कल्याणसुन्दरेशस्य प्रतिष्ठा वक्ष्यतेऽधुना
पूर्वोक्तविधिना तत्र अङ्कुरार्पणमाचरेत् १
वेदिकस्थण्डिलं कृत्वा स्थापनन्तु पृथक्पृथक्
पूर्वोक्तलक्षणैर्युक्तां यागशालां च कारयेत् २
पृथग्वेदिहोमकुण्डन्तु कारयेत्तु विशेषतः
देवी देवं च कुम्भं च विद्येशं शक्तिकं न्यसेत् ३
अन्येषां ब्रह्मदीनां इन्द्रा दिमूर्तिकान्न्यसेत्
प्रतिष्ठान्ते विशेषेण कल्याणं कारयेद्बुधः ४
दक्षिणे ब्रह्मसंस्थाप्य उत्तरे विष्णुमर्चयेत्
गौरीं च दक्षिणे स्थाप्य लक्ष्मीं पार्श्वे तु विन्यसेत् ५
ब्रह्मजज्ञानमन्त्रेण ब्रह्माणं च प्रतिष्ठयेत्
इदं विष्ण्विति मन्त्रेण विष्णुस्थापनमाचरेत् ६
गौरीमिमाय मन्त्रेण गौरीन्तु पूजयेत्ततः
श्रीदेवीमूलमन्त्रेण श्रियं स्थाप्य विशेषतः ७
आवोराजेति मन्त्रेण पश्चाद्देवं समाचरेत्
यथाक्रमेण देवानां मूलेनैव तु होमयेत् ८
विष्णुभूतासशक्ति देवीञ्चैव तु पूजयेत्
कल्याणं कारयेत्तत्र बोधायनीय सूत्रकैः ९
ताम्बूलन्दापयेत्तत्र मुखवाससमन्वितम्
सर्वालङ्कारसंयुक्तं कल्याणं कारयेत्सुधीः १०
प्रतिष्ठा कर्मतत्सर्वं पूर्वोक्तविधिना शुभा
चन्द्र शेखरमूर्त्यादि गुहोमा सहितस्य च ११
किं चिदत्र विशेषोऽस्ति कल्याणन्तत्र मूर्तीनाम्
कालानिग्रहकामार्यो रोङ्कारं पश्चिमे न्यसेत् १२
कामनिग्रहकालार्योश्शक्तिं च वर्जयेत्स्वयम्
लिङ्गोद्भवस्य पार्श्वे तु अजविष्णु समायुतम् १३
अधश्चोर्ध्वगतीः कार्यौ सूकरा हंसकाकृती
पाशुपतप्रतिष्ठां च ——-१४
पूर्वोक्त विधिना तत्र होमस्थापनमाचरेत्
सर्वेषामधिदेवानां गौरी स्थापनवर्जकम् १५
षोडश प्रतिमान्सर्वानुमास्कन्दोक्तवन्नयेत्
इति योगजे क्रियापादे कल्याणसुन्दरप्रतिष्ठाविधिर्नाम त्रिंशत्तमः पटलः