विस्तारः (द्रष्टुं नोद्यम्)
Transcribed by prof. richard davis from printed book published in south India in grantha script. bibliographical details not available. corrections by prof. Richard Davis. original readings in the printed edition noted in brackets and labeled ‘k’.
(क्: +ओं
शिवमयम्
महोत्सवविधिक्रमः
आगमशेखरं
वन्दे महागणपतिं मदनारिसूनुं
वामोरुसुस्थवनीता भुजवेष्टिताङ्गम् ।
वल्लीशपूर्वजमभीष्टदमाश्रिता नां
वाणी पतिप्रमुख देवगणार्चिताङ्घ्रिम् ॥
साक्षात् सदाशिव पुरान् स्वयमेव शम्भुः
भक्तान् नराननुगृही तु मिहागतोयः ।
नाम्ना सदाशिव इति प्रथितोत्रकाञ्च्याम्
असद्गुरुन्तमति सौम्यगुणं नमामि ॥
तदुक्तं कामिके �
अथ वक्ष्ये महेसश्य महोत्सवविधिं गुह ।
वृषयागादि भक्तानामुत्सवान्तं यथा क्रमम् ॥
प्रथमं वृषयागञ्च ध्वजारोहं द्वितीयकम् ।
बृहतालं तृतीयञ्च चतुर्थं चाङ्कुरार्पणणम् ॥
यागशालार्चनञ्चैवमस्त्रयागमतः परम् ।
सप्तमं बलिदानञ्च या न क्रममथाष्टम्म् ॥)
ॐ
शिवमयम्
महोत्सवविधिक्रमः
प्रथमं वृषयागञ्च ध्वजारोहं द्वितीयकम् ।
बृहत्तालं तृतीयञ्च चतुर्थञ्चाङ्कुरार्पणम् ॥
यागशाला लक्षणञ्चास्त्रयागमतः परम् ।
सप्तमं बलिदानञ्च यानक्रममथाष्टकम् (क्: -मम्) ॥
नवमं परिवेषञ्च दश (क्: दशं) नीराञ्जनक्रमम् ।
एकादशं कौतुकञ्च द्वादशं तीर्थसङ्ग्रहम् ॥
चूर्णोत्सवं त्रयोदश्यां चतुर्दश्यां तु तीर्थकम् ।
अवरोहं पञ्चदश (क्: -शं ) षोडश (क्: -शं) स्नपनं
भवेत् ॥
वैवाहिकं सप्तदशं हक्तोत्सव मतः परम् ।
इत्यादिभेदेनोत्सवं ज्ञात्वा शैवादि दैविकान्त
भेदेनोत्तमोत्तम नवाहोत्सवविधिः (क्: -विधिर्) विधीयते ॥
तद्यथा - तत्पूर्वरात्रौ (क्: -रात्रा) अधिवासनमारभेत् (क्:
वधि-) । तत्राचार्यादयः आरोहणाद्यवरोहण पर्यन्तमेक
भुक्तोधश्शयन तैलाभ्यञ्जन (क्: २) स्त्रीसम्पर्क परान्न
भोजनादि राहित्यः त्रिषवणस्नायिनः वपनपूर्वकं हतं
वासः परिधाय सङ्कल्प पूर्वम् इष्टदेवतां नमस्कृत्य
एवमाचरेत्
तत्र ध्वजारोहणं पूर्वेद्युः वपनं कार्यम् ।
प्। २) प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्टि (क्:
षष्ट) सप्ताष्ट नवाहेषु द्विवारं बलिः कार्यः ।
तीर्थदिने प्रातर्बलिन्दत्वा पूर्णोत्सवं तीर्थमारभेत् (क्:-
माचरेत्) ।
नवाहोत्सवं ध्वजारोहण पूर्वमेव कार्यम् ॥
नक्षत्रादिनिर्णयः
मार्गशीर्षमासे आर्द्रान्तम् । पुष्ये पुष्यान्तम् । माघे
माघान्तम् । फल्गुने उत्तरफल्गुन्यन्तम् । चैत्रे चित्रान्तं (क्:
चित्तान्तम् ।) वैशाखे विशाखान्तं ज्येष्ठे ज्येष्ठान्तं
मूलान्तं वा आषाढे उत्तराषाढान्तं पूर्वाषाढान्तं
(क्: -षाडान्तं) वा श्रावणे श्रवणान्तं भाद्रपदे
पुर्वभाद्रपान्तं (क्: पुर्वाभाद्रान्तं) आश्विजे (क्: आश्वीजे)
अश्विन्यन्तं कार्तिके कृत्तिकान्तमेवं सद्दृक्षाणि ।
समुद्रतीरे पर्वणि नद्यादौ पर्युक्ते (क्: पर्वयुक्ते) वियुक्ते
वा माघे सितषष्ठ्यन्त (क्: -न्तम् ।) (क्: ३) षष्ठ्यन्तज्येष्ठे (क्: *
यजमान देव ग्रामादि नक्षत्रेषु वा कर्तुः (क्: कर्तुर्) अभीष्ट
नक्षत्रे वा तीर्थं कारयेत् ।
समुद्रे पूर्वाह्नेव (क्: पूर्वाह्ने * ।) पूष्करादिषु (क्: -
ष्व) पराह्ने (क्: -ह्णे ।) नद्यां मध्यदिने (क्: मध्यं दिने ।)
तीर्थं ग्राम्यनक्षत्रादित्ये (क्: ग्राह्यं नक्षत्रादित्ये) सायाह्ने
तीर्थं ग्राहयेत् ।
ऋक्षद्वये तिथिद्वये वा एकसिन् मासे सम्प्राप्तेऽपरे (प्। ३)
विष्वयन सङ्क्रान्त्यादि योगयुक्तञ्चेत् पूर्वमेव ग्राह्यम् ।
आरोहणादि तीर्थान्तमेकसिन् मासे श्रेष्ठं
विष्वन्तमयनान्तं ग्रहणान्तं वा (क्: वे) इति (क्: * ति)
तीर्थमारभेत् ।
शैवादित्य शिवोत्सवे प्रातःकाले अवभृतं निशिप्रातः
ध्वज इति निशि सायं दिवाप्रातः ध्वजारोहणं कारयेत् ।
ध्वजे ध्वजं न कर्तव्यं (क्: कर्नव्यं) कर्तव्यं
वृषभध्वजम् ।
अन्येषां ध्वज आरब्धे महादोषः प्रजायते ॥
एक वास्तुनि वा ग्रामादौ वा देवोत्सवमध्ये नुः
कल्याणं न कारयेत् कृतञ्चेत् (क्: कृतञ्चेद्) राज्ञो राष्ट्रस्य
दोषो भवति
क्: ४) विनायकोत्सवम्
उत्सवारम्भ पूर्वे वाहनादि रथान्तं नवीकृत्य
देवधामादि वीथ्यन्तान् (क्: वीध्यन्तान्) कदलीस्तम्भ
पूगस्तम्भ नालिकेर लिकुचादि तत्कालोचित फलपल्लव पुष्पमाला
दर्पणद्वारतोरण वितानध्वजमालादिभिः (क्: -भिर्) अलङ्कृत्य
प्रपादि विश्राममण्टपान्तं चालङ्कृत्य सम्मार्जन जलसे च
नादिकारयित्वा भूशुद्धिं कारयेत् ।
प्। ४) भद्रकाल्युत्सवान्ते विघ्नेश्वरस्य नवाह सप्ताह
त्र्यहम् एकाहं वा उत्सवं (क्: उन्सवं) कारयेत् ।
तद्यथा - विनायक स्कन्द वीरशास्ता पञ्चविंशति बेर
स्कन्द चण्डेश (क्: चण्डगणेश) शिवास्त्र भक्तविग्रहादि
सहितान् विशेषतः पञ्चगव्य पुरस्सरं सम्पूज्य अलङ्कृत्य
आचार्य ऋत्विक् भूप यजमानाः ब्राह्मणैः (क्: -णैस्)
सौर्यत्रिकैः (क्: तौर्यत्रिकैस्) सह शुभे लग्ने उत्सवार्थं
विघ्नेश्वर (क्: विघ्नेश *) पूजापुरस्सरं महादेव
शब्दविशिष्टं (क्: शब्दं विशिष्टं) पुण्याहं वाचयित्वा
स्नपनपूर्वं विघ्नेशं सम्पूज्य मोदक भक्ष्य भोज्यादि
नैवेद्यन्तं (क्: -द्यन् *) दत्वा ब्राह्मणान् भोजयित्वा
अविघ्नमस्तु इति (क्: -मस्त्विति) प्रार्थ्य देवालयकर्मरतान् सर्वान्
दीनान्धान् (क्: * नान्धान्) कृपणाधान् (क्: कृपणाननाधान्)
भोजनाच्छादनैः (क्: -नैस्) सन्तोष्यास्त्रराजं चण्डेश्वरं (क्:
चण्ढेश्वरञ्) च विनायकपूर्वं (क्: ५) रथे वा शिबिकादौ वा
आरोप्यदर्पण छत्रचामरादि नानाध्वजसहितं गन्धपुष्प
धूपदीप नानावोद? (क्: नानावाद्य) वेदघोषसहितं
ग्रामं प्रदक्षिणी कृत्यास्थानमण्टपे निवेशयेत् ।
दारुसङ्ग्रहणं
ततः शिलाग्रहणवत् दारुसङ्ग्रहणं कुर्यात् ।
बिल्वखादिर देवदारु चम्बकार्जुन (क्: चम्पकार्-) अशोक
शिरीष वेणु इत्यादि वृक्षाणाम् एकम् अग्रमूलं (क्: अग्रं-)
परीक्ष्य शिवंसम्पूज्य बलिं विधाय निरुध्य परशुना
छिन्द्यात् ।
प्। ५) पूर्वे चोत्तरे चैशान्यां पतितं चेत् शोभनं (क्:
चेच्छोभनम् ।) अन्य धातु सन्त्यजेत् ।
तच्चतुरश्रीकृत्य आदाय शिल्पिना सह रथे च आरोप्य आनीय
गव्येन स्नाय कौतुकम् अग्रे बध्वा पुनः पुण्याहं वाचयित्वा
स्नानमण्टपे निधाय गन्ध तैलादिना विमृज्य सर्वेषां
ताम्बूलं दक्षिणां (क्: दिक्षिणाञ्) च दापयेत् ।
ध्वजदण्डम् (क्: थ्थ्वज-)
तत्र स्थण्डिलं विधाय मध्ये दण्डं विन्यस्य
वस्त्राद्यैरलङ्कृत्य माल्यादिभिः (क्: -दिर्भि) विभूष्य (क्: *
भूष्य) (क्: ६) धूपदीपौ दत्वा - वेदाश्र - वस्वश्र
वृत्तभागेषु शिवभागादितः तत्वत्रयं सेश्वरं सम्पूज्य (क्:
सःपूज्य) प्रणवेन उत्थाप्य (क्: प्रणनोत्थाप्य) तत्स्थाने
निवेश्य सामान्यप्रतिष्ठोक्तवत् प्रतिष्ठापयेदिति स्थूप्यन्त
चूलिकान्तं वा शुकनासान्तं वा यष्टित्रय फलकात्रयम्
उपदण्डद्वय घण्टासहितम् अष्टाधिकशत दर्भकूर्चयुक्तं
दर्भरज्जु वेष्टितं वलयसहितं कारयेदिति दारुसङ्ग्रह
दण्डप्रतिष्ठाविधिः ।
मृत्सङ्ग्रहणम्
नदीतीरादिस्थले पूर्वोक्तवत् मृत्सङ्ग्रहणं कृत्वा
विघ्नेश्वरादि बेरसहितं नानावाद्यवेदघोषसहितं गत्वा
पूर्वोक्तवत् मृत्सङ्ग्रहणं कृत्वा तन्मृदं परिचारकैः
माहेश्वरैः रुद्रगणिकाभिः (क्: -भिं) गजाद्यैः (क्: -द्यैर्)
वाहयित्वा पुरं (प्। ६) प्रदक्षिणीकृत्य प्रासादं प्रविश्य
अङ्कुरार्पण वेदिकायां निक्षिप्य विघ्नेशं मोदकाद्यैः (क्: -
द्यैर्) अपूपैः (क्: -पैर्) इक्षु दण्ड नालिकेर कपित्थ मातुलङ्गक
कदल्यादि तत्कालोचित फलैः (क्: फलैश्) चणक मुद्ग ताम्बूलादि
निवेद्य सर्वोपचारैः पूजयेदिति मृत्सङ्ग्रहणविधिः ।
३ - अङ्कुरम्
क्: ७) ध्वजाङ्कुरन्तु प्रथमं द्वितीयं चोत्सवाङ्कुरम् ।
तीर्थाङ्कुरं तृतीयमिति पूर्वोक्तवत् कुर्यात् ॥
इत्यङ्कुरार्पणविधिः
२ - अथ वृषयागः
ध्वजारोहणपूर्वेद्युः रात्रौ (क्: रात्रा) अधिवासन (क्: व-
) क्रियां कारयेत् ।
ततः शिवं सम्पूज्य विज्ञाप्य वितानाद्यैः (क्: द्यैर्)
वृषस्थानम् अलङ्कृत्य गुरुः (क्: -गुरुर्) उत्तराभिमुखो भूत्वा
स्थिरासनं पूर्वोक्तवत् अङ्गन्यासादिकं कृत्वा अर्घ्यं (क्: *
र्घ्यं) संसाध्य (क्: संस्थाप्य) वृषेशं सम्पूज्य
मुद्गान्नं (क्: -न्तं) निवेद्य तस्याग्रे स्थण्डिलं विधाय
अङ्गुल्यादिभिः मध्ये पद्मं विलिख्य कुशैः पुष्पैः परिस्तीर्य
नवकलशान् संस्थाप्य मध्यकुम्भे वृषभं
षडुत्थासनपूर्वं सम्पूज्य पूर्वादीशान्त दिक्षु उक्षाय
नमः - गोपतये नमः - शृङ्गिणे नमः - नन्दिने नमः -
वृषपतये नमः - विषाणिने नमः - शङ्कुकर्णाय (प्। ७) नमः
- महोदराय नमः - इत्यासनादि मूलमन्त्रैः (क्: -न्त्रैर्)
अभ्यर्च्य-
(यद्वा लोकपालान् सम्पूज्य) ध्वजपटमुक्तवन्नव हस्तादिकं
पञ्चभागैकविस्तारं विस्तारसमं पुच्छं पुच्छार्धं
शिरः स्तितं सूक्ष्मं श्लक्षणं कार्पासादि सम्भवं
तत्त्रिभागं कृत्वा मध्यभागे वृषभं त्रिभागैक भागे वा
समालिख्य तेन रत्नेन शृङ्गकर्णाङ्कुराणि पीतेन
पुच्छमक्षीणि श्वेतकृष्णेन कृत्वा तत्पुरस्तात् पूर्णकुम्भं
तत्पश्चात् दीपं घण्टां श्रीवत्सं स्वस्तिकं
शेषमङ्गलरूपाणि च विलिख्य ध्वजयागमारभेत् ।
अथवा (क्: अधवा) दण्डदीर्घं दण्डनासविस्तारं (क्: -
नाह-पूर्ववत् पटं विन्यस्य) पुण्याहं वाचयित्वा
पञ्चगव्यादिभिः प्रोक्ष्य वृषे चलासनं सम्पूज्य तस्याग्रे
स्थण्डिलं (क्: ष्थण्डिलं) कृत्वा अग्निकार्योक्तमार्गेण होमञ्च
विधाय बेरशुद्ध्यनन्तरमन्यत्र स्थण्डिलद्वयं सम्पाद्य
वृषपटमध्ये न्यस्त्वा हेमतूलिकाया (क्: -कया)
सूर्यसोममन्त्राभ्याम् अक्षिमोचनं वृष गायत्र्या वा
विधाय-
तीक्ष्णशृङ्गाय विद्महे वेदपादाय धीमहि ।
तन्नो वृषः प्रचोदयात् ॥
प्। ८) अक्षिमोचनानन्तरं गोदर्शनादि सर्वं विधाय मृद्भिः
पञ्चगव्येन शिवाम्भसा च प्रोक्ष्य दर्पणे गव्यादिभिः
स्नाप्य जले अधिवासयेत् ।
क्: ९) जलादुत्तिर्य यागशालायां ध्वजपटमानीय वृष
गायत्र्या पुनः गव्यादिना सम्प्रोक्ष्य स्थण्डिले संस्थाप्य
वृषे षडुत्थासनं सम्पूज्य मूर्तिं ध्यानपुरस्सरं
सङ्कल्पयेत् ।
पश्चात् वाससा आच्छाद्य ब्रह्माणि विन्यस्य धूपदीपौ
दत्वा निद्राकुम्भं संस्थाप्य उक्षादीन् परितः विन्यस्य
पूजयेत् ।
वृषमूले स्थित्वा मूर्धादि पादपर्यन्तं चतुस्त्रिंशत्
तत्वानि साधिपानि विन्यसेत् ।
तद्यथा � सदाशिवतत्वाय नमः � सदाशिवतत्वाधिपाय
ब्रह्मणे नमः � इत्यारभ्य पृथिवीतत्वाय नमः �
पृथिवीतत्वाधिपाय श्रीकण्ठाय नमः � इत्यन्तं सम्पूज्य
त्रिखण्डं परिकल्प्य पुष्पमाला प्रतिसरं दत्वा पूर्ववत्
भागत्रयं सङ्कल्प्य प्रतिभागं पूर्वादिक्रमेण �
क्ष्मावह्नियजमानार्क जलवातेन्दुखानि च । इति मूर्तय ।
उक्षा गोपति शृङ्गी (क्: शृङ्गि) नन्दि वृषपतिः (क्: -तिर्)
विषाणि शङ्कुकर्ण महोदरान् मूर्त्यधिपान् विन्यस्य
जीवन्यासं तन्मूलेन कृत्वा क्: १०) स्थापनाद्युपचारैः
सम्पूज्य भस्मदर्भतिलैः (प्। ९) प्राकारत्रयं बहिः (क्: बहिर्)
विदध्यात् ।
लोकपालान् अध्येष्य) कुण्डे आधारशक्तये नमः इत्यग्नौ
सम्पूज्य आहुतित्रयं दत्वा आत्मतत्त्वे (क्: * त्मतत्वे) विद्यातत्वे
शिवतत्वे ब्रह्मविष्णुशिवेभ्यो नमः इति सम्पूज्य प्रत्येकम्
आहुतित्रयं दत्वा क्ष्मामूर्तीः (क्: क्षादि-) तदधिपेभ्यो नमः
इति सम्पूज्य प्रत्येकम् आहुतित्रयं दत्वा मूलब्रह्माङ्गानि च
प्रत्येकं शतमर्धं वा हुत्वा पूर्णां दत्वा-
गुरुः शान्तिकुम्भहस्तः वृषसमीपं गत्वा शान्ति
कुम्भजलेन प्रोक्ष्य तन्मूलेन कुशमूलमध्याग्रैः (क्: -ग्रैर्)
भागत्रयं सङ्कल्प्य संस्पृश्य जप्त्वा हुत्वा
वर्मणावकुण्ठ्य (क्: -णाऽव-) निरुध्य तत्वाधि-पानाज्ञां
श्रावयित्वा, ज्ञानशक्तिं विन्यस्य निरुध्य होमैः (क्: होमैर्)
वेदादिघोषैः (क्: -षै) वा (क्: नास्ति) नृत्तगीतमहोत्सवैः (क्: -वैर्)
भक्तितो एकरात्रं वा कुर्यात् ।
वृषाधिवासनं दिक् बलिञ्च निवेद्य गुरुः पूर्ववत् स्वपेदिति
वृषाधिवासविधिः ।
२- ध्वजारोहणम्-
अपरेद्युः प्रातस्नानादिकं (क्: प्रातःस्ना-) कृत्वा
सङ्कल्प्य सकली कृत्य सामान्यार्घ्यं संसाध्य (क्: ११) नित्यवत्
(क्: नित्यवद्) आत्मपूजाविधिं (क्: विधि) सर्वं विधाय पटं
कुम्भादीन् यथाक्रमेणाभ्यर्च्य वह्नावपि (प्। १०) समिदाज्य
चरुभिः (क्: -भिर्) अष्टोत्तरशतं हुत्वा पूर्णान्दत्वा निरुध्य
मण्टपादिषु मण्डलत्रयं कृत्वा परिचारकमाहूय अस्त्रेण
सम्प्रोक्ष्य सोष्णीषम् उत्तरीयं च धारयित्वा पटकुभादि
सहितम् उद्धृत्य अस्त्रादि चण्डेशान्तं सर्वातोद्य (क्: सर्व-)
समायुक्तं शङ्खदुन्दुभि निर्घोषैः (क्: -षैर्)
वेदादिघोषैस्सह ग्रामप्रदक्षिणं कृत्वा आलयं प्रविश्य
पटमेकस्मिन् अस्त्रराजमेकस्मिन् कुम्भमेकस्मिन् स्थण्डिलत्रये
निधाय पुण्याहं वाचयित्वा पञ्चगव्यार्घ्योदकेन, सह
प्रोक्ष्य वृषं कुम्भजलेन प्रोक्ष्य उक्षादिघटैरभिषिच्य
गन्धाद्यैरलङ्कृत्य हविश्चणकादि निवेद्य अस्त्रराजमपि
तत्कुम्भजलेन अभिषिच्य अलङ्कृत्य निवेद्य जपान्तं सम्पूज्य
अस्त्रराजस्य रजनीचूर्णं दत्वा स्वयञ्च धृत्वा राज्ञां
भक्तानां परिचारकानां सर्वेषाञ्च रजनीचूर्णं दापयेत्
।
ततो ध्वजदण्डमलङ्कृत्य शिव (क्: नास्ति) गायत्र्या
घण्टांयां (क्: घण्टायां) अभ्यर्चयेत् ।
क्: १२) देवं रथादौ समारोप्य शूलम् अग्रे अग्रतः आचार्यः
पृष्ठतः यजमानः भक्तजनैस्सर्वैस्सार्धं (प्। ११)
सर्वातोद्यसमायुक्तं (क्: सर्व-) मङ्गलाङ्कुरसहितं पूर्ण
कुम्भसहितं नानाविध छत्रचामर दीपसंयुक्तं
यात्रादानसहितं दिग्विदिक्षु गीतनृत्तबलिदान सहितं पुरं
प्रदक्षिणीकृत्य आलयं प्रविश्य ध्वज स्थाने समानीय
पुण्याहं वाचयित्वा सवेदिकमभ्युक्ष्य शक्त्यादि शक्त्यन्तं
वेदिकायाम् अभ्यर्च्य-
ध्वजदण्ड ध्यानम्
एकं च पादं द्विभुजं त्रिणेत्रं रोमावलीराजित दर्भरज्जुम् ।
श्वेताङ्गरूपं शुकनासिकान्तम् आरूढ पद्मासन
दण्डरूपम् ॥
इति ध्यात्वा-
दण्डे सदाशिवमावाह्य यष्टिफलकासु शक्तित्रयम्
उपदण्डे सूर्यसोमौ, रज्जौ तक्षाधिदैवत्यं पटे वायुं,
ध्वजे वृषं, क्रमेणाभ्यर्च्य मुद्गान्नं पायसं वा (क्: च
चा) वृषाय निवेद्य (क्: ।)
धूपदीपौ दत्वा ब्राह्मणानां स्वर्णादि दत्वा ध्वजपटं
समुद्धृत्य रज्जुना बन्धयित्वा करिष्यमाण (क्: -णं) उत्सवम्
अक्रियत इति (क्: १३) शिवं विज्ञाप्य ब्रह्मताल पठनं कृत्वा
विघ्ननिरसनार्थम् असङ्ख्य नालिकेर बलिं दत्वा सुमुहूर्ते
नानावाद्य सहितं देशिको (प्। १२) दण्डमूले स्थित्वा अर्घ्येण
आरोपितपरिचारकं (क्: अर्घ्येणारोपि-) च प्रोक्ष्य स्वयमादौ
स्पृष्ट्वा मूर्तिपैस्सह शीघ्रमारोपयेत् ।
सव्यक्रमेण रज्जुना सह वेष्टनं कृत्वा दण्डमूले
बन्धयेत् ।
अथ प्रभृति तीर्थान्तं वृषं त्रिकालं द्विकालं वा
पूजयेत् ।
पश्चात् कुम्भान्तिकं (क्: कुण्डान्तिकं) गत्वा
प्रायश्चित्तं हुत्वा वृषयागाग्निं विसृजेत् ।
दिग्विदिक्षु शुद्धनृत्तं कार्यमिति ध्वजारोहणविधिः ।
बलिपिण्डप्रमाणम् ।
नारिकेलप्रमाणं तु पञ्चविंशति पिण्डकम् ।
दण्डपीठेन शुद्धं स्यात्
(क्: + तत्बिण्डं प्राशयेन्नारी अपुत्रापुत्रमाप्नुयात् ।
व्याधिघ्नं सर्वदोषघ्नं वृषोश्चिष्टं शिखिध्वज ॥)
क्: १४) ध्वजारोहणम् (क्: +फलं)
यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् ।
ना कालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ॥
नोपसर्पभयं तत्र नोपरागो न विभ्रमः ।
विपरीताश्च मतयोः (क्: -यो) योगिनामपि भूयसा ॥
स्वकालवर्षी पर्जन्यः (क्: फर्जन्यः) सुभिक्षं विजयी नृपः ।
शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ॥
कृतघ्नो ब्रह्महा गोघ्नो दृष्टाध्वजनिवेशनं (क्: दृष्ट्वा-) ।
प्राप्नोति पापनिर्मोक्षं किमु कर्तुः कुलत्रयम् ॥
प्। १३)
कृते महाध्वजारोहे तत्कोटिगुणितम् फलम् ।
३ � भेरी (क्: बेरी) - ब्रह्मतालविधिः ।
उक्तम् उत्सवपध्त्यां सर्वदेव प्रियार्थकम् ।
सायरक्षाऽवसाने च भेरीं सन्ताड्यते यथा ॥
देवाग्रे ध्वजाग्रे वा देवताह्वानक्रियां समारभेत् ।
तत्र स्थण्डिलत्रयं कृत्वा एकस्मिन् शूलं तत्पुरतो पटं
तदग्रे भेरीं न्यस्य (क्: विन्यस्य) दक्षिणे घोणदण्डं विन्यसेत् ।
(क्: + ततस्त्रिशूले तत्वभुवनवर्णपद मन्त्र कलादीन्
विन्यसेत् ।)
तद्यथा (क्: -धा) � मध्यपत्रे शिवतत्वाय नमः �
शिवतत्वाधिपाय रुद्राय नमः � वामपत्रे विद्यातत्वाय नमः
� विद्या तत्वाधिपतये विष्णवे नमः � दक्षिणपत्रे आत्मतत्वाय
नमः � आत्मतत्वाधिपाय ब्रह्मणे नमः � फलकायां (क्: -
यं) पार्वत्यै नमः � कुम्भदेशे सेनान्यै नमः � तदास्ये
विघ्न राजाय नमः � दण्डाग्रे मदनाय नमः । भास्कराय
नमः � दण्डमूले चण्डेश्वराय नमः � आग्नेयादि
सप्तदलेषु ब्राह्म्यै नमः � माहेश्वर्यै नमः � कौमार्यै
नमः � वैष्णव्यै नमः � वाराह्यै नमः � माहेन्द्र्यै नमः
� चामुण्ड्यै नमः � पश्चिमदलमध्ये ज्येष्ठायै नमः
कुबेरदलमध्ये कात्यायन्यै (क्: -यिन्यै) नमः � शूलमूले �
एकादशरुद्रा द्वादशादित्याष्ट (क्: -ष्टा) वसवश्च
अश्विनिदेवता अष्टादशगणाश्च आवाह्य (क्: -नीदेवताष्टा- -
णाश्चाऽवाह्य) अभ्यर्च्य तानाहूया शिष्टश्चोक्त्वा (क्: -
याऽशिष-) भेरीं सन्ताडयेत् ।
ततो भेरीं विचित्रवस्त्रेण आवेष्ट्य (क्: -वस्त्रेणावेष्ट्य)
मध्ये रुद्रं सप्त कीलेषु मातॄन् कीले नवग्रहाश्च (क्: -
ग्रहांश्च) रज्जुषु वासुकीं (प्। १४) प्रहरे षण्मुखं क्रमेण
(क्: क्रमे * ंइस्सिन्ग् पगे नो। १६, १७) अभ्यर्च्य गन्धादिभिरलङ्कृत्य
भेरीताडनं कुर्यात् ।
आचार्यं शस्त्रं बिन्दुरूपं ध्यात्वा दर्भेण
त्रिवारं ताडयेत् ।
तन्नादं प्राणिनां श्रवणपथं चेत् अपेतकिल्बिषा
भवन्ति ।
पश्चात् वाद्यकमाहूय यज्ञसूत्रमुत्तरीयञ्च
गन्धमाल्यादि धारयित्वा तद्धस्ते पुष्पं दत्वा सोपि
आचार्याऽनुज्ञया भेर्यां पुष्पं निक्षिप्य वाद्यं स्कन्धे
समारोप्य नन्दितालेन ताडयेत् ।
ततः शिवादि सर्वदेवांश्च अष्टादशगणांश्च इन्द्रादि
दिक्पतींश्च समुद्रान् पर्वतान् द्वीपान् पातालान् सकलांश्च
आहूय श्रावयेत् ।
ततः मध्यादि देवताह्वानार्थम् अस्त्रराज सोमास्कन्द
देवि विनायकस्कन्द नन्दि चण्ड भक्तविग्रहादिसहितं
सर्वमङ्गलैस्सह वृषस्थानमाश्रित्य पूजाबलिं दत्वा नृत्त
गीतवाय्वादिभिः सन्तोषं ब्रह्मस्थानमाश्रित्य तन्मण्डले
पुण्याह प्रोक्षणादि सर्वं विधाय ध्यात्वा सम्पूज्य
नैवेद्यार्थं बलिं दत्वा अनन्तरं तालं ब्रह्मतालं रागं
वङ्कुलं नृत्तं समपादं पण् पञ्चमं वाद्यं
गुच्छपुटम् इत्यादिभिस्सन्तोष्य अनन्तरम् इन्द्रदिशमाश्रित्य
तन्मण्डले पूर्ववत् आसनादि (प्। १५) बल्यन्तं कृत्वा तालं
समतालं नृत्तं भुजङ्गं पण् कौमेशीं वाद्यं सा च
पटमिति कृत्वा आग्नेयां दिशि अग्नेः पूजादि बल्यन्तं कृत्वा
रागं वराटि तालं मत्ता वरणं नृत्तं मण्डलं पण्
कोल्लिवाद्यम् उद्घटितमित्यादिभिः सन्तोष्य याम्यदिशि यमं
पूजादिबल्यन्तं विधाय वागं रामगिरि तालं
भृङ्गिणीतालं नृत्तं दण्डपादं पण् कौशिकं वाद्यं
मिलितमट्टयम् इत्यादिभिः सन्तोष्य नै-ऋते नि-ऋते नि-ऋतिं
पूजाबलिं दत्वा रागं भैरवीतालं मल्लतालं नृत्तं
भुजङ्गत्रासं पण् नट्टभाषा वाद्यं लम्बकमित्यादि कृत्वा
वारुणे वरुणं पूर्ववत् बलिदानं कृत्वा रागं कुञ्जरी
तालं नागतालं नृत्तम् आकुञ्चिकं पण् श्रीकामरं
वाद्यं सिंहनादमिति कृत्वा वायव्यां वायुं पूर्ववत् बलिं
दत्वा रागं देशागिरि तालं बलि तालं नृत्तं भुजङ्गलमितं
पण् नवकेशि वाद्यं (क् ंइस्सिन्ग् उप् तो हेरे, क्: १८) जम्पटमिति
कृत्वा उत्तरे कुबेरं पूर्ववत् ध्यात्वा बलिं दत्वा रागं
गौढिकं तालं गौलितालं नृत्तम् आकुञ्चितं पण् कौशिकं
वाद्यं पञ्चममिति सन्तोष्य ईशाने ईशानं पूर्ववत्
ध्यात्वा सम्पूज्य बलिं दत्वा रागं तुण्डीरं तालं
ढक्करी नृत्तम् ऊर्ध्वपादं पण् शालापाणि वाद्यं
कुम्भवाद्यम् इत्यादिभिः (क्: -भि) सन्तोष्य इन्द्रादिभिः क्रमेण
(क्: क्रं * णे) प्रदक्षिणीकृत्य आलयं प्रविश्य ध्वज (प्। १६)
मूले बलिपीठे वा विशेषं क्षिपेदिति बृहत्तालविधिः (क्: ब्रह्म-) ।
५ - यागशालार्चनाविधिः
ततः पूर्वोक्तप्रकारेण मङ्गलाङ्कुरं निवृत्य
अनन्तरं (क्: निर्वृत्याऽनन्तरं) यागशालार्चनम् ।
देवाग्रे वा ईशानाग्नेये सौम्यवारेणे (क्: -वारुणे) वा
पञ्च हस्तादि मण्टपे पश्चिमद्वारं विधाय तन्मध्ये
यथोक्त वेदिका दर्पणोदरवत् (क्: -वद्) उपवेदिका सहिता कार्या ।
तद्बहिः पूर्वादीशान्तकुण्डानि क्रमेण आश्रयानि
अर्धचन्द्र (क्: -णाश्रयान्यर्धचन्द्र) त्रिकोणवृत्त षट्कोण
पद्माष्टकोण कुण्डानि �
चन्द्रेशानयोर्मध्ये (क्: इन्द्रे-) वृत्तं वा चतुरश्रं वा-
क्: १९) यद्वा � पञ्चपक्षे वृत्तं प्रधानम् ईशाने चतुर्दिक्षु
चतुरश्राणि कुण्डानि ।
अथवा � एकं वृत्तं चतुरश्रं वा कृत्वा गोमयेन
उपलिप्य (क्: -येनोपलिप्य) वितानध्वजछात्र
दर्भमालादिद्वारतोरण मङ्गलाष्टयुक्तं (क्: -ष्ट अयुतं) -
दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलमिति ॥
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।
ध्वजं गदा च शूलं च पद्मचक्रमिति
दशायुधसहितं स्रुक् (क्: सृक्)
सुवादिकारकसमूहयुक्तं (क्: स्र-) विधाय सायाह्ने
उत्सवारम्भं कुर्यादिति यागशालालक्षणविधि (क्: -विधिः)
प्। १७)
६ - अस्त्रयागविधिः ।
आचार्यो ऋत्विग्भिस्सह सायं सन्ध्यां विशेष
सन्ध्यां च निर्वृत्य आलयं प्रविश्य देवाग्रे स्थण्डिलं
विधाय अस्त्रेण सम्प्रोक्ष्य कुम्भान् सुस्निग्धान् सुदृढान्
नवान् हेमादि मृण्मयान्तान् निष्कलङ्कान् सकूर्चान्
सविधानान् (क्: सपिधानान् + स) वस्त्र फलपल्लव (क्: + स)
सूत्रसहितान् सहिरण्य रत्नादि संयुक्तान् यथोक्त (क्: यथेक्ता) (क्:
२०) लक्षणान् अस्त्रेण वारिणा प्रक्षाल्य (क्: प्राक्षल्य)
धूपयित्वा हृदा गन्धतोयेन आपूर्य (क्: -यनापूर्य) स्थण्डिलो
परि मध्ये शिवकुम्भम् उत्तरे वर्धनीं (क्: -तीं)
परितोष्टघटान् संस्थाप्य मूर्तिमन्त्रेण कुम्भं शक्त्या
वर्धनीं (क्: -तीं) च अनन्तादि शिखण्ड्यन्तान् (क्:
शिकण्ड्यन्तान्) कलशेषु सम्पूज्य तत्परितः नन्द्यादि
आयुधां (क्: नन्द्याद्यायुधान्तञ्) च परिचारकमाहूय
शिवकुम्भवर्धन्यौ च क्रमेण धारयित्वा वज्रादि चक्रान्तं
शङ्खदुन्दुभि निर्घोषैः (क्: -षैर्) वेदादि घोषैश्च विमानं
प्रदक्षिणीकृत्य यागशालां प्रवेश्य वेदिकामध्ये
अष्टद्रोणशालिभिः (क्: -मध्येष्ट- -भिस्) सदर्भ (क्: तदर्ध)
तण्डुलैः (क्: -लैस्) तदर्ध तिललाजैः (क्: -जैस्) सप्तधान्यैश्च
परिस्तीर्य तन्मध्ये शिवकुम्भवर्धन्यौ विद्येश्वरघटाश्च
संस्थाप्य धर्मादि सूर्यान्तस्थाने संस्थाप्य ऋत्विग्भिः (क्: -
भिर्) यजमानैः (क्: -नैस्) सह गुरुः (क्: गुरुर्)
विनायकपूजापुरस्सरं पुण्याहं वाचयित्वा सौरपूजां
नित्यवत् कृत्वा विसृज्यैव समाचम्य सकलीकृत्य सामन्यार्घ्यं
(क्: सामान्यार्घ्यं) संसाध्य पूर्वादि द्वाराणि सम्पूज्य
प्रतिद्वारं (प्। १८) द्वौ द्वौ नन्द्यादि चण्डान्तं पूर्ववत्
सम्पूज्य पश्चिमे नित्यवत् द्वारपालान् आराध्य (क्: -
लानाराध्य) नै-ऋते वास्तुनाथं सम्पूज्य ब्रह्मस्थानात् (क्: -
नाद्) दक्षिणतो दुङ्मुखे (क्: -तःऽङ्मुखे) (क्: २१) समुपवेश्य
भूतशुद्ध्यादि विशेषार्घ्यं च कृत्वा आत्मानं (क्:
कृत्वातानं *) गन्धादि उष्णीषान्तैः (क्: गन्धाद्युष्णीषान्तै)
मूर्तिपैस्सह अलङ्कृत्य पञ्चगव्यं विधिवत् विधाय
पञ्चगव्यार्घ्य जलैः मण्टपशुद्धिं विधाय
शिवकुम्भवर्धिन्यौ पूर्ववत् (क्: -वज्) जपान्तं सम्पूज्य
लोकपालान् वाहनायुधसंयुक्तान् ध्यात्वा सम्पूज्य
महालक्ष्मीं गणपतिं गुरुपक्तिं (क्: -पङ्तिं) चा अभ्यर्च्य
सर्वान् शिवाज्ञां श्रावयेत् ।
ततः स्थण्डिलाद्दक्षिणतः उपविश्य शिवकुम्भे शक्त्यादि
शक्तिपर्यन्तासनं सम्पूज्य दण्डभङ्गी मुण्डभङ्गी
कलाभङ्गी च न्यस्त्वा सर्वाध्वोपेतं शिवं पूर्वोक्तवत् (क्: -
वद्) ध्यात्वा आताह्य (क्: ध्यात्वाऽवाह्य) वर्धन्यां
श्रीकण्ठन्यासं विधाय-
देवीध्यानम् ।
द्विभुजां चारुवदनां सुस्तनां च सुयौवनाम् ।
दुकूलवदनां (क्: वसनां) शान्तां किञ्चित् ब्रह्मसिताननां
(क्: प्रहसिता-) ॥
सर्वाभरणसंयुक्ताम् आसने हरवत् स्थिताम् ।
करण्डमकुटोपेतां देवीं (क्: नास्ति) ध्यायेदनुक्रमादिति (क्:
ध्यायेद् देवीमनु-) ॥
क्: २२) ध्यात्वा तन्मूलेन आवाह्य (क्: -नावाह्य) तौ
पञ्चावरण पञ्चोपचारैः (क्: -चारैस्) सम्पूज्य न�वेद्य
जपञ्च समर्प्य हुत्वा (क्: -र्प्यस्तुत्वा) प्रार्थ्य आग्नेयादि कोणेषु
धर्मादीन् सम्पूज्य शिवाज्ञां श्रावयित्वा कुण्डान्तिकं
व्रजेयुः ।
प्। १९)
कुण्डसंस्कारादि पूर्णान्तं विधाय अग्निं नवधा
पञ्चधा वा विभज्य पूर्वादि कुण्डेषु (क्: कुम्भेषु) निक्षिप्य
तत्तच्छिवं साङ्गं सम्पूज्य चरुहवनप्रायश्चित्ताङ्ग (क्: -
ङ्गं) मूर्तिपैः (क्: -पैस्) सह जुहुयुः ।
तत्तत् कुण्डेषु शिवं विशेषतः सम्पूज्य �
यज्ञसमिधः ।
अश्वत्थोदुम्बर प्लाक्ष वटाः पूर्वादि दिक्षु च ।
शमी खादिर मायुर श्रीवृक्षाग्न्यादि कोणतः ॥
प्रधानेन (क्: -ने तु) पलाशं स्यात् स च सर्वत्र सम्मतः ।
चरुलाजसर्षपयवतिलमुद्ग माषशिम्बाढक चणक
कुलुत्थांश्च हुत्वा द्रव्यान्ते व्याहृतिभिश्च (क्: -हृती-) हुत्वा
मूलेन अष्टोत्तरशतं सहस्रमर्धं वा पूर्णासहितं
जुहुयुः ।
क्: २३) ततः श्रोत्रचन्दनादिकं (क्: शोत्रवन्दना-) कृत्वा वह्निं
निरुध्य होमरक्षां मूललिङ्गादि बेरणां (क्: बेराणाञ्) च
दापयित्वा स्वयं च ऋत्विग्भिस्सह धृत्वा तत्र ईशाने (क्:
तत्रेशाने) मारुते वा शूलं समानीय (क्: -नीय्य) स्थापयित्वा
प्रतिदिनं सायं प्रातः (क्: प्रातर्) एवमेव कारयेत् ।
इत्यस्त्रयागविधिः ।
११ � रक्षाबन्धनविधिः ।
ततः स्वर्णरजत कार्पासेभ्यो अन्यतः (क्: न्यतमं)
रक्षासूत्रं तिथिरौद्रनवात्मकं षोडशाङ्गुलयामं (क्: -
लायामं) लिङ्गस्य तन्नाह समं पिण्डिकायां नालसमं
स्थलिकायां (क्: स्था-) तण्डुललाज पुष्पैरापूर्य तन्मध्ये
पद्ममालिख्य (क्: पदमा-) तदुपरि विन्यस्य भस्मरजनी
धूर्वागन्ध (क्: दूर्वा-) पुष्पफल सुवर्ण (क्: स-)
ताम्बूलादिदत्वा (प्। २०) तत्सूत्रं त्र्यम्बकेन भस्मना
सम्मृज्य पुण्याहं वाचयित्वा षडुत्थासनपूर्वम् अभ्यर्च्य
धूपदीपौ दत्वा आलयं प्रदक्षिणी कृत्य अन्तः प्रविश्य शिवं
सम्पूज्य धूपदीपौ दत्वा वासुकिं ध्यात्वा लिङ्गमूले
मूलेन धृत्वा पिण्डिकायां नालभाङ्गतन्मूलेन (क्:
नालभागे-) बन्धयित्वा त्र्यम्बकेन भस्म समर्प्य तदुपरि
रजनीं दत्वा गन्धादिभिरभ्यर्च्य अस्त्रराजस्य (क्: २४)
मध्यपत्रे बन्धयित्वा अस्त्रादि भक्तान्त बेराणां त्र्यम्बकेन
(त्रियम्बकेन) सहृदा दक्षहस्ते बन्धयेत् ।
गौर्यादि स्त्रीबेराणां च गौरीमूलमन्त्रेण वामहस्ते
कौतुकं बन्धयेत् ।
स्वस्य च ऋत्विजां च बलिवाहकस्य भेरीताडनस्य च
दशायुधानां च कौतुकं बन्धयित्वा तदुपरि भस्मरजनी
समर्प्य ध्वजदण्डमध्ये कौतुकं धृत्वा सपुष्पं ग्रन्थिषु
(क्: ग्रन्धि-) रजन्या सह सुदृढं बन्धयेत् ।
सर्वेषां रजनीचूर्णं स्वर्णफल ताम्बूलादि
दापयेदिति रक्षाबन्धनविधिः ।
७ � बलिदानविधिः ।
ततो बलिः महोत्सवे सायं प्रातः ब्रह्मस्थानादि
ध्वजान्तं वा वृषादि बलिपीठान्तं (क्: -बीठान्तं) वा (क्: वे)
इति (क्: * ति) बलिं दद्यात् ।
तद्यथा � ब्रह्मस्थानादि स्थानेषु हस्तप्रमाणविस्तार
दीर्घं तदर्ध विस्तार द्वादशाङ्गुलम् अष्टाङ्गुलं वा
घनं मेखलात्रययुतम् एकैकपीठं (क्: -कम्पीठं)
कर्णिकाष्टदलयुतशिलामयं (क्: -युतं-)
प्। २१) अथवा इष्टिकामयं सारदारुमयं वा सलक्षणं
पीठानि निर्माय आलेप्य (क्: -यालेख्य) पञ्चचूर्णैस्तत्तद्दिगलं
कृत्य द्रोणं वा तदर्धतण्डुलं (क्: २५) वा विपच्य बलिपात्रे च
आदाय (क्: * दाय) अस्त्रेण सम्प्रोक्ष्य तदन्यत् (क्: तदत्यत्)
स्थालिकायां तदर्धं समानीय अन्नलिङ्गं (क्: -यान्तलिङ्गं)
सलक्षणं कुर्वीत (क्: प्रकुर्वीत) ।
तद् (क्: तत्) द्वादशाङ्गुलमुन्नतं नाहं वेदाङ्गुलं
(क्: देवाङ्गुलं) सपीठं प्रकल्प्य दध्नाचालिप्य (क्: -लिख्य)
विधिवत् प्रतिष्ठाप्यध्यानं-
पाशुपतध्यानम् ।
त्रिणेत्रं चतुर्भुजं देवं जटामकुटधारिणम् ।
वरदाभयहस्तं च वामहस्तेऽक्षमालिकाम् ॥
दक्षिणे शूलसंयुक्तं (क्: -क्तां) रौद्रदृष्टिसमन्वितम् ।
नागाभरणसंयुक्तम् ऊर्ध्वं (क्: ऊर्ध्व) कशमधोक्षि
(केश-) च ॥
एतत् पाशुपतं दिव्यं लिङ्गमध्ये प्रपूजयेत् ।
यद्वा � पूर्ववच्छिवं सम्पूज्य आचार्यः स-ऋत्विक्
दशायुधास्त्रराजयुक्तः भस्माद्युष्णीषान्तैः (क्:
भस्मार्द्यष्णी- -तैर्) अलङ्कृतः परिचारसहितो (क्: -चारकसहितो)
विचित्रध्वजछत्र चामरादि सहितो नाना वाद्यघण्टा
ब्रह्मघोषैश्चैव (क्: -षैश्च *) नृत्तकी (क्: नृत्तगीत) नर्तक
गायक सहितो बलिं दद्यात् ।
नवाहोत्सवे विशेषबलिदेवान् क्रमेण उच्यते ।
क्: २६) प्रथमेऽहनि विघ्नराजाय स्वाहा � द्वितीये भूतेभ्यः
स्वाहा � तृतीये ऋषिभ्यः स्वाहा � चतुर्थे इन्द्राय स्वाहा �
पञ्चमे � ब्रह्मणे स्वाहा - षष्ठे विष्णवे स्वाहा � सप्तमे
रुद्राय (प्। २२) स्वाहा � अष्टमे ईश्वराय स्वाहा � नवमे
सदाशिवाय स्वाहा � इत्येतेषु दिवसेषु हविः (क्: हविर्)
लिङ्गपूजान्ते कार्यम् ।
शुद्धान्नमाज्ययुक्तं दधिप्लुतं
कुक्कुटाण्डप्रमाणं क्षिपेत् ।
विशेषबलिः ।
गोस्थाने रुद्राय कुम्भोदराय कुशेषु लङ्कायै नदीषु
गङ्गायै तटाके क्षेत्रमूर्तये सभास्थाने सरस्वत्यै दुर्गायै
कोशे महालक्ष्म्यै (क्: -महामक्ष्म्यै) गोपुरे भीमाय स्वाहा
(क्: स्वाहे) इत्येवं (क्: * त्येवं) सायं प्रातः (क्: प्रातर्) बलिं
दिशेत् ।
ब्रह्मस्थानादि बलिपीठान्तं दण्डान्तं वा आल्यं
प्रविश्य बलिपीठे शेषं क्षिपेत् ।
अन्नलिङ्गं जले विसृज्य पादौ प्रकाल्य अर्च्य (क्: अचम्य)
शुद्ध भस्मना उद्धूल्य (क्: -नोद्धूल्य) प्रवेशयेदिति
बलिप्रमाणविधिः ।
८ � यानक्रमविधिः
पूर्वोक्तवत् वीथीः (क्: वीधीस्) समलङ्कृत्य रथे रङ्गे
खेटके शिम्बिकादौ (क्: शिबिकादौ) वा नानालङ्कार (क्: २७) पुष्प
प्रभासमायुक्तं देवं शक्त्या सहितं मूलस्थाने समानीय
आवाह्य (क्: -नीयावाह्य) धूपदीपौ दत्वा पुष्पाञ्जलिना
अभ्यर्च्य (क्: -नाभ्यर्च्य) शक्त्यादि भक्तान्त बेरसहितं
प्रदक्षिणम् उपक्रमेत् ।
अग्रतो नानालङ्कारसहितं भेर्यादि वाद्यसहितं
शैलादिन्तदन्तराले नन्दिं विनायक सुब्रह्मण्यौ मध्ये देव्या
सह सोमास्कन्दम् अग्रतः पृष्ठतो वा भक्तबेरांश्च तत्
पश्चात् चण्डेश्वरं च देशिकः (क्: -कस्) सव्यभागे स्थित्वा
मूलमघोरं वा सङ्ख्यं (क्: असङ्ख्यं) जपेत् ।
प्। २३) वामभागे नृपः पृष्ठदेशे भृत्याः देवस्य पुरतो
नर्तकवंशक गायकमद्दलकाश्च पार्श्वद्वये नृत्तयुक्तानि
रुद्रगणिका अग्रे महाशैवाः पृष्ठतो वेदादि घोषसंयुताः
तत्पश्चात् चातुर्वर्णोद्भवाः माहेश्वराश्च अनुगच्छन्तः
अश्वमेधफलं प्राप्नुवन्ति ।
एवं देवं सन्तोष्य प्रथमेऽहनि प्रातः अङ्गं (क्:
रङ्गं) रात्रौ सिंहं (क्: सिह्मं) द्वितीयेऽहनि
सूर्यसोमयन्त्रं तृतीये भूतयन्त्रं रात्रौ हंसं चतुर्थे
नागं रात्रौ वृषभं वृष प्रदक्षिणान्तराले परिवेषणं
कुर्यात् ।
क्: २८) ९ � परिवेषं (क्: परिवेषणं) ।
तद्यथा � उद्यनादिवृषङ्कपोङ्कणे (क्: उद्यानादिष्वं
कणेकण्णे) वेदस्तुति श्रुतिवीणा वेणुगायक नृत्तक
रुद्रगणिकासहितं फलाद्युपहारैः (क्: -रैस्) ताम्बूलादिभिश्च
पदे पदे देवं सन्तोष्य आलयं प्रवेशयेत् ।
पञ्चमेऽहनि आन्दोलिका रात्रौ शिखरियुक्ता
रावणयन्त्रं षष्ठेऽहनि शिबिकायां खेटका वा समारोप्य
चूर्णोत्सवं वक्ष्यमाणवत् कृत्वा कुङ्कुम मुसुम्भ (क्:
कुसुम्भ) हरिद्रादिजलैश्च देवान् सम्प्रोक्ष्य कुङ्कुमपङ्कैः
(क्: -पङ्कैर्) देवानालिप्य सर्वान् प्रोक्षयेत् ।
रात्रौ गजारूढं सप्तमे रथं रात्रौ कल्पतरौ अष्टमे
प्रातः (क्: प्रातर्) आन्दोलिको (क्: -का) रात्रौ अश्वारोपणं (क्: -
रोहणं) कृत्वा यानकाले अश्वारूढा कुन्ताद्यायुध युक्ताः
(क्: युक्तः) धनुः खेटकयुक्ताः (क्: खेट * युक्ताः)
सर्वालङ्कारसहित रुद्रगणिकाः परितो व्रजेयुः ।
अत्रान्तरे दुष्टनिग्रह शिष्टपरिपालनं कृत्वा सकल
धर्माधर्मान् (क्: * * धर्मान्) श्रावयित्वा आलयं प्रवेशयेत् ।
प्। २४)
नवाहे पुरुषयन्त्रयुक्त आन्दोलिका (क्: -युक्तान्दोलिका)
सघेटके (क्: सखेटके) रात्रौ कृष्णगन्धं दशमेऽहनि
रत्नसिंहासने (क्: -सिह्मासने) शिम्बिकादौ (क्: शिबि-) वा देवं
समारोप्य (क्: २९) पुरादिकं प्रदक्षिणीकृत्य हर्म्याग्रे
ध्वजाग्रे विकृतान्नं परिभ्राम्य तच्चतुष्पथे प्रक्षिपेत् ।
अनन्तरं गरुणा सुवासिनीभिः रुद्रगणिकाभिर्वा
नीराञ्जनं कारयेत् ।
ततो गोपुराग्रे ध्वजाग्रे वा देवाय घटदीपं दत्वा
अनन्तरं घटदीपसहिता रात्रिक नीराञ्जन हस्तयुक्ता
रुद्रगणिका नृत्तगीतादिभिः (क्: -भिस्) सकलवाद्यैस्सह
प्रदक्षिणं क्रमात् कृत्वा शैलादि नन्दि विनायक स्कन्द देवी
भक्तचण्डेश्वरैस्सह प्रातः प्रदक्षिणीकृत्य आलयं व्रजेयुः ।
ततो मङ्गलगायन्तीभिः (क्: -भिस्) सर्ववाद्यैस्सह
सोमास्कन्दमालयं प्रवेशयित्वा स्थानमण्टपादौ (क्:
आस्थान-) संस्थाप्य प्रच्छन्नपटं कृत्वा महाहविं निवेद्य
सर्वोपचारैः (क्: -रै) सम्पूज्य श्रमहरणार्थं नालिकेर (क्: -
रे) इक्षुसार (क्: * क्षु-) मुद्गतत्कालोचित फलानि निवेद्य
ब्राह्मणान् गन्धपुष्पैरलङ्कृत्य भोजयेत् ।
शिवभक्तान् दीनान्दींश्च अविचारेण भोजयेत् (क्:
भोजणयेत्) ।
अथवा अन्यप्रकारेण (क्: * न्य-) यानं कुर्यादिति
यानक्रमविधिः ।
१० � नीराञ्जनविधिः �
नीराञ्जनार्थं स्वर्णरजत ताम्रकांस्यादि पात्राणि
वितस्तिविस्तार मोष्ठमेकाङ्गुलं पञ्च सङ्गृह्य मण्डलोपरि
विन्यस्य गन्धपुष्पादिनाऽग्निबीजेन (क्: -त) ब्रह्मभिरभ्यर्च्य
चतुस्संस्कारैः संस्कृत्य शूलमुद्रां धेनुमुद्रां
प्रदर्श्य (प्। २५) स्वस्तिसूक्तैः (क्: -क्तैर्) मङ्गलवाचकैः (क्: -
वाचचैस्) सपिष्टैः पात्रैः दीपमादाय शिरसि निधाय
ग्रामप्रदक्षिणं कृत्वा देवस्याग्रे मण्डलके (क्: मण्डपे)
संस्थाप्य देवस्य शिरः प्रभृति पादान्तं त्रिधा त्रिधा
ब्रह्मभिः परिभ्राम्य दर्पणछत्रचामर व्यजन भस्मादि (क्:
भसादि) समर्प्य मूलेन शिवाय पुष्पाञ्जलिं दत्वा प्रणम्य
गणिकाभिः पूर्ववत् वाहयित्वा पाद्यादिभिस्सह (क्: वाद्या-)
पीठाग्रे वृषाग्रे वा प्रक्षिपेत् ।
पादप्रक्षालनादिकं कृत्वा आलयं प्रविशेदिति
नीराञ्जन (क्: -ञ्ज *) विधिः ।
१२ � तीर्थसङ्ग्रहणविधिः ।
तीर्थस्य पूर्वस्मिन् दिने तीर्थं सङ्ग्रहेत् ।
रक्षां पूर्ववत् कृत्वा आशिषो वाचयित्वा मण्टपमध्ये
(क्: मणपमध्ये + पूर्ववत् स्थण्डिलमेकं (क्: ३१) कृत्वा
तनध्ये) मनोन्मनोकरकं (क्: मनोननीकरं)
तत्परितोष्टकर्करीस्संस्थाप्य मध्ये �
सिन्दूराभां त्रिणेत्रामृतशशिकला (क्: -त्राममृ- -लां)
शेखरीं रक्तवस्त्रां
पीनोत्तुङ्ग प्रवृत्तस्तनभरनमितां
यौवनारम्भणाढ्याम् ।
नानालङ्कारयुक्तां सरसिजनिलयां
बीजसङ्क्रान्तमूर्तिं (क्: -मूर्तीं) देवीं
पाशाङ्कुशाढ्याम् अभयवरकरां विश्वयोनिं
नमामि ॥
इति ध्यात्वा सम्पूज्य पूर्वादि अष्टघटेषु (क्:
पूर्वाद्यष्ट-) गङ्गायै नमः � यमुनायै नमः � नर्मदायै
नमः � सरस्वत्यै नमः � सिन्धवे नमः � गोदावर्यै नमः �
कावेर्यै नमः � ताम्रपर्ण्यै नमः � इत्यावाहनादि
सर्वोपचारैः (क्: -रैस्) सम्पूज्य शिरसा वाहयित्वा
अस्त्रसमन्वितं सर्वतोऽद्य (क्: सर्वातोद्य) समायुक्तं (क्: सम-)
पुरं प्रदक्षिणीकृत्य नद्यादि (प्। २६) तीर्थेषु स्नानार्थं
सम्प्रदेशयेदिति (क्: सम्प्रवे-) तीर्थसङ्ग्रहणविधिः (क्: -
सङ्ग्रह * विधिः) ।
१३ � चूर्णोत्सव विधिः ।
तीर्थसङ्ग्रहदिवसात् (क्: -साद्) अपरदिनेषु बलिदानात् परं
चूर्णमारभेत् ।
क्: ३२) प्रासादाग्रे स्थण्डिल द्वितये पद्ममालिख्य पुण्याहं
वाचयित्वा दर्भैः परिस्तीर्य एकस्मिन् शूलं संस्थाप्य प्लक्षो
दुम्बराश्वत्थ पटादि वृक्षेण उलूखलं मुसलं खादिरेण
सलक्षणं (क्: श-) कृत्वा परैः (क्: परैस्) संस्थाप्य (क्:
संस्थम्प्य) अस्त्रेण सम्प्रोक्ष्य चतुस्संस्कारैः (क्: -रैस्)
संस्कृत्य उलूखलं मुसलं च वस्त्रेण आवेष्ट्य (क्: -
णावेष्ट्य) ब्रह्मदैवत्यमिति उलूखलास्त्रयोः (क्: -योर्) मध्ये
रुद्रकुम्भं परितो लोकपालाष्ट कलशान् सम्पूज्य-
यद्वा � शिवं चाभ्यर्च्य (क्: वाभ्यर्च्य) उलूखले परितः
पूर्वादि दलेषु दूर्वा सहदेवी कोष्ठं रजनीं तैलफल
ताम्बूल गन्धपुष्प भस्म (क्: भस) संस्थाप्य
चतुस्संस्कारैः (क्: -रैस्) संस्कृत्य उलूखले पृथ्वीं मुसले
मेरुमभ्यर्च्य तदुलूखले (क्: तदलू-) प्रक्षिप्य पदमन्त्रेण वा
भक्तस्तोत्रेण वा मुसलाघातेन गणिकाभिः (क्: -भिस्)
चूर्णीकृत्य तच्चूर्णं रजन्यां तैलघृतगन्धाख्योदकेन
मिश्रीकृत्य सहिरण्यमाचार्यः तच्चूर्णं गृहीत्वा पात्रेषु
निक्षिप्य संस्कृत्य मूललिङ्गे भस्मना सह दापयित्वा
कुङ्कुमोष्णीषं धृत्वा तत्पङ्कैरालिप्य (क्: तत्पङ्केना-)
निवेद्य धूपदीपौ दत्वा सर्वेषां
क्: ३३) बेराणां च चूणं धृत्वा तत्पङ्केन आलिप्य (क्: -नालिप्य)
पद्ममुद्रां प्रदर्श्य (प्। २७) स्वयं च धृत्वा सर्वेषां च
उष्णीष रजनीफल ताम्बूलादि दत्वा पुरादिकं त्रिशूलेन सह
प्रदक्षिणीकृत्य आलयं प्रवेशयेत् ।
अथवा - अस्त्रकुम्भं वज्रादिकलशांश्च संस्थाप्य
सम्पूजयेदिति चूर्णोत्सवविधिः ।
पश्चात् पूर्ववत् (क्: -वद्) अङ्कुरं कृत्वा
तीर्थस्नानमाचरेत् ।
१४ � तीर्थस्नानम् ।
सर्वेषाम् अस्पृष्टैः स्पृष्टदोषनिवृत्यर्थं तीर्थप्रसाद
सिध्यर्थं सर्वदेवप्रियावहं धर्मादिफलसिध्यर्थं (क्: -
सिध्यत्थं) सालोकादि (क्: -लोक्यादि) पदप्राप्त्यर्थं तीर्थतीरे
शक्त्या सह अस्त्रराज सोमास्कन्दादि अङ्कुर (क्: -स्कन्दाद्यङ्कुर)
छत्र चामरादि नानावाद्य घोषस्तुतिभिः (क्: -भिस्) सार्धं
तीर्थकुम्भसहितं विहितप्रपादिके देवान् संस्थाप्य तदग्रे
स्थण्डिले मनोन्मनीं मध्ये
गङ्गाद्यष्टकुम्भांश्चावतीर्य पालिकासह (क्: पालिकयासह)
संस्थाप्य विशेषतः (क्: -तस्) सम्पूज्य ईशान्यां दुर्गाम्
आवाह्य त्रिशूलसन्निधौ त्रयस्त्रिंशद्देवताश्च
अष्टादशगणाश्च
क्: ३४) लोकपालांश्च आवाहनं (क्: -श्चाह्वानं) कृत्वा
सस्त्रादि देवतानां कौतुकं विसृज्य तीर्थमध्ये प्रक्षिप्य
पालिकैस्सह शिवाद्यस्त्र पर्यन्तं तत्तत् घटैः (क्: -टैर्) अभिषिच्य
सर्वजनैः सार्धं स्नानमाचरेत् ।
ततः आचार्यः तीर्थदेवानुद्वास्य आलयं प्रविश्य
सर्वेषां देवानां स्वं स्वं कुम्भमभिषिच्य नैवेद्य
धूपदीपादि दत्वाअ आलयं प्रविश्य स्थानस्थाः (क्: -स्थास्)
सर्वे आचार्य हस्ते ब्रह्मघोषसहिता आश्यक्षतां दत्वा देशिक
आश्यक्षतैः (क्: -तैर्) आशीर्वादपुरस्सरं स्वं स्वं स्थानं
प्रवेशयेदिति तीर्थस्नानविधिः ।
प्। २८) अथ घटस्नानविधिः ।
हरोत्सवस्य चूर्णार्थं जनानां स्थितिकरणार्थं देव
प्रसादसिध्यर्थम् इन्द्रादिदेवता सामिप्य सिध्यर्थं
घटस्नानं कारयेत् ।
कुण्डेषु विशेषहोमं विधाय कुण्डेषु विशेषेण
पूर्णाहुतीः (क्: पूर्वा-) जुहुयुः ।
तत्तदीशं प्रधाने संयोज्य शिवमभ्यर्च्य पुनः
पूर्णां दत्वा शिवकुम्भादीन् विशेषेण अभ्यर्च्य (क्: ३५)
संयोज्य धूपदीपौ दत्वा आचार्यादिभ्यो यथोक्त दक्षिणां
दत्वा परिचारकादिभ्यो वस्त्र हेमादि दत्वा पूर्ववत् कुम्भान्
उद्धृत्य आलयं प्रदक्षिणीकृत्य गर्भदेहं (क्: -गेहं)
प्रविश्य संस्थाप्य षडध्वन्यासपूर्वं
मूललिङ्गेऽभिषेचयेत् ।
वर्धनीं पीठे विद्येशकलशान् तत्तत्स्थानेऽभिषिच्य
देवीं श्रीकण्ठन्यासपुरस्सरं कलशेन अभिषिच्य महाहविः
(क्: -विर्) निवेद्य धूपदीपौ दत्वा अग्निसदनं यायात् ।
शिवाग्नौ सशिरसा मूलाघीरासिना (क्: -घोरासिना)
शताधिकं हुत्वा पूर्णां दत्वा अग्निं यागेशे संयोज्य
गुरूपदिष्ट प्रकारेण कुम्भ वर्धन्यादि पञ्चावरणादेव (क्:
-ण देवताः) तत्तत्स्थाने संयोज्य तमपि विसर्जयेत् ।
अथ देवं जलक्रीडादिभिः (क्: -भिस्) सन्तोष्य
प्रभूतहविषं दत्वा बिम्बं प्रतिस्नपनं कारयेत् ।
इति घटस्नानविधिः ।
दुष्टनिग्रह शिष्टपरिपालनार्थं
तीर्थदिवसपूर्वाह्नादिके (क्: -ह्णादिके)
प्। २९) रात्रौ वा ब्रह्मतालपठनपूर्वं (क्: ३६) अवरोहं (क्:
अवा-) कर्तव्यम् उत्तमोत्तमप्रकारेणेति ध्वजस्थं वृषभे
संयोज्य वृषमपि शिवाग्रे स्थित विग्रहे समारोप्य
आवरणदेवांश्च (क्: -रोप्यावरण-) तदावरणे संयोज्य
यथाविधि (क्: -विथि) पूजयेत् ।
तद्दिने मौनबलिः ।
१५ � अवरोहणम् ।
होमान्ते हविर्भागं देवतानामिति उक्तत्वात् तन्निमित्तं (क्:
तन्ति-) मौनबलिमारभेत् ।
आचार्यः (क्: -र्यस्) सोमास्कन्दसमीपं गत्वा शक्त्यादि
शक्त्यन्तं सम्पूज्य दण्डभङ्गी मुण्डभङ्गी (क्: -भागि)
एकत्रिंशत् कलान्यासं श्रीकण्ठ न्यासं च कृत्वा ध्यायेत् ।
ध्यानम् ।
दक्षालम्बित निद्रितान्य पदयादेवायुतं मध्यतः ।
स्कन्देनाब्जकरद्वयेन सहितं सोमं गुहेशं भजे ॥
इति साङ्गं पञ्चावरणोपेतं प्रचुरेण सम्पूज्य
वक्ष्यमाणवत् तद्देवीं ध्यात्वाऽभ्यर्च्य जगतः (क्: -तश्)
शुभं प्रार्थ्य तस्मात् लब्धानुज्ञो मौनव्रतधरो
बद्धाञ्जलिपुटो भूत्वा अन्नलिङ्ग (क्: भूत्वान्न-) समन्वितम्
अस्त्रादि देवान् याने (क्: ३७) समारोप्य गन्धपुष्पादिसंयुक्ता (क्:
-युक्तं) खड्ग खेटकास्त्रादि संयुक्ता बहुरूपं हृदि
स्मरन्तो मौनव्रतधरा वाद्यघोषं विना ग्रासार्थं
कुक्कुटाण्डमात्रं वा ब्रह्मस्थानादि सन्दिष्ठपीष्ठेषु (क्:
सन्दिष्ट-) तत्तत्स्थाने वाद्यघोषसहितं ध्वजावरोहणपूर्वं
बलिं विधाय पूर्ववत् सन्धिदेवान् यथाक्रमेण विसृज्य (प्। ३०)
प्रदक्षिणीकृत्य आलयं प्रविश्य अवरुह्य पूर्वस्थले विन्यस्य
सर्वानपि च अन्नलिङ्गं जले विसर्जयेदिति अवरोहणविधिः (क्: -
दित्यवरो-)
चण्डोत्सवविधिः ।
पश्चात् चण्डमूर्तिं यागालये समानीय तत्कुम्भेन
अभिषिच्य यथाविधि सम्पूज्य निर्माल्यादिना विभूष्य
प्रायश्चित्तम् अग्नौ शतं सहस्रमर्धं वा हुत्वा तमपि
विसृज्य आलयं (क्: -ज्यालयं) तौर्य त्रिकेण भक्तजनैस्सार्धं
प्रदक्षिणीकृत्य तत्स्थाने निवेशयेदिति चण्डोत्सवविधिः ।
आचार्यपूजा ।
आचार्यं पूजयेत् पश्चात् दक्षिणां च प्रदापयेत् ।
गोभूमिहेमरत्नादि वस्त्रान्तानि प्रदापयेत् ॥
आचार्यमनसस्तृप्तिः तस्मात् (क्: -स्तृप्ति * स्मात्) तृप्तिः (क्: तृप्निः)
परश्शिवः ॥ (क्: -व) इति ॥
तमपि ऋत्विग्भिस्सह शिववत् सम्पूज्य रथे शिबिकादौ वा
संस्थाप्य नानावाद्यैः (क्: -द्यैर्) नृत्तगीतादिभिः (क्: -भिर्)
वेदादिघोषैः (क्: -षैर्) भक्त समितिभिश्च (क्: भक्तस्तुतिभिश्च)
छत्रचामरादि नानाविधदीपैस्सह भूपयजमान
सर्वजनैश्च पुरं प्रदक्षिणीकृत्य यानेन सह स्वगृहं
प्रवेशयेत् (क्: -येद्) इत्याचार्योत्सवविधिः ।
रथारोहणम्
सप्तमेन वा रथारोहणं कार्यं तत्पूर्वरात्रौ
रक्षां कृत्वा प्रभाते स्नपनाभिषेकं नित्यपूजावसाने
विधाय यथाविधि सम्पूज्य अग्निकार्योक्तमार्गेण
चरुहवनप्रायश्चित्तान्तं पूर्ववत् कृत्वा आज्यं मूलेन
समिदीशेन चरुम् अघोरेण हृदा लाजंवामेन तिलं कवचेन
गुलं नेत्रेण बिल्वं यथाशक्ति हुत्वा ईशाने (क्: नास्ति) द्रव्याणि
(क्: नास्ति) धान्यानि (क्: नास्ति) हृदा (क्: नास्ति) व्याहृतीभिश्च (क्:
नास्ति) हुत्वा (क्: नास्ति) पूर्णां दत्वा यागेशं निरुध्य
रक्षां समर्प्य पूर्णकुम्भं तिलपात्रं सवत्साङ्गं (क्: -
ङ्गां) दर्शयित्वा ब्राह्मणेभ्यो दद्यात् ।
विघ्नेशं सम्पूज्य मोदकं निवेद्य देवतानां
पायसं निवेद्य पश्चात् रौप्यकटाहे कुङ्कुमागरु
कर्पूरचन्दन हरिद्राद्यैः (क्: -द्यैर्) वारिणा संयोज्य कटाहे
पाटल्युत्पल (क्: ३९) जाति पुन्नाग चम्पकाद्यादि पङ्कं निक्षिप्य
कुङ्कुमवस्त्रादिना कटाहं परिवेष्य (क्: -वेष्ट्य) शिवाग्रे
स्थण्डिले विन्यस्य कटाहे कामबीजेन अभ्यर्च्य आर्द्रपङ्कं
मूलेन अभ्यर्च्य संस्कृत्य धूपदीपौ दत्वा मूल लिङ्गादि
बेराणां च तद्दत्वा देशिकः स्वयं च ऋत्विग्भिः (क्: -भिस्) सह
आर्द्रपङ्कं कुङ्कुमोष्णीषं च भूपयजमानभक्तादि
सर्वजनानाम् आर्द्रपङ्कम् उष्णीषं ददेत् ।
पश्चात् रथं पञ्चगव्यं पुण्याहजलेन सम्प्रोक्ष्य
रथं चतुस्संस्कारैः (क्: -रैस्) संस्कृत्य तस्मिन् देवं
समारोप्य स्थापयित्वा रथे सर्वान् देवान् प्रपूजयेत् ।
चक्रेषु सूर्याय नमः � चन्द्रमसे नमः � परितः �
हरये नमः वज्रिणे नमः � एकाङ्घ्रये नमः � द्विदण्डकाय
नमः � इत्यभ्यर्च्य पताकासु शतरुद्रान् गात्रेषु धर्मादीन्
स्थलिकायां (क्: स्थल-) सदाशिवाय नमः � सन्धिषु
दक्षिणामूर्तये नमः � विष्णवे नमः � ब्रह्मणे नमः �
स्कन्दाय नमः इत्यभ्यर्च्य रथप्रान्तान् (प्। ३२) लोकपालान्
रज्जुषु उरगेभ्यो नमः � इत्येवं क्रमेण अभ्यर्च्य
विचित्रपटवस्त्राद्यैः (क्: -द्यैर्) (क्: ४०) अलङ्कृत्य दिग्विदिक्षु
द्वारपार्श्वे च सैंह कदली पूग (क्: बूग) स्तम्बकं (क्:
स्तम्बकदली) नालिकेर विचित्र पटादिना सुशोभितं कृत्वा
ब्रह्माणं सारथ्यं कल्पयित्वा सच्छस्त्रे (क्: सच्छत्रे)
पाशुपतास्त्रम् आवाह्य सध्वजे वृषमभ्यर्च्य
पञ्चवर्णं महादीप्तम् अभयं वरदान्वितम् ।
षट्पदञ्चैक कुक्षिं च शूलं पाशं चतुर्भुजम् ॥
एकवक्त्रं त्रिणेत्रञ्च षट्स्थलं मङ्गलान्वितम् ।
पादचक्रसमायुक्तं (क्: -चत्र-) भूताधारं च जाङ्घिकम् ॥
प्रौढस्थलं सुजान्वाख्यम् उपरिस्थलमूरुकम् ।
कुक्षिर्देवासनं प्रोक्तं हृदयं स्तम्भवर्गकम् ॥
कूटस्कन्धद्वयं प्रोक्तं सर्वमङ्गलकारणम् इति ध्यात्वा
सम्पूजयेत् ।
एवं देवी स्कन्द वैनायक चण्डेश्वरांश्च तत्तद्रथे
समारोप्य आर्द्रपङ्कं (क्: -रोप्यार्द्रपङ्कं) हृदालिप्य
कुङ्कुमोष्णीषं कवचेन धृत्वा फलापूपादि निवेद्य
रक्तपुष्पैः (क्: -पुष्पैर्) अभ्यर्च्य दानादि दत्वा आचार्यादि
भक्तानां वस्त्रहेमफल ताम्बूलानि दत्वा सर्वान् सन्तोष्य
सुमुहूर्ते शुभांशे (क्: शुभाशें) चरलग्ने (क्: ४१)
स्वस्तिपूर्वं समस्त वाद्ययुक्तं पुरं प्रदक्षिणीकृत्य
रथादवतार्य आलयं प्रविश्य स्नपनपूर्वं स्नापयित्वा
शिल्पादि रथनियन्तॄणां वस्त्रादि दत्वा महाहविः (क्: -विर्)
निवेद्य सर्वेषां (प्। ३३) दापयेदिति रथारोहणविधिः ।
नृत्तमूर्त्युत्सवः ।
कृष्णगन्धविधिः ।
इष्टकाम्यार्थ (क्: -र्थं) सिध्यर्थं (क्: नास्ति)
सुपुत्रावाप्तिहेतुकम् ।
ब्रह्महत्यादि हननं सर्वशत्रु निबर्हणम् ॥
यो वा को वा नृत्तमूर्ति (क्: -मूर्तिः) दर्शनात् फलमश्नुते ।
तदनु नृत्तमूर्तिम् आस्थानमण्टपे समानीय अष्टम दिन
अपररात्रौ रक्षां पूर्ववत् कृत्वा फलताम्बूलादि युक्तं हस्ते
कृत्वा चित्रवस्त्रादिना उभावपि अलङ्कृत्य (क्: -वप्यलङ्कृत्य)
नैवेद्यादि दत्वा आलयं प्रदक्षिणीकृत्य मण्टपे संस्थाप्य
विनोददर्शनेन रात्रिशेषं व्यपोहयेत् ।
अपरेद्युः (क्: -द्युर्) उत्सवान्तं कारयित्वा सायाह्नसमये
देवाग्रे स्थण्डिलद्वितयं विधाय पद्ममालिख्य दर्भैः
पुष्पैः परिस्तीर्य तन्मध्ये क्: ४२) कालागरुं संस्थाप्य
विनायकपूजा पुरस्सरं पुण्याहं वाचयित्वा शान्तिकुम्भं
विधिवत् (क्: -वद्) विधाय सम्पूज्य अग्निकार्योक्त मार्गेण
कुण्डसंस्कारादि पूर्णान्तं विधाय तस्मिन् महेशं
सम्पूज्य समिल्लाज सर्षप यवतिलादीन् प्रत्येकं तं मूलेन
अष्टोत्तरशतं हुत्वा बिल्वोत्पल कदली पनसादींश्च
मधुत्रयाणि च हुत्वा द्रव्यान्ते व्याहृतिः (क्: -तिर्) हुत्वा
पूर्णां दत्वा देवं संस्नाप्य अलङ्कृत्य स्थलिकायां
तण्डुलेन आपूरितायां (क्: -नापूरितायां) कृष्णगन्धं
निधाय वस्त्रेणावेष्ट्य शान्तिकुम्भजलेन प्रोक्ष्य कर्पूराद्यैः
(क्: -द्यैस्) सुगन्धिभिः (क्: -भिर्) मिश्रितम् अस्त्रेण संशोध्य
वर्मणा अवकुण्ठ्य (क्: -णावकुण्ठ्य) ब्रह्माङ्गैः (क्: ङ्गैर्)
अभिमन्त्र्य मूलेन सम्पूज्य धेनुमुद्रां प्रदर्श्य
पाद्याचमनार्घ्य धूपदीपादि दत्वा सम्पाताभिर्हुतं
कृत्वा चूर्णां (क्: पूर्णां) विधाय अग्निं विसृज्य आलयं (क्:
विसृज्यालयं) शङ्खदुन्दुभिः (क्: -भि) वाद्यघोषसहितं
प्रदक्षिणीकृत्य गर्भगेहं प्रविश्य मूललिङ्गे समर्प्य
अनन्तरं महेशाग्रे संस्नाप्य (क्: संस्थाप्य) शक्त्यादि
शक्त्यन्तासने दण्ड मुण्डभङ्ग्या च (क्: ४३) एकत्रिंशत्
कलात्मकं श्रीकण्ठ न्यासं च विधाय ।
सङ्कीर्णज्जटमिन्दु हेम कुररी मुण्डास्थिदेवापगा
श्वेतार्क मुद्रराज (क्: द्रुमराज) पिञ्छकधरं वैयाघ्र
कृत्यम्बरम् ।
सर्वं (क्: सर्पं) सव्यकरेऽभयं डमरुकं वामं
प्रसार्यान्यकं
वामेऽग्निं दधतं शयानभरिता पस्मारपृष्ठे स्थितम् ॥
वज्रीकृत्य स्वदक्षिणं तु चरणं चोद्धृत्य वामं पदं
मध्यस्थध्वज किङ्किणी मणितुलाकोटि स्फुरत्पादुकम् ।
दक्षे नक्रसुकुण्डलं श्रुतिपुटे वामे तु पत्रान्वितं
भस्मा लिप्तमुमायुतं त्रिणयनं वन्दे नटेशं शिवम् ॥
इति ध्यात्वा
श्यामा द्विनेत्रा द्विभुजा त्रिभङ्गी सव्यापस्थितकुञ्चिताङ्घ्री
(क्: सव्यापसव्यस्थित-) ।
सव्योत्पलावा कटकान्विताढ्या (क्: -तावा) हस्तावलम्बा
परमेश्वरी स्यात् ॥
क्: ४४)
इत्युभावपि सम्पूज्य धूपदीपादि दत्वा वैष्ट्येन (क्:
पैष्ट्येन) पायसेन (प्। ३५) पायसेन (क्: नास्ति) फलापूपादिना च
(क्: + सह) निवेद्य ताम्बूलं दत्वा कृष्णगन्धलेपनं कार्यम्
।
ललाटे अघोरेण शिखया (क्: -यां) बाह्वौ सर्वत्र सद्येन
वा दापयेत् ।
पश्चात् सदाशिवादिमूर्तीनां (क्: -दिर्मूतीनां) दापयेत्
।
स्त्रीबेराणां ललाटेगले तन्मूलेन हृदाऽवधारयेत् (क्:
हृदा वा धार-) ।
पश्चाद्देशिको मूर्तिपैस्सह धृत्वा सर्वेषां साधकादि
भक्तजनानां च दापयेत् ।
देवं रत्नसिंहासने तद्वामे गौरी (क्: गौरीं) सव्ये
देशिकेन सह आरोप्य (क्: सहारोप्य) वामतोऽग्रतो वा नृपः
नर्तक नर्तकी (क्: नृत्तकी) मर्दकाश्च उभयोः पार्श्वयोः
गेयनर्तनं च कृत्वा वाद्यैस्सह सप्तग्रह पर्यन्तं नटित्वा
आलयं प्रविश्य नीराजनादि पूर्ववत् कुर्यात् ।
पश्चात् (क्: पश्चाद्) आस्नानमण्टपे (क्: आस्थान-)
संस्थाप्य साष्टाङ्गम् अर्घ्यं दत्वा फलैस्सह निवेद्य
नीराजनाद्यैः पूजयेत् ।
पश्चात् गव्यस्नपनादीनां (क्: गव्यस्नापना-)
संस्नाप्य (क्: संस्थाप्य) शुद्धकर्पूरं पूर्ववत् संस्कृत्य
फालादि (क्: ४५) सर्वाङ्गं धृत्वा सुश्वेतैः (क्: -तैर्) जातिपुष्पैः
शुक्लवस्त्रैश्च अलङ्कृत्य पायसान्नं निवेद्य धूपदीपौ दत्वा
यानकाले पङ्क्तियानं शनैश्शनैः कार्यम् ।
तत्र वेदनृत्तगीतादिभिः गोपुराग्रे ध्वजाग्रे वा पूर्ववत्
पङ्क्तियानं कृत्वा नीराजनादि सर्वं पूर्ववत् कृत्वा आलयं
प्रविश्य सर्वोपचारैः (क्: -रैस्) सम्पूज्य रात्रिशेषं
विनोददर्शनेन व्यपोहयेत् ।
प्। ३६)
अरुणोदये नृत्तेषं सम्पूज्य अलङ्कृत्य नद्यादौ
पूर्ववत् तीर्थं कृत्वा कौतुकं विसृज्य पुरादिकं प्रदक्षिणी
कृत्य शुद्धदेशे दुष्टनिग्रह शिष्टपरिपालनं
सर्वव्यवहारवाचकं च श्रावयित्वा देव्याः प्रणयकलहं
(क्: द्र-) व्यपोह्य परिवेषं विनालयं प्रवेशयेदिति स्वस्थाने
संस्थाप्य (क्: सम्पूज्य) स्नपनाद्यैः (क्: -द्यैर्) अभिषिच्य
शुद्धनृत्तं कारयेदिति कृष्णगन्धविधिः ।
१७ � वैवाहिकम् ।
अनन्तरं दशमे सप्तमे पञ्चमे वा अह्नि (क्: वाह्नि)
विवाहं विधिवत् औपचारिकेण कल्याणव्रतोत्सवं कारयेत् ।
क्: ४६) देव्युत्सवविधिः ।
नवाह (क्: नवाहञ्च) सप्ताह (क्: -हं) त्र्यहम् एकाहं
वा उत्सवं कारयेत् ।
एकादशदिवसरात्रौ (क्: -रात्रा) इन्द्रविमानादि (क्: विन्द्र-)
सर्वमलङ्कृत्य सम्प्रोक्ष्य स्नपनपूर्वं देवम् अभिषिच्य
अलङ्कृत्य देवान् सर्वान् तत्तद्विमानम् अधिरोप्य
पुरप्रदक्षिणकाले ऐशान्यां दिशि प्रपाम्पुष्पादिध्वजैः (क्: -
जैर्) अलङ्कृत्य तन्मध्ये (क्: नास्ति) विमानस्थं शिवमानीय तं
देविपूर्व चण्डेशान्तं भूपयजमान वाद्यैस्सह
प्रदक्षिणत्रयं कारयित्वा लयप्रवेशकाले गोपुराग्रे हर्म्याग्रे
वा प्रणयकलह व्यपोहनं विनोददर्शनं च कारयित्वा यथा
विधि प्रवेशयेदिति देव्युत्सवविधिः ।
१८ � भक्तोत्सवविधिः ।
अथ भक्तबेरादिन् (क्: -भेरादीन्) शिवाग्रे मण्टपे वा
संस्थाप्य स्नपन पूर्वं चलाचल बेरानभिषिच्य अलङ्कृत्य
पूर्णोत्सवं पूर्ववत् कृत्वा भक्तबेराणां धृत्वा आचार्य
साधकादीनां दीक्षितानां भक्तानां (क्: -नाः) चूर्णां
(क्: चूर्णं) दापयित्वा कुङ्कुमोष्णीष पवित्रमालादि दत्वा
भक्तस्तुतिभिः (क्: -भि) स्तुत्वा शिवभक्तानां ताम्बुलादि (क्: ४७)
दत्वा पुरं प्रदक्षिणीकृत्य आलयं प्रविश्य तत्तत् स्थाने सर्वान्
संस्थाप्य निवेद्य धूपदीपौ दत्वा शिव गानविदां वस्त्रादि
दापयेदिति भक्तोत्सवविधिः ।
उत्सवशान्तिः ।
अपरेद्युः महास्नपनपूर्वं शान्तिहोम मूर्तिहोम
दिशा होमादिकं क्रमेण कृत्वा अभिषिच्य (क्: कृत्वाभिषिच्य)
श्रमहरणं कारयेत् ।
उत्सवपञ्चककृत्यं (क्: -पञ्च * कृत्य) ।
उत्सवं पञ्चधा प्रोक्तं स्थित्युपत्तिलयात्मकं (क्: -
त्युत्पत्तिलयातकं) ।
तिरोभावानुग्रहञ्च सृष्ट्याद्यं पञ्चकृत्यकम् ॥
अङ्कुरार्पणकल्याणं ध्वजारोहणमेव च ।
रक्षाबन्धनमित्युक्तं सृष्टिकर्ममुदाहृतम् (क्: -कर्म-
उदाहृतं) ॥
वाहनोत्सवसंयुक्तं होमकर्मबलिभ्रमम् ।
स्थितिकर्ममिति (क्: -कर्मेति हि) प्रोक्तं संहारः कथ्यतेऽधुना ॥
रात्रिचूर्णसमायुक्तं रथारोहणमेव च ।
कालागरूत्सवं चैवम् आगमेषु प्रसिद्धितम् (क्: -सिद्धिमत्) ॥
क्: ४८) मौनोत्सवतिरोभावं शक्तियात्रात्वनुग्रहम् ।
तीर्थस्य दिवसाद्यन्ते प्रणयः कलहोत्सवः ॥
बीजक्षेत्रे समायुक्तं सृष्ट्याद्यं पञ्चकृत्यकम् ।
इति परमेश्वरा परनामध्येय श्रीमदघोरशिवाचार्य
विरचितायां क्रियाक्रमद्योतिकायां वैनायकोत्सवादि
भक्तोत्सवविधिः (क्: भक्तोत्सवान्त-) समाप्तः ।
मासोत्सवविधिः ।
पुण्यकालविधिश्च ।
सक्रान्ति समयस्सूक्ष्मो दुर्ज्ञेयः (क्: -यो) विशितेक्षणैः ।
तद्योगाच्चाप्यधश्चोर्ध्वं त्रिंशन्नाड्यः पवित्रता ॥
भविष्यत्ययने पुण्यः (क्: -पुण्यस्) त्रिंशदेव तु दक्षिणे ।
अतित उत्तरे नाड्य इति प्रोक्ता हरद्विजाः ॥
सङ्क्रान्ति विषुवं चैव विशेषेणायनद्वयम् ।
वृषवृश्चिककुम्भेषु सिंहं (क्: सिह्मे) चैव तु दक्षिणे ॥
क्: ४९) एतत् विष्णुपदं नाम विषुवादधिकं फलम् ।
कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः ।
षडशीति मुखाः प्रोक्ताः पुण्याधिकतमा द्विजाः ॥
नाड्यः (क्: नाड्यष्) षोडशपूर्वेण सङ्क्रान्तेरपरेण (क्: -न्तेः
अप-) च ।
वर्तमान (क्: -ने) तुला मेष (क्: मेषे) नाड्यस्तूभयतो दश ॥
भविष्यत्ययने विष्णौ वर्तमाने तथा विषौ ।
षडशीति मुखे चैव ह्यतीते चान्तरायणे ॥
राहुदर्शनसङ्क्रान्ति विवाहात्ययवृद्धिषु ।
स्नानदानादिकं कार्यं निशिकाम्यप्रदेषु (क्: -व्रतेषु) च ॥
देवोत्सवं च तत्रैव पूजां कुर्याच्छिवस्य (क्: र्यात् शिवस्य) च ।
या यास्सन्निहिता नाड्यः तास्ताः पुण्यतमा (क्: -माः) स्मृताः ॥
अथ सङ्क्रान्ति समयेऽपि पूर्ववत् स्नपनादि पुरस्सरं
देवमभिषिच्य मूललिङ्गादीन् सर्वालङ्कारैः (क्: -रैर्) अलङ्कृत्य
सर्वातोऽद्य समन्वितं विनायक सोमास्कन्दादि भक्त बेर
सहितं ग्रामं वा पुरम् आलयं वा प्रदक्षिणं नीत्वा
ब्रह्मस्थाने वृषाग्रे वा पूर्वं नीराजनादि कृत्वा स्व स्थाने
निवेशयेदिति ।
क्: ५०) एवं यः क्रियते राष्ट्रे मासदोषो न विद्यते ।
तस्मात् सर्वप्रयत्नेन उत्सवं सम्यगाचरेत् ॥
इति मासोत्सव विधिः ।
अथ पक्षोत्सवविधौ
अमावास्योत्सवः ।
अष्टमेऽम्शे चतुर्दश्यां क्षीणो भवति चन्द्रमाः ।
अमावास्यष्टमेंशे वा पुनः किल भवेदणुः ॥
द्रष्टचन्द्रा (क्: दृष्ट-) सिनीवाली नष्टचन्द्रा कुहूर्मता ।
मध्याह्नाद्यात्वमावास्या परस्था सम्प्रवर्तते ॥
भूतविद्धा तु सा ज्ञेया न सा पञ्चदशी भवेत् ।
घटिकैकाप्यमावास्या प्रतिपत्सु न चेत्तदा ॥
भूतविद्धापि कर्तव्या दैवपित्यपि कर्मणि ।
प्रतिपत् स्वप्यमावास्या पूर्वाह्णव्यापिनी यदि ॥
भूतविद्धेव (क्: -विद्धैव) सा कार्या दैवकर्मणि (क्: दैवे-)
सर्वदा ।
तुलामकरमीनेषु कन्यायां मिथुने तथा ।
भूतविद्धाप्यमावास्या पूज्या भवतु यत्नतः ॥
क्: ५१) चतुर्दश्यत्र सम्पूर्णा नन्दाद्याक्षयगामिनी ।
देवोत्सवं तु भूतायाम् अमायां तीर्थमाचरेत् ॥
अमावै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण विषुवत्सदृशं फलम् ॥
अमा वै सोमवारे तु शिवरात्रि समो भवेत् ।
रात्रौ जागरणं कुर्यात् (क्: कुर्याद्) दैवोत्सवमथाचरेत् ॥
अमावास्या यदार्द्रायां युक्ता चेत् सोमवासरे ।
कोटियज्ञतपोदान फलं प्राप्नोति तद्वृतात् ॥
अथ अमावास्यायां मूललिङ्गाद्या स्थापनोत्थापन
बेराणां पञ्चगव्य पुरस्सरं महाभिषेकं कारयित्वा
सर्वालङ्कारैः (क्: -रैर्) अलङ्कृत्य महाहविः (क्: -विर्) निवेद्य
ग्रामखेटादिके (क्: ग्रामं-) बलि ग्रहणं (क्: भ्रमणं) विना
छत्रचामरादि संयुक्तम् अनेकाविचित्रदीपिका (क्: अनेक वि-)
सहितं नानावाद्य सहितं देवं प्रदक्षिणं नीत्वा
ब्रह्मस्थाने समानीय (क्: -नीय्य) पूर्ववत् (क्: -वन्) नीराजनादि
(क्: -ज * दि) कृत्वा स्वस्थाने निवेशयेत् ।
क्: ५२) एवं यः कारयेन्मर्त्यः सपुण्यां गतिमाप्नुयात् ।
पुत्रार्थी लभते पुत्रान् कन्यार्थी कन्निकां शुभाम् ॥
प्। ४१) धनार्थी विपुलानर्थान् मोक्षार्थी मोक्षमाप्नुयात् ।
नाकालवर्षी पर्जन्यो (क्: वर्जन्या) न रोगो निरुपद्रवः ॥
अमावास्योत्सवेनैव सर्वान् कामानवपाप्नुयात् (क्: -नवाप्नुयात्)
।
इत्यमावास्योत्सवविधिः ।
पौर्णमास्योत्सवविधिः ।
राकाचानुमती चैव पौर्णमासी द्विधामता ।
या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सह ॥
पक्षान्ता पञ्चदश्याख्या पौर्णमासीति सा स्मृता ।
षोडशे हन्यभीष्टेति मध्या पञ्चदशेऽहनि ॥
चतुर्दशी जघन्येति पापा सप्तदशेऽहनि ।
प्रतिपत् प्रभृतयस्सर्वा उदयाद्योदयाद्रवेः ।
सम्पूर्णा इति विख्याता दैवे कर्मणि पावनि ॥
युग्माग्नियमभूतानां षण्मन्योर्वसुरन्ध्रयोः ।
रुद्रेण द्वादशी युक्ता चतुर्दश्या च पौर्णिमा ॥
क्: ५३) भूतविद्वाप्यमावास्या (क्: -विद्धाप्य-) तिथ्योर्युग्म (क्: -
ग्मं) महत्फलम् ।
तत्रापि पूर्वत् विघ्नेश पूजा पुरस्सरं नैवेद्यान्तं
कर्म कृत्वा विघ्नेशादि देवान् सर्वालङ्कारसंयुक्तान् पुरादि
प्रदक्षिणं नीत्वा पूर्ववत् स्वस्थाने समारोपयेदिति ।
समस्तविधिवत् (क्: -वच्) छिद्रदोषो नश्येत् (क्: नश्येच्)
शिवाज्ञया (क्: छिवा-) इति पौर्णमास्योत्सवविधिः (क्: -मासोत्सव
विधिः) ।
ऋक्षोत्सव विधिः
यत्रोक्त्योऽस्तमयाद्भानुं (क्: यत्रोक्तोस्तम-) नयेदुदयमिन्दुना
।
तत्रैवोपसवेद्रक्षं (क्: -पवसेदृक्षं) नक्षत्रं श्रवणं
विना ॥
यावदस्तमनादूर्ध्वम् उद्भवात् त्रिमुहूर्तगा ।
तत्रैवोपसवेद्रक्षं (क्: -वसेदृक्षं) स्नानं पूजां च तद्दिने
॥
यत्रार्धयामादर्वाक्तु नक्षत्रं प्राप्यते दिने ।
तन्नक्षत्रव्रतं कुर्यात् (क्: कुर्याद्) उदिते पारणं क्वचित् ॥
कृत्तिकासु शिवं पूज्य सौख्यमाप्नोति मानवः ।
अपत्यकामो रोहिण्यां सौम्ये चोजस्विवान् भवेत् ॥
क्: ५४) आर्द्रायां सर्वसम्पत्ति क्षत्रादिति पुनर्वसौ ।
पुष्टिं पुष्ये हरं पूज्य आश्लेषायां (क्: पूज्याश्लेषायां
च) परान् (क्: वरान्) सुतान् ॥
मुखासुस्वजनश्रेष्ठं (क्: मख-) सौभाग्यं पूर्वफल्गुनी ।
प्रदानशीलो भवति सफल्गुन्युत्तरासु च ॥
प्राप्नोति श्रेष्ठतां सत्सु हस्ते तु हरपूजकः ।
स्वरूपवन्ती (क्: -वन्तीं) चित्तासु तथा पत्नीमवाप्नुयात् ॥
वाणिज्यलाभदा स्वाती विशाखे बहुकामवान् ।
कुर्वतां चानुराधायां (क्: चानू-) दद्युश्चक्रप्रवर्तकम् ॥
ज्य्ष्ठास्वर्थ सुसम्पत्तिं मूले चारोग्यमुत्तमम् ।
आद्याषाढे यशः प्राप्तिः (क्: प्राप्तिर्) उत्तरासु यशोन्नता ॥
श्रवणे च सुखान् भोगान् धनिष्ठासु (क्: यनिष्ठासु) धनं
महत् ।
वेदविच्चाभिजीति (क्: -ती) तु भिषत्सिद्धिं तु वारुणे ॥
प्। ४३) अजाम्बिकं (क्: अजाविकं) प्रोष्ठपदे विन्देत् गाश्च तदुत्तरे ।
रेवत्यां तु हरेस्सुप्यम् अश्विन्यां तु तरङ्गमान् (क्: तु-) ॥
क्: ५५) पूजकस्तत्तदाप्नोति भरण्यामायुरुत्तमम् ।
तस्मात् सर्वप्रयत्नेन ऋक्षेष्वेतेषु चोत्सवम् ॥
तत् कोटि कोटिगुणितम् आर्द्रायां चोपवासता ।
हयमेधसहस्राणि यज्ञकोटिशतानि च ॥
कोटिकन्याप्रदानस्य फलं प्राप्नोति शाङ्करे ।
समयी पुत्रको वापि साधको हरदीक्षिताः (क्: -तः) ॥
नाचरेद्यस्तु शर्वर्क्षं सपापी नरकं व्रजेत् ।
ब्राह्मणा (क्: -णाः) क्षत्रिया वैश्या (क्: वैश्याः)
शूद्राश्चावान्तरा नराः ।
कन्या वा विधवा वापि सुमना वा यतिव्रतिः (क्: यतिर्-) ॥
दीक्षितो दीक्षितो वापि प्रति-ऋक्षं द्विजोत्तमाः ।
रात्रौ पूजां च भुक्तिं च स्नानं दानं च तत्र तु ॥
दर्शनं देवदेवस्य कृत्वा स्तुत्वा प्रणम्य च ।
ब्राह्मणेभ्यो यथाशक्ति स्वर्णच्छादन (क्: स्वर्णाच्छा-)
भोजनैः ॥
अथ सायङ्कालपूजानन्तरं घृतस्नपनं विना यथा
विभवविस्तरेण सर्वान् देवान् (क्: ५६) यथाविधि सम्पूज्य
महाहविः (क्: -विर्) निवेद्य सोमास्कन्दं छत्रचामरादि
बहुविचित्रदीपिका सहितं पुरमालयं वा प्रदक्षिणं कृत्वा
नीराजनादि पूर्ववत् कृत्वालयं प्रवेशयेत् ।
प्। ४४) एवं यः कारयेन्मर्त्यः सरुद्रो नात्र संशयः ।
उत्पातास्तस्य नश्यन्ति ग्रहपीडाश्च दारुणाः ॥
सर्वव्याधिविनिर्मुक्तः (क्: -मुक्तश्) चिरायुस्सुखमेधते ।
एकस्मिन् वत्सरे विप्राः सुपुत्रं लभते ध्रुवम् ॥
वारोत्सवः ।
आदित्यवारे यद्रौद्रं प्राप्ते चारोग्यमुत्तमम् ।
सोमे सौख्यप्रदं भौमे सङ्ग्रामविजयप्रदं (क्: -ग्रामे-) ॥
बुधवारे सर्वकामं गुरौ विद्यास्सशास्त्रकाः ।
शुक्रे महद्धनं मन्दे चापमृत्युविनाशनम् ॥
एवं ज्ञात्वा प्रयत्नेन शिवं तत्र प्रपूजयेत् ।
इति परमेश्वर नामधेय श्रीमदघोरशिवाचार्यविरचितायां
क्रियाक्रमद्योतिकायां ब्रह्मत्तालादिऋक्षोत्सवान्तविधिः
(क्: बृहत्ता- -विधिस्) समाप्तः ।