अथातस्सम्प्रवक्ष्यामि शूललक्षणमुत्तमम्
स्थापनान्तमहं वक्ष्ये सर्वलोकहिताय च १
सर्वदेवमयं शूलं हेमरजतताम्म्रकैः
आयसेन तथा कुर्यादलाभे तु विधीयते २
गर्भद्वादशहस्तेन तालेनैव तु कल्पयेत्
गर्भसम्मुत्तमं शूलं पादहीनन्तु मध्यमम् ३
अधमं मध्यमं ज्ञेयं तूर्णभागेन वक्ष्यते
गर्भद्वारचतुर्भागन्त्रिपादमुदयन्तु वा ४
गर्भन्तु भूमसत्वङ्गं द्वयोरन्तरमष्टधा
उत्तमादि विभागेन मानन्त्रयमिति स्मृतम् ५
उत्तमादि त्रयञ्चैव मध्यमादि त्रयं स्मृतम्
अधमादि त्रयं चैव यथाक्रममिति स्मृतम् ६
द्वारोत्सेध समं श्रेष्ठं रन्ध्रभागविहीनकम्
मध्यमं शूलमाख्यातं अधमं शूलमुच्यते ७
पञ्चभागविहीनं स्यादधमं शूलमुच्यते
रत्निस्वरीयकं श्रेष्ठं त्रिरत्निमध्यमं शुभम् ८
--विरत्निश्चाधमं विद्यात् हस्तमानमिति स्मृतम्
लघुमाने त्रिंशदंशादि समभागेन भाजयेत् ९
भागमेकं समायोज्य यावत्तसु भोदयम्
यौगिकं लौकिकं चैव द्विविधं शूलमुच्यते १०
नृपवास्तु यजमानानां अनुकूलं च लौकिकम्
यौगिकं मानमात्रेषु कुर्याद्यौगिकमुच्यते ११
आयाममूलभागेकं पात्राणां याममुच्यते
नाटिकांशं भवेत्तत्र एकांशं पत्रविस्तरम् १२
सङ्गृह्य पत्रमानन्तु चतुरश्रं समं कुरु
पत्रद्वारं विसृज्याथ पार्श्वयोरुभयोरपि १३
वृत्ताकारं यथा तत्र वर्तते वर्तितं क्रमात्
तयोर्बाह्यान्तरं ग्राह्य भ्रामयेदिन्दु खण्डवत् १४
पार्श्वपात्रं द्वयं ह्येवं भज्यतद्वर्तुळन्नयेत्
पात्राच्चारेण चाद्वेतु धायायान्विति सम्युतम् १५
तदर्धं मुकुळी कुर्यान्मध्यमूलाग्रतं क्रमात्
पात्रविस्तारकस्याष्ट भागेकासनमुच्यते १६
ताराग्रेनाग्रके मूले चान्तरं पार्श्वपत्रयोः
पादायामाय मानं च नवधामूलभागकम् १७
पादायाममिति प्रोक्तं तदर्धं पादविस्तरम्
द्विगुणं मध्यपार्श्वे तु द्विगुणं पादविस्तरम् १८
द्विगुणं मध्यविस्तारं पादविस्तारपार्श्वके
पात्राणां पादमूले तु कुर्याद्वै कुण्डलीकृतम् १९
विचित्रपत्रवल्लीभिः पत्रमूलानि कारयेत्
तस्याधः पालिकां कुर्यात्पात्रायां मध्यभागतः २०
तत्तारन्नवधाभज्य व्योमांशं पालिकायतः
द्व्यंशेनाब्जं च तस्याधः कोणेष्वश्वत्थ पत्रवत् २१
उत्तरायणकाले तु शुक्लपक्षेशुभे दिने
प्रतिष्ठादिनपूर्वे तु अङ्कुराण्यर्पयेत्सुधीः २२
नेत्राणां मोक्षणञ्चान्ते कुर्याद्गव्याभिषेचनम्
सर्वातोद्यसमायुक्तं सर्वालङ्कारभूषितम् २३
त्रिशूलं समलङ्कृत्य कुर्याद ग्रामप्रदक्षिणम्
जले चैव प्रपां कुर्याच्चतुर्गात्रसमन्वितम् २४
वितानदर्भमालादि ध्वजैश्चैव समायुतम्
नववस्त्रेण सम्वेष्ट्य ——-२५
कण्ठदघ्न जले चैव प्राक्छिरश्चोर्ध्ववक्त्रकम्
शांययित्वा त्रिशूलं च सद्येन फलकोपरि २६
त्रिरात्रं वा द्विरात्रं वा एकरात्रमथापि वा
प्रासादस्याग्रतः कुर्यात्पूर्ववन्मण्टपन्तथा २७
मण्टपन्तु त्रिधाकृत्वा वेदीं मध्ये तु कल्पयेत्
रत्निमात्रसमुत्सेधन्दर्पणोदरसन्निभम् २८
कुण्डानि परितः कुर्याद्दिशासु विदिशासु च
दिशासु चतुरश्राणि कोणेष्वब्जानि कल्पयेत् २९
ईशानशक्रयोर्मध्ये वृत्तकुण्डं प्रधानकम्
पालिकां –चैव तदर्धं कल्पयेद्गळम् ३०
पालिकायास्तु विस्तारं विभजेच्च दशांशकम्
एकांशं गळविस्तारं उत्सेधं तत्समं भवेत् ३१
पक्षकार्यं घटाकारं मूलार्धं स्यात्तदर्धकम्
तस्याधः खण्डधारेण कर्णं कुर्यात्तु बुद्धिमान् ३२
पादेन कुम्भतोरेण तस्याधस्ताटिका भवेत्
घटवत्ताडिकामानं युग्मभागविभाजितम् ३३
एकभागकहरिका —-पुष्पकम्
ताडिकायास्तु विस्तारं चतुर्भागन्त्रिभागिकम् ३४
तरुदण्ड सुविस्तारं तद्दण्डं लोहदण्डकम्
दण्डमूले तु पद्मं स्याद्विस्तारं पालिकासमम् ३५
तदर्धं मानमित्युक्तं मानाङ्गुळविभाजितम्
एकांशं पट्टिकाज्ञेया शेषांशेन कुशेशयम् ३६
वृत्तं वा चतुरश्रं वा कारयेत्तु विचक्षणः
हरिका सममानेन पद्मोर्ध्वे पट्टिकां कुरु ३७
मध्य पत्रस्य मध्ये तु लिखेदब्जन्तु तन्मुखम्
एवं लक्षणमाख्यातं प्रतिष्ठां कारयेत्ततः ३८
-————
-————दक्षो विश्वामित्रसमन्ततः
वामीकेन मुनिस्सत्यः पुलस्त्यः पुलहस्तयः १
अतिदीर्घवत्तांशो बोधायनस्सनातनः
सनत्कुमारो मेधावी वालखिल्यो मुनिस्तथा २
आलम्बायाश्च चन्द्रा ग्नि शिव शोव वलगणाः
काश्यपश्चाङ्गीरसस्थूलकर्दमश्च्यवनो नदः ३
अन्यायश्च यशोपाण्डुश्शङ्कुकर्णः पुरातनः
शङ्खस्थूलशिखा चैव शरजो रोमहर्षणः ४
आपस्तम्बसमे वर्षो शिखागोचरवर्गिणः
भारद्वाजात्रिकांशश्च मार्कण्डेयश्शिरोगतः ५
धूमभादेवशङ्खश्च पिङ्गळो वरणश्शुनः
विश्वास्योव्याघ्रपादश्च रामश्च नरवासुकी ६
कृष्णश्चैव इमे सर्वे ज्योतिर्गोचरवर्गिणः
गौतमो गालवश्चैव गौवलो वयवस्तथा ७
गार्ग्यश्च विजयश्चैव बिन्दुस्तो पटवस्तथा
ऋश्यशृङ्गो वसिष्ठश्च कात्यायनबृहस्पती ८
सावित्रीगोचराश्चैते भ्रातरो गौतमस्य च
अगस्त्यो मुद्गलो वत्सो श्वेतको सोविभावसुः ९
पराशरकवीपश्च छफेलो नीललोहितः
पोलयोलश्च इमे सर्वे व्योमगोचरवर्गिणः १०
कुलेष्वेतेषु सञ्जाता आदिशैवा इति स्मृताः
समयीच विशिष्टश्च निर्वाणश्चाभिषेकयुक् ११
आचार्यपुरुषाश्चैव शैवाचारनियन्त्रिताः
पुरुषार्थफलं प्राप्तुं लिङ्गबेरान्प्रपूजयेत् १२
लक्षणं च प्रमाणं च गुरुणोक्तेन मार्गतः
समालोक्याथ शास्त्राणि तत्तदाश्रमयुक्तकम् १३
आदाय शोभने काले प्रतिष्ठाविधिपूर्वकम्
आचार्यहस्तादादाय यावज्जीवं प्रपूजयेत् १४
अन्यथा निष्फलं याति प्रायश्चित्ती भवेद्ध्रुवम्
एवं क्रमेण यः पूजां कुर्याज्जीवावधिन्ततः १५
सोपि पुण्याकृतिर्भूत्वा सायुज्यं व्रजति प्रभोः
पश्चात्पूजित लिङ्गादीन्यजेतां पुत्रशिष्यकौ १६
पुत्राद्यभावे लिङ्गादीन्त्यजेत्पुण्यफलाप्तये
समुद्रे च महानद्यां गङ्गायामयकूपके १७
निक्षिपेन्निश्चिता बुद्ध्या गृह्णीयान्न कदाचन
अन्येन पूजितं लिङ्गमन्यदीयं च बेरकम् १८
न गृह्णीयाद्देशिकस्तु येन केन प्रकारतः
मोहादज्ञानतश्चैव गृहीत्वा पूजितं यदि १९
स सद्यः पातकी भूत्वा त्याज्य स्यात्सर्वकर्मसु
कर्महीनश्च पुरुषः नरकं च सगच्छति २०
महद्भिः पूजितं लिङ्गं गणनाथादिबेरकम्
अनुगृह्य प्रदत्तं चेत्पूजनीयं विशेषतः २१
अन्येनैव तु वर्ण्येन लिङ्गादि यदि पूजितम्
तद्बिम्बानि तदन्यानि गृहीत्वा यदि पूजयेत् २२
वेदशास्त्रार्थ सम्पन्नस्सोऽपि गच्छति नीचताम्
तस्मात्सर्वप्रयत्नेन गृह्णीयादन्यतो न तत् २३
मोहादज्ञानतश्चैव यदि गृह्णाति पूजितम्
प्रायश्चित्ती भवेत्सद्यः प्राप्नुयान्निरयं पुनः २४
तद्दोषशान्तये पश्चात्प्रायश्चित्तं समाचरेत्
अघोरास्त्रञ्च मन्त्रं च लक्षं चायुतमेव च २५
पञ्चगव्यमभिप्राश्य शान्तिहोमं समाचरेत्
स तत्पापादभिनिर्मुक्तो पङ्क्तियोग्यो भवेद्ध्रुवम् २६
ज्ञानतः कुरुते मर्त्यः निष्कृतिर्नैव विद्यते
अपि निष्कृतिकामस्तु संवत्सरन्तु देशिकः २७
जलतीरे जलं पीत्वा भिक्षान्नमेकवारकम्
भुक्त्वा तु निरसं भूमौ निवसेद्वृक्षमूलके २८
संवत्सरान्ते गव्येन शुद्धस्सन्पुण्यदेशके
ब्राह्मणान्समनुज्ञाय कुर्याच्छान्त्यादि होमकम् २९
अनेनैव प्रकारेण निष्कृतिर्नैव विद्यते
समयाद्यभिषेकान्तं दीक्षितो देशिकोत्तमः ३०
पूजितं चान्य वर्णैश्च बिम्बं लिङ्गं समूल्यकम्
पूजयेद्यदि सम्प्राप्य तन्नाशं च भवेद्ध्रुवम् ३१
स्वायम्भुवादि लिङ्गानां पूजां नैव सकारयेत्
यदि कुर्यात्प्रमादेन कर्ता धर्मस्य नश्यति ३२
राज्य क्षोभाश्च जायन्ते महामारी प्रवर्तते
पशुहानिस्सस्यहानिरनावृष्टिर्भवेद्ध्रुवम् ३३
तस्मात्सर्वप्रयत्नेन प्रव्रजेत्पुरतो बहिः
न त्यजेदभिमानेन मृत्यधीना भवेत्पतिः ३४
ज्ञानतः कुरुते पूजामन्यजाति प्रपूजितान्
बिम्बाल्लिङ्गं च तन्मूल्यमाग्रहेण च सेकयुक् ३५
निष्कृतिस्तस्य नैवास्ति सर्वशास्त्रेषु सत्यशः
वेदाध्ययन सम्पन्नो कुलीनो देशिकोत्तमः ३६
तथापि निष्कृतिस्तस्य महतीति निगद्यते
आरभ्य समयात्पूर्वमभिषेकान्तमाचरेत् ३७
अनुष्ठाय च सत्कर्म शन्तिहोमपुरस्सरम्
अस्त्रं पाशुपतं मौनी मन्त्रं जप्त्वा सलक्षकम् ३८
पश्चाद्भवति पूजार्हः नान्यथा गतिरस्ति हि
अतस्वाचार्य वर्यस्तु शम्भु ध्यान परायणः ३९
पूज्य स्वायम्भुलिङ्गादीन् जगक्षेमाय नित्यशः
सर्वशास्त्रार्थतत्वज्ञः सर्वतन्त्रकलानिधिः ४०
सदाचाररतो विद्वान् शिवध्यान परायणः
शिवशास्त्ररसाम्बोधि पारदृश्वास्य सेकयुक् ४१
ब्रह्मचारी गृहस्थश्च वानप्रस्थो थ भिक्षुकः
आचार्य पदमाप्नोति लोकानुग्रहहेतवे ४२
ब्रह्मचर्य व्रतेस्थित्वा तत्तद्वर्णानुसारतः
आश्रमोचितकार्याणि कृत्वा ध्यानपरो यदि ४३
स च देशिकयोग्यत्वं नैष्ठिको व्रजति ध्रुवम्
अन्यथा यदि नार्हत्वं सगच्छति पापकृत् ४४
ग्रही चेत्सकुले जातां कन्यामुद्वाह्य शोभनाम्
सवर्णामसगोत्रां च मात्रादि पदवर्जिताम् ४५
तया सह प्रकृत्यैव यजनादि क्रियाश्शुभाः
धर्मार्थकाममोक्षांश्च साधयेन्मतिमान्नरः ४६
स एव योग्यतामेति सदाचार्य पदे शुभे
अन्यथा पातकी भूत्वा नरकं चाधिगच्छति ४७
कन्दमूलफलाहारो शिवपूजा धुरन्धरः
मुनिव्रतं समाश्रित्य योगाभ्यासरतश्शुचिः ४८
वनवासपरो नित्यं वानप्रस्थोऽथ भिक्षुकः
भवतीति न सन्देहो विपरीतो पतत्यधः ४९
शान्तो साधनसम्पत्ति युक्तो मोक्षपरस्सुधीः
उत्तमाचार्यतामेति पूज्यते च समानवैः ५०
उत्पथं प्रतिपन्नत्वं अक्रमात्प्राप्यते नरः
अत्र कश्चिद्विशेषोऽस्ति परार्थालयपूजने ५१
अधिकारो गृहस्थस्य नैवान्येषां भवेत्क्वचित्
अपत्नीकाङ्गहीनस्य रोगिणो दुर्जनस्य च ५२
नाधिकारो भवेत्यद्ध्वा परार्थे देवतार्चने
कारयेद्यदि मोहेन शम्भुपूजां शिवालये ५३
तैस्साकं धर्मकर्ता च दुर्गतिं चैव गच्छति
तद्दोषशमनार्थाय सहस्रस्नपनं चरेत् ५४
वर्णाचारविहीनश्च कुलहीनपरिग्रहः
मद्यपो कामुको मत्तो शिवधर्मविहीनकः ५५
आदिशैव कुले जातराचार्यपदभागपि
आत्मार्थपूजने चैव परार्थालयपूजने ५६
न भवेदधिकारी च सत्यमेव न संशयः
मोहात्तेनैव पूजा च क्रियते दिनमात्रकम् ५७
अनावृष्टिर्राज्यहानिर्महामारी प्रवर्तते
तद्दोषपरिहाराय शान्तिहोमं विधाय च ५८
पुनस्तद्दिनपूजा च कृत्वा क्षेमं भवेद्ध्रुवम्
आदिशैव कुले जातां कन्यामुद्वाह्य देशिकः ५९
दीक्षासेकसमायुक्तो शिवध्यानपरायणः
शिवशास्त्रपरोधीमान् पूज्यते च महात्मभिः ६०
सोप्याचार्यवरः पूजां कुर्यान्नित्यं शिवालये
तत्पूजया सदा शम्भुः प्रसादाभिमुखो विभुः ६१
लोकान्रक्षति सर्वेशः पिता पुत्रमिव प्रियम्
अन्यथा न भवेत्तस्य कदाचिदधिकारिता ६२
आदिशैव कुलोत्पन्नो महाशैव कुलोद्भवाम्
कुमारीं परिगृह्या च दीक्षासेकयुतोऽपि वा ६३
परार्थालयपूजाञ्च न कुर्यादभिमानतः
क्रियते यदि मोहेन राजामृत्युमवाप्नुयात् ६४
दुर्भिक्षं जायते भूमौ धरणी विफला भवेत्
मोहेन यदि कुर्यान्निष्कृतिर्भवति ध्रुवम् ६५
अशीति स्नपनं चैव प्रसन्नार्चां समाचरेत्
तस्मात्सर्वप्रयत्नेन सर्वमालोच्य कारयेत् ६६
तत्तीरे स्थण्डिलं कृत्वा प्रतिमान्तत्र विन्यसेत्