरवेऽपि -

न शरीरस्य संस्कारो न संयोगविहागयोः ।
न चोत्पत्तिविनाशाभ्यां नापि जातेर्विधीयते ॥

चेतनस्यापि शुद्धस्य क्षेत्रज्ञस्य शरीरिणः ।
ज्ञूभात्मनो कर्तुंस्त संस्कार इष्यते इति ।

एवं शरीरविशिष्टस्यात्मनः संस्कार्यत्वेनोक्तत्वा-

दस्य शरीरिणो विहितो ब्राह्मणादेः संस्कारः तस्यैव संस्कार्यत्वं नेतरेषां प्रतिलोमानां तेषां ससंस्पृश्यत्वादसंव्यवहार्यत्वस्योक्तत्वात् ।
पौषं चैत्रं विना वर्षा इति पौषशब्देन धनूराशिरुच्यते ।
चैत्रशब्देन मीनराशिरुच्यते ।
एवं यथोपपद्यते तथोपपादितं पुरस्तात् पवित्रविधौ देशे वर्णानुगां भूमिमिति देशलक्षणं श्रीमद्ब्रह्मशम्भुभिरुक्तं कुलठैलादिकमित्यादिना वर्णानुगाया भूमेर्लक्षणमुत्तरत्र वक्ष्यते ।
सव्यनिजं स्थानमिति सव्यशब्देन वेदीदक्षिणभाग उच्यते ।
कलायां रागविद्ये चेत्यत्र पुमानिति पुंस्त्वमलमु से सदेशे सशक्ति इति ईश्वराद्यधिष्ठेयबिन्दुपरिणामभूतानि ईश्वरतत्त्वसदाशिवतत्त्व- शिवतत्त्वान्युच्यन्ते ।
त्वधिष्ठाय ईश्वरादयः ।
तेषां परिणा अपरिणामत्वेन लयासम्भवाधारणाभिर्गुणोत्पातैरिति तत्र धारणाशब्देन निवृत्त्यादयः कला उच्यन्ते ।
तदुक्तं श्रीमद्ब्रह्मशम्भुभिः -

पार्थिवी वारुण्याग्नेयी वायवी नाभ इति च ।
शोध्योपरक्तनान्यस्ताः कला एवात्र धारणा इति ।

उद्घातस्य लक्षणं श्रीमच्चतुःशतिकायामुक्तम् -

पञ्चोद्घाताश्च चत्वारस्त्रयो द्वावेक एव च ।
इति ।

अस्य सूत्रस्य वृत्तिः ।
पूरककुम्भकपूर्वं वायोरुद्घातो नादवृत्त्या द्वादशान्तं यावत् प्रेरणमुद्घातः ।
गुणाः गन्धरसरूपस्पर्शशब्दाख्यभूतगुणाः ।
उद्घातः प्राणायामगुणानुरूपैः प्राणायामैः एवं प्रतिप्राणायामं गुणोत्सारणं कृतं भवति ।
नामन्तां शशिनीमूर्ध्व इति सर्वज्ञत्वसर्वकर्तृत्वेनोक्तस्य परमेश्वरस्य करणमन्तरेण सर्वकर्तृत्वाद्ययोगात् कार्यकरणत्वेन स्थितायाः शक्तेर्वाचकत्वेन श्रीमत्स्वायम्भुवादिशास्त्रेषूक्तानां माला ब्रह्मणामीशानसर्वविद्यादीनामित्यादीनामष्टत्रिंशत्प्रकारो विभाग उच्यते ।
शान्तिं पूर्वत्रेत्यादिना व्यपदिश्यमानाः शान्त्यादयो न बिन्दुकलाः ।
किं तु कलाधिष्ठात्र्यः शिवशक्तय एव ।
तदुक्तं श्रीमन्मृगेन्द्रे -

निवृत्तयति भूतानि यया सास्य निवृत्तिका ।
निवृत्तिरिति तत्स्थानं तत्रैशोऽपि निवृत्तिमान् ॥

इत्यादिना ।
तथा च श्रुतिरप्यत्रास्ति -

अतः शक्तिरेव तस्य कार्यकरणेन वस्त्वन्तरम्

अन्तर्यजनादिकमिति ।
आदिशब्देन नाभिकुण्डहोमभ्रूमध्यध्याने च गृह्येते ।
वर्धन्यां शिवास्त्रमित्यनेन वर्णसमूहात्मकस्य पाशुपतास्त्रस्य निरासं सम्पत्त्यै देशकालयोनिरिति पञ्चाष्टकक्षेत्रेष्वन्यतमत्वपरिकल्पनं देशसम्पत्तिः ।
कालसम्पत्तिस्तु आध्यात्मिकस्य कालस्य दीक्षानुगुण्यसम्पादनं भौतिकनैष्ठिकमिति भौतिकः साधकदीक्षार्हः नैष्ठिको मुमुक्षुदीक्षार्हः ।
निरीक्षणादिमिति ।
अत्रादिशब्देन प्रोक्षणताडनाभ्युक्षणशिष्यहृदयपद्मां * * आत्मनिरोधदहनाप्लावनपुरात्मन्यासामृताप्लावनानि निगृह्यन्ते ।
शिवीकृत्य सकलीकृत्य कुम्भस्थण्डिलवह्निरेव सन्धानमाचरेदित्यत्र नाडीसन्धानानन्तरप्रत्येकमाहुतित्रयमपि कर्तव्यम् ।
शक्यमूलादितर्पणमिति मूलमन्त्रतर्पणमाहुतिशतमङ्गानां च दशांशेनेति श्रीमद्भोजदेवेनोक्तत्वान्मूलमन्त्रेण शतं ब्रह्माङ्गैश्च दशांशतो होमः कर्तव्यः ।
बीजाशनाशयोत्थानामित्यादिना विशेष संस्कार उच्यते ।
बीजदोष अस्मिन् गर्भस्थे सति पितृभ्यां कृतदुष्कृतकर्म ।
अत्र श्रुतिरस्ति ।

इति अशनदोषः निषिद्धान्नभोजनम् ।
आशयं दोषम् ।
आहुतित्रयं दद्यादिति प्रत्येकमाहुतित्रयं मूलेन कर्तव्यम् ।
स्रण्येति ।
अङ्कुशमुद्रया केचिद्वागीश्वरीयोनाविति श्रीमत्सोमशम्भुपद्धत्युक्तक्रमस्य विशेषसंस्कारस्य पाक्षिकस्यातिदेशं दत्वा यज्ञोपवीतं चेति यज्ञोपवीतं ब्राह्मणादीनां यथाशास्त्रं देयम् ।
यदुक्तं श्रीमद्ब्रह्मशम्भुपद्धत्यां -

त्रिसूत्रं त्रिवृत्तं श्वेतमेकद्वित्रिसरं क्रमात् ।
शूद्रविट्क्षत्रियाणां च उपवीतं विधीयते ॥

विप्रस्य सोत्तरीयं तु त्रिसरद्विगुणं भवेत् ।

इति ।
स्वजातीशाभिमन्त्रितमिति पुरुषाघोरवामाजा जातीशा ब्राह्मणादिष्वित्युक्तक्रमेण श्रुत्यर्चाध्यानहोमादेरिति श्रुतिरस्ति ।
सिद्धान्तशास्त्रश्रवणम् ।
तपस्विने तत्रेति विशेषसंस्कार जटाभस्म चेति जटाशब्देन जटायां बन्धनीयानि रुद्राक्षाण्युच्यन्ते ।
रुद्राक्षभस्मदण्डकौपीनोपवीतानि प्रत्येकं पात्रेषु निक्षिप्य पात्रान्तरे विधाय सम्पातहोमं हुत्वा उत्तमाङ्गस्थकेशपाशजटा निबध्य तासु शिरोमणि बध्वा

पश्चात् भस्मादिकं दद्यात् ।
कलाशक्तिरिति कला अष्टत्रिंशत्कलाः शक्तयः ।
वामाद्या नव पवित्राणि ब्रह्मपञ्चकम् ।
अत एव सहिता मन्त्रा एकादशतत्त्वानि षट्त्रिंशन्मन्त्रेशा विद्येश्वरा अष्टौ ।
निष्ठा धिया सत इति निष्ठा अपवर्गः ।
विश्लेषायोच्चरन्नामेति देवदत्तादीनाम् ।
सुषुम्ना हृत्पुटामिति ।
सुषुम्नायाः शिवयानत्वात् हृत्सम्पुटितमूलयुक्तेन स्वनाम्ना नमस्कारान्तेन सूत्रे नियोजनं कर्तव्यम् ।
शान्त्यतीतादिकान् पाशानिति आदिशब्देन शान्तिविद्याप्रतिष्ठानिवृत्तय उच्यन्ते ।
तत्त्वलोकादिगर्भिण इति तत्त्वानि शिवादिपृथिव्यान्तानि षट्त्रिंशल्लोकाः ।
अनाश्रितादिकालाग्न्यन्ताः आदिशब्देन वर्णपदमन्त्राः वर्णाः अकारादिक्षकारान्ताः पञ्चाशत्पदानि व्योमव्यापिमन्त्रस्यादिमप्रणवादारभ्यान्तिमप्रणवान्तान्येकाशीति मन्त्राः मूलब्रह्माङ्गानि आदिशब्देन मलकर्मरोधशक्तयश्च गृह्यन्ते ।
तत्र मलो नामात्मनां ज्ञानक्रियाशक्त्योरादित एवावारक अनन्तशक्तियुक्तो नित्यो व्यापको मूर्तः ।
कूटस्थनित्यो द्रव्यस्वरूपः ।
कर्म च

विहितप्रतिनिषिद्धपुण्यापुण्यसंस्काररूपं रोधशक्तिस्तु उक्तानां सर्वेषां पाशानां जडत्वेन स्वतः प्रवृत्तिनिवृत्त्ययोगात् सामर्थ्यसहकारिणी परमेश्वरी शक्तिरेव उपचारात् पाश इत्युच्यते ।

श्रीमन्मृगेन्द्रे -

तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा ।
धर्मानुवर्त्नादेव पाश इत्युपचर्यते ॥

इत्येते कलादयः सर्वेऽपि पाशा इत्युक्तम् ।

श्रीमन्मृगेन्द्रे -

प्रावृतीशबले कर्म मायाकार्यं चतुर्विधम् ।
पाशजालं समासेन धर्मा नाम्नैव कीर्तिताः ॥
इति ।

बिन्दोरपि बिन्दुप्राधानिकग्रन्थत्वादिना पाशत्वमुक्तम् ।
उक्तानां कलादीनां त्रयाणां पाशत्वोपपादनं श्रीमन्मृगेन्द्रे -

कृतं कलावस्थानित्व तत्त्वानि तत्त्वस्थो भुवनव्रज इति ।
निवृत्त्यादिषु कलादितत्त्वानां स्थितितत्त्वेषु भुवनानां तत्त्वानां तु सूक्ष्मदेहरूपतयापि बन्धकत्वम् ।
एवमर्थात्मनां कलादीनां बन्धकत्वं प्रतिपादितम् ।
शब्दात्मनां तु वर्णपदमन्त्राणां बन्धकत्वं कथमुच्यते ।
अर्थानां

शब्दानुवेधमन्तरेण भोग्यत्वानुपपत्तिः ।
शब्दात्मनामपि बन्धकत्वं सिद्धमेव ।
तदुक्तं रत्नत्रयपरिभाषायां -

न सोऽस्ति प्रत्ययोऽणून यः शब्दानवगमाते ।
अनुविद्धमिह ज्ञानं सर्वशब्देन जायते ॥

पुनस्तत्रैव

तामेव वाणीं सूक्ताख्यामाहुरात्मविदो जनाः ।
प्रत्यात्मनियमे ह्येता वृत्तयो बन्धनात्मिका ॥

इति ।
सा भोगसाधनोपाय प्रत्ययोदय हेतुना शब्दानुवेधेन सदा मोहयेदविवेचिते सति इत्थं सामान्येन शब्दमात्रस्य बन्धकत्वमुक्तम् ।
कथं शब्दविशेषाणां पदानां मन्त्राणां बन्धकत्वमुच्यते ।
पदानां तावद्व्योमव्यापिसञ्ज्ञितानामेकाशीतीनां बन्धकत्वं विषयाकृष्टिसाधकानामनन्तानां पदान्तराणां प्रत्येकं शोध्यत्वा सम्भवात् तदधिष्ठात्र्याः शिवशक्तेर्वाचकत्वेन परमेश्वरेण शास्त्रेषूक्तत्वात्तेषां बन्धकत्वम् ।
तदुक्तं रत्नत्रये कलाध्वशक्तिविषये -

एकाशीतिपदा देवी प्रतिसर्गपदक्रमात् ।

अष्टाविंशतिसङ्ख्यैस्तु पदैरत्र प्रतिष्ठिते -

त्यादिना शब्दार्थयोः सम्बन्धस्य ईश्वरसङ्कल्पाधीनत्वात् ।
तदुक्तं तत्त्वत्रयसङ्ग्रहे -

विद्याविद्येशानां सामान्यविशेषधर्मविच्छम्भुमन्त्रानुकारोद्यस्मात् सोऽर्थविदभिधानक्रददृष्ट इति तदेतेषां कलादीनां नवानां बन्धकत्वं निरूपितम् ।
एतेषु कलातत्त्वभुवनवर्णपदमन्त्राध्वत्वं शोधितत्वमात्मनां सतां शिवप्राप्त्युपायत्वं च श्रीमत्स्वायम्भुवे तूक्तम् ।

अथात्मबन्धसन्तान पशुनिवृत्तये य व्यक्तये च शिवत्वस्य षड्विधोऽध्वेह कीर्त्यते ।

तथाध्वा च पदाध्वा च वर्णाध्वा भुवनाध्वकः ।
मन्त्राध्वा च कलाध्वा च विंशत्येकं शिवं पदम् ॥

इति ।

रत्नत्रयेऽपि -

त्यक्त्वैकमेकं सम्प्राप्य कलादिष्वजरामरम् ।
पदमासाद्यते पुम्भिरतोऽध्वा नः कलादय ॥
इति ॥

पदमन्त्रयोः शोध्यत्वेनोक्तयोः कथं शोधकत्वनिवृत्तिं हृदयेनेत्यादिनोच्यते ।
वाच्यवाचकात्मना एतेषां द्विरूपत्वात् बिन्दूद्भूतेन वाचकात्मना

शोध्यत्वं वाच्यात्मना शिवशक्तिरूपेण शोधकत्व एव मुख्यतया मन्त्रत्वं शिवस्य ।
यदुक्तम् -

अनुग्राहकलोकानां शिवो मन्त्र इति श्रुतेः ।
या त्वनुग्राहिका शक्तिः सा मन्त्रत्वमिहागतेति ।

यावद्देवोह्यधिष्ठाता वाच्यमन्त्रात्मका मत इति च ।

शिष्यदेहात्समादायेति ।
एते पाशाः कथं शिष्यस्थाः शिष्यदेहस्तु पाञ्चभौतिकत्वेन प्रसिद्धस्तस्मिन् देहे वस्त्वन्तराणामेतेषां कथं सम्भवः स्यादुच्यते ।
वसुधास्तत्त्वहणः प्रति पुन्नियतकलान्तोऽयं पर्यटति कर्मवशतो भुवनजेषु देहेष्वयं च सर्वेष्विति वचनात् पृथिव्यादीनां कान्तानां त्रिंशतां तत्त्वानां पुर्यष्टकद्वारेणावस्थानमुक्तम् ।
एतेषां कारणत्वेन तदापोषिकतया च मायायाः सम्भवः शुद्धानां पञ्चादीनां वस्तूनां मान्त्रशरीरे सम्भवः ।
शास्त्रेषु श्रूयते चन्द्राग्निरविसंयुक्ता आद्या कुण्डलिनी तु या ।
हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारवत्स्थितेति ।

अस्य सूत्रस्य वृत्तौ मायेयेन पुर्यष्टकसम्बन्धात् पूर्वमेव नादात्मकपुर्यष्टकसम्बन्ध उक्ता यथा सा चाद्या प्रथममहर्मुखे पुंसा सम्बध्यते ।
अनन्तरं पुर्यष्टकमित्यादितत्कारणतया बिन्दोः सम्भवत्कार्यत्वेन

च कलानां शुद्धतत्त्वभुवनादीनां सम्भवः ।
कर्मणां तु स्थूलसूक्ष्मात्मशरीरहेतुतया सम्भवः ।
अस्य शरीरणो ज्ञानक्रियाच्छादकतया मसलस्य सतिरोधशक्तेः ससर्वप्रवृत्तिहेतुत्वेन सिद्धिः ।
अतः शरीरे सर्वेषामपि स्थितिः सम्भवतीति उद्दिष्टपाशनवकं नमस्कारान्तरस्वस्वनामभिः सूत्रे संयोजनं स्वाहान्तैरेतैर्नामभिर्नौ प्रत्येकस्त्रिभिराहुतिभिस्तर्पयेत् ।
हृत्पुटोत्माबीजनेति उक्तस्य संयोजनां ॐ हां हौं हां शान्त्यतीतकलापाशाय हा हूं फट् अनेन विश्लेषणम् ।
ॐ हां हौं हां शान्त्यतीतकलापाशं गृह्णाति इति ग्रहम् ।
ॐ हां हौं हां शान्त्यतीतकलापाशाय स्वाहा इति तर्पणम् ।
ॐ हां ह्यैं हां शान्त्यतीतकलापाशाय हां हुं फट् इति विश्लेषणम् ।
ॐ हां हें हां शान्त्यतीतकलापाशं गृह्णामीति ग्रहणम् ।
ॐ हां ह्यैं हां शान्तिकलापाशाय नमः इति संयोजनम् ।
ॐ हां ह्यैं हां शान्तिकलापाशाय स्वाहा इति तर्पणम् ।
ॐ हां हूं विद्याकलापाशाय हं हुं फडिति विश्लेषणम् ।
ॐ हां ह्रूं हां विद्याकलापाशं गृह्णामीति ग्रहणम् ।

ॐ हां ह्रूं हां विद्याकलापाशाय नमः इति संयोजनम् ।
ॐ हां ह्रूं हां विद्याकलापाशाय स्वाहेति सन्तर्पणम् ।
ॐ हां ह्लीं हां प्रतिष्ठाकलापाशाय हः हुं फडिति विश्लेषणम् ।
ॐ हां ह्लीं हां प्रतिष्ठाकलापाशं गृह्णामीति ग्रहणम् ।
ॐ हां ह्लीं हां प्रतिष्ठाकलापाशाय नमः इति संयोजनम् ।
ॐ हां ह्लीं हां प्रतिष्ठाकलापाशाय स्वाहेति सन्तर्पणम् ।
ॐ हां ह्लां हां निवृत्तिकलापाशाय हः हुं फडिति विश्लेषणम् ।
ॐ हां ह्लां हां निवृत्तिकलापाशं गृह्णामीति ग्रहणम् ।
ॐ हां ह्लां हां निवृत्तिकलापाशाय नमः इति संयोजनम् ।
ॐ हां ह्लां हां निवृत्तिकलापाशाय स्वाहेति सन्तर्पणम् ।
ॐ कर्मपाशाय हः हुं फडिति विश्लेषणम् ।
ॐ हां कर्मपाशं गृह्णामीति ग्रहणम् ।
ॐ हां कर्मपाशाय नम इति संयोजनम् ।
ॐ हां कर्मपाशाय स्वाहेति तर्पणम् ।
ॐ हां मलशक्तये हः हुं फडिति विश्लेषणम् ।
ॐ हां मलं गृह्णामीति ग्रहणम् ।
ॐ हां मलशक्तये नम इति संयोजनम् ।
ॐ हां मलशक्तये स्वाहेति तर्पणम् ।
ॐ हां रोधशक्तये

हः हुं फडिति विश्लेषणम् ।
ॐ हां रोधशक्तिं गृह्णामीति ग्रहणम् ।
ॐ हां रोधशक्तये नमः इति संयोजनम् ।
ॐ हां रोधशक्तये स्वाहेति तर्पणम् ।
ॐ हूं हों ह्रूं शान्त्यतीतकलापाशं हुं फट् ॐ हां हूं ह्यैं हूं शान्तिकलापाशाय हुं फट् ।
ॐ हूं ह्रूं हूं विद्याकलापाश हुं फट् ।
ॐ हूं ह्लीं प्रतिष्ठाकलापाशाय हुं फट् ।
ॐ हूं ह्लां हूं निवृत्तिकलापाशाय हुं फट् ।
ॐ हः ह्लीं प्रतिष्ठा कलापाशाय हुं फट् ।
ॐ हः हूं विद्याकलापाशाय हुं फट् ।
ॐ हं ह्यैम् एतैरेव नमोऽन्तर्मन्त्रैरन्तः सूत्रैः प्रविश्य एतैरेव बध्नामीत्यन्तेन बन्धयेत् ।
पाशानां ग्रहणं बन्धनेन ग्रहणं वशीकारः ।
बन्धनं पुरुषं प्रति निश्शेषस्यापारप्रतिषेधनं पङ्क्तियुक्तारणेति पङ्क्तिशब्दे शदशसङ्ख्योच्यते ।
विंशत्युत्तरेणेत्यर्थः ।


इत्यधिवासविधिः ॥

दीक्षाविधिः

नाडीसन्ध्यादिकमिति ।
आदिशब्दे प्रत्यधिकरणम् आहुतित्रयकरणं गृह्यते ।
संहारेण ततो व्याप्तिमिति ।
अत्र निवृत्तिकलाया व्याप्तत्वभुवनवर्णपदमन्त्रपदत्वादर्शितः ।
श्रीमत्कालोत्तराद्युस्ता बीजानाडी वाढ्वी विषयगुणावस्थाकारणेश्वराधि तारश्च प्रवाच्याः ।
तत्र बीजे आकारलकारेण नाड्यौ इडापिङ्गलाह्वये वायूप्राणापानौ ये घ्राणोपस्थितौ गन्धविषयगन्धरसरूपस्पर्शशब्दा गुणाः अवस्थाः ।
जाग्रत्कारणेश्वरो ब्रह्मा वाच्यमन्त्ररूपे सद्योजाताधिष्ठाता कर्मारब्धतरोरन्यन्मुमुक्षोस्तु विशोधयेदित्यत्र समयाचारिकेष्टापूर्तानि कर्मणामप्यशोध्यत्वमङ्गीकर्तव्यमिति ।
तदुक्तं सोमशम्भुना -

सबीजायां तु दीक्षायां समयाचारपाशतः ।

देहारम्भककर्माच्चेत्यादिना वियोगाज्ज्येष्ठया कार्या इति ।
ज्येष्ठा वामा रौद्रीणां विधोक्तद्योनि यो ध्यानाख्य सु कर्मसु करणत्वमनुसन्धेयम् ।
शिवं विज्ञाप्य गर्भाणामिति ।
अत्र जननं तासु कासु योनिषु स्थूलशरीराभिव्यक्ति ।
अधिकारस्तु तत्र भोक्तृत्वसामर्थ्यम् ।
भोग्या-

कारिणात्मसंविदुदयः ।
तदेकरसतानिष्कृतिस्तत्त्वशुद्धिरिति पञ्चिकायामुक्तत्वात् तात्विकानां जननाधिकभोगलयानां निवृत्तितत्त्वकारणात्माविशेषितस्य तत्त्वस्य एनं प्रत्यङ्कुराभावः ।
भूर्लोके तत्र संस्कारा नापाद्याम्नायचोदिता एते संस्काराः ।
पूर्वमेव कृतसंस्कारस्य किमर्थं कर्तव्यत्वेन विधीयते ।
अद्यतनत्वेन विहितास्संस्कारैस्तच्छरीरिणः क्रियते ।
किं तु शक्तिपातयोगेनानुगृहीतानां स्त्रीशूद्राणामपि भाष द्विजशरीरापेक्षया क्रियन्त इति श्रीमन्मतङ्गपारमेश्वरवृत्तौ ।
न न दीक्षितानां दीक्षितोत्तरं विशेषशास्त्रविहितानुष्ठानमेव कर्तव्यम् उत सामान्यशास्त्रविहितानुष्ठानपूर्वमेव विशेषशास्त्रानुष्ठानं कर्तव्यम् ।
अत्रोच्यते ।
तत्र सामान्यविशेषलक्षणं श्रीमन्मोहशूरोत्तरे प्रोक्तम् ।
यथा श्रुतिस्मृतिपुराणसामान्यश्रीमत्कामिकादयो विशेषशास्त्रम् ।
वेदादीनां सामान्यत्वं ब्राह्मणादिगाधिमात्रेणैवाधिकारात् ।
कामिकादीनां विशेषत्वं तेषां ब्राह्मणादीनां मलपरिपाकशक्तिपातपूर्वे

दीक्षोत्तरकालमेवाधिकारात् ततः सामान्याचारपूर्वमेव विशेषशास्त्रविहितानुष्ठानं कर्तव्यम् ।
यदुक्तं श्रीमत्स्वायम्भुवे सन्ध्यापटले -

कृत्वाचम्य पुरा ब्राह्मी भजेत्सन्धिर्द्विराश्रमीमिति अस्य सूत्रस्य वृत्तिः आचान्तश्च उदङ्मुखः प्राङ्मुखो वेदसिद्धामिति आपोहिष्ठादिभिर्मन्त्रैराम्नातमार्जनविधिं सन्ध्यां भजेत् ।
उपास्ति द्विराश्रमीति ब्रह्मचारि गृहस्थवानप्रस्थपरिव्राजकाख्याश्रमचतुष्ट्यादन्यतमस्मिन्ना- श्रमे वर्तमानश्रौतक्रियाकर्माभ्यनुज्ञातपरमेश्वरक्रिया- नुष्ठानश्च द्विरिति द्वौ वारौ तामिति तिष्ठेत् ।
वेदसिद्धसूत्रानुष्ठानादनन्तरं शैवः सन्ध्यां वन्देतेत्यर्थः ।
श्रीमत् षट्सहस्रिकायां -

प्राणायामत्रं कृत्वा ततः सन्ध्यां समारभेत् ।
वैदिकीं तु पुरा कृत्वा ततः शैवीं समभ्यसेत् ।
तत्र विद्यात्रयं कार्यम् ।
द्विचतुर्भिर्विशेषतः ।

वैश्वदेवं तथा सन्ध्यां शूद्रस्वूक्त्वा त्रये हि ॥

ब्रह्मशम्भुपद्धत्यां -

स्नात्वोत्तीर्य पुरा ब्राह्मीं भजेत् सन्ध्यां द्विराश्रमी ।
इति एवं सन्ध्यामधिष्ठाय गर्भाणामिति ।
अत्र जननकृत्योक्तं कर्मान्तरविषयेऽपि ।
यदुक्तं श्रीमन्मतङ्गपारमेश्वरे -

आचारो द्विविधो मार्गे चरतो भावितात्मना ।
दृष्टादृष्टफले प्राप्तिरमोघा सम्प्रवर्तते ॥

लौकिकः सम्प्रसिद्धोऽयं सोऽविरोधनिदर्शनात् ।
पाल्यो निःश्रेयसे चैव सम्प्रतीश्चाप्यनिन्दितैः ॥

शैवोऽन्यत्र बोद्धव्यः प्रयत्नात् साधकात्मभिः ।
चास्मिञ्छैवेऽधिकारे च लौकिकोऽङ्गत्वमाप्नुयात् ॥

तथापि पालनीयोऽसौ यस्माद्दोषो न पालिते ।

त्यक्ते वाथ गुणः कश्चित् सामान्यस्तेन चोच्यते ।

अस्य वृत्तिः लौकिकः सम्प्रसिद्धो इत्यादयोऽयं ब्राह्मणादिधर्मभेदेनाचारः ।
सोऽयमुत्पत्तिविशिष्टश्रुतिस्मृतिशास्त्रमूलत्वेन प्रसिद्ध एव ।
दीक्षितैर्हि द्विजातिभिरेव सव्यवहारो विवाहादिः कर्तव्यः ।
तन्निमित्तमपि पाल्य इति ।
न चेत्यापि ।
यद्यप्यस्मिन्विशेषविशेषविहिते नित्यादिकमात्मन्याचारे लौकिकोऽसौनाङ्ग तथापि

पुरुषार्थतया पालनीया एव ।
तस्माद्दोष इति नकारोऽत्र निषेधेत ।
तस्मिन्नपालिते समयात्मके गुणः कश्चिन्नेति सम्बध्यते ।
किं तु दोष एव ।
तस्येह पाल्यत्वेनाभ्यनुज्ञातत्वेनेहत्वे निषेधः सिध्यति ।
कर्मसमानत्वादत एवायमाचारः सामान्य उच्यते ।
अत्रापि पाल्यत्वेनाभ्यनुज्ञातत्वादिसामान्याचारसम्पन्न इति सूत्रम् ।
अस्य वृत्तिः श्रुत्यादिसामान्यविधाने भवः सामान्यश्च उभयविशेषाभिहितो यः समयाचारस्तेन च सम्पन्नः सामान्यविशेषक्रियानुष्ठीम् इत्यर्थ इति ।
यदुक्तं श्रीमत्सर्वज्ञानोत्तरे -

द्वावेवाश्रमिणौ शैवे गृहस्थब्रह्मचारिणौ ।
लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि ॥

गृहस्थब्रह्मचारित्वं सञ्ज्ञामात्रं तु केवलम् ।
पारमार्थिक्रमे तेषां नाश्रमो नाश्रमक्रिया ॥

यदर्थं कृतकर्माणो नियुक्ताः परमे पदे ।
यदर्थं नाश्रमाः प्रोक्ताः शिवशास्त्रसमाश्रिताः ॥

वृत्तिः - यस्य मोक्षात्मनः फलस्यार्थमेते कृतदीक्षाकर्माणः शिष्याः परस्मिन् पदे योजिताः शिवशास्त्रं संयगाश्रयन्निति शिवशास्त्रसमाश्रिताः ।

तेषां तदर्थं तस्य प्राप्त्यर्थं मनाश्रमप्राप्तिरिति ।
तदाश्रमक्रियानुष्ठानं च शास्त्रेषु श्रूयते ।
किं तु विहिततया तदनुष्ठाय प्रत्यवायपरिहारार्थमेव श्रूयते ।
आज्ञाविलङ्घनात् प्रोक्तं क्रव्यादत्वं शतं समाः इति वर्णाश्रमाचारात्मनः सापि न लङ्घयेदिति च ।

यद्यपि स्यात्त्रिकालज्ञः त्रैलोक्याकर्षणक्षमः ।
तथापि लौकिकाचारं मनागपि न लङ्घयेदिति ॥

च ।
पुनस्तत्रैव -

पूर्वसन्ध्यां जपं होमं यच्च कर्मक्रमागतम् ।
स्थित्यर्थमाचरेत् किञ्चित् सततं मन्त्रतत्परम् ॥

अस्य वृत्तिः - पूर्वाश्रमसम्बन्धश्रुत्यादि विहितं सन्ध्यावन्दनहोमादिकं क्रमागतमन्यत्तदप्यनित्यम् ।
शिवपूजनादिकं फलाद्यनुसन्धानेन लौकिकव्यवहारस्थ इत्यर्थः ।
अनुष्ठानानानिबन्धनप्रत्यवायपरिहारार्थं चरेत् ।
यच्छ्रूयते - यस्मिन्नाश्रमेति तिष्ठन् प्रप्ते दीक्षां शिवात्मिकाम् ।
स तस्मिन्नेव सन्तिष्ठन् शिवधर्मं च पालयेत् इति ।

नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया ।

मोक्षार्थी स प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
इति ।

यस्मिन् वर्णे स्थितो दीक्षां प्राप्तो देहि ना?त्मिकाम् ॥

तत्रैव संस्थितो नित्यं शिवधर्मं च पालयेत् ।
ये च वर्णाश्रमाचाराः प्रायश्चित्ताश्च लौकिकाः ॥

सम्बन्ध्या देशधर्माश्च प्रसिद्धान्यपि चारयेत् ।
गर्भाधानादितः कृत्वा यावदुद्वाहमेव च ॥

कामं तु वैदिकं कर्म पश्चाच्छैवं तु नान्यभाक् ।

अस्य वृत्तिः -

च शब्दात् गृहस्थाश्रमिणो लोकमार्गस्था लङ्घयेयुर्न लौ *?

आचारदीक्षितास्तच्च अकुर्वीरन् लोकसंवृत्तेरिति स्वायम्भुववचनं श्रीमत्किरणमृगेन्द्रमतङ्गस्वायम्भुवसूक्ष्मस्वायम्भुवरौरवा दिषु सर्वेषु शास्त्रेषु गर्भाधानादयः श्रुत्युक्तसंस्कारा दीक्षामध्ये शिवमन्त्रैर्भविष्यत् ब्राह्मणजातिप्रदकर्मसंहारायोक्ताः ।
श्रीमत्किरणवृत्तिकृतभूतिकण्ठाचार्येण दीक्षायामुक्तम् ।
अष्टाचत्वारिंशत् संस्काराः गर्भाधानादयो भेदेन कर्तव्याः ।
तदन्तर्भावेनैतच्छरीरविषया अपि कथं चिदेवामानुषात् प्रतिबला त्वत् कृत-

करिष्यमाणाश्चानुसन्धेया इति श्रीमत्किरणवृत्तौ ।
श्रीमत्सद्योज्योतिः पादैर्मोक्षकारिकायामुक्तम् -

न चान्येन प्रमाणेन संरुद्धस्तम्भगोचरम् ।
श्रोत्रियैरप्यतो ग्राह्यं तत्फलादिकसाधनम् ॥

न तु प्रत्यक्षेण वानुमानेन वास्य बाधेत्युक्तम् ।
प्राग्भोगप्रकरणे येनाग्निना सिञ्चेदित्यारि वा प्रामाण्यं स्यादिति सर्वमविरुद्धम् ।
पररश्रेयोहेतुवेदविद्भिरन्यैश्च प्रमाणमेतद् ग्राह्यम् ।
श्रीमद्रौरववृत्तौ चाचार्येणोक्तं शैवे समग्रदीक्षासंस्कृतस्याप्युक्तम् ।
इति ।
वर्णाश्रमाचारान्मनसापि न लङ्घयेदिति श्रीमत्सोमशम्भुना ध्वन इत्यादि अनर्हत्वमिति मोक्षानर्हत्वम् एतदेवाह ।
शैवेनेत्यादि ।
अत एव प्रतिबन्धनिवृत्तिसामर्थ्याद्दीक्षोत्तरमपि वैदिकाः संस्कारफलाद्यननुसन्धानेन केवलं विहितत्वादनुष्ठेयमिति सिद्धम् ।
तदुक्तम् इति वर्णाश्रमाचारान्मनसापि न लङ्घयेदिति एवमादिभिर्वचनैः श्रौतस्मार्तात्मिकं कर्म दीक्षितैर्ब्राह्मणादिभिरपि दीक्षोत्तरकालमनुष्ठेयमेव ।

ननु करणीयत्वेनोक्तयोः श्रौतस्मार्तयोः कर्मणोः पशुबीजवधसाधनत्वेन क्षयातिशयत्वेन चाशुद्धिरुक्ता साङ्ख्यादिभिर्दृष्टवदानुश्रविकः सभ्यविशुद्धक्षयातिशययुक्त इति ।
अतः कथं मुमुक्षूणामेतत्कर्मद्वयमनुष्ठेयत्वेनोच्यते ।
अनयोरनुष्ठेयत्वे त्रयो हेतव उक्ताः ।
पशुबीजबधपूर्वकत्वादशुद्धिक्षयसतिशयत्वेन च ।
पशुबीजसाधनतया शुद्धत्वेनोक्तस्याग्निहोत्रादेः श्रौतस्य कर्मणः प्रत्युत परमेश्वरेण शुद्धिरुक्ता ।
तदुक्तं श्रीमन्मतङ्गपारमेश्वरे -

अग्निहोत्रादिभिर्होत्रैस्तथा चान्द्रायणादिभिः इति ।
क्षयसातिशयत्वे तु फलानुसन्धानेनानुष्ठातॄणामदीक्षितानां सिद्धेः ।
अत एव फलाननुसन्धानेन केवलं विहितत्वेनानुष्ठातॄणां ते न भवत इति ।
यदुक्तं -

नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया ।
मोक्षार्थिनः प्रवर्तेत तत्र काम्यनिषिद्धयोरिति ॥
अतः फलाननुसन्धानेन प्रत्यवायपरिहारतयावश्यं करणीयावेव ।
ननु नित्याचारवत् श्रुतिस्मृत्युक्ते अपि कर्मणि अनुष्ठेये इत्युक्तम् ।
तत्रस्थात्तस्य

कर्मणः आज्यचर्वादिसाधनत्वेनाजहिंसापूर्वधर्मत्वात् सम्भवात् कर्तव्यत्वयुक्तम् ।
श्रौतस्य त्वग्निष्टोगादेरग्निष्टोमीयपश्वालम्भनसोमपानाद्युच्छिष्ट- सम्पर्काद्याः धर्मत्वशङ्कय करणीयम् ।
करणीयत्वं प्राप्तम् ।
नाधर्माधर्मयोः साधनलक्षणं स्वरूपलक्षण आम्नायस्मृतिभ्यामेव जायत इत्युक्तं श्रीमत्स्वायम्भुवे - धर्मसाधनसंवित्तिराम्नायादेव जायते ।
तन्मूलत्वात् स्मृतेश्चापि ताभ्यामेव परस्य वेति श्रुतिस्मृतिविहितयोः कर्मणोः धर्मत्वस्य प्रतीतेर्निषिद्धयोः कर्मणोरधर्मत्वप्रतीतेश्च श्रुत्या च ज्योतिष्टोमाङ्गभूतपश्वालम्भनस्य धर्मसाधनत्वेनोक्तत्वात् ।
दीक्षितैरपि ब्राह्मणादिभिरग्निष्टोमादयः कर्तव्या एव ।
उच्छिष्टसम्पर्कशङ्कयापि न सोमेनोच्छिष्टा भवतीति पश्वालम्भनसूत्रवचनादेव निरासो वेदितव्यः ।
किं च अश्वमेधमहायज्ञे बहवः पापकर्मिणः दर्शनादेव मुच्यन्ते तद्वन्माहेश्वराकृताविति श्रीमद्रौरवश्रुतेः शिवण्डलदर्शनादश्वमेधयज्ञदर्शनस्यापि पापमोचकत्वश्रुतेरश्वमेधादौ

तस्य कर्मणः पुण्यत्वमदण्डवारितमेव ।
तस्मात्प्रत्यवायपरिहारार्थम् अग्निष्टोमादयः करणीयाः ।
न तु दीक्षोत्तरं शिवलिङ्गार्चनवत् परमोक्षप्राप्तिसाधनतया तदुक्तं श्रीमत्सर्वज्ञानोत्तरेन मुख्यया वृत्त्या स्कन्दलोकधर्मान् समाचरेदिति ।
ननु श्रीमन्मृगेन्द्रे -

भौवन्यां पुरतः क्षेत्रात् प्राक्स्थूलादमराष्टकात् ।
आम्नायोदितसंस्कारप्रतिबन्धं निवर्तयेदिति ॥

अनेन सूत्रेण आम्नायोदितसंस्काराणां प्रतिबन्धकत्वमुक्तम् ।
श्रौतस्मार्तयोः कर्मणोः समानत्वादष्टकापर्वणपितृमेधैकोद्दिष्टादिष्वपि प्रसज्यते ।
अतस्तान्यप्यविशेषान्न करणीयानि इहत्विति चेन्नैवम् ।

गृही च वैदिकाचारं लङ्घयेन्न कदाचन ।

श्रौतस्मार्तात्मकं कर्म विप्रादीनां यथाक्रमम् इत्यादिभिर्वचनैः दीक्षोत्तरमप्येतेषां संस्काराणामवश्यं कर्तव्यता प्रतीयते ।
स्मार्तमेव कर्तव्यं न श्रौतमिति विशेषशास्त्रे निषेधा भावात् सर्वेऽप्यविशेषेण प्रत्यवायपरिहारतया करणीया एव च तत्प्रतिबन्धनिवृत्तिरपि

दीक्षायामेव कृता ।
तदुक्तमस्य सूत्रस्य वृत्तिकृता नारायणकण्ठेन शैवेन संस्कारकलापेन वक्ष्यमाणवन्निवर्तितेन प्रतिबन्धहेतुश्रुतौ संस्कारव्रातो शैवे दीक्षाफलविघ्नभावं भजत इति दीपिकायामप्युक्तमत एव प्रतिबन्धनिवृत्तिसामर्थ्यात् दीक्षोत्तरमपि वैदिकाः संस्कारः फलात्माननुसन्धानेन केवलं विहितादनुष्ठेया इति सिद्धमिति ।
मतङ्गपारमेश्वरे तु -

वेद्यामन्तर्गतं कर्म भक्तोक्तं सितासितम् इति सूत्रे वेदिगतस्य कर्मणः सितासितत्वमुक्तम् ।
तस्मात् तादृशस्य कर्मणः कथं कर श्रियत्वमुच्यते ।
मतङ्गपारमेश्वरवृत्तौ श्रीमद्रामकण्ठाचार्येण वेद्यामन्तर्गतमित्यादिसूत्रस्य वृत्तौ अश्रुतिरस्ति ।
अन्तवेद्यनुष्ठीयमानमग्निहोत्रवैश्वदेवात्मकं सितासितं यद्भवतोक्तमिति वदताग्निहोत्रस्य सितत्वमुक्तम् ।
अतः अग्निहोत्रादेः सितत्वात् कर्तव्यं तस्माद्दीक्षोत्तरमपि फलाद्यननुसन्धानेन प्रत्यवायपरिहारार्थं जात्याश्रमानुरूपं पवित्रमेधपर्यन्ताः संस्कार श्रीमत्स्वायम्भुवमृगेन्द्ररौरवकिरणसर्वज्ञानोत्तरादिभिः

सिद्धान्तशास्त्रेण ॐ हौं हः शिवाय हुँ फडिति अग्नावाधारशक्त्यावस्थानं पूजनं स्वनाम्ना आहुतित्रितयमन्याध्वव्याप्तिपूर्वकलानुसन्धानं सूत्रादादाय कलाया अग्नौ नियोजनं सम्पूजनं स्वनाम्ना आहुतित्रयं तत्रस्थं कर्मणा युगपत् कृतानुसन्धानकारणेश्वरावाहनं सम्पूज्य स्वनाम्नाहुतित्रयेण तर्पणं तद्विज्ञापनं वागीश्वर्यावाहनं सम्पूजनमाहुतित्रयं तर्पणं शिष्यसंयोजनाय परमेश्वरप्रार्थनं शिष्यस्यास्त्रेण प्रोक्षणं ताडनं रेचकेण शिष्यदेहप्रवेशनमस्त्रेण विश्लेषणम् ।
शिवमन्त्रयुक्तेनात्ममन्त्रेण स्वशरीरेण प्रवेशनं वागीश्वरीयोनिनिक्षेपणं मनसा तत्तद्योनिषु संयोजनं हृदयेनाहुतित्रयं संयोगनिष्पत्तये परमेश्वरविज्ञापनं गर्भाधानं वामेनाहुतित्रयं परमेश्वरविज्ञापनं केवलास्त्रेण सप्तवारजप्तया कर्तर्या हुं फडन्तेन शस्त्रेण पाशच्छेदनं ते नैव विमर्दनं वर्तुलीकरणं ते नैव मन्त्रेणाहुतिदानं वागीश्वर्या हृदयमन्त्रेण बिन्दुप्रक्षेपणमूलेनाहुतित्रितयदानं प्रतिकलं सामान्येन कुर्यात् ।

निर्बीजदीक्षायां तु ब्राह्मणमावाह्य सम्पूज्याहुतित्रितयेन सन्तर्प्य निरोधाय विज्ञाप्य शुल्कप्रदानं हृदयमन्त्राहुतिदानेन कर्तव्यम् ।
एवं प्रतिकलमनुसन्धेयम् ॥

अथ प्रतिष्ठाकला

अस्यामपि पद्धत्युक्तव्यतिरिक्तानि श्रीमत्कालोत्तरोक्तानि व्यापारान्तराणि लिख्यन्ते ।
गजारी हस्तिजिह्वा चा नाड्यौ समानोदरनामावायूरसना पायू इन्द्रियो विषयो रसं रसनारूपस्पर्शशब्दा गुणा मकारवकारौ बीजेऽवस्था स्वप्तनं कारणम् ।
विष्णुवामदेवोऽधिष्ठाता ॥

अथ विद्याकला ॥

पुंसि सर्वेन्द्रियाख्यभुवनं भुवनेश्वरश्च पुंस्त्व मलाधिष्ठातृत्वेन रागतत्त्वे अवस्थितौ ज्ञेयौ ।
जडरूपस्य पुंसञ्ज्ञस्य तत्त्वस्याभावापूर्वकलावदनानुक्तत्मनि वसूनि लिख्यन्ते ।
पूषा च हस्तिजिह्वा च नाड्यः करा रेफौ बीजस्य माननगौ ।
वायुविषयो रूपम् ।
पादचक्षुषीन्द्रिये रूपस्पर्शशब्दगुणाः ।

अवस्था सुषुप्तिः कारणं रुद्रः अधिष्ठाता घोरः ।
विद्याकलाशुद्ध्यवसाने पुंस्त्वमलशुद्ध्यर्थं सूक्ष्मदेहविशुद्धये च मूलेन द्विशताहुतिः कर्तव्या ।
तदुक्तं गुरुभिः -

पुंस्त्वमलशुद्ध्यर्थं सूक्ष्मदेहविशुद्धिदम् ।
जुहुयाद्द्विशतं मूलं विद्याशुद्ध्यवसानकः ॥
इति ॥

अथ शान्तिकला ॥

पूर्ववदत्रापि व्यापारान्तराणि वस्तून्युच्यन्ते ।

अलम्बुवायशा नाड्यौ वायू क्रकरकूर्मकौ ।
इन्द्रिये त्वक्करौ विषयस्तु स्पर्शगुणौ बिन्दुयकारौ बीजे कारणमीश्वरम् अवस्था तुर्या ।
तत्पुरुषोऽधिष्ठाता ।
पूर्णं विद्याविसर्जनमिति ।
अत्र विद्याशब्देन वागीश्वर्यभिधीयते ॥

अथ शान्त्यतीतकला

पूर्ववदनुक्तानि वस्तून्यभिधीयन्ते ।
कुहशङ्खिन्यौ नाड्यौ देवदत्तधनञ्जयौ ।
वायू वचनश्रोत्रेन्द्रिये ।
विषयः शब्दः ।
गुणोऽपि शब्दः ।
अवस्था तुर्यातीता ।
नादहकारौ बीजे

कारणमधिकारावस्थः सदाशिवज्ञः सदाशिवः ।
ईशानोऽधिष्ठाता कलापञ्चके भोगभोजनं मरणोदीक्षेत्युक्तत्वात् ।
भोगस्य च कर्मनिमित्तत्वात् कर्म च भूतादिरूपेण त्रैविध्येन स्थितत्वात् तेष्वारब्धकार्यस्य कर्मणो भोगतः क्षयात् तदितराशयस्य कर्मणोशोध्यत्वे सति आशयकर्मगतानां कर्मणां शिष्यदेहात् सूत्रे संयोज्य शोध्यत्वमुक्तम् ।
भविष्यतां कर्मणां शोधनसमये ससाधनफलानां व्याप्तिरनुसन्धेया ।
तदुक्तम् श्रीमन्मृगेन्द्रे -

लोकाम्नायातिमार्गाभिसन्धिः शैवात्मकान्यणोः ।
कर्माणि क्षेत्रकादीशगणकाङ्गान्तिकानि तु ॥

कर्म तत् कृच्छ्रवैराग्यजननानि त्रिषु धामसु ।
योगविज्ञानजन्यानि परतः परतो मुन ।
इति ॥

अत्र कूपतटाकादिकारणं परं पूर्तमुच्यते ।
तत् ।
कृच्छ्रशब्देन सोमसंस्थाद्यात्मकमिष्टमुच्यते ।
त् ॥
वैराग्यशब्देनाध्यात्मिकान्यभिसन्धिरूपाणि पातपञ्जलासन्ध्यानि कर्माण्युच्यन्ते ।
योगनामकानि श्रीपाशुपतादिसाध्यानि कर्माण्युच्यन्ते ।

योगनामकानि श्रीपाशुपतादिसाध्यानि कर्माणि उच्यन्ते ।
विज्ञानशब्देन जन्यानि शैवात्मकानि सदाशिवभुवनप्रापकानि साधकविषयाणि कर्माण्युच्यन्ते ।
एतेषां प्राप्यभूमिः कालाग्निरुद्रात् प्रभृति पञ्चाष्टकावधिपञ्चाष्टकादारभ्य गुणतत्त्वादूर्ध्वं पुरुषतत्त्वान्तं तदूर्ध्वं मायान्तं तदूर्ध्वं सदाशिवभुवनान्तं व्याप्तिः उपस्थाप्यानले कर्मयोजनादिलयान्तिकमिति जडरूपा सकलास्विव चिद्रूपायां शक्तौ कथमस्याणोराधानजननानां सम्भव उच्यते ।

तदाधानं समावेशो जननं दृक्क्रियोदय इत्यादिना निष्कलस्वरूपे परमेश्वरे आधानादिलयान्तस्य कर्मणो निर्वाहवदत्र शक्तावपि जननमुक्तम् ।
संयोजितयोः शुद्ध्यवसरे कथं शुद्धिर्न कृता ।
न कृतैव निष्कृत्या कर्तव्यं श्रीमन्मृगेन्द्रे -

मूलं यच्चास्य विश्वस्य मलं पत्युर्बलद्वयम् ।
व्यवेति निष्कृतावेव सहोक्तैर्वक्ष्यमाणवत् ॥

इति पुरस्तत्रैव भोग्यस्यापि परा शुद्धिरस्यामेवोपजायते ।
येन सृष्ट्यन्तरे देह श्रूयते

केवलात्मनः इति ।
अस्य वृत्तिः - जनकमधारकमभोग्यमित्यनेन भोग्यमित्यनेन भोग्यपदेन कर्मकरणे चोक्तस्य कर्मणोऽपि परा प्रकृष्टा शुद्धिर्निष्कृतावेव सम्पद्यत इति गुरूपदिष्टमार्गेणेति विषुवप्रयोगानुसन्धानपूर्वं मन्त्रोच्चारो गुरूपदिष्टमार्गणः विषुवाश्च सप्तधा आचार्यस्याभ्यन्तरगतेन प्राणवायुना शिष्यात्ममनसः संयोगः प्राणविषुवं प्रथमम् आत्मनो नादे लयं विभाव्य हृदयादिस्थानेष्वहङ्कारौकारादीनां मात्राणां संयोगवियोगक्रमोच्चारविशिष्टं मन्त्रानुसन्धानं हृदयादिबिन्द्वादिषु स्थानेषु मन्त्रसञ्ज्ञकं द्वितीयं विषुवं मेढ्रकन्दनाभिहृदयकण्ठघण्टिकाभ्रूमध्यललाटब्रह्मबिल- द्वादशान्तसञ्ज्ञितग्रन्थीनां भेदतः सुषुम्नान्तर्गतनादानुसन्धानाडीविषुवं तृतीयं मूलमन्त्रं त्रिशूलेनानुसन्धेयम् ।
कारणेषु ब्रह्मादिषु हकारौकार ऊकारबिन्दुनादनादान्तस्थानानां षट्कत्यागसप्तमे शक्तिस्थाने नादान्तस्थानानां षट्कत्यागा सप्तमे शक्तिस्थाने नादस्य लयः प्रशान्तं विषुवं चतुर्थं शक्ति

मध्यगतस्य नादस्य यावदूर्ध्वं सञ्चारस्तच्छक्तिविषुवं पञ्चमं प्राणस्य वायोर्निखिलस्यापि कोट्यशंस्याङ्गशक्तिप्रमेयवर्जित्वेन शक्तयः शक्तिव्यापिनी समनाख्या प्रमीयन्त इति कालविषुवम् ।
षष्ठमतेन षष्ठेनापि वर्जितं मुनिरूपेण तदन्ते परमशिवे प्रासादमन्त्रेण शिष्यचैतन्यस्य लयः सप्तमं विषुवं मन्त्रोच्चारप्रकारोऽभिधीयते ।
प्रासादमन्त्रगतानां मन्त्रद्वादशानां मध्ये हौकारसहितस्य हकारस्य मूलाधारादारभ्य हृदयपुण्डरीकावधि व्याप्तिः ।
तदन्तं ब्रह्मणोऽपि व्याप्तिः ।
तत ऊर्ध्वं यावद्गलं षष्ठस्य व्याप्तिर्विष्णोस्तदन्तं व्याप्तिः ।
तत ऊर्ध्वं सरुद्रस्य तालुमध्ये त्यागः ।
तत ऊर्ध्वमीश्वरस्य बिन्दोर्भ्रूमध्यान्तव्याप्ति तदूर्ध्वमेकाङ्गुलमर्धचन्द्रस्य व्याप्तिः ।
तदूर्ध्वमेकाङ्गुलं निरोधिनो व्याप्तिः ।
तदूर्ध्वं ब्रह्मबिलान्तं नादस्य सदाशिववाचकस्य व्याप्तिः ।
ब्रह्मबिलादेकाङ्गुलमाने नादान्तस्य व्याप्तिः ।
तदूर्ध्वं त्र्यङ्गुलेन शक्तेर्याप्तिः ।

तदूर्ध्वं द्व्यङ्गुलेन व्यापिन्या व्याप्तिः ।
तदूर्ध्वं द्व्यङ्गुलेन समनाया व्याप्तिः ।
नादादारभ्य उन्मन्यन्तं शक्तिस्थानं तदूर्ध्वं स्वनिष्ठघनचिन्मयं शिवस्थानं ये तदेव सर्वज्ञतादिविशिष्टं योजनस्थानं स्रुवाज्याहुतिभिरिति ॐ हाम् आत्मन् सर्वज्ञो भव स्वाहा ॐ हीम् आत्मन् अलुप्तशक्तिभिर्वस्वाहा ।
ॐ हम् आत्मन् अनन्तशक्तिभिर्वस्वाहा ।

इति दीक्षाविधिः समाप्तः ॥

अभिषेकविधिः

अथाभिषेकविधिः ॥

संहितापारगं विप्रं शान्तं शास्त्रोक्तलक्षणमिति ।
अत्राचार्याभिषेकार्हो ब्राह्मणवरेतरे ।
यदुक्तं श्रीमत्स्वायम्भुवे -

अथाचार्यवरः श्रीमन् अग्रजन्मा सुपेशलः ।
हेयोपादेयतत्त्वज्ञश्शिवः सासनतत्परः ।
यथोक्तत्रयतत्त्वज्ञो यायजूको जितेन्द्रियः ॥

क्षमावानभिमानी च सर्वभूतानि कम्पकः ।
श्रद्दधानः शुचिर्दक्षः श्रीदीक्षादीक्षितः सुधीः ॥

देवासुरमनुष्याणां हयाभयनिरोधिनः ।
न हि नाम्भो नातिरिक्ताङ्गो लक्षणैश्च शुभैर्युतः ॥

देशकालनिमित्तस्थानभूवर्णतत्त्ववित् ।
तथ नक्षत्र यो ज्ञो भूपरिग्रहकर्मवित् ॥

अधिवासनतत्त्वज्ञः शिवमण्डपो विधः ।
शास्त्राधिकारकर्मज्ञस्तदुत्तरविधानवित् ॥

षडध्वकर्मनिपुणश्चण्डयागविधौ वरः ।
अभिषेकविधानज्ञः स्नानपूजाग्रकर्मवित् ॥

योगाभिज्ञो व्रतातीको व्युत्क्रान्तिविधिशास्त्रवित् ।
सर्वोत्क्रान्तिविधानज्ञः शिवकर्मणि पेशलः ॥

मानसे चैव योगे च कमण्डलुविधौ तथा ।
इति ।

श्रीमन्मृगेन्द्रेऽपि -

अथौदार्यदयादक्षदमश्रद्धासमन्वितम् ।
तत्र ज्ञानानलालीढसंशयाः सारसञ्चयम् ॥

शिवदीक्षारसी विद्वानापाशकिमिशप्रियम् ।
तत्र वस्तु महाकोशगोप्तारशिवपूजकम् ॥

शास्त्रान्वयागताचारद्विजालं पुण्यदेशजम् ।

प्रशस्तदेहावयवं गम्भीरमयूरस्वरव यदि नानातुर नाथश्चक्षुष्यं सत्परिज्ञानात् ।
तत एवोक्तं मोक्षकारिकासु -

दीक्षायां साधकृत्वेव चतुर्णां वर्णामिति ह अधिकारे गुरुत्वे तु ब्राह्मणस्यैव कीर्त्यत इत्यादावपि अध्यान्नविनया यजनादिकं ब्राह्मणस्यैव श्रूयते ।
तदभावे तु क्षत्त्रियादीनामप्याचार्यत्वं श्रूयते ।
यदुक्तं श्रीमत्पराख्ये -

सर्वान् वर्णानतो विप्रक्षत्रियस्त्रितयं गुरुः ।
वैश्यशूद्रौ द्वयं चैव (क) दीक्षयेद्दृक्क्रियार्थवित् ॥

श्रीमत्किरणेऽपि -

चतुर्णामपि वर्णानामाचार्यत्वमिहोदितम् ।
ब्राह्मणादिचतुष्कस्य द्विजोन ग्राहकृन्मतः ॥

क्षत्रियादित्रयं यत्तत् दीक्षयेत् क्षत्रियो गुरुः ।
वैश्यादिवैश्यद्वितयं वैश्यशूद्रं तु दीक्षयेत् ॥

इति ॥

श्रीमत्सर्वज्ञानोत्तरेऽपि -

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः शुद्धास्तु साधकाः ।
सवर्णादानुपूर्येण आचार्यश्च षडाननः ॥

श्रद्दधानानसूयाश्च कर्मज्ञाः कर्मतत्पराः ।
अनुज्ञाताभिषिक्ताश्च ते त्वनुग्राहकाः स्मृताः ॥

कृष्णो मृगो यस्मिंश्चरते तु षडाननः ।
तद्देशं याज्ञिकं विद्यात् यश्च विप्रैरधिष्ठितः ॥

यत्र विप्राः सदाचारा यतयश्च तपोधनाः ।
सन्ति देवास्तथा देवा पुण्यदेशं तमादिशेत् ॥

तद्देशकुलसम्भूता आचार्याः शास्त्रसम्मताः ।
शिवशास्त्ररता नित्यं शिवाच्चाग्निपरायणाः ॥

इति ।
मर्थयदाभ्याचार्यस्वपदाहं विप्रं न लभते ।
स्वयं चाधिकारणसमर्पणार्थी भवति ।
तदा स्वसन्तानाविच्छेदाय स्वाधिकारसमर्पणार्थं च विशिष्टं क्षत्रियमपि गुरुत्वेऽभिषिञ्चेत् ।
स तु त्रयाणामेव दीक्षां कुर्यात् ।
एवं क्षत्त्रियाभावे शूद्रं तावपि द्वयोरेकस्य च दीक्षां कुर्याताम् ।
एवं शिष्यावपि ब्राह्मणाद्यभावे क्षत्त्रियादिकमाश्रयेयुः ।
ब्राह्मणो ब्राह्मणाभावे स्वपुरुषार्थप्रा(स्रा?)न्तये स्वसन्तानाविच्छेदाय क्षत्त्रियादेरप्यधिकारं लब्ध्वा पुनः स्वयमधिकारं सर्वेषां कुर्यात् ।
तथापि पुरा किलाध्यायिना विच्छेदायाध्यापकाभावात् ब्राह्मणो वैश्याद्वेधानधीत्य ब्राह्मणानध्यापयामासेति श्रूयते ।
एवं सर्वेषां वचनानां सार्थकत्वं

सादन्यथो द्विजाग्र्यमित्यादेर्वचनस्यानर्थक्यं स्यात् ।
ननु द्विशब्देन नात्र दीक्षिता उच्यते ।
तेषामग्र्यो विशिष्टज्ञाननियुक्त इत्यर्थः ।
किं तावत् कल्प्यते ।
तदयुक्तम् ।
द्विशब्देन दीक्षितत्वशुद्धौ शिवदीक्षितान् विच्छिन्नपाशमित्येतस्यानर्थक्यस्य प्रसङ्गात् ।
अग्रजशब्देनापि शक्तिसम्भवत्वाभ्युपगमे अदीक्षिता दीक्षित इत्यस्य पुनरुक्तताप्रसङ्गाच्च ।
किं च वानप्रस्थसन्न्यासिनौ नाधिकारिणौ ।
यदुक्तं सर्वज्ञानोत्तरे -

द्वावेवाश्रमिणौ शैवे गृहस्थब्रह्मचारिणौ ।
लोकानुग्रहकर्तारौ परिव्राट् तापसो न हि इति इत्याद्याचार्यलक्षणं सिद्धान्तार्थसमुच्चये गुरुक्तं विलोक्य स्वेश्वरं वर्त्मेति कलातत्त्वभुवनवर्णपदमन्त्रान् साधिपतीन् इत्यभिषेकविधिः ॥

न्यसेदिति विसर्जनात् पूर्वमेव शिवे न्यसेदित्यर्थः ॥

अथ व्रतोद्धारः

ग्राहार्थिन इति ।
एतदुपलक्षमशक्तरेऽपि ।
अथ मन्त्रोद्धारः ।
षण्डविवर्जित इति ।
ऋकारादिनपुंसकाक्षरविवर्जिते दीर्घपञ्चमयुक्त इति चतुर्दशस्वरयुक्तं ततः परं स्वरषष्ठेन युक्तम् अर्धचन्द्रनादादिशेखर इति ।
अर्धचन्द्रशब्देन निरोधकोऽपि ग्रहणमादिशब्देन नादनादान्तशक्तिव्यापिनी समनोन्मनानां ग्रहणम् ।
बिन्दुशब्दे नकारमात्राया त्वपि ग्रहणम् ।
एवं मात्राद्वादशयुक्तस्य शिवमन्त्रोच्चारः शिवप्रणवयोर्व्याप्तिरिति ।
उक्तरूपस्य शिवमन्त्रस्य तथाविधस्य प्रणवस्य चाध्यात्माधिदैवताधिभूतेषु व्याप्तिः ।
अध्यात्मनि मूलाधारादौ अधिदेवे ब्रह्मादौ सद्योजातादि च अधिभूते पृथिव्यादौ गुरुवक्त्रेण लभ्यत इति ।
गुरुवक्त्रमिति ।
गुरोर्वक्त्रं गुरुः परमेश्वरः ।
विद्येश्वरादीनामपि स एव गुरुर्यतः वक्त्रशब्देन वचनत्राणरूपा शक्तिरुच्यते ।
तस्या अभिव्यक्तिस्थानभूतेन कुण्डलीपरिणतिसिद्धान्तशास्त्रेण गम्यते ।
प्रकाशरूपत्वात् स्वरूपवक्त्रेण च ब्रह्मणा ह्रस्व-

संयुक्तमिति ।
ब्रह्मणा मध्यादीनां मध्यादेकारोकारयोर्ह्रस्वं तत्र भगवता रामकण्ठेन श्रीमत्कालोत्तरवृत्तौ साधितम् ।
अङ्गनादीर्घसंयुक्तमिति हृदयादिकवचान्ताश्चतुर्णां सानुस्वारं तु नेत्रस्येति अनुस्वारयुक्तो हकारो नेत्रवन्तम् ।
अस्य नेत्रमन्त्रस्य सद्योजातब्रह्मणश्च विशेषो लि * * कारेण वेदितव्य इति च तत्र भवता रामकण्ठेनोक्तम् ।
स्यादस्त्रस्य विसर्गयुक् विसर्जनीयसहितो हकारोऽस्त्रमन्त्रः ।
समस्तासनमन्त्राणामिति ।
आधारशक्त्यादीनां शिवासनान्तानां सर्वेषां मन्त्राणां प्रणवहृदयपूर्वश्चतुर्थं नमस्कारयुक्तं स्वाभिधानं मन्त्रं चण्डेश्वरगणाध्यक्ष चण्डेश्वरस्य तु स्वाभिधानाक्षरं युक्तेराकारादीनां ब्रह्मकल्पनं कर्तव्यम् ।
मूलाङ्गे तु श्रीमत्सोमशम्भुपद्धतेरेव स ये धारणानां लवरया इति निवृत्त्यादीनां तदन्येषां मुक्तव्यतिरिक्तानामवज्ञादीनां हृदाद्यन्तेन स स्वाहेति एतेषां न स्वाहेति जातिप्रयोगः ।
काम्यादौ पूजाहोमादिषु सर्वेषामपि न स्वाहेति प्रयोगः कर्तव्यः ।
पञ्चमस्वरबिन्द्वाथेति पञ्चमस्वर उकारः तेन बिन्दुना च युक्तं तृतीयस्य

तृतीयकमपि तृतीयस्य च वर्गस्य तृतीयाक्षरं यकारः आदितः प्रणवादूर्ध्वं हादिसङ्कराक्षरं सविसर्गविसर्जनीयसहितः एष मृत्युञ्जयमन्त्रः इति मन्त्रोद्धारः ॥


अथोऽन्त्येष्टिः ॥

गुरुसाधकपुत्राणामिति ।
ननु निर्वाणदीक्षया भोगभोजनादिद्वारेण समस्तपाशानां शुद्धिः कृता ।

प्रारब्धस्य तु भोगेन क्षयः ।
तत्सहकारिभूतस्य मलांशस्य प्रत्यहं स्नानं शिवं करणार्चनजपहोमादिना क्षयः ।
बुद्धिपूर्वप्राप्तविहितानाचरणनिषिद्धाचरणयोः प्रायश्चित्तेन क्षयः ।
तत्किमर्थेयमन्त्येष्टिः ।
सत्यम् ।
अबुद्धिपूर्वयोर्दीक्षोत्तरकालकृतयोर्विहितानाचरण्योर्निषिद्धाचार- रन्त्येष्टिः क्रियते ।
अजातादिक्रमेणेति ।
कनिष्ठामारभ्याङ्गुष्ठान्तासु शाखासु सद्योजातादिब्राह्मणान् न्यसेत् ।
अङ्गेषु ब्रह्मन्याससद्योजातादिरेव कर्तव्यः ।
कृत्वा पृथिव्यादिरूपेणेति ।
पीतादिवर्णेन ऐश्वर्यादि-

क्रमेणैवेति स्वस्वपोषेण ऐश्वर्य वैराग्यज्ञानधर्मान्तम् अनैश्वर्यावैराग्याज्ञानात् धर्मानुत्तरपश्चिमपूर्वासु दिक्षु पूजयेत् ।
मनोन्मन्यादि तथेति ।
मनोन्मनि सर्वभूतदमनि बलप्रमथिनि बलविकरणि कलविकरणी काली रौद्री वामा ज्येष्ठाकर्णिकेशानभागेशानादि पूर्वान्तं पूजयेत् ।
सद्यो * * * स्सकलीकृत्येति सद्यवामाघोरतत्पुरुषेशानं पादादिमूर्धान्तं सम्पूजयेत् ।
अस्त्रकवचशिखाशिरोहृदय * नपि अस्त्रादिहृदयान्तं पूजयेत् ।
भोगाङ्गेष्वपि अस्त्रकवचादिकं पूजयेच्छिवमावाह्य पूजयेदिति जपं निवेदनान्तं पूजयेत् ।
कुण्डे तत्र शिवं यजेदिति तत्रापि प्रातिलौम्येनैव पूजयेत् ।
आतिवाहिकसंश्रयमिति पुण्यपापौ आत्मकृतौ भोगेनाति वाह्यमिति नाशेतीति वाहकसूक्ष्मदेहमहाजालप्रयोगेणेति महाजालमुद्रासञ्ज्ञिते करसन्निवेशविशेष अभिव्यक्तयम् ।
शिवशक्त्या छिद्रप्राप्तपुण्यपापवशेन यत्र क्वचन स्थितमात्मानं हृदयसम्पुटितेनात्मनात्मनात्मबीजयुक्तेन दीक्षानाम्ना शोधिते शवशरीर हृत्पङ्कजे न्यसेत् ।
दीक्षावत् सर्वमाचरेत् ।

इत्युक्तवान् शिवहस्तदानमादितः कृत्वा सर्वं कर्तव्यम् ।
उपस्थाप्यानले यद्वेति देशकालद्रव्यानुरोधेन पक्षान्तरमिदं त्वमग्ने क्षीणः काल इति शिवाधिष्ठितमग्निमग्ने इति सम्बोध्यत्वं समर्थ उपसंहर्ता अतस्त्वं कालेनैवोपपादितामिति प्रारब्धकर्मक्षयात् क्रमप्राप्तामत एवोद्बन्धनादिना मृतस्येय मिष्टान्नकर्तव्येति यमते तेषामितरकाले समतिक्रान्ते रुद्रबल्यादिप्रदानपूर्वं प्रतिकृतोत्वयमिष्टिः ।
कर्तव्या पापमार्गेण तेषां संवत्सरामिति स्मृतिवचनात् ।
अबुद्धिपूर्वदुर्मरणानां तत्काल एवेयं कर्तव्या किं तु श्राद्धदानात् पूर्वं रुद्रबलिः कर्तव्यः ।
प्रतिकृतिकरणदर्भैः कर्तव्यम् ।
तेषां दर्भाणां सङ्ख्या आपस्तम्भवचनादवसेयामि ।
याद्यहितां प्रोषितः प्रमितो न प्रज्ञायते ।
तत्र पलाशवृत्तानां सङ्ख्यो सङ्ख्यात्ता तत्र दर्भाणामपि सङ्ख्या परिग्राह्या ।
त्रिषष्टिशतदर्भाः ।
तेषु चत्वारिंशता शिरः प्रकल्पनं दश ग्रीवा विंशत्यो न स्त्रिंशतोदरं पञ्चाशता पञ्चाशतैकैकं बाहुमेष्ववपञ्चभिरङ्गुले ह सप्तत्या सप्तत्येकैकं

पादं येषु पञ्चभिरङ्गुलयः अष्टाश्शिश्नौ द्वादशभिर्वृषणं तैस्त्रिषष्टिशतैः कृष्णाजिनोपरि पुरुषाकृतिं कुर्यात् ।
एवं प्रतिकृतिं कृत्वा तत्र श्रीमत्सर्वज्ञानोक्तप्रकारेण मृतिकृतिसंस्कारवत्तलन्यासः कर्तव्यः ।
यदुक्तं श्रीमत्सर्वज्ञानोत्तरे तत्त्वानि चैतात्मजं कलिकैः करवीरकैः ।
उच्चार्य विन्यसेन्मन्त्री गर्भैः पुन्नलिके कृते ॥

स्नापयित्वास्त्रबीजेन पञ्चगव्यशिवाम्बुना ।
संस्नाप्य गुणोपेते तस्य नाम हृदि न्यसेत् ॥

ध्यात्वा तस्य तथा रूपं नाड्यस्तिस्रो विचिन्तयेत् ।
हृत्पद्मकर्णिकामध्ये शुद्धविद्यां नियोजयेत् ।
शक्तिं च निष्कले स्थाने ध्यात्वा सर्वानधोमुखान् ॥

मूर्ध्नो यो घण्टिकोर्ध्वं तु न्यसेद्देवं सदाशिवम् ।
तत्रायस्तत्र संलीनं विन्यसेच्छक्तिमण्डलम् ॥

जिह्वायां वक्रमध्ये तु तत्र विद्यां नियोजयेत् ।
अष्टौ विद्येश्वरान् मन्त्री जिह्वायां बाहुसन्धिषु ॥

मायां वै वामपार्श्वे तु न्यसेत् कालं तु दक्षिणे ।
कलामुरसि संस्थाप्य हृदये नीललोहितम् ॥

तत्रापरां पुनर्विद्यां तत्रैव पुरुषः स्मृतः ।
रागोपरञ्जकस्तस्य विद्याप्रबोधलक्षणाम् ॥

अव्यक्तमुदरे ध्यात्वा नाभौ सूक्ष्माणि विन्यसेत् ।
शब्दस्पर्शश्च रूपश्च रसो गन्धश्च पञ्चमः ॥

पृष्ठवंशे गुणान्न्यस्य तत्रैव पुरुषत्रयम् ।
नाभिमेढ्रान्तरे बुद्धिमहङ्कृतिकसन्धिषु ॥

योन्यां व्योमेश्वरं देवं व्योममध्ये नियोजयेत् ।
तत्रैव योजयेद्वायुं गुह्यं गुह्याष्टकं हृतम् ॥

योन्याभ्यन्तरतस्कन्दं पित्तस्थाने हुताशनम् ।
तस्माधो वारुणान्तत्वं यो यदा जातुमण्डलम् ॥

तत्पादमण्डलाधस्तात् यावत्पादतलान्तिकम् ।
विन्यसेत् * * * * तस्य रुद्रशतं बहिः ॥

तस्यैवाभ्यन्तरो लोको न्यावदङ्गुल्फकीलकौ ।
लोकादौ विन्यसेद्देवान् ब्रह्मविष्णुमहेश्वरः ॥

चि प्त पातालान्नरकांस्तुतिवर्जितान् ॥

पादाङ्गुष्ठेन देवेशं काला * * * * ।
प्रथमदिवसमारभ्य दशान्तान्त तो न्यस्तां तन्मन्त्रयुक्तेन त ।

तत्तन्मन्त्रैरभ्यर्च्य ब्राह्मणाय वस्त्रभोजनदक्षिणादिकं दत्वा * * चिताग्नौ नष्टे सति कुसंस्काराग्निसंस्कारौ कृत्वा व * * * * * * * * * * * दत्वाहुतित्रयं क्ष्मादितत्त्वानामिति पृथिव्यादिशिवान्तानि त * * * * * * * चावैदिकाचारं लङ्घयेन्न कदाचनेति ।
ननु * * * * * त्थानां ब्राह्मणादीनां वैदिककर्मपरिपालनं कर्तव्यमित्युच्यते ।
अग्निहोत्रेण वासनादिभ्यां * * * * स्य कथमन्त्येष्टिः कर्तव्या ।
न सन्ध्यावन्दनादिवत् पूर्वं वैदिकाग्निना दग्धेन पश्चाच्छैवेनाग्निना दाहः कथमनुपपन्न एवं पूर्वं वैदिकाग्निना द * * * * वृतस्य दग्धशेषत्वात् समग्रे शिवे कर्तव्यः ।
तयोक्त्या यान्त्येष्टिर्विषयाभाव एव ।
अन्यैर्वैदिकं कर्मदाहात् पूर्वं कृत्वा पश्चादन्त्येष्टिः ।

अग्निप्रक्षेपं विना * * * कृत्वा पश्चादुभाभ्याम् अग्निभ्यां दाहं कृत्वा उपस्थानं कार्यमिति मन्यते ।
अपरे अविरुद्धानां कर्तृतया श्रुतेर्विरुद्धस्य पितृमेधस्य त्यागः कर्तव्य इति मन्वते ।
दहरपर्यन्तं कृत्वा दहनमपि मन्त्रजपेन कृत्वा पश्चादन्त्येष्टिः कर्तव्येति परे ।
केचित्तु पितृमेधसंस्कारं कृत्वा द्वादशाहं परमन्त्येष्टिः कर्तव्येत्येवं च कृत्वा क्षा प्रथमे पक्षे विशेषाग्ने सामान्याग्निना संस्कारे सति प्रायश्चित्तस्य भोजदेवेनोक्तत्वाद्दोषभ सत्यमिन्ने वसन् तिष्ठन् शिवधर्मं च पालयेदित्यादिभिर्वचनै वैदिकारस्य कर्तव्यतयोक्तत्वात् तद्वचनैर्विरोधः ।
तृतीयतुर्याविरुद्धत्वात् परि * * गै सिद्धान्तसिद्धान्तिमसंस्कारवद्वैदिकसंस्कारो सिद्धान्तशास्त्रानुमत एव ।
यथा यः यस्मिन्नाश्रमे तिष्ठन् प्राप्नोति दीक्षां शिवात्मिकां स तर्वन्ते वसन् निष्ठन् च मिवञ्च पालयेत् ।

गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् ।
आचारं दीक्षितास्तद्वत् कुर्वीरन् लोकसंश्रुते ॥

यद्यपि स्यात्त्रिलोकज्ञस्त्रैलोक्याकर्षणक्षमः ।

पि लौकिकाचारं मनापि न लङ्घयेदिति लौकिकप्रसिद्धोऽयं सौविरोधदर्शनात् ।

पाल्यो निःश्रेयसे चैव सम्प्रतिश्चाप्यनिन्दितैः ॥

गृही च वैदिकाचारं लङ्घयेन्न कदाचन ।

सद्योज्योतिः पादैरपि मोक्षकारिकासूक्तम् ।
इति वर्णाश्रमाचारानभ्यनुज्ञते ।
यच्च तत् श्रोत्रियैरप्यतो ग्रासं तत्फलाधिकसाधन न्यस्तानां सतपस्विनां * * मलोष्टकानां चानानां वैदिकाचारस्य पाक्षिकत्वं यदुक्तं श्रीमन्मतङ्गपारमेश्वरे -

न चैवाद्यन्तनियमो निःसङ्गानां तपस्विनाम् ।

श्रीमत्स्वायम्भुवे च सन्धामतिकृत्योक्त -

मितरस्तु विरागात्मा लौकिकार्थपराङ्मुखः ।
कुर्याद्ब्राह्मीं न वा कुर्याच्छैवी मे या गत इति ॥

अतो वैदिकशैवौ संस्कारौ अवश्यं करणीयौ

विशेषतश्च श्रीमत्स्वायम्भुवशास्त्रे श्रीमद्ब्रह्मशम्भुपद्धत्यां विमलशिवपद्धत्यां चान्त्येष्टिप्रका * न्ते दर्शितत्वाच्च ।
एकादशे वर्षान्त इति मिति ।
अन्तर्दशाहश्राद्धैकोत्तरवृद्ध्यादयः शरीरारम्भकत्वेन श्रुतत्वात् सिद्धान्ते विहिता शिवश्राद्धवदेवात्र क्रिया देव ए ति एकादशाहश्राद्धे विश्वेदेवपरिग्रहाग्निहोमौ न कर्तव्यौ ।
पूर्वं पितॄन् पश्चात् पूर्वास्यानुत्तराननानिति रुद्रानन्तयोरवस्थानदक्षिणोत्तरक्रमेण ईशानादीनां तु पूर्वादारभ्य पश्चिमान्तं हुत्वा स्वधा नमः स्वाहापर्यन्तैः नामभिस्त्रियेति ईशसदाशिवशान्तानां नामभि प्रत्येकं नमः स्वधा नमः स्वाहापर्यन्तैस्तिस्र आहुतयः कर्तव्याः ।
भूमिष्ठजानुरिति गृहस्थ विषये मात्रग्लातस्य पितृवर्गस्य कूर्चद्वयं कृत्वा पिण्डदानं स्वधापर्यन्तैर्नामभिः कर्तव्या ।
सामान्यार्घ्यदुत्तर तद्देशेन कृतमा कर्म कर्तुरभ्युदयार्थं त तु तदर्थं तस्य कृतार्थत्वात् ।


इत्यन्त्येष्टिविधिः ॥

प्रतिष्ठाविधिः


अथ प्रतिष्ठाविधिः ॥

शुभे दिन इति ।
उत्तरायणकाले शुक्लपक्षे शुभतिथिनक्षत्रवार गहोराद्रेककाणांशकशुभग्रहोदययुक्ते दिने प्रतिष्ठा इतिर्थ शिलाग्रहणं कर्तव्यम् ।
शिलादिग्रहणे तव इति आदिग्रहणेन दारु ग्रीव्यते ।
अबिन्दुशबलामिति अत्र काराबिन्दुशब्दः अन्येषामपि शिलादोषाणामप्युपलक्षणम् ।

श्रीमन्मृगेन्द्रे -

द्वितं शीर्णां त्वचं जह्याद्दावदग्धामपध्वनिम् ।
चित्रितां लोर्मिगारा विमलबिन्दुभिः ॥

हेकमीराहिशकला हीनरेखावतीमपि ।

अस्य सूत्रस्य वृत्तिः अभिप्रेतदिक्स्थं क्षेत्रं प्रविश्याचार्यप्रोक्त प्रोक्तवच्छिल्पिनाम् ।
परीक्षयेत्तत्र मृद्वीं टङ्काघाता सममतया भिन्न प्रचदावग्निदग्धां निःस्वरां च त्यजेत् ।
तथा पुटैः शक्तिपुटाकारै किलैरङ्कुराहैरूर्मिभि तरङ्गसदृशै गाहि स्फटिकाकाराभि बहुलोहभाण्डक्षयकारिभिः काणिकाभिमलैः सूक्ष्मैर्गर्भस्थे पृथक्पाषाणे बिन्दुभिश्च विद्युद्रूपैश्च त्रिधासङ्कीर्णात्तथा घटनकाले मण्डूकमत्स्य-

सर्पाभानि शकलानि यस्याः स्वस्मात् पर्णात् सितारत्नपीतात्मकात् हिता ना इति न्यूनासिताया राक्ता रक्ताया पीता पीताया रेखाराजि विद्यन्ते यस्याः तां च त्यजेत् ।
तदुक्तं श्रीमन्मतङ्गपिङ्गलामत्ते महिनखोक्त माहीनारेखोक्तमाशुभेति ज्ञातो रः प्रतिष्ठा मूर्धा प्रिमिति उरः शब्देनोर्ध्वभागो विवक्षितः ।
पृष्ठ धो भागः मूर्धभागः ईशानभागो वा मूर्त्यै ब्रह्माहुतिमोक्षार्थी अक्रोडनं ब्रह्मभागादितः कुर्यात् ।
भोगार्थी रुद्रभागादि कुर्यात् ।
ग्राहयेदीप्सितं लिङ्गमेव स्तादि शिल्पिनेति ।
हस्तादि नवहस्तान्तानि नव एतेषु अधममध्यमोत्तमम् ।
भेदात्त्रिहस्तषड्ढस्तनवहस्तभिन्नेषु लिङ्गेषु अधमाधमभूतादेकहस्तादारभ्य पवादव्यध्याभिः सह त्रयस्त्रिंशल्लिङ्गामिति कुर्यात् ।
अघोरास्त्रेण शुद्धय इति भूशुद्धय इत्यर्थः ।
शक्त्यादि शक्तिच्छाययेति आदिशब्देन पुष्यपौष्णमघादयो गृह्यन्ते ।
जप्त्वा कुशैश्च संस्पृशेति होमसङ्ख्यया जपः कर्तव्यः ।

ध्यात्वा वास्तु यथाशास्त्रमिति वास्तुपुरुषलक्षणम् ।
श्रीमत्सोमशम्भुपद्धत्यामुक्तम् ।
अकुञ्चितकवचं वास्तुमुक्ता नर्मस्तु सुराकृतिं स्मरेत् ।
पूजासु कुड्यादिनिवेश त्वधराननं जानुनी कूर्परासक्ते दिशि वातं हुताशयोः ।
पैत्र्यां पादपुटे रौद्र्यां शिरोस्य हृदयञ्जलिः ॥

अस्य देहे समारूढा देवताः पूजिताः शुभाः ।
इति वसुहस्तादितिथ्यन्तमिति द्विहस्तादारभ्य एकविंशत्यङ्गुल्यवृद्ध्या यावन्नहस्तमष्टानामन्येषां लिङ्गानां स्नानमण्डपकरणम् ।
सूर्यादिद्विगुणमिति द्विहस्तादारभ्य सार्धकरवृद्ध्या अन्येषामष्टानां लिङ्गानामधिवासनमण्डपः कार्यः ।
वेदिं मध्ये तयोः सार्धविस्तारां लक्षितामिति ॥

तयोः स्नानमण्डपाधिवासनमण्डपयोर्मध्ये मण्डपार्धविस्तारां धामलक्षिताम् अष्टाङ्गुलादिहस्तान्तसञ्ज्ञायामिति द्विहस्तादारभ्याङ्गुलात् परद्व्यङ्गुलप्रख्या यावन्न हस्तं वेद्युच्छ्रायः कर्तव्यः ।
सामान्यार्घ्यकरो न्यस्य दिक्षु प्रागादिषु क्रमादिति ना मण्डपपूजोच्यते ।
तत्र प्रतिष्ठामण्डपस्य द्वारपूजाविषये लोकग्राह-

वसुद्वास्थश्रवतीनां द्वयं द्वयमित्यादिना अन्यत्रोक्तानि देवतान्तराण्यपि पूजनीयानि ।
तद्यथा प्राग्द्वारे शान्तितोरणम् ऋग्वेदः कृतयुगः तोरणेति शूले पूषा धातृविधातृसञ्ज्ञाः सूर्याः तच्छाखासमीपस्थकुम्भयोः प्रशान्तशिरौ देवौ भूर्लोकभुवर्लोकौ सोमभौमौ ग्रहौ प्रत्यूषभासौ वस्त्र- ऊर्ध्वोदुम्बरे गणपतिसरस्वतिमहालक्ष्म्यः कुम्भयोर्नन्दिमहाकालौ गङ्गायमुने नद्यौ कुम्भेन्द्र ईश्वरोऽधिदैवतम् अवर्गकवर्गौ वर्गौ तत्पुरुषं ब्रह्म अथोदुम्बरेदस्त्रम् आग्नेयां दिशि कुम्भेऽग्नि एवं प्राक् द्वारपूजा ।
अथ दक्षिणद्वारे भूतिकोणं यजुर्वेदं त्रेतायुगं तोरणत्रिशूले भगपर्जन्येन्द्राख्यं सूर्यत्रयं शाखामूलस्थकुम्भयोः पर्जन्याकाशौ देवौ स्वर्गमहर्लोकौ ।
अथ बृहस्पति ।
तग्रहजघन्याजघन्यौ वस्तु ।
ऊर्ध्वोदुम्बरे गणपतिसरस्वति महालक्ष्म्यः ।
विद्याकलाद्वारं कुम्भयोर्भृङ्गिविनायकौ द्वारपालौ नर्मदासरस्वत्यौ नद्यौ ।
कुम्भे यमारुद्राधिदैवतं च वर्गदवर्ग अघोरसञ्ज्ञं ब्रह्म अधोदुम्बरे अस्त्रान्नैऋते कुम्भे निरृतिकुम्भे

वास्त्वधिपति ब्रह्मा कुम्भे अधोलोकपालो विष्णुः ।
एवं दक्षिणद्वारपूजा ।
अथ पश्चिमद्वारपूजाबलतोरणं सामवेदः द्वापरो युगः ।
तोरणत्रिशूले अर्यममित्रत्वष्ट्ट सञ्ज्ञितं भानुत्रयं तोरणशाखास्थकुम्भयोः भूतसञ्जीवनामृतौ देवौ जनोलोकतपोलोकौ शुक्रशनैश्चरौ ग्रहौ धातृविधातृसञ्ज्ञितौ वस्तुनिवृत्तिकलाद्वारम् ऊर्ध्वोदुम्बरे गणपतिसरस्वतिमहालक्ष्म्यः कुम्भयोर्वृषभस्कन्धौ द्वारपालौ बुद्धगोदावर्यौ नद्यौ कुम्भे वरुणः कुम्भे महालक्ष्मीश्च ब्रह्माधिदैवते तवर्गपवर्गौ सद्योजातं ब्रह्म अथोदुम्बरेऽस्त्रं वायुकोणे कुम्भयोर्वायुगणपति इति पश्चिमद्वारपूजा ।
अथोत्तरद्वारम् आरोग्यतोरणम् अथर्वेदः कलियुगः तोरणत्रिशूले विष्णुसवित्रं शुभदाख्यं भानुत्रयं तच्छाखामूलस्थकुम्भयोर्धनदश्रीप्रदौ देवौ सत्यलोकध्रुवलोकौ राहुकेतुग्रहौ प्रतिष्ठा कलाद्वारं कुम्भे ऊर्ध्वोदुम्बरे गणपतिसरस्वति महालक्ष्यः कुम्भयोर्देवी चण्डौ द्वारपालौ कुम्भेशाना गुरव एवं मण्टपपूजा ।
प्रणवहृदययुक्तैश्चतुर्थी नमस्कारान्तैः स्वैः स्वैर्नामभिः

कार्या पश्चान्नित्यवत् पश्चिमद्वारेण पूजा च कर्तव्या ।
अन्यच्चक्रमप्यान्तृणेष्विबन्धेषु वंशेस्तृणेष्वनुमां पञ्चक्षित्यदादि तत्त्वानि सद्योजातादिभिर्यजेत् ।

कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।
शङ्कुकर्णस्तथा शर्वस्त्रिणेत्रसुमुखे ॥

सञ्ज्ञिकसुप्रतिष्ठितनामा च ध्वजानामधिदेवताः ।
पूर्वादिषु च काष्ठासु भूतकोटिभिरावृतः ॥

हेतुहन्त्रिपुरघ्नश्च वज्राख्यं धर्मनिजिह्वकम् ।
काली करालिनं षष्ठमेकाङ्घ्रिं महिमष्टदम् ॥

तथैव पूजयेद्दिक्षु क्षेत्रपालाननुक्रमात् ।

एतानपि पूजयेच्छयेत् ।

शयने किञ्चिदीशस्थसशिरस्कं समानसे ।
न्यसेत् इति सामान्ये नात्र ईशानशिरस्कत्वमुक्तम् ।
विशेषतस्तु पश्चिमद्वारपूर्वद्वारविभागेन शयनकल्पनं श्रीमत्सोमशम्भुपद्धत्यामुक्तम् ।

शक्त्यादिशक्तिपर्यन्ते विन्यसेदासने शुभे ॥

प्रसादे पश्चिमास्यैव मध्यात्पूर्वाश्रितं शिवम् ।
पश्चिमे पिण्डिकां तस्य न्यसेद्ब्रह्मशिलां तदा ॥

पूर्वस्यैव भवेत्तस्मिन् पूर्वमेव विपर्ययात् ।

उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकमिति ।
द्वादशान्तात् समानीयेत् जीवन्याससमये मन्त्रोच्चारप्रकार आचार्येण सोमशम्भुनोक्तम् -

नाभिकन्दात् समानीय घण्टानादविसर्पणम् ।
ब्रह्मादिकारणत्यागाद्द्वादशान्तसमाश्रितम् ॥

मन्त्रं च मनसाभिन्नं प्राप्तानन्दरसोद्गमम् ।
द्वादशान्तात् समानीय घण्टानादविसर्पणम् ॥

द्वादशान्तात् समानीय निष्कलं व्यापकं शिवम् ।
अष्टत्रिंशत्कलोपेतं सहस्रकिरणोज्ज्वलम् ॥

सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे निवेशयेत् ।
जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकम् ॥
इति ।

इक्ष्वस्वमूर्तिमूर्तीशा कुण्ठेषु स्वेषु मूर्तिपा ।
इति पञ्चकुण्डे पक्षे मूर्तिपा उपहोतारः प्राग्दक्षिणोत्तरपश्चिमेषु स्वमूर्तीश्वरन्यास पुरुषान्तं पुरुषाघोर वामदेवसद्योजातमन्त्रा सम्पूज्य तैर्जुहुयात् ।
नवकुण्डपक्षे एषु प्रागादिकुण्डेषु आग्नेयेशाननै- ऋतवायव्येषु च कुण्डेष्वष्टसु ब्रह्मचतुष्टयं हृदयशिरश्शिखाकवचां सम्पूज्य जुहुयादुभयत्रापि ईशानकोण आचार्यस्य कुण्ड ईशानसासङ्गतां

ब्रह्मशिलां शक्त्याश्रयां न्यसेदित्यादिना ब्रह्मशिलान्याससमये - अध्वानं च तदारूढं सञ्चित्य सकलं गुरुरित्युक्तत्वात् कालतत्त्वभुवनवपदमन्त्रात्मनः षड्विधस्याध्वनोऽपि ब्रह्मशिलायामवस्थितेरित्युक्तत्वात् ।
एतदुपरिवर्तिनो पीठलिङ्गयोः साक्ष्यश्शक्त्यः शिवतत्त्वमेव ज्ञाप्यते ।
लोके च वाचकैर्मन्त्रैरिति लकारादिबीजयुक्तेरिन्द्रादिनामभिः दत्तवराहुतिं चिच्छक्तिं विन्यसेल्लिङ्ग इति लिङ्गचिच्छक्तेर्न्यस्यत्वेनोक्तत्वात् लिङ्गं ज्ञानशक्तिः ।
न तु बिन्द्वादिकं क्रियाशक्तिं च पीठगामिति पीठे क्रियाशक्तेर्न्यस्यत्वात् पीठक्रियाशक्तिरिति एतदपि न महामायात्मकम् ।
तदुक्तं श्रीमन्मये -

अथ क्रियात्मकं पीठं बोधशक्त्यात्मनः प्रभोः ।
अधिष्ठेयमिति श्रीमन्मृगेन्द्रेऽपि -

पीठं पत्युः क्रियाशक्तिरिति अस्य सूत्रस्य वृत्तिः ज्ञानशक्त्यात्मकस्य लिङ्गस्य यदाधाररूपं पीठं क्रियाशक्तिरसौ परमेश्वरस्य सम्बन्धनिचोद्यव्यालिङ्गिचास्या शक्तेराश्रयभूतस्वनिष्ठ न चिन्मयः शिवः ।
तदुक्तं रत्नत्रये -

करणं शक्तिवासनपर्या मन्त्रा न सन्ततत्राधारशक्त्यानन्तासनयोराधारशिलायां पूजा ।
अनन्तादीनां तु पीठ एव तत्रानन्तस्य तु क्रियाशक्तेः प्रथमविषयतया तत्रावस्थानं युक्तम् ।
धर्मादीनां चतुर्णां तत्सामर्थ्यरूपत्वात् तत्रावस्थानम् ।
अथ मश्मदादीनामपि तथैवावस्थिति ।
अधश्छदनोर्ध्वच्छादनेर्दानत्वेन क्रियाशक्तेर्व्याप्यत्वादवस्थितो कन्दबीजाङ्कुरनालपद्मदलकेसरकर्णिकानां तु महामायात्वे क्रियशक्तेख्यवहितिविषयत्वेन तत्रावस्थानम् ।
वामादिशक्तयस्तु त्वानन्ताद्यधिष्ठानोपादिभिन्नशिवशक्तिरेव मनोन्मनित्वनुपहिता शक्तिमण्डलानि त्रीणि बैन्दवानि तदधिपतयश्च शुद्धाशुद्धनिवासिनो देवताविशेषाः ।
शिवासनं तु परमेश्वरस्य समवेत शक्त्या नित्याधिष्ठेयं निखिलजगदाधारभूतक्रियाशक्तिविजृम्भणविषयं तास्य कुण्डलिन्यस्वरूपं ये मनन्तनधिशिवासनान्तमेतेषां सर्वेषां मन्त्राणामस्मिन् क्रियाशक्तिस्वरूपे पीठे क्रियाशक्तिनिमित्तत्वानिवेशम् ।
अत्र शिवलिङ्गेति त्रिखण्डकलनवशात् चतुरष्टाश्र-

वृत्तत्वं दृश्यते ।
तत्र ब्रह्मविष्णुरुद्रभागव्यपदेशश्च श्रूयते ।
तत्र ब्रह्मभागस्य चतुरश्रत्वं ब्रह्मभागव्यपदेशश्च श्रूयते ।
तत्र ब्रह्मभागस्य चतुरश्रत्वं ब्रह्मभागव्यपदेशश्च ज्ञानशक्त्यात्मनः शिवलिङ्गस्य ज्ञेयभूतशुद्धप्रपञ्चनिर्वाहकब्रह्मोपरागात् ब्रह्मभागशब्दवाच्यत्वं चतुरश्रत्वं च ब्रह्मणश्चतुर्मुख तदुपरि विष्णुभागवाच्यत्वष्टश्रत्वे ज्ञेयभूतस्य मिश्रपवस्य निर्वाहकत्वेन शास्त्रेषु तस्य विष्णोरूपरागात् तस्य च पर्यङ्कयुक्तानामात्मनां श्रयिष्य तदुपादिनाष्टाश्रत्वं तदुक्तं श्रीमद्वरुणपद्धतौ -

नीलाम्बुजनिभं सुभ्रं पुर्यष्टाष्टभुजान्वितम् ।
एकवक्त्रं तु सौम्यास्यं विद्यातत्त्वं प्रकीर्तितम् ॥

तदुपरि तस्य भागस्य रुद्रभागवाच्यत्ववृत्तत्वे ज्ञेयभूतस्य शुद्धप्रपञ्चस्य निर्वाहस्य रुद्रभट्टाङ्कसोपरगात्रस्य च रुद्रस्य च बिन्दुवाच्यत्वेन बिन्दोर्वृत्तत्वेन वृत्तत्वं बिन्दुरूपशिवो ध्येय इति वचनात् ।
शिवतत्त्वाधिपस्य कारणस्य रुद्रशब्दवाच्यत्वाद्वात एव ब्रह्मविष्णुरुद्राख्यान्विदन्तरमत्र नास्ति ।
तदधिष्ठात् ज्ञानात्मिका

शिवशक्तिरेव लिङ्गम् ।
अत्र लिङ्गपीठे शिलादिषु अधिवाससमये पृथिव्याद्यष्टमूर्तयः आकाशादि पञ्चमूर्तयः ।
शब्दाद्यब्रह्माद्यस्तदधिपतिश्च न्यस्मिन्ते चे सर्वे परमेश्वरस्य मूर्तित्वे परिगृह्यमाणस्य वस्तुनः प्रकृतत्वान्निवृत्त्यर्थः ।
स तच्च सर्वेषां सवस्तूनां परमेश्वरस्याधिष्ठेयत्वश्रितः न साभावकला काचित् सन्तानद्वविनिवर्तिनि व्याप्तिशिवकला यस्यामधिष्ठात्री न विद्यत इति ।
एवं पृथिव्यादिसंवृत्ताया व्यपदिश्यमानया शक्त्या सर्वदिसञ्ज्ञया पदिश्यमानेन शिवेन च सर्ववस्तुसाधारण्येनास्यापि व्याप्यत्वेऽपि शक्तिरूपाणि तानि तान्यस्य प्रतिष्ठाशक्तोक्तप्रकारेण स्नपनहोमजपसमाधिज्ञानादि न संयोगात् बीजस्याङ्कुरशक्तिविहतिदस्य प्रकृतत्वं हन्यते ।
न तु तेषां न्यासस्तस्मात् लिङ्गपीठयोरनेन क्रियाप्रदानेन ज्ञानक्रियाशक्तिः प्रकटीक्रियते ।
यथारणि स्थितो वह्निः मथनेन प्रकटीक्रियते ।
तथा तस्मिन् सामान्ये लिङ्गे चैतन्यमिति दीक्षितैरपूज्यताया लोकसाधारण्यात् साधारण्यम् ।

लिङ्गे तस्मिन् लिङ्गे चैतन्यजीवन्यासकाले यो मन्त्रन्यासः कर्तव्यः ।
चैतन्यमतं मुक्त्वा तदवस्थाप्य स्थाणुं विसर्जयेत् ।
स्थाणुमिति स्वसन्तानपरम्परया तपस्वसंहितासिद्धो यो मन्त्रन्यासकाले न्यस्तः नमपि सर्जये शुद्धये असामान्ये यथा पुरेति नित्यवत् सापेक्षविसर्जनं कर्तव्यमित्यर्थः ।

लिङ्गमूर्तवधास्यर्चि चण्डेशध्यानपूर्वकमिति ।
ननु पूर्वं लिङ्गं परमेश्वरस्य पूर्वं साधितम् ।
इदानीं तस्मिन् लिङ्गे चण्डेश्वरस्यापि पूजा कर्तव्येति श्रूयते ।
तत् कथं सङ्गच्छते ।
असौ चण्डेश्वरपरमेश्वरः इत चिदन्तरं वा ।
परमेश्वरत्वे तु अधिकरणान्तरेऽपि सदृशध्यानपूर्वमेव सम्पूज्य निवेदितनिवेदनं युक्तम् ।
आत्मान्तरत्वे तु लिङ्गे सम्पूजनमयुक्तमुच्यते ।
चण्डेश्वरस्ततद्विज्ञानकलेषु मध्यात् परमेश्वरेणानुगृहीतनन्द्यादितृतीयावरणे चरं भूत आत्मान्तरमेव तस्य लिङ्गसम्पूजनं रोधशक्त्यधिष्ठेयवशात् * * * रेण रोधशक्त्याधिष्ठेय श च स्वरूपं स्वयं शम्भु बध्नामीति समयच्युतानिति श्रुतेः ।

समयश्रावणं पतदु संस्थाप्य कर्तव्यमिति दीक्षयानुक्तम् ।
शिष्यांस्तदग्रे संस्थाप्य समयाश्रवरे द्ययेति शुद्धस्नानहविर्निवेदनपात्रादिकं रोधशक्त्यपेक्षया निवेदितनिवेदनं तु चण्डेश्वरस्य परमेश्वरस्य जैयैव लेह्यशोष्यान्नपानादिताम्बूलस्रग्विलेपनम् ।
निर्माल्यभोजनं तु तुभ्यं प्रदत्तं तु शिवाज्ञयाम् इति ।
एवं प्रतिष्ठाप्यते पीठपुरस्सरी चलानामपि भक्तानां विधेयासमादधि ।
कि वैतरेषां साध्वा सा वती च सा एतेषां व्याक्ताधीनां लिङ्गानां व्याप्तिः श्रीमत्सोमशम्भुपद्धत्यामुक्तम् -

यथान्यदेवदयः स्थाप्य मन्त्रैः स्वगमसम्भवैः ।
आदिवर्णस्य भेदाद्वा स्वतत्त्वव्यापिभाविता ॥

सार्धप्रमुखदेवाश्च सरितो मुनयस्तथा ।
क्षेत्रपाः किन्नराद्याश्च पृथिवीतत्त्वमाश्रिताः ॥

स्थानं सरस्वती लक्ष्मी नदीनामम्भसि क्वचित् ।
भुवनाधिपतीनां च स्थानं यन्त्रव्यवस्थितिः ॥

अजबुद्धिप्रदानान्तं त्रितत्त्वं ब्रह्मणः पदम् ।
तन्मात्रादिप्रधानान्तं पुंस्त्वमेतं त्रितं हरे ॥

नाद्येशगणमातॄणां यक्षेशशरजन्मनाम् ।
अजतीशुद्धविद्यानां पदं गणपते सदा ॥

माया सदेशशक्त्यन्तं शिवा शिवोष्णरोचिषाम् ।
पदमीश्वरपर्यन्तमव्यक्ताच्च सुकीर्तितम् ॥
इति ॥

वरुणपद्धत्यामपि -

लिङ्गपीठशिलानां च व्याप्तिस्तत्त्वादिति क्रमात् ।
शक्तिसदेशान्तं त्रिखण्डं कल्पनं पुनः ॥

विद्याशक्तिरिव प्रान्तं माया सा देशशक्तिगम् ।
शब्दचिन्तसदेशान्तं लिङ्गपीठेऽश्मनि क्रमात् ॥

मायातत्त्वान्तिकं व्याप्ति कुम्भस्य प्रकीर्तिताः ।
त्रिखण्डाद्वा पुनश्चित्तकलामायावसानकम् ॥

पुरुषस्य त्रिखण्डाध्वा शब्दपुरुषावधि ।
द्वाराप्रासादच्यूलनां व्याप्तिलिङ्गवदीरिता ॥

विद्यशासनके तत्र न्यसेत्तत्र त्रयं क्रमात् ।
स्वतत्त्वावधिकोपे मात्मविद्याशिवात्मकम् ॥

अष्टौ वा पञ्च वा सन्तु मूर्तिपा नियमस्त्वयम् ।
ब्रह्मविष्णुकरा एव लिङ्गे तत्त्वक्रियाधिपः ॥

इत्युक्तोक्तम् ।
अयमेव क्रमः सर्वो दिष्टप्रतिमास्वपि ।

किं तु तत्त्वत्रयन्यासो जानुकण्ठशिरोऽवधि ।
द्वारोदुम्बरशाखासु व्याप्तिस्तु तत्र खण्डकम् ॥

जङ्घागलकचूडान्तं प्रासादेऽपि विचिन्तयेत् ।
गौर्यादीनां प्रतिष्ठार्घ्यां पीठे शक्तिं क्रियात्मिकाम् ॥

विन्यसेद्विग्रहे ज्ञानीं शेषं पीठवदाचरेत् ।
मुखलिङ्गप्रतिष्ठायां विधानमभिधीयते ॥

मध्ये सदाशिवं तत्त्वम् ईश्वरं प्राचि विन्यसेत् ।
आग्नेये विन्यसेद्विद्यां मायां याम्येऽथ नै-ऋते ॥

काले यं नियतिमाप्ये वै वायौ रङ्गामुदन्तरम् ।
प्रधानमीशदिग्भागे स्वाशासु ब्रह्मपञ्चकम् ॥

त्रितत्वकल्पना प्राग्वत् किं तु वृत्ते सदाशिवम् ।

विन्यसेदधितान् प्राग्वत् मूर्तित्वरानपि ।
अथैतानि तत्त्वानि पृथिव्यादि प्रतिमास्वपि ।
मूर्तिमूर्तीश्वरादीनां व्याप्तिं बीजं च नाम च ।

ज्ञात्वानुरूपं सर्वत्र न्यासं कुर्याद्यथास्थितम् ।
अप्तत्त्वे संस्थिता पृथ्वी अवादिस्वस्वगोचरे ॥

शब्दतन्मात्रमूर्ध्नि द्वौ सोमसूर्यौ व्यवस्थितौ ।
तयोरूर्ध्वे च धर्माख्यो गन्धे शर्वोव्यवस्थितिः ॥

रूपस्थः पशुभूश्चैव उग्रोऽहङ्कारगोचरे ।
रसस्तत्रैव बोद्धव्यो रसतन्मात्रगोचरः ॥

ईश्वरस्पर्शतन्मात्रे महादेवो मनस्थितिः ।
भीमश्च शब्दतन्मात्रे मूर्तीशानां व्यवस्थितिः ॥

विद्येश्वराश्च विज्ञेया विद्यातत्त्वे व्यवस्थिताः ।
क्ष्मादि प्रमवधौ ब्रह्ममादिमायान्तगोच्यते ॥

क्ष्मादिविद्यान्तगोरुद्रः क्ष्मादिबिन्द्वन्त ईश्वरः ।
साङ्ख्य क्ष्मादिनादान्तं शक्तिक्ष्मादि परावधि ॥

अन्येषामपि तत्रैव व्याप्तिरालोचनीया ।
व्यक्ते च बाणरत्नाद्याविति व्यक्तिलिङ्गविषये बाणलिङ्गविषये तु लिङ्गमूर्तौ चण्डं सम्पूज्य ततः प्राणपथा गृहीत्वा च चण्डप्रतिष्ठा परं न कर्तव्यमिति भावः न तु चण्डेश्वरप्रतिष्ठानिषेधः ।
तस्माच्छिष्यास्तदग्रे संस्थाप्य समच्छ्रावयेदिति समयश्रावणस्य चण्डेश्वरसन्निधौ कर्तव्यत्वश्रुतोस्थण्डिला अव्यक्ते बाणरत्नादावित्यत्रादिशब्देन स्वयम्भूतसिद्धलिङ्गादयो विवक्षिताः ।
तदुक्तं श्रीमत्सोमशम्भुपद्धत्यां -

बाणलिङ्गे चले रोहे सिद्धलिङ्गे भुवि ।
प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत् ।
अद्वैतभावनायुक्ते सन्धिलेशविधावपि ॥

एवं संस्थाप्य चण्डेशं चण्डदोषनिवृत्तये ।
इति ।

प्रतिमालिङ्गवेदिनामित्यादिना प्रतिष्ठाया भोगसाधकत्वं बुभुक्षूणामेव मुमुक्षूणामभिसन्धानेन

दीक्षोत्तरकालकर्तव्येति करच्छेदद्वारेण मोक्षस्यापि साधिका ।

जीर्णादिदोषदुष्टस्य लिङ्गस्योद्धार उच्यते ।
इत्यादिनोच्यमानस्य लिङ्गोद्धारस्य मानुषं लिङ्गं मुख्यतो विषयः ।
न तु स्वयम्भूतदैवार्षाणि विषयाः ।
तदुक्तं -

असुरैर्मुनिभिर्दैवैः तत्त्वविद्भिः प्रतिष्ठितम् ।
जीर्णं वाप्यतिभग्नं वा विधिनापि न चालयेत् ॥

इति प्रतिष्ठाविधिः ।

श्रीनटेश्वरेण गुरुणा वक्त्रादिना शम्भुना
श्रीमच्छङ्करसूनुना विरचिता टीका समाप्ता ॥
श्रीमच्छ्रीमृगेन्द्रराजपद्धतिर् इति प्राप्तप्रथायाः कृतो
राध्यस्य दीयपाशविपिनच्छेदे+++(=??)+++ कुठारात्मनः ॥

इति मृगेन्द्रपद्धतिटीका समाप्ता ॥