हरिः ॐ
तेन ता वै शिध्याय ओमी फडश्च नयन प्रर-इ ।
विनिशिश्चैव भान्तञ्च हश्चन्येताश्चतुश्च ये ॥
ज्ञार्वश्च मश्च पदेदैके क्रमेण पदविन्यसेत् ।
पिग्रिस्थिश्च ममूयश्च योनिवातञ्च फित् पुनः ॥
पुवश्च सञ्चमुश्चैव वश्च सार्पिश्च सागवः ।
सश्च नश्च इति ख्याता द्वितीयावरणे न्यसेत् ॥
व्यानासनश्च नश्चैव दश्च मुक्तश्च अश्वरु ।
अध्यर्ध ऊर्ध्वपद्मन्तु रसांशं ग्रीवमुच्छ्रयम् ।
कम्पन्ती पृच्छसार्धांशं लग्नकण्डञ्च शाङ्करम् ॥
कुमुच्छ्रयं पञ्चभागार्धमेवं स्यूपिरुदाहृतम् ।
एवमेव प्रकारेण प्रासादं कारयेत्ततः ॥
प्रासादार्ध प्रमाणेन अर्धमण्टपमिष्यते ॥
असमाप्तोऽयं गन्र्थः ।
प्। १)
॥ हरिः ॐ ॥
॥ योगजागमः ॥
तेन ता वै शिध्याय ओ मी फडश्च नयन प्रर-इ ।
निनीशिश्चैव भान्तञ्च हश्चन्येताश्चतुश्चये ॥ १ ॥
ज्ञार्वश्च मश्च पदेदैके क्रमेण पदविन्यसेत् ।
पिग्रिस्थिश्च ममूयश्च योनिवातञ्च फित् पुनः ॥ २ ॥
पुवश्च सञ्चमुश्चैव वश्च सार्पिश्च सागवः ।
सश्च नश्च इति ख्याता द्वितीयावरणे न्यसेत् ॥ ३ ॥
व्यानासनश्च नश्चैव दश्च मुक्तश्च अश्वरू ।
प्। २)
वेश्चरूश्च तिदे स्वश्च शिवये भस्मदश्वना ॥ ४ ॥
क्षश्च पश्च वमोश्चैव तृतीयपङ्क्ति संलिखेत् ।
गुर्वश्च यश्च ॐ भूत प्रेतीश्च नाश्च वै ? ॥ ५ ॥
अद्यो नाश्चैव ॐ पश्च ते त ऋपुश्च अञ्चसा ।
गश्च शीरश्च वा तेषाञ्चतुरावरणे स्थितिः ॥ ६ ॥
सयवीरं रजागोश्च ज्योतापित् किञ्च अश्चव ।
अश्वहापश्वश्चैव शिश्च यश्च सगुश्च व ॥ ७ ॥
रतिविक्षय पञ्चमे ।
यथागरागवेद्याय ययेर इज्योह्य भुश्च नोत् ॥ ८ ॥
मयिर्वसुश्च वस्थिश्च गसुवाश्चैव षष्ठगे ।
प्। ३)
पानायाहाश्च वा अश्चद्यों ह्योता अश्च अश्चज ॥ ९ ॥
शब्दवाता न वा सङ्ख्या क्रमेण परिपठ्यते ।
द्योन्ताश्च ने भवभ्याह्या गावपिन्तेश्च यूश्च यू ॥ १० ॥
मश्च ते प्रसश्चैव षविमतं शमपदं श ।
नेनशा यो वृषश्चैव गुङ्गुं घोराश्च द्याश्च ते ॥ ११ ॥
अयूनिश्च महामद्बहवः मताश्च वश्च रुब्दम ।
एकादशपदे लाख्या सर्वेषामात्मनः फलम् ॥ १२ ॥
पिश्च ययोर्वश्च रुश्च पञ्चम एव च ।
व्यश्चश्च पश्चश्च मिथश्च मीनात्मा च न ॥ १३ ॥
सिश्च भश्च ब्रश्च स्तरुशन्नद्वादशे पदे ।
प्। ४)
शुद्यायवद्यं सुपुदेन सुमेद्यो प्रतद्धुर ॥ १४ ॥
प्रवोरव अस्तुनाश्चैव ॐ त्रयोदशके पदे ।
पायूनिय तत्त्मश्च यरमिन् म अनानि च ॥ १५ ॥
पश्चञ्चश्च भकतैश्चैव रुज्ञाश्च चतुर्दश ।
व्योशियश्च वायश्च नानाद्योश्च यश्चपि ॥ १६ ॥
नाश्च अश्चर्येमुश्च पथ्यैश्च चुनस्त्वश्च स ।
एवं पञ्चदशे वृत्तं व्योमव्यापिरिति स्मृतम् ॥ १७ ॥
व्योमव्यापिरिति मन्त्राः व्योमरूपिगता कुरु ।
व्योमव्यापि महामन्त्रमृषिच्छन्दे देवतान् कुरु ॥ १८ ॥
अगस्त्य ऋषितृष्टुप्छन्दम् ईश्वरस्तत्र देवताः ।
प्। ५)
अथ सद्यामि मन्त्राणाम् उद्धारणं वदाम्यहम् ॥ १९ ॥
शिवाङ्गवत्स्थितं चक्रं सप्तमावरणैर्विना ।
पूर्वकानार्च्यमूलेन प्रणवं दीपकं न्यसेत् ॥ २० ॥
मिकारञ्च ततस्थाप्य संविसर्गोम एव च ।
वेश्च वश्च विसर्गेण मोक्षश्च वशक एव च ॥ २१ ॥
मोश्च नश्च यकारश्च मनाभ्यश्च विसर्गकः ।
रश्च तश्च विसर्गेण स्तेदुहानोस्तथैव च ॥ २२ ॥
ईश्च मीश्च तथा ब्रुश्च शिकारं वोश्च इति स्मृतः ।
द्यानभक् भश्च नद्राश्च मकारसविसर्गयुत् ॥ २३ ॥
नश्चर्मरश्च नादश्चत्मवे सार्वसंयुतम् ।
सविसर्गो मकारश्च तन्मन्तश्चैव एव च ॥ २४ ॥
ओङ्कारञ्चैव ताकारं नमां शीकरमेव च ।
पश्च वैश्च यो यश्च रुश्च नयस्तथा ॥ २५ ॥
णथतञ्च मनायोश्च वस्योश्च सश्चन एव च ।
ॐ स्वं ह फश्च यान्या त ब्रह्मताश्च तथैव च ॥ २६ ॥
प्रश्च यश्चैव नाभश्च वामो यश्चारस्तथा ।
मश्च भूम अनेभ्यो स विसर्गाम एव च ॥ २७ ॥
मश्च दश्च विभूतिश्च क्रमेण परिपठ्यते ।
तश्च ताश्च तथैवामान्देन लाकारमेव च ॥ २८ ॥
पर्वतश्च तथा मोश्च ॐ घोरेर्पश्च एव हि ।
प्। ७)
पेश्च विश्च तथाधी च चोर्वष्ट वस्तु एव च ॥ २९ ॥
जाजाभश्च तया स्वश्च तथैव हि ।
रकम्प फलसञ्चैव नमस्यश्च तु सञ्चरू ॥ ३० ॥
यय प्रसस थीपुश्च षष्ठमे पदविन्यसेत् ।
एवं सद्यादिमन्त्राणां बिन्द्वतीतं शतं भवेत् ॥ ३१ ॥
द्वाद्यो द्यो यजश्च पाषामविलनश्च ।
षादवाश्च नीचैव वरणेञ्चैव सप्तमे ।
सहश्च भश्च भित्रिंशदक्षरं षट् षष्ठिवाममन्त्रकम् ॥ ३३ ॥
अघोरं षट्त्रिंशकैर्युक्तं चतुर्विंशति पुरुषकम् ।
प्। ८)
त्रयस्त्रिंशदीश्वरञ्चैव प्रणवेन समायुतम् ॥ ३४ ॥
ऋषिच्छन्दो दैवतानामधुना सम्प्रवक्ष्यते ।
कौशिकं काश्यपञ्चैव भारद्वाजोऽत्रिरेव च ॥ ३५ ॥
पराशरश्च पञ्चैते सद्यादि ऋषिरुच्यते ।
अनुष्टुप् तृष्टुपश्चैव आर्योवृत्तकमेव च ॥ ३६ ॥
गायत्री चैव पञ्चैते सद्यादि छन्दसं स्मृतः ।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ३७ ॥
सद्यादीनान्तु पञ्चानाम् अवस्थेताः परिकीर्तिताः ।
ऋग्यजुस्सामाथर्वश्च चतुर्वेदान्तसारकम् ॥ ३८ ॥
सद्यादिमन्त्रमुद्धारं भञ्ज्यमेतदुदाहृतम् ।
प्। ९)
गन्धब्रह्ममिति प्रोक्तं भज्यमङ्गमिति स्मृतम् ॥ ३९ ॥
ब्रह्माङ्गस्थूलरूपस्य सूक्ष्म ओङ्कार पूर्वकम् ।
सूक्ष्मरूपं शिवं प्रोक्तं स्थूलरूपं सदाशिवम् ॥ ४० ॥
पूर्वाच्चक्रं विन्यस्य चतुरावरणैर्विना ।
ओङ्कारश्च यवोशि च ते शुयश्च पुनश्च फट् ॥ ४१ ॥
शश्चैव तथाऽथो भूयश्चैव तथा परः ।
सान्ते च सकसा भूयो वश्चजस्सविसर्गकः ॥ ४२ ॥
हन्ती च ततश्चा च गश्च यश्च तथान्तकम् ।
वारव्यस्तथैवेह सौ दीर्घाश्च द्वितीयकः ॥ ४३ ॥
पुकारश्च रकारश्च हकारप्रचविस्तरः ।
प्। १०)
ऋकारो पर्वयार्णश्च इकारं प्रणवस्ततः ॥ ४४ ॥
चर्मयान्ते पुनर्नेय रन्ध्यनज्ञ हिकौ तथा ।
दशप्रश्च तथागश्च हेश्चम्रियोन्त एव च ॥ ४५ ॥
पुकप्रमाविसर्गेण पिङ्गसश्शुक्रम् ।
मोक्ते षष्ठस्य मार्गस्य कारुशाशवगाकरी ॥ ४६ ॥
कहो चैव तता हा च यक्रमावश्चरा पुनः ।
लकारस्तुच्छदेकार परुना नमे पथे व्ये ॥ ४७ ॥
रन्ध्रिमा मकरश्चैव हश्च च ततोन्ततः ।
स सा ह्वूय च तं ह्या च किलिकेशश्च यस्तथा ॥ ४८ ॥
मेघनादद्वितीयञ्चकप्राश्च ममोश्वनि ।
प्। ११)
स्वशौ शियवावाक्षुश्च विपारुचाश्च म एव च ॥ ४९ ॥
कट्ययज्वत्त चा सूर्य रमाश्चैव ततश्च हि ।
प्रहप्रलिहशिष्या च स त घातश्चतुर्दश ॥ ५० ॥
रावसानिममाघश्च द्विरता नो विरामतः ।
यभन्ना स्वाज्ञहाज्ञाश्च ज्ञकारं पुनराश्चशी ॥ ५१ ॥
यो कारश्च वनोहाश्चवे धष्ठा चनुस्ततः ।
खा चा चन्तपुनर्गा च हश्च मो च ततोऽक्षरः ॥ ५२ ॥
मरुतस्तरुतः प्रश्च ययोस्तु शिकमास्ततः ।
तथा तत्र वकारश्च हश्च यश्च यवो ततः ॥ ५३ ॥
योद्गते एव प्रज्ञाश्च यदे हुदौ पुनस्ततः ।
प्। १२)
गमो स्वात्माश्च वन्दश्च शस्तङ्गश्च फट् च यत् ॥ ५४ ॥
सञ्च सञ्च तथा हाप कमपिसश्च निभौस्तथा ।
यश्च तश्च तथोत्कारः पर्वौ प्रणव एव च ॥ ५५ ॥
मगौ बलतथा याश्च गमजुङ्कारमेव च ।
अनन्ते वासुगो लब्धजुहू प्रभेद ऊष्मणः ॥ ५६ ॥
सर्वात्मा सर्वज्ञहृदयमीक्षणानि तु सप्ततिः ।
ओङ्कारादि हकारान्तम् उद्धरेत्क्रमशः पुनः ॥ ५७ ॥
अष्टाक्षरं शिवं तस्मात् सुशिवाक्य समुद्धरेत् ।
ज्वनी परतस्तार्व्याच्छिवामेकादशाक्षरम् ॥ ५८ ॥
षंश्युरशितं तस्मादक्षराणान्तु पिङ्गलम् ।
प्। १३)
अघोरास्त्रं ततस्त्रिंशद्वादशाक्षरलक्षितम् ॥ ५९ ॥
चतुर्विंशती च गायत्री मुद्धरेत्क्रमशस्तथा ।
नेत्रत्र्यक्षरं तस्माद्विन्द्यानामालयं परम् ॥ ६० ॥
हृदयादि विभागेन कथितं सिद्धिमुक्तिदम् ॥ ६१ ॥
एवं शिवाङ्गमित्युक्तं ब्रह्मलक्षणमुच्यते ।
पदब्रह्मस्थनामानि पञ्चानां पञ्च व्रिन्यसेत् ॥ ६२ ॥
चतुर्थ्यात्त्रीण्यत्रिहाहाकारान्तान्त मध्यमम् ।
आद्यन्ते कामनिर्देशो विभक्त्यन्ते तु नामानि ॥ ६३ ॥
अष्टषष्ट्यक्षरं शैव तकारात्परतस्ततः ।
प्। १४)
हार्दन्तु पञ्चमस्तस्मा त्रिंशद्दिक्षु च मूर्छितम् ॥ ६४ ॥
ईकारं मूर्छितं शैवं द्वितीयन्तु ततः पुनः ।
पञ्चाक्षरं चतुर्थ्यन्तं तामावेद्यमतः परम् ॥ ६५ ॥
एकोनविंशतिं वामम् एकारान्त मनोन्तथा ।
शव्य सर्वात्मना युग्म पदमेकं चतुर्थकम् ॥ ६६ ॥
ऐकाराश्चरसद्भिन्नं वकारद्वयकं न्यसेत् ।
द्विरिश्या सपदादेकमष्टमाच्छैवमक्षरम् ॥ ६७ ॥
आदित्त्रीणि पदाद्यन्ते ब्रह्ममिच्छन्नामतः परम् ।
पूर्वमेव द्विरभ्यासात्पदमन्याक्षरं विना ॥ ६८ ॥
योगाधिपत पदस्यादीन् पदान्तं परं ततः ।
प्। १५)
अन्नं छिन्दुद्वयं क्षीण न पदादष्टमं पदम् ॥ ६९ ॥
जाक्षरान्त् सप्तमं शैवमामूचितमथोक्षरम् ।
ततो मन्त्रसमाप्त्यर्थं मुञ्च मुञ्च पदात्पदम् ॥ ७० ॥
पञ्चमं विन्यसेद्धीमान् बीजस्य षोडशं हृदि न्यसेत् ।
वामपादमूर्ध्वपाद स्थूलसूक्ष्मद्वयकम् ॥ ७१ ॥
एकारेण ततो भिन्नं रुद्राण्यां परमाक्षरम् ।
अनन्तं पिङ्गलं तस्मात् समाप्ते नवमाक्षरम् ॥ ७२ ॥
गङ्गानि यत्कृतं यश्च न्यसेत्सूक्ष्मपदं पुनः ।
रुद्रनामं चतुर्थ्यन्तं त्रिमूर्तिं त्रिभिरेव च ॥ ७३ ॥
ताभ्याञ्च पैङ्गलं दीर्घम् ऌकाराद्व्यक्षरद्वयम् ।
प्। १६)
यनति पूर्ववत्ताभ्यां यथा संस्थन्तु पैङ्गलम् ॥ ७४ ॥
यागक्रियाक्षरं षष्ठं पैङ्गलं पूर्वमक्षरम् ।
द्वितीयमपरं तस्मात् विद्याङ्गं शिरसोऽक्षरम् ॥ ७५ ॥
अपथ्युत्युषकारस्थं शैवं द्विगुणविन्यसेत् ।
यनती तु ततस्तस्माद्वामदेवपदानुगे ॥ ७६ ॥
संस्थाप्य विन्यसेद्वर्णं झङ्कारं पिङ्गलात्मकम् ।
लकारानाद्यमं भूयस्थाप्य तत्र द्वितीयकम् ॥ ७७ ॥
इकाराद्वयसम्भिन्नं कुर्या न दात्मवित्तमः ।
बलकाराक्षराद्वन्येस्व शिवार्गं पैङ्गलं न्यसेत् ॥ ७८ ॥
आद्यन्तस्ततस्ताभ्यां विद्याङ्गास्त्र्यक्षरं द्वयम् ।
प्। १७)
पञ्चाक्षराच्छिवाच्छैषा षष्ठमञ्च तथोक्षरम् ॥ ७९ ॥
सर्वात्मकाद्वितीयञ्च पदं तत्परतो न्यसेत् ।
ब्रह्मास्वादेस्तृतीयस्य पृष्ठमध्ये पदस्य तु ॥ ८० ॥
विन्यसेदितरस्यापि पदार्थस्यातिमाक्षरम् ।
तृतीयन्तु ततश्शैवं सप्तविंशकमेव च ॥ ८१ ॥
द्वितीयस्य पदस्यान्तं पदं सूक्ष्मान्तरानुगम् ।
इदमेव पदं सूक्ष्म * बिन्दुपरिकीर्तितम् ॥ ८२ ॥
गात्रियामाक्षरञ्चैव द्वितीयं विन्यसेद्बुधः ।
त्रिमूर्त्त्यन्तेन तस्मान्नियमाक्षरद्वयम् ॥ ८३ ॥
न्यसेन्मन्त्र समाप्त्यर्थं पुनर्यदुपवर्णितम् ।
प्। १८)
विद्याङ्गा स्तृतीयन्तु एकारान् परतोऽक्षरम् ॥ ८४ ॥
विन्यस्य तु पदस्तस्माद्घोरारादिति विन्यसेत् ।
अघोरास्रात्मकाद्वर्ण सप्तमाष्टमघोरतः ॥ ८५ ॥
रेभ्योकारमतो भावं पुनरेवाक्षरद्वयम् ।
पैङ्गलाघोक्षरं स्थाप्य तच्चत्वारो परिस्थितम् ॥ ८६ ॥
विन्यसेदेकरुद्रान्तं सर्वाकारक्षरद्वयम् ।
एकादशमघोरास्त्रं तकारं सविसर्गकम् ॥ ८७ ॥
कर्मेन्द्रियं परं तस्मात् मनुर्मुखो व्यश्च ये युतम् ।
रव्योकारश्च न तस्ताज्ञेयस्तेया शैवमेव च ॥ ८८ ॥
रुद्राकारो ततेरूश्च वेश्यव्यश्च ततः पुनः ।
प्। १९)
चतुर्थस्य तु गायत्र्या षष्ठमाद्याक्षरत्रयम् ॥ ८९ ॥
न्यस्ते दवञ्चतुर्थ्यन्तं महादेवपदे पुनः ।
पदत्रयोत्तरं तस्मात् गायत्र्यर्णं चतुष्टयम् ॥ ९० ॥
अन्यञ्चान्यं तयोर्मध्ये ना रुद्रास्तु शिवान्तकम् ।
वामदेहोत्तरे हार्दै षष्ठं गायत्र्यक्षरम् ॥ ९१ ॥
सप्तमस्य तु मेतानि ततो मध्यादि विन्यसेत् ।
अष्टमं नाक्षरञ्चैव ममनस्कं समन्वितम् ॥ ९२ ॥
पदैशानादि भूयोऽपि विन्यसेत् परतो बुधः ।
स्पर्शन्तमातृकस्यापि पदस्योर्ध्वमथोत्तरम् ॥ ९३ ॥
सविसर्गे पुनर्हार्दे भूताकाराक्षरद्वयम् ।
प्। २०)
शैववर्गाद्बिन्दुसंयुक्तं ब्रह्माश्चैव मतः परम् ॥ ९४ ॥
यसोदोङ्कारसम्भिन्नमेकारं वावदेवतः ।
धियत्पदे फपोतान्ते अष्टमं शोष्टमक्षरम् ॥ ९५ ॥
ब्रह्म आयक्ततोरेक पूर्ववत्कान्तरं न्यसेत् ।
अनन्तेशं चतुर्थ्यन्तं वोहाद्यं वै शवमष्टमम् ॥ ९६ ॥
स्तुङ्कारस्तरतश्शैवमनन्तेशञ्च विन्यसेत् ।
विन्यसेदेकरुद्रान्तं मूर्छितमनोक्षरम् ॥ ९७ ॥
ततः पञ्चमषष्ठे तु सर्वान्ते तु शिवात्मकौ ।
अनुष्टुप् छन्दस्समायुक्तं त्रयो मन्त्राः प्रकीर्तिताः ॥ ९८ ॥
यज्ञजुषा वामदेवस्तु गायत्र्येण चतुष्टयम् ।
प्। २१)
इति योगजे प्रतिष्ठातन्त्रे मन्त्राद्धारविधिः पटलः ।
अथ वक्ष्ये विशेषेण शौचाचमनविधिक्रमम् ।
प्रातरुत्थापयेन्मन्त्रं शुद्धस्थानगते सती ॥ १ ॥
वल्मीके च शिवस्थाने जलाश्रयो गुरुसन्निधिः ।
वृक्षसङ्घे च गोकोष्ठे पयि भस्मनि गोमये ॥ २ ॥
देवस्थानसमीपे तु नदी स्थाने विशेषतः ।
शिलाञ्च पर्वताग्रेषु कुर्यादावश्यकं बुधः ॥ ३ ॥
शिरो वस्त्रोऽवकुण्ठी च उपवीतञ्च कण्ठयोः ।
कुर्यादावश्यकं कार्यं मौनी भूतशिवद्विजः ॥ ४ ॥
प्। २२)
रात्रौ दक्षिणतः कृत्वा रविं दक्षिणतोऽपि वा ।
एवं कृत्वा तु तन्मन्त्री गच्छेत्प्रतिजलं बुधः ॥ ४ ॥
वामहस्तेन गृह्णीयात् प्रपूजनञ्चैव यत्नतः ।
मृत्पिण्डं दक्षिणे हस्ते गृह्णीयात्तु जलं बुधः ॥ ५ ॥
अमलीफलमात्रन्तु मृत्पिण्डं सव्यहस्तके ।
दशधा क्षालयेद्वारं मृत्पिण्डेन पुनः पुनः ॥ ६ ॥
दक्षिणे सप्तमन्त्रीणि न खिलं गन्तु शोधयेत् ।
गन्धलेपक्षयहरं शौचं कृत्वा शनैश्शनैः ॥ ७ ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं वानप्रस्थानां यतीनान्तु चतुर्गुणम् ॥ ८ ॥
प्। २३)
यावन्मात्रामनश्शुद्धिः तावच्छौचं समाचरेत् ।
इति योगजे शौचविधिः पटलः ।
अथ वक्ष्ये विशेषेण आचमनविधिवत्पुनः ।
उदङ्मुखतप्राङ्मुखो भूत्वा शिखामाबन्धयेद्विधि ॥ १ ॥
नान्तर्जलेन तिष्ठञ्च न हसन्न ब्रुवन् तथा ॥ २ ॥
ब्रह्मणे दक्षिणकरे पञ्चतीर्था भवन्ति हि ।
स्थले तु दक्षिणं पादं वामपादं जले स्थितम् ।
प्। २४)
ब्रह्माविष्णुश्च रुद्रश्च मघवानिति शैविकम् ॥ ४ ॥
अङ्गुलीनाममेतद्धि पञ्च तीर्था भवन्ति हि ।
अङ्गुल्यग्रे ऋषितीर्थम् अङ्गुलीमध्ये च दैविकम् ॥ ५ ॥
तर्जन्यङ्गुष्ठयोर्मध्ये पैतृकं तीर्थमुच्यते ।
अङ्गुष्ठाङ्गुलिरेखायां ब्राह्मतीर्थमुदाहृतम् ॥ ६ ॥
गोकर्णवत्करतलं ममाषमग्नाजलं गृहेत् ।
तृं पिपेदृग्यजुस्समां प्रीणां तद्विपरिमृजेत् ॥ ७ ॥
अथर्ववेदेतिहासाः दुःखमेकन्तु संव्रजेत् ।
पद्भ्यामभ्युक्षणं कुर्याद्भूमदेव्याः प्रियं भवेत् ॥ ८ ॥
ब्रह्मतीर्थं शिरोऽभ्युक्ष्य क्षततस्त्वङ्गे तु संव्रजेत् ।
प्। २५)
अङ्गुष्ठानामिकाभ्यन्तु चक्षुषो समुपस्पृशेत् ॥ ९ ॥
अङ्गुष्ठतर्जनीभ्यान्तु चक्षुषोस्समुपस्स्पृशेत् ।
सर्वाङ्गुल्या स्पृशे हृदयं शिरो वै सर्वतोङ्गुलम् ॥ १० ॥
एवं कृत्वा तु मन्त्रज्ञं प्रयङ्गेष्वपि संस्पृशेत् ।
शिरः पादौ तथाभ्युक्षम् ऋषीणां सप्त तृप्तये ॥ ११ ॥
मूर्ध्नि चक्षुस्पृशेनैव शर्वादित्ये तु काष्ठ च ।
नासौ वै स्पर्शनप्रीतिः अर्चिन्यामधिदेवता ॥ १२ ॥
बाह्यौ नाभिहृदयं मिन्द्रो विष्ण्वशिरेव च ।
मूर्ध्नि संस्पर्शने चैव सर्वदेवप्रियं भवेत् ॥ १३ ॥
क्षते च कच्छजाते च सद्यमाचमनं कुरु ।
प्। २६)
अङ्गुष्ठेनाऽस्य संस्पृश्य पश्चादाचमनं भवेत् ॥ १४ ॥
एवमाचमनं प्रोक्तं मन्त्रस्नानविधि शृणु ।
इति योगजे आचमनविधि पटलः ।
अतः परं प्रवक्ष्यामि स्नानं पापहरं परम् ।
मृत्पिण्डं गोमयं पुष्पं तिलमामलकं कुशम् ॥ १ ॥
तटाके वाऽपि कूपे च हृदनिम्नजलेऽपि वा ।
आचम्य विधिवत्पूर्वं पादौ हस्तौ च क्षालयेत् ॥ २ ॥
जलस्नानं पुरा कृत्वा मानसञ्च ततः परम् ।
सद्योजातेन मन्त्रेण मृत्पिण्डन्तु त्रिधा भवेत् ॥ ३ ॥
प्। २७)
पूर्वञ्च दक्षिणञ्चैव उत्तरञ्च प्रकल्पयेत् ।
पूर्वं तत्पुरुषेणैव अघोरेण तु दक्षिणे ॥ ४ ॥
वामदेवेन मन्त्रेण उत्तरञ्चापि मन्त्रयेत् ।
अस्त्रेण प्रक्षिपेद्दिक्षु दशस्वपि यथाक्रमम् ॥ ५ ॥
दक्षिणेन मृदञ्चैव मङ्गमालिपि मन्त्रतः ।
शिरो वक्त्रञ्च हृदय गुह्यं पादौ विभागशः ॥ ६ ॥
हृदये नैव घोरेण सर्वाङ्गमुपलेपयेत् ।
उत्तरेण मृदञ्चैव शिवतीर्थं प्रकल्पयेत् ॥ ७ ॥
स्नानार्थे चोपचारेण सुगन्धामलकादिभिः ।
पञ्चब्रह्मशिवाङ्गैश्च अभिषेकं प्रकल्पयेत् ॥ ८ ॥
प्। २८)
गोमयेन पुनश्चैव स्नापयेदुपलिप्य च ।
कलशमुद्रान्तु बद्ध्वा तु प्रासादेनाभिषेचयेत् ॥ ९ ॥
तत्तीर्थन्तु समासाद्य रजन्यालेपनं कुरु ।
पश्चात्स्नानं समासाद्य आचम्य च यथा विधि ॥ १० ॥
सद्येनैवोदकं प्राश्यमीशानेन तु मार्जयेत् ।
तत्पुरुषेण मन्त्रेण जपेदष्टशतं पुनः ॥ ११ ॥
सूर्यश्चेति च मन्त्रेण उदकं प्राश्य यत्नतः ।
पश्चादाचमनं कुर्यादधिक्राविण्णेति प्रोक्षयेत् ॥ १२ ॥
भूर्भुवस्वेति मन्त्रेण पूर्वे पूर्वन्तु निक्षिपेत् ।
उपस्पृश्य ततो जप्त्वा पञ्चब्रह्मसभाङ्गकैः ॥ १३ ॥
प्। २९)
कलामन्त्राणि सर्वाणि व्योमव्यापिं तथैव च ।
देवान् ऋषीन् पितृंश्चैव तर्पयित्वा यथाक्रमम् ॥ १४ ॥
देवाश्च वामदेवे च अघोरेण ऋषिंस्तथा ।
पितॄणां सद्यमन्त्रेण एवमेवं क्रमेण तु ॥ १५ ॥
तर्पयित्वा विधानेन आचम्य विधिवत्पुनः ।
देवी केन तु तीर्थेन देवान् तर्प्योदपुष्पयुक् ॥ १६ ॥
आर्षेण तु तीर्थेन ऋषींस्सर्वांश्च तर्पयेत् ।
पैतृकेन तु तीर्थेन पितॄन् सर्वांश्च तर्पयेत् ॥ १७ ॥
अपसव्यक्रमेणैव उपवीतत्रयेण च ।
आचम्य तु विधानेन व्योमव्यापी तथैव च ॥ १८ ॥
प्। ३०)
श्रीरुद्रं पुरुषसूक्तं च विष्णुसूक्तं जपेत्ततः ।
हुङ्कारेण तु मन्त्रेण तीर्थञ्चैव तु संस्मरेत् ॥ १९ ॥
पुष्पेण ऋषिदेवांश्च तिलेन पितृतर्पणम् ।
कुशपुष्पाणि सर्वाणि सर्वकर्म समाचरेत् ॥ २० ॥
सावित्र्याञ्च जपं तत्र यावच्छक्तिसमाचरेत् ।
उदित्यञ्चित्रमन्त्रञ्च हंसशुद्धिं ततो जपेत् ॥ २१ ॥
प्रदक्षिणं ततः कृत्वा गुणसङ्ख्या तथैव च ।
पुष्पहस्तं गृहीत्वा तु आलयं प्रविशेद्बुधः ॥ २२ ॥
इति योगतन्त्रे स्नानविधिः पटलः ।
प्। ३१)
अतः परं प्रवक्ष्यामि भस्मस्नानविधिं परम् ।
गावश्शिवपुरात्पञ्च क्षितिं प्राप्ताश्शिवेच्छया ॥ १ ॥
पञ्चगावसमुत्पन्ना सर्वा लोकस्य मातरः ।
नन्दा भद्रा च सुरभि सुशीला सुमनायतः ॥ २ ॥
कपिलं श्वेतकृष्णञ्च धूम्ररक्तं तथैव च ।
नन्तादि सुमनान्तं स्याद्वर्णमेतत्प्रकीर्तितम् ॥ ३ ॥
सर्वलोकोपकारार्थं देवानां तर्पणाय च ।
गोमातरस्थिता भूमौ स्नानार्थञ्च शिवाय च ॥ ४ ॥
गोमयं रोचनां मूत्रं क्षीरन्दधिघृता गवाम् ।
षडङ्गानि पवित्राणि सर्वसिद्धिकराणि हि ॥ ५ ॥
प्। ३२)
गोभिर्यज्ञां प्रवर्तन्ते गोषु देवाः प्रकीर्तिताः ।
गोभिर्वेदास्समुत्तीक्ष्णास्साङ्गोपाङ्गपदक्रमात् ॥ ६ ॥
शृङ्गमूले भवान्नित्यं ब्रह्माविष्णुश्च संस्थितः ।
शृङ्गाग्रे सर्वतीर्थानि स्थावराणि वराणि च ॥ ७ ॥
शिरोमध्योग्यहं वत्सभूतैः प्रक्षालनं कुरु ।
आचम्यं विधिवत्कृत्वा सन्ध्याकर्म समाचरेत् ॥ ८ ॥
नोक्तकार्यञ्च सर्वेषां पूर्ववत्कारयेद्विधिः ।
माहेन्द्रं स्नानमाख्यातं मारुतं स्नानकं शृणु ॥ ९ ॥
गोवासन्तु समावेश्य गोधूली पञ्चगव्यकम् ।
गोगन्धेन समाविष्टं मूलमन्त्रं जपेत्ततः ॥ १० ॥
प्। ३३)
पश्चादाचमनं कुर्यान्नोक्तं पूर्ववदाचरेत् ।
मारुतं स्नानमाख्यातं मन्त्रस्नानमतः शृणु ॥ ११ ॥
सपादप्रक्षालनं कृत्वा आचम्य विधिवत्कुरु ।
ताम्रपात्रे जलं गृह्य आपोहिष्ठेति मन्त्रतः ॥ १२ ॥
हिरण्यं पवमानञ्च कुशाय प्रोक्ष्य बुद्धिमान् ।
अन्यकर्माणि सर्वाणि पूर्ववत्कारयेत्सुधीः ॥ १३ ॥
वारणं भस्ममाहेन्द्रं मारुतं मन्त्रसञ्ज्ञकम् ।
एवं पञ्चविधस्नानं सर्वकार्येषु योग्यतम् ॥ १४ ॥
इति शौचाचमनस्नानसन्ध्यावन्दन आलय प्रवेशन
कृकवाकोद्घाटनमार्जनालेपनप्रोक्षणम् आत्मशुद्धि-
प्। ३४)
द्रव्यशुद्धि द्विजशुद्धि मन्त्रशुद्धि आसनकल्पनदेवावाहन स्थापन सन्निधासन्निधिकोपेन ।
अङ्गप्रत्यङ्गोपनकलनगन्धपुष्पधूपदीपनिवेद्यबलिहुततिस्ताम्र-नित्योत्सवनृत्तक्षेत्रं पूजाविधिम् ।
इति योजगे प्रतिष्ठातन्त्रे आत्मशुद्धिविधि पटलः ।
अथ वक्ष्ये विशेषेण अर्चनाविधिमुत्तमम् ।
अर्चनं द्विविधं प्रोक्तम् आत्मार्थञ्च परार्थकम् ॥ १ ॥
अन्तरे स्थितिलिङ्गानां जङ्गमन्त्विति कीर्तितम् ।
पीठाद्येन समं बन्धं जङ्गमं लिङ्गमुच्यते ॥ २ ॥
प्। ३५)
ब्रह्माविष्णुशिवैर्युक्तं स्थावरं लिङ्गमुच्यते ।
स्वयम्भुरोहणञ्चैव देवमानुषराक्षसम् ॥ ३ ॥
बाणलिङ्गादिलिङ्गानां परार्थमिति कीर्तितम् ।
एषु नित्यस्थितो देवो व्यक्ताव्यक्तन्तु मानुषम् ॥ ४ ॥
सन्ध्याकाले तु सुव्यक्तमव्यक्तञ्चान्यकालके ।
ब्रह्मविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवम् ॥ ५ ॥
उत्तरादीनि मूर्त्यन्तं दक्षिणामूर्तिमन्त्रतः ।
वामं सद्यमघोरञ्च तत्पुरुषमीशाननामकः ॥ ६ ॥
उत्तरादीनि वक्त्राणि क्रमेण परिपठ्यते ।
सर्वद्वयारोद्भवञ्चैव वामादापसमुद्भवाः ॥ ७ ॥
प्। ३६)
अघोरात्तैजसम्भूतं पुरुषाद्वायुसमुद्भवम् ।
ईशादाकाशमुत्पन्न इत्येते भूतसम्भवाः ॥ ८ ॥
आसनं मूर्तिमावाह्य ते तु तृतीयमध्वनि ।
आसनं शुद्धविद्यान्तं मूर्तिशक्त्यन्तगोचरम् ॥ ९ ॥
आवाह्य सशिवं प्रोक्तो मन्त्रमूर्तिस्सदाशिवः ।
सदाशिवं मन्त्रसम्भूतेरष्टत्रिंशत्कलान्वितम् ॥ १० ॥
मन्त्रन्यासशिवं यावत् सदाशिवमिति स्मृतम् ।
अयं मन्त्रमिति ख्यातश्शिवार्चनमिति स्मृतः ॥ ११ ॥
आकाशात्सम्भवा रेखा द्वितीयमर्धचन्द्रकम् ।
तृतीयं कुटिलाकारं चतुर्थं वह्निसम्भवम् ॥ १२ ॥
प्। ३७)
पञ्चमन्तु ध्वजाकारं * * * * * * * * ।
शिवमन्त्रमिति प्रोक्तं सर्वयोनि हृदि स्थितम् ॥ १३ ॥
अर्धाक्षरं पदन्यासं शक्तिस्थानन्तु षट्पदम् ।
एतन्यासं कृतं नित्यं लिङ्गस्य परिणामिके ॥ १४ ॥
विद्याङ्गास्रशिवाङ्गास्र अघोरास्रं पाशुपतास्त्रकम् ।
क्षीरक्षस्त्रन्तु पञ्चैते शिवमन्त्रसमर्थितम् ॥ १५ ॥
शिवादुत्पद्यते शक्ति शक्तेरुत्पद्यते तथा ।
तस्यास्सदाशिवोत्पत्तिस्सदाशिवेश्वर स्थितिः ॥ १६ ॥
ईश्वरं रुद्रसम्भूतं रुद्राविष्णु समुद्भवम् ।
विष्णोर्ब्रह्मा समुत्पन्नो ब्रह्मणो विश्वसम्भवम् ॥ १७ ॥
प्। ३८)
वाच्यध्याचका हितो वाङ्मनातीतगोचरः ।
शिवं शुद्ध इति प्रोक्तो अरूपी अव्ययीश्वरः ॥ १८ ॥
वाच्यं सदाशिवं मन्त्रम् अवाच्यं शिवमन्त्रकम् ।
गुह्याद्गुह्यतरं गुह्यं स्वानुभूत्यावगम्यते ॥ १९ ॥
लोकरक्षानिमित्ताय सदाशिवसमुद्भवम् ।
तस्मात्सर्वप्रयत्नेन पूजयेत्तु सदाशिवम् ॥ २० ॥
लोकशान्तिकरं ह्येवं परार्थं पूजयेद्बुधः ।
आत्मार्थञ्च परार्थञ्च आदिशैवार्हणं भवेत् ॥ २१ ॥
लिङ्गेक्षणो विना मर्त्यं कूर्मभक्षयते सदा ।
तस्मात्सर्वप्रयत्नेन शिवलिङ्गार्चनं कुरु ॥ २२ ॥
प्। ३९)
प्रथमं तनुशुद्धिं स्याद्वितीयस्थानशुद्धिकम् ।
तृतीयं द्रव्यशुद्धिञ्च चतुर्थं लिङ्गशोधनम् ॥ २३ ॥
पञ्चमं मन्त्रसिद्धि स्यादित्येते पञ्च शुद्धयः ।
पूर्वोक्तविधिमार्गेण देहशुद्धिं समाचरेत् ॥ २४ ॥
देवन्यासक्रमेणैव देहशुद्धिं समाचरेत् ।
भूमिं समतलं कृत्वा सुखासीन उदङ्मुखः ॥ २५ ॥
रेचकं पूरकञ्चैव कुम्भकं दशमात्रकम् ।
दश दिक्ष्वस्त्रमन्त्रेण दिग्वरेचनमारभेत् ॥ २६ ॥
शङ्खतोयस्य तन्मध्ये सुरभिमुद्रां प्रदर्शयेत् ।
शिवमन्त्रं न्यसेद्विद्वान् गन्धपुष्पकुशैर्युतम् ॥ २७ ॥
प्। ४०)
तदम्भसि शिवे नाम्ना स्वदेहं प्रोक्ष्य मन्त्रवित् ।
करन्यासं पुरा कृत्वा सृष्टिमार्गेण बुद्धिमान् ॥ २८ ॥
अङ्गुष्ठादिकनिष्ठादि सृष्टिन्यासमिदं स्मृतम् ।
कनिष्ठाद्यङ्गुष्ठान्तं यत्संहारन्यासमुच्यते ॥ २९ ॥
दक्षिणे मध्यमादि स्यात् वामे ह्यनामिकान्तिकम् ।
स्थितिन्यासमिदं प्रोक्तं सर्वकर्मस्वयं विधिः ॥ ३० ॥
मूर्धादि सृष्टिरः प्रोक्तं पदादि संहृदि न्यसेत् ।
ईशादिष्टवष्टविन्यासं सद्या संहृदिं न्यसेत् ॥ ३१ ॥
अघोरादि स्थितिन्यासमित्येवं मन्त्रविन्यसेत् ।
हृदयं हृदये न्यस्य शिरः शिरसि विन्यसेत् ॥ ३२ ॥
प्। ४१)
शिखां शिखायां विन्यस्य कवचस्तनमध्यतः ।
अस्त्रं हस्तेन विन्यस्य नेत्रं नेत्रेण विन्यसेत् ॥ ३३ ॥
जानोर्नाभिगले चैव ललाटे मूर्ध्नि देशिके ।
पृथिव्यादीनि बीजानि योजयेत्तु विशेषतः ॥ ३४ ॥
पृथिव्यादीनि बीजानि लवलयहकारकाः ।
पीतं शुक्लं तथा रक्तं कृष्णं धूम्राभवर्णकम् ॥ ३५ ॥
चतुरग्रार्धचन्द्रञ्च त्रिकोणञ्च षडग्रकम् ।
सुवृत्तञ्च पृथिव्यादि मण्डलात्तु तथा क्रमात् ॥ ३६ ॥
ततस्सप्तशतं देवं शिवं प्रणवसंस्थितम् ।
त्रिकोणमग्निदेवञ्च वृत्तञ्चेन्द्रसूर्ययोः ॥ ३७ ॥
प्। ४२)
मण्डलाकारमेवोक्तमग्निकार्य शशाङ्कयोः ।
हृदयञ्च शिरश्चैव शिखाकवचमेव च ॥ ३८ ॥
नेत्रमङ्गषडङ्गानि कीर्तितानि क्रमेण तु ।
पृथिव्यादीनि पञ्चानि पूजयेत्तु विशेषतः ॥ ३९ ॥
पृथिव्यादीनि गत्यानां ब्रह्माद्याः पञ्चमूर्तयः ।
पञ्चोद्घातश्चतस्त्रश्च त्रयश्च द्वयमेकशः ॥ ४० ॥
ह्लां ह्रीं ह्वीं ह्रूं हेण रकारञ्च क्रमेणैवोर्ध्वयेत् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ॥ ४१ ॥
पृथिव्यादीनि भूतानि हुं फट् संयुक्तबुद्धिमान् ।
जानुनाभिगले चैव ललाटं मूर्ध्निदेशके ॥ ४२ ॥
प्। ४३)
हृदयादीनि मन्त्रेण बन्धयेदादिशैवकः ।
तद्बन्धं पञ्चग्रन्थिं स्यादिति शास्त्रस्य निश्चयः ॥ ४३ ॥
पाशुपतेन शास्त्रेण पञ्चग्रन्थिं स्तु छेदयेत् ।
ह्लादयादीनि मन्त्रेण पृथिव्यादीनि योजयेत् ॥ ४४ ॥
शिखामग्रे द्वादशाङ्गुले हंहेनात्मनि योजयेत् ।
संहारमुद्रया चैव शिवतत्वे नियोजयेत् ॥ ४५ ॥
अग्निमण्डलमध्ये तु अग्निबीजं न्यसेद्बुधः ।
कलेबरं दहेत्पश्चादग्धरज्जुं विचिन्तयेत् ॥ ४६ ॥
आपूर्यं ततो ध्यात्वा आत्मानं मृततेजसा ।
प्रणवं श्वेतकमलं योगपीठमधोमुखम् ॥ ४७ ॥
प्। ४४)
स्रवन्तममृतं ध्यात्वा चन्द्रमा स्थलमध्यमे ।
तेन आचितपिण्डन्तु शरीरस्थितिकं कुरु ॥ ४८ ॥
आत्मानमानयेन्मन्त्रं कारयेत्पूर्ववत्सुधीः ।
अकारादिक्षकारान्तं वर्णमन्त्रक्रमं न्यसेत् ॥ ४९ ॥
अकारं मूर्ध्नि विन्यस्य आकारन्तु ललाटके ।
इ ई चक्षुर्द्वये चैव उ ऊ ओष्ठद्वयोरपि ॥ ५० ॥
ऋ ॠ चक्षुर्द्वये चैव ऌ ॡ नाडिद्वये न्यसेत् ।
ए ऐ श्रोत्रद्वये चैव ओ औ जिह्वागले विदुः ॥ ५१ ॥
अम् अः कक्षद्वये चैव अक्षरं विन्यसेत्सुधीः ।
कवर्गं दक्षिणे पार्श्वे * * * * * * * * ॥ ५२ ॥
प्। ४५)
टवर्गं दक्षिणे पादे तवर्गं वामपादके ।
पवर्गं दक्षिणे हस्ते यवर्गं वामहस्तके ॥ ५३ ॥
लक्षलिङ्गमपाने च वर्णस्थानं विधीयते ।
कालाशक्तिकलान्यासं क्रमेणैव तु योजयेत् ॥ ५४ ॥
पञ्चब्रह्म शिवाङ्गश्च तत्तद्देशेषु विन्यसेत् ।
मूर्धादि पादपर्यन्तं दशाक्षराणि विन्यसेत् ॥ ५५ ॥
प्रासादं विन्यसेत्पश्चात् शिवोऽहमिति भावयेत् ।
करार्चनं ततः कृत्वा पश्चाद्देहार्चनं कुरु ॥ ५६ ॥
पूर्ववद्देहन्यासञ्च यथाक्रमेण योजयेत् ।
एवं कृत्वा विशेषेण आत्मशुद्धिं समाचरेत् ॥ ५७ ॥
प्। ४६)
त्रिकालं चैककालं वा आत्मार्थं सम्प्रपूजयेत् ।
नाडीमूलादधः पद्मं तुर्याङ्गुलि प्रमाणतः ॥ ५८ ॥
मूलाधारमिदं प्रोक्तं शतृनाभिध्वनिं विदुः ।
बिन्दुनादसमायुक्तं शक्तिरित्यभिधीयते ॥ ५९ ॥
अग्निमध्ये रविस्थानं रविमध्ये तु चन्द्रमाः ।
तस्य मध्ये तु पूर्वज्ञो व्यक्ताव्यक्तमिति स्मृताः ॥ ६० ॥
आत्मानञ्चान्तरात्मानं परमात्मानमुच्यते ।
क्रमेणैवोर्ध्वतत्सर्वं सात्त्विकादिगुणैर्युतम् ॥ ६१ ॥
भ्रूमध्ये संस्थितं देवं नाभिमध्ये प्रतिष्ठितम् ।
हृदये योजनं कुर्यान्नाभो होमं प्रकल्पयेत् ॥ ६२ ॥
प्। ४७)
हृत्पद्मे चार्चयेन्नित्यं त्रिकालं वा द्विकालकम् ।
अथवा एककालन्तु संयजेन्मानसेन तु ॥ ६३ ॥
अङ्कुरं नाभिमूले तु हृदये सुप्रतिष्ठितः ।
समनो मन्यास्तु संयोज्य * * * * * * * ॥ ६४ ॥
चतुरष्टद्विरष्टौ च द्वात्रिंशद्विगुणीकृतम् ।
षडाधारन्तु पद्मं स्यादूर्ध्वाधः क्रमयोगतः ॥ ६५ ॥
त्रिधाधारमधोभागे ऊर्ध्वभागं तथैव च ।
हंसाधारमिदं प्रोक्तं सर्वस्यापि सदाशिवः ॥ ६६ ॥
घण्टाजिह्वास्थयोगन्तु तदुत्पत्तिरिति कथ्यते ।
एवमेव प्रकारेण चिन्तयेन्मानसेन तु ॥ ६७ ॥
प्। ४८)
आत्मशुद्धिरिदं प्रोक्तं स्थानगूढमतः शृणु ।
मार्जनालेपनञ्चैव वितानध्वजभूषितम् ॥ ६८ ॥
शोधनीमुद्रया चैव फट्कारेण तु योजयेत् ।
हस्तमात्रप्रकारेण मण्डलञ्चतुरग्रकम् ।
आवाहयेत्ततो भूमिं सर्वाभरणसंयुतम् ॥ ७० ॥
द्विनेत्रा द्विभुजा श्यामा शुकहस्तन्तु पिङ्गलाम् ।
गलपुष्पादिभिः पूज्य स्वनादा देशिकोत्तमः ॥ ७१ ॥
भूमिशुद्धिरियं प्रोक्ता द्रव्यशुद्धिं ततः शृणु ।
गन्धतैल * * * * * * * * * कं तथा ॥ ७२ ॥
प्। ४९)
कषायं गन्धोदकञ्चैव प्रोक्तवस्त्रं तथैव च ।
पाद्यमाचमनं चार्घ्यं गन्धपुष्पञ्च धूपकम् ॥ ७३ ॥
दीपञ्चैव निवेद्यञ्च पानीयञ्च तथैव च ।
ताम्बूलमुखवासञ्च नीराजनञ्च तर्पणम् ॥ ७४ ॥
चामरं तालवृन्तञ्च छत्रं पादुकमेव च ।
सौवर्णरजतं ताम्रमथवा कांस्यमेव च ॥ ७५ ॥
शङ्खपत्रादिपात्राणां जलद्रोणिञ्च वर्धनम् ॥ ७६ ॥
त्रिपादीनि च सर्वाणि शोधयेन्मूलमन्त्रतः ।
प्। ५०)
पूर्वे च पश्चिमे याम्ये सौम्ये चैव क्रमेण तु ।
यथा क्रमेण विन्यस्य पञ्चवक्त्रक्रमागतः ॥ ७८ ॥
तमातराक्षरानिष्ठा धृतिक्षाणि स्मृतिक्षमा ।
आघोरस्य कुलानान्तु अष्टौ वै शक्तयः क्रमात् ॥ ७९ ॥
हृदये कण्ठदेशे तु अंसयोरुदरेऽपि च ।
नाभौ पीठोरसोश्चैव अघोरस्य कला न्यसेत् ॥ ८० ॥
राजा रतिप्पाल्या कामा संयमनीयका ।
कृष्णा मोहा क्षुधा चिन्ता ग्रामणी भ्रामिणी तथा ॥ ८१ ॥
वामदेवकलानान्तु शक्त्यस्त्रयोदश ।
गुह्ये गुचे गुर्व्योश्च जान्वोर्जङ्घद्वयोरपि ॥ ८२ ॥
प्। ५१)
प्रतिष्ठायां कटी पार्श्वे तु वामदेवकला न्यसेत् ।
सिद्धिं रिद्धि द्वितीलक्ष्मी मेधाकान्तिस्वधा प्रणाः ॥ ८३ ॥
यद्यमन्त्रकलाष्टौ तु दिव्यदेहे तु कल्पयेत् ।
पादयोरुद्वयोश्चैव हस्तयोरुभयोस्तथा ॥ ८४ ॥
बाह्यो नास्योश्शिरस्यैव ब्रह्मभागमधस्थितम् ।
मध्यमे विष्णुभागं स्यात्तदूर्ध्वे शिवभागकम् ॥ ८५ ॥
शिवभागं चतुर्थ्यंशं पदमेकांशमुच्यते ।
द्वितीयं जम्भभागञ्च तृतीयं मरुमेव च ॥ ८६ ॥
चतुर्थं कटिदेशञ्च पञ्चमं घटिरूर्ध्वतः ।
ईशभागं नाभिदेशञ्च सप्तमम् उदरं विदुः ॥ ८७ ॥
प्। ५२)
अष्टमं हृदयं प्रोक्तं नवमं स्तनमध्यतः ।
दशमं कण्ठदेशं स्याच्चिबुकमेकादशं स्मृतम् ॥ ८८ ॥
अधरम् उत्तरोष्ठञ्च त्रयोदश इति स्मृतम् ।
चतुर्दश ललाटं स्यात् पञ्चदशेन मूर्ध्निषु ॥ ८९ ॥
मूर्ध्नादिपदपर्यन्तमष्टत्तृंशत् कलां न्यसेत् ।
शशिनी ऊर्ध्वमूर्ध्निस्तु अङ्गदं पूर्वमूर्ध्निषु ॥ ९० ॥
इष्टां दक्षिणमूर्तिस्तु मरीची उत्तरमूर्ध्निषु ।
ज्वालिनीपञ्चमूर्ध्निस्तु प्रणवेनोर्ध्ववक्त्रकम् ॥ ९१ ॥
अव्यक्तकला इति ख्यातमूर्ध्ववक्त्रमिति स्मृतम् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तु शेषतः ॥ ९२ ॥
प्। ५३)
शिपीकृतेन तोयेन प्रोक्षयेन्मूलविद्यया ॥ ९३ ॥
द्रव्यशुद्धिर्भवेदेवं लिङ्गं शुद्धमतः शृणु ।
कनिष्ठानामिकामध्ये पुष्पान् गृह्य विचक्षणः ॥ ९४ ॥
पूर्वसन्ध्यार्चितं पुष्पम् अङ्गुष्ठेन विसर्जयेत् ।
विसर्जने तु तत्काले पुष्पं मूर्ध्नि निधापयेत् ॥ ९५ ॥
देहन्यासं क्रमं कृत्वा मन्त्रदेहं सदाशिवम् ।
अव्यक्तानान्तु लिङ्गानां व्यक्तमेतत् सुचिन्तयेत् ॥ ९६ ॥
तस्मिन् लिङ्गे वसेदेवो व्यक्ताव्यक्तस्सदाशिवः ।
सन्ध्याकाले तु सा व्यक्तमव्यक्तञ्चान्यकालके ॥ ९७ ॥
प्। ५४)
आवाहनविसर्गाश्यां सुखो विकलोऽपि च ।
काष्ठेन मर्दयेत्काष्ठं प्रक्रियामतसम्भवम् ॥ ९८ ॥
एष सर्वेश्वरो जातः सर्वव्यापि शिवात्कृतः ।
स्वभावतः शिवं प्रोक्तं काष्ठमध्ये तु चाग्निवत् ॥ ९९ ॥
उपकाष्ठन्तुमतीत्वा वा सदा शिवस्तु जायते ।
तावत्सदाशिवं प्रोक्तं शिवलीलाप्रवर्तके ॥ १०० ॥
ज्ञानयोगक्रियाचार्या सदाशिवन्तु बन्धयेत् ।
तच्छिवं पूजाकाले तु क्रिययोद्धृत्य अग्निवत् ॥ १०१ ॥
स्वाहामव्यक्तकं प्रोक्तं क्रियाकाले तु व्यक्तकम् ।
कुम्माकृति शिराकारमामलस्याकृतिं वपुः ॥ १०२ ॥
प्। ५५)
कूश्माण्डफलवद्रूपं पनसेफलरूपकम् ।
तालफलवदाकारम् आर्षं लिङ्गमुच्यते ॥ १०३ ॥
निम्बञ्च नारिकेलञ्च बिल्वञ्चैव कपित्थकम् ।
चूतञ्च मातुलङ्गञ्च कदम्बफलमल्लिका ॥ १०४ ॥
इत्येवं दक्षिणैर्युक्तं मानुषं लिङ्गमुच्यते ।
स्वयम्भुवरुषदेवानां त्रिसूत्रमुकुलैर्विना ॥ १०५ ॥
यथेष्टाकृतिसंयुक्तं स्वाङ्गपिङ्गलमुच्यते ।
त्रिसूत्रमकुलैर्युक्तं मानुषं लिङ्गमुच्यते ॥ १०६ ॥
लिङ्गायामतिभागैकं गोविजातकला न्यसेत् ।
गौरीकलास्त्वहं वक्ष्ये गौरीबीजसमुद्भवम् ॥ १०७ ॥
प्। ५६)
तारा ईशकला ज्ञेया विद्यावक्त्रकला न्यसेत् ।
हृदयेन च बाह्येऽत्र स्वशने नाभिदेशके ॥ १०८ ॥
ऊर्वोर्जानुद्वये चैव दत्तपङ्क्तिद्वयोरपि ।
वामदेवकलाह्येते देवि देहे तु विन्यसेत् ॥ १०९ ॥
अकारादि क्षकारान्तं विन्यसेत्तु विशेषतः ।
शिरोललाटनेत्रेषु कर्णयोश्च द्विगण्डयोः ॥ ११० ॥
आस्यामोष्ठद्वयोश्चैव दत्तपङ्क्तिद्वयोरपि ।
जिह्वायां तालुरन्धेषु स्वरान् षोडशकान् न्यसेत् ॥ १११ ॥
कवर्गं दक्षिणे हस्ते ववर्गं वामहस्तके ।
टवर्गं दक्षिणे पार्श्वे तवर्गं वामपादके ॥ ११२ ॥
प्। ५७)
पफौ दक्षिणपार्श्वे च बभौ वै वामपार्श्वके ।
मकारं कण्ठदेशे तु क्रमेण परिपठ्यते ॥ ११३ ॥
यकारादि सकारान्तं रसास्त्रं मांसदेहकः ।
अस्थिमज्जा शुक्लञ्च क्रमेणैव तु विन्यसेत् ॥ ११४ ॥
हकारं हृदये न्यस्य लकारं वृषणे न्यसेत् ।
क्षकारं मेढ्रदेशे तु विन्यसेत्तु विशेषतः ॥ ११५ ॥
षडध्वतुङ्गं पूर्णं दिव्यदेहमिति स्मृतम् ।
पृथिव्यापस्तथा ज्योति वायुराकाशमेव च ॥ ११६ ॥
श्रोत्रत्वक् चक्षुजिह्वा घ्राणञ्चैव तु पञ्चमम् ।
वाक्पाणिपादपायुरुपस्थञ्चैव पञ्चमम् ॥ ११७ ॥
प्। ५८)
मनोबुद्धिरहङ्कार प्रकृतिः पुरुषस्तथा ।
रागमाया च विद्यां च कलानियतिरेव च ॥ ११८ ॥
विग्रहेश्वरसकलं शुद्धविद्या तथैव च ।
शुद्धविद्याशुद्धमयं शुद्धं शिवमिति स्मृतम् ॥ ११९ ॥
षट्त्रिंशत्तत्वमित्युक्तं तत्वं घ्राणन्तु मुच्यते ।
कलाध्वात्त्वङ्गमित्युक्तं तत्वाप्राणेन मेव च ॥ १२० ॥
वर्णाध्वैव ध्वजोपेतं मन्त्राध्वा रुधिरान्विता ।
भुवनाध्वा रोमकूपं पदाध्वासरमेव च ॥ १२१ ॥
ततः सप्तदशं देवं शिवं प्रणवसंस्थितम् ।
पूर्ववत्सकलं कृत्य शिवमावाहयेत्ततः ॥ १२२ ॥
प्। ५९)
कपालीशस्त्वजो बन्धज्ञ देह * नु मर्दनः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥ १२३ ॥
इत्येषां पूर्वदिग्भागे दश देवाः प्रकीर्तिताः ।
अग्निरुद्रो हुताशश्च पिङ्गलश्च घातको हरः ॥ १२४ ॥
ज्वलन्त्यो दहनो बभ्रू भस्मान्तकक्षयान्तकः ।
इत्येषामग्निदिग्भागे दश देवाः प्रकीर्तिताः ॥ १२५ ॥
याम्योग्नीनो हरो घाता विधाता च तथेश्वरः ।
कर्ता भोक्ता विधाता चा धर्त्ता धर्मपतिस्तथा ॥ १२६ ॥
इत्येषां क्रमदिग्भागे दश देवाः प्रकीर्तिताः ।
नृतिर्मरणो हन्ता क्रूरदृष्टिर्भयानकः ॥ १२७ ॥
प्। ६०)
ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ।
इति नै-ऋतदिग्भागे दश देवाः प्रकीर्तिताः ॥ १२८ ॥
बालो पाशहस्तो महीहाश्चलीश्वेतो एव च ।?
जयभद्रश्च दिव्यहस्तो जीलाधिपदमेघनादकः ॥ १२९ ॥
सुगादश्च इति ख्यातो वारुणे दिशि देवताः ।
शीघ्रो लघुर्वायुवेगसूक्ष्मक्षणक्षयान्तकः ॥ १३० ॥
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
इति वायव्यदिग्भागे दश देवाः प्रकीर्तिताः ॥ १३१ ॥
निधीशो रूपवान्धन्यो सौम्यदेहे व्यवस्थितः ।
लक्ष्मीधरो रत्नधरः श्रीधरश्च प्रसादकः ॥ १३२ ॥
प्। ६१)
इत्येषामुत्तरे देशे दश देवाः प्रकीर्तिताः ।
विद्याधिपश्च ईशश्च त्रिदशस्सर्व एव च ॥ १३३ ॥
ज्ञानभुक् वेदपारश्च सुरेशस्सर्व एव च ।
ज्येष्ठाश्च भूतपालश्च बलप्रियश्च एव च ॥ १३४ ॥
ऐशान्ये देशदिग्भागे दश देवाः प्रकीर्तिताः ।
ब्रह्मो वृषधरश्चैव अनन्तक्रोध एव च ॥ १३५ ॥
मरुताशनग्रासनश्च उदुम्बरीश एव च ।
फणीन्द्रो वज्रदंष्ट्रीव इत्यधो दिशि देवताः ॥ १३६ ॥
शम्भुर्विभुर्गणाध्यक्ष स्त्रियक्ष स्त्रिदिवेश्वरम् ।
संवाहनश्च विवानश्च नभो विस्मृति लोचनः ॥ १३७ ॥
प्। ६२)
इत्यूर्ध्वदिक्षु देवाश्च दश देवाः प्रकीर्तिताः ।
तदुपरि वीरभद्रं भद्रकालीद्वयं न्यसेत् ॥ १३८ ॥
ब्रह्माविष्णुरुद्रश्च ईश्वरश्चक्रमान् न्यसेत् ।
इति सप्तशतं देवमावाह्यन्तु विचक्षणः ॥ १३९ ॥
निवृत्तिकला पृथिवी तत्व क्षकारे वर्णमुच्यते ।
हृदयं सर्वमन्त्रेण कालाग्नि क्रूश्माकौ भागकः ॥ १४० ॥
ब्रह्माविष्णुश्च रुद्रश्च अधिदेवाः प्रकीर्तिताः ।
ब्रह्माण्डमध्ये भुवनानि रुद्रः प्रकीर्तिताः ॥ १४१ ॥
निवृत्तिकलया चैव पृथिवीतत्वमुच्यते ।
क्षकारे वर्ण इत्येषां भुवनमष्टाधिकशतम् ॥ १४२ ॥
प्। ६३)
नमो नमश्शिवाय । ॐ सर्वदस्सर्वशिव । सूक्ष्म सूक्ष्म । शब्द । शब्दज्ञान ज्ञान । पिङ्ग पिङ्ग पतङ्ग
पतङ्ग । क्रूर क्रूर । साक्षि साक्षि । पूर्वस्थित । पूर्वस्थितः । अर्चित अर्चित । ब्रह्मविष्णुरुद्रपर ।
सर्वसान्निध्यकर । सर्वभूत सुखप्रद । भवोद्भव । भव भव । शर्व शर्व । प्रथम प्रथम । मुञ्च मुञ्च
।
योगाधिपतये महातेजाय सद्भावेश्वराय महादेव । इति । सव्योमव्यापि महामन्त्रमष्टाविंशत्पदं भवेत् ।
निवृत्तिकालाय व्याप्तं षड्विधाध्वमिति स्मृतम् ॥ १४३ ॥
प्रतिष्ठा कलया वक्ष्ये आपाग्निर्वायु व्योमकम् ।
प्। ६४)
गन्तोरसन्तरूपञ्च शब्दतन्मात्रपञ्चकम् ॥ १४४ ॥
वाक्पाणि पायूरुपस्थं कर्मेन्द्रियं मतम् ।
श्रोत्रत्त्वक् चक्षुजिह्वा च घ्राणबुद्धीन्द्रियं मतम् ॥ १४५ ॥
मनोबुद्धिरहङ्कारमन्तः करणत्रयस्मृतम् ।
गुणा प्रकृतिरित्युक्ता चतुर्विंशत्त्वमेव च ॥ १४६ ॥
गकारादिहकारान्तं वर्णत्रयोविंशति ।
शिरस्य वाममन्त्रेण मन्त्रद्वयमिहोच्यते ॥ १४७ ॥
षट्पञ्चाशद्भुवनानां यथा क्रममिति स्मृतम् ।
अमरेशः प्रभासेनो नौमीशः पुष्करः स्मृतः ॥ १४८ ॥
अत सिद्धि मुण्डी च हारभ्रतिलकुलीश्वरः ।
प्। ६५)
इत्यष्टकतत्वानां पदं तत्त्वमनुस्मृतम् ॥ १४९ ॥
मध्यमेके महाकालो केदारे भैरवेश्वरः ।
इत्यष्टकसञ्ज्ञायाम् अग्नितत्वे प्रकीर्तिताः ॥ १५० ॥
गया चैव कुरुक्षेत्रं नागलोचनखस्तथा ।
विमलेशोष्टभासञ्च महेन्द्रो हि महेश्वरम् ॥ १५१ ॥
इत्येवमष्टभुवनमाकाशतत्वकीर्तिताः ।
चक्रद्वण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः ॥ १५२ ॥
कालाञ्जनश्शङ्कुकर्ण समूलेश्वर इति स्मृताः ।
इत्येवमष्टभुवनम् अङ्कारे तु स्थितं भवेत् ॥ १५३ ॥
पैशाचं राक्षसं याक्षं गान्धर्वमैन्द्रमेव च ।
प्। ६६)
सौमं शैलब्रह्मणञ्च इत्यष्टौ बुद्धिके स्थितम् ॥ १५४ ॥
अकृतञ्च कृतञ्चैव भैरवं ब्राह्मवैष्णवम् ।
कौमार औमकञ्चैव श्रीकण्ठमिति कथ्यते ॥ १५५ ॥
इति योगाष्टकर्तव्यं गुणप्रकृतिरुच्यते ।
एवं नव सप्तकानि ।
एकविंशति पदं मध्ये महेश्वरपराक्रमान् ॥ १५६ ॥
शषर्व । शिवनिधनो भव । निधने । अनिधन । ओम्भुवः धू धू धू । ना ना ना ना । अनादे । अभस्म । अधूम
। अग्निरूप । अरूप अनग्निज्योति । ज्योति तेज । तेजस्तेज प्रथम प्रथम । अरूपिन् महेश्वर । पदादारभ्यरूपी ।
प्। ६७)
अनन्तादि एवं पञ्चविधमध्वानं षष्ठया प्रतिष्ठा कलाव्याप्तं सञ्चिन्तयेदिति षड्विधाध्वा व्याप्तिविद्या
कलाया पुनः पुरुषरागविद्या कालाग्नि नियति मायानि तत्वानि सप्त । वर्णा घकारान्ता मन्त्रा अघोरशिवाः ।
भुवनानि सप्तविंशतिः । वामभीमतूग्रभुव इश एर वीर इति पुरुषं प्रचण्ड उमापतिः । अजः
अनन्तश्चैकवीरक इति भुवनपञ्चकम् । रागक्रोधः चण्डेशविद्यायां ज्योतिसंवर्तकालायां
सूकारञ्चान्तकोन्ययतम् । एकवीरशिखाकाले महातेजं वा महादेवं भुवश्चोद्भव एकपिङ्गलः एकेक्षण
ईशानः ।
प्। ६८)
अङ्गुष्ठमात्र इति मण्डलेश्वराष्टकमाया एवं भुवनानि देवतस्नानानि पदानि विंशतिः । व्यापिन्यव्यापिन् ।
व्योमिन्यव्योमिन् । अचेतनचेतनापरमेश्वर परायज्योतीरूपाय सर्वयोगाधिकृताय अनिधनाय गोप्त्रे गुह्यातिगुह्याय
ओन्नमो नमः । सद्योजातमूर्तये व्योमदेवगुह्याय अघोरहृदयाय तत्पुरुषाय वक्त्राय ईशानमूर्ध्नाय
सर्वप्रभवेऽधिपाय ओन्नमः । ध्यानाहाराय इति व्यापिनासिध्यानाहारान्तानि एवम् एवं पञ्चविधम् अध्वा
विद्याकलाव्याप्तं शान्तिकलायां पुनः । शुद्धविद्याचैश्वर सदाशिवशिवाख्ये तत्वत्रयम् ।
प्। ६९)
वर्णास्त्रयो खगकां मन्त्रात्पुरुषकवच प्रभुवनान्यष्टादश । नामा ज्येष्ठा रुअद्री कराली कलविकरणी ।
बलप्रमथिनी सर्वभूतदमनी मनोन्मनीति । भुवननवकं शुद्धविद्याया ।
अनन्तेशश्च सूक्ष्मश्च शिवोत्तमश्च एकनेत्रकः ।
एकरुद्रस्त्रिमूर्तिश्च श्रीखण्डश्च शिखण्डिनः ॥ १५७ ॥
भुवनाष्टकमीश्वरतत्वे । सदाख्यं सदाशिवेति भुवनानि पदान्येकादश । नित्ययोगिने योगपीठसंस्थाय
ध्रुवाय शिवाय सर्वव्यापिने व्योमाय रूपाय व्योमव्यापिने मित्ययोगिने आदिव्योमव्यापिने एतानि पदानि ।
प्। ७०)
एवं पञ्चविधम् । षड्विधानमषड्विधात्य शान्तिकला व्याप्तसञ्चिन्तयेदिति सड्विधाध्वव्याप्तिः ।
शान्त्यतीतकलायां पुनश्शिवतत्त्वम् । वर्णाष्षोडश स्वरा विसर्गाद्या अकारान्ताः । शिवेशानामस्त्रम्
मन्त्रं भुवनानि पञ्च दश । निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च । शान्त्यतीते बिन्दुकला
भुवनानि । ईलिका दीपा रोचिका मोचिका ऊर्ध्वगामी । नीतिनादकला भुवनानि विपिनी व्योमरूपाऽनन्त अनाथा
अनाश्रितेति शक्तिकलाभुवनानि व्योमव्यापि मन्त्राद्योत कृतपदमित्येवमध्वपञ्चकम्
प्। ७१)
शान्तिकलाव्याप्ति भावयेदिति षड्विधाऽध्व व्याप्तिः । एवमेव मातृषडध्वव्याप्ति व्याख्याता । तत्र
कलापञ्चतत्वानि षट्त्रिंशत् । वार्णाः पञ्चाशत् मन्त्र एकादश । भुवनानि चतुर्विंशत्यधिकशतद्वयम् ।
पदान्येकाशीतिः । एवं षडध्वा ज्ञानसम्पन्नो मुच्यते । पाशबन्धनान्मोचयति ।
पदाध्वो कुसिरामांस शुक्लं मज्जास्थितत्वगः ।
सदाशिवषडध्वात्मा तस्य प्राणशिव स्मृतः ॥ १५८ ॥
हृदयाद्यङ्गसम्पूर्णो ध्याने सकलरूपधृक् ।
कुन्देन्दुस्फटिकाभासां जटामकुटमण्डितम् ॥ १५९ ॥
पञ्चमूर्ध्ना पञ्चवक्त्रं नेत्रपञ्चदशैर्युतम् ।
प्। ७२)
सर्वाभरणसंयुक्तं दशदोर्भिस्समन्वितम् ॥ १६० ॥
शूलं परशुखड्गञ्च वज्रञ्चाभयदक्षिणे ।
पाशं नागाङ्कुशञ्चैव घण्टां वह्निञ्च वामके ॥ १६१ ॥
सद्यन्तु क्षीरसदृशं वामं रक्तनिभं भवेत् ।
अघोरमञ्जनप्रख्यं पुरुषं कुङ्कुमप्रभम् ॥ १६२ ॥
शुद्धस्फटिकवर्णाभमीशानं मुखमुच्यते ।
ईशानं कनकं वर्णं वामं मुखमिति स्मृतम् ॥ १६३ ॥
दिव्याम्बरधरं देवं दिव्यपुष्पैरलङ्कृतम् ।
दिव्यगन्धानुलिप्ताङ्गं शान्तरूपं स्मिताननम् ॥ १६४ ॥
स्थितमासीन शयन लिङ्गाकृतिवशान्नयेत् ।
प्। ७३)
वर्तमानस्थितं लिङ्गमासीनन्तु शिवाधिकम् ॥ १६५ ॥
त्रैराशिकं शयनं ज्ञेयं समखण्डत्त्रिकं महान् ।
चतुर्विंशदङ्कृतं * * तुं गमयो ब्रह्मभागम् ईशं पुनर्मध्यमे । विष्णुभागं वत्सरञ्च नवांशं
शिवांशं भवेद्व्यर्धमाम् ।
समभागं ब्रह्मविष्णुं शिवभागाधिकं तथा ॥ १६६ ॥
शिवाधिकमिति प्रोक्तं समखण्डसमं भवेत् ।
एकत्त्रिंशति भागेन दशैव ब्राह्मवैष्णवम् ॥ १६७ ॥
रुद्रारुद्रमिति प्रोक्तं त्रिराशिकमिति स्मृतम् ।
स्वायम्भुवादि लिङ्गानां समाकारं स्थितं भवेत् ॥ १६८ ॥
प्। ७४)
स्थूलमूलं कुशाग्रन्तु आसीनन्तु प्रवक्ष्यते ।
कुशमूलन्तु स्थूलाग्रं शयनन्तूपपद्यते ॥ १६९ ॥
त्रिकर्महान्मध्यस्थूललिङ्गानामाकृतिः स्मृताः ।
पीठे शक्तिं समावाह्य तत्र रू * * पठ्यते ॥ १७० ॥
उपानं पादमेकं स्यात् जगतीजङ्गमुच्यते ।
कुमुदं कुक्षिरित्याहुः बाहुभ्यां कम्पमेव च ॥ १७१ ॥
कर्णं कर्णमिति प्रोक्तम् अधरेऽधर पट्टिका ।
महापट्टिमुखं ज्ञेयकृतवारीशिरस्तथा ॥ १७२ ॥
मन्त्रोद्धारे स्मरेन्मन्त्री द्विनेत्रा द्विभुजान्विता ।
रक्तवर्णं स्त्रिभङ्गाङ्गी चित्रवर्णेन वेष्टिताम् ॥ १७३ ॥
प्। ७५)
सर्वाभरणसम्पूर्णां पीनोरुजघनस्तनम् ।
नूपुरा पादजाला च उदरबन्धनसंयुतम् ॥ १७४ ॥
सुमुखाङ्गश्च पुष्पाभ्यां कोशालक विभूषिताम् ।
पद्मोत्पलधरां देवीं वरदाभयपाणिनीम् ॥ १७५ ॥
एवं ध्यात्वा सुपीठे तु गौरी देहं विचिन्तयेत् ।
षड्विंशति कलाह्येते गौरी देहे तु विन्यसेत् ॥ १७६ ॥
अकारादि क्षकारान्तं पूर्ववद्विन्यसेत्क्रमात् ।
वृत्तपीठे स्थितो योगी गौरी आसनं भद्रपीठके ॥ १७७ ॥
शयनं भद्रपीठे स्यादन्येषु च वरावरा ।
एवं ध्यात्वा तु मन्त्रज्ञः सर्वपीठविशेषतः ॥ १७८ ॥
प्। ७६)
अग्नौ निर्-ऋतौ वाऽपि स्थित्वा देवं प्रपूजयेत् ।
हस्ताधिकप्रमाणे तु स्थित्वा देवं प्रपूजयेत् ॥ १७९ ॥
हस्ताधीनन्तु लिङ्गानां सुखाधीनं सुपूजयेत् ।
आधारस्वमधिष्ठानं म पूर्वं मणार्हकम् ॥ १८० ॥
विशुद्धमाज्ञा स्थितं स्थानमित्युक्ते आधारशक्तयः ।
आधारं गुदमित्युक्तस्वाधिष्ठानन्तु लिङ्गकम् ॥ १८१ ॥
अर्णपूर्णं व्यन्नाभिमध्यस्तं हृदये अणर्हतं तथा ।
पुष्पेषु गन्धवत् ज्ञेयं तिलेषु तैलवत्तथा ॥ १८२ ॥
कर्णदेशे विशुद्धन्तु आज्ञामद्विति कीर्तितम् ।
प्। ७७)
आधारमासनं प्रोक्तमाधेयं परमाश्शिवम् ॥ १८३ ॥
नादलिङ्गमिति प्रोक्तं बिन्दुपीठमिति स्मृतम् ।
न शिवेन विना शक्तिः न हितश्शिवः ॥ १८४ ॥
देहे च प्राणवच्छक्ति तस्माद्युक्तं प्रपूजयेत् ।
शिवशक्तिस्तु संयोगात् अन्यरूपस्य चोद्भवम् ॥ १८५ ॥
आधारशक्तिर्यथा रूपं तद्रूपञ्च मनोन्मनी ।
पुष्पेषु गन्धवत् ज्ञेयं तिलेषु तैलवत्तथा ॥ १८६ ॥
मनोन्मनाशिवसंयोगात् सदाशिवगौर्युद्भवम् ।
सदाशिवगौरिसंयोगात् महेशो महानिचोद्भवम् ॥ १८७ ॥
महेशो नाममित्याहुः नृत्तमूर्तिरिति स्मृतम् ।
प्। ७८)
महेशो भवानिसंयोगादुमारुद्रसमुद्भवम् ॥ १८८ ॥
विष्णुश्री भूमिसंयोगात् ब्रह्माङ्गौ शिवगायत्रिकम् ।
ब्रह्मासरस्वति संयोगात् दिती अदिति सम्भवम् ॥ १८९ ॥
ब्रह्मासावित्रिसंयोगात् दिति वेधा समुद्भवम् ।
अदिती अजसंयोगात् आदित्यादि समुद्भवम् ॥ १९० ॥
द्वादशादित्यसंयोगात् एकादश गुणान्विता ।
त्रयस्त्रिंशद्देवता ह्येते स्वर्गलोकाधिवासिनः ॥ १९१ ॥
इति धाता श्रुसंयोगाद्दान वा रक्षि चोद्भवम् ।
आदित्यसंसृता काले उषादेवि समुद्भवम् ॥ १९२ ॥
आदित्या उषसंयोगान्मनुब्रह्मा समुद्भवम् ।
प्। ७९)
दानवा रक्षसंयोगाद्राक्षसो यक्षिसम्भवम् ॥ १९३ ॥
मनुब्रह्मादिसंयोगात् स्रष्टा पाशस्तु जन्यते ।
स्रष्टा पाशस्य संयोगात् पक्षिजातस्तु संस्मृता ॥ १९४ ॥
राक्षसो यक्षिसंयोगात् सर्पा अमृतसंस्मृताः ।
सर्पो अमृतिसंयोगात् सरीसृपवृक्षसम्भवम् ॥ १९५ ॥
सरीसृपवृक्षसंयोगात् वृक्षाणां सुस्मृता स्मृतम् ।
एवन्नरो मृगञ्चैव पशुपक्षिसरीसृपम् ॥ १९६ ॥
वृक्षाणामेव सर्वेषां यथाक्रमेण संस्मृताः ।
महादव्यक्तसञ्ज्ञातं व्यक्तादाकाशसंस्मृता ॥ १९७ ॥
आकाशाद्वायुसञ्ज्ञातं वायोरग्निश्च संस्मृता ।
प्। ८०)
अग्नेरापसमुद्भूतम् आपः पृथिवी संस्मृता ॥ १९८ ॥
पृथिव्यप्तेजोवायुराकाशसमवायं प्रणतो स्थितम् ।
तस्य प्राणस्य विहितं घटाकाशमुदीरितम् ॥ १९९ ॥
घटञ्चेदस्य काले तु आकाशवत्प्रणतोस्थितम् ।
सर्वप्राणिस्तु जननं सर्वप्राणिलयं तथा ॥ २०० ॥
आकाशवल्लिङ्गमित्याहुः वायुना लिङ्गमुच्यते ।
लिङ्गात् प्रापणोदर्शं गशब्दात् गमनं स्मृतम् ॥ २०१ ॥
सर्वप्राणिस्तु गमनं सर्वप्राणिलयं भवेत् ।
लिङ्गानामिति प्रोक्तं तल्लिङ्गं पूजयेत्सदा ॥ २०२ ॥
गर्भाकारगृहैर्युक्तं पूजयेत्तु सदाशिवम् ।
प्। ८१)
तत्वानामादितत्त्वन्तु शिवतत्त्वमिति स्मृतम् ॥ २०३ ॥
द्वितीयं शक्तितत्वन्तु तृतीयं सदाशिवं स्मृतम् ।
चतुर्थमीशतत्त्वन्तु शुद्धविद्यादिपञ्चमम् ॥ २०४ ॥
शुद्धतत्त्वमिदं प्रोक्तं शिवतत्वादि पञ्चकम् ।
इच्छाज्ञानक्रियाशक्तिः शिवलीला इति स्मृतम् ॥ २०५ ॥
क्रियाख्य शक्त्योनापकर्षोत्कषयोरहपञ्च तत् ।
सदाशिवमिति ख्यातम् इच्छाशक्त्योस्तु जन्यते ॥ २०६ ॥
कल्पज्ञानक्रियाधिक्यमीशतत्वमिति स्मृतम् ।
अल्पज्ञानं क्रियाहीनं विद्यातत्वमिति स्मृतम् ॥ २०७ ॥
विद्यारुद्रमिति ख्याता शुद्धतत्वन्तु पञ्चधा ।
प्। ८२)
एयाद्यवनिपर्यन्तं तत्वलक्षणमुच्यते ॥ २०८ ॥
मायायां कालसम्भूमेः मायायां नियतं स्मृतम् ।
मायायाः कालसम्भूतं शुद्धविद्यामिति स्मृतम् ॥ २०९ ॥
तत्कालवियासम्भूति विद्याद्रागविनिर्गतम् ।
रागादव्यक्तजननं व्यक्तात् गुणसंस्मतम् ॥ २१० ॥
तद्गुणं त्रिविधं प्रोक्तं सात्विकादि महागुणम् ।
सात्विकं राजसञ्चैव तामसं क्रमता स्मृतम् ॥ २११ ॥
गुणेन बुद्धिसञ्ज्ञातः बुद्ध्याद्धङ्कारसंस्मृता ।
चेतसोऽहङ्कारजं न्यस्तं * इत्यभिधीयते ॥ २१२ ॥
ततो वैरिकामहङ्कारात् बुद्धीन्द्रियं प्रसूयते ।
प्। ८३)
भूतादिकमहङ्कारा तन्मात्रपञ्चसम्भवम् ॥ २१३ ॥
मन इन्द्रियमात्रान्त महङ्कारेषु जन्यते ।
यथा जातमिदं सर्वं तथा लयं प्रकीर्तितम् ॥ २१४ ॥
मायाद्यवनिपर्यन्तं तत्तल्लक्षणमीरितम् ।
सर्वेषामपि तत्त्वानां शिवजन्मं ततो लयम् ॥ २१५ ॥
नादबिन्दुकलालातैः सदाशिवमिहाश्रिता ।
तदेव वेतनावर्ग सदाशिवसमायुतम् ॥ २१६ ॥
तदेव वर्गमित्युक्तमचेतनमिति स्मृतम् ।
अनन्तेशादि विद्येशानीशतत्वविनिर्गतम् ॥ २१७ ॥
मन्त्रमर्थमिदं सर्वं विद्यातत्वे तु सम्भवम् ।
प्। ८४)
एवमेव प्रकारेण तत्वानामुद्भवं स्मृतम् ॥ २१८ ॥
एवमेव गृहीतान्तु शिवलिङ्गार्चनं कुरु ।
अज्ञानिस्पर्शने लिङ्गं सर्वदोषमिति स्मृतम् ॥ २१९ ॥
तस्मात्सर्वप्रयत्नेन ज्ञानपूजां समाचरेत् ।
उदितो तेन संस्पृष्टं सर्वसम्पत्सुखावहन् ॥ २२० ॥
अस्तमयोदित स्पृष्टं यथा लाभं प्रकीर्तितम् ।
अस्तमयास्तमनं स्पृष्टं सर्वदोषमिति स्मृतम् ॥ २२१ ॥
उदितास्तमयामन्त्र शिवमन्त्रेण पूजयेत् ।
अध्यात्मशिवसंस्थानि अध्वामाश्शिवपूजयेत् ॥ २२२ ॥
भगमध्ये स्थितं लिङ्गं लिङ्गमध्ये स्थितं भगम् ।
प्। ८५)
सदाशिवासनं लिङ्गं लिङ्गमासनपिण्डिका ॥ २२३ ॥
पिण्डिकासनभूमिस्थं देशिकध्यानमासनम् ।
एवं सन्ध्या तु मनसा पराशक्तिस्तु जन्यसे ॥ २२४ ॥
अम्बी चैव गुणाम्बी च गङ्गा गौरी उमाम्बिका ।
ईशानस्याम्बिका ज्ञेया तत्पुरुषस्य गणाम्बिका ॥ २२५ ॥
गङ्गां वाममुखा शक्तिः गौरीशक्तिस्तु शक्तिभिः ।
अघोरे ऊर्मिका ज्ञेया शक्तिरित्यभिधीयते ॥ २२६ ॥
चन्द्रार्कनाशेयजनं सर्वसम्पत्सुखावहम् ।
सङ्क्रान्ते विषुवे पूजा न कर्तव्या कदाचन ॥ २२७ ॥
अर्केन्दुवारिता पूजा निष्फलन्त्विति कीर्तितम् ।
प्। ८६)
निर्माल्यन्तु विसर्जाथ लिङ्गपीठञ्च वारिणा ॥ २२८ ॥
शोधितान् क्षालितांश्चैव पुनः पुष्पन्निधापयेत् ।
लिङ्गशुद्धिरिदं प्रोक्तं मन्त्रशुद्धिमतः शृणु ॥ २२९ ॥
पञ्चब्रह्मशिवाङ्गञ्च क्षुरिकापाशुपदास्त्रकम् ।
व्योमव्यापि शिवाख्यञ्च शक्तिमन्त्रञ्च पाणिकम् ॥ २३० ॥
गायत्रीञ्चैव सर्वैषां श्रीसूक्तञ्च तथैव च ।
विद्येश्वरगणेशञ्च दिक्पालकदशायुधम् ॥ २३१ ॥
दशाक्षरं गूढाक्षरं परिवारद्वारपालकम् ।
श्रीसूक्तं पवमानञ्च पुरुषसूक्तं त्र्यम्बकम् ॥ २३२ ॥
ब्रह्मसूक्तं विष्णुसूक्तं गौरीगायत्रीमन्त्रकम् ।
प्। ८७)
अरिणन्त्वरिणं रुद्रञ्च ज्येष्ठासोमं तथैव च ॥ २३३ ॥
विकर्णं जातवेदञ्च देवस्यत्वेति मन्त्रतः ।
दुर्गासूक्तमुमासूक्तं परिवार द्वारपालकम् ॥ २३४ ॥
गाणपत्यं स्कन्दमन्त्रं सूर्यमन्त्रं सरस्वती ।
अन्यत्सर्वेषु देवानां पूजासमुद्धरेत् ॥ २३५ ॥
आलयान्तर्गतं लिङ्गं लिङ्गस्यान्तर्गतं शिवम् ।
कुम्भमध्ये तु संस्थाप्य किं लिङ्गे न्यासयेच्छिवम् ॥ २३६ ॥
यथा कुण्डतलञ्चाग्नि तथा विहरिणा ज्वला ।
प्राणप्रकृतिसम्बन्धं लिङ्गं जङ्गमथान्यसेत् ॥ २३७ ॥
यत्र पूजाहतो मन्त्र तन्त्रमन्त्रं समुच्चरेत् ।
प्। ८८)
उमास्कन्दादिदेवानां तस्य लीलान्तु भावयेत् ॥ २३८ ॥
स्थितञ्च नृत्तमूर्तिञ्च शयनं किं समर्चनम् ।
आचार्यं मनसा ध्यात्वा आसनं सम्प्रकल्पयेत् ॥ २३९ ॥
तस्य रूपेण सम्पूज्य तत्र मन्त्रं समुच्चरेत् ।
ओङ्कारादि नमोन्ताश्च मन्त्रान् समुद्धरेत् ॥ २४० ॥
पञ्चशुद्धिक्रमं ज्ञात्वा पश्चादेव समुच्चरेत् ।
मुखमण्डलद्वारेषु द्वारपालान् समर्चयेत् ॥ २४१ ॥
कृताञ्जलिपुटस्तिष्ठन् तत्स्थले नन्दिकेश्वरम् ।
दक्षिणे तुं महाकालो पूर्वद्वारे प्रकीर्तिताः ॥ २४२ ॥
नन्दिसूचिमुखो हस्तकृताञ्जलिश्च दक्षिणम् ।
प्। ८९)
दण्डधारी नागधारी वामहस्तप्रकीर्तितम् ॥ २४३ ॥
हलपद्माञ्जली चैव दक्षिणे कालहस्तकम् ।
दण्डाधराञ्च मुद्राञ्च वामहस्तञ्च कालकम् ॥ २४४ ॥
वामपादञ्च दण्डाध्वकुञ्चितं दक्षिणस्थितम् ।
किञ्चित्त्रिभङ्गिगङ्गायां वामपादस्तु कुञ्जितम् ॥ २४५ ॥
करण्डमकुटोपेतं करालं वक्त्रदंष्ट्रकम् ।
त्रिणेत्रं चतुर्भुजञ्चैव रुद्रभावसमन्वितम् ॥ २४६ ॥
कटिसूत्रोदरबन्धञ्च यज्ञोपवीति नागभाक् ।
कुण्डलक्षणसंयुक्तं पद्मपीठोपरि स्थितम् ॥ २४७ ॥
गन्धपुष्पादिभिः पूज्य स्वनामेनैव देशिकः ।
प्। ९०)
नन्दीशं रक्तवर्णं स्यात् कलं वैष्णववर्णकम् ॥ २४८ ॥
सर्वाभरणसंयुक्तम् उग्ररूपन्तु ध्याययेत् ।
अथवाऽन्यप्रकारेण हस्तरूपञ्च वक्ष्यते ॥ २४९ ॥
नन्दीशंश्यामवर्णञ्च द्विहस्तं परसंयुतम् ।
परशुं वामहस्तन्तु दक्षिणे वेणुदण्डकम् ॥ २५० ॥
नन्दीशः कुङ्कुमाभस्तु परशुं वेणुदण्डयुक् ।
द्विनेत्रौ त्रिभुजौ चैव नन्दिकालवधो पुनः ॥ २५१ ॥
पूर्वद्वारे स्थितो यत्र नन्दिकालौ महात्मनौ ।
अनन्तं पशुपतिञ्चैव दक्षिणद्वारपालकौ ॥ २५२ ॥
अनन्तो रक्तवर्णस्तु वज्रायुधसमन्वितम् ।
प्। ९१)
पशुपतिं नीलवर्णस्तुं शक्तिहस्तोग्रलोचनाः ॥ २५३ ॥
पश्चिमद्वारपालौ तु सिण्धिमुण्डिं तथैव च ।
सिन्धी धुरे वा पाहं खगहस्तोग्रदंष्ट्रकम् ॥ २५४ ॥
मुन्दि कुन्देन्दुवर्णन्तु भिन्धि सालयुतस्तथा ।
विजयञ्चैव भृङ्गीशा उत्तरद्वारपालकौ ॥ २५५ ॥
विजयश्चेन्द्रगोभागं शूलहस्ते भयङ्करः ।
भृङ्गीशो भृङ्गवर्णस्तु क्षुरिकायुधहस्तयुक् ॥ २५६ ॥
त्रिभङ्गी कुञ्चिकं पादमुग्रदंष्ट्रसमन्वितम् ।
प्रासादमण्डपद्वारे द्वारे चैव प्रकीर्तिताम् ॥ २५७ ॥
गोपुरद्वारदेशेषु भूताकाराणि कारयेत् ।
प्। ९२)
संवृत्तञ्च श्रियावृत्तं कुण्डोदरं बृहोदरम् ॥ २५८ ॥
सिंहमुखं गजमुखञ्चैव एकपादस्त्वधोमुखम् ।
श्वेतश्यामनिभं सर्वं खड्गहस्तसमन्वितम् ॥ २५९ ॥
केचिच्छूलायुधञ्चैव द्वारे द्वारेषु भूतकाः ।
प्रकारगोपुराह्येव चतुर्द्वारेषु कल्पितम् ॥ २६० ॥
शङ्खवर्णं कालकष्टं मण्टपद्वारकल्पितम् ।
अभयं शूलहस्तञ्च द्विनेत्रं श्यामवर्णकम् ॥ २६१ ॥
वानरमुखमश्वमुखमुखनृत्तमण्टपभूतकाः ।
प्राकारगोपुराह्येव चतुर्द्वारेषु कल्पितम् ॥ २६२ ॥
बहिर्गोपुरद्वाराणि भूतमेवं प्रचक्ष्महे
प्। ९३)
ऊर्ध्वपादं विरूपाक्षं कलङ्कं वक्रपादकम् ॥ २६३ ॥
वामनं गलकञ्चैव दण्डपालमहाबलम् ।
महागोपुरद्वारेण वेणुदण्डधरा स्मृताः ॥ २६४ ॥
सर्वेषां द्वारपालेन तीर्वादग्ने प्रकल्पयेत् ।
श्यामं पीतनिभञ्चैव शूलायुधञ्च ताशयुक् ॥ २६५ ॥
द्विनेत्राद्विविधाश्चैव द्वारे द्वारे च भूतकाः ।
पश्चिमानालयद्वारे सुलभं सुमुखं न्यसेत् ॥ २६६ ॥
श्वेतं पीतनिभञ्चैव वेणुदण्डधरान्विता ।
सर्वेषां द्वारपाले तु पुंस्त्वन्तु प्रकल्पयेत् ॥ २६७ ॥
स्त्रीद्वारे स्त्रीत्वमेव स्याद्यथा क्रमेण प्रकल्पयेत् ।
प्। ९४)
द्वारस्थान् प्रथमं यष्ट्वा द्वारपाला द्वितीयकम् ॥ २६८ ॥
वृषभादित्तृतीयन्तु इन्द्रादिस्तु चतुर्थकम् ।
पञ्चमं भद्रपीठन्तु इत्येवं बहिरावृतम् ॥ २६९ ॥
यत्र यत्र मुखद्वारं कवाटाभ्यान्तु देशिकः ।
तत्र तत्र विशेषेण सप्तदेवान् समर्पयेत् ॥ २७० ॥
ऊर्ध्वाधस्कन्दपट्ट्याञ्च विघ्नेशं पूजयेद्बुधः ।
गङ्गाञ्च यमुनाञ्चैव श्रीदेवीञ्च सरस्वतीम् ॥ २७१ ॥
दक्षिणे दक्षिणे चैव यथा क्रमं यजेद्बुधः ।
भुवङ्गञ्च पतङ्गञ्च योगद्वयमिहोच्यते ॥ २७२ ॥
विमलञ्च सुबाहुञ्च पूजयेत्तु कवाटयोः ।
प्। ९५)
विमलं दक्षिणे पूज्य सुबाहुं वामके यजेत् ॥ २७३ ॥
स्वनामात्रेण मन्त्रेण पूजयेत्तु विशेषतः ।
वृषादिबलिपीठान्तं परिवारं प्रपूजयेत् ॥ २७४ ॥
पूर्वे तु वृषभं पूज्य तीक्ष्ण शृङ्गाय मन्त्रतः ।
आग्नेय्यां दुर्गं सम्पूज्य कात्यायनीति मन्त्रतः ॥ २७५ ॥
दक्षिणे सप्तमात्रश्च वर्णवाहनछिन्नधृक् ।
स्वनामाद्यक्षरेणैव पूजयेत्तु विशेषतः ॥ २७६ ॥
पूर्वे तु वीरभद्रञ्च विघ्नेशं पश्चिमे न्यसेत् ।
वीरभद्रञ्च विघ्नेशं सप्तमात्रञ्च पूजयेत् ॥ २७७ ॥
नै-ऋत्यां गणेशं सम्पूज्य गणानां त्वेति मन्त्रतः ।
प्। ९६)
वारुणे सुकुमारन्तु सुब्रह्मण्याय मन्त्रतः ॥ २७८ ॥
वायव्ये ज्येष्ठ सम्पूज्य काकध्वजाय मन्त्रतः ।
सौम्ये विष्णुं समभ्यर्च्य इदं विष्ण्वीति मन्त्रतः ॥ २७९ ॥
ऐशान्ये चण्डमभ्यर्च्य चण्डेश्वराय मन्त्रतः ।
इन्द्रादिलोकपालांश्च वर्णवाहनचिह्नधृक् ॥ २८० ॥
स्वनामाद्यक्षरेणैव पूर्वादीनि प्रदक्षिणम् ।
अस्त्रं सम्पूजयेत्तत्र बालयौवनदेवतान् ॥ २८१ ॥
आमोदञ्च प्रमोदञ्च प्राङ्मुखोदङ्मुखस्तथा ।
अविघ्नं विघ्नकर्तारौ बलिपीठे तु पूजयेत् ॥ २८२ ॥
भूतपीठस्य चाग्रे तु चन्द्रपीठन्तु कल्पयेत् ।
प्। ९७)
आग्नेयादीशपर्यन्तं स्वस्वस्थाने तु पूजयेत् ॥ २८३ ॥
अतः मण्डलबाह्ये वा भित्यम्भ्यन्तरकेऽपि वा ।
इन्द्रादिलोकपालांश्च पूजयेत्तु विशेषतः ॥ २८४ ॥
द्वारस्योत्तरपार्श्वे तु ब्रह्माणं पूजयेद्बुधः ।
पितामहोनयोर्मध्ये अस्वरो गण एव च ॥ २८५ ॥
वरुणवायव्ययोर्मध्ये पूजयेत्सप्तरोहिणी ।
याम्ये नै-ऋतयोर्मध्ये मुनीनां पूजयेद्बुधः ॥ २८६ ॥
वायव्यसोमयोर्मध्ये अष्टवस्त्रं च पूजयेत् ।
उत्तरैशानयोर्मध्ये रुद्रैकादश पूजयेत् ॥ २८७ ॥
द्विप्रकारेऽथवा यत्र त्रिप्रकारेऽथवा पुनः ।
प्। ९८)
एकप्रकारे स्थानन्तु उक्तस्थाने तु पूजयेत् ॥ २८८ ॥
उक्तस्थाने तु सम्पूज्य बलिपीठं तथोच्यते ।
बलिपीठं ततः कृत्वा चतुर्दिक्षु विशेषतः ॥ २८९ ॥
बाह्याभ्यन्तरतः पीठं पूर्वद्वारे तु विन्यसेत् ।
अभ्यन्तरे मृतपीठं बाह्यपीठं पिशाचकम् ॥ २९० ॥
यक्षाणां दक्षिणे पीठं राक्षसानान्तु पश्चिमे ।
गन्धर्वाणान्तु सौम्ये तु मध्यमं पूर्वपश्चिमे ॥ २९१ ॥
अधमन्तूग्रमेवन्तु अधिपाभ्यन्तरे बुधः ।
स्वनामाद्येन मन्त्रेण ओङ्कारादि नमोस्तुते ॥ २९२ ॥
हुङ्कारेण तु मन्त्रेण महाघण्टान्तु ताडयेत् ।
प्। ९९)
अस्त्रमन्त्रं समुच्चार्य पटं तत्राऽपि नीय च ॥ २९३ ॥
गर्भगेहं ततो प्राप्य गर्भद्वारे तु पूजयेत् ।
दक्षिणे ज्ञानशक्तिं स्यात् क्रियाशक्तिन्तु चोत्तरे ॥ २९४ ॥
द्विभुजश्यामवर्णन्तु स्वनामे नैव पूजयेत् ।
गर्भङ्गेहं ततः प्राप्य आसीनो वा स्थितस्तु वा ॥ २९५ ॥
शङ्खतोयस्य तन्मध्ये अमृतसुरभमुद्रया ।
शिवमन्त्रं न्यसेत्पश्चात् गन्धपुष्पकुशैर्युतम् ॥ २९६ ॥
शक्तिरेवासकं प्रोक्तमाधारागमयोगतः ।
चतुष्कोणं महासिंहमासनं पादनिर्मितम् ॥ २९७ ॥
चतुरश्रायतं प्रोक्तं स्नाने सिंहासनं भवेत् ।
प्। १००)
योगासनं दशाग्रन्तु चित्रवर्णं सुशोभनम् ॥ २९८ ॥
दशाक्षरेण विन्यस्य पूर्वादीनि प्रदक्षिणम् ।
चतुष्पादं महावृत्तञ्चतुर्वेदन्तु धारकम् ॥ २९९ ॥
गुणत्रयेण सञ्च्छाद्य चतुर्दिक्षु क्षुलिका न्यसेत् ।
एवं योगासनं प्रोक्तम् आवाहयेत्सदाशिवम् ॥ ३०० ॥
पूर्वोक्तलक्षणैर्युक्त सद्यमन्त्रेण वाहयेत् ।
आवाहनासनं योगं स्नानं विमलमासने ॥ ३०१ ॥
पादौ पाद्यं हृदा दद्यादाचमनन्तु दापयेत् ।
सिंहासनं ध्याययेन्मन्त्री अभिषेकं समाचरेत् ॥ ३०२ ॥
जलद्रोणीजलं ग्राह्य गण्डिकामभिषेचयेत् ।
प्। १०१)
आढकं पूरितान् गन्धान् क्रमेण स्नापयेद्बुधः ॥ ३०३ ॥
आमलीफलचूर्णैश्च शिवास्त्रैरभिषेचयेत् ।
पुष्टचूर्णेन चालिप्य देहं मर्दयेत् पुनः ॥ ३०४ ॥
स्नापयेत्तु शनैश्चैव क्रमेणैव तु पूजयेत् ।
रजन्यालेपनं पश्चात् गन्धोदकैश्च पूजयेत् ।
त्रिभारमुत्तमं प्रोक्तं द्विभारं मध्यमं स्मृतम् ॥ ३०६ ॥
अष्टद्रोणो धर्मज्ञेयं पूजयेत्तु जलं क्रमात् ।
उशिरञ्चन्दनञ्चैव एवञ्चैव जयोपितम् ॥ ३०७ ॥
मन्त्रपुष्पञ्च मूर्ध्नेन मन्त्रं हविः प्रदापयेत् ।
प्। १०२)
स्नानान्ते वस्त्रमावेष्ट्य आर्द्रवस्त्रं परित्यजेत् ॥ ३०८ ॥
वेदाध्ययनं चतुर्दिक्षु वाद्यगीतसमायुतम् ।
पञ्चब्रह्मशिवाङ्गैश्च त्र्यम्बकं विष्णुसूक्तकम् ॥ ३०९ ॥
ब्रह्मसूक्तं गौरिसूक्तं श्रीरुद्रं पवमानकम् ।
षट्सूक्तवरुणञ्चैव त्वरितरुद्रमतः परम् ॥ ३१० ॥
स्वस्तिसूक्तञ्च सर्वेषां जपेत्सम्पूज्य कालके ।
दशाक्षरेण मन्त्रेण हृदयेनैव विन्यसेत् ॥ ३११ ॥
पश्चादनन्तासन कल्प्याचार्चयेत्तु विशेषतः ।
शक्तिबीजाङ्कुरनालं पश्चाद्धर्मादि विन्यसेत् ॥ ३१२ ॥
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च ततः परम् ।
प्। १०३)
वैराग्यं पीतभूतस्यादैश्वर्यं सितवारिणा ॥ ३१३ ॥
धर्मज्ञानञ्च वैराग्यमैश्वर्यं दिक्षु विन्यसेत् ।
गुलका चतुर्युगा चैव पुरुषा न नपुंसका ॥ ३१४ ॥
श्वेतं रक्तं तथा पीतं कृष्णं तेषान्तु वर्णकम् ।
ऐशान्ये तु शिरोयुग्मं पादयुग्मन्तु नै-ऋते ॥ ३१५ ॥
आग्नेय्यान्तु चतुष्पादं वायव्ये तु चतुष्पदा ।
तस्योपरि न्यसेदेता नष्टौ विद्येश्वरान् क्रमात् ॥ ३१६ ॥
अनन्तरद्येकनेत्रान्तं पूर्वदिक्षु च विन्यसेत् ।
ईशानं दिक्षु कोणेषु एकरुद्रादि विन्यसेत् ॥ ३१७ ॥
जपानि पञ्च कुञ्जानं बन्धूका शोककुङ्कुमम् ।
प्। १०४)
पद्मनाभं जनाभञ्च विद्येशानान्तु वर्णकम् ॥ ३१८ ॥
त्रिणेत्रं चतुर्भुजं सौम्यं जटामकुटमण्डितम् ।
वरदाभयहस्तञ्च कृष्णं परशुधारिणम् ॥ ३१९ ॥
एवं न्यस्त्वा विधानेनानन्तासनमिहोच्यते ।
अनन्तासनेर्च्चयेदेवं गन्धपुष्पादिभिः क्रमात् ॥ ३२० ॥
अर्चितं राजितं मूर्ध्वं नालं पद्मं स कर्णितम् ।
ऊर्ध्वे दलाष्टकोपेत केसरैश्च समायुतम् ॥ ३२१ ॥
ध्याने चैव समालोच्य शक्तिञ्चाष्टदलान्यसेत् ।
वामाज्येष्ठा च रौद्री च पश्चिमोत्तरदक्षिणे ॥ ३२२ ॥
कालिञ्चैन्द्रे तु विन्यस्य कलविकरणिन्तु पावके ।
प्। १०५)
बलविकरणिन्तु नै-ऋत्यां बलप्रमथिनीञ्च वायवे ॥ ३२३ ॥
सर्वभूतदमनीन्तु मनोन्मनीमीशके दिशि ।
अतसीकुसमप्रख्या तु द्विनेत्री धारणी तथा ॥ ३२४ ॥
वामी ज्येष्ठी धूम्रवर्णी * * पाशमहाबला ।
बलविकरणी कृष्णा परशुहस्तत्त्रिणेत्रिणी ॥ ३२५ ॥
बलप्रमथिनी देवी रक्तवर्णयुगायुधा ।
सर्वभूतदमनी देवी गदाहस्ता सुगाम्बरी ॥ ३२६ ॥
शुद्धस्फटिकवर्णाभा मनोन्मनी चाक्षमालिनी ।
एवं ध्यात्वा विधानेन गन्धपुष्पादिनार्चयेत् ॥ ३२७ ॥
सद्यमङ्कुरसंयुक्तं वामदेवस्तु नालकम् ।
प्। १०६)
अघोरं दलसङ्कीर्णं पुरुषं कर्णिका भवेत् ॥ ३२८ ॥
ईशानं चैव पात्राणि पद्मलक्षणमीरितम् ।
एवं पद्मासनं प्रोक्तं पश्चाद्वामेनाचमनं ददेत् ॥ ३२९ ॥
पवित्र हृदतन्त्रेण कवचेनोपवीतकम् ।
गन्धं दद्यास्तु वामेन पुष्पमीशानमन्त्रकम् ॥ ३३० ॥
मकुटं कुण्डलञ्चैव कटिसूत्रोदरबन्धनम् ।
शिखामन्त्रेण दातव्यं हारं हृदयमन्त्रतः ॥ ३३१ ॥
भूषणैर्हेमपुष्पञ्च दापद्धृदयेन तु ।
स्वर्णतोरण स्वर्णपत्रं पत्रच्छेदफलान्वितम् ॥ ३३२ ॥
कवचेन तु दातव्यं चित्रवस्त्रेण वेष्टयेत् ।
प्। १०७)
दुकूलवर्गदेवाङ्गैः कम्बलं पञ्चवर्णकम् ॥ ३३३ ॥
सर्वाभरणसंयुक्तं पुष्पमाल्यैश्च शोभितम् ।
धूपं दद्याद्यथा न्याय्यं क्रमेणैव विशेषतः ॥ ३३४ ॥
अगरुञ्चटवञ्चैव निर्यासं गुल्फलं तथा ।
कर्पूरं कस्तूरिकाञ्चैव मधुसर्पिगुलैर्युतम् ॥ ३३५ ॥
सर्वगन्धसमायुक्तं धूपं दद्याद्यथाक्रमम् ।
लिङ्गपीठं विशेषेण चन्दना लेपयेद्धृदा ॥ ३३६ ॥
कस्तूरीकर्पूरसंयुक्तं पेष्टयेल्लेपनं तथा ।
तदूर्ध्वे वस्त्रमाभरणं पश्चाद्धूपं प्रदापयेत् ॥ ३३७ ॥
प्रच्छन्नपटमावर्ज्य महाघण्टान्तु ताडयेत् ।
प्। १०८)
धूपं पूर्वेण दातव्यं घण्टानादसमन्वितम् ॥ ३३८ ॥
हस्तेन घण्टां सङ्गृह्य शिखरं हस्तमायुतम् ।
दक्षिणे धूपमादाय कपित्थं हस्तसंयुतम् ॥ ३३९ ॥
एवं धूपं प्रदातव्यमायमनन्तु दापयेत् ।
पुष्पं हस्तेन सङ्गृह्य पदाकावक्रसंयुतम् ॥ ३४० ॥
ऊर्ध्वादौ पञ्चमुखं दत्वा पश्चाज्जलन्तु दापयेत् ।
दीपं दद्यात्तदन्ते तु घण्टानाद समन्वितम् ॥ ३४१ ॥
जलं दत्वा शङ्खपात्रेण हस्तद्वयसमन्वितम् ।
पुष्पाञ्जलिः ततः कृत्वा सुरभिमुद्रां प्रदर्शयेत् ॥ ३४२ ॥
लिङ्गमुद्रां ततः प्राप्य नीराजनन्तु दापयेत् ।
प्। १०९)
मुखवासं समायुक्तं भस्मं दद्यात्पञ्चमूलसु ॥ ३४३ ॥
ललाटं हृदयं नाभिं पादञ्चैव यथाक्रमम् ।
बाहुद्वयौ च कर्णौ च वृषङ्गी वा समायुतम् ॥ ३४४ ॥
अथवाऽन्यप्रकारेण अष्टत्त्रिंशत्कलान्वितम् ।
भस्मं दत्वा विशेषेण तथा षोडश सन्धि वा ॥ ३४५ ॥
हस्तं प्रक्षाल्य तत्काले तथा गौरी सुपूजयेत् ।
सकलानन्ततः पश्चात् अनोक्तक्रमेण तु ॥ ३४६ ॥
लिङ्गानामर्चनान्ते तु पञ्चावरणपूजयेत् ॥ ३४६ १।२ ॥
ब्रह्माङ्गकानां प्रथमावरणं स्याद्विद्येश्वराणां च गणेश्वराणाम् ।
प्। ११०)
दिक्पालकानाञ्च दशायुधानामीशस्यपञ्चावरणं क्रमेण ॥ ३४७ ॥
प * * वरणमिति प्रोक्तं तत्तद्देशेषु विन्यसेत् ॥ ३४८ ॥
शुक्लं रक्तं तथा पीतं कृष्णाभं क्षीरसन्निभम् ।
सद्यादि ब्रह्मवर्णा स्यात्त्रिणेत्रश्च चतुर्भुजा ॥ ३४९ ॥
टङ्कशूलसमायुक्तामभयं वरदान्वितम् ।
शान्तमीशानमित्युक्तम् अन्ये रौद्रा इति स्मृताः ॥ ३५० ॥
हृदयश्शिरश्शिखाकवचमस्त्रनेत्रसंयुतम् ।
षडङ्गैश्च समभ्यर्च्य ब्रह्माङ्गं पूजयेत्ततः ॥ ३५१ ॥
जपनीलञ्चक्रबन्धुकाशोक कुङ्कुमम् ।
प्। १११)
पद्मनाभं जनाभञ्च विद्येशानाञ्च वर्णकः ॥ ३५२ ॥
त्रिणेत्रं चतुर्भुजं सौम्यं जटामकुटमण्डितम् ।
वरदाभयहस्तञ्च कृष्णापरशुधारिणम् ॥ ३५३ ॥
एवं लक्षणसंयुक्तं विद्येशानं सुपूजयेत् ।
शुद्धकाञ्चनवैडूर्यं पद्मरागसमप्रभम् ॥ ३५४ ॥
मरतकं बिसनीपत्रं शरदामृगसन्निभम् ।
रजतं रक्तवर्णञ्च गणेशानां तु वर्णकम् ॥ ३५५ ॥
पूर्वोक्तलक्षणैर्युक्त गणेशानान्तु पूजयेत् ।
श्वेतं रक्तं तथा पीतं कृष्णं शुक्लञ्च धूम्रकम् ॥ ३५६ ॥
रजतं शुक्लनिभञ्चैव अतिबालान्निभं भवेत् ।
प्। ११२)
तत्तदायुधवर्णन्तु तत्तद्रूपसमायुतम् ॥ ३५७ ॥
जङ्गमं माहिषं सिंहमेगं कूर्ममृगं तथा ।
ऋषभवाहनमेतेषां तत्तद्वाहनमेव च ॥ ३५८ ॥
पञ्चावरणपूजानां गन्धपुष्पसमायुतम् ।
पञ्चावरणं सम्पूज्य पश्चाद्धूपं ददेद्बुधः ॥ ३५९ ॥
धूपदीपञ्च पुष्पञ्च तालवृन्तञ्च चामरम् ।
व्यञ्जरं दर्पणञ्चैव हृदयेन प्रदापयेत् ॥ ३६० ॥
सकलाधारणं पश्चान्मन्त्रगेयसमन्वितम् ।
सकलार्चनकाले तु पञ्चमावरणं विना ॥ ३६१ ॥
पश्चाद्विमलासनं कल्प्य भोजासनमेव तु ।
प्। ११३)
वृत्तन्तु विमलं प्रोक्तं शुद्धस्फटिकसन्निभम् ॥ ३६२ ॥
गुणाम्बिका उत्तरेन्यस्य ऐन्द्रञ्चैव महातपम् ।
ततो गौरी च याद्यायां वारुणे तु प्रदापयेत् ॥ ३६३ ॥
पीतं रक्तं तथा श्वेतं कृष्णं तेषान्तु वर्णकम् ।
द्विनेत्राञ्चारुवदनां पीनोन्नतपयोधराम् ॥ ३६४ ॥
चतुर्दिक्षु च संस्थाप्य गन्धादीनां समर्चयेत् ।
विमलासनस्य चोर्ध्वे तु सदाशिवन्तु ध्यानयेत् ॥ ३६५ ॥
नैवेद्यविधिमार्गेण हविर्देवेच्छ दापयेत् ।
एवं मानसमाख्यातं तत्तत्काले तु कल्पयेत् ॥ ३६६ ॥
आवाहनासनं योगस्नाने सिंहासनं भवेत् ।
प्। ११४)
अर्चने अनन्तपद्मं स्याद्विमलं भोजनासनम् ॥ ३६७ ॥
पञ्चासनमिति प्रोक्तं पञ्चभूतात्मिकास्त्विमे ।
तत्तत्काले प्रकल्प्याथ आसनन्तु यथाक्रमम् ॥ ३६८ ॥
सिंहासनञ्च चतुरं प्रोक्तं योगासनाग्रकम् ।
आत्मासनं पद्ममेवं स्यादनन्तं कूर्मवज्ञयम् ॥ ३६९ ॥
श्वेतं रक्तं तथा पीतं कृष्णञ्चैव विचित्रितम् ॥ ३७० ॥
गुणत्रयेण सञ्च्छाद्यमाद्यपादस्तु केशवः ।
आसनानान्तु सर्वेषां पट्टमाच्छादयेत्ततः ॥ ३७१ ॥
अग्निसूर्यशशाङ्कैश्च क्रमेणैवाग्नि विन्यसेत् ।
प्। ११५)
रजश्चैव तमश्चैव सत्वञ्चैवोपरि न्यसेत् ॥ ३७२ ॥
आत्मानञ्चान्तरात्मानं परमात्मानञ्च विन्यसेत् ।
गन्धादिभिस्समभ्यर्च्य हृदयेन स्वबीजयुक् ॥ ३७३ ॥
ध्यात्वा सदाशिवं रूपं पूर्वोक्तैर्लक्षणैर्युतम् ।
एवं ध्यात्वा च मनसा सदाशिवं पूजयेत्क्रमात् ॥ ३७४ ॥
पूर्वाह्ने ब्रह्मजज्ञानं मध्याह्ने तु त्र्यम्बकम् ।
इदं विष्ण्विति मन्त्रेण सायङ्काले सु पूजयेत् ॥ ३७५ ॥
पार्थिवान्धमथ स्कन्दं ना बाह्यान्तमेव च ।
आकाशान्तं हि पीठं स्यात् पञ्चभूतात्मिकास्त्विमे ॥ ३७६ ॥
एवं मानसकल्प्या तु यथाक्रमेण पूजयेत् ।
प्। ११६)
विमलासनस्य चोर्ध्वे तु हविश्चैव प्रदापयेत् ॥ ३७७ ॥
आसकं वा तदर्धं वा द्रोणद्रोणार्धमेव वा ।
शालिस्वर्णमयं प्रोक्तं तण्डुलं शुक्लवर्णकम् ॥ ३७८ ॥
तत्समं मुत्सभारञ्च तदर्धं वाऽपि पाचयेत् ।
गुलखण्डं समासाद्य पयसा दधि समन्वितम् ॥ ३७९ ॥
उपदंशसमायुक्तं नालिकेरन्तु दापयेत् ।
निवेदयेत्पुरुषेणैव दिक् बलिञ्च समाचरेत् ॥ ३८० ॥
कालादीनान्तु सर्वेषां परिवारं निवेदयेत् ।
नित्याग्निं कारयेत्पश्चात् अग्निकार्योत्तमा चरेत् ॥ ३८१ ॥
नित्योत्सवं ततः कृत्वा नृत्तगेयसमायुतम् ।
प्। ११७)
हविः काले तु गेयं स्यादूर्ध्व नृत्तन्तु कारयेत् ॥ ३८२ ॥
चुलिकोदन्ततः पश्चात् आगमार्चनमाचरेत् ।
एवं प्रातस्तु मध्याह्ने सायङ्काले समाचरेत् ॥ ३८३ ॥
किञ्चिदत्र विशेषोऽस्ति सायङ्काले तु पूजयेत् ।
रात्रीरादौ ततः प्राप्य नृत्तमण्टपं शोधयेत् ॥ ३८४ ॥
प्रोक्षयेत्पुरुषेणैव पूर्वं पुष्पं व्यपोह्य च ।
नृत्तमूर्तिरलङ्कृत्य शुद्धनृत्यन्तु ध्याययेत् ॥ ३८५ ॥
गणिकायास्तु सर्वेषामलङ्कृत्य विशेषतः ।
वाद्यगेयसमायुक्तञ्चतुष्षष्टिकरान्वितम् ॥ ३८६ ॥
वाद्यगान्वाचयेन्नित्यं तदन्ते धूपदीपकम् ।
प्। ११८)
उपसाय रक्षा प्रदातव्यं शास्त्रमार्गेण देशिकः ॥ ३८७ ॥
सायरक्षां प्रदातव्यो भूतपात्रञ्च निक्षिपेत् ।
लक्षणं कार्पासहस्तञ्च दीपपात्रन्तु पुष्पकम् ॥ ३८८ ॥
पञ्चपात्रं समारोप्य त्रिपादी देवपूर्वके ।
गन्धपुष्पञ्च धूपञ्च पात्राणाञ्च पृथक् पृथक् ॥ ३८९ ॥
सुरभिमुद्रां प्रदातव्या दिग्बन्धञ्चापि कारिणा ।
दीपञ्चैव त्रिपञ्चैव सप्तमं नव कल्पयेत् ॥ ३८९ ॥
त्रिःकृत्वा भ्रमणं देवं देवीञ्चैव तु कारयेत् ।
अक्षणं कार्पासभस्मञ्च त्रिभ्राम्य च विसृज्य च ॥ ३९० ॥
दीपेन सर्वनिक्षिप्य रुद्रकन्या प्रदापयेत् ।
प्। ११९)
पीठाग्रे तु विनिक्षिप्य एवं यं क्रमान्यसेत् ॥ ३९१ ॥
सायरक्षा प्रदातव्यं पश्चात्पूजां समाचरेत् ।
आहं कालं विना यत्र सायङ्काले तु रक्षकम् ॥ ३९२ ॥
नीराजनं सर्वकाले तु भस्मञ्चैव विनिक्षिपेत् ।
अथवाऽन्यप्रकारेण रात्रिकाले विशेषतः ॥ ३९३ ॥
मकुटं स्वर्णपुष्पञ्च अर्धचन्द्रन्तु गोलकः ।
यज्ञोपवीत कटकं हेमरत्नसमायुतम् ॥ ३९४ ॥
शिरोमाला रुद्रमाला होतारश्चोत्तरीयकाः ।
पत्रं छेदविधिं कुर्यात्तद्दृतु चित्रन्तु बिल्वकाः ॥ ३९५ ॥
हेमप्रसादसंयुक्त मृगोरस्य तु तोरणम् ।
प्। १२०)
एवं कृत्वा तु सायाह्ने पूर्ववत्पूजयेत्क्रमात् ॥ ३९६ ॥
काञ्चनं वापि रौप्यं वा सर्वरत्नविचित्रितम् ।
पुष्पमण्डलमेवं वा यथा शोभं प्रकल्पयेत् ॥ ३९७ ॥
सङ्क्रान्ते वा अ* * * ज्ञे जन्मनि दिनेऽपि च ।
जयमानं दिने कोऽपि मरणान्तमथाऽपि वा ॥ ३९८ ॥
अन्येषु पुण्यनक्षत्रे सूर्यवारे विधीयते ।
कृत्वा पञ्चमुखं लिङ्गं सप्तहेममनन्तकम् ॥ ३९९ ॥
लिङ्गाकारं कृताहेमं रौम्यं वा ताम्रमेव वा ।
एतद्वै गोलकाकारं मुखं पञ्च समन्वितम् ॥ ४०० ॥
तल्लिङ्गं निक्षिपेल्लिङ्गे पूजयेत्पूर्ववत्क्रमात् ।
प्। १२१)
अर्चनं पूजनञ्चैव शान्तिकञ्च त्रिधा भवेत् ॥ ४०१ ॥
दीपान्तमर्चनं प्रोक्तं बाल्यं तं पूजनं भवेत् ।
उत्सवान्तं शान्तिकं प्रोक्तं त्रिधा कर्म समाचरेत् ॥ ४०२ ॥
अथवाऽन्यप्रकारेण पश्चिमद्वारवेश्मनि ।
सद्यादि पूजयेद्धीमान् परिवारमथोच्यते ॥ ४०३ ॥
कुमारस्थाने वृषभं वृषस्थाने कुमारकम् ।
आदित्यवारे पूजान्ते नित्योत्सव समाचरेत् ॥ ४०४ ॥
अष्टदिक्षु स्तु गणिकाऽभ्येषा नृत्तं समाचरेत् ।
दण्डहस्तेन सङ्गृह्य चारिकान्तु पृथक् पृथक् ॥ ४०५ ॥
एवं कृत्वा विशेषेण पूजयेत्तु सदाशिवम् ।
प्। १२२)
निर्माल्यञ्च विसृज्याऽथ चण्डेशाय प्रदापयेत् ॥ ४०६ ॥
ताम्बूलमुखवासञ्च पानीयञ्च प्रदापयेत् ।
पञ्चावरणशक्त्यादि सर्वशान्ति ततः शृणु ॥ ४०७ ॥
अम्बी चैव गणाम्बी च गङ्गा गौरी उमा तथा ।
पञ्चब्रह्म शक्त्यास्तु षडङ्गसहितं स्मृतम् ॥ ४०८ ॥
ब्रह्मे स्वधा तथा कान्ति गृह पुष्टि श्रुतिस्तथा ।
कीर्तिं मे तथा चाष्टौ विद्येशानान्तु शक्त्यः ॥ ४०९ ॥
पदया देवनायी च कुन्ती काली च मन्त्रिणी ।
मालिनी च उमा चैव वज्रिणी गणशान च ॥ ४१० ॥
शशी देवी प्रलोमी च स्वाहा चैव स्वधा तथा ।
प्। १२३)
कालकाली च जातारी नीली च सुकेशिनी ॥ ४११ ॥
लायिनी महिनी चैव लिङ्गिनी महिषी तथा ।
वृत्तिश्चैव निवृत्तिश्च वसुधा च स्वरूपिणी ॥ ४१२ ॥
सावित्री सरस्वतीत्येते लोकपालाद्विशक्तयः ।
विलासिनी विरूपी च धारिणी विमुखी तथा ॥ ४१३ ॥
निखी च दमुखी चैव मतिश्री हंसमालिनी ।
एते दशायुधाश्शक्तिं पञ्चावरणशक्तयः ॥ ४१४ ॥
प्रथमम् आसनं कल्प्य द्वितीयमावाहयेत् शिवम् ।
तृतीयं पाद्यद्रव्यञ्चतुर्थमाचमनीयकम् ॥ ४१५ ॥
पञ्चममर्घ्यदातव्यं धूपं दद्यात्तु षष्ठकम् ।
प्। १२४)
सप्तमम् अभिषेकन्तु अष्टमं गन्धपुष्पकम् ॥ ४१६ ॥
नवमं वस्त्राभरणञ्च दशमं धूपदीपकम् ।
एकादशन्तु मुद्राणां द्वादशन्तु निवेदनम् ॥ ४१७ ॥
त्रयोदशं बलिं दद्यात् नित्याग्नीनां चतुर्दश ।
नित्योत्सवं पञ्चदश षोडशं नृत्तमेव च ॥ ४१८ ॥
इति पूजाक्रमं प्रोक्तं पञ्चशुद्धिक्रमात्कृतम् ।
अथ व्युहक्रमं वक्ष्ये विद्याव्यूहादि व्यूहकम् ॥ ४१९ ॥
विद्याव्यूहोऽत्र विज्ञेयो वामदेवादिको महान् ।
वनपर्वस्थितश्चासौ स्मृतिमार्गोऽवलम्बिनः ॥ ४२० ॥
वामादिशक्तयश्चासौ विद्याव्यूह इति स्मृतः ।
प्। १२५)
अघोराद्यष्ट या प्रोक्ता विग्रहेश्वरव्यूहकम् ॥ ४२१ ॥
अघोराश्चातिघोराश्चाघोरासूक्ष्मं शिवस्तथा ।
सर्वतश्शर्वसर्वेभ्यो उमारूपे इति स्मृतः ॥ ४२२ ॥
विग्रहेश्वरव्यूहानामष्टधा परिकीर्तिता ।
अम्बिका ब्रह्मवेताली त्रिगुणी स्थाणिमन्यपि ॥ ४२३ ॥
रूपिणी च महाज्वाला मालिनी च तथा परा ।
सुवेताली भवेद्गौरी शक्त्यघोरा च नन्दिनी ॥ ४२४ ॥
एकादशविधौ राज्ञां धूहाव्यूहमहाबलौ ।
रुद्रव्यूहौ भवेद्रौद्रौ वृतश्च बलिशालिनः ॥ ४२५ ॥
ऊर्ध्वकोग्ययुतं वृत्ता तत्वमैश्वरमास्थितम् ।
प्। १२६)
विद्येश्वराद्य सज्येत मूर्तीशञ्च गणेश्वरः ॥ ४२६ ॥
अनन्तेशादि विद्येशान्व्यूहं व्यूहक्रमान्यसेत् ।
शर्वपशुपतिश्चोग्रारुद्रश्चैव भवस्तथा ॥ ४२७ ॥
ईशानश्च महादेवो भीमश्च वसवस्तथा ।
उमयादि गणेशानं व्यूहं व्यूहक्रमाद्यजेत् ॥ ४२८ ॥
ततः सदाशिवं तत्वं परव्याप्तं तथा स्थितम् ।
तत्र ब्रह्माङ्गमन्त्रैश्च नदौ बिन्दुस्सदाशिवः ॥ ४२९ ॥
शान्त्यतीतेम्बिकाशक्तिः दीपिका रोचिका तथा ।
मोचिका चोर्ध्वगाश्चैव व्यापिका व्योमरूपिणी ॥ ४३० ॥
अनन्ताचानाथा च अनाश्रिता च तथा भवेत् ।
प्। १२७)
मन्त्रयोनिर्महामाया पुनश्शक्तिश्च निष्कला ॥ ४३१ ॥
अतीन्द्रियश्शिवस्तस्य निष्कला निर्गुणोऽक्षरः ।
चिद्रूपोऽयं समाख्यातः शुद्धत्वे तत्वपञ्चकम् ॥ ४३२ ॥
शब्दादि दशके यस्मात् गुणैर्युक्ताञ्च य समे ।
अङ्गाङ्गिभावविहितो विशेषमक्षमादितः ॥ ४३३ ॥
अक्षरब्रह्मनात्मानि वर्णब्रह्ममनन्तरम् ।
भुवनब्रह्ममित्येषा ब्रह्मनामेति कथ्यते ॥ ४३४ ॥
सदाशिवं लिङ्गकुम्भं महेशं यागमूर्तिकम् ।
उत्क्रमं रुद्रदैवत्यम् इत्येते अधिदेवताः ॥ ४३५ ॥
आत्मतत्वे न्यसेत्सर्वे विद्यातत्वन्तु सौम्यके ।
प्। १२८)
शिवतत्वा न्यसेन्मध्ये ध्यानकाले सदाशिवम् ॥ ४३६ ॥
एवमेव त्रिसन्ध्यायां वैप्यकयेदादि शैवकम् ।
निर्माल्यञ्च निवेद्यञ्च भूत्वा चान्द्रायणञ्चरेत् ॥ ४३७ ॥
चण्डदत्तं हि निर्माल्यं भूमौ वह्नौ जलं क्षिपेत् ।
गवांश्च कर्मदासांश्च दापयेत्तु विचक्षणः ॥ ४३८ ॥
षोडशप्रथमांश्चैव विघ्नेशक्षेत्रपालकम् ।
परिवारादिभिश्चैव गुरुपुस्तकवह्निना ॥ ४३९ ॥
यक्षनागेन्द्रयोगीनां विष्णुब्रह्मा च दुर्गया ।
काली च सूर्यदेवांश्च अन्यत्सर्वाश्च देवताः ॥ ४४० ॥
सुगन्धगरुकर्पूरं चन्दनं कस्तूरिकान्वितम् ।
प्। १२९)
लेपयेत्तु च हृन्मन्त्री लिङ्गं पीठञ्च गौरिका ॥ ४४१ ॥
जातीकनककदम्बानि द्विकर्णी च त्रिकर्णिका ।
नन्द्यावर्तं श्रियावर्तं नीलोत्पलञ्च मल्लिका ॥ ४४२ ॥
एवमादिसुगन्धानि पुष्पमाल्यैश्च पूजयेत् ।
शिवमन्त्रेण देवेशम् अर्चयेत्तु विशेषतः ॥ ४४३ ॥
गौरीर्मिमाय मन्त्रेण गौरीं वामेन स्थापयेत् ।
ध्यायेच्छदाशिवं रूपं देवीरूपं विचिन्तयेत् ॥ ४४४ ॥
धूपं क्रमादघोरेण घण्टारवसमन्वितम् ।
कर्पूरावर्तितं दीपं कार्पासकुलसंयुतम् ॥ ४४५ ॥
गोव्यतं दीपमुज्वाल्य त्र्यङ्गुलमुत्तमं स्मृतम् ।
प्। १३०)
दीपं दद्याद्विशेषेण प्रशान्तायेति मन्त्रतः ॥ ४४६ ॥
द्रोणखण्डं शिवा * पि गुणखण्डसमायुतम् ।
मरीची लवणैर्युक्तं नालिकेरञ्च मुद्गकम् ॥ ४४७ ॥
अपूपञ्च प्रदातव्यं वायसान्नं गुलैर्युतम् ।
कदलीपनसाम्रैश्च त्रिफलञ्च निवेदयेत् ॥ ४४८ ॥
पानीयं दापयेत्तत्र मुखवाससमन्वितम् ।
ताम्बूलं तत्र कर्पूरं * * * तैलसंयुतम् ॥ ४४९ ॥
इष्टकाम्यप्रसिध्यर्थं लभते नात्र संशयः ।
एवं काम्यार्थ्यहं प्रोक्तमधिदेवाः प्रकीर्तिताः ॥ ४५० ॥
अष्टपुष्पं त्रिषुगन्धं सप्तवारि निवेदयेत् ।
प्। १३१)
त्रिपुष्पञ्च त्रिधा धूपं घण्टातसनमष्ट च ॥ ४५१ ॥
प्रच्छन्नाश्च चतुर्णां वै द्वयोर्मुद्रां प्रदापयेत् ।
आवाहनार्घ्य पात्रेषु स्नाने धूपेऽनुलेपयेत् ॥ ४५२ ॥
निवेज्य च विसृज्याथ अष्टपुष्पं सुयोजयेत् ।
अर्घ्ये प्रलेपने स्नाने त्रिषु गन्धं सुयोजयेत् ॥ ४५३ ॥
आवाहनार्घ्य पात्रेषु स्नाने आचमने तथा ।
निवेद्य विसर्जने चैव वारिसप्तं नियोजयेत् ॥ ४५४ ॥
आवाहनेषु पूजान्ते विसर्गान्ते तथैव च ।
अर्घ्यं दद्यात्तु मन्त्रज्ञा त्रिष्वेवं प्रकल्पयेत् ॥ ४५५ ॥
आसनार्चनकाले तु स्नानान्ते पूजनेऽपि च ।
प्। १३२)
निवेद्य विसर्जने चैव वारि सप्तं नियोजयेत् ॥ ४५६ ॥
आवाहनेषु पूजान्ते विसर्गान्ते तथैव च ।
अर्घ्यं दद्यात्तु मन्त्रज्ञा त्रिष्वेवं प्रकल्पयेत् ॥ ४५७ ॥
आसनार्चनकाले तु स्नानान्ते पूजनेऽपि च ।
अथवासनं पूजान्ते महाधूपं प्रशस्यते ॥ ४५८ ॥
स्नानारम्भे तदन्ते च धूपादाने विशेषतः ।
निवेद्यकाले तस्यान्ते उत्सवादौ तदन्तके ॥ ४५९ ॥
नृत्तान्ते प्रवरे धीमान् महाघण्टानि ताडयेत् ।
निर्माल्यापनये चैव पुष्पालङ्कारकर्मणि ॥ ४६० ॥
निवेद्यकाले सन्ध्यान्ते प्रच्छन्नपटमीरितम् ।
प्। १३३)
आवाहने तु पूजान्ते मुद्रादर्शनमिष्यते ॥ ४६१ ॥
गन्धं दद्यात्तु पुष्पेण पुष्पं गन्धेन योजयेत् ।
धूपं दद्यात्तु दीपेन दीपं दीपेन योजयेत् ॥ ४६२ ॥
देवानामर्चने काले प्रच्छन्नपटसंयुतम् ।
पापरोगीव्रतभ्रष्टे नास्तिकैः व्रतदूषकैः ॥ ४६३ ॥
राक्षसैरसुरैश्चैव पिशाचैर्ब्रह्मराक्षसैः ।
देवनिन्दाकृतार्थञ्च दूरतः परिवर्जयेत् ॥ ४६४ ॥
गच्छेत्प्रकारबाह्ये तु घण्टाघोषैश्च संयुतम् ।
मूलमन्त्रजपं जप्त्वा देवसान्निध्य चिन्तयेत् ॥ ४६५ ॥
चिन्तयेत्तु नरास्सर्वे शिवमात्मनि भक्तितः ।
प्। १३४)
स्वयमभ्यर्चनं श्रेष्ठं पश्चाद्भोजनमारभेत् ॥ ४६६ ॥
अर्चनायामशक्तश्चेत् स्पर्शनं वाऽपि कारयेत् ।
स्पर्शने वाऽप्यशक्तश्चेल्लिङ्गदर्शनमुत्तमम् ॥ ४६७ ॥
दिवारात्रिं त्रिसन्ध्यायां प्रविशेत्तु शिवालयम् ।
बाह्यप्रकारदेशे तु सव्यमार्गप्रदक्षिणम् ॥ ४६८ ॥
सव्यापसव्यमार्गेण अन्तर्भारा प्रदक्षिणम् ।
प्रदक्षिणं ततः कुर्यात् सोमसूत्रन्तु लङ्घयेत् ॥ ४६९ ॥
सोमसूत्रोपरिष्ठात्तु शक्तिलङ्घनकारयेत् ।
निर्माल्यलङ्घनं दोषं पतती धरणीतले ॥ ४७० ॥
कीटकण्टपतङ्गाद्यैः जायती धरणीतले ।
प्। १३५)
तस्मात्सर्वप्रयत्नेन सव्यापसव्यकं कुरु ॥ ४७१ ॥
प्रदक्षिणां द्विगुणञ्चैव नमस्कारफलं भवेत् ।
पञ्चाङ्गञ्चैव अष्टाङ्गं नमस्कृत्वा विचक्षणः ॥ ४७२ ॥
बाह्योः श्रोत्रद्वयोश्चैव मस्तकञ्चैव पञ्चसु ।
प्रभुनाममिति ख्यातं पञ्चाङ्गमिति कथ्यते ॥ ४७३ ॥
हस्ताभ्यां मूर्ध्नितश्चैव नमस्तुत्वा प्रयत्नतः ।
दण्डनमस्कारमित्युक्तं दण्डवद्रज्जुसंयुतम् ॥ ४७४ ॥
पादौ जानुद्वयोश्चैव हस्तयोरुभयोरपि ।
ललाटे कर्णयोश्चैव अनुना धरणीं स्पृशेत् ॥ ४७५ ॥
अष्टाङ्गमिति विख्यात सर्वैश्वर्य सुखप्रदम् ।
प्। १३६)
एवं कृत्वा तु मनसा शिवलोकं स गच्छति ॥ ४७६ ॥
प्रदक्षिणं नमस्कृत्वा आत्मनोऽर्पणमेव च ।
अथवाऽन्यप्रकारेण भक्तिगम्यं यथा चरेत् ॥ ४७७ ॥
बुचुलुकोदकं तत्पश्चात् कायशुद्ध्यर्थकारणात् ।
उपचारमहं वक्ष्ये पुरार्थे देवपूजने ॥ ४७८ ॥
दशोपचारदीर्घान्ते भविष्यन्ते तु षोडश ।
बल्यन्ते पञ्चविंशश्च षट्त्रिंशं ताण्डवान्तके ॥ ४७९ ॥
आवाहनार्घ्यपाद्यानि आचमनन्तु स्नानकम् ।
गन्धपुष्पञ्च धूपञ्च नैवेद्यन्तु विसर्जनम् ॥ ४८० ॥
दशोपचारविज्ञेयमित्यन्तेन समाचरेत् ।
प्। १३८)
आवाहने तु संस्थाप्य पाद्यमाचमनार्घ्यके ॥ ४८१ ॥
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम् ॥
धूपदीपनिवेद्यञ्च नमस्कारे विसर्जने ॥ ४८२ ॥
षोडशैवोपचारैश्च भविष्यन्ते समाचरेत् ।
आवाहने तु संस्थाप्य स्वागतञ्चातुमान्यकम् ॥ ४८३ ॥
पाद्यमाचमनार्घ्यञ्च स्नानं वस्त्रोत्तरीयके ।
भूषणं गन्धपुष्पञ्च धूपदीपं तथार्घ्यकम् ॥ ४८४ ॥
नीराजनमञ्जनञ्चैव चामरञ्चात्र दर्पणम् ।
दश मुद्रादर्शनञ्चैव पञ्चावरणपूजनम् ॥ ४८५ ॥
नैवेद्यहोमकर्मन्तु बलिदानं जपं तथा ।
प्। १३९)
समाधिस्तोत्रनमस्कारमुत्सवं गीतनृत्तकम् ॥ ४८६ ॥
विसर्जनञ्च षट्त्रिंशदुपचारमिति स्मृतम् ।
नृत्तान्ते पौष्टिकेप्येवं परार्थे देवपूजनम् ॥ ४८७ ॥
आत्मार्थमुपचारञ्च अहं वक्ष्ये शृणुष्वहम् ।
आवाहनं स्थापनञ्च स्वागतं सन्निरोधनम् ॥ ४८८ ॥
अङ्गप्रत्यङ्गकल्पञ्च पाद्यमाचमनार्घ्यकम् ।
गन्धपुष्पञ्च धूपञ्च दीपं स्नानं तथैव च ॥ ४८९ ॥
वस्त्रोपवीतं गन्धञ्च पुष्पं धूपञ्च दर्पणम् ।
नीराजनं भूषणं गीतं नाट्यनृत्तं तथैव च ॥ ४९० ॥
मुद्रादर्शनमेवोक्तम् आवृतार्चनमेव च ।
प्। १४०)
नैवेद्यहोमकर्मञ्च समाधिर्मन्त्रजपं तथा ॥ ४९१ ॥
प्रदक्षिणं नमस्कृत्वा चुलमोदमाचमनीयकम् ।
चत्वारिंशद्विधानेन आत्मार्थे नैव पूजना ॥ ४९२ ॥
ससन्धाया लक्षणं वक्ष्ये शृणुष्वेकाग्रमानसम् ।
स्वस्थन्नराक्षन्निमिष्टश्चतुर्भाग तुटिस्मृतम् ॥ ४९३ ॥
तद्वयन्तु लयं प्रोक्तं निमिषं तद्वयं भवेत् ।
निमिषं पञ्चदशं काष्ठातिथि कलाअ स्मृताः ॥ ४९४ ॥
त्रिंशत्कालमुहूर्तञ्च तदेव घटिकाद्वयम् ।
भास्करोदयमारभ्य त्रिपादेन त्रिनाडिका ॥ ४९५ ॥
रात्रान्तकमिति प्रोक्तं ज्ञात्वैवं सर्वमाचरेत् ।
प्। १४१)
जलसङ्ग्रहणञ्चैव पुष्पसङ्ग्रहणं तथा ॥ ४९६ ॥
देवता स्थापनं तीर्थं रात्रान्ते वा विशेषतः ।
तच्छेषमर्चनञ्चैवापरात्रिर्दशनाडिका ॥ ४९७ ॥
उदयाद्यस्तमयाद्यञ्च चतुर्यामं प्रकीर्तितम् ।
अस्तमयादुदयान्तञ्च चतुर्यामं प्रशस्यते ॥ ४९८ ॥
अष्टयाममिति ख्यात महोरात्रमिति स्मृतम् ।
अधिवासनानि सर्वाणि मध्यरात्रे तु कारयेत् ॥ ४९९ ॥
उदयादि मध्यानान्तं प्रतिष्ठादिकर्म योग्यतः ।
अपराह्णं न कर्तव्यं मृगा यत्राक्रमं कुरु ॥ ५०० ॥
उशीरञ्चन्दनञ्चैव दूर्वासिद्ध्यर्थकैर्युतम् ।
प्। १४२)
पाद्यद्रव्यमिति ख्यातं पादौ पाद्यन्तु निक्षिपेत् ॥ ५०१ ॥
एलालवङ्गकर्पूर तन्वपूजादिफलं नरम् ।
षडङ्गमाचमनं द्रव्यमाचमनन्तु दापयेत् ॥ ५०२ ॥
आपक्षीरकुशाग्राणि यवैस्सिद्धार्थतण्डुलैः ।
यवदूर्वा च संयुक्तमर्घ्यद्रव्याः प्रकीर्तिताः ॥ ५०३ ॥
अगरुञ्चन्दनञ्चैव कोट्टं कुङ्कुम एव च ।
तदर्धं पादमेवन्तु कर्पूरेण समायुतम् ॥ ५०४ ॥
गन्धद्रव्यमिदं प्रोक्तमेवञ्च विधिरुच्यते ।
श्वेतं रक्तं तथा कृष्णं सत्वरजस्तमस स्मृतम् ॥ ५०५ ॥
पीतवर्णन्तु शोणन्तु * * * * उदीरितम् ।
प्। १४३)
श्वेतं सद्येन दातव्यं रक्तं वामेन मन्त्रतः ॥ ५०६ ॥
पीतं पुरुषमन्त्रेण अघोरं कृष्णपुष्पकम् ।
नानावर्णैश्च पुष्पैश्च पञ्चवक्त्रमुदीरितम् ॥ ५०७ ॥
नीलोत्पलसमं पुष्पं न भूतो न भविष्यति ।
नन्द्यावर्तं श्रियावर्तं श्वेतार्कमुदये ददेत् ॥ ५०४ ॥
करवीरद्रोणपुष्पं पद्मं मध्यदिने न्यसेत् ।
मल्लिका चैव दुर्धूरा पट्टचञ्चकमुच्यते ॥ ५०९ ॥
सायाह्ने तु प्रदातव्यमन्यत्सर्वं प्रदापयेत् ।
जातीकनकदम्बानि द्विकर्णिश्चार्धरात्रिके ॥ ५१० ॥
नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिका ।
प्। १४४)
श्वेतार्कमालती चैव पुन्नागं कुरवं तथा ॥ ५११ ॥
एवमादिषु पुष्पाणि सात्विकानि प्रचक्ष्महे ।
रक्तोत्पलं तथा पद्मं बृहती धूरपाटली ॥ ५१२ ॥
एवमादीनि रक्तानि राजसानीति कथ्यते ।
कर्णिका धुर्धुरञ्चैव पुष्पिकारश्रयं तथा ॥ ५१३ ॥
एवमादीनि चान्यानि मिश्रकानि इति स्मृतम् ।
तुलसी चे नृपञ्चैव जम्बूको नागनन्दिका ॥ ५१४ ॥
एकपत्रारविन्दञ्च विष्णुक्रान्ती तथैव च ।
अपामार्गं कुशापूर्वा पञ्चबिल्वं शमीं तथा ॥ ५१५ ॥
एतानि पत्रजातीनां तामसानीति कथ्यते ।
प्। १४५)
पत्रजातिषु सर्वेषु सर्वकालं प्रपूजयेत् ॥ ५१६ ॥
ततो नीलोत्पलादन्यो तामसन्त्विति कीर्तितम् ।
करञ्जं वकुलञ्चैव केतकं माधवी तथा ॥ ५१७ ॥
लाकुलीन्धूक निर्गण्डी किंशुकञ्चैव वर्जयेत् ।
अतिपक्वमपक्वञ्च मुकुलञ्चैव वर्जयेत् ॥ ५१८ ॥
कोशकीटोपविद्धञ्च लूतसूत्रावृतानि च ।
स्वयं पतितपुष्पाणि सञ्चितानि च वस्त्रके ॥ ५१९ ॥
एकाहोषित पुष्पाणि वर्जयेत्तु विशेषतः ।
शमी बिल्वमपामार्ग कुशादूर्वा महा तथा ॥ ५२० ॥
नागनन्दी रुद्रवल्ली धातकीपत्रमेव च ।
प्। १४६)
भद्री चैव महाभद्री द्रोणरूपं तथैव च ॥ ५२१ ॥
पत्रजातिषु सर्वेषु बिल्वपत्र समञ्चहि ।
पुष्पजातिषु सर्वेषु नीलोत्पलसमन्नहि ॥ ५२२ ॥
पुष्पलक्षणमाख्यातं धूपलक्षणमुच्यते ।
अगरुञ्चैव भागं स्यान्निर्यासं निर्गुणं भवेत् ॥ ५२३ ॥
चन्दनं त्रिगुणं प्रोक्तं मध्यमं तिलमुच्यते ।
वृक्षवीजां भवेत्स्नेहे शिवदीपन्तु वर्जयेत् ॥ ५२४ ॥
धूपद्रव्यमलाभे तु घृतं पुष्पं विनिर्दिशेत् ।
गोघृतं तदलाभे तु शुद्धतैलेन पूजयेत् ॥ ५२५ ॥
शुद्धतैलमलाभे तु मधूकतैलं च दीपयेत् ।
प्। १४७)
स्नानद्रव्यमलाभे तु शुद्धतोयेन पूजयेत् ॥ ५२६ ॥
गव्यानामलाभे तु घृतञ्चैवभिषेचयेत् ।
हविषामप्यलाभे तु दीपारोहणमर्चयेत् ॥ ५२७ ॥
वस्त्राणामप्यलाभे तु वर्त्तिणाञ्चैव पूजयेत् ।
मन्त्राणामप्यलाभे तु पञ्चाक्षरेण पूजयेत् ॥ ५२८ ॥
गन्धानामप्यलाभे तु भस्मालेपनमाचरेत् ।
हेमद्रव्यमलाभे तु पत्रिणाञ्चैव पूजयेत् ॥ ५२९ ॥
पञ्चामृतमलाभे तु घृतञ्चैव तु पूजयेत् ।
सर्वं ध्यायेत्तु मनसा सर्वद्रव्यमलाभके ॥ ५३० ॥
त्रिसन्ध्यां बलि दातव्यं दूरादिपीठकान्तरम् ।
प्। १४८)
दिक्देशमस्त्रसंयुक्तं बलिञ्चैव प्रदापयेत् ॥ ५३१ ॥
महाभूतं ददेत्पीठम् आमोदापूर्वमादिकम् ।
आमलीफलमात्रे वा अष्टिं वा बलि दापयेत् ॥ ५३२ ॥
गन्धपुष्पं समभ्यर्च्य वाद्यतालसमन्वितम् ।
बलिप्रदानमेवोक्तमुदकादीन् क्रमाद्ददेत् ॥ ५३३ ।
एवं बलिविधानान्ते नित्याग्निं कारयेद्बुधः ।
आग्नेय्यान्तु प्रकर्तव्यमग्निकार्योक्तमाचरेत् ॥ ५३४ ॥
समिदाज्यचरुं लाजान् सर्षपांश्च यवान् तिलान् ।
कदश्च कदलीवाम्रं क्रमेणैव तु होमयेत् ॥ ५३५ ॥
शतमर्धं तदर्धं वा तदर्धं होममाचरेत् ।
प्। १४९)
होमद्रव्यन्तु कूसुम्बं समित् षोडशमेव च ॥ ५३६ ॥
कुण्डं वा स्थण्डिलं वाऽपि वृत्तं प्रधानकं कुरु ।
गार्हपत्यं गृहस्थानां पितॄणां दक्षिणानलम् ॥ ५३७ ॥
आहवनीयञ्च देवानां तत्तद्रूपं वदाम्यहम् ।
बालयौवनवृद्धाग्निस्त्रिविधं तत्प्रकीर्तितम् ॥ ५३८ ॥
बालानामग्निकर्तव्यं प्रतिष्ठा कालकर्मणि ।
उत्सवादीनि कर्माणि कारयेद्यौवनाग्निषु ॥ ५३९ ॥
सव्यापसव्यं नित्याग्निं वृद्धाग्निं नित्यहोमकम् ।
अग्निकार्योक्तमार्गेण शेषकार्यं समाचरेत् ॥ ५४० ॥
एवमग्निं समभ्यर्च्य नित्योत्सवमथाचरेत् ।
प्। १५०)
पूर्वाह्णे पुष्पलिङ्गञ्च मध्याह्ने वान्नलिङ्गकम् ॥ ५४१ ॥
सायाह्ने चार्घ्यलिङ्गन्तु द्वादशाङ्गुलमानतः ।
सर्वकाले * * * ध वारोहणन्तु * * चेत् ॥ ५४२ ॥
न लिङ्गन्तु पुष्पं निक्षिप्य यत्नतः चन्द्रशेखरम् ।
केवलं वा प्रकर्तव्यं सर्वाभरणभूषितम् ।
गन्धपुष्पादिनाभ्यर्च्य पादुकारोहणन्न्त्यजेत् ॥ ५४४ ॥
देवदासी शिवोद्धृत्य क्रमात्कृत्वा प्रदक्षिणम् ।
स्वर्णं मरतकञ्चैव स्फटिकं रजताम्रकम् ॥ ५४५ ॥
पादुकञ्च प्रकर्तव्यं लिङ्गं स्वर्णञ्च राजकम् ।
प्। १५१)
ताम्रं मरतकञ्चैव स्फटिकञ्चैव कारयेत् ॥ ५४६ ॥
लिङ्गाकारां कौतञ्चैव दृष्टिशैवकरोपरि ।
सशिबिका गर्जयानं वहयवाहनमेव च ॥ ५४७ ॥ ?
नरवाहनमेवं वा सर्वालङ्कारसंयुतम् ।
उष्णीषण्यून्युत्तरयञ्च पवित्रं हस्तसंयुतम् ॥ ५४८ ॥
शिरौ वहेदात्रिशैनाशनैश्शनैः प्रदक्षिणम् ।
शुद्धनृत्तसमायुक्तं गीतवाद्यसमायुतम् ॥ ५४९ ॥
मन्त्रपाठकसंयुक्तं स्वस्तिवाचसमायुतम् ।
वितानस्वजसमायुक्तं छत्रचामरसंयुतम् ॥ ५५० ॥
दण्डनृत्तसमायुक्त यष्टिनृत्त समन्वितम् ॥
प्। १५२)
व्यजनस्तालवृन्तैश्च क्रमेणैव समाचरेत् ॥ ५५१ ॥
पिञ्छचामरसंयुक्तं श्वेतचामरसंयुतम् ।
प्रज्वाल्य दीपसंयुक्तं पुष्पवृष्टिसमायुतम् ॥ ५५२ ॥
दण्डनृत्तसमायुक्त यष्टिनृत्त समन्वितम् ।
डोलानृत्तसमायुक्तं नित्योत्सवन्तु कारयेत् ॥ ५५३ ॥
प्रथमं प्रदक्षिणं कुर्यादन्तहारे विशेषतः ।
द्वितीयं प्रदक्षिणं कुर्यान्मध्यहारे विशेषतः ॥ ५५४ ॥
गोपुरे वाद्यहीने तु बलिहीनं प्रदक्षिणम् ।
अन्तहारे पुनर्गत्वा प्रदक्षिणमथाचरेत् ॥ ५५५ ॥
प्रथमं प्रदक्षिणं कुर्यान्मङ्गणीतालवाद्यकम् ।
प्। १५३)
परिवाराणां द्वितयन्तु प्रदक्षिणमथाचरेत् ॥ ५५६ ॥
वृषस्य वृषतालन्तु होतव्यमङ्गिणी तथा ।
मातृणां चण्डवाद्यञ्च विघ्नेशस्य तु ठङ्करी ॥ ५५७ ॥
वारुणे चर्चपुटायां ज्येष्ठायां पुन्नितालकम् ।
तटप्रहारसौम्याया विषमं विघ्नचण्डके ॥ ५५८ ॥
गोपुरे वाद्यनिर्घोषैः शङ्खघोषसमन्वितम् ।
पुरा स्थितं पङ्क्ति कृत्वा प्रदक्षिणमथाचरेत् ॥ ५५९ ॥
शाम्बरे बलिपीठस्य प्रविश्याभ्यन्तरं ततः ।
एकप्रकारयुक्तन्तु कारयेतिं प्रदक्षिणम् ॥ ५६० ॥
त्रिप्रकारयुतं गेहं पीठमेकप्रदक्षिणम् ।
प्। १५४)
गान्धारद्वारदेशे तु आग्नेय्यां कौशिकं तथा ॥ ५६१ ॥
दक्षिणे कामरश्चैव नै-ऋत्यान्तर्करागकम् ।
कोल्ली पश्चिमदेशे तु वायव्यां नृपसङ्करम् ॥ ५६२ ॥
सोमेतकेकशिरित्युक्तं रामगिरीशगोचरे ।
बलिपीठेण्डकीञ्चैव तालं गीतसमायुतम् ॥ ५६३ ॥
मघराजावकञ्चैव देवसन्निधिगीतकम् ।
इत्येवङ्गी भाषायां प्रदक्षिणमथाचरेत् ॥ ५६४ ॥
एवं प्रदक्षिणं कृत्वा प्रविशेदालयं सुधीः ।
इति योगजतन्त्रे प्रतिष्ठातन्त्रे अर्चनाविधिः पटलः ।
प्। १५५)
पादुकार्चनकं कार्यं गन्धपुष्पादिभिः क्रमात् ।
शुद्धनृत्त समायुक्तं स्वस्थाने देवमर्चयेत् ॥ १ ॥
अष्टोत्तरशतं नृत्तं भावयेद्गणिकां ततः ।
नृत्तस्यान्ते विशेषेण देवदेवं विशेषतः ॥ २ ॥
अभिमुखीकरणं यत्तु तदावाहनमुच्यते ।
पूजा परिसमाप्ते तु मुखं गत्वा बहिस्थितम् ॥ ३ ॥
सकलार्चनकाले तु पञ्चमावरणं विना ।
आसनन्तु प्रकर्तव्यम् अर्चानोक्तमथापि वा ॥ ४ ॥
गन्धपुष्पादिभिः पूज्य स्वनामेनैव देशिकः ।
आगमार्चनकं कुर्यात् स्वगृहं प्रविशेद्बुधः ॥ ५ ॥
प्। १५६)
नित्योत्सवेन पूजायां तस्यां * * * * * * ।
बलिनित्यानि श्रीबल्यं त्रिकालस्तु समाचरेत् ।
अर्धरात्रौ बलिं कुर्यात् काम्यार्थन्तु विशेषतः ॥ ७ ॥
एवं क्रमेण विधिवद्यथा विभवविस्तरः ।
इति योगजे प्रतिष्ठातन्त्रे पादुकार्चनविधिः पटलः ।
अथ वक्ष्ये विशेषेण मुद्रालक्षणमुत्तमम् ।
तनुभ्यां ताडयेत्तालं शोधयेच्छोधनी भवेत् ॥ १ ॥
तर्जनीमूलपर्वस्थामङ्गुष्ठाङ्गे विनिक्षिपेत् ।
प्। १५७)
शङ्खमुद्रा इति ख्याता स्नानकाले प्रदर्शयेत् ॥ २ ॥
मणिबन्धं ततः कुर्यात् अङ्गुष्ठौ तलमध्यगौ ।
तर्जमूलपर्वस्था मध्या लग्नौ प्रकीर्तितौ ॥ ३ ॥
कनिष्ठाभ्यन्तरं नामी मुद्रैवं सुरभि स्मृताः ।
संयोज्य हस्तौ द्वौ कर्तौ अन्तरे सुषरं कृतम् ॥ ४ ॥
बिसनीमुकुलाकारं स्नानकाले प्रदर्शयेत् ।
न्यस्त्वा करतलाङ्गुष्ठौ शेषं श्लष्णोर्ध्वगं क्रमात् ॥ ५ ॥
कृत्वा वाहनमाख्यातं कुर्यादावाहने तथा ।
मुष्टिं कृत्वा चतुर्हस्ते करपृष्ठे तु योजने ॥ ६ ॥
कनिष्ठौ विसृतौ दीर्घौ निष्पुरासन्निरोधने ।
प्। १५८)
अङ्गुष्ठौ प्रक्षिपेन्मध्ये कनिष्ठविसृतौ युतौ ॥ ७ ॥
बीजमुद्रौ यमाख्याता दर्शयेच्छक्तिकल्पने ।
द्वौ हस्ततलकौ योज्यौ मध्याङ्गुलाग्रहं युतौ ॥ ८ ॥
तर्जन्यनामिके योज्य अङ्गुष्ठाभ्यां कनिष्ठके ।
इदं पञ्चमुखीमुद्रा दर्शयेद्वस्त्रकर्मणि ॥ ९ ॥
कराभ्यामञ्जलिं कृत्वा स वक्त्रस्यादनात्मिका ।
तयोरग्रे तु संलग्नौ शेषाश्च विसृताश्च यः ॥ १० ॥
द्रव्यमुद्रा भवेदेषा द्रव्याभावे प्रदर्शयेत् ।
उत्तानौ तु करौ पश्चान्मणि बन्धन्तु कारयेत् ॥ ११ ॥
प्रसार्य मध्यमाङ्गुल्यौ सिवाख्यां स्थापनावहम् ।
प्। १५९)
वामाङ्गुलीयप्रसृता अङ्गुष्ठं मूर्ध्नि संयुतम् ॥ १२ ॥
दक्षिणे दक्षिणे मुष्टिमङ्गुष्ठौर्ध्वगस्थितम् ।
मुष्टिमूर्ध्वगतं कृत्वा संहारमुद्रया विदुः ॥ १३ ॥
उत्तानौ तु करौ कृत्वा कनिष्ठाङ्गुष्ठसंयुतम् ।
तर्जनी मध्यमौ युक्तौ अनामिकौर्ध्वं कृतासनम् ॥ १४ ॥
इति श्री योगजे प्रतिष्ठा तन्त्रे मुद्रालक्षणः पटलः ।
पूर्वोक्तलक्षणोपेतान् पादद्यादक्षुपुरितान् ।
पूर्वोक्तवस्त्रहोमा स्यात् कूर्चसूत्रलतान् कुरु ॥ १ ॥
सापिधानञ्च सर्वेषां शिवकुम्भानितो न्यसेत् ।
प्। १६०)
शिवव्यूहे न्यसेन्मध्ये कुम्भं तस्य प्रधानकम् ॥ २ ॥
आसिकद्वयसम्पूर्णान् शेषाण्याढकपूरितम् ।
व्यूहं प्रधानद्रव्याणी वक्ष्यते क्रमयोगतः ॥ ३ ॥
ईकारेन्धु विन्यस्य ऌकारे इक्षुकं न्यसेत् ।
कदलीफलमेकारे गुलिमेकारके न्यसेत् ॥ ४ ॥
ओकारे तु न्यसेल्लाजे नव ओङ्कारके न्यसेत् ।
अङ्कारे तु तिलं प्रोक्तम् अङ्कारे स तुकं न्यसेत् ॥ ५ ॥
सकारे सर्षपं न्यस्य खकारे सितसर्षपम् ।
गकारे नारिकेलञ्च वेणुबीजं घकारके ॥ ६ ॥
दकारे भस्म विन्यस्य मातुलीगञ्च कारके ।
प्। १६१)
छकारे पनसं न्यस्य आम्रञ्चैव जकारके ॥ ७ ॥
माणिक्कञ्चैव वज्रञ्च पद्मं पद्मप्रवालकम् ।
पुष्पं स्फटिकवैडूर्यं रत्नोदं स्याण्डकारके ॥ ८ ॥
हैमं रौप्यादकूटैश्च ताम्राकांस्यायसैरपि ।
पत्रसीसकसंयुक्तं लोहं न्यस्त्वात्र कारयेत् ॥ ९ ॥
सौराष्ट्रे रोचनाश्यामे हैरिकाञ्चनतारकैः ।
नमश्शिलाञ्जनं न्यस्त्वा टकारेण तु विन्यसेत् ॥ १० ॥
श्यामप्रियङ्गुकाश्यामां तिलषष्ठिकसर्षपैः ।
यवनी वारको द्रव्यं बीजोदं स्यात्सकोरकैः ॥ ११ ॥
नवनीतञ्च नाभ्यञ्च लघुकर्पूरपत्रके ।
प्। १६२)
त्वगे लवङ्गोषु मुमेस्तीन् चुकुङ्कुमजातिभिः ॥ १२ ॥
लघुकच्चेलयुक्तान्ते गन्धोदं स्याद्डकोरके ।
सामुद्रं वृषशृङ्गस्थं क्षेत्रपर्वतसम्भवैः ॥ १३ ॥
गजदन्तकुशं मूलं कर्कटामृत्कुरु ।
जलं मृदाम्भ इत्युक्तं ढकारेण तु विन्यसेत् ॥ १४ ॥
विष्णुक्रान्तीसहं देव्यानी शेलं दीश्वरमोक्षरैः ।
कृताञ्जलिशिरीषाभ्यां मार्जारो दण्डकारके ॥ १५ ॥
पद्मदूर्वाङ्कुशागौरसर्षपे भद्रसंयुतम् ।
परिमार्जनमित्युक्तं जलं न्यासान्तकारके ॥ १६ ॥
तुलसीबिल्वमपामार्गं शमीभृङ्गबकारके ।
प्। १६३)
जलं पत्रोदकं प्रोक्तं विन्यसेच्छेदकारके ॥ १७ ॥
पद्मके शूलपत्रासी परशुं कन्धकारके ।
अञ्जनेनार्ध निष्केण हेमेनैव कृतास्त्रकैः ॥ १८ ॥
उत्तमस्त्रोदकं ह्येतन्नकारे विन्यसेद्बुधः ।
नारिकेलाम्रपनसैः कदली मातुलङ्गके ॥ १९ ॥
नारङ्गद्वयकञ्चैव जलैर्युक्तं फलोदकम् ।
पकारे विन्यसेत्तत्र स्थण्डिलोपरि विन्यसेत् ॥ २० ॥
पलाशप्लक्षजम्बूक पार्गल्यश्चर्थयोरपि ।
वर्गो दुम्बरयोश्चैव त्वभिर्युक्तन्तु यज्जलम् ॥ २१ ॥
कर्षायोदकमित्युक्तं पकारे विन्यसेत्क्रमात् ।
प्। १६४)
अभ्रकत्रयमुक्ताम्बुप्रोक्तमाढ्योढकान्वितम् ॥ २२ ॥
जलं कान्तोदकं प्रोक्तं मकारे विन्यसेद्बुधः ।
श्रीकृष्णे शिरराभ्यञ्च पुष्करेण समायुतम् ॥ २३ ॥
पीवरीभिरिवेराभ्या मूलोदं स्यात्मकारके ।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ॥ २४ ॥
मयूरशिखया भृङ्गं भृञ्जाञ्जलिसुरोचके ।
जलकात्युदकं प्रोक्तं विन्यसेद्वैयकारके ॥ २५ ॥
लोध्रद्वयलवङ्काभ्यां भूर्जयुक्तन्तु यज्जलम् ।
पुष्पोदकमिति प्रोक्तं रकारे विन्यसेद्बुधः ॥ २६ ॥
लकारे चैव गोधूम्नि वारं स्यादुकारके ।
प्। १६५)
शकारे गन्धतैलं स्यात् षकारे चम विन्यसेत् ॥ २७ ॥
वकारे च जनीचूर्णमीषत्कर्पूरसंयुतम् ।
कन्यसं मृतपत्राच्चमन्यर्धे मनसा युतम् ॥ २८ ॥
सापिधानं भवेदेवं व्यूहेशानं प्रकीर्तितम् ।
व्यूहं प्रतीशपतितः कलशावरणद्वयम् ॥ २९ ॥
लक्ष्मीदाता कुशामूर्वा अपामार्गञ्च विल्वकम् ।
शम्यष्टा सर्वव्यूहानां प्रथमावरणस्य च ॥ ३० ॥
चम्पकापद्मतुलसी नन्द्यावर्तञ्च मल्लिका ।
जातिद्रोणञ्च मन्दाराद्विकर्णी करवीरकम् ॥ ३१ ॥
विष्णुक्रान्ती सितार्का च ए * त्राचारविन्दकम् ।
प्। १६६)
वकुलीकुरवञ्चैव रक्तोत्पलं तथैव च ॥ ३२ ॥
सर्वेषाञ्चैव व्यूहानां द्वितीयावरणस्य च ।
कलशेष्वेव धर्मकूर्च चक्राद्यानपिधाय च ॥ ३३ ॥
व्यूहे चाभिमुखादि स्यात् सर्वेषाञ्च प्रदक्षिणम् ।
स्थापनं पूजनोद्वाह उत्तमत्रितयस्य च ॥ ३४ ॥
सर्वेषामपि देवानां कलशं शिरसा वहेत् ।
क्षिप्रपक्वफलालाभे अपक्वफलमाचरेत् ॥ ३५ ॥
वृत्रादिलाभे तु पुष्पं स्यात् पुष्पलाभे तु मूलकम् ।
द्रव्यलाभे जलं पूर्य इति शास्त्रस्य निश्चयः ॥ ३६ ॥
इति योगजे प्रतिष्ठातन्त्रे स्नपनविधिः पटलः ।
प्। १६७)
अथ वक्ष्ये विशेषेण शीतकुम्भविधिक्रमम् ।
ज्वरापस्मारनाशाय वसूरीरुण्णदाहकम् ॥ १ ॥
सर्वरोगविनाशाय वर्षार्थन्तु प्रकल्पयेत् ।
द्वात्रिंशत्प्रस्थसम्पूर्णबिम्ब प्रभवसम्भवम् ॥ २ ॥
त्रिसूत्रे वेष्टयित्वा तु यवान्तरसमन्वितम् ।
शिवाग्रे स्थण्डिलं कृत्वां दलाष्टकसमन्वितम् ॥ ३ ॥
स्थण्डिलैश्शोभितं कृत्वा लाजदर्भतिलैस्तथा ।
वस्त्रपूतेन तोयेन पूरयेत्कुम्भमुत्तमम् ॥ ४ ॥
सर्वगन्धसमायुक्तं पञ्चरत्नसमन्वितम् ।
स वस्त्रं सापिधानञ्च सकूर्चं हेमसंयुतम् ॥ ५ ॥
प्। १६८)
स्थण्डिले विन्यसेत्कुम्भं सर्वमन्त्राणि विन्यसेत् ।
आचापकरणैर्युक्तो गन्धपुष्पाक्षतादिभिः ॥ ६ ॥
पूर्वेद्युरथवास्य स्याद्रात्रौ जागरमाचरेत् ।
आचार्यश्शिष्यकुम्भन्तु कुस्पृष्टा जपञ्चरेत् ॥ ७ ॥
व्योमव्यापि महामन्त्रं रोगशान्तिस्तु स्पृष्टयेत् ।
इति होमं प्रतन्तव्यं तस्याग्रे तु विशेषतः ॥ ८ ॥
प्रभाते देवदेवेशं मूर्ध्निमध्ये तु विन्यसेत् ।
चतुष्पादन्तु विन्यस्य याज्ञिकैः व्रत्वकैश्शुभैः ॥ ९ ॥
लिङ्गोर्ध्वे हस्तमुत्सेधं चतुर्दिक्षु विचष्टरम् ।
वृत्तं वा चतुरश्रं वा षोडशाङ्गुलविस्तरम् ॥ १० ॥
प्। १६९)
एकतालप्रमाणेन मध्ये सुषिरमुच्यते ।
वस्त्रेणावेष्टि कुम्भञ्च पुष्पमाल्यैर्विभूषितम् ॥ ११ ॥
कुम्भान्वितस्य तन्मूले सुषिरं कारयेद्बुधः ।
लोभसूच्याग्रमानेन नालं हेममयं भवेत् ॥ १२ ॥
द्विगुणं क्षीरायामं मधुनी त्रिगुणं तथा ।
हृदयेन तु मन्त्रेण कुम्भमारोप्य यत्नतः ॥ १३ ॥
शिवकुम्भन्तु संस्थाप्य स्थण्डिले पूर्ववद्बुधः ।
सप्ताहे चैव पञ्चाहे त्र्यहे वा विशेषतः ॥ १४ ॥
स्रावस्यं मूध्न्यहोरात्रं सर्वशान्तिकरस्मृतम् ।
नित्यपूजाविशेषेण काले काले विशेषतः ॥ १५ ॥
प्। १७०)
द्विगुणं पूजयेत्तत्र यथा शक्तया तु पूजयेत् ।
उपकुम्भन्तु निक्षिप्य जलं वा क्षीरमेव वा ॥ १६ ॥
कुम्भावरोहणं यावत्तावच्छान्तिं समाचरेत् ।
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ १७ ॥
अर्धे कुम्भं परित्यज्य अस्त्रमन्त्रेण मन्त्रवित् ।
स्नपनं तु यथा शक्त्या यथोक्तं कारयेद्बुधः ॥ १८ ॥
प्रभूतहविषं दत्वा पूर्वोक्तविधिना सह ।
सर्वभक्तजनानाञ्च अन्नपानादि दापयेत् ॥ १९ ॥
इति योगजे प्रतिष्ठातन्त्रे शीतकुम्भविधिः पटलः ।
प्। १७१)
अथ वक्ष्ये विशेषेण शिवोत्सवविधिक्रमम् ।
सर्वदोषनिवृत्यर्थं सर्वलोकसुखावहम् ॥ १ ॥
सर्वदेवप्रियार्थं स्यात् सर्वप्राणिसुखावहम् ।
राजाविजयवृध्यर्थे सर्वरक्षार्थसाधनम् ॥ २ ॥
उत्सवं नवधा प्रोक्तं पुष्पलं विजयान्वितम् ।
सव इत्युच्यते सृष्टिस्तं वन्द्याच्छब्दभाषितः ॥ ३ ॥
उत्सवं सृष्टिकारित्वादुत्सवः कथितः क्रमात् ।
प्रतिष्ठोत्सवविधिञ्चैव मासोत्सवविधिक्रमम् ॥ ४ ॥
अमावास्यां समारभ्य मासोत्सेवनमेव च ।
वसन्तोत्सवविधिञ्चैव पुष्ये पुष्योत्सवं तथा ॥ ५ ॥
प्। १७२)
चैत्रमासे त्रयोदश्यां मासपक्षं हि चन्द्रयोः ।
वैशाखे तु विशाखान्तं वसन्तोत्सवमेव च ॥ ६ ॥
यजमाने दिने चैव * * * राजने तथा ।
सर्वमासेषु कर्तव्यं महोत्सवविधिक्रमम् ॥ ७ ॥
प्रातःकाले व्यवज्ञत्वं सर्वकाले समारभेत् ।
निश्चित्य मासनक्षत्रे कथितं मुरसं तथा ॥ ८ ॥
षोडशस्सर्वरक्षार्थं पैतृकं द्वादशं तथा ।
सौख्यं नवविधं प्रोक्तसप्ताहं श्रीकरं भवेत् ॥ ९ ॥
पार्थिवं पञ्च निधनञ्चैव त्रियहं सात्विकं तथा ।
एकाहं शिवमेवोक्तमुत्सवं कारयेद्बुधः ॥ १० ॥
१७३)
सम्पूज्य देवदेवेशं ज्ञापयेदुत्सवं कुरु ।
सप्तविंशतिनक्षत्र ध्वजारोहणपूर्वकम् ॥ ११ ॥
भेरीमादौ समारभ्य अष्टाविंशद्दिनं भवेत् ।
अङ्कुरार्पणपूर्वं हि पश्चाद्ध्वजं समर्चयेत् ॥ १२ ॥
तद्दिनात्पूर्वरात्रौ तु वृषयागं समाचरेत् ।
प्रतिष्ठादिक्रमेणैव मण्टपञ्च प्रकल्पयेत् ॥ १३ ॥
ध्वजपटं लक्षणञ्चैव कार्पाससितमेव च ।
द्वादशं दशहस्त स्यान्नव हस्तमथापि वा ॥ १४ ॥
ध्वजपटलपञ्चभागं स्यात् शिखरं हस्तमेव च ।
हस्तार्धं पुच्छमेवोक्तं त्रि * * * * पुच्छकम् ॥ १५ ॥
प्। १७४)
तत्पटं पञ्चधा भज्य मध्यभागे वृषं लिखेत् ।
तमूर्ध्वे भस्त्रदेवलमूर्ध्वे च्छत्रचामरम् ॥ १६ ॥
पार्श्वे तु दीप * * * मधमं कुरुमेव च ।
यूपवर्णमिति प्रोक्तं पूर्णकुम्भैरलङ्कृतम् ॥ १७ ॥
श्वेतं रक्तं तथा पुष्पं सर्वालङ्कारमेव च ।
वृषभं श्वेतवर्णाङ्गं सर्वसिद्धिप्रकारयेत् ॥ १८ ॥
कामार्थरक्तवर्णेन आहिचां कृष्णवर्णकम् ।
स्थितां वा शयनञ्चैव ऋषभन्तु लिखेद्बुधः ॥ १९ ॥
शृङ्गौ च रक्तवर्णाभां बालपीतेन शोभितम् ।
नेत्रन्तु कृष्णवर्णञ्च रक्तनीलं तमिश्रमम् ॥ २० ॥
प्। १७५)
सर्वाभरणसंयुक्तं सर्वपुष्पैरलङ्कृतम् ।
शिवाग्रे मण्टपं कुर्यात् गोमयालेपनं तथा ॥ २१ ॥
दर्भमाला समावेष्ट्य मुक्तासृक् दामलम्बितम् ।
तन्मध्ये स्थण्डितं कुर्यान्निद्राकुम्भन्तु स्थापयेत् ॥ २२ ॥
अभितोऽष्टौ पदान्यस्त्वा स्थापयेत्पूर्ववत्क्रमात् ।
तन्मध्ये वृषमावाह्य स्वर्णपुष्पसमन्वितम् ॥ २३ ॥
परितोऽष्टौ पटान्यस्त्वा स्वस्वबीजेन विन्यसेत् ।
उक्षञ्च गोपतीश्चैव शङ्कुकर्णं तथैव च ॥ २४ ॥
तीक्ष्णशृङ्गं तथा नन्दी वृषाणीञ्च पशुस्तथा ।
महोदराक्षमञ्चैव स्वस्वनामेति पूजयेत् ॥ २५ ॥
प्। १७६)
वृषगायत्रिमन्त्रेण वृषकुम्भे न्यसेत्क्रमात् ।
तदग्रे स्थण्डिलं कुर्यात् सितैस्सिकतमेव च ॥ २६ ॥
चतुरश्रं समं कुर्यात् हस्तमात्रेण देशिकः ।
प्राक् सूत्रन्तु सूत्रं स्यादुदक् सूत्रं तथैव च ॥ २७ ॥
ब्रह्मजज्ञानमन्त्रेण मध्यरेखा समालिखेत् ।
नाके सुपर्णमन्त्रेण दक्षिणे तु लिखेद्बुधः ॥ २८ ॥
आप्यायस्वेति मन्त्रेण उत्तरे तु समालिखेत् ।
यो रुद्र इति मन्त्रेण उदक् सूत्रं तथैव च ॥ २९ ॥
इदं विष्ण्विति मन्त्रेण पूर्वरेखासमन्वितम् ।
इन्द्रं वोहोति मन्त्रेण मध्यरेखा समालिखेत् ॥ ३० ॥
प्। १७७)
शिवां भवो तु सम्प्रोक्ष्य कू * प्रादेवापूजयेत् ।
वागीश्वरन्तु वागीशमा * * * * पूजयेत् ॥ ३१ ॥
तन्मध्ये वह्नि संस्थाप्य होमं कृत्वा विचक्षणः ।
पूर्ववदग्निसंस्कार पूजयेद्वृषभं कुरु ॥ ३२ ॥
ब्राह्मणं दक्षिणेऽभ्यर्च्य उत्तरे विष्णुमेव च ।
परिस्तरैस्तु दर्भैश्च पूर्वादीनि परिस्तरेत् ॥ ३३ ॥
प्रोक्षणीमूर्ध्वतस्थाप्यथा प्रणीतपत्रकम् ।
आज्यस्थालीं ततः कुर्यात् चरुस्थालीन्तु स्थापयेत् ॥ ३४ ॥
प्रणीतां प्रोक्षणीञ्चैवाज्यस्थालीं त्वधोमुखम् ।
सृक् स्रुवमुत्तरे स्थाप्य अधोमुखन्तु साधयेत् ॥ ३५ ॥
प्। १७८)
प्रादेशमात्रसमिधा परिधित्रयमेव च ।
समिधाद्वायुपूर्वे तु विष्टरेण समन्वितम् ॥ ३६ ॥
इन्धनं तत्र कुर्वीत अग्निप्रज्वालयेत्क्रमात् ।
आहुतित्रितयं कुर्याद्व्याहृतिं जुहुयात्क्रमात् ॥ ३७ ॥
पञ्चब्रह्मषडङ्गेन जुहुयाद्वै क्रमात्सुधीः ।
वृषगायत्रिमन्त्रेण सर्षपं कवचेन तु ॥ ३८ ॥
आढकं मुद्गमाषञ्च शूलिनं जुहुयात्तथा ।
शिवमन्त्रेण जुहुयात् प्रत्येकन्तु दशाहुतिः ॥ ३९ ॥
जयादिरभ्यधानञ्च राष्ट्रभृच्चक्रमाद्धुनेत् ।
पूर्णाहुतिञ्च शिरसा अग्निबीजमनुस्मरन् ॥ ४० ॥
प्। १२९)
होमान्ते वृषकुम्भस्यात् वृषकुम्भन्तु मूर्तिनाम् ।
तदन्ते भेदमेव स्यात् स्थण्डिलोपरि विन्यसेत् ॥ ४१ ॥
ब्रह्माविष्णुश्च रुद्रश्च अधिदेवाः प्रकीर्तिताः ।
गन्धपुष्पञ्च धूपञ्च दीपञ्चैव निवेद्यकम् ॥ ४२ ॥
अर्चयेद्भेरिदेवं स्यादाचार्यं ताडयेत्क्रमात् ।
ब्रह्मजज्ञानमन्त्रेण प्रथमं ताडयेत्क्रमात् ॥ ४३ ॥
त्र्यम्बकेन मन्त्रेण तृतीयं ताडयेत्क्रमात् ॥ ४४ ॥
आहूय वाद्यकं पश्चात् शुद्धपारशवस्तथा ।
अङ्गपूर्णसमायुक्तं शक्तिं सहितमेव च ॥ ४५ ॥
प्। १८०)
शक्तिहीनं विना कुर्याद्वर्जयेत्तु विचक्षणः ।
नन्दिकेश्वरमावाह्य वाद्यकान् हृदि सम्पुटम् ॥ ४६ ॥
यजनं धूपदीपं स्यात् पुष्पं हस्ते निधापयेत् ।
तत्पुष्पं निक्षिपेद्भेरीं नमस्कृत्वा तु पाद्यकम् ॥ ४७ ॥
सप्त तालविधं प्रोक्तमाचार्यश्शिष्यमेव च ।
अस्त्रदेवं समभ्यर्च्य मध्ये पत्रे तु रुद्रकम् ॥ ४८ ॥
ब्रह्माणं दक्षिणे पत्रे वामपत्रे जनार्दनम् ।
गौरीं मध्यममूले तु सरस्वतीं दक्षिणं तथा ॥ ४९ ॥
लक्ष्मीञ्च वामपत्रे तु तन्मूले तु यजेद्बुधः ।
गणेशं पालिकामध्ये स्कन्ददण्डाग्रमेव च ॥ ५० ॥
प्। १८१)
अनन्तादि शिखण्ड्यन्तपालिकोपरि विन्यसेत् ।
क्षेत्रपालं तथैशान्त्या दण्डमध्ये तु शास्तवत् ॥ ५१ ॥
चन्द्रसूर्यान्तनक्षत्रे दण्डेनैव तु पूजयेत् ।
चण्डेशं दक्षिणे मूले सर्वदेवेन सङ्ग्रहेत् ॥ ५२ ॥
सर्वदेवतमावाह्य अस्त्रेणैव समाचरेत् ।
धूपदीपसमायुक्त सर्वदेवे निवेद्यकम् ॥ ५३ ॥
अस्त्रदेवान्यलिङ्गं बलिपात्रं तथैव च ।
प्रतिमाचन्द्रधारञ्च वृषध्वजसहैव च ॥ ५४ ॥
ग्रामप्रदक्षिणं कुर्यात्सन्धिभेदान् समर्चयेत् ।
दिनदेवतमावाह्य पीठाग्रे वा ध्वजाग्रके ॥ ५५ ॥
प्। १८२)
प्रथमं विघ्नरात्रं स्यात् पैशाचन्तु द्वितीयकम् ।
तृतीयं ब्रह्मरात्रं स्यात् गन्धर्वन्तु चतुर्थकम् ॥ ५६ ॥
पञ्चकं भूतरात्रं स्यात् षष्ठमं गुहरात्रकम् ।
सप्तमम् ऋषिरात्रं स्यादष्टकं नागरात्रकम् ॥ ५७ ॥
नवमं चैन्द्ररात्रं स्याद्दशमं विष्णुरात्रकम् ।
एकादशं रुद्ररात्रं स्यात् द्वादशं शिवरात्रकम् ॥ ५८ ॥
गणरात्रं त्रयोदश्यां चतुर्दशं राक्षसं तथा ।
पञ्चदश * रात्रं स्यात् शक्तिरात्रन्तु षोडशम् ॥ ५९ ॥
विघ्नादि शिवपर्यन्तं पैतृकोत्सवमेव च ।
विघ्नादिचैन्द्रपर्यन्तं सौख्य उत्सवमेवं च ॥ ६० ॥
प्। १८३)
विघ्नादि ऋषिरात्रान्तं * * * तृतीयं भवेत् ।
विघ्नादिभूतपर्यन्तं पार्थिवोत्सवमेव च ॥ ६१ ॥
विघ्नादि ब्रह्मपर्यन्तं पार्थिवोत्सवमेव च ।
विघ्नादिभूतपर्यन्तं सात्विकोत्सवमेव च ॥ ६२ ॥
प्रथमं गणरात्रन्तु अपूपतिलचूर्णकम् ।
शुद्धान्नन्तु निवेद्यं स्याद्विघ्नरात्रं बलिक्षिपेत् ॥ ६३ ॥
शुद्धान्नं त्रिसरान्नञ्च मासयुक्तं दधिप्लुतम् ।
द्वितीयेऽहनि दातव्यं पैशं मन्त्रमुच्चरन् ॥ ६४ ॥
शुद्धान्नं ब्रह्मती सर्षं दधिक्षीरन्तु विश्रमम् ।
तृतीयेऽहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् ॥ ६५ ॥
प्। १८४)
कूसरान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् ।
चतुर्थेऽहनि दातव्यं गन्धर्वमन्त्रमुच्चरन् ॥ ६६ ॥
मुक्तान्नं गुलसंयुक्तं मधुक्षीरं घृतं तथा ।
पञ्चमेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् ॥ ६७ ॥
पायसान्नं घृतञ्चैव कदलीं गुलसंयुतम् ।
षष्ठमेऽहनि दातव्यं स्कन्दं मन्त्रमुदीरितम् ॥ ६८ ॥
शुद्धान्नं घृतसंयुक्तं बृहतीफलमेव च ।
सप्तमेऽहनि दातव्यमृषिमन्त्रमनुस्मरन् ॥ ६९ ॥
शुद्धान्नं मुद्गसंयुक्तं गुलं घृतेन संयुतम् ।
अष्टमेऽहनि दातव्यं नाममन्त्रमनुस्मरन् ॥ ७० ॥
प्। १८५)
शुद्धान्नञ्च घृतं क्षीरं पनसाम्रफलं तथा ।
नवमेऽहनि दातव्यमिन्द्रमन्त्रमनुस्मरन् ॥ ७१ ॥
शुद्धान्नं दधिसंयुक्तं गुलखण्डसमन्वितम् ।
कदलीपनसञ्चाम्रं नारिकेलफलान्वितम् ॥ ७२ ॥
दशमेऽहनि दातव्यं विष्णुमन्त्रमनुस्मरन् ।
माषान्नघृतसंयुक्तं क्षीरन्तु गुलखण्डकम् ॥ ७३ ॥
एकाद * * * कुर्याद्रुद्रमन्त्रमनुस्मरन् ।
उद्धान्नविधिसंयुक्तं बृहतीमूलसंयुतम् ॥ ७४ ॥
द्वादशेऽहनि दातव्यं शिवमन्त्रं बलिं क्षिपेत् ।
कृसरान्नं गुलं सर्पि मधुक्षीरफलं तथा ॥ ७५ ॥
प्। १८६)
त्रयोदशेऽहनि दातव्यं गणानां मन्त्रमुच्चरन् ।
माषान्नं मासमित्युक्तं गुलक्षीरघृतं तथा ॥ ७६ ॥
चतुर्दशेऽहनि दातव्यं राक्षसं मन्त्रमुच्चरन् ।
पायसं घृतसंयुक्तं गुलखण्डसमन्वितम् ॥ ७७ ॥
पञ्चदशेऽहनि दातव्यं शास्त्रमन्त्रमनुस्मरन् ।
दिनदेवतमावाह्य नित्यमेव बलिं क्रमात् ॥ ७८ ॥
ब्रह्मादैशानपर्यन्तं लोकपालबलिं क्षिपेत् ।
शुद्धान्नं घृतसंयुक्तं दधिक्षीरन्तु मिश्रितम् ॥ ७९ ॥
पश्चिमद्वारहर्म्ये तु वास्तुभूतबलिं क्रमात् ॥ ८० ॥
प्। १८७)
ब्रह्मादि नि-ऋ-ऋत्यन्तं वरुणादि प्रदक्षिणम् ।
एतद्बलिक्रमं कुर्यान्नित्यमेव बलिं क्षिपेत् ॥ ८१ ॥
तद्वारे बलि निक्षिप्य वृषभं तत्र पश्चिमम् ।
ज्येष्ठादिविघ्नपर्यन्तं स्वस्वनाम बलिं क्षिपेत् ॥ ८२ ॥
दिनदैवतमावाह्य पीठाग्रे वा बलिं क्षिपेत् ।
तद्वारे तु महालक्षीं गोस्थाने तु सरस्वतीम् ॥ ८३ ॥
भूपे चैव महामोदिमन्त्रं मन्त्रन्तु बलिं क्षिपेत् ।
ईशाने सुन्दरी चैव देविकोष्ठे बलिं क्षिपेत् ॥ ८४ ॥
लिङ्गमेव महापीठं न लिङ्गं विसर्जयेत् ।
जले तु भृगतं कुर्यात् सर्जयेदन्नलिङ्गकम् ॥ ८५ ॥
प्। १८८)
आवाहबलिं कुर्यादुद्वाहनबलिं क्षिपेत् ।
द्वात्रिंशेन बलिं कुर्यात् षोडशं दिनमेव च ॥ ८६ ॥
चतुर्विंशद्बलिं कुर्याद्वादशं दिनमेव च ।
अष्टादश बलिं कुर्यात् सौख्यसेवं विधीयते ॥ ८७ ॥
मनुना कौशिकश्चैव एकाहन्तु बलिक्रमम् ।
बलिसङ्ख्या इति प्रोक्ता उत्सवस्य विधिं शृणु ॥ ८८ ॥
उत्सवं कारयेद्धीमान् पुण्यनक्षत्रमेव च ।
प्रतिष्ठादुत्सवा हीने यथेष्टं मासि वा नयेत् ॥ ८९ ॥
राजा जन्मनि नक्षत्रे सुखप्रीतिकराय च ।
यद्वारे तु महापीठं प्रासादञ्चूर्ध्वमेव च ॥ ९० ॥
प्। १८९)
व्यापिलिङ्गवती * * यजेदुत्सवमेव च ।
प्रतिष्ठादिशिखरं हीने उत्सवं वर्जयेद्बुधः ॥ ९१ ॥
अङ्गोपाङ्गप्रत्यङ्गं परिवारसमन्वितम् ।
प्रासादद्वारपीठानाम् अङ्गमेवमिहोच्यते ॥ ९२ ॥
हीने तु उत्सवे हीने वर्जयेत्तु विचक्षणः ।
प्रारब्धमुत्सवे हीने यथेष्टं मासि वा नयेत् ॥ ९३ ॥
आगतं सहसा कृत्वा पश्चादुत्सवमाचरेत् ।
पूर्वोत्सवविहीने च यथेष्टं मासवान्नयेत् ॥ ९४ ॥
प्रायश्चित्तविधिं कुर्याच्छान्तिहोमं समाचरेत् ॥ ९५ ॥
प्। १९०)
मासनक्षत्रतीर्थान्तं मार्द्रान्तमुत्सवं परम् ।
ग्रामनक्षत्रतीर्थान्तं प्रतिष्ठानक्षत्रमेव च ॥ ९६ ॥
राजा जन्मनि नक्षत्रे यजमानवशाद्बुधः ।
चन्द्रनक्षत्रमित्युक्त सौरसापनतीर्थकम् ॥ ९७ ॥
सर्वमासे प्रकर्तव्यमुत्सवं कारयेत्क्रमात् ।
नित्यनैमित्तिकं काम्यमुत्सवं त्रिविधं भवेत् ॥ ९८ ॥
नित्यं नित्योत्सवं कुर्यान्नैमित्तिकविशेषतः ।
यथेष्टकाम्यमित्युक्तमुत्सवं त्रिविधं भवेत् ॥ ९९ ॥
नित्योत्सवं ततः कुर्यान्नैमित्तिकमथोत्सवम् ।
इष्टमासे तु काम्यार्थमुत्सवं कारयेद्बुधः ॥ १०० ॥
प्। १९१)
नित्योत्सवं विना यत्र महोत्सवं विसर्जयेत् ।
ध्वजं सवाहयित्वा तु वर्जयेत्तु विचक्षणः ॥ १०१ ॥
यजमानेच्छया कुर्याद्यथेष्टं मासि वा नयेत् ।
ध्वजे ध्वजो न कर्तव्यं कर्तव्यं वृषभध्वजम् ॥ १०२ ॥
उद्यत्सोत्सवकं कुर्याद्विष्ट शैवोत्सवो द्विजा ।
विष्णुकल्याणमेवोक्तं शिवाङ्गञ्च समाचरेत् ॥ १०३ ॥
शिवाङ्गं तत्र कुर्वीत विष्णुयागं विनाचरेत् ।
देवानामपि कल्याणे नृपकल्याणं न कारयेत् ॥ १०४ ॥
ग्रामे च नगरे चैव पत्तने राजधानिके ।
सर्वे देवोत्सवं कुर्यादेकस्मिन् एकवास्तुनि ॥ १०५ ॥
प्। १९२)
हरिपृष्टं सुशान्त स्याद्धरपृष्ठन्तु शोभितम् ।
सर्वदेवोत्सवं कुर्यादेकवास्तुबलक्रमम् ॥ १०६ ॥
उत्सवं कारयेद्धीमान् पुष्यमासे तु पुष्यकम् ।
माख्यान्तं माघमासे तु फाल्गुन्यामुत्तरान्तकम् ॥ १०७ ॥
शुक्लपक्षे तृतीये तु रोहिण्यां तं विशेषतः ।
पूर्णे तु मास-ऋक्षे तु समुद्रस्नानमुत्तमम् ॥ १०८ ॥
पूर्वाषा * * * न्न पक्षे तु अश्वा श्व मासके ।
कार्तिके कृत्तिकान्तं वा आर्द्रान्तं मार्गशीर्षके ॥ १०९ ॥
सर्वमासेषु कर्तव्यमार्द्रान्तमुत्सवं परम् ।
विफलार्द्रास्त्वमासे तु सौरमासं प्रशस्तकम् ॥ ११० ॥
प्। १९३)
सर्वोत्सवेन मे वाऽपि सौरसङ्ख्यानमेव च ।
आरम्भं त्रिविधं तेषां केतुरोहणपूर्वकम् ॥ १११ ॥
गरीताडनपूर्वञ्च अङ्कुरार्पणपूर्वकम् ।
अङ्गुरं वृषयागन्तु वृषभन्तु प्रतिष्ठितम् ॥ ११२ ॥
उत्सवाङ्कुरं द्वितीयन्तु र्पोमतु माया ।?
ऋक्षे तु समुद्रस्नानं तीर्थाङ्कुरं तृतीयते ॥ ११३ ॥
यकसर्वेषामुत्तमम् अङ्कुरं त्रिविधं भवेत् ।
नयनं मोक्षणञ्चैव जलाथ वासनं तथा ॥ ११४ ॥
आचार्यः शिल्पहस्तेन नयनोन्मीलनं कुरु ।
शालितण्डुलतन्मध्ये वृषभं स्थाप्यमेव च ॥ ११५ ॥
प्। १९४)
अष्टदिक्कलशे तेषु उक्षां कलशे न्यसेत् ।
पुण्याहं वाचयेत्तत्र होमं कुर्याद्विशेषतः ॥ ११६ ॥
हेमसूपि प्रकारन्तु सुमूहूर्ते विचक्षणः ।
मधुसर्पिं तथा कुर्यान्नयनाल्पशिलां तथा ॥ ११७ ॥
धूपदीपं तथा कुर्याद्धान्यदर्शनसम्भवेत् ।
दर्पणमभिषेकन्तु मुद्गान्नन्तु निवेदयेत् ॥ ११८ ॥
शिल्पन्नन्त्वविसृज्याथ गोमयालेपनं तथा ।
मध्ये समतलं कृत्वा मध्ये स्थण्डिलमेव च ॥ ११९ ॥
नलिनं न्यसेत्तत्र मध्यमे वृषकुम्भकम् ।
अभितः कलशानष्टौ उक्षादीनि क्रमान्यसेत् ॥ १२० ॥
प्। १९५)
होमान्ते नयनोन्मीलं मजसर्पिलोचनं स्पृशेत् ॥ १२१ ॥
दर्शयेद्द्रव्यसंयुक्तमभिषेकं तर्पणं तथा ।
दर्पणतलाधि वासञ्च प्रतिष्ठा कारयेद्बुधः ॥ १२२ ॥
शिवाग्रे मण्टपं कुर्यात् गोमयालेपनं तथा ।
मण्डपे स्थण्डिलं कृत्वा दृष्टद्रोणैश्च शालिभिः ॥ १२३ ॥
तन्मध्ये स्थण्डिलं कृत्वा स्थापयेद्वृषभध्वजम् ।
कौतुकं बन्धयेद्धीमान् स्वर्णराजससूत्रकम् ॥ १२४ ॥
अथवा कार्पससूत्रं स्यात् बन्धयेद्वृषशृङ्गकौ ।
पुण्याहं वाचयेत्तर कौतुकं बन्धयेत्क्रमात् ॥ १२५ ॥
प्। १९६)
त्रियम्बकेन मन्त्रेण दक्षां सूत्रन्तु बन्धयेत् ।
शयनं स्थण्डिलं कुर्यात्तदग्रे वृषकुम्भके ॥ १२६ ॥
अभितः क्रवशानष्टौ इक्ष्वादीनि क्रमान्यसेत् ।
तदग्रे अग्निसंस्थाप्य होमयेत्पूर्ववत्कुरु ॥ १२७ ॥
तदग्रे भेरिदेवं स्यात् स्थण्डिलं तत्र कारयेत् ।
पश्चिमे अस्त्रदेवन्तु शालिभि स्थण्डिलं क्रमात् ॥ १२८ ॥
लाजपुष्पैरलङ्कृत्य दर्भमाला समन्वितम् ।
अग्निकार्योक्तमार्गेण होमयेत्तु विचक्षणः ॥ १२९ ॥
प्रोक्षणं प्रणीतापात्रम् आज्यस्थालीन्तु विन्यसेत् ।
उत्तरे आसनं कल्प्य अधोमुखन्तु साधयेत् ॥ १३० ॥
प्। १९७)
प्रोक्षणीपात्रमादाय तोयं कुशाक्षतैर्युतम् ।
प्रादेशं कूर्चसहितं त्रिभिः स्पर्शतलं तथा ॥ १३१ ॥
आज्यस्थालीं प्रणीताञ्च ऊर्ध्वमुखं पात्रमेव च ।
प्रोक्षयेत्तु कुशाग्रेण प्रोक्षणीन्तु जलं तथा ॥ १३२ ॥
प्रणीतापात्रं जलं पूर्य कुशपुष्पाक्षतैर्युतम् ।
जनार्दनन्तु आवाह्य उत्तरे स्थाप्यमेव च ॥ १३३ ॥
दक्षिणे तु यजेद्ब्रह्मा कूर्चं पुष्पाक्षतान्वितम् ।
प्रादेशा कूर्चसहितं त्रिस्पर्शनं जलं तथा ॥ १३४ ॥
अग्निसंस्कारमेवन्तु आज्यसंस्कारमेव च ।
आज्यस्थालीं घृतं पूर्य कूर्चप्रादेशमात्रतः ॥ १३५ ॥
प्। १९८)
त्रिप्रादेशं स्पर्शनं कुर्याद्विसर्जेदग्निमेव च ।
दर्भाग्निं प्रदक्षिणं कुर्यादाज्यसंस्कारमेव च ॥ १३६ ॥
समिधाज्यचरुं लाजा माषाशालियवास्तथा ।
तिलसर्षपदुग्धादि गुलखण्डदशस्मृतः ॥ १३७ ॥
परिस्तरेणां परिधिं विष्टरत्रयमेव च ।
तदूर्ध्वं समिधा कृत्वा परिषेचनमन्तरे ॥ १३८ ॥
अग्निसंस्कारमेवन्तु आज्यसंस्कारमेव च ।
समिधा सद्यमन्त्रेण आज्यं वामेन हूयते ॥ १३९ ॥
अघोरेण चरुं हुत्वा लाजां तत्पुरुषेण च ।
तिलमीशानमन्त्रेण सर्षपं कवचेन तु ॥ १४० ॥
प्। १९९)
मुद्गमाषयवाश्चैव शिवमन्त्रेण भूयते ।
वृषमूलञ्च गायत्रीं शतमष्टोत्तरं शतम् ॥ १४१ ॥
द्रव्यते व्याहुतिं हुत्वा स्विष्टमग्नेति मन्त्रतः ।
जयादीरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ १४२ ॥
पूर्णाहुतिञ्च शिरसा अग्निबीजमनुस्मरन् ।
ताम्बूलं दापयेत्पश्चात् मूर्तिं वृषभकुम्भके ॥ १४३ ॥
मन्त्रन्यासं ततः कुर्याद्वृषमूलेन मन्त्रवित् ।
भेरीघोषं ततः कुर्यात् आवाहनमथोच्यते ॥ १४४ ॥
आहूय वाद्यकान् पश्चात् शुद्धपारशवस्तथा ।
दीक्षितानान्तु सर्वेषाम् आचार्यं ताडयेत्क्रमात् ॥ १४५ ॥
प्। २००)
नववस्त्रोत्तरीयञ्च यज्ञोपवीतमेव च ।
सर्वाभरणसंयुक्तं सर्वपुष्पैरलङ्कृतम् ॥ १४६ ॥
पुष्पाञ्जलिसमायुक्तं गौरीयोषसमन्वितम् ।
ताडयेन्नव तालं स्यादाचार्यश्शिष्य एव च ॥ १४७ ॥
आन्त्रदेवन्तु सम्पूज्य देवतावाहनं भवेत् ।
शिवादिचण्डपर्यन्तम् आवाहनविधिं कुरु ॥ १४८ ॥
हविर्न्निवेदयेद्धीमान् सर्वे देवन्निवेदयेत् ।
बलिपात्रसमायुक्तमन्नलिङ्गास्त्रमेव च ॥ १४९ ॥
ध्वजं चण्डेश्वरञ्चैव ग्रामप्रदक्षिणं तथा ।
अन्येषकं समादाय ध्वजपटं बन्धयेत्क्रमात् ॥ १५० ॥
प्। २०१)
सन्धिदेवतमावाह्य दिनदेवसमन्वितम् ।
अन्तर्बलिं क्रमं पूर्वं यागान्ते वा बलिं क्षिपेत् ॥ १५१ ॥
सर्वमभ्यर्चयेद्धीमान् पश्चाद्वास्तुबलिं क्षिपेत् ।
ग्रामप्रदक्षिणं कृत्वा महापीठे बलिं क्षिपेत् ॥ १५२ ॥
ध्वजपटं स्थलिका चैव दण्डमूले सुसंस्थितम् ।
दण्डलक्षणमेवोक्तं दारुजं वाऽथ कारयेत् ॥ १५३ ॥
असनं खादिरञ्चैव बिल्वं चम्पकमेव च ।
देवदारुकसंयुक्तं क्रमुकं खण्डदण्डकम् ॥ १५४ ॥
मयूकम् अर्जुनञ्चैव कृष्णवृक्षसमन्वितम् ।
मुनिवृक्षसमायुक्तं क्रमुकं वेणुदण्डकम् ॥ १५५ ॥
प्। २०२)
वक्रं भिन्नञ्च सुषिरं कृमिकोटरमेव च ।
अन्तस्सारपुमानञ्च वह्निस्सारन्त्ति मेव च ॥ १५६ ॥
सूप्यन्तं वा गुलान्तं वा उक्षस्थलसमन्तु वा ।
तद्गीवस्य समं वाऽपि गोपुरस्य समन्तु वा ॥ १५७ ॥
त्रयस्त्रिंशस्तमेवोक्तं पञ्चविंशति हस्तकम् ।
अथवा हस्तमेवोक्तं दण्डयामं विधीयते ॥ १५८ ॥
क्षीरवृक्षन्तु सङ्ग्राह्य यष्टिं कृत्वा विचक्षणः ।
चतुर्हस्तप्रमाणेन त्रितायन्तु समन्वितम् ॥ १५९ ॥
अग्न्यङ्गुलघनं प्रोक्तं तं वषट्कारमेव च ।
द्वयं सुषिरसंयुक्तं मध्यचन्द्रमथापि वा ॥ १६० ॥
प्। २०३)
उपदण्डप्रमाणेन वेणुदण्डं विधीयते ।
नवतालोत्तमं कुर्यात् सप्ततालन्तु मध्यमम् ॥ १६१ ॥
षट्तालं पञ्चतालं वा कन्यसम्मपदण्डकम् ।
यष्टिबन्धं समायुक्तं दर्भमालासमन्वितम् ॥ १६२ ॥
अयसा वलयं वाऽपि बन्धयेदुपदण्डकम् ।
कार्पाससूत्ररज्जुं वा वलयद्विगुणमेव च ॥ १६३ ॥
कनिष्ठाङ्गुलिपरिणां दण्डमूला तथाश्रितम् ।
भूमिसम्प्रोक्षणं कुर्यात् खानयेत्पृथिवीं ततः ॥ १६४ ॥
त्रिहस्तन्तु प्रमाणेन द्विहस्तं खानयेत्क्रमात् ।
दण्डन्तु स्थापितं कुर्याच्छालितण्डुलकूर्मकम् ॥ १६५ ॥
प्। २०४)
रत्नजं रजतञ्चैव कूर्मासनन्तु लोहजम् ।
पञ्चलोहसमायुक्त * * शूले तु योजयेत् ॥ १६६ ॥
पुण्याहं वाचयेत्तत्र सुमुहूर्ते विचक्षणः ।
वेदिलक्षणमेवोक्त शिलायामिष्टकावथ ॥ १६७ ॥
अथवा मृत्तु सङ्गृह्य त्रिमेखलसमन्वितम् ।
हस्तयामन्तु विस्तारमुत्सेधं हस्तमानकम् ॥ १६८ ॥
रत्निमात्रसमुत्सेधं मुष्टिमात्रमथापि वा ।
विस्तारसमुत्सेधं हस्तमथोत्तमम् ॥ १६९ ॥
चतुर्विंशाङ्गुलिं हस्तं मात्राङ्गुलेन कारयेत् ।
वेदिकालक्षणं प्रोक्तं दण्डमूले विचक्षणम् ॥ १७० ॥
प्। २०५)
शिल्पितं विसर्जयेद्धीमान् गोमयालेपनं तथा ।
कौतुकं बन्धयेत्तत्र दण्डमध्ये सुबन्धकम् ॥ १७१ ॥
विनायकं पूरयेत्तत्र पुण्याहं वाचयेत्ततः ।
अथवा सलयं रज्जु द्विगुणं मूलमाश्रितम् ॥ १७२ ॥
दर्भमालासमायुक्तं पुष्पमालाञ्च शोभितम् ।
ध्वजपटं बन्धयेद्धीमान् किङ्किणी पुष्पशोभितम् ॥ १७३ ॥
वृषकुम्भन्तु मूर्ति स्याद्धूपदीपसमन्वितम् ।
सुमुहूर्ते तु यत्कुर्या ध्वजारोहणमेव च ॥ १७४ ॥
स्तोकस्तोकेन संयुक्तं बन्धयेत्तु दृढं बुधः ।
विपरीतं परोगेण प्रायश्चित्तं विधीयते ॥ १७५ ॥
प्। २०६)
सर्वदेवतमावाह्य दण्डमूले तु योजयेत् ॥ १७६ ॥
लोकपालान् समभ्यर्च्य दिक्तालं बन्धयेत्क्रमात् ।
नृत्तगीतसमायुक्तं सर्वघोषसमन्वितम् ॥ १७७ ॥
मुद्गान्नन्तु निवेद्यं स्यात्पायसान्नं निवेदयेत् ।
नव पिण्डं ततः कुर्याद्दिग् दिक्षु च मेव हि ॥ १७८ ॥
गर्भोत्पत्तिसमायुक्तं प्रथमं गर्थदापयेत् ।
अमङ्गलि कन्यकाचैव अपस्मारदृढं तथा ॥ १७९ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
शिवाग्रे मण्टपं कुर्यात् गोमयेन तु लेपयेत् ॥ १८० ॥
प्। २०७)
उमाञ्च देवदेवस्य कौतुकं बन्धयेत्क्रमात् ।
स्वश्रं रतं वापि अथवा कार्पासमेव च ॥ १८१ ॥
त्र्यम्बकेन मन्त्रेण रक्षाबन्धनकर्मणि ।
स्थलिकां तण्डुले चैव तन्मध्ये तन्तु रक्षकम् ॥ १८२ ॥
परिचारकहस्तेन प्रकारे तु प्रदक्षिणम् ।
नववस्त्रसमायुक्तं सर्वदोषसमन्वितम् ॥ १८३ ॥
सर्वस्याग्रे स्थितं कुर्यात् पुण्याहं वाचयेत्क्रमात् ।
गन्धपुष्पादिभिः पूज्यमघोरेण देशिकम् ॥ १८४ ॥
त्र्यम्बकेन मन्त्रेण रक्षासूत्रं प्रबन्धयेत् ।
उमासहितमेवोक्तं चन्द्रशेखरमेव च ॥ १८५ ॥
प्। २०८)
एकरूपं द्विबेरं वा त्रिबेरं वा विशेषतः ।
षोडश प्रतिमायाञ्च कौतुकं बन्धयेत्क्रमात् ॥ १८६ ॥
यागशालां ततः कुर्यात् कूटं वा मण्टपं तथा ।
ऐन्द्रे च पावके वाऽथ यमो वै राक्षसेऽपि वा ॥ १८७ ॥
वायुसोमस्तथैशान्यां यागमण्टपमेव च ।
मण्टपे समलं कुर्यात्तन्मध्ये वेदिकां कुरु ॥ १८८ ॥
रत्निमात्रं समुत्सेध दर्पणोदरसन्निभम् ।
हस्तद्वयन्तु विस्तारमुपवेदिसमायुतम् ॥ १८९ ॥
नवाग्निमुत्तमञ्चैवं मध्याग्निं मध्यमं भवेत् ।
एकाग्निमधमं प्रोक्तं वृत्तं वा चतुरश्रकम् ॥ १९० ॥
प्। २०९)
एकाग्निं वाऽथ कुर्वीत पूर्वपश्चिममेव च ।
यद्वाराभिमुखं लिङ्गं तद्वारं कुम्भपूजयेत् ॥ १९१ ॥
तदग्रे अग्निकुण्डं वा होमयेत्तु विचक्षणः ।
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव च ॥ १९२ ॥
चतुस्तम्भसमायुक्तं चतुर्द्वारसमन्वितम् ।
युगतोरणसंयुक्तं दर्भमालासमन्वितम् ॥ १९३ ॥
गात्रवेष्टनसंयुक्तं वितानध्वजसमायुतम् ।
वेदिकास्थण्डिलं कुर्यात् अष्टद्रोणैश्च शालिभिः ॥ १९४ ॥
तदर्धं तण्डुलं प्रोक्तं तदर्धन्तु तिलैरपि ।
तन्मध्ये नलिनं लिख्य अष्टपत्रं स कर्णिकम् ॥ १९५ ॥
प्। २१०)
मध्ये सदाशिवं कुम्भं वर्धनीकृतन्तु तथोत्तरे ।
अष्टविद्येश्वराह्येते पूर्वादिक्रमविन्यसेत् ॥ १९६ ॥
शिवकुम्भं ततोद्धृत्य शिवमन्त्रमनुस्मरन् ।
शिवशक्तिं वर्धनीं पूज्य पराशक्तिसमन्वितम् ॥ १९७ ॥
अष्ट विद्येश्वरा ह्येते तत्तत्स्वनाममन्त्रकैः ।
द्वारकुम्भं समादाय पूर्वादीशान्तमुच्यते ॥ १९८ ॥
प्राग्भूतं कुम्भं तदेकाग्निकुम्भाक्षिण्यवैदेहं नै-ऋत्यदाग्निम् ।
वारुण्यषट्कं तथैश्विन्यवायौ सोमे युगस्यात्रिः कुम्भमीशे ॥ १९९ ॥
प्। २११)
तत्तत्स्थ नाममन्त्रेण द्वारकुम्भं समर्चयेत् ।
सर्वदेवतमावाह्य गन्धपुष्पादिनाऽर्चयेत् ॥ २०० ॥
धूपदीपसमायुक्तं होमं कृत्वा विचक्षणः ।
पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात् ॥ २०१ ॥
कौतुकमग्निकुण्डञ्च प्रति प्रति विशेषतः ।
कुण्डसंस्कारमेवोक्त निर्मलज्वालमेव च ॥ २०२ ॥
अग्निकार्यविधिं प्रोक्तं प्रतिकुण्डन्तु होमयेत् ।
आचार्यशिष्यस्तैर्युक्तं होमं कुर्याद्विचक्षणः ॥ २०३ ॥
पालाशोदुम्बरञ्चैव अपामार्गोपप्लक्षका ।
बिल्वञ्च खादिरञ्चैव न्यग्रोधं वह्निमेव च ॥ २०४ ॥
प्। २१२)
वैकङ्कतीञ्च काश्मीरं सम्मित्थ समुदाहृतम् ।
परिस्तरेण दर्भाणां परिधित्रयमेव च ॥ २०५ ॥
पूर्वे ऊर्ध्व समीधाय द्वयमिष्टरमेव च ।
ब्रह्माणं दक्षिणेऽभ्यर्च्य उत्तरे तु जनार्दनम् ॥ २०६ ॥
परिषेचनं ततः कुर्यात् प्रोक्षणं पात्रमेव च ।
प्रणीतापात्रमादाय जनार्दनं पूजयेत्क्रमात् ॥ २०७ ॥
कुण्डञ्च आज्यं सम्प्रोक्तं स्वाहासहितमेव च ।
होमान्ते तु बलिं कुर्यात् मेखलोपरि विन्यसेत् ॥ २०८ ॥
तत्तत्स्वनाममन्त्रेण लोकपाल बलिं क्षिपेत् ।
बहिर्बलिविधिं कुर्यात् अन्तर्बलिमथाचरेत् ॥ २०९ ॥
प्। २१३)
कुण्डपार्श्वे पावकञ्च अन्तर्बहिर्बलिं क्षिपेत् ।
प्रथममष्टनागञ्च द्वितीयं द्वादशादिकम् ॥ २१० ॥
नागादिबलिनिक्षिप्य पूर्णाहुतिमथाचरेत् ।
अग्निमन्त्रमनुस्मृत्य स्वाहेति इति योजयेत् ॥ २११ ॥
अग्निमूर्तिसमावाह्य कुम्भमध्ये सुयोजयेत् ।
हविर्निवेदयेत्तत्र सर्वदेवनिवेद्यकम् ॥ २१२ ॥
होमान्ते भेरिघोषं स्यान्नवतालविधं भवेत् ।
आहूय पाद्यकं पश्चात् आचार्यश्शिष्य एव च ॥ २१३ ॥
यागान्ते भेरिघोषं स्यात् वास्तुभूतबलिं क्षिपेत् ।
प्रथममन्तर्बलिं कुर्यात् द्वितीयं दिनदेवता ॥ २१४ ॥
प्। २१४)
ध्वजानि बलिपीठान्तं बलिभोज्यक्रमं शृणु ।
उमास्कन्देश्वरं देवं ग्रामप्रदक्षिणं तथा ॥ २१५ ॥
रथे वा शिबिके वाऽपि स्थापयेद्देवमेव च ।
शङ्खघोषसमायुक्तं ब्रह्मघोषसमन्वितम् ॥ २१६ ॥
सर्ववाद्यसमायुक्तं श्रोत्रमङ्गलवाचकैः ।
छत्रन्तु चामरौ चैव व्यजनं ध्वजमेव च ॥ २१७ ॥
सर्वं दीपसमायुक्तं यत्त्रदीपमनन्तरे ।
सर्वभक्तजनानान्तु नृपतीन् ब्रह्ममेव च ॥ २१८ ॥
आचार्यो दक्षिणे पार्श्वे नृपतिर्वामपार्श्वके ।
मध्यमं रुद्रकन्यायां गान्धर्वन्तु शिवाग्रके ॥ २१९ ॥
प्। २१५)
ग्रामप्रदक्षिणं कुर्यात् आस्थानमण्डपं तथा ।
पाद्याचमनं चार्घ्य धूपदीपसमन्वितम् ॥ २२० ॥
आरात्रिकमर्चयेद्धीमान् भस्मानं दापयेद्बुधः ।
दर्पणञ्चामरञ्चैव व्यजनं छत्रमेव च ॥ २२१ ॥
भस्म सन्तापनं कुर्यात् नृपभक्तजनान्वितम् ।
नालिकेरसमायुक्तं पनसं कदलीफलम् ॥ २२२ ॥
निवेदयेत्तदा मन्त्री ताम्बूलन्तु निवेदयेत् ।
तद्दिनन्तु समारभ्य यज्ञं सप्तदिनं भवेत् ॥ २२३ ॥
तद्दिनात्सप्तदिवसे तैलाभ्यङ्गी न कर्मणि ।
आस्थानमण्टपं कुर्यात् गोमयालेपने शुभे ॥ २२४ ॥
प्। २१६)
स्थण्डिलं तत्र कुर्वीत अष्ट द्रोणैश्च शालिभिः ।
तन्मध्ये तैलसंस्थाप्य पूर्वाक्षतसमन्वितम् ॥ २२५ ॥
पुण्याहं वाचयित्वा तु तैलं शिरोर्पणं तथा ।
दूर्वाक्षतसमायुक्तं मूर्ध्नि निक्षेपयेद्बुधः ॥ २२६ ॥
अस्त्रभेर्यादिसंयुक्त तैलाभ्यङ्गनकं तथा ।
स्नपनं कारयित्वा तु पञ्चाशत्पञ्चविंशतिः ॥ २२७ ॥
शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् ।
मुक्ताभरणसंयुक्तं श्वेतचन्दनलेपितम् ॥ २२८ ॥
बहुनैवेद्यसंयुक्तम् उपदंशसमन्वितम् ।
शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् ॥ २२९ ॥
प्। २१७)
मुक्ताभरणसंयुक्तं श्वेतचन्दनलेपितम् ।
बहुनैवेद्यसंयुक्तम् उपदंशसमन्वितम् ॥ २३० ॥
ताम्बूलन्तु निवेद्यस्यात् धूपदीपसमन्वितम् ।
इत्येवं लक्षणैर्युक्ता नारी पुंसा विवर्जयेत् ॥ २३१ ॥
अङ्गाल्याय समायुक्तं हस्ताल्प्याय समन्वितम् ।
अभिनिर्याय संयुक्तं तालविन्दालसंयुतम् ॥ २३२ ॥
सर्वालङ्कारसंयुक्तशुद्धनृत्तं स गेयकम् ।
एतल्लक्षणसंयुक्तं गान्धर्वं समुदाहृतम् ॥ २३३ ॥
न दीक्षितेन यो नृत्तं दोषमेवं प्रकीर्तितम् ।
तद्दोषसमनार्थाय स्नपनं पञ्चविंशतिः ॥ २३४ ॥
प्। २१८)
लिङ्गे वा कौतुके वाऽपि गन्धपुष्पादिनार्चयेत् ।
शुद्धनृत्तादिना पूर्वं निशायामधिवासयेत् ॥ २३५ ॥
मण्टपस्योत्तरे देशे स्थण्डिलं शालिना कुरु ।
शयनं कल्पयेत्तत्र अजातीनि च कल्पयेत् ॥ २३६ ॥
तन्मध्ये रुद्रनारीणां ममामेष्याह तव स्मृतम् ।
शाययेत्कौतुकं बध्वा स्वर्णसूत्रन्तु सूत्रयेत् ॥ २३७ ॥
नर्तको मर्दकश्चैव गायको वंशकस्तथा ।
मौनको वाद्यकञ्चैव निशायामधिवासयेत् ॥ २३८ ॥
स्थण्डिलं तत्र कुर्वीत चतुर्द्रोणैश्च शालिना ।
तदर्धे स्थण्डिलैश्चैव तदर्धैश्च तिलैरपि ॥ २३९ ॥
प्। २१९)
नवभिः कलशान् स्थाप्य नवशक्तिसमन्वितम् ।
स कूर्चान् सपिधानांश्च स वस्त्रैःपल्लवैर्युतम् ॥ २४० ॥
गन्धपुष्पादिनाऽभ्यर्च्य धूपदीपसमन्वितम् ।
प्रातःकाले समुद्धृत्य शौचाचमनपूर्वकम् ॥ २४१ ॥
दन्तशुद्धिसमायुक्तं स्नानं कुर्याद्विशेषतः ।
नवभिः कलशैस्थाप्य दीक्षामन्त्रमनुस्मरन् ॥ २४२ ॥
गन्धपुष्पादिनाऽभ्यर्च्य वस्त्राभरणं ददेत् ।
हृदयेन तु मन्त्रेण पुष्पं शिरसि विन्यसेत् ॥ २४३ ॥
हस्ते पुष्पं विनिक्षिप्य पुष्पञ्च पतिते यथा ।
तन्नामं वाचयेन्नित्यं रुद्रनारी यथाक्रमम् ॥ २४४ ॥
प्। २२०)
पश्चात्प्रदक्षिणं कुर्यादालयन्तु प्रवेशयेत् ।
विघ्नेशञ्च नमस्कृत्वा फलपुष्पहविर्ददेत् ॥ २४५ ॥
गङ्गासरस्वती चैव श्री देवीन्तु समर्चयेत् ।
गन्धपुष्पहविर्दत्वा ताम्बूलञ्च प्रदापयेत् ॥ २४६ ॥
मध्याह्ने पायसान्नन्तु रुद्रनार्या सुभोजनम् ।
ततः प्रकरनारीणां प्रविशेन्मण्टपं प्रति ॥ २४७ ॥
ईशानादि समारभ्य वास्तुदेवान् सुपूजयेत् ।
सायङ्काले बलिं दद्यात् मण्टपस्याधिदेवता ॥ २४८ ॥
मण्टपस्य तु तन्मध्ये स्थण्डिलं वाऽनिलां कुरु ।
तन्मध्ये मुखं स्थाप्य गन्धपुष्पादिनाऽर्चयेत् ॥ २४९ ॥
प्। २२१)
आच्छाद्य हतवस्त्रेण हविष्यन्तु प्रदापयेत् ।
नन्दिकेश्वरमभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ॥ २५० ॥
प्रथममात्मशुद्धिश्च द्वितीयं करशोधनम् ।
तृतीयं वंशतालाख्यम् ओङ्कारगणमुदाहृतम् ॥ २५१ ॥
चतुर्थं गानशुद्धिश्च पञ्चमं मुखाद्यकम् ।
षष्ठकं वाद्यकैर्युक्तं सप्तमं पुष्पमोक्षमम् ॥ २५२ ॥
अष्टमं मणिबन्धञ्च नवरम्भा च भावयेत् ।
दशमं नृत्तसम्पूर्णम् इत्येते नृत्तलक्षणम् ॥ २५३ ॥
देवस्य दक्षिणे भागे देशिकस्सुखमास्थितः ।
देवस्योत्तरे देशे नृत्तस्य सुखमास्थितौ ॥ २५४ ॥
प्। २२२)
देवस्य पश्चिमे भागे परिचारकसुस्थितः ।
नर्दको मर्दकैश्चैव दक्षिणेन तु संस्थितौ ॥ २५५ ॥
गायको वंशकश्चैव उत्तरेण तु संस्थितौ ।
पूर्वे विष्टरसङ्कल्प्य समिधाहुतिमाचरेत् ।
समिधा सद्यमन्त्रेण आज्यं वाऽनेन मन्त्रकैः ॥ २५७ ॥
अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु ।
तिलमीशानमन्त्रेण सर्षपं कवचेन तु ॥ २५८ ॥
मुद्गमाषञ्च शालीनां नेत्रमन्त्रेण हूयते ।
पायसं गुलखण्डञ्च शिवमन्त्रेण हूयते ॥ २५९ ॥
प्। २२३)
प्रति प्रति तथा कुर्यात् पुनः पुण्याहमाचरेत् ।
त्र्यम्बकेन मन्त्रेण कौतुकन्तु नटेश्वरम् ॥ २६० ॥
शक्तिन्तु वामहस्तेन कौतुकं बन्धयेत्सुधीः ।
कौतुकम् अस्त्रदेवानां मृगं वाद्यन्तु कौतुकम् ॥ २६१ ॥
धूपदीपसमायुक्तम् आरात्रिकेनमर्चयेत् ।
सुमुहूर्ते विशेषेण बन्धयेत्कौतुकं हृदा ॥ २६२ ॥
ब्राह्मणान् भोजयेत्तत्र चतुर्वेदसमन्वितान् ।
नृत्तगीतञ्च वाद्यन्तु पुराणं कथितं क्रमात् ॥ २६३ ॥
अपूपं निवेदयेद्धीमान् बहुनैवेद्यसंयुतम् ।
निवेदयेत्ततो मन्त्री ताम्बूलन्तु निवेदयेत् ॥ २६४ ॥
प्। २२४)
धूपदीपसमायुक्तमारात्रिकेनचार्चयेत् ।
छत्रञ्च चामरञ्चैव दर्पणं दर्शयेत्क्रमात् ॥ २६५ ॥
भस्मशेषन्तु नृपति भक्तानां दापयेत्सुधीः ।
नववस्त्रैरलङ्कृत्य कौतुकं पूर्ववत्क्रमात् ॥ २६६ ॥
सर्वाभरणसंयुक्तं मुक्ताभरणभूषितम् ।
श्वेतपुष्पैरलङ्कृत्य श्वेतचन्दनलेपितम् ॥ २६७ ॥
नीलोत्पलसमं पुष्पं न भूतो न भविष्यति ।
स्थण्डिलप्रभसंयुक्तं बिम्बप्रभसमन्वितम् ॥ २६८ ॥
हर्म्यप्रदक्षिणं कुर्यात् आस्थानमण्टपं स्थितम् ।
धूपदीपसमायुक्तं नीराजनं विशेषतः ॥ २६९ ॥
प्। २२५)
भस्मन्तु दापयेत्कृत्वा छत्रचामरदर्शयेत् ।
नृपती भक्तजनानान्तु शेषभस्मन्तु दापयेत् ॥ २७० ॥
प्रातःकाले समारभ्य गन्धोत्सवविधिक्रमम् ।
आचार्यस्नानमेवन्तु प्रतिस्नानं समाचरेत् ॥ २७१ ॥
चित्रवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् ।
देवाग्रे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ २७२ ॥
तन्मध्ये नलिनं लिख्य त्रिपादीन् तत्र विन्यसेत् ।
स्थालिका तण्डुलैः पूर्य कृष्णगन्धसमन्वितम् ॥ २७३ ॥
कस्तूरीञ्चैव कर्पूर कृ * गन्धन्तु मिश्रितम् ।
शङ्खं दुन्दुभिनिर्घोषैः स्तोत्रमङ्गलवाचकैः ॥ २७४ ॥
प्। २२६)
ग्रामप्रदक्षिणं कुर्यात् प्रविश्य स्थानमण्डपम् ।
देवसन्निधिसम्प्राप्ते होमं कृत्वा विशेषतः ॥ २७५ ॥
पूर्ववदग्निसंस्थाप्य अग्निकार्योक्तमाचरेत् ।
पुण्याहं वाचयेद्धीमान् होमं कृत्वा विचक्षणः ॥ २७६ ॥
सर्वगन्धसमायुक्तं कृष्णगन्धप्रधानतः ।
होमान्ते कृष्णगन्धं स्यात् लेपयेत्तु नटेश्वरम् ॥ २७७ ॥
शक्तिं शिवं नटं प्राप्य सुमुहूर्ते विचक्षणः ।
ब्राह्मणान् भोजयेत्तत्र स्वस्वसूत्र समन्वितम् ॥ २७८ ॥
अस्त्रदेवश्च भेरि स्यामृदवाद्यं ताडयेत्ततः ।
मूलबेरसुगन्धं स्यात् परिवारसमन्वितम् ॥ २७९ ॥
प्। २२७)
योगेश्वरञ्च देवानां कृष्णगन्धन्तु दापयेत् ।
चतुर्वेदं जपं कृत्वा भूसुरान् भोजयेत्क्रमात् ॥ २८० ॥
शुद्धनृत्तं विशेषेण गीतवाद्यसमन्वितम् ।
गेयन्तु दर्शनं प्राप्य कन्यादर्शनकं भवेत् ॥ २८१ ॥
भेरीन्तु ताडयेत्कृत्वा आचार्यं हस्तमेव च ।
गन्धद्वारेति मन्त्रेण ताडयेत्तु विशेषतः ॥ २८२ ॥
आहूय वाद्यकान् पश्चात् गन्धपुष्पन्तु निक्षिपेत् ।
पुष्पाञ्जलिं नमस्कृत्वा वाद्यकान् ताडयेत्क्रमात् ॥ २८३ ॥
सप्ततालविधिं प्रोक्तमाचार्यश्शिष्यमेव वा ।
नन्दिमन्त्रसमुच्चार्य मृदवाद्यन्तु ताडयेत् ॥ २८४ ॥
प्। २२८)
आचार्यं ताडयेत्कुर्या वाद्यकान् दाडयेत्क्रमात् ।
झल्लरीमुखञ्चैव पटहं मर्दलं तथा ॥ २८५ ॥
महानाट्यसमायुक्तं महाघोषसमन्वितम् ।
एवं सप्तविधं कुर्यात् महानाट्यं तथैव च ॥ २८६ ॥
देवदेवं नमस्कृत्वा पाद्याचमनमेव च ।
धूपदीपसमायुक्तं नीराजनं विशेषतः ॥ २८७ ॥
भस्मन्तु दापयेत्कुर्याद्दर्पणं दर्शयेत्क्रमात् ।
छत्रञ्च चामरौ चैव व्यजनन्तु क्रमात्सुधीः ॥ २८८ ॥
शेषागन्धसमायुक्तभूपतिश्च विशेषतः ।
सर्वभक्तजनानान्तु सर्वेषां गन्धमेव च ॥ २८९ ॥
प्। २२९)
सर्वभक्तजनानान्तु सर्वेषां गन्धमेव च ।
महाहविर्निवेद्यस्यात्ताम्बूलन्तु निवेदयेत् ॥ २९० ॥
धूपदीपसमायुक्तमारात्त्रिकन्तु मर्चयेत् ।
सर्वपुष्पैरलङ्कृत्य सर्वयोषसमन्वितम् ॥ २९१ ॥
शङ्खनादसमायुक्तं दुन्दुभिर्मर्दलान्वितम् ।
पुष्पप्रभसमायुक्तं चित्रप्रभसमन्वितम् ॥ २९२ ॥
रथे वा शिबिकायां वा छत्रदीपसमन्वितम् ।
सप्तगृहं ततः कुर्यात् प्रविश्यास्थानमण्टपम् ॥ २९३ ॥
पाद्यमाचमनं चार्घ्यं धूपदीपसमन्वितम् ।
नीराजनं ततः कुर्यात् भस्मन्तु दापयेत्क्रमात् ॥ २९४ ॥
प्। २३०)
नलिकेरसमायुक्तं कदलीपनसं तथा ।
ताम्बूलं दापयित्वा तु दर्पणं दर्शयेत्क्रमात् ॥ २९५ ॥
छत्रञ्च चामरञ्चैव गीतवाद्यसमन्वितम् ।
स्नपनं कारयित्वा तु पश्चाच्च पञ्चविंशतिः ॥ २९६ ॥
स्नपनं कारयित्वा तु पूर्ववत्परिकल्पयेत् ।
तालचूर्णं सकृच्चूर्णम् उदकं ग्राह्य बुद्धिमान् ॥ २९७ ॥
अभिषेकं तत्र कुर्वीत स्नपनं कारयेत्क्रमात् ।
पुण्याहं वाचयेत्तत्र वेदध्वनि समन्वितम् ॥ २९८ ॥
शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् ।
श्वेतचन्दनसंयुक्तं कर्पूरमेव मिश्रितम् ॥ २९९ ॥
प्। २३१)
श्वेतयज्ञोपवीतञ्च श्वेतवस्त्रोत्तरीयकम् ।
हविर्निवेदयेद्धीमान् ताम्बूलं तत्र कारयेत् ॥ ३०० ॥
शिविकान्ते ततः कुर्यात् प्रकारे तु प्रदक्षिणम् ।
शिवाग्रे मण्टपं कुर्यात् विशेदास्थानमण्टपम् ॥ ३०१ ॥
धूपदीपसमायुक्तम् आरात्रिकसमन्वितम् ।
पैशाचनृत्तसंयुक्तं महानाटकसंयुतम् ॥ ३०२ ॥
प्रातःकाले समारभ्य चित्रवस्त्रेण वेष्टितम् ।
सर्वाभरणसंयुक्तं सर्वमाल्यविभूषितम् ॥ ३०३ ॥
सर्वमङ्गलवाद्यैश्च शङ्खगहलमेव च ।
ग्रामप्रदक्षिणं कुर्यात् प्रविशेतालकं कुरु? ॥ ३०४ ॥
प्। २३२)
आस्थानमण्टपं स्थित्वा धूपदीपसमन्वितम् ।
आरात्रिकसमायुक्तं भस्मं दत्वा विशेषतः ॥ ३०५ ॥
दर्पणं छत्रचामरं व्यजनं दर्शयेत्क्रमात् ।
शेषभस्मं ततः कुर्यात् भूपतिश्च विशेषतः ॥ ३०५ ॥
सर्वभक्तजनानाञ्च भस्मं दत्वा तु दापयेत् ।
नालिकेरसमायुक्तं पनसं कदलीफलम् ॥ ३०६ ॥
स्नानं कृत्वा यथान्यायं महाहविर्निवेदयेत् ।
मृगयात्रां समारभ्य पूर्वरात्राधिवासयेत् ॥ ३०७ ॥
त्रिपुरघ्नं प्रथमं कुर्यात् कल्याणं सुन्दरं तथा ।
वाजियज्ञास्तदन्ते तु गच्छ यत्र गजस्तथा ॥ ३०८ ॥
प्। २३३)
दारुकैर्न्यदृच्छाया केचित्काले शिवोत्सवे ।
केचित् खड्गधराश्चैव केचित्परशुद्धरस्तथा ॥ ३०९ ॥
परिधयस्तथा सर्वे बहुधा धनशस्तथा ।
युद्धारम्भे तथास्सर्वे शीघ्रं गच्छेत्समाकुलम् ॥ ३१० ॥
मृगपक्षिवराहश्च मयूरं कुक्कुटस्तथा ।
सर्वालङ्कारसंयुक्तं वनयात्रसमन्वितम् ॥ ३११ ॥
हेलालीला स कथितं गच्छेद्भक्तजनैर्युतम् ।
गौरीचण्डेशनन्दीशो महाकालो वृषस्तथा ॥ ३१२ ॥
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ।
प्रदोषकालसमये तीर्थाधिवासनं तथा ॥ ३१३ ॥
प्। २३४)
शिवाग्रे मण्टपं कुर्यात् अष्टद्रोणैश्च शालिभिः ।
तं मध्ये ललितं कुर्यात् त्रिपादी तत्र विन्यसेत् ॥ ३१४ ॥
स्थण्डिला तण्डुलैः पूर्य तं मध्ये कौतुकं हृदा ।
उमास्कन्देश्वरश्चैव मन्त्रदेवसमन्वितम् ॥ ३१५ ॥
गौरीदेवं समभ्यर्च्य चण्डेशम्प्रतिमं तथा ।
कौतुकं बन्धयेद्धीमान् उमास्कन्देश्वरं तथा ॥ ३१६ ॥
पुण्याहं पूर्ववत्कृत्वा कौतुकं बन्धयेद्धृदा ।
त्र्यम्बकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत् ॥ ३१७ ॥
अस्त्रन्तु कौतुकं कुर्यात् भेरिकौतुकबन्धनम् ।
नदीतटाकमुद्रेण अस्त्रतीर्थसमन्वितम् ॥ ३१८ ॥
प्। २३५)
सर्वदेवतमाह्वानं सप्ततीर्थसमन्वितम् ।
स्थण्डिलं तत्र कुर्वीत स्थापयेन्नवकुम्भकान् ॥ ३१९ ॥
पुण्याहं वाचयेत्तत्र गन्धपुष्पसमन्वितम् ।
सप्ततालविधं कुर्यादाचार्यश्शिष्यसंयुतम् ॥ ३२० ॥
स्नानं कृत्वाऽस्त्रदेवानां सर्वभक्तजनैस्सह ।
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ॥ ३२१ ॥
तीर्थाधिवासनं कृत्वा महातीर्थं ततः शृणु ।
प्रातःकाले समारभ्य अवभृथस्नानमुत्तमम् ॥ ३२२ ॥
प्रातः सन्ध्यावसानेषु यागान्ते वा चलिं क्रमात् ।
ग्रामप्रदक्षिणं कुर्यादुमास्कन्देश्वरं तथा ॥ ३२३ ॥
प्। २३६)
आस्थानमण्टपे स्थित्वा धूपदीपसमन्वितम् ।
चूर्णोत्सवं ततः कुर्यान्मण्टपाग्रविशेषतः ॥ ३२४ ॥
गोमयालेपिते शुद्धे श्वेतचूर्णैरलङ्कृतम् ।
तन्मध्ये स्थण्डिलं कुर्याल्लूखलं मुसलेन तु ॥ ३२५ ॥
लूखलं ब्रह्मदैवत्यं मुसलं विष्णुदैवतम् ।
वस्त्रदूर्वासमायुक्तं दर्भैः पुष्पैः परिस्तरेत् ॥ ३२६ ॥
रजनीद्रोणसंयुक्तं लूखलं चूर्णमेव च ।
रुद्रकन्यासमायुक्तं स्नानं कृत्वा विशेषतः ॥ ३२७ ॥
त्रिपुण्ड्रभस्मसंयुक्तं श्वेतवस्त्रैरलङ्कृतम् ।
धूपदीपसमायुक्तं पुष्पहस्ते प्रदापयेत् ॥ ३२८ ॥
प्। २३७)
लूखलन्तु नमस्कृत्वा रजनीचूर्णमेव च ।
शङ्खघोषसमायुक्तं सर्ववाद्यसमन्वितम् ॥ ३२९ ॥
रजनीस्थे लि क पूर्य देवसन्निधिसंयुतम् ।
तैलदूर्वाक्षतान् पुष्पैः कूर्चमन्त्रैव विन्यसेत् ॥ ३३० ॥
मङ्गलाङ्कुरैरावृत्य सुमुहूर्ते विचक्षणः ।
पुण्याहं वाचयेत्तत्र घृतशीरोर्पणं तथा ॥ ३३१ ॥
मूलदेवपरीवारतैलाभ्यङ्गनकर्मणि ।
उमास्कन्देश्वरञ्चैव अस्त्रभेरीन्तु तैलकम् ॥ ३३२ ॥
दुर्वाङ्कुराक्षतैर्मूर्ध्निरर्चयित्वा विशेषतः ।
धूपदीपसमायुक्तमारात्रिकसमन्वितम् ॥ ३३३ ॥
प्। २३८)
हस्तं दत्वा विशेषेण ताम्बूलं तत्र कारयेत् ।
दर्पणं दर्शयेत्कृत्वा चामरं व्यजनं तथा ॥ ३३४ ॥
ब्राह्मणान् भोजयेत्तत्र चतुर्वेदसमन्वितान् ।
प्रतिमामस्त्रदेवानां रजनीचूर्णमस्तकम् ॥ ३३५ ॥
तैलारम्भेषु सहसा चूर्णं कृत्वा विचक्षणः ।
तैललस्त्रं चूर्णपात्रम् अस्त्रदेव समन्वितम् ॥ ३३६ ॥
शङ्खघोषसमायुक्तं वास्तुदेव बलिक्रमम् ।
प्राकारे तु प्रदक्षिण्यां शीघ्रं गच्छेत्समाकुलम् ॥ ३३७ ॥
भूपतीशैश्च संयुक्तं महाजनसमन्वितम् ।
यकोवाद्यनृत्तं वा गणिकाभिस्समन्वितम् ॥ ३३८ ॥
प्। २३९)
तैलारम्भसमं कुर्यात् जलक्रीडासमन्वितम् ।
परिस्तरेण भाजानामर्चयेत्कलशन्नव ॥ ३३९ ॥
सर्वदैवतमावाह्य सर्वतीर्थसमन्वितम् ।
सप्ततालविधं प्रोक्तम् आचार्यश्शिष्य एव वा ॥ ३४० ॥
अस्त्रेण सर्वभक्तानां सह स्नानं विधीयते ।
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं ततः ॥ ३४१ ॥
मूलदेवस्य स्नपनं प्रतिमास्नपनं तथा ।
यागे सम्पूजयेत्तत्र पूर्णाहुतिमथाचरेत् ॥ ३४२ ॥
शिवकुम्भं ततोद्धृत्य आचार्यं परिचारकैः ।
ग्रामप्रदक्षिणं कुर्याच्छिवाग्रे मण्टपं तथा ॥ २४३ ॥
प्। २४०)
पुण्याहं वाचयेत्तत्र अभिषेकञ्च कारयेत् ।
वागीश्वरस्य देवानामपि बाह्ये प्रदक्षिणम् ॥ ३४४ ॥
स्नपनं तत्र कुर्वीत वस्त्रेण भोजनं कृतम् ।
उमास्कन्देश्वरञ्चैव स्नपनं तत्र कारयेत् ॥ ३४५ ॥
अष्टोत्तरशतं श्रेष्ठं पञ्चाशत्पञ्चविंशतिः ।
देवाग्रे स्थण्डिलं कृत्वा अष्टद्रोणैश्च शालिभिः ॥ ३४६ ॥
पुण्याहं वाचयेत्तत्र स्नपनस्नापनमाचरेत् ।
शुद्धवस्त्रपरीधानं श्वेतमालाविभूषितम् ॥ ३४७ ॥
बहुनैवेद्यसंयुक्तं ताम्बूलं तत्र कारयेत् ।
धूपदीपौ समारोप्य नीराजनं विशेषतः ॥ ३४८ ॥
प्। २४१)
मौनव्रतधरास्सर्वे ग्रामप्रदक्षिणं तथा ।
लाजपुष्पं गृहीत्वा तु ब्राह्मणां स्वस्तिवाचकैः ॥ ३४९ ॥
आलयन्तु प्रविश्याऽथ आचार्यं पूजयेत्ततः ।
यागोपचारं सङ्गृह्य वस्त्रहेमाङ्गुलीयकैः ॥ ३५० ॥
ब्राह्मणान् भोजयेत्तत्र भक्तानां परिचारकैः ।
ध्वजदेवं समभ्यर्च्य मुद्गान्नन्तु निवेदयेत् ॥ ३५१ ॥
अवकाहरणं कुर्यात् शङ्खकाहलमर्दलैः ।
भेरीघोषसमायुक्तं सर्वालङ्कारमेव च ॥ ३५२ ॥
प्रकारे तु प्रदक्षिण्यां चण्डयागं समाचरेत् ।
चण्डेशस्थानसंयुक्तं वस्त्रैराभरणैर्युतम् ॥ ३५३ ॥
प्। २४२)
चण्ड्याग्रे होमसंयुक्तम् अग्निकार्यमथारभेत् ।
होमान्ते तु निवेद्यं स्यात् ताम्बूलन्तु निवेदयेत् ॥ ३५४ ॥
धूपदीपसमायुक्तम् अर्चयित्वा विशेषतः ।
अन्नलिङ्गसमायुक्तं बलिपात्रसमन्वितम् ॥ ३५५ ॥
अस्त्रदेवं समादाय मौनं बलिमथाचरेत् ।
मौनव्रतधरास्सर्वे सन्धिदेवान् विसर्जयेत् ॥ ३५६ ॥
दीपहीनं ततः कुर्यात्प्रहरायान्तु घोषयेत् ।
ग्रामप्रदक्षिणं कुर्यान्महापीठे बलिं क्षिपेत् ॥ ३५७ ॥
पादप्रक्षालनं कृत्वा प्रविशेदालयं तथा ।
गौरीयागमहं वक्ष्ये पूर्वरात्राधिवासयेत् ॥ ३५८ ॥
प्। २४३)
साये चोत्सवमारभ्य उमास्कन्देश्वरं तथा ।
ग्रामप्रदक्षिणं कुर्यात् भक्तोत्सवमनन्तरेत् ॥ ३५९ ॥
सर्वलोकहितं पुण्यं सर्वराष्ट्रविवर्द्धनम् ।
सर्वदारिद्र्यनाश स्यात् राज्ञो विजयवर्द्धनम् ॥ ३६० ॥
भोगमोक्षफलञ्चैव उत्सवः कथितः क्रमात् ।
इति योगजे प्रतिष्ठातन्त्रे महोत्सवः पटलः ।
॥ ॐ ॥
आरम्भस्य क्रियाकाले दोष उत्पद्यते यदि ।
उत्सवस्य विशेषेण प्रायश्चित्तं विधीयते ॥ १ ॥
प्। २४४)
छिन्नं भिन्नञ्च पतितं चोरग्रस्तादिसम्भवेत् ।
ध्वजस्य ध्वजदण्डस्य पटस्य तु विशेषतः ॥ २ ॥
कृत्वा तु पूर्ववत्सर्वं पुनरुत्थापनं कुरु ।
हृदयेन शतं हुत्वा स्नापनं पञ्चगव्यकैः ॥ ३ ॥
यागकालविहीनेन मूलमन्त्रं शतं जपेत् ।
होमद्रव्यविहीने तु हृदयेन शताहुतिः ॥ ४ ॥
बलिदानविहीने वा न्यूने वा व्यतिरिक्तके ।
हृन्मन्त्रेण शतं हुत्वा सर्वशान्तिनिमित्ततः ॥ ५ ॥
शूलास्त्रं पतितं वाऽपि आयुधञ्चाष्टमं गलम् ।
शूलस्य पतनञ्चैव सर्वेषाञ्च शताहुतिः ॥ ६ ॥
प्। २४५)
प्रतिमापतने चैव स्पृष्टे चैवान्यजातिभिः ।
कृत्वा तु स्नपनं तत्र मूलमन्त्रेण हूयते ॥ ७ ॥
प्रमादाच्छिन्नभिन्नानि सवानां पूर्ववत्क्रमात् ।
तिथिवारमुहूर्ते च कालापेक्षां न कारयेत् ॥ ८ ॥
अधिवासनानि सर्वाणि सद्य एव तथा भवेत् ।
प्रतिदिक्कर्म सर्वेषां पूर्ववत्कारयेद्बुधः ॥ ९ ॥
अथवा उत्सवान्ते तु प्रतिष्ठां कारयेद्बुधः ।
कलहे रुधिरस्रावे अग्निदण्डे तथैव च ॥ १० ॥
यागगृहे मण्टपे चैव तस्करादौ रजस्वला ।
सूतिकामृतसंस्पर्शे दर्शने तु विशेषतः ॥ ११ ॥
प्। २४६)
पूर्वभाण्डं विसृज्याथ नवभाण्डं प्रकल्पयेत् ।
शान्तिहोमं ततः कृत्वा पञ्चगव्येन प्रोक्षयेत् ॥ १२ ॥
उत्सवादीनि कर्माणि एकाहं सुविहीनके ।
पूर्ववत्तु ध्वजारोहं पुनरुत्सवमाचरेत् ॥ १३ ॥
रुद्रनारीस्तु दाशीश्च भक्तांश्च वाद्यगायकैः ।
पतितैर्व्याधिपीड्यांश्च मूलादिरुधिरस्रवम् ॥ १४ ॥
क्रियाकाले सम्भवञ्चैव पञ्चगव्येन प्रोक्षयेत् ।
पुण्याहं वाचयेत्तत्र अस्य नारीक्रिया भवेत् ॥ १५ ॥
वाद्यतालक्रियाकाले तत्काले छिन्नभिन्नकम् ।
पुनर्वाद्यं समारोप्य पवमानं समुच्चरन् ॥ १६ ॥
प्। २४७)
इति योगजे प्रतिष्ठातन्त्रे उत्सवप्रायश्चित्तविधिः पटलः ।
॥ ॐ श्री गुरुभ्यो नमः ॥
अथ वक्ष्ये विशेषेण शक्तिस्थापनमुत्तमम् ।
सर्वलोकहितार्थाय सर्वप्राणिहितावहम् ॥ १ ॥
स्थापन स्थापनञ्चैव शक्तिस्थापनमेव च ।
स्वस्थापनप्रतिष्ठा च प्रतिष्ठापञ्चभेदकः ॥ २ ॥
स्थापनं शैलजं प्रोक्तमास्थापनमधातुजम् ।
सौतं स्थापनसिद्धिञ्च जीर्णोद्धारं सुसंस्थितम् ॥ ३ ॥
प्रतिष्ठामन्त्रसंयोज्यमेवं तत्पञ्चधोच्यते ।
शैलजं लोहजं वाऽपि सौधजं रत्नजं तथा ॥ ४ ॥
प्। २४८)
शिलायान्तु शिलायां गृहमूर्ते विचक्षणः ।
शिला परीक्षिताञ्चैव सव्यं वै स्त्रीशिला बुधः ॥ ५ ॥
आचार्यः शिल्पिभिः कृत्वा शोतज्योतिषिकं तथा ।
दिनवारमुहूर्तञ्च कुर्याद्वै शिल्पिभिस्सह ॥ ६ ॥
शङ्खनादसमायुक्तं पूर्णकुम्भैश्च शोभितम्
रुद्रस्त्रीनवमासञ्च मधुक्षीरन्तु दर्शनम् ॥ ७ ॥
विप्रद्वयसमायुक्तं गौलीदक्षिणसंयुतम् ।
ऋषिदक्षिणपार्श्वेन मध्याह्ने तु प्रकाशयेत् ॥ ८ ॥
प्रातःकाले तु वामेन पक्षीजाती जनार्दनम् ।
शङ्खदुन्दुभि निर्घोषैः मुहूर्तन्तु विचक्षणः ॥ ९ ॥
प्। २४९)
पर्वताग्रे समायुक्तं होमं कृत्वा विचक्षणः ।
दिग्विदिक्षु बलिं कुर्यादाचार्यश्शिल्पिभिस्सह ॥ १० ॥
आचार्यं पूर्ववत्कृत्वा पश्चाच्छिल्पी तु ताडयेत् ।
लोहजे तु मधूच्छिष्टं सङ्ग्रहे तु विचक्षणः ॥ ११ ॥
सौधजे दारुजं ग्राह्यं रत्नजन्तु ग्रहे बुधः ।
षोडशांशमथैकैकं तत्तद्भागेन चोपरि ॥ १२ ॥
गुणभूताब्धिरन्ध्रांशं रुद्रांशं प्रतिमोदयम् ।
तथैव मानहीनं वा तन्मानं वा गृहे पुनः ॥ १३ ॥
त्रयस्त्रिंशत्प्रमाणेन गृहे मानमथोच्छ्रयम् ।
उदयञ्चतुराशीति द्विषष्ठी च तथैव च ॥ १४ ॥
प्। २५०)
चतुर्विंशत् षोडशांश भज्येकांशेन योजयेत् ।
एवमाद्योदयं कुर्यात्तेन मानाङ्गुलेन तु ॥ १५ ॥
त्यजेदलीनां विप्रेण गुणयेत्तु विचक्षणः ।
गुणेन गुणितं यत्र दुस्वैवे वसुभिः क्रमात् ॥ १६ ॥
शिष्टयोनिरिति ख्यातं वसुभिर्गुणितं पुनः ।
ह्रस्वैर्द्वे सप्तविंशेन शेषमश्वादिगं भवेत् ॥ १७ ॥
रन्ध्रेन गुणितं तच्च धात्वंशेनैव हारिते ।
शेषकर्मादि वा स्याद्वै तेनैव वसुभिर्गुणैः ॥ १८ ॥
अर्कांशेन हारित्वादायं शेषांशमेव तु ।
नवेन गुणितं यत्र तद्दशांशक्रमाद्बुधः ॥ १९ ॥
प्। २५१)
शेषं व्ययमिति ख्यातं वेदेनैव गुणैस्ततः ।
नन्दांशकेन यत्कार्यं शेषांशमंशकं विदुः ॥ २० ॥
आयाधिक्यं धनाधिक्यं व्ययाधिक्यं धनक्षणम् ।
योनिष्कध्वजसिंहाख्यो गजो वृषेन्द्रगोधनः ॥ २१ ॥
निधनं शेषमाख्यातं वर्जयेत्तु विचक्षणः ।
वारेषु सितवित्सोम गुरवश्च शुभावहाम् ॥ २२ ॥
अशुभानि तथाऽन्यानि वर्जनीयं प्रयत्नतः ।
अंशेषु तत्तदीशेन उक्ता शक्तिस्तथैव च ॥ २३ ॥
वित्तनी च नृपतीभ्यासमृद्धिश्च शुभावहः ।
शेषाश्च शुभमाख्याता एतेषां शुभदं परम् ॥ २४ ॥
प्। २५२)
नृपश्च यजमानश्च देशिकश्च तथैव च ।
ग्रामश्चाशानकूलांश्च सङ्ग्रहे तु विचक्षणः ॥ २५ ॥
नृपकर्तृविना वाऽथ दिव्यक्षान्तामथापि वा ।
जन्मसम्पद्विपत्क्षेम प्रत्यरं साधको वधः ॥ २६ ॥
मैत्रं परममैत्रञ्च जन्मादीनि पुनः पुनः ।
विपत्प्रत्यरनैधञ्च तथा चन्द्राष्टमं भवेत् ॥ २७ ॥
वैनाशिकं तथा चैव वर्जनीयं प्रयत्नतः ।
अर्थोत्तरन्तु सङ्ग्राह्य अशुभं * * * मतम् ॥ २८ ॥
एवं संवीक्ष्य बिम्बान्तं कल्पयेत्कल्पवित्तमः ।
मूललिङ्गनिरूपेण प्रोच्यते सकलन्त्विह ॥ २९ ॥
प्। २५३)
मानुषं लिङ्गमानेन कृत्वा बेरान्तमानवम् ।
दैविकं लिङ्गमानेन कृत्वा वै बिम्बमाकृतिः ॥ ३० ॥
आर्षेण चैव मानेन कृत्वा वै वावहं भवेत् ।
अव्यक्तं बिन्दुरूपं हि सर्वेषां शक्तिमारभेत् ॥ ३१ ॥
धात्री सरस्वती देवी महालक्ष्मीस्तथैव च ।
महामोटीञ्च दुर्गाञ्च सप्तमातृगणास्तथा ॥ ३२ ॥
सर्वशुद्धिसमुद्भूतां बिन्दुरूपेण चोच्यते ।
एवं लक्षणमाख्यातं शक्तिरूपं विधीयते ॥ ३३ ॥
चतुर्भुजं त्रिणेत्रञ्च करण्डमकुटान्वितम् ।
पद्मनीलोत्पलं हस्तमभयं वरदान्वितम् ॥ ३४ ॥
प्। २५४)
सुस्थितं पादसंयुक्तं चरणाम्बुजमेव च ।
एवं देवि समाख्यातं विशेषमधुना शृणु ॥ ३५ ॥
चतुर्भुजं त्रिणेत्रञ्च जटामकुटमण्डितम् ।
कमण्डल्वक्षहस्तेन अभयं वरदान्वितम् ॥ ३६ ॥
स्वस्तिकं दक्षिणं पादं वामपादन्तु कुञ्चितम् ।
प्रभाहीनं प्रभायुक्तं सर्वाभरणभूषितम् ॥ ३७ ॥
एवं देवी समाख्यातं विशेषमधुना शृणु ।
चतुर्भुजं त्रिणेत्रञ्च मृगटङ्कसमन्वितम् ॥ ३८ ॥
जटामकुटसंयुक्तमभयं वरदान्वितम् ।
वामहस्तसमायुक्तं टङ्कं परिधि किङ्किणी ॥ ३९ ॥
प्। २५५)
एवं देवी समायुक्तं षड्भुजञ्च ततः शृणु ।
अभयं वरदं पूर्वं परहस्तसमन्वितम् ॥ ४० ॥
द्विपद्मं टङ्कशूलञ्च कारयेत्तु विशेषतः ।
परिधाय वाचका ह्येते कामकोष्ठमिति स्मृतम् ॥ ४१ ॥
गौरीरूपमिदं प्रोक्तं स्थापनीयमिदं शृणु ।
अष्टदिक्ष्वन्तरालन्तु हर्म्याग्रे तु विशेषतः ॥ ४२ ॥
कामक्रोष्ठालयं प्रोक्तं स्थापयेत्तु विशेषतः ।
वामे वा दक्षिणे वाऽपि स्थापनीयं मनोन्मनी ॥ ४३ ॥
अष्टाष्टस्तम्भयं युक्तं कलास्तम्भसमन्तु वा ।
द्वादश स्तम्भसंयुक्तं मण्टपन्तु त्रिधा भवेत् ॥ ४४ ॥
प्। २५६)
मध्ये नन्द व * * * कल्पयेत्कल्पवित्तमः ।
रत्नन्यासं तथा पूर्वे द्वितीयं नयनमोक्षणम् ॥ ४५ ॥
तृतीयं बेरशुद्धि स्यात् चतुर्थं ग्रामप्रदक्षिणम् ।
पञ्चमन्तु जले वासं षष्ठमं मण्टप * * ॥ ४६ ॥
सप्तमं शयनं स्थाप्य होमकर्म तथाष्टकम् ।
नवमं नार्घ्यविन्यासं दशमं स्थापनं परम् ॥ ४७ ॥
प्रासादस्य पुरे वाऽपि प्रतिष्ठामण्टपं कुरु ।
ऐशे वा पावके वाऽथ ऐन्द्रे वा सोममेव वा ॥ ४८ ॥
यमे वा राक्षसे वायौ वारुणे वाऽपि कारयेत् ।
प्रतिष्ठामण्टपं कुर्यात् कारयेत्तु विशेषतः ॥ ४७ ॥
प्। २५७)
प्रतिष्ठामण्टपं कुर्यात् कारयेत् विशेषतः ।
पञ्चविंशतिहस्तैर्वा दशपञ्च करेऽपि वा ॥ ५० ॥
द्वादशैर्दशहस्तैर्वा चाष्टहस्तैरथापि वा ।
द्वितालं वेदिकोत्सेधं दर्पणोदरसन्निभम् ।
द्विहस्तं वेदिविस्तारं द्विहस्तन्तु चतुष्करम् ॥ ५२ ॥
उपवेदिसमायुक्तकुण्डानि परितः क्रमात् ।
योनिकुण्डं चतुर्दिक्षुं विदिक्षु पद्मकुण्डकम् ॥ ५३ ॥
इन्द्रमीशानयोर्मध्ये वृत्तकुण्डं प्रधानकम् ।
नवाग्निं कल्पयेद्धीमान् एकपञ्चाग्निकारयेत् ॥ ५४ ॥
प्। २५८)
शास्त्रयुक्तप्रमाणेन पश्चाच्छिल्पि विसर्जयेत् ।
गोमयेनानुलिप्यात्र मण्टपं कुण्डवेदिका ॥ ५५ ॥
मण्टपस्योत्तरे भागे स्नानमण्टपवेदिका ।
ब्राह्मणान् भोजयेत्तत्र पुनर्गोमयवारिणा ॥ ५६ ॥
जलेनार्द्रीकृतेनैव लेपयेत्सर्वमेव च ।
पुनः पुण्याहमारभ्य वास्तुहोमं समारभेत् ॥ ५७ ॥
राक्षसैर्वास्तु गीर्वाणा होमं कृत्वा विशेषतः ।
स्थापनस्य दिनात्पूर्वे अङ्कुराण्यर्पयेद्बुधः ॥ ५८ ॥
सप्त पञ्च त्रिरात्रं वा एकरात्रमथापि वा ।
सद्याङ्कुरं तथा चैव सद्याधिवासनं कुरु ॥ ५९ ॥
प्। २५९)
निर्दिष्टस्य दिनात्पूर्वे पञ्चाहे त्रयहेऽपि वा ।
एकाहे वा तथा चैव रत्नन्यासं तथा भवेत् ॥ ६० ॥
मण्डपं मध्यदेशे तु शिवाग्रे वा विशेषतः ।
गोमयालेपनं कृत्वा स्थण्डिलं विधिना कुरु ॥ ६१ ॥
पीठमध्ये तु विन्यस्य प्रोक्षयेत्कुशवारिणा ।
पूजयेत्तस्य मध्ये तु ततोऽनन्तासनं तथा ॥ ६२ ॥
रत्नानि विन्यसेत्तत्र मध्यादीशान्तकं क्रमात् ।
माणिक्कमध्यमं कुर्यात् इन्द्रनीलस्य मेव च ॥ ६३ ॥
वैडूर्यं वह्निदिग्भागे तथा वैरवगोचरत् ।
नीलं वै याम्यदिग्भागे गोमेतकं निर्-ऋती तथा ॥ ६४ ॥
प्। २६०)
स्फटिकं वारुणे भागे पूज्यरायन्तु वायवे ।
वज्रं तत्सौम्यदिग्भागे प्रवालं शाङ्करे दिशि ॥ ६५ ॥
नवबीजेन विन्यासो स्थितस्थैवस्य नो परि ।
स्थापयेत्प्रतिमन्त्रस्य स्निग्धं सुदृढं तथा ॥ ६६ ॥
शिल्पिना तीक्षणेनैव नेत्रान्मीलनकर्म च ।
अर्चयुक्तदिनात्पूर्वं * * परक्रमा विदुः ॥ ६७ ॥
त्रीणि पञ्चमयुक्ता च दग्धकारणनेत्रकम् ।
तस्मात्तु फणयेत्तत्र नेत्र युग्मदिने कृते ॥ ६८ ॥
स्थण्डिलं शालिना कुर्याद्धटे नाडौ तु विन्यसेत् ।
तन्मध्ये बेरमादाय स्थापयेद्धृदयेन तु ॥ ६९ ॥
प्। २६१)
शिल्पिना दक्षहस्तेन बिम्बमस्त्रेण शोधयेत् ।
हेमप्रभप्रहारेण लेपयेदृष्टिमण्डले ॥ ७० ॥
कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलमध्यमे ।
वर्तयेत्तत्क्रमेणैव रजतं सप्तमक्रमात् ॥ ७१ ॥
भूरेखा पक्ष्मरेखा च तद्बहिः क्रमशः कुरु ।
शिल्पिनन्तु विसृज्यात्र पुण्याहं कारयेद्बुधः ॥ ७२ ॥
बेरसिद्धिं ततः कुर्यात् पञ्चगव्येन शुद्ध्यति ।
मधुघृतं पयश्चैव प्रतिप्रस्थन्तु पात्रके ॥ ७३ ॥
सौवर्णपङ्कजञ्चैव पूर्वाण्यासूत्रपात्रके ।
स्थण्डिलं पूर्ववत्पूर्वे बेरं तस्योपरि न्यसेत् ॥ ७४ ॥
प्। २६२)
घृतमिक्षुघृतन्यासं क्षरमप्यायतेन तु ।
पूजयेद्गन्धपुष्पाद्यै प्रणवेन तु बुद्धिमान् ॥ ७५ ॥
नखत्रयन्तु स्वर्णेन दीक्षहस्ते करागृहे ।
न यजेन्नेत्र मन्त्रेण नेत्रमुन्मीलनं कुरु ॥ ७६ ॥
जाग्रत्स्वप्नं सुषुप्तञ्च तुर्यं तुर्यादिपञ्चकम् ।
तस्माज्जाग्रादिपञ्चैते वर्तते दिव्यजाग्रकम् ॥ ७७ ॥
तत्काले चाक्षिमोक्षञ्च कारयेद्देशिकोत्तमः ।
पञ्चगव्याभिषेकन्तु श्रीपत्रं कुशाया सह ॥ ७८ ॥
घषयेद्बिल्वपत्रेण चन्दनेनानुलेपयेत् ।
दर्शयेद्धेनुमुद्राञ्च नेत्रमन्त्रमनुस्मरन् ॥ ७९ ॥
प्। २६३)
सूर्यचन्द्राग्नि मात्रेण प्रतिमण्टपमर्चयेत् ।
स्वर्णपुष्पक्रमेणैव घृतं तत्रैव विन्यसेत् ॥ ८० ॥
वर्मपङ्कजमात्रेण पुष्पावतीतमन्त्रतः ।
गोधेनु हव्यमन्त्रेण सवत्साङ्गं प्रदर्शयेत् ॥ ८१ ॥
ब्रह्मजज्ञानमन्त्रेण कर्निकायां प्रदर्शयेत् ।
प्रच्छन्नपटमाज्या ते तद्द्रव्याद्यादिनिभैस्सुरैः ॥ ८२ ॥
इक्षुखण्डसमायुक्तं दधिक्षीरं सुदर्शनम् ।
धान्यञ्च ब्रीहिसंयुक्तमुद्गमाषकुलं तथा ॥ ८३ ॥
सर्वालङ्कारसंयुक्तं ग्रामं व्रतञ्चरेत्पुनः ।
जलतीरे तु संस्थाप्य जलेनैवाभिषेचयेत् ॥ ८४ ॥
प्। २६४)
प्राक् शिरश्चोर्ध्व वक्त्रं स्याल्लोकपालान् घटान्वितान् ।
वामादिशक्तयश्चाष्टैर्वर्धनीं विन्यसेद्बुधः ॥ ८५ ॥
अहोरात्रं त्रियामं वा द्वयामं वाधिवासयेत् ।
रात्रौ यत्यन्तके चैव जननी वा रथे स्थितम् ॥ ८६ ॥
शिबिके वा समारोप्य देशिकः पुत्रकैस्सह ।
स्नानमण्टपमावेश्य वेदिका तस्य चोपरि ॥ ८७ ॥
वस्त्रं कूर्चान् सहस्तव्यस्नानपूर्वोक्तवद्बुधः ।
पञ्चमृत्पञ्चगव्यैश्च बिल्वपत्रैश्च वर्षयेत् ॥ ८८ ॥
सुगन्धादि महोल्कानि लेपयेत्तु पुनः पुनः ।
नम कुम्भाभिषेकान्ते वस्त्रेण सेव्यमन्त्रवित् ॥ ८९ ॥
प्। २६५)
पुण्याहं कारयेत्तत्र गन्धादीनर्चयेद्बुधः ।
कौतुकं बन्धयेद्धीमान् ब्रह्मघोषसमाकुले ॥ ९० ॥
ततो मण्टपसंस्थानं कारयेत्तु विचक्षणः ।
पूर्वोक्तेन विधानेन मण्टपं पूजयेत्क्रमात् ॥ ९१ ॥
दर्भमालासमायुक्तं मुक्तासृक् दामलम्बितम् ।
चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् ॥ ९२ ॥
अष्टमं गलमावृत्य वेदिकोपरि विन्यसेत् ।
स्थण्डिलं पूर्ववत्कुर्यादष्टद्रोणैश्च शालिभिः ॥ ९३ ॥
तदर्धं तण्डुलं भूष्य तदर्धन्तु तिलैरपि ।
दारुपञ्चभुजञ्चैव रोमजं पक्षिपिञ्च्छजम् ॥ ९४ ॥
प्। २६६)
उपेयुस्तरणयत्ने ते पञ्चधा शयनं भवेत् ।
दारुजं फलका चैव मुकुलं केवलं तथा ॥ ९५ ॥
अलाभे कार्पासकेनैव वस्त्रेणाच्छाद्यमेव ।
दारुश्च परिवेषश्च कल्पयेच्छयनं तथा ॥ ९६ ॥
पूजयेच्छयनं मध्ये वामादीनामनुक्रमात् ।
देवीमासनमारभ्यच्छादयेच्छयनोपरि ॥ ९७ ॥
प्राक् शिरश्चोर्ध्व वक्त्रं स्यात् प्रणवेन तु मन्त्रतः ।
सद्याधिवासनं तत्र प्रतिमं यानिकं तथा ॥ ९४ ॥
लम्बकूर्चाद्विवक्त्रं स्यात् पूजादैश्चैव संयुतम् ।
पूजयेद्गन्धपुष्पाद्यैः आचार्यं पुत्रकैस्सह ॥ ९९ ॥
प्। २६७)
पुण्याहं पूर्ववत्कुर्यात् वस्त्रेण लक्षणं कुरु ।
गन्धादीनर्चयेत्सर्वान् तत्र देवीं स्वनामतः ॥ १०० ॥
पञ्चभिर्ब्रह्ममन्त्रैस्तु विन्यसेत्प्रतिमोपरि ।
सुरभिर्दर्शयेद्विद्वान् तथोत्तराभिमुखे स्थितः ॥ १०१ ॥
प्राणायामत्रयं कृत्वा पावकी चतुरो भवेत् ।
अन्तर्ध्यानेन वेदीशमुद्भिस्तं प्रतिमारभेत् ॥ १०२ ॥
पुष्पैरञ्जलिमापूर्य तत्तन्मूलमतः परम् ।
प्रणवादि नमोन्ताश्च योजयेत्तदनुक्रमात् ॥ १०३ ॥
आवाह्य द्वारमन्त्रेण प्रधाने तु घटा न्यसेत् ।
स्थापनं चैव सान्निध्य सन्निरोधं तथैव च ॥ १०४ ॥
प्। २६८)
नमस्कारमुद्रया ध्यात्वा दर्शयेत्तु विशेषतः ।
ब्रह्माङ्गं विन्यसेत्पश्चात् दिग्विदिक्षु क्रमाद्बुधः ॥ १०५ ॥
शान्तिमुद्रां तथा पद्मं मुकुलीशशिकर्णिकाम् ।
मनोरम्भं नमस्कारदर्शयेत्तु विशेषतः ॥ १०६ ॥
पाद्यादि दापयेत्तत्र मूलमूले तु विन्यसेत् ।
अङ्गैरङ्गानि विन्यस्य पूजयेत्तु यथाविधिः ॥ १०७ ॥
वामादि शक्तयश्चाष्टौ विन्यसेत्तु विचक्षणः ।
ततो मन्त्रं न्यसेच्चैव गन्धादीनामर्चयेत् ॥ १०८ ॥
वज्रमुद्रं तथा बध्वा नमस्कारविशेषतः ।
ततो होमं प्रकुर्वीत तस्य तत्क्रममुच्यते ॥ १०९ ॥
प्। २६९)
कुण्डानि शोधयेत्तत्र संस्कारं तदनन्तरे ।
अधिदेवा न्यसेच्चैव पूर्वादीनि प्रदक्षिणम् ॥ ११० ॥
प्रधानेन तथादेशं वामादीनष्टकुण्डलम् ।
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ १११ ॥
पुनश्चाभिमुखं गत्वा परिषेचनमारभेत् ।
समिधाज्यान्नलाजैश्च सर्षपांश्च यवान् तिलान् ॥ ११२ ॥
अश्वत्थोदुम्बराप्लक्ष वटं पूर्वादिभिः क्रमात् ।
अपामार्गार्कजञ्चैव खदिरं पावकादिषु ॥ ११३ ॥
पलाशञ्चैवादिकुण्डेषु प्रधाने तु तथैव हि ।
तमुत्पर्यायसर्वेषु अलाभे तु पलाशकैः ॥ ११४ ॥
प्। २७०)
समिधाहुतिमूलेन आज्यं वक्त्रेण हूयते ।
चरुं वै घोरमन्त्रेण लाजं वामेन हूयते ॥ ११५ ॥
सर्षपं सद्यमन्त्रेण हृदयेन यवाहुतिम् ।
शिरसा च तलं हुत्वा प्रत्येकं विविधाष्टकम् ॥ ११६ ॥
एवं क्रमेण सर्वत्र कुण्डं होमे समाचरेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शयेद्बेरवर्धनी ॥ ११७ ॥
तद्धोममन्त्रभिस्सार्धं तत्तद्भागेषु संस्पृशेत् ।
सर्वद्रव्याहुति द्रव्या तत्तत्कुण्डानि मूर्तिनाम् ॥ ११८ ॥
तत्तन्मन्त्रेण जुहुयात् कुलेनैव विचक्षणः ।
मधुक्षीरशतं शर्करादीन् शतं हुनेत् ॥ ११९ ॥
प्। २७१)
चतुर्दिक्षु च कुण्डेषु शनैरध्ययनं कुरु ।
ऋग्यजुस्सामवेदाश्च अथर्वं वेदाध्ययनं कुरु ॥ १२० ॥
उमासूक्तं जपेच्चैव श्रीसूक्तञ्चैव देशिकः ।
भवेत्कुर्याद्विशेषेण ताम्बूलन्तु निवेदयेत् ॥ १२१ ॥
अधिवाससमेवोक्ति रात्रिशेषं व्यपोह्य च ।
सद्याधिवासनञ्चैव दिक्काले विशेषतः ॥ १२२ ॥
प्रभाते विमले तत्र देशिकः पुत्रकैस्सह ।
स्नानं कृत्वा विशेषेण नित्यकर्म समाचरेत् ॥ १२३ ॥
शुक्लवस्त्रोत्तरीयञ्च पञ्चाङ्गं भूषणैस्सह ।
सुमुहूर्ते सुलग्ने च देवीमभ्यर्चयेत्ततः ॥ १२४ ॥
प्। २७२)
अग्निं प्रज्वालनं कुर्यात्परिषेचनमारभेत् ।
सद्द्रव्याहुतिं हुत्वा तत्तन्मूर्त्याहुतिं शतम् ॥ १२५ ॥
सर्वात्मनेति मन्त्रेण एकैकमाहुतिं हुनेत् ।
जयादिरभ्याधानञ्च राष्ट्रभृच्छक्रमाद्धुनेत् ॥ १२६ ॥
हृदा पूर्णाहुतिं हुत्वा परिषेचनमारभेत् ।
मूर्तिमान् साधयेत्पश्चात् परिधीञ्च परिस्तरेत् ॥ १२७ ॥
विष्टरांश्चैव सर्वेषां गृहिभ्यश्चरतः क्रमात् ।
निक्षिपेदग्निमध्ये तु तदोत्थाय तु देशिकः ॥ १२८ ॥
नववस्त्रैरलङ्कृत्य उष्णीषञ्चोत्तरीयकम् ।
सर्वपत्रकरैर्युक्त शुक्लमाल्यैरलङ्कृतम् ॥ १२९ ॥
प्। २७३)
बिम्बमुत्थाययेद्विद्वान् हृदयेन विचक्षणः ।
सवस्त्रकूर्चान् सर्वत्र वर्जयेत्तु विशेषतः ॥ १३० ॥
स्तोत्रमध्ययनं विद्यानृत्तगेयादिना कुले ।
स्नानमण्टपमध्यन्तु पीढे बिम्बं निवेदयेत् ॥ १३१ ॥
पूजयेद्गन्ध पुष्पाद्यैः शुद्धिं कृत्वा तु देशिकः ।
पञ्चकृत् पञ्चगव्यैश्च ज्ञात्वा देवीस्त्र्यम्बकम् ॥ १३२ ॥
गौरीमिमायमन्त्रेण मायामन्त्राणि पूजयेत् ।
गन्धोदकोदनं स्थानं हरिद्रामलकैस्सह ॥ १३३ ॥
देवीं पीठे दृढं स्थित्वा अभिषेकं समाचरेत् ।
शिल्पिं विसर्जयेत्तत्र पञ्चगव्याभिषेचयेत् ॥ १३४ ॥
प्। २७४)
पुनः पुण्याहमारभ्य वर्धिनीमभिषेचयेत् ।
शुद्धोदकेन बेरैश्चाभिषेकं तत्र कारयेत् ॥ १३५ ॥
ब्रह्ममात्मन्यसेच्चैव पुनराचमनञ्चरेत् ।
अर्घ्यं दत्वा विशेषेण पुष्पं मूर्ध्नि च दापयेत् ॥ १३६ ॥
निद्राकुम्भं ततोद्धृत्य देशिको मूर्तिपैस्सह ।
बिम्बाग्रे स्थण्डिलं कृत्वा स्थापयेत् पूर्ववत्क्रमात् ॥ १३७ ॥
गन्धपुष्पादिना पूज्य सुमुहूर्ते निरीक्षयेत् ।
वर्णैर्ब्रह्माङ्गमन्त्रैस्तु विद्यामूर्तिविशेत्पुनः ॥ १३८ ॥
अर्चयित्वा तु वर्धन्यामुद्धृत्य मृदहस्तकम् ।
ध्यायेदश्चिन्दुमन्त्रस्य हृदि मध्ये समाहितम् ॥ १३९ ॥
प्। २७५)
प्राणवृत्तितिरोरोधे न कुम्भं कृत्वाऽत्रदेशिकः ।
घटे घटेस्मितन्मन्त्रं जयप्राणस्तु निर्मितम् ॥ १४० ॥
तस्मात्तु मूलमुच्चार्य हृस्सरोजात उच्यते ।
उत्तरे वर्धनीतोयं तन्मात्रेण तु देशिकः ॥ १४१ ॥
उद्धृत्य * रे सा मस्त्रीवस्त्रकूर्च गृहे स्थितः ।
प्रतिमा हृदये न्यस्त्वा ततः कुम्भाभिषेचयेत् ॥ १४२ ॥
सहस्राक्षरिमन्त्रेण क्रमेणैवाभिषेचयेत् ।
संवत्सराक्षरं वाऽपि दक्षिणे पश्चिमेन वा ॥ १४३ ॥
वामादीनाञ्च कुम्भेन विन्यसेदासनोपरि ।
तेन तोयेन देवीं स्यादभिषेकं समाचरेत् ॥ १४४ ॥
प्। २७६)
दलमूले न्यसे चैव अङ्गैचाङ्गानि विन्यसेत् ।
गौरीगायत्रिमन्त्रेण मातृकां विन्यसेद्बुधः ।
गन्धादीन् पूजयेत्पश्चाद्विशेषाध्यं ततः पुनः ॥ १४६ ॥
पाद्यमाचनञ्चार्घ्यं गन्धपुष्पञ्च धूपकम् ।
वस्त्राभरणमाला च धूपदीपं ददेत्पुनः ॥ १४७ ॥
हविर्दत्वाऽथ देवीनां वामादीनान्तु दापयेत् ।
एवमादीनि सर्वाणि हृदयेन प्रदापयेत् ॥ १४८ ॥
एवं वै शैलजं वाऽपि * * जं वाषि कारयेत् ।
शैलजं प्रथमं स्थित्वा लोहजञ्च चलाचलम् ॥ १४९ ॥
प्। २७७)
लोहजे वा समासेन ततो ग्रामप्रदक्षिणम् ।
तत्रादौ कौतुकञ्चैव उत्सवं पुनराचरेत् ॥ १५० ॥
अचलन्तु तथा चैव तोयाधिवासनं विना ।
शयने शयनोक्तेन शेषा सर्वमयं विदुः ॥ १५१ ॥
रत्नादि विन्यसेच्चैव शूलमूलविचक्षणः ।
शैलजा इति मूलेन विन्यसेन्नवरत्नका ॥ १५२ ॥
चित्रभासे तु वैचित्र्यं ततोक्तानान्तु विन्यसेत् ।
तोयाधिवासनं तत्र ततोपशयनं विना ॥ १५३ ॥
एवमेव विधिं ज्ञात्वा प्रतिष्ठां कारयेद्बुधः ।
सौधजं भित्तिचित्रेण पादाग्रे हस्तमात्रकौ ॥ १५४ ॥
प्। २७८)
पीठं वा पा प्रभावापि बेरं वापि प्रकल्पयेत् ।
कर्मार्चरूपमेवोक्तं तत्रैव सर्वमाचरेत् ॥ १५५ ॥
कामक्रोष्ठप्रतिष्ठा च सकलस्थापनं शृणु ।
श्रीमद्गुरुभ्यो नमः श्री परमेश्वराय नमः ।
इति योगजे प्रतिष्ठातन्त्रे कामक्रोष्ठप्रतिष्ठा विधिः पटलः ।
कौतुकं बन्धयेद्देव्या वामहस्ते तु रत्नतः ।
गौरीमिमाय मन्त्रेण होमकर्मादिकं जपेत् ॥ १ ॥
मूलमन्त्रेण संस्थाप्य होमं पूर्ववदाचरेत् ।
मुकुलं पद्ममुद्राञ्च बीजमुद्रां प्रदर्शयेत् ॥ २ ॥
प्। २७९)
दशास्वाध्ययनं कुर्यात्पूर्वोक्तविधिना सह ।
गौरीकलाक्षस्त्वहं वक्ष्ये गौरीबीजसमुद्भवा ॥ ३ ॥
तारा ईशकला ज्ञेया विद्यावस्त्रकला स्मृता ।
मृत्युश्रा * * * * रामेध्वस्वस्तिश्च वर्मणः ॥ ४ ॥
बिलिनी ज्वालिनी चैव मतिमीमामतिव्रजाः ।
शान्तिभृतिक्रिया क्षान्तिघोरा वामकला न्यसेत् ॥ ५ ॥
दान्तिश्शान्तिर्दयासूतिर्द्वितिस्सन्ध्या तु सद्यजाः ।
षड्विंशतिकबाह्ये तु गौरीदेहे तु विन्यसेत् ॥ ६ ॥
तारञ्च विन्यसेन्मूर्ध्नि विद्यावक्त्रेषु विन्यसेत् ।
हृदये च गले बाह्योः जठरे नाभिदेशके ॥ ७ ॥
प्। २८०)
अघोरस्य कला ह्येते योनि गुह्यप्रदेशके ।
ऊर्ध्वोर्जानुद्वयोश्चैव पृष्ठद्वयोश्च पार्श्वके ॥ ८ ॥
वामदेवकलाह्येते देवी देवे तु विन्यसेत् ।
पादयोरुभयोश्चैव हस्तयोरुभयोरपि ॥ ९ ॥
स्तनयोरुभयोश्चैव सद्योजातकला न्यसेत् ।
दण्डमूले तु संयोज्य नववस्त्रसमायुतम् ॥ १० ॥
प्रसादे मण्टपे चैव गोपुरे दीपरोहणे ।
सूर्यास्तमे तु कर्तव्यं कर्तव्यं शङ्खदुन्दुभिः ॥ ११ ॥
अग्निबीजेन मन्त्रेण दीपारोहणमारभेत् ।
कृत्तिकाम्भं प्रकर्तव्यं प्रधानं कृत्तिकां भवेत् ॥ १२ ॥
प्। २८१)
अग्निनक्षत्रकर्तव्यं तस्मात्कृत्तिकमाचरेत् ।
दीपयन्त्रविधानेन महादीपं प्रकल्पयेत् ॥ १३ ॥
तदन्ते चोत्सवं कुर्याच्छालितण्डुलकं स्मृतम्
उमास्कन्दादि देवानामेकरूपं समर्चयेत् ।
ग्रामप्रदक्षिणं कृत्वा बलिं पूर्वादिविन्यसेत् ॥ १५ ॥
बलिपीठे चासनान्ते दिक् देवबलिदापयेत् ।
आचार्यं पूजयेत्तत्र वस्त्रहोमाङ्गुलीयकैः ॥ १६ ॥
अपूपं शालिदर्पं वा निवेदयेत्तु विशेषतः ।
प्रभूतहविषं दत्वा उपदंशसमन्वितम् ॥ १७ ॥
प्। २८२)
ताम्बूलं दापयेत्तत्र सर्वोपचारसंयुतम् ॥
इति योगजे पीठतन्त्रे कृत्तिका योगदीपविधिः नाम पटलः -
अथ वक्ष्ये विशेषेण पवित्रारोहणं कुरु ।
पवित्रं नाम यत्प्रोक्तं शुद्धमित्यभिधीयते ॥ १ ॥
देवदानवगन्धर्वाः पिशाचा ब्रह्मराक्षसाः ।
सर्वे ऋषिगणाश्चैव क्षेत्रसमुद्गणाः ॥ २ ॥
सर्वेषान्तु प्रियार्थं वै पवित्रारोहणं कुरु ।
आषाढे श्रावणे वाऽपि कुर्याद्भाद्रपदेऽपि वा ॥ ३ ॥
आषाढे उत्तमं प्रोक्तं मध्यमं श्रावणे न्यसेत् ।
प्। २८३)
भाद्रपदाधमं ज्ञेयं त्रिभिर्मासैः प्रकीर्तितम् ॥ ४ ॥
एवं मासे तु कर्तव्यं शुक्लाष्टम्यां विशेषतः ।
अथवा तु त्रयोदश्यां ततो गन्ध पवित्रकम् ॥ ५ ॥
उत्तमं हेमसूत्रन्तु मध्यमं रौप्यमेव च ।
अधमं ताम्रसूत्रन्तु अलाभे कार्पासमेव च ॥ ६ ॥
कुशाञ्च वल्कलञ्चैव ऋषीणां समुदायुतम् ।
नेत्रपटोद्भवञ्चैव पद्मसूत्रन्तु चोत्तमम् ॥ ७ ॥
अलाभे कार्पासमित्युक्तं तन्तुना सुदृढं कुरु ।
ब्राह्मणक्षत्रियो वैश्या शूद्रकन्याय सूत्रवित् ॥ ८ ॥
सूक्ष्म तन्तु तथा कुर्यात् रोमदृष्टन्तु वर्जयेत् ।
प्। २८४)
शोद्धोदकेन सम्प्रोक्ष्य क्षालयेत्तु यथाविधिः ॥ ९ ॥
मण्डपं समलङ्कृत्य दुकूलैश्च देवाङ्गकैः ।
पालिकान् पूर्णकुम्भञ्च दर्पणञ्च विचित्रयेत् ॥ १० ॥
अङ्कुरार्पणयेत्तत्र पूर्वोक्तविधिना सह ।
द्वादशं षोडशञ्चैव पञ्चविंशतिरेव वा ॥ ११ ॥
पञ्चादशीतिकञ्चैव अष्टोत्तरशतन्तु वा ।
स्नपनद्रव्यसहितं स्थापयेद्विधिपूर्वकम् ॥ १२ ॥
सवस्त्राञ्चापिधानञ्च हेमरत्नसमन्वितम् ।
पूर्वोक्तविधिना चैव कलशस्थापनं चरेत् ॥ १३ ॥
पश्चाद्धोमं प्रकल्प्याथ कुण्डे वा स्थण्डिलेऽपि वा ।
प्। २८५)
समिदाज्यचरुं लाजान् सर्षपाश्चाथवा तिलान् ॥ १४ ॥
होमद्रव्याणि सर्वाणि यथा क्रमेणैव हूयते ।
समिदाज्यक्रमेणैव आज्यं वामेन हूयते ॥ १५ ॥
अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु ।
ईशानं सर्वद्रव्याणि आज्यानि हृदयेन तु ॥ १६ ॥
तिलन्तु शिरोमन्त्रेण शिखायां गुलमेव च ।
कवचेन मयं हुत्वा अपूपैरस्त्रमेव च ॥ १७ ॥
अक्षतैरस्त्रमन्त्रेण क्रमाद्धुत्वा विशेषतः ।
पूर्णान्तु मूलमन्त्रेण एवं होमप्रकल्पयेत् ॥ १८ ॥
लिङ्गे वा कौतुके वाऽपि शुद्धस्थानेन पूजयेत् ।
प्। २८६)
षोडशप्रतिमञ्चैव गन्धपुष्पादिरर्चयेत् ॥ १९ ॥
स्थाने मण्टपके वाऽपि प्रतिमामर्चयेत्क्रमात् ।
महानैवेद्यकं पश्चात्ताम्बूलन्तु निवेदयेत् ॥ २० ॥
स्तोत्रमङ्गलपाठैश्च वेदाध्ययनघोषकैः ।
शङ्खभेर्यादिघोषैश्च जयशब्दादिमङ्गलैः ॥ २१ ॥
गेयं तत्र तु कर्तव्यं पवित्रमधिवासयेत् ।
निद्राभङ्गं निशा कुर्यात् समाधिकृत योगतः ॥ २२ ॥
पवित्राधि वासितं कृत्वा पश्चात्तु विधिपूर्वकम् ।
अष्टोत्तरशतं कुर्यात् पञ्चाशत्पञ्चविंशतिः ॥ २३ ॥
उत्तमं मध्यमञ्चैव कन्यसञ्च प्रकीर्तिताः ।
प्। २८७)
मङ्गलार्थन्तु प्रकर्तव्यं पञ्चविंशत्पवित्रकम् ॥ २४ ॥
व्यङ्गुलेन च मानेनाथवा चाङ्गुलेन वा ।
बन्धनं तत्र कुर्वीत तन्तुना बन्धयेत्क्रमात् ॥ २५ ॥
कुङ्कुमेन प्रकल्प्या तु कस्तूरी तु हरिद्रया ।
ग्रन्थिबन्धं ततः कृत्वा शास्त्रदृष्टेन कर्मणा ॥ २६ ॥
उशीरं हरिबेरञ्च तरङ्गं नाम पुष्पकम् ।
गन्धपत्रन्तु कल्लोलम् एषां ग्रन्थिं विधीयते ॥ २७ ॥
ग्रन्थिबन्धं ततः कुर्यात् सूत्रसङ्ख्या तु सङ्ख्यया ।
लिङ्गनाहप्रमाणं यत् तत्प्रमाणेन बन्धयेत् ॥ २८ ॥
गङ्गावतारचोष्णीषमेवं कुर्यात्प्रयत्नतः ।
प्। २८८)
हेमराजतपात्रञ्च ताम्रकांस्यमथापि वा ॥ २९ ॥
सर्वलक्षणसंयुक्तं विशालितसुशोभनम् ।
तन्मध्ये तु निधातव्यं गन्धपुष्पादिनार्चयेत् ॥ ३० ॥
परिधानन्तु कर्तव्यं नवं सर्वत्र सुवृत ।
तस्योपरि न्यसेत्कूर्चं स्थापयेन्मण्टपे क्रमात् ॥ ३१ ॥
एवं कृत्वाधिवासन्तु प्रातःकाले समुद्धरेत् ।
शौचाचमनं स्नानं सन्ध्यावन्दनमेव वा ॥ ३२ ॥
पूर्वेद्युर्विधिना चैव देवन्यासन्तु कारयेत् ।
ईश्वरारोहणं सूत्रञ्चण्डेशाय निवेदयेत् ॥ ३३ ॥
अभितः कलशान् कृत्वा विशेष्ततः ।
प्। २८९)
पुण्याहं वाचयित्वा तु स्वस्तिमङ्गलवाचकै ॥ ३४ ॥
जयशब्दे गीतनृतायै ब्रह्मघोषादिसंयुतम् ।
भेरीमृदङ्गपटलैः काहलैः कांस्यघण्टकैः ॥ ३५ ॥
झल्लरी मर्दलैश्चैव कर्तरीतालवंशकैः ।
शङ्खदुन्दुभिवाद्यैश्च सर्वालङ्कारशोभितम् ॥ ३६ ॥
नववस्त्रपरीधानं शिरोवेष्टनमेव च ।
स्वर्णपुष्पशिरोयुक्तं स्वर्णयज्ञोपवीतिनम् ॥ ३७ ॥
हेमाङ्गुलीयकटकैः कर्णकुण्डलशोभितम् ।
सर्वाभरणसंयुक्तं पुष्पमालासुशोभितम् ॥ ३८ ॥
एवमादीनि सर्वाणि आचार्यैस्समलङ्कृतम् ।
प्। २९०)
साधकानामलङ्कृत्य पवित्रमुद्धरेत्क्रमात् ॥ ३९ ॥
सर्वालङ्कारसंयुक्तम् आलयन्तु प्रदक्षिणम् ।
ततो गर्भगृहं गत्वा आरोपयेत्पवित्रकम् ॥ ४० ॥
अर्चयित्वा विशेषेण धूपदीपक्रमाद्गतम् ।
निर्गतञ्चैव तं गेहमालयं सूत्रवेष्टनम् ॥ ४१ ॥
नैवेद्यन्तु प्रदातव्यं पायसान्नं विशेषतः ।
आचार्याः पूजयेत्तत्र यया वित्तानुसारतः ॥ ४२ ॥
साधकानान्तु सम्पूज्य भक्ताश्च पूरयेत्क्रमात् ।
परिचारकपूजैश्च ब्राह्मणान् भोजयेत्ततः ॥ ४३ ॥
भूसुरान् भोजयेन्नित्यं यथा शक्त्यानुकूलतः ।
प्। २९१)
आगमन्तु समारभ्य शिवधर्मपुराणकैः ॥ ४४ ॥
पुराणवक्त्रान् सम्पूज्य देवयज्ञ च पूजयेत् ।
सर्वदेवान् समारोप्य परादीनपवित्रकैः ॥ ४५ ॥
पवित्रारोहणञ्चैव भक्तांश्च परिचारकैः ।
जनान् सर्वान् प्रदातव्यं कर्णिकान् स पवित्रकम् ॥ ४६ ॥
द्वादशाहञ्च अष्टाहं पञ्चाहं त्र्यहमेव वा ।
पवित्रारोहणं तत्र सन्ध्याकाले तु पूजयेत् ॥ ४७ ॥
स दारोऽहं ततः कुर्यात् सर्वालङ्कारसंयुतम् ॥ ४८ ॥
पूर्वपवित्रमादाय चण्डेशाय निवेदयेत् ।
प्। २९२)
स्नपनं तत्र कुर्वीत गन्धपुष्पादिनार्चयेत् ॥ ४९ ॥
पश्चात्तपस्विनं पूज्य आच्छाद्येनं समाचरेत् ।
कौपीनमुत्तरं सङ्गं योगिनान्तु प्रदापयेत् ॥ ५० ॥
केशादिवपनं दीक्षा संस्कारञ्च प्रतिग्रहम् ।
सूचिकर्मादिरात्रिञ्च दिनेष्वेतेषु वर्जयेत् ॥ ५१ ॥
मण्डलं वर्जयेत्पूर्वं लतां लिङ्गोद्भवन्तु वा ।
पद्ममण्डलमेवं वा अर्धचन्द्रमथापि वा ॥ ५२ ॥
आचार्यस्य मनोभङ्गं पूजयेत्पूर्वरात्रके ।
मण्डलं पूजयेत्तत्र पूजावसानकालके ॥ ५३ ॥
मण्टपे तु रलङ्कृत्य सर्वद्रव्याणि साधयेत् ।
प्। २९३)
दर्पणञ्चामरञ्चैव तालवृन्तञ्च चित्रका ॥ ५४ ॥
रोमारोपं ततः काष्ठा नखरोमादि छेदनम् ।
आभरणं पात्रं भस्मधारं कमण्डलुं पवित्रकम् ॥ ५५ ॥
मणिबन्धोदरबन्धञ्च माधारं कौपीनमेव च ।
अञ्जनैव च पात्रेण अञ्जनन्तु शलाकयोः ॥ ५६ ॥
योगपट्टञ्च दण्डञ्च मौञ्जीकृष्णाजिनन्तु वा ।
शुक्तिपात्रं पञ्चलोहम् अष्टमङ्गलमायुधम् ॥ ५७ ॥
कूर्मासनञ्च सर्वेषां रोपयेन्मण्टपं कुरु ।
कृष्णमृगञ्च परशुं भिक्षापात्रमधस्कृतम् ॥ ५८ ॥
दिव्यायुधं दिव्यकटकं सूर्यचन्द्रन्तु अग्निकम् ।
प्। २९४)
गङ्गाकेयूरमालाश्च अष्टनागविधैरपि ॥ ५९ ॥
रुद्राक्षमाला शिरोमाला उष्णीषमालया ।
ललाटमाला कण्टमाला कर्णन्तु नालबन्धकाः ॥ ६० ॥
हृदादिलम्बमाला च नाभ्यान्तमालया कुरु ।
जपमाला बाहुमाला कोर्परैर्हस्तमालया ॥ ६१ ॥
विविधैः पात्रमादाय मण्डलाग्रे तु विन्यसेत् ।
एवमेव क्रमेणैव द्रव्यप्रति च स्थापयेत् ॥ ६२ ॥
पवित्रारोहणान्तम् आदिनोत्सं प्रपूजयेत् ।
एवं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ॥ ६३ ॥
पूर्वकृत्यं यथा कार्यं पवित्रारोहशुद्धयेत् ।
प्। २९५)
देवियुक्तं यथा शास्त्रं शास्त्रं पवित्रारोहणम् ॥ ६४ ॥
इति योगजे प्रतिष्ठा तन्त्रे पवित्रारोहणः पटलः ।
अथ वक्ष्ये विशेषेण मण्डलाकृतिरुच्यते ।
मण्टपन्तु चतुर्भाग मेकभागन्तु वेदिका ॥ १ ॥
तालमात्रं समुत्सेधं दर्पणोदरसंयुतम् ।
पञ्चतालप्रमाणेन मध्ये मण्डलमालिखेत् ॥ २ ॥
अष्टाष्टपदमालिख्य मध्यकोष्ठचतुष्टयम् ।
पद्मपीठे समालिख्य श्वेतरक्तञ्च कृष्णकम् ॥ ३ ॥
पीतं श्यामञ्च सर्वेषां वर्त्ममालिख्य बुद्धिमान् ।
प्। २९६)
पद्मपीठस्य बाह्ये तु श्वेतविधिं प्रकल्पयेत् ॥ ४ ॥
तदन्तरञ्च वीथिश्च रक्तश्यामाञ्च कृष्णकम् ।
पीतञ्चैव तथा न्यायं चतुर्द्वाराणि कल्पयेत् ॥ ५ ॥
द्वारार्धमारकं कुर्यात् कर्णे कर्णे प उच्यते ।
कपोलो कपोलकं कुर्यात् ब्रह्मस्थानाद्वहिष्विह ॥ ६ ॥
त्र्या * दलेन वृत्ति स्यत्र्यङ्ङ्गुलमर्धचन्द्रकम् ।
त्र्यङ्गुलं पद्ममेवं स्यात् त्र्यङ्गुलन्तु स्वस्तिकम् ॥ ७ ॥
त्र्यङ्गुलन्तु श्रीवत्सपादमानञ्चतुरश्रकम् ।
श्वेतं रक्तं तथा पीतं कृष्णं श्यामं तथा न्यसेत् ॥ ८ ॥
पदं प्रतिविपरीत सर्वतो भद्रमिष्यते ।
प्। २९७)
शालिपिष्टेन श्वेतञ्च सिन्धूरं रक्तधातुकम् ॥ ९ ॥
हारिद्रं पीतचूर्णं स्यात् कृष्णं श्यामञ्च पञ्चकम् ।
दग्धली * च कृष्णं स्यात् पादं प्रतिकृतं कृति ॥ १० ॥
सर्वेषु मण्डलं लिख्य क्रमाद्विपरीतकम् ।
एवन्तु सर्वतो भद्रं लतालिङ्गोद्भवं शृणु ॥ ११ ॥
अष्टाष्टपदकृत्वा तु मध्ये पद्म चतुष्पदम् ।
दलोष्टौ पञ्चवर्णेन लेखयेत्तु विशेषतः ॥ १२ ॥
पद्मं चतुरविस्तारं कौशिकाङ्गेन भोजयेत् ।
व्योमेन कर्णिकां कुर्यात् पक्षांशेनैव केसरम् ॥ १३ ॥
शेवन्तु दरमारन्तु कर्णिकाङ्कार्धमानतः ।
प्। २९८)
पद्मबाह्यंशकार्धे तु श्वेतवर्णेन वीथिकम् ॥ १४ ॥
वीथीसमं चतुर्द्वारं शोभाद्वारसमाश्रितम् ।
तत्समाने कपोलन्तु शोभातुल्योपशोभिकाम् ॥ १५ ॥
ईशानादिचतुर्दिक्षु रक्तपिङ्गलश्वेतकम् ।
कृष्णचूर्णमिति प्रोक्तं कपोलात्तु विशेषतः ॥ १६ ॥
इन्द्रादिसोमपर्यन्तं चतुर्दिक् लिङ्गकल्पितम् ।
सप्तपदं लिङ्गं कृत्वा चतुष्पदं बाह्यपीठकम् ॥ १७ ॥
ऊर्ध्वेति त्रिपदं लिङ्गं पुरुषादि मुखवर्णकम् ।
इन्द्रादिसोमपर्यन्तमष्टाविंशत्पदं भवेत् ॥ १८ ॥
लिङ्गार्थं कल्पयेद्धीमान् यथा सङ्ख्या पदं भवेत् ।
प्। २९९)
पीतवर्णं तथा कृष्णं श्वेतनीलं प्रकल्पयेत् ॥ १९ ॥
मध्ये रक्तसमायुक्तं पञ्चवर्णं प्रकल्पयेत् ।
कोणकोणे चतुर्थन्तु विपरीतञ्च पूर्णयेत् ॥ २० ॥
लाता लिङ्गोद्भवं ह्येवमाचार्यं मनसा कुरु ।
आचार्यमनोभवं वक्ष्ये शृणुष्वेकाग्रमानसः ॥ २१ ॥
भूमिं समतलं कृत्वा दर्पणोदरसन्निभम् ।
प्रागग्रदेशसूत्रन्तु उदगग्रं तथैव च ॥ २२ ॥
मध्ये नवपदं पद्मं दलाष्टं केसरैर्युतम् ।
चतुर्दिक्षु नवभागं स्यात् प्रासादं कारयेद्बुधः ॥ २३ ॥
षड्वर्गसहितो युक्तं नासिकाद्यैरलङ्कृतम् ।
प्। ३००)
अष्टभागं समं कृत्वा प्रासादं पूर्ववत्प्रति ॥ २४ ॥
बन्धं वा पादबन्धं वा अतिष्ठाने परिलिङ्गकृतम् ।
लिङ्गपीठसमायुक्तं पादवर्गात्त्रिभागगम् ॥ २५ ॥
कोणे स्वस्तिकमित्युक्तं नवभागविशेषतः ।
पञ्चचूर्णं पञ्चमुखं पुरुषादि विशषतः ॥ २६ ॥
तन्मुखाभन्तु प्रासादं क्रमेणैव तु विन्यसेत् ।
वामादिशक्तयश्चाष्टौ परितः परिविन्यसेत् ॥ २७ ॥
पञ्चावरणमार्गेण पूजयेदर्चनं क्रमात् ।
षष्ठ्याधिकञ्च त्रिशतैः परितो मण्डलं लिखेत् ॥ २८ ॥
एकैकं विपरीतञ्च पञ्चवर्णेन कल्पयेत् ।
प्। ३०१)
कदलीफलमाम्रफलं पनसं खण्डशः करा ॥ २९ ॥
मण्डलं प्रति विन्यस्य गन्धपुष्पादिनार्चयेत् ।
निष्कं वाऽपि तदर्धं वा तदर्धार्धमथापि वा ॥ ३० ॥
कुर्यादुत्पलपुष्पन्तु मण्डलं विन्यसेत् ।
शतनिष्कादि एकान्तं यथालाभे तु पर्वतम् ॥ ३१ ॥
मण्डलात्पूर्वदिग्भागे स्वर्णपर्वतमिष्यते ।
वाचके रजताद्रिस्तु दक्षिणे ताम्रपर्वतम् ॥ ३२ ॥
राक्षसे रत्नं विन्यस्य शालाद्रिं पश्चिमे न्यसेत् ।
सोमे तु सर्षपाद्रिस्तु शाङ्करे च तिलाद्रिकम् ।
प्। ३०२)
एवमुक्तानि सर्वाणि प्रत्येकं भारमेव वा ॥ ३४ ॥
यथा लाभं प्रकर्तव्यं पर्वतञ्च प्रकल्पयेत् ।
पञ्चब्रह्मषडङ्गैश्च जयादीन् होमयेद्बुधः ॥ ३५ ॥
गन्धपुष्पादिभिः पूज्य स्वनामेनैव मन्त्रवित् ।
मण्डलेचोत्तरे भागे स्थण्डिलं शालिभिः कुरु ॥ ३६ ॥
तन्मध्ये रक्तवस्त्रन्तु शयनं कल्पयेद्बुधः ।
नेत्रबन्धं ततः कुर्यात् नववस्त्रेण वेष्टयेत् ॥ ३७ ॥
कौतुकं बन्धयेत्तत्र स्त्रीणां द्विनयनं कुरु ।
रात्रिहोमन्तु कर्तव्यं सर्वदेवान् हविर्ददेत् ॥ ३८ ॥
द्विगुणं देवदेवस्य सर्वोपचारकं कुरु ।
प्। ३०३)
प्रभाते विमले तत्र नेत्रबन्धं विसर्जयेत् ॥ ३९ ॥
स्वर्णपुष्पं समारोप्य तन्नामन्तु प्रदापयेत् ।
स्नपनं कारयेद्देवं पञ्चाशत्पञ्चविंशतिः ॥ ४० ॥
अष्टोत्तरशतं वापि देवादेवा हविर्ददेत् ।
स्वर्णमङ्गलसूत्रन्तु नववस्त्रन्तु दापयेत् ॥ ४१ ॥
प्रभूतहविषं दत्वा देवदेवं प्रसादयेत् ।
सर्वदेवान् समभ्यर्च्य मण्डलं प्रति दर्शयेत् ॥ ४२ ॥
यागोपकरणं सर्वमाचार्याथ प्रदापयेत् ।
धृतक्षीराभिषेकन्तु नालिकेरन्तु स्नापयेत् ॥ ४३ ॥
उमास्कन्दसहितं देवं प्रभूतहविषं ददेत् ।
प्। ३०४)
ताम्बूलं दापयेत्तत्र भक्तांश्च परिवारकैः ॥ ४४ ॥
भूसुरा भोजयेत्तत्र यथा शक्त्या तु दापयेत् ।
आचार्यं पूजयेत्तत्र मरणान्तं व्रतं चरेत् ॥ ४५ ॥
शिवमन्त्रोपदेशञ्च आचार्यं पूजयेत्ततः ।
आचार्यस्त्वग्रतो गच्छेत् स्वगेहं प्रविशेद्बुधः ॥ ४६ ॥
इति योगजे प्रतिष्ठातन्त्रे मण्डलः पटलः ।
अथातः सम्प्रवक्ष्यामि फलपाकविधिक्रमम् ।
दूरतः शिखरं दृष्ट्वा यो नरः प्रणमश्शिवम् ॥ १ ॥
मुच्यते सर्वपापेभ्यो निर्मोहादिव पन्नगाः ।
प्। ३०५)
मुरुमुरुविक्रमन्तप्रादक्षिण्यशिवालये ॥ २ ॥
तत्क्लेशान्तशिवा माया भवोत्पापविनाशनम् ।
जनैस्पृष्टा तथायाश्च भूलोके तु सु जीवतु ॥ ३ ॥
उत्सवे बलिकाले तु यथा कुर्वन् प्रदक्षिणम् ।
पदे पदे श्वमेधस्य फलं प्राप्नोति मानवः ॥ ४ ॥
यथा कृत्वा नमस्कारं तथा लोके तु पूजयेत् ।
जलं पुष्पस्थलं पुष्पं देवमुद्दिश्य निक्षिपेत् ॥ ५ ॥
नानापुष्पैरलङ्कृत्य नानाभोगसमश्नुते ।
आरामं देवदेवस्य यो नरः कृतवान् भुवि ॥ ६ ॥
एवं सधनवान् श्रीमानिह लोके सुपूजितः ।
प्। ३०६)
अतियुतं योग * * श्रोत्रिये वेदपारगे ॥ ७ ॥
गोशृङ्गे नायकं देवं क्षीरं स्नाप्य स् * सं वम? ।
कपिला पञ्चगव्येन कुशवारियुतेन च ॥ ८ ॥
स्नापयेद्देवदेवेशं कोटिदानफलं समम् ।
नवधा स्नपनं कुर्वन् यो नरो भक्तिसंयुतः ॥ ९ ॥
नानाभोगानि भुञ्जीत शिवलोके महीयते ।
नवमार्गे तु यत्कर्म भोगेऽपि नवधा भवेत् ॥ १० ॥
नवधा हविषं कृत्वा फलं तद्गुरुलाघवम् ।
धूपघण्टा तु यो दद्या * * निर्-ऋति शिष्यते ॥ ११ ॥
वस्त्राण्याभरणादीनि देवदेवस्य दापयेत् ।
प्। ३०७)
नानावस्त्रेण सम्पूज्य नानाचाभरणैस्तथा ॥ १२ ॥
पूजितस्त्विह लोके तु तच्छक्तिर्निर्विशेषतः ।
भूमिं गोकर्णमात्रे तु उमापाये चलात्मकम् ॥ १३ ॥
ग्रामाणामधिपस्सोऽपि विशेषात्पूजितस्त्विह ।
देवदेवस्यमभितः प्रग्निव्यामेकरुद्भवेत् ॥ १४ ॥
दीपन्तु देवदेवस्य सकृत्काले प्रदापयेत् ।
लोकेषु दीपवत्सोऽपि सर्ववृत्तारुहस्मृतः ॥ १५ ॥
शिवमुद्दिश्यदारम्भे प्रयोक्ताः स्वर्गभाक् पुनः ।
सर्वदानतपोयज्ञं प्राप्यते तत्फलं भवेत् ॥ १६ ॥
तस्मादतिशयस्वर्गे तत्फलं महदाप्नुयात् ।
प्। ३०८)
तत्क्षरक्षते येन सप्तजन्मानुयिष्यति ॥ १७ ॥
इष्टिकाशैललोहैस्वा यत्कुर्वं भवन्नरः ।
काञ्चनेन विमानेन शिवलोके महीयते ॥ १८ ॥
स सिद्धेन विमाने तु स्थापितं विधमार्गतः ।
शिवलोकमवाप्नोति पूज्यमानस्स चा नरैः ॥ १९ ॥
शिवलिङ्गे तु ते पश्चात् फलं सामीप्यमाप्नुयात् ।
यद्रूपं स्थापितं बिम्बं तद्रूपोऽथ भविष्यति ॥ २० ॥
शिवयज्ञे समाप्ते तु प्रयुक्तायामथार्चने ।
एकविंशद्गुरूणाञ्च तथाऽस्य च वंशिनाम् ॥ २१ ॥
दर्शपूर्वं समिच्छन्ति समासनदशा पराक् ।
प्। ३०९)
मातृपक्षे प्रसूतीनां तल्लोके स्थानमिष्यति ॥ २२ ॥
शुश्रूषकाणान्तराणि पुत्रभ्रातृकलत्रकैः ।
शिवलोके नैव वा स्यात् सर्वदेवपरिव्रति ॥ २३ ॥
ततो हुत्वा तु विपुलान् प्रलये समुपस्थिते ।
ज्ञानयोगं समासाद्य स तत्रैव मुच्यते ॥ २४ ॥
प्राकारमण्टपान् कुर्वन् यथेष्टं स्वर्गमाप्नुयात् ।
वापीकूपतटाकञ्च देवतोद्दिश्य यत्नतः ॥ २५ ॥
कुर्वन् बहुधनाड्यस्तु तदन्ते शिवमाप्नुयात् ।
तत्राऽपि भूयये चैव तस्य स्वर्गं न संशयः ॥ २६ ॥
आसनासन्निसद्भावं ज्ञात्वा सम्पूजयेच्छिवम् ।
प्। ३१०)
सालोक्यं चैव सामीप्यं सायुज्यञ्चैव येव हि ॥ २७ ॥
सारूप्यं हि चतुर्थं स्यादुत्तमं मध्यमाधमम् ।
मध्यं स्तम्भं चतुष्कोण धर्मज्ञानादिदेवतम् ॥ २८ ॥
बाह्ये द्वादश स्तम्भानां द्वादशादित्यदैवतः ।
बाह्यानां विंशतिस्तम्भं वसवो अश्विनौ तथा ॥ २९ ॥
विद्येश्वरञ्च विश्वौ च विश्वस्तम्भाय देवताः ।
दर्भमालाभिरावेष्ट्य पुष्पमाल्यैरलङ्कृतम् ॥ ३० ॥
तदङ्गपटमावेष्ट्य स्तम्भनञ्चापि वेष्टितम् ।
सितानामूर्ध्वमाच्छाद्य नेत्रपटैरलङ्कृतम् ॥ ३१ ॥
नारिकेलफलं पुष्पैर्मुक्तादामैरलङ्कृतम् ।
प्। ३११)
अश्वत्थं रक्तपत्रैश्च अपूपैरुपशोभितम् ॥ ३२ ॥
गन्धपुष्पसमायुक्तं धूपदीपैरलङ्कृतम् ।
गोमयालेपनं कृत्वा प्रोक्षयेद्भूतलं प्रति ॥ ३३ ॥
अङ्कुरार्पणयेत्पूर्वं पूर्वनृत्तं यथा कृतम् ।
एवन्तु मण्टपं पूर्वप्रोक्तं नृत्तकालं शृणुष्वहि ॥ ३४ ॥
नित्यस्थाने समानृत्तम् अर्चनान्तं तथैव हि ।
क्षीरस्नाने घृतस्नाने मधुस्नाने जलेऽपि वा ॥ ३५ ॥
अन्यत्पुण्यदिने वाऽपि यत्तन्नृत्तं समाचरेत् ।
नृत्तस्य प्रथमात्पूर्वे नारीनां दीक्षणं कुरु ॥ ३६ ॥
गान्धर्वप्रथमारम्भे दीक्षितस्य तथैव हि ॥
प्। ३१२)
नर्दको नर्दकश्चैव गायको वंशकस्तथा ॥ ३७ ॥
मौके वा रुद्रनारीणां शिवदीक्षा करोति हि ।
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ॥ ३८ ॥
एभिस्तु लक्षणैर्युक्तशुद्धनृत्तं समारभेत् ।
हीनाङ्गे नासिकांश्चैव बालो वृद्धस्तथैव च ॥ ३९ ॥
स रोगी विकटाङ्गश्च क्षयकुष्ठादिवर्जितम् ।
अपेयपानी पाषण्डी वामा * * * वर्जयेत् ॥ ४० ॥
आरात्रिमर्चयेत्कुर्यात् भस्मानं दापयेद्बुधः ।
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ॥ ४१ ॥
सायङ्काले विशेषेण * * होमं विना चरेत् ।
प्। ३१३)
पश्चाद्धोमबलिं कुर्यादस्त्रदेवसमन्वितम् ॥ ४२ ॥
अन्तर्लिङ्गबलिम्पात्रं चन्द्रशेखरमेव च ।
रात्रौ तु वा बलिं कुर्यात् सर्वेषां बलिमाचरेत् ॥ ४३ ॥
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ।
अष्टमे नवमे वापि गन्धोत्सवविधिक्रमम् ॥ ४४ ॥
तद्दिनं त्रितये वापि द्वितीये चाङ्कुरार्पणम् ।
तद्दिनात्पूर्वरात्रौ तु कौतुके तु नटेश्वरम् ॥ ४५ ॥
भुजङ्गललितञ्चैव भुजङ्गत्रासमेव च ।
एतन्नृत्तमिदं प्रोक्तं स्नपनं तत्र कारयेत् ॥ ४६ ॥
शिवाग्रे मण्टपं कुर्यात् आस्थानं मण्डपं तथा ।
प्। ३१४)
गोमयालेपने शुद्धे स्थण्डिलं तत्र कारयेत् ॥ ४७ ॥
अष्टद्रोणैश्च शालीनां तदर्धं तण्डुलं तथा ।
तदर्धं तिलसंयुक्तं देवाग्रे स्थण्डिलं तथा ॥ ४८ ॥
दर्भैः पुष्पैः परिस्तीर्य लाजपुष्पैश्च शोभितम् ।
तन्मध्ये तु त्रिपाटीनां स्थण्डिक्तान् तण्डुलं भवेत् ॥ ४९ ॥
स्वर्णसूत्रं विशेषेण कार्पासं सूत्रमेव च ।
तन्मध्ये तन्तुसंयुक्तं भासं चन्दनमेव च ॥ ५० ॥
लम्बकूर्च समायुक्तम् उपवीतसमन्वितम् ।
परिचारकमूर्ध्निस्तु प्राकारे तु प्रदक्षिणम् ॥ ५१ ॥
शङ्खदुन्दुभिनिर्घोषैस्तोत्रमङ्गलवाचकैः ।
प्। ३१५)
देवसन्निधिमाप्नोति पुण्याहं वाचयेत्क्रमात् ॥ ५२ ॥
तदरवा अग्निकार्यन्तु स्थण्डिलैस्सिकतैस्तथा ।
त्रिसूत्रं पूर्वोत्तरेणैव ब्रह्मजज्ञानमन्त्रतः ॥ ५३ ॥
नागे सुवर्णमन्त्रेण दक्षिणे सूत्रमेव च ।
आप्यायस्वेति मन्त्रेण उत्तरं रेखयेत्क्रमात् ॥ ५४ ॥
यो रुद्रो इति मन्त्रेण पूर्वरेखा समालिखेत् ।
तन्मध्ये स्थापितं कुर्यात् प्रदक्षिणमथाचरेत् ॥ ५५ ॥
वागेश्वरञ्च वागेशी तन्मन्त्रमर्चयेत्क्रमात् ।
त्रिदशैः कूर्चसमायुक्तं पुष्पगन्धसमन्वितम् ॥ ५६ ॥
अर्चयित्वा विशेषेण धूपदीपसमन्वितम् ।
प्। ३१६)
अग्निन्तु वामपार्श्वे तु पात्रन्तु साधयेत्क्रमात् ॥ ५७ ॥
उत्तरे आसनं कल्प्य प्रणीतां प्रोक्षणीं तथा ।
आज्यस्थालीं चरुस्थालीं सृक् स्रुवं साधयेत्क्रमात् ॥ ५८ ॥
समिधा द्रव्यसंयुक्तं परिधित्रयमेव च ।
प्रोक्षणं पात्रमादाय जलेन पूरितं क्रमात् ॥ ५९ ॥
कुशपुष्पाक्षतैर्युक्तं प्रोक्षणी साधयेत्क्रमात् ।
प्रणीतापात्रमादाय तोयपुष्पाक्षतैर्युतम् ॥ ६० ॥
उत्तरे चैव सङ्कल्प्य जनार्दनं समर्चयेत् ।
आज्यस्थालीं घृतं पूर्य त्रिस्पर्शनकूर्चकम् ॥ ६१ ॥
कूर्चग्रन्थिविसृज्याथ अग्निमध्ये स्थितं तथा ।
प्। ३१७)
आज्यसंस्थानदर्भाणामाग्निं दक्षिणकं तथा ॥ ६२ ॥
व्याहतीं जुहुयात्कुर्यात् ब्रह्मजज्ञानमन्त्रकैः ।
परिस्तरेण दर्भाणां * * * * * * * * ॥ ६३ ॥
उभयोः पार्श्वयोश्चैव * * * * * संस्थिताः ।
मृदङ्गादिमहाशब्दं पूर्वायां दिशि संस्थितम् ॥ ६४ ॥
अन्ये भक्तजनाश्चैव तद्बाह्येन तु संस्थिताः ।
नीराजनं पूर्ववत्कृत्वा स्तोत्रमङ्गलवाचकैः ॥ ६५ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
नर्दको मर्दपूज्यञ्च शुद्धहेमन्तु निष्ककम् ॥ ६६ ॥
गायको वंशकश्चैव वस्त्रहेमाङ्गुलीयकैः ।
प्। ३१८)
तमर्दको रवैश्चैव युगं वस्त्रं प्रदापयेत् ॥ ६७ ॥
एतेषामन्यजातीनां ताम्बूलञ्च निवेदयेत् ।
गेयो वाद्यसमुत्पत्ति वाद्यं तालसमुद्भवम् ॥ ६८ ॥
तालानृत्तसमुत्पन्नम् इत्येते उद्भवं स्मृतम् ।
रङ्गेन वर्तने नृत्तहस्तानाञ्चैव निर्णयम् ॥ ६९ ॥
चक्षुर्भ्यां भावयेद्भावपादतालसमाश्रयम् ।
शिरोहस्तं कटिर्वक्षपुटरं पार्श्वसंयुतम् ॥ ७० ॥
अङ्गप्रत्यङ्गसंयुक्तं षडेते नृत्तलक्षणम् ।
लयनालसमायोगे चारुनृत्तं प्रकल्पयेत् ॥ ७१ ॥
गेयहीने ह्यनावृष्टिः वाद्यहीने धनक्षयम् ।
प्। ३१९)
नृत्तहीने तु दारिद्रं तालहीने भयङ्करम् ॥ ७२ ॥
बिन्दुनादस्वरैर्वर्णैर्वेषितैर्नाभिमूलकम् ।
हृदयं व्यापितं मुक्तिगलैर्दन्तैश्च जिह्वया ॥ ७३ ॥
शुक्लशोणितयोर्मध्ये बिन्दुनादोद्भवं शिवम् ।
तस्य मध्ये प्राणस्थिति बिन्दुरूपं परात्परम् ॥ ७४ ॥
मा पा धा नी सा री ।
सप्तस्वरमिति प्रोक्तं सकले तु विधिक्रमम् ॥ ७५ ॥
षड्ज ऋषभगान्धारामध्यपञ्चमदैवतम् ।
निषादनिष्कलञ्चैव सस्वरं सकलस्य तु ॥ ७६ ॥
निष्कलस्य तु आधेयमाधारं सकलं भवेत् ।
प्। ३२०)
सकलं शक्तिरूपं स्यान्निष्कलं जीवरूपकम् ॥ ७७ ॥
स्वरस्य प्रणमाधारं प्रणवायुसमं भवेत् ।
पद्मनालं गतो वायु सूतिकारेण संयुतम् ॥ ७८ ॥
यथाकाशस्तथा वायुस्तत्प्रमाणस्वरं भवेत् ।
स्वकारं प्राणमित्याहुः अकारञ्चानलं तथा ॥ ७९ ॥
द्वयोरक्षरसंयोगा स्वरस्य उपलभ्यते ।
इत्येकता गाहिका लोके चतुर्थमर्दलमुच्यते ॥ ८० ॥
सप्तस्वरत्रयोग्रामा एकविंशतिमूर्च्छयोः ।
अक्षराणां निभं कृत्वा वर्णाङ्गानि गायकाः ॥ ८१ ॥
स्वामिनं श्रुतिकारञ्च सप्तस्वरविभूषितम् ।
प्। ३२१)
सौग्रामे वर्तमानञ्च शुद्धषाडवसंयुतम् ॥ ८२ ॥
एतेषां लक्षणैर्युक्तं वंशकानां विशेषतः ।
अष्टमेव गुरुं पूर्वं मध्यमे लघुषोडशम् ॥ ८३ ॥
परोपि द्वात्रिंशति बिन्दुकार्या क्षिपतिका बुधः ।
ध्रुवं का अपरार्पाण्या तिष्यं बन्धापि सर्जनम् ॥ ८४ ॥
इति ख्याता कायपतिता चाष्टमेव च । ?
तत्कराङ्गस्य पञ्चम्यां दलामालदेशिकम् ॥ ८५ ॥
गान्धारञ्च मयाकुम्भमित्येते रागषड्विधम् ।
उत्सवानां परीचारमदचारीगचारिका ॥ ८६ ॥
महाचारिक इत्येते चतुर्थानामत स्मृताः ।
प्। ३२२)
ध्रुवाक्षिप्तिलवञ्चैव वर्धमानस्त्रियं तथा ॥ ८७ ॥
मण्डलः कुण्डितञ्चैव विक्षेपोक्षितमेव च ।
आवेष्टितो वेष्टितञ्च उर्वेष्टिं तन्तुमेव च ॥ ८८ ॥
भ्रमरीरसचारी च करणञ्चाङ्गहारिका ॥ ८९ ॥
सप्रकारि रसञ्चैव कटकं कुण्डलमेव च ।
सात्विकं दृष्टिसंयुक्तं शुद्धनृत्तं विधीयते ॥ ९० ॥
भूतप्रेतपिशाचैश्च असुरो गणराक्षासाः ।
नृत्ताक्षिप्तबहुशब्दं श्रोत्रं गच्छेद्भयावहम् ॥ ९१ ॥
गानश्रोत्रगतञ्चैव सहसा गच्छति बाह्यतः ।
प्। ३२३)
लोकशान्तिकरं ह्येवं राजराष्ट्रविवर्धनम् ॥ ९२ ॥
स्थानवृद्धिञ्च मेवोक्तं धनधान्यविवर्धनम् ।
अथ वक्रमथनं व प्रभङ्गं पिङ्गलजटामकुटम् ॥ ९३ ॥
पीतं गङ्गाजलार्थनिधनमार्द्रचन्द्रधारः ।
त्रिदशी देव असुर गणवन्दितचरणम् ॥ ९४ ॥
प्रणदायाङ्कुरणं सर्वलोकशरणार्ति विनाशनम् ।
वैद्यनाथचरणनृत्ताक्षिप्तं सितवृषगतिम् ॥ ९५ ॥
सितभस्मधरं सितगङ्गाजलकम् ।
तस्मिन् गात्रलवे सुबालां वै बहुविन्यसेत् ॥ ९६ ॥
पाणिनौक्षासनं कृत्वा पुष्पाञ्जलि सुमुद्रया ।
प्। ३२४)
नोरोगस्स च सहानृत्ते नृत्ताक्षिप्तसमन्वितम् ॥ ९७ ॥
वर्तभ्रमरन् भ्रमरपक्षविपुं प्रमाणैस्सत्वमहोरवरसम् ।
मन्दञ्जलिरेषरङ्गैस्सिद्धिव्रतञ्चायमेक चतुर्मुखम् ॥ ९८ ॥
कुञ्चितौ मणिबन्धौ च हा वृत्ति परिवर्जितौ ।
अर्धञ्चोर्द्ध निवाद्यैश्च वर्तनं कमलं भवेत् ॥ ९९ ॥
मधुमत्तभ्रमरीगीतरवे परभृतगलाय सम्यावनेत्र युग्ममनसा ।
व्रतगन्धवनं पते प्रविशति वनमिव सुकरणीप्रावेशिकैः ॥ १०० ॥
प्। ३२५)
लीलाविलासिनि चितया करणीलोलाविलोलनवन्ये
बिम्बं कमलाकुचरुद्रपवनै सुभोक्तोरपि नं प्रवेशतिमन्दगतेद्धृवैः ॥
मन्दारपुष्प परिपूर्णविचित्रगन्धैः
मुक्तालिवृन्दमधुस्वनिगीतियुक्तैः ।
नानाङ्गहारकरणाञ्चित दृष्टिपातैः
पुष्पाञ्जलिं हरतुकं कमलासनस्थः ।
जय गङ्गाधर जय शशिशेखर जय खड्गाङ्गधर जय त्रिपुरान्तक
जय त्रिभुवनवनवन्दितचरण जय सितवरवृषगगमन जय ।
जयव्याधिविनाशनदेव वैद्यनाथ चरणनैकमाणम् ।
प्। ३२६)
ऋषभगान्धार शुद्धकमलाकरकमलाचयलयनिलये कमलासनसहिते कमलवन्दितसितासितनयने गीतवाद्यनिरते
गुणागुणनिलये सुरनिर्मिते तववन्दिततया करणे देवि सरस्वति वरगुणिवरणे जयगणपति सहिते
वितगघननिववर्गा न तले नारागणमज्वलितेरभामनेन नलिन तत्र कमले शशिनं भवोल्ललिते प्रावेशिकैः ।
पवनराशिननिधिलिगिलितते भ्रमरगणमधुरगीतरवे कोत्ररवकोकिलमूविकलिते प्रविशति परमिव सुरकिरणी
नृत्ताक्षिप्तिः । मनमुदितमधुरविकुल भ्रमरमुदितकिन्नरगीतरवे विरहामरमन्दागममन्दगते प्रविशति ।
प्। ३२७)
गजपति निलयगिरिशेखरे ध्रुवैः । पुन्नागचन्दनसरोरुहवल्लिजालैर्मत्तालितायोगवकुलोत्पलकर्णिकारैः ।
नानाविचित्र करणान्वितदृष्टिपातैः
पुष्पाञ्जलिं हरतु मे कमलासनस्थः ॥
पुष्पाञ्जलिः-
सरस विकुलित द्रुधिरपटनरशिरोमालाकपालधरम् ।
अर्धकन्दर्पविनाशकरं प्रणमत भैरवरूपम् ॥
नैष्क्रामणम् - पञ्चशुद्धिः -
देवं दिव्यकपालकत्रिशूलधरं जकङ्कालमाभरणम् ।
शशाङ्कशेखरमुपाध्युरूपधरं वासुकिफणिमणिभैरवम् ॥
प्। ३२८)
रूपरुद्रमेकाक्षं गुरुवदेवदेवं त्रैल्कोक्य नमोस्तुते ।
प्रावीशिकै गुरुजमलाञ्जनभस्मकरं विषधनदर्प विनाशकरम् ॥
तदविधिनाशकरं मरणविनाशन धरणीतरं प्रणमत केशव पूरितहरम् । नृत्ताक्षिप्तिः-
माला सुरेन्द्रमधुदर्पहरं गोवर्धनं क्षिप्ति जनाद्धरणम् ।
दृष्ट्वा सारस्य सितभस्मकरं त्रैलोक्यनाथमहं शिरसा ॥
धूपैः-
तत्पुष्पपङ्कजसरोरुहपङ्कजातैः
अन्तर्भ्रमद्भ्रमरकर्णिककृत्तिकारैः ।
दृष्टियोगपरिमण्डल दृष्टिपातैः
प्। ३२९)
पुष्पाञ्जलिं हरतु मे कमलासनस्थः ।
पुष्पाञ्जलिः-
मत्स्यकूर्मो वराहश्च नारसिंह भ्रुकुटितमकुटकंसमहासुरदेवविनाशदेवदानवहारि त्रिपुरहतमाक्षिप्तिः
।
जलभवनहुताशीन दिव्यंशाकरकुक्षिकरम् ।
अजरं परमानन्दपरमं विष्णुजयं पवनम् ॥
नैष्कामिकरम् - तर्करागम् -
अर्धशशाङ्कधराय नमो दिव्यगजेन्द्रपगाय नमो
नागकृताभरणाय नमो देवि उमासहिताय नमो प्रवेशिकैः ।
कुसुमवरनं मितविविधतरुकरभ्रमणमधुरगीतरवेण
प्। ३३०)
तमन्दमाप्रविशति वरमिव । सुरकरणी वनमुदितमधुरविकुलित पवनशिथिलिततरुणतरुवनते ।
अलपुलिते करिवरचरणगते गगनगगनमपविशति परकिरणपवते ध्रुवैः - ।
प्रोत्फुल्लकर्णिकुसुमादिविशेषगन्धैः
भृङ्गारवैकुलितेकतति वन्दनाद्यैः ।
हस्तापि तत्र परिपूर्णदृष्टिपातैः
पुष्पाञ्जलिं हरतु मे कमलासनस्थः ॥
पुष्पाञ्जलिः-
भुजगेन्द्रभारवकरललितमर्धकृतं धनम्
प्। ३३१)
वरवृषगमनं यदि प्रियदहनं मृगपतिवसन शशिखण्डमण्डितजटामकुटार्धम् । वासुदेवकृतपतिचरणं
पूजामिथुनवरवन्दनदेविगुरु सततम् । नैष्क्रामणम्- कौशुकशुद्धिम्-
दिवसकरसम्पुरुषो शिशुचिरचिरतपीत जनगम्भीरतरसा सहिता विन्दिबेरं पशुपतिपानचरणाहतहरम् ।
प्रवेशिकैः-
मलयसुगन्धारमाणवने भ्रमरदलभियवर्णेना हयये ।
मदशनशाहति खिन्नरमणो प्रविशति करणीकरवरयै ॥
नृत्ताक्षिप्तिः-
प्। ३३२)
कमलसुरमणि मकुटार्चितं चरणं कमलयुगे ऋषिमुनि सुरसेविता । चरणं भुवनत्रयमहिते
सिद्धान्तमन्दवेदाद्योते वलये । हरवरसंस्कृते योगिनमितयोगिनिमितं नमो ध्रुवैः ।
चिलादिके कृतसरोरुहपारिजातैः
दिव्यालिबृन्दपरिपङ्कजरेतसूक्तम् ।
हस्ताभियोगपरिवर्तन दृष्टिपातैः
पुष्पाञ्जलिर्हरतु मे कमलासनस्थः ॥
पुष्पाञ्जलिः-
प्। ३३३)
मत्स्यः कूर्मो वराहश्च नारसिंहभृकुटितटमकुटकंसमहासुर-देवविनाशनदानवत्रिपुरहतमाक्षिप्तिः-
पुनरुक्ति - जलभवनहुताशी दिव्यशाङ्करकुक्षिरम् अजरं परमं नन्दितपरमं विजयं पवनः ।
नैष्कामिकरम्- तर्करागम् ।
अनाशशशाङ्क धराय नमो दिव्यगजेन्द्रपगाय नमो नागकृताभरणाय नमो देवि उमासहिताय नमो । प्रवेशिकैः
। शिखरपरिशिखरकृतनिलयं गीतमयार्ध विश्रूयते । प्रणमतकेशव दुरितहरदानवगजत्रिपुरहरम् ।
नृत्ताक्षिप्ति-
प्। ३३४)
मलयसु पति सुररिव विमले विकसिततरुवरप्रहसित चरणम् । पङ्कजवकुल प्रियमिरहारमर्दनवगते प्रविशति
मृगपति वल्लीवटने । ध्रुवैः ।
सा वारिजाकोत्पलकीर्तिनीलैः विशेषमधुमालितबृन्दशोभैः ।
आलीलमण्डलसरोरुहदृष्टिपातैः पुष्पाञ्जलिर्हरतु मे कमलासनस्थः
पुष्पाञ्जलिः-
एकरूपमनेकाकारं पञ्चास्थानमणि श्रोत्रवर्तिकावन्दितचरणमजजस्य । बहुमगकरादिवद्दानदवयच्चित
वादशम्भो यागमयं प्रणमतोऽस्मि शिवरूपम् । ऋषिकुलसकलकरण्डं चिन्दबेदरवरदम् । नैष्क्रामणम् ।
प्। ३३५)
गन्धारूढम् उत्थापनैर्प्रावेशिन्तु आक्षिप्य परिवर्तकेनानन्दितस्य स्रुवायोगम् । रङ्गद्वारि च सौरसम् ।
चारी च पुष्पमोक्षा महाचारीश शैक्रमणात् ॥
अतःपरं प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
प्रातःकालेऽर्चनान्ते च गेयनृत्तविहीनकैः ॥ १ ॥
मध्याह्ने अर्चना काले द्विगुणं नृत्तमाचरेत् ।
द्विसन्धिनृत्तहीने तु सायङ्कालार्चनान्तकम् ॥ २ ॥
नृत्तगेयं समारभ्य नृत्तगेयं समाचरेत् ।
एकाहनृत्तहीने तु स्नपनं पञ्चविंशतिः ॥ ३ ॥
शान्तिहोमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा ।
प्। ३३६)
प्रभूतहविषं दत्वा ताम्बूलञ्च प्रदापयेत् ॥ ४ ॥
द्व्यहं त्र्यहं वाऽपि चतुर्थं पञ्चाहमेव तु ।
षष्ठाहञ्च नचेद्वापि सप्ताष्टनवमं स्मृतम् ॥ ५ ॥
त्रीण्यादीनि शतान्तञ्च यथाविभवविस्तरम् ।
गुरुहात्वादिशैवानां सगोत्रञ्चरोपरोपयेत् ॥ ६ ॥
तोयभूमिं ददेद्भूमिं स्वर्णं धान्यं ददेत्क्रमात् ।
तत्सङ्ख्या शीलकारोप्य तत्सङ्ख्या च तपस्विनम् ॥ ७ ॥
तत्सङ्ख्या वाद्यकांश्चैव तत्सङ्ख्या गणिका भवेत् ।
तत्सङ्ख्याश्च कुलालाश्च तत्सङ्ख्या पुष्परक्षकाः ॥ ८ ॥
तत्सङ्ख्या देवदासी च तत्सङ्ख्या वस्त्रक्षालिनः ।
प्। ३३७)
तत्सङ्ख्या काष्ठकारी च गोपालानां तथैव च ॥ ९ ॥
अन्यत्कर्मोपजीवीनां यथा विभवतां नयेत् ।
यावद्बलं विभवता तावद्धविः प्रदापयेत् ॥ १० ॥
शक्तिहविषार्द्धञ्च यथाशक्ति अर्चनभोगकम् ।
दीपानां भोगमेवं तं गन्धार्धं भोगमेव तु ॥ ११ ॥
पुष्पार्धं भोगमेवन्तु स्नपनार्थं भोगमेव च ।
उत्सवार्यञ्च भोगञ्च पुष्पकानां भोगमेव च ॥ १२ ॥
प्रायश्चित्तार्थभोगञ्च कृत्तिका दीपभोगकम् ।
आग्रयणार्थञ्च भोगञ्च न्यूनातिरिक्तभोगकम् ॥ १३ ॥
देवयज्ञश्च भोगञ्च शिलालेखान्तु कारयेत् ।
प्। ३३८)
देवञ्च परिचारञ्च देवकर्मिषु सर्व च ॥ १४ ॥
अक्षीण जीवितुं यत्तु यथा विभव निश्चयम् ।
देवस्य शेषं यन्मर्त्यमन्यकर्म न कारयेत् ॥ १५ ॥
देवालयं गृहं गम्यं परालयं न दृश्यते ।
सुपुष्टभोगं कृत्वा तु कुर्याद्राजोपकारकम् ॥ १६ ॥
यथा विभवविस्तारं त्रिधा कृत्वा तु भागकम् ।
एकभागन्तु धर्मार्थं द्विभागं देवशेषकम् ॥ १७ ॥
एवं क्रमेण यः कुर्यात् शिवलोकं स गच्छति ।
इति योगजे विभवनिश्चयः पटलः ॥
प्। ३३९)
अथ वक्ष्ये विशेषेण नैवेद्यविधिमुत्तमम् ।
हैमशाली महाशाली रत्नशाली तथैव च ॥ १ ॥
सितमाली कृष्णशाली तत्तद्भेदमनेकधा ।
व्रीही च सर्वभेदानां यवगोधूमकानि च ॥ २ ॥
एते च सर्वयोग्यानां हविश्शेषं विधीयते ।
शुक्तिश्च त्रिशतं व्रीहि द्विगुण व्यूहमिष्यते ॥ ३ ॥
द्विगुणं कुटुम्बमेवोक्तं कुटुम्बद्वयवारिषु ।
वारिद्वयं प्रस्थमित्युक्तं तद्वयञ्चरु आढकम् ॥ ४ ॥
तद्वयहविरुच्यन्ते तद्वयं शिवमीरितम् ।
शिवद्वयं द्रोणमित्युक्तं तद्वयं खानिरुच्यते ॥ ५ ॥
प्। ३४०)
खारित्रयं भारमित्युक्तं यथाक्रममिति स्मृतम् ।
शतभारमुत्तमं प्रोक्तं पञ्चाशन्मध्यमं भवेत् ॥ ६ ॥
विंशद्भारन्तु अधमं दशभाराधमाधमम् ।
क्षुद्रन्तु पञ्चभारं स्यान्नीचं भारद्वयं तथा ॥ ७ ॥
कल्पं भारमिति प्रोक्तं नर्तशक्तिवशान्नयेत् ।
आढकन्तु हविं कुर्यात् तदर्धं चरुरुच्यते ॥ ८ ॥
तदर्धं बलिरित्युक्तं यथाक्रममिति स्मृतम् ।
गौर्यादि शक्तिनाञ्चैव परिचाराणां तथैव च ॥ ९ ॥
षोडशप्रतिमानाञ्च द्विप्रस्थञ्च निवेदयेत् ।
हविश्चैव चतुर्भावद्विभागन्तु निवेदयेत् ॥ १० ॥
प्। ३४१)
ऐकभागन्तु शेषं स्यात् शेषं बालादिदानकम् ।
हविरष्टविधं प्रोक्तं मुद्गान्नं पायसान्नगम् ॥ ११ ॥
कृसरान्नं गुलान्नञ्च शीबान्नञ्च यवान्नकम् ।
माषान्नञ्चैव शुद्धान्नं हविरष्टविधं भवेत् ॥ १२ ॥
तुषञ्च वर्जयेन्मुद्गं नारिकेलफलैर्युतम् ।
तण्डुलार्धञ्च मुद्गञ्चाल्पं लवणसंयुतम् ॥ १३ ॥
एवमुद्गान्नमित्युक्तं कृसरान्नं तथैव च ।
कदलीगुलसंयुक्तं जीरकञ्च मरीचिका ॥ १४ ॥
नारिकेलघृतैर्युक्तं पालसार्द्रवसंयुतम् ।
मुद्गञ्च नारिकेलञ्च पनसफलसमन्वितम् ॥ १५ ॥
प्। ३४२)
गुलान्नमिति विख्यातमपूपान्नमथोच्यते ।
अपूपान्नमिति ख्यातं सर्वकाले तु दापयेत् ॥ १६ ॥
सर्वेषाञ्च विधातव्यमुपदंशगुलैर्युतम् ।
दधिघृतसमायुक्तं पञ्चवर्णहविर्ददेत् ॥ १७ ॥
तण्डुलप्रस्थमेकन्तु फलैकमुपदंशकम् ।
तत्समं गुलसंयुक्तं मरीचीलवणसंयुतम् ॥ १८ ॥
जीरकं नारिकेलञ्च युक्तास्सर्वोपदंशकम् ।
घृतञ्च पेषणं कृत्वा शुद्धोपदंशमुच्यते ॥ १९ ॥
चूतफलं मातुलङ्गञ्च तिन्त्रिणीफलसंयुतम् ।
अम्लोपदंशमेतेषां मरीचीलवणघृतैर्युतम् ॥ २० ॥
प्। ३४३)
जीरकं सर्षपञ्चैव पेषणञ्च सुगन्धिकम् ।
अतिपक्वमपक्वञ्च वर्जयेत्तु विशेषतः ॥ २१ ॥
सर्षपं पाचयेद्धीमान् त्रिविधं सोपदंशकम् ।
शुष्कमार्द्रवपक्वञ्चाम्लपक्वं त्रिधा भवेत् ॥ २२ ॥
पनसं कदलीचूतं बृहती कूश्माण्डमेव च ।
श्वेतहरी फलञ्चैव वल्लीपनसमेव च ॥ २३ ॥
क्षुद्रमिति एको वापि निष्वापद्वयमेव च ।
शिग्रूमार्जारकालिञ्च तिमिसीमातुलङ्गकम् ॥ २४ ॥
नालिकेरङ्गकायञ्च रक्तागस्त्यफलं भवेत् ।
वनदेशकारीश्ववली च कण्टा काली च दूलता ॥ २५ ॥?
प्। ३४४)
माष मा * षलती चैव उपदंशफलान्वितम् ।?
इदमन्यत्र चिद्रव्यं भक्तियुक्तं भवेद्विदुः ॥ २६ ॥
वल्लीमूलमिहामूलं भिन्नमूलन्तु कर्णिका ।
अन्यमूलन्तु एतेषां मूलवर्गं ददेद्बुधः ॥ २७ ॥
अन्येषां मूलद्रव्याणां भक्तियुक्तं वशान्नयेत् ।
शक्तिजातिस्तु सर्वेषां वर्जयेत्तु विशेषतः ॥ २८ ॥
रक्तध्रुवासं भक्तानामेककालं निवेदयेत् ।
मरीचीसर्षपं चूर्णं जीरकं नारिकेलकम् ॥ २९ ॥
सर्वेषामुपदंशानां सममेतत्प्रकल्पयेत् ।
घृतञ्च मेलयित्वा तु सर्वद्रव्याणि संयुतम् ॥ ३० ॥
प्। ३४५)
षड्रसं घृतसंयुक्तं नैवेद्यं दापयेद्बुधः ।
कृषिकर्मफलं पूर्वं देवदेवं निवेदयेत् ॥ ३१ ॥
तलिका स्थापयेदन्नमङ्कारं तुषयोनकम् ।?
अतिपक्वमपक्वञ्च वर्जयेत्तु विशेषतः ॥ ३२ ॥
महाहविर्निवेद्यन्तु वस्त्रोर्ध्वे पत्रकं न्यसेत् ।
कदलपलाशपत्रं वा अन्यक्षीरद्रुमन्तु वा ॥ ३३ ॥
अन्येषां शुद्धपात्राणां महाहविर्निवेदयेत् ।
हविरूर्ध्वोपदंशैश्च गुलञ्च कदलीफलम् ॥ ३४ ॥
घृतं निक्षिप्य यत्नेन दधि वा दुग्धमेव वा ।
निवेदयेद्धृदा मन्त्री देवस्यत्वेति मन्त्रतः ॥ ३५ ॥
प्। ३४६)
पाटलीञ्च सुगन्धी च उशीरम् एलसंयुतम् ।
पानीयं दापयेत्पश्चात् चण्डेशाय निवेदयेत् ॥ ३६ ॥
निर्माल्यशुद्धिं कृत्वा ताम्बूलञ्च निवेदयेत् ।
कर्पूरं जातितकेकालं तैलं क्रमुफलैर्युतम् ॥ ३७ ॥
ताम्बूलं दापयेत्पश्चात् अल्पचूर्णैस्समायुतम् ।
चन्दनञ्चैव कर्पूरं कस्तूरीमुखसंयुतम् ॥ ३८ ॥
मन्त्रगेयसमायुक्तं व्यञ्जनं मन्दवायुना ।
हिमाचलसमायुक्तं रामवत् सुषिरे स्पृशेत् ॥ ३९ ॥
एवं कृते तु मर्त्याश्च ऐश्वर्यं सर्वमाप्नुयुः ।
शनिवारे बुधवारे च गन्धतैलं क्षितेद्बुधः ॥ ४० ॥
प्। ३४७)
इति योगजे नैवेद्यविधिः पटलः ॥
अग्निकार्यमहं वक्ष्ये शृणुष्वेकाग्रमानसः ।
कुण्डलक्षणमार्गेण कुण्डं कुर्याद्विचक्षणः ॥ १ ॥
अथवाऽन्यत्प्रकारेण स्थण्डिलं सिकतैस्तु वा ।
कोट्याहुत्यष्टहस्तं स्याल्लक्षहोमन्तु लक्षणम् ॥ २ ॥
दश सहस्रं पञ्चहस्तं वा त्रिहस्तं चतुर्हस्तकम् ।
द्विहस्तसहस्रं होमं स्याद्धस्तं पञ्चशताधिकम् ॥ ३ ॥
रत्निमात्रा शतान्ता च दृष्टिमात्रं शतार्धकम् ।
दृष्टिमात्रादधोमानम् अष्टहस्तात्परं न हि ॥ ४ ॥
प्। ३४८)
द्वित्र्येकमेखलोपेतं कुण्डलक्षणवत्कुरु ।
स्थण्डिलं हस्तमात्रं स्यात् त्र्यङ्गुलसमन्वितम् ॥ ५ ॥
पद्मञ्च दक्षिणे स्थाप्य उत्तरे योनि कल्पयेत् ।
त्रिरेखाप्रागुदग्रं परिधी परिस्तरणसमन्वितम् ॥ ६ ॥
पूर्वपश्चिमकुण्डेषु चोत्तराभिमुखस्थिताः ।
अन्येषु प्राङ्मुखो भूत्वा सृक् स्रुवं कारयेद्बुधः ॥ ७ ॥
परिस्तरणमयो वेदि स्थण्डिलं सूत्रमध्यमे ।
परिधिं दक्षिणारभ्य प्राक् परिधिविना कृतम् ॥ ८ ॥
कूर्चं स्थाप्य तदूर्ध्वे तु पूर्णाग्रं समिधौ न्यसेत् ।
पञ्चसप्ताष्टनवभिः दर्भैः प्रागादिकूर्चकम् ॥ ९ ॥
प्। ३४९)
कनिष्ठाङ्गुलिप्रमाणेन परिधीनिध्मकं कुरु ।
आयामद्वादशाङ्गुल्यं समिधा कारयेद्बुधः ॥ १० ॥
ब्रह्मकूर्चं षडङ्गुल्यं विष्णुकूर्चं तथैव च ।
मध्ये तु रुद्रकूर्चन्तु त्रिमूर्तिं स्थापयेद्बुधः ॥ ११ ॥
त्रिपञ्च सप्तनवकैः कूर्चान् सर्वान् प्रकल्पयेत् ।
सृक् स्रुवञ्च चतुर्दर्भैः अष्टाङ्गुलन्तु दैर्घ्यकम् ॥ १२ ॥
पालाशाश्वत्थपत्रादी सृक् स्रुवञ्चैव बन्धयेत् ।
एकद्वित्रीणि दर्भाणां पवित्रं बन्धयेत्क्रमात् ॥ १३ ॥
त्रित्रिद्व्यङ्गुलं तदूर्ध्वं मध्ये बन्धं तदर्धकम् ।
अग्रं यवप्रमाणेन तत्पाशं विन्यसेद्बुधः ॥ १४ ॥
प्। ३५०)
अनामिकामूलसंयुक्तं पवित्रमिदमीरितम् ।
अग्निं प्रज्वाल्य विहरी परिषेचनमथाचरेत् ॥ १५ ॥
श्रोत्रियाङ्गारजं वाग्निं सूर्यकान्तोद्भवन्तु वा ।
कनिष्ठानि मर्दनं वाऽपि प्रोक्षयेत्तु शिवाम्भसा ॥ १६ ॥
सुगन्धकाष्ठं सङ्गृह्यमग्निमुज्वाल्य बुद्धिमान् ।
परिस्तरपूर्वाग्रमुत्तराग्रं प्रकल्पयेत् ॥ १७ ॥
शिवाग्निं जनयेद्विद्वान् शिवमन्त्रं जपेत्ततः ।
द्विमुखञ्चैकहृदयं चतुश्श्रोत्रं द्विनासिकम् ॥ १८ ॥
आस्यद्वयञ्च षण्णेत्रं पिङ्गलं सप्तहस्तकम् ।
त्रिमेखलं त्रिपादञ्च सप्तजिह्वा समासतः ॥ १९ ॥
प्। ३५१)
चतुःशृङ्गं वृषारूढं बालादित्यसमप्रभम् ।
एवं शिवाग्निं सङ्कल्प्य शिवमन्त्रेण देशिकः ॥ २० ॥
वृद्धरूपत्र्यक्षचतुर्भुजमक्षपिङ्गलगोवृषवाहनम् ।
रक्तवर्णसितोत्तरीयं वरं शक्तिपाणिशिवाग्निस्वरूपकम् ॥ २१ ॥
विद्युत्पुञ्जनिभञ्चतुर्भुजमजारूढं त्रिपादं चतुः सृङ्गवृत्तमुखद्वयं ज्वलितकं जिह्वा सप्तक षट्
सुनेत्र परममौञ्जि त्रिरावर्तितम् । सव्यापसव्ये करेऽसृभयं वरद युक् सृक् स्रुवञ्चापरे । ध्यायेत् ।
गार्हपत्यसंस्थमनलमेवं जगामौलिनं बालादित्यनिभं सृक् न्यते खड्गञ्चाभय सव्यकृतवामं कूर्चं
सकेरवं
प्। ३५२)
परात्परत्रिद्विषम् । सुनेत्रमभुजमथार्षकं सर्वालयञ्चोपरि गार्हपत्यं
गृहस्थानां पितॄणां दक्षिणानलम् ।
आहवनीयञ्च देवानां तत्तद्रूपं वदाम्यहम् ॥ २२ ॥
बालयौवनवृद्धाग्नि स्त्रिविधं तत्प्रकीर्तितम् ।
बालाग्नि स्यात्प्रतिष्ठानाम् उत्सवे यौवनाग्निना ॥ २३ ॥
वृद्धाग्नौ नित्यहोमं स्यात् सव्यापसव्यमार्गकम् ।
काली चैव कराली च मनोरमा च सुलोहिता ॥ २४ ॥
धूम्रवर्ण पुलिङ्गञ्च विश्वरूपी विलोहिता ।
देवीलोलाऽस्य भावास्यादिति शक्ति प्रकीर्तिता ॥ २५ ॥
प्। ३५३)
जिह्वाहस्ताय षट्त्र्यङ्गुलं नाहदण्डमूलाग्र पुष्करणोस समाग्ररूपं मध्याद्विपार्श्वबलिकर्म
घृतपूर्णं गोपालसन्निदण्डमिदं स्याग्रं वं स्याद्ब्राह्मणं दक्षिणे स्याज्य कूर्चं सुनिकृ वत् ।?
विष्णुर्वै वाम निक्षिप्य प्रणीतापात्रनिक्षिपेत् ।
भवश्च पूर्वादिकुण्डेषु आग्नेयमुग्रमेव च ॥ २६ ॥
शर्वं दक्षिणे कुण्डे ग्रामदेवन्तु नैर्-ऋते ।
रुद्रञ्च वारुणे कुण्डे भीमं वै वायुगोचरे ॥ २७ ॥
पशुपतिञ्चोत्तरे कुण्डे ऐशान्यामीशमेव च ।
त्रिणेत्रञ्चतुर्भुजञ्चैव मध्यमे होमकर्मणि ॥ २८ ॥
प्। ३५४)
सर्वदेवान् समभ्यर्च्य श्रेष्ठहोममिति स्मृतम् ।
लोकपालास्त्रहीने तु मध्यमे होमकर्मणि ॥ २९ ॥
कुण्डाधिदेवतास्सर्वे विन्यसेत्कुण्डमध्यमे ।
समिधः सद्यमन्त्रेण आज्यं वामेन हूयते ॥ ३० ॥
अघोरेण चरुं हुत्वा पुरुषेण च लाजकम् ।
ईशाने सर्वपञ्चैव कवचेन तिलं हुनेत् ॥ ३१ ॥
वयं हुत्वा हृदा मन्त्र सप्तमन्त्रेण हूयते ।
पलाशखदिरे * * अश्वत्थं वटवृक्षकम् ॥ ३२ ॥
न्यग्रोधं प्लक्षवृक्षम् अपामार्गं शमीं तथा ।
बिल्वं कपित्थकञ्चैव जम्बूवकुलमेव च ॥ ३३ ॥
प्। ३५५)
एवं समिदिहाख्याता प्रधानस्य पलाशकम् ।
मस्थण्डिलमुल्लेखनञ्चैव अपोक्षणमग्निसंस्थितम् ॥ ३४ ॥
परिस्तरणद्रव्यपात्रञ्च प्रोक्षणं पुण्याहमेव च ।
प्रणीता विष्णुमभ्यर्च्य ब्राह्मणञ्चार्च्यकूर्चकम् ॥ ३५ ॥
आद्यं त्रिदर्भमग्निस्थं दर्वीपरिधिरेव च ।
परिषेचनं ततः कृत्वा आवागादिप्रदक्षिणम् ॥ ३६ ॥
शुद्धञ्चरुघृतञ्चैव सर्वद्रव्याणि स्थापयेत् ।
अदितेऽन्वादिमन्त्रेण परिषेचनमथाचरेत् ॥ ३७ ॥
युक्तोवाहादि मन्त्रेण अग्निमुखं प्रकल्पयेत् ।
मूर्त्यादिदेवतानाञ्च स्वस्वमन्त्रैस्तु पूजनम् ॥ ३८ ॥
प्। ३५६)
कर्मान्ते चित्ताहुतिं कुर्यात् अग्निभूतादिराष्ट्रभृत् ।
सर्वकर्माणि सामान्यं पश्चात्स्वकर्म चिन्तयेत् ॥ ३९ ॥
ऋतुसङ्गमादिषोडशमन्यत्कर्म समाचरेत् ।
पञ्चब्रह्मषडङ्गञ्च शिवसंस्कानि होमयेत् ॥ ४० ॥
इति योगजे अग्निकार्यविधिः पटलः ।
अथ वक्ष्ये विशेषेण कुण्डलक्षणमुत्तमम् ।
यागमण्टपमध्ये तु नवभागं प्रकल्पयेत् ॥ १ ॥
मध्यभागे कृतं वेदी मुत्सेधं हस्तमात्रकम् ।
उपवेदि प्रकर्तव्या द्विस्तारं चतुरङ्गुलम् ॥ २ ॥
प्। ३५७)
उत्सेधं तावदेव स्यात् षडङ्गुलमथापि वा ।
पूर्वे तु चतुरश्रं स्यादाग्नेय्यां योनिकुण्डकम् ॥ ३ ॥
दक्षिणे चार्धकुण्डञ्च नै-ऋत्याञ्च त्रिकोणकम् ।
पश्चिमे वृत्तकुण्डन्तु वायव्ये तु षडश्रकम् ॥ ४ ॥
सौम्ये तु पद्मकुण्डञ्च अष्टाग्रमीशगोचरे ।
इन्द्रमीशानयोर्मध्ये वृत्तं प्राधानकं कुरु ॥ ५ ॥
सर्वेषामपि कुण्डानां हंसं चतुरश्रवत् ।
अष्ट हस्त्यादिमुष्ट्यन्तं कुण्मानं प्रकीर्तितम् ॥ ६ ॥
सर्वेषामपि कुण्डानां खनमुष्टिप्रमाणकम् ।
त्रिमेखलसमायुक्तं मेखलमेखलमेव वा ॥ ७ ॥
प्। ३५८)
अधोमेखलं समारभ्या द्वित्रीणि चतुरङ्गुलम् ।
विस्तारसममुत्सेधं षडङ्गुलमेकमेखलम् ॥ ८ ॥
योनौ योनिं न कर्तव्यं पद्मनाभिं न कारयेत् ।
तालमात्रं घनीकृत्य मध्ये कल्पं प्रकल्पयेत् ॥ ९ ॥
रसाङ्गुलन्तु वा कल्प्य वेदाङ्गुलमथापि वा ।
एकाङ्गुलन्तु तुङ्गं वां द्व्यङ्गुलमथापि वा ॥ १० ॥
एवं पद्मक्रमं कृत्वा कुण्डं तस्य तु मध्यमे ।
मेखलोर्ध्वे तु योनिञ्च चतुरङ्गुलमानतः ॥ ११ ॥
अग्रमङ्गुलविस्तारम् एकाङ्गुलं तदुन्नतिः ।
चतुरश्रं पञ्चधा कृत्वा एकांशं पुरतो न्यसेत् ॥ १२ ॥
प्। ३५९)
कोणार्धं गृहीत्वा तु बहिश्चैव तु वर्जयेत् ।
तत्कोणाद्भ्रामयेदन्यं योन्याकारं द्विसूत्रयुक् ॥ १३ ॥
विस्तारं नवधा कृत्वा अंशं न्यस्त्वोर्ध्वधं क्रमात् ।
सूत्रकं पातयित्वा तु भ्रामयेदर्धचन्द्रकम् ॥ १४ ॥
क्षेत्रवासं तु बुद्धीशं पार्श्वे न्यस्त्वा तु कारयेत् ।
त्रिसूत्रं प्रासारयेद्विद्वान् त्रिकोणं कुण्डमीरितम् ॥ १५ ॥
चतुरश्रन्तु नवैः कृत्वा अंशं बाह्ये न्यसेद्दिशि ।
भ्रामयेद्वृत्तकुण्डन्तु सर्वकर्मसुयोग्यकम् ॥ १६ ॥
पूर्वं वृत्तञ्च कृत्वा तु पद्माकारन्तु कारयेत् ।
कर्णिकाष्टदलोपेतं पद्मोत्सेधं करीयसी ॥ १७ ॥
प्। ३६०)
चतुरश्रस्य विस्तारं षट्चतुर्भागमाचरेत् ।
एकभागन्तु निस्त्वा * * * सूत्रयुक्तं बुधः ॥ १८ ॥
वृत्तकुण्डमिति ख्यातं पङ्क्त्यंशं वाऽथ भ्रामयेत् ।
कुण्डलक्षणमाख्यातं चतुरश्रस्य नाहवेत् ॥ १९ ॥
कोणस्यार्धं गृहीत्वा तु कोणेनैव तु कारयेत् ।
एवं स्वश्रकुण्डं स्यात् सर्वकार्येषु पूजितम् ॥ २० ॥
मुष्टिरत्निश्च बाहुश्च अष्टहस्तावसानके ।
सप्ताश्रञ्च नवाश्रञ्च पद्माश्रं षोडशाश्रकम् ॥ २१ ॥
युक्त्या तु योजयेद्धीमान् सर्वकुण्डं प्रकल्पयेत् ।
कुण्डानामपि सर्वेषामभ्यन्तरमनमीरितम् ॥ २२ ॥
प्। ३६१)
मेखलायां प्रमाणं यत्तत्प्रमाणमिति स्मृतम् ।
इति योगजे कुण्डलक्षणविधिः पटलः ॥
शान्तिहोममहं वक्ष्ये शृणुष्वेकाग्रमानसः ।
सदाशिवादिदेवानां परिवाराणां तथैव च ॥ १ ॥
प्राकाराभ्यन्तरे देवा स्वनामाद्यैश्च होमयेत् ।
द्विगुणं पूजयेत्तत्र अर्चनोक्तं क्रमेण तु ॥ २ ॥
शान्तिहोममिति प्रोक्तं सर्वदेवांश्च होमयेत् ।
शान्तिहोममिदं प्रोक्तं मूर्तिहोममथ शृणु ॥ ३ ॥
प्। ३६२)
प्रासादस्य चतुर्दिक्षु अन्तर्मण्टपके बुधः ।
चतुरश्रं स्थण्डिलं कृत्वा ईशाने वृत्तस्थण्डिलम् ॥ ४ ॥
अग्निकार्यक्रमेणैव अग्निमुखञ्च कल्पयेत् ।
ईशाने सदाशिवं मन्त्रं पूर्वे तु ईशमन्त्रकम् ॥ ५ ॥
दक्षिणे रुद्रमन्त्रन्तु पश्चिमे विष्णुमन्त्रकम् ।
उत्तरे ब्रह्ममन्त्रन्तु यथा शक्त्या तु होमयेत् ॥ ६ ॥
हविर्निवेदयेत्पश्चात् स्नपनं कारयेच्छिवम् ।
द्विगुणं पूजयेत्तत्र महाहविर्निवेदयेत् ॥ ७ ॥
मूर्तिहोममिति प्रोक्तं दिशाहोमं ततः शृणु ।
इन्द्राद्यैशानपर्यन्तम् अष्टदिक् दिशि देवताः ॥ ८ ॥
प्। ३६३)
तण्डिले सिकतं कृत्वा चतुरश्रं समन्ततः ।
शेषाण्यन्यानि सर्वाणि अग्निकार्योक्तमाचरेत् ॥ ९ ॥
दिग्देवान् पूजयेत्तत्र दिशाहोमन्तु पूजयेत् ।
दिशाहोममिति प्रोक्तं वास्तुहोममिति शृणु ॥ १० ॥
मण्डपस्य तु मध्ये तु स्थण्डिलं शालिनां कुरु ।
वास्तुकुम्भं समारोप्य वास्तुदेवान् समर्चयेत् ॥ ११ ॥
चतुरश्रं समं कृत्वा हस्तमात्रप्रमाणतः ।
अष्टाष्टकपदं वाऽपि नवं नवपदमेव वा ॥ १२ ॥
पिष्टसूत्रेण संलिख्यमीशादि देवमर्चयेत् ।
ब्रह्मादि देवमभ्यर्च्य चस्की प्रभृतिरर्चयेत् ॥ १३ ॥
प्। ३६४)
चत्वारिंशच्च पञ्चैते वास्तुदेवान् समर्चयेत् ।
वास्तुदेवान् समभ्यर्च्य बलिमन्त्रेण दापयेत् ॥ १४ ॥
वास्तुदेवं ततः कृत्वा देवानामाहुतिं क्रमात् ।
स्वनाद्येनैव मन्त्रेण समिधाञ्चैव होमयेत् ॥ १५ ॥
वास्तुहोमान्तकाले तु पर्यग्निकरणं कुरु ।
वास्तुपुण्याहमेवन्तु वास्तुकुम्भेन तोयकम् ॥ १६ ॥
वास्तुहोममिति प्रोक्तं सर्वकालेषु पूर्वतः ।
इत्येवं होममाख्यातं स्वस्वैर्मन्त्रैस्तु हूयते ॥ १७ ॥
इति योगजे शान्तिहोमादि वास्तुहोमविधिः पटलः ।
प्। ३६५)
अथ वक्ष्ये विशेषेण दीक्षाणां लक्षणं शृणु ।
दीयते तु शिवज्ञानं क्षीयते तु मलत्रयम् ॥ १ ॥
दीक्षाशब्दमिदं प्रोक्तं भुक्तिमुक्तिप्रदायकम् ।
सप्ताशैवमुद्दिष्टमतते तानि गतश्शृणु ॥ २ ॥
अनादिशैवं प्रथममादिशैवं द्वितीयकम् ।
मन्दाशैवास्तृतीयन्तु चतुर्थाञ्चो तु शैवकम् ॥ ३ ॥
पञ्चमान्तरशैवन्तु षष्ठं प्रवरशैवकम् ।
सप्तमञ्चान्त्यशैवन्तु शैवभेदाः प्रकीर्तिताः ॥ ४ ॥
शैवास्सप्तविधाः प्रोक्ताः तेषां भेदमथ शृणु ।
आदि शैवं विप्राणां शिवेन दीक्षित स्मृतः ॥ ५ ॥
प्। ३६६)
प्रथमन्तु द्विजानाञ्च पञ्चवक्त्रेषु दीक्षिताः ।
कौशिकः काश्यपश्चैव भारद्वाजो मैत्रिरेव च ॥ ६ ॥
पराशरश्च पञ्चैते पञ्चवक्त्रेषु दीषिताः ।
तेषाञ्च ऋषीणां माता चैव शिवद्विजाः ॥ ७ ॥
पुनर्दीक्षां न कुर्यात्तु आदि शैव इति स्मृतः ।
आदि दीक्षितश्चतुर्वेदि शिवपूजां न कारयेत् ॥ ८ ॥
भ्रान्त्या परममैशानं दीक्षाविरहितो द्विजाः ।
आदिशैवेन कर्तव्यं विप्रादीनाञ्च दीक्षया ॥ ९ ॥
अदीक्षितश्चतुर्वेदि आत्मार्थं पूजयेत्सदा ।
प्। ३६७)
उपनयनी तु काले तु शिवपूजामथाचरेत् ।
स्नपनं पागशुद्ध्यर्थं कारयेत्तु शिवद्विजः ॥ ११ ॥
महाशैवस्तु विप्राणां शिवदीक्षा समन्विता ।
अदीक्षितश्चतुर्वेदी परार्थपूजा न कारयेत् ॥ १२ ॥
दीक्षितस्तु विप्राणां षण्मासात्पूजयेत्कुरु ।
षण्मासात्पतनं यान्ति देवदेव कलास्मृताः ॥ १३ ॥
त्रीणि वर्षाणि भृत्यर्थं स्थिति लिङ्गञ्च दीक्षया ।
पूजयेद्यदि विप्रस्तु सर्वदेवलको भवेत् ॥ १४ ॥
एतेषां लक्षणैर्युक्तमलकानाञ्च सर्वतः ।
स्थितिलिङ्गञ्च पूजानां न कुर्वन्ति कदाचन ॥ १५ ॥
प्। ३६८)
क्षत्रियश्चैव वैश्याश्च अनु शैवा इति स्मृताः ।
रुद्रोह्यवान्तरश्चैव क्रमशश्चानुवर्णकम् ॥ १६ ॥
स्वर्णाङ्गुष्ठपारशुं वा कुलालो मध्यर्थ पट्टका ।
इत्यादि प्रवरशैवानाम् अन्त्यशैवामथ शृणु ॥ १७ ॥
अन्येषाञ्चैव जातीनाम् अन्त्यशैवा इति स्मृताः ।
आदिशैवेन कर्तव्यं प्रतिष्ठाद्यर्चनान्तकम् ॥ १८ ॥
अन्यथा कारयेद्यत्तु निष्फलं तदवाप्नुयात् ।
वेदवेदान्ततत्त्वज्ञा आदिशैवा इति स्मृताः ॥ १९ ॥
शैवभेदं समाख्यातं दीक्षाविधिमथ शृणु ।
रोहिणी श्रवणञ्चैव विष्ठा त्रीणि चोत्तरा ॥ २० ॥
प्। ३६९)
पुष्ययुक् शतभिषक् चैव दीक्षानक्षत्रमुच्यते ।
स्थिरराशौ प्रकर्तव्ये उभये च शुभोदये ॥ २१ ॥
दीक्षाकर्म समारभ्य तत्र सोमोदयं विना ।
अष्टमस्थान् गृहान् सर्वान् परिहारे तु विशेषतः ॥ २२ ॥
रिक्ताष्टनवमी चैव अमावास्याञ्च वर्जयेत् ।
अङ्कुरार्पणयेत्पूर्व पूर्वोक्तविधिना कुरु ॥ २३ ॥
शिष्यानुपोषितान् स्नातान् कृतशौचजितेन्द्रियान् ।
पादप्रक्षालनं कृत्वा आचमनं विधिना चरेत् ॥ २४ ॥
शिवाग्रे मण्डलं तत्र पूर्वोक्तलक्षणैर्युतम् ।
मण्डपं मण्डयेद्धीमान् प्रतिष्ठामण्डपवत्कुरु ॥ २५ ॥
प्। ३७०)
मण्डपस्य तु मध्ये तु एकद्वित्रि हस्तं कुरु ।
वेदिं कुर्याद्यथान्यायं शिवलिङ्गं मण्डलन्तु वा ॥ २६ ॥
आचार्यं मनोभङ्गं सर्वतो भद्रमेव वा ।
स्वस्तिकञ्चार्धचन्द्रञ्च मण्डलं तत्र च क्रियेत् ॥ २७ ॥
मध्यमे स्थण्डिलं कृत्वा अष्टद्रोणेण शालिना ।
तदर्धं वा तदर्धं वा अष्टवक्रं स कर्णकम् ॥ २८ ॥
तदर्धैस्तण्डुलैर्हुष्य तदर्धैश्च तिलैरपि ।
लाजपुष्पैश्च दर्भैश्च विचरेत्तु विशेषतः ॥ २९ ॥
सवस्त्रं हेमसंयुक्तं सरत्नं वा पिधानकम् ।
नवकुम्भं वर्धनीञ्चैव गन्धतोयेन पूरितम् ॥ ३० ॥
प्। ३७१)
पल्लवैः सूत्रमाच्छाद्य अर्घ्यपुष्पं विनिक्षिपेत् ।
शिवकुम्भं विद्येशञ्च मनोन्मनी विन्यसेद्बुधः ॥ ३१ ॥
कुण्डं वा स्थण्डिलं वाऽपि एकपञ्चनवस्तथा ।
अग्न्यादानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ३२ ॥
उत्तरस्थण्डिलं कुर्यात् कम्बलेन तु वेष्टयेत् ।
शिष्यदेहन्तु सम्प्रोक्ष्य कौतुकं पूर्वमन्त्रतः ॥ ३३ ॥
बन्धयेदादिशैवेन अधिवासनमाचरेत् ।
नृत्तगेयसमायुक्तं विनोदं कारयेद्बुधः ॥ ३४ ॥
ॐ ।
नमश्शम्भो त्रिणेत्राय पिङ्गलाय महात्मने ।
प्। ३७२)
वामरूपाय विश्वाय स्वप्नाधिपतये नमः ॥ ३५ ॥
एवं मन्त्रं जपित्वा तु सदाशिवमनुस्मरेत् ।
प्रभाते विमले सूर्योदये तु कारयेत् ॥ ३६ ॥
पादप्रक्षालनं कृत्वा आचम्य विधिना बुधः ।
नेत्रबन्धं प्रकर्तव्यं हृदयेन तु मन्त्रतः ॥ ३७ ॥
दुकूले पट्टदेवाङ्गैः कार्पाविकमथापि वा ।
उत्तमं द्वादशं हस्तं दशहस्तन्तु मध्यमम् ॥ ३८ ॥
अधमं नवहस्तन्तु चतुस्तालप्रमाणतः ।
नववस्त्रे संवेष्ट्य जीर्णस्फुटित वर्जयेत् ॥ ३९ ॥
सद्योहस्तञ्च वस्त्रेण नेत्रबन्धन्तु कारयेत् ।
प्। ३७३)
वस्त्रं येन समायुक्तं नेत्रमन्त्रन्तु बन्धयेत् ॥ ४० ॥
व्योमव्यापि जपेत्तत्र तत्पुरुषेण समायुतम् ।
नेत्रं बलं प्रकर्तव्यं स्वर्णपुष्पसमायुतम् ॥ ४१ ॥
उत्तमं दशनिष्कन्तु अष्टनिष्कन्तु मध्यमम् ।
अधमं पञ्चनिष्कन्तु लक्षणं पद्मपुष्पवत् ॥ ४२ ॥
दरिद्राणाञ्च सर्वेषां यथा लाभन्तु कारयेत् ।
उत्तराभिमुखो भूत्वा एकचित्तेन बुद्धिमान् ॥ ४३ ॥
ईशानेन तु मन्त्रेण पुष्पं हस्ते निधापयेत् ।
प्रदक्षिणत्रयं कृत्वा वामदेवेन मन्त्रतः ॥ ४४ ॥
ध्यात्वा परममीशानं शिवमन्त्रेण बुद्धिमान् ।
प्। ३७४)
मण्डले विकिरेत्पुष्पं स्वस्तिमङ्गलवाचकैः ॥ ४५ ॥
यस्मिन् मन्त्रे वसेत्पुष्पान्नामगोत्रां तदात्मिकाम् ।
तन्मन्त्रं सव्यते तस्मात् कुरुते चाप्यनुग्रहम् ॥ ४६ ॥
ईशानस्य दले व्याधि माग्नेय्यां शोकजन्तु वा ।
नै-ऋत्यां श्रीकरं प्रोक्तं मनुष्यन्तु वायवे ॥ ४७ ॥
चतुर्दिक्षु च विप्रेन्द्र तच्छ्रीकृतमिति स्मृतम् ।
कर्णिके पतिते पुष्पे सुखञ्चैव भवेत्तदा ॥ ४८ ॥
ईशानस्य दले चैव नेत्रानामिहोच्यते ।
उदकेन समायुक्तं भस्मं शिरसि निक्षिपेत् ॥ ४९ ॥
गन्धादिभिरथाभ्यर्च्य भूयेन तु मन्त्रतः ।
प्। ३७५)
शिवकुम्भस्य तोयेन प्रोक्षिपेच्छिवमूर्धनि ॥ ५० ॥
ईशानमूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।
अघोरं हृदये न्यस्य कवचस्तनमध्यतः ॥ ५१ ॥
अस्त्रं हस्तप्रदेशे तु गुह्यं वामे प्रकल्पयेत् ।
सद्योजातं न्यसेत्पादौ विन्यसेच्छिष्यदेहिके ॥ ५२ ॥
हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत् ।
शिखायान्तु शिखा न्यस्य कवचस्तनमध्यतः ॥ ५३ ॥
अस्त्रहस्तप्रदेशे तु नेत्रं नेत्रे तु विन्यसेत् ।
देवस्य दक्षिणे पार्श्वे पलाशपत्रसंयुतम् ॥ ५४ ॥
कूर्चेनैव समायुक्तं मानसं तत्प्रतिस्मृतम् ।
प्। ३७६)
आसनस्थन्तु शिष्यञ्च पूर्वाभिमुखमेव च ॥ ५५ ॥
अग्निबीजेन संयुक्तं त्रिकोणं मण्डले स्थितम् ।
पादाङ्गुष्ठान् समारभ्य दहेद्यावच्छिरोन्तकम् ॥ ५६ ॥
अग्रतस्थापयेत्तत्र एकचित्तेन वै बुधः ।
चन्द्रमण्डलसङ्काशं मकारञ्चात्मसम्भवम् ॥ ५७ ॥
विद्यातत्वमुकारन्तु शिवतत्वं शकारके ।
ओमित्येकेन कमलं योगपीठमधोमुखम् ॥ ५८ ॥
चिन्तयेदत्र तं तस्मिन् सुषुम्नाभि न मस्तकम् ।
तेन प्लावितमात्मानम् अपूर्वं तं विचिन्तयेत् ॥ ५९ ॥
इमां योऽभ्यासते नित्यं समाधिर्मृत्युनाशनम् ।
प्। ३७७)
न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः ॥ ६० ॥
षडध्वा विन्यसेत्पश्चात् शिष्यदेहे विशेषतः ।
मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनाध्वकम् ॥ ६१ ॥
वर्णाध्वा च कलाध्वा च विंशत्येवं शिवं पदम् ।
सत्वरजस्तमश्चैव आत्मानञ्चान्तरात्मकम् ॥ ६२ ॥
परमात्मानमित्येते आत्मवस्तु ध्यानयेत् ।
अग्निसूलं शशाङ्कञ्च मण्डलत्रयकं न्यसेत् ॥ ६३ ॥
ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः ।
शक्तयश्चादि विन्यस्य बिन्दुनादशिवा न्यसेत् ॥ ६४ ॥
पञ्चब्रह्मशिवाङ्गैश्च प्रासादन्तु सदाशिवम् ।
प्। ३७८)
शिष्यदेहे न्यसेत्तत्र प्रणवादिनमोन्तकम् ॥ ६५ ॥
तत्तन्मन्त्रमनुस्मृत्य योजयेच्छिष्यदेहके ।
मध्वाद्या विन्यसेन्मूर्ध्नि वदार्धमुखमेव वा ॥ ६६ ॥
तत्वाध्वा हृदये न्यस्य नाभौ तु भुवनाध्वकम् ।
स्वर्णाध्वा मे हृद्देशे तु पादयोस्तु तलाध्वकम् ॥ ६७ ॥
कलाध्वन्तु पुनर्योज्य पादाधारा शिरोन्तकम् ।
सद्यः कलाभिरष्टाभिः वामदेवस्त्रयोदश ॥ ६८ ॥
अघोरस्य कलाचाष्टौ चतुर्भिर्वक्त्रमेव च ।
ईशानस्य कलाःपञ्च अष्टत्रिंशत्कला न्यसेत् ॥ ६९ ॥
विद्येश्वराणामष्टौ च गणेशानान्तथाष्टकम् ।
प्। ३७९)
दशलोकाधिदैवत्यमस्त्राणां दशमस्मृतः ॥ ७० ॥
एवं पदाध्वा विन्यस्य तत्वाध्वा तु पुनर्न्यसेत् ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ ७१ ॥
श्रोत्रत्वक् चक्षुजिह्वा च घ्राणञ्चैव तु पञ्चमम् ।
वाक्पादपाणिपायूपस्थञ्चैव तु पञ्चमम् ॥ ७२ ॥
शब्दस्पर्शरूपरसो गन्धञ्चैव तु पञ्चमम् ।
मनोबुद्धिरहङ्कारं प्रकृतिः पुरुषं तथा ॥ ७३ ॥
नागमाया विद्या च कलानियतिरेव च ।
विग्रहेर सकलं शुद्धमाया तथैव च ॥ ७४ ॥
शुद्धविद्या शुद्धकला सदाशिव शिवं परम् ।
प्। ३८०)
षट्त्रिंशत्तत्वमेवन्तु क्रमेणैव तु विन्यसेत् ॥ ७५ ॥
भुवनाध्वा ततो न्यस्य कलाध्वा दिशिकान्तकम् ।
भुवनाध्वा न्यसेत्पश्चान्मेढ्रमूलक्रमेण तु ॥ ७६ ॥
अधस्ताद्धृदयादीनि कल्पयेत्कल्पवित्तमः ।
कलानिश्वान्धकारन्धं नराकनेकविंशतिः ॥ ७७ ॥
रौरवं कुम्भिपाकञ्च निलयं तेषु यन्त्रकम् ।
क्षुरा च अतितालञ्च जलञ्च सीतलेन च ।
उष्णसन्तापनञ्चैव लोहतप्तं तथैव च ॥ ७९ ॥
कृकशल्मलिकूपञ्च निलयन्त्रेषु यन्त्रकम् ।
प्। ३८१)
धनुरग्निरवं वज्रं त्रिशूलनियमेव च ॥ ८० ॥
पाषाणं तत्र पांसुर्वैतरणी तथैव च ।
तलञ्च वितलञ्चैव निलयञ्च तलातलम् ॥ ८१ ॥
सुतलं तरातलञ्चैव रसातलं ततोपरि ।
भूलोकञ्च भुवर्लोकं स्वर्गलोकं तथैव च ॥ ८२ ॥
महालोकञ्च विज्ञेयो जनलोकं तथैव च ।
तपोलोकं सत्यलोकञ्च गान्धर्वं यक्षलोककम् ॥ ८३ ॥
विद्याधराणां लोकञ्च सिद्धचारणलोहकान् ।
अस्वरसाञ्च लोकञ्च किन्नराणाञ्च लोककम् ॥ ८४ ॥
इन्द्रलोकं चाग्निलोकं यमलोकं नि-ऋतिलोककम् ।
प्। ३८२)
वारुणं वायुलोकञ्च सोमलोकं तथैव च ॥ ८५ ॥
ईशानदेवलोकञ्च ब्रह्मलोकं तथैव च ।
ब्रह्मलोकोपरिष्ठात्तु विष्णुलोकमतः परम् ॥ ८६ ॥
अनन्तेशस्य लोकन्तु सूक्ष्मलोकमतः परम् ।
शिवोत्तमस्य लोकन्तु एकनेत्रस्य लोककम् ॥ ८७ ॥
एकरुद्रत्रिमूर्तिश्च श्रीखण्डश्च शिखण्डि च ।
महेश्वरस्य लोकञ्च सदाशिवस्य लोककम् ॥ ८८ ॥
लोकालोकं शिवालोकं क्रमशः परिकीर्तिताः ।
श्वलोकोपरिष्ठात्तु अन्यं लोकं न विद्यते ॥ ८९ ॥
नाभिमूलात्समारभ्य यावद्धृदयदेशकम् ।
प्। ३८३)
वर्णाध्वा विन्यसेदेतान् शिरोपादान्तमेव च ॥ ९० ॥
अकारं मूर्ध्नि विन्यस्य आकारन्तु ललाटकम् ।
इकारं दक्षिणे नेत्रे ईकारं वामलोचने ॥ ९१ ॥
उकारं दक्षिणे नासो ऊकारं वामनासिके ।
रूकारं दक्षिणे श्रोत्रे ऋकारं वामश्रोत्रके ॥ ९२ ॥
ऌकारं दक्षिणे गण्डो ॡकारं वामगण्डके ।
ए ऐ तालुरन्ध्रेषु ओ औ दन्तद्वयेऽपि च ॥ ९३ ॥
अम् अः कर्णयोर्न्यस्य कला षोडश एव च ।
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ॥ ९४ ॥
टवर्गं दक्षिणे पादे तवर्गं वामपादके ।
प्। ३८४)
पफौ दक्षिणपार्श्वे च बाहो वै वामपर्श्वके ॥ ९५ ॥
महकारं हृदये न्यस्य यकारं त्वचि विन्यसेत् ।
रकारं रत्नमेवन्तु लकारं मांसमेव च ॥ ९६ ॥
चकारं मेधदेशस्यं ञकारञ्चास्थिदेशके ।
मज्जदेशे षकारन्तु शकारं शुक्लमेव तु ॥ ९७ ॥
हकारं प्राणमित्युक्तम् इकारं मेढ्रमेव च ।
क्षकारं वृषणं प्रोक्तम् अक्षराणि क्रमान्यसेत् ॥ ९८ ॥
नवतृंशकला तत्र कादिपादान्त विन्यसेत् ।
तारासृता रामणिनाथायन्ति च सृतारणिः ? ॥ ९९ ॥
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।
प्। ३८५)
शान्त्यातीतं परं व्योम क्रमाभिर्न्यस्य तत्ववित् ॥ १०० ॥
तमोमोहं क्षुधानिद्रावृत्या माया भया जराः ।
रजोरक्षारतिर्पाल्य श्यामा कृष्णविधिक्रिया ॥ १०१ ॥
धृतिः कार्यापरात्री च भ्रामणी रोहिणी तथा ।
सिद्धिभूतिर्धृतिः लक्ष्मीर्मेधाकान्ति स्वधा स्तितिम् ॥ १०२ ॥
नवतृंशत् कलाह्येते शिष्यदेहन्तु विन्यसेत् ।
हृदये शान्तिविन्यस्य मुखे वायुञ्च विन्यसेत् ॥ १०३ ॥
आकाशमूर्ध्नि देशे तु अप्सुकोटिप्रदेशके ।
पृथिवीपादविन्यस्य पञ्चभूतकला न्यसेत् ॥ १०४ ॥
सो मन्त्राध्वा सम्यमन्त्रेण वामदेवपदाध्वकम् ।
प्। ३८६)
तत्वाध्वा वै अघोरेण भुवनाध्वापुरुषेण तु ॥ १०५ ॥
ईशानेन तु मन्त्रेण वर्णाध्वा होमयेत्ततः ।
एवमेव क्रमेणैव शिष्यदेहन्तु विन्यसेत् ॥ १०६ ॥
ईशानमूर्ध्नि विन्यस्य मुखे विष्णुस्तु देवता ।
प्रासादं वास्तुदेवानां ग्रामं पैशाचके कुरु ॥ १०७ ॥
विघ्नेशक्षेत्रपालाश्च दुर्गालञ्च सर्वतः ।
कुरु वास्तुयोगस्थानञ्च द्विधं देवालयं स्मृतम् ॥ १०८ ॥
वास्तुकञ्चोक्तस्थानन्तु योगकम्? ।
ईशे शङ्करभवनं पर्जन्यांशे जयन्ते वा ॥ १०९ ॥
सोमे अदितिपादे वा शि * * * * वस्थानम् ।
प्। ३८७)
पश्चिममुखं योगं स्थानम् अन्येषाञ्चैव पूर्वमुखम् ॥ ११० ॥
विष्णुमुखं सर्वगृहमष्टदिङ् मध्यमे स्थितम् ।
भूपरीक्षाविधानान्ते भूमानमिति कथ्यते ॥ १११ ॥
ओजे युग्मपादे वर्गे विवरं योगमेव तु ।
द्विगुणोत्तरसंवर्गो भवेदिष्टप्रमाणतः ॥ ११२ ॥
कर्णे तु जाचकोटी च समकर्णफलं कृतिः ।
कण्ठवर्गो भवेत्कोटी भुजावर्गसमासतः ॥ ११३ ॥
शतस्य दशमूलं स्यात् त्वदेव मूलकं भवेत् ।
सर्ववर्गस्तु भुजाकोट्यास्तदर्धद्विभुजा भवेत् ॥ ११४ ॥
त्रिवर्गं घनमाख्यातं द्वादशाश्रं षडाश्रकम् ।
प्। ३८८)
परिधीवृत्त विष्कम्भपादघ्नं फलकुलहतङ्घनम् ॥ ११५ ॥
धनुषो बाणसंसर्गाद्यावदार्गमुदीरितम् ।?
मण्टपेन तु सादृश्य षड्भागन्तु षडश्रवत् ॥ ११६ ॥
भुजापिण्डं तलीभूतं चतुर्धा स्थाप्य तत्र तु ।
बाहुं न्यस्त्वा सुवर्गेण फलवर्गसुवर्गजम् ॥ ११७ ॥
पातरेखातनेनैव क्रमेणैव समानयेत् ।
इच्छाया फलमाश्रित्य प्रमाणोक्तफलं नयेत् ॥ ११८ ॥
तद्वशात्सर्वमानीय प्रत्युत्पन्नेन वाऽथवा ।
श्रेपिसङ्के वलादीनि याग्ने याने दशानि च ॥ ११९ ॥
एवं सङ्क्षेपतः प्रोक्तम् आत्मानमिति कथ्यते ।
प्। ३८९)
आत्मानमिति विज्ञाय मायादीन् लक्षयेत्क्रमात् ॥ १२० ॥
धनन्नो योनिनक्षत्रो स्वायुंश्चांशको तिथि ।
वरोऽष्टना च संशोध्य शुभे वास्तुं समारभेत् ॥ १२१ ॥
विस्तारेणाह्यसेदैर्यं तद्राशिवपुस्तथा ।
विस्तारायामसंयुक्तं राशिर्वाऽथ निरीक्षयेत् ॥ १२२ ॥
वस्तुभिस्तुणितो भानु हुनेदष्टं धनमिति स्मृतम् ।
सगुणवह्निभिः सूत्रैः भक्तशेषाव्यवस्थया ॥ १२३ ॥
रामघ्नेऽष्ट हृदे योनिरष्टाभिर्वर्धते पुनः ।
सप्तविंशति भक्तैर्वा वस्वयुस्तत्फलं स्मृतम् ॥ १२४ ॥
शेषं नक्षत्रमाख्यातं द्वयतं प्रसादमुच्यते ।
प्। ३९०)
लिङ्गमानवशाद्गेहं त्रिविधं वक्ष्यते पुनः ॥ १२५ ॥
नागरलिङ्गे नागरं वेसरे वेसरं तथा ।
द्राविले द्राविलमित्युक्तं त्रिविधं प्रासादमीरितम् ॥ १२६ ॥
सात्विकं राजसञ्चैव तामसञ्च त्रिधा भवेत् ।
सात्विकं नागरं प्रोक्तं राजसं द्राविलं भवेत् ॥ १२७ ॥
तामसं वेसरं प्रोक्तं पुंस्त्रीनपुंसकं तथा ।
नागरं पुविमानेन लिङ्गस्य प्रासादकं कुरु ॥ १२८ ॥
शिवाधिकानां लिङ्गानां प्रासादमासनं कुरु ।
त्रैराशिकेन लिङ्गस्य शयनं प्रासादमुच्यते ॥ १२९ ॥
पादबन्धस्सितं प्रोक्तं प्रतिबन्धञ्चासनं भवेत् ।
प्। ३९१)
पद्मबन्धात्तु शयनं ज्ञेयत्रापि भेदयुक् ॥ १३० ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रः प्रासादमुच्यते ।
नागरं द्विजमित्युक्तं द्राविलं क्षत्रियस्य तु ॥ १३१ ॥
वेसरं वैश्यशूद्राणां जातिभेदमितीरितम् ।
नागरं द्राविलाख्यञ्च वेसरञ्चाधि देवताम् ॥ १३२ ॥
ईशपितामहश्चैव विष्णुस्तत्राधिदैवताः ।
एवं प्रासादमेवोक्तं सञ्चिन्दादीनि भेदयुक् ॥ १३३ ॥
सञ्चितासञ्चितञ्चैव उपसञ्चितमन्त्रया ।
सञ्चिकस्थापनं प्रोक्तं सञ्चितावृत्तसञ्चिकम् ॥ १३४ ॥
उपसञ्चितं क्रीडाभं पादबन्धमिति स्मृतम् ।
प्। ३९२)
प्रतिबन्धत्रयं प्रोक्तं जाग्रत्स्वप्नन्तु योगकृत् ॥ १३५ ॥
पद्मबन्धं त्रिभेदं स्याच्छयने पार्श्वभावयेत् ।
स्वप्नावस्था ऋजुच्छाया त्रिविधं प्रासादलक्षणम् ॥ १३६ ॥
अधिष्ठा त्रिविधं भूमेः एकैकन्तु विशेषतः ।
पादबन्धं व प्रबन्धं कं प्रबन्धमिति स्मृतम् ॥ १३७ ॥
प्रतिबन्धनागबन्ध सिंहबन्धमिति त्रिधा ।
पद्मबन्धं पुष्पबन्धं पुष्कलं पद्मकेसरम् ॥ १३८ ॥
त्रिविधं पद्मबन्धं स्यात् तत्तत्कर्मवशाद्भवेत् ।
चतुर्दशमधिष्ठानं यथाक्रमेण वक्ष्यते ॥ १३९ ॥
पुंस्त्रीनपुंसकञ्चैव त्रित्रि भेदेन नामभाक् ।
प्। ३९३)
लिङ्गमानवशाद्गेहमेवं प्रोक्तक्रमाद्गतम् ॥ १४० ॥
मानाङ्गुलेन कर्तव्यं स्याद्बाह्ये मानमुच्यते ।
त्रिहस्तं पञ्चहस्तं वा * * * नवहस्तकम् ॥ १४१ ॥
एकभूमिसमानादि त्रिभूम्यन्तं विधीयते ।
एकादशादि पञ्चाशद्धस्तसङ्ख्यामिति स्मृतम् ॥ १४२ ॥
द्वादशादिविमानान्तं मानमेवं विधीयते ।
विस्तारं द्विगुणोत्सेध्ं क्षुद्राणान्तु विधीयते ॥ १४३ ॥
सपादं सार्द्धपादूनं द्विगुणं महतिरुच्यते ।
क्षुद्राणामपि सर्वेषां द्विगुणादधि हस्तकम् ॥ १४४ ॥
यावत्प्रासादमुत्सेधमष्टभागं विधीयते ।
प्। ३९४)
एकभागमधिष्ठान द्विभागं पादमुच्यते ॥ १४५ ॥
प्रस्तारमेकभागं स्यात् दलमेकेन उच्यते ।
शिखरञ्च द्विभागं स्या स्तूपिमेकेन कल्पयेत् ॥ १४६ ॥
एकभूमिरिति ख्यातं भागञ्चैव ततः शृणु ।
अधिष्ठानस्य चोत्सेधं जगत्यादि विधीयते ॥ १४७ ॥
चतुर्विंशतिकोत्सेधं जगतीर्वसुभागकम् ।
कुमुदं सप्तभागं स्यात् कम्पमेकेन कल्पयेत् ॥ १४८ ॥
कर्णं त्रिभागमेवं स्यात् एकभागन्तु कम्पकम् ।
त्रिभागं पट्टिका प्रोक्ता एकभागेन कुम्भकम् ॥ १४९ ॥
पादबन्धमधिष्ठान छेदनीयं यथोचितम् ।
प्। ३९५)
प्रतिबन्ध अष्टादशं सप्तभागञ्च पूर्वकम् ॥ १५० ॥
षड्भागं कुमुदं प्रोक्तम् एकभागन्तु युक् युतम् ।
एकभागं त्रियश्रं स्यात् प्रतिमुखद्विभागकम् ॥ १५१ ॥
वाजनेकभागं स्यात् प्रतिबन्धं तदुच्यते ।
प्रतिस्तम्भप्रतिरूर्ध्वे द्वारं कुर्याद्विशेषतः ॥ १५२ ॥
एकोनविंशतिभागं पद्मञ्चैव षडङ्गकम् ।
कम्पमेकांशमित्युक्तमूर्ध्वपद्मं षडङ्गकम् ॥ १५३ ॥
तदूर्ध्वे त्र्यंशकञ्चैव वृत्तध्वं कम्पमेककम् ।
द्व्यंशपट्टमित्युक्तम् एकांशं कम्पमुच्यते ॥ १५४ ॥
पद्मबन्धमिति प्रोक्तं सर्वकार्येषु पूजितम् ।
प्। ३९६)
यावत्प्रासादविस्तारं पञ्चविंशतिरेव वा ॥ १५५ ॥
चतुर्विंशतिके वाऽपि षड्विंशति क्रममेव वा ।
एकभागमिदं प्रोक्तं मूलपादस्य विस्तरम् ॥ १५६ ॥
विस्तारमष्टधा भज्य अग्रतारं सप्तांशकम् ।
अग्रपादद्वयं प्रोक्तम् उपानस्योत्सेधमुच्यते ॥ १५७ ॥
निवृत्ततदर्धमित्युक्तमुपानमिति कीर्तितम् ।
यदुपानस्याधिष्ठानं तद्व्यंशं जगति निर्गमम् ॥ १५८ ॥
तावत्कुमुदनिष्क्रान्तं कण्ठपादसमं भवेत् ।
कम्पमुत्सेधसमं महापट्टित्र्यंशकम् ॥ १५९ ॥
अग्रपादस्य विस्तारं तद्दण्डमिति कथ्यते ।
प्। ३९७)
द्विदण्डेनैव वेदी स्यात् वेद्युत्सेधं नवांशकृत् ॥ १६० ॥
भागाङ्गुलमित्युक्तं द्विभागं पट्टिका भवेत् ।
तावद्वा पादकुम्भन्तु वृत्ताकारमिहोच्यते ।
तस्योत्सेधं रसांशे तु कुर्यादंशेन धृक् भवेत् ॥ १६२ ॥
वेदभ्यागन्तु कुम्भं स्यादेकेन कण्ठमुच्यते ।
आस्यमेकेन कर्तव्यं पद्ममेकेन कारयेत् ॥ १६३ ॥
अर्धांशेन तु नीव्रं स्यादर्धार्धे हीनकद्वयम् ।
अर्धांशेनैव कर्तव्या आस्यविस्तारमुच्यते ॥ १६४ ॥
द्व्यंशकुम्भविस्तारं धृक् कण्ठौ पादविस्मृतौ ।
प्। ३९८)
मध्येन वृद्धिपादं स्यात् चतुर्गुणन्तु विस्मृतौ ॥ १६५ ॥
मध्येन वृद्धिपादं स्यात् चतुर्गुणन्तु विस्मृतम् ।
दण्डोत्सेधं गुणांशेन भागेनोत्सेधमुच्यते ॥ १६६ ॥
मण्डिका भागमेकन्तु फलकांशेन कारयेत् ।
वीरकाण्डस्य विस्तारं पादविस्तारमेव वा ॥ १६७ ॥
वेदिका भागमेवं वा उत्सेधं पादहीनकम् ।
पञ्चांशेनोत्तमा विद्या चतुरे मध्यमं भवेत् ॥ १६८ ॥
तृतीयं वा समं प्रोक्तं पोतिकायाममुच्यते ।
अंशेन पोतिकोत्सेध उत्तरा स्मृतम् ॥ १६९ ॥
महानासित्रिभागैकं शिखरार्धेन उच्छ्रयम् ।
प्। ३९९)
उत्सेधन्तु त्रिधा कृत्वा एकभागन्तु * * * ॥ १७० ॥
पालिके पञ्चभागे तु युगाङ्गं पद्मविस्तृतम् ॥ १७१ ॥
पद्मतारत्रिभागैकं कुम्भविस्तारमुच्यते ।
कुम्भतारत्रिभागैकं कुम्भस्याधोव लग्नकम् ॥ १७२ ॥
वलग्नस्य त्रिभागैककुम्भस्योपरि कन्धरम् ।
कन्धरं त्रिगुणं पालि तत्त्रिभागैक कुश्मलम् ॥ १७३ ॥
द्वाविंशतिभागेन स्थूपिकोत्सेधमुच्यते ।
पद्मोच्चं तीर्थ्यंशन्तु स्निग्नग्धञ्चास्यार्धमंशकम् ॥ १७४ ॥
अर्धर्धाधरपद्मन्तु ऋष्यंशन्तु धनोच्चयम् ।
प्। ४००)
अध्यर्ध ऊर्ध्वपद्मन्तु रसांशं ग्रीवमुच्छ्रयम् ॥ १७५ ॥
कम्पन्ती पृच्छसार्धांशं लग्नकण्ठञ्च शाङ्करम् ।
कुमुच्छ्रयं पञ्चभागार्धमेवं स्थूपिरुदाहृतम् ॥ १७६ ॥
एवमेव प्रकारेण प्रासादं कारयेत्ततः ।
प्रासादार्धप्रमाणेन अर्धमण्टपमिष्यते ॥ १७७ ॥