अथ वक्ष्ये विशेषेण शक्तिस्थापनमुत्तमम्
सर्वलोकहितार्थाय सर्वप्राणिहितावहम् १
स्थापनास्थापनं चैव सिद्धिस्थापनमेव च
स्वस्थापनं प्रतिष्ठा च प्रतिष्ठा पञ्चभेदका २
स्थापनं शैलजं प्रोक्तं आस्थापनं च धातुजम्
सौधं स्थापनसिद्धिश्च जीर्णोद्धारं सुसंस्थितम् ३
प्रतिष्ठामन्त्र संयोज्यमेवं पञ्चविधोच्यते
शैलजं लोहजं वापि सौधजं रत्नजं तथा ४
शिलायान्तु शिलायां वा गृहमूर्तौ विचक्षणः
शिलापरिषदां चैव सर्वं वैस्तु शिलाबुधः ५
आचार्यश्शिल्पिभिः कृत्वा शोध्य ज्योतिषकस्तथा
दिनवारमुहूर्तं च कुर्यात् शिल्पिभिस्सह ६
शङ्खनादसमायुक्तं पूर्णकुम्भैश्च शोभितम्
रुद्र स्त्रीनवमांसं च मधुक्षीरसुदर्शनम् ७
विप्रद्वयसमायुक्तं गौळिदक्षिणसम्युतम्
ऋषिदक्षिणपार्श्वेन मध्याह्ने तु प्रकाशयेत् ८
प्रातः काले तु वामेन पक्षिजाति जनार्दन
शङ्खदुन्दुभिनिर्घोषैर्मुहूर्तन्तु विचक्षणः ९
पर्वताग्रे समायुक्तं होमं कुर्याद्विचक्षणः
दिग्विदिक्षु । शिलापरीक्षणञ्चैव
बलिं चैवाचर्यो शिल्पिभिस्सह १०
आचार्यं पूर्ववत्कृत्वा पश्चात् शिल्पिस्तु ताडयेत्
लोहजेथ मधूच्छिष्टम् सङ्ग्रहेत्तु विचक्षणः ११
सौधजे दारुजं ग्राह्य रत्नजन्न्तु ग्रहेद्बुधः
षोडशांशमथेकैकन्तत्तद्भागस्य चोपरि १२
गुणभूताब्धि रुद्रा शंरुद्रा शं!प्रतिमोदयम्
तथैव मानहीनं वा तन्मानं वा गृहेत्पुनः १३
त्रयत्रिंशत्प्रमाणेन ग्रहेन्मानमथोच्छ्रयम्
उदयञ्चतुरशीति द्विषष्ठी च तथैव च १४
चतुर्विंशत्षोडशांशं भज्येकांशेन योजयेत्
एवमाद्योदयं कुर्यात्तेन मानाङ्गुलेन तु १५
त्यजेदलीनं विप्रेण गुणयेत्तु विचक्षणः
गुणेन गुणितं यत्र द्र स्वैवे च सुहिक्रमात् १६
शिष्टं योनिरिति ख्यातं वसुभिर्गुणितं पुनः
भू स्वै द्वे सप्तविंशेन गेषमश्वादितो भवेत् १७
रन्ध्रेन गुणितं तुन्नश्च धात्वंशेनैव हारिते
शेषकर्मादि वारस्यात्तेनैव वसुभिर्गुणैः १८
अर्कांशेन हारित्वा देवं शेषांशमेव तु
नवेन गुणितं यत्र तद्दशांश क्रमाद्बुधः १९
शेषं व्ययमिति ख्यातमवेनैव गुणैस्ततः
नन्दांशेन यत्कार्यं शेषांशमंशकं विदुः २०
आयाधिक्यं धनाधिक्यं व्ययाधिक्यं धनक्षयम्
यो निष्कं ध्वजसिंहाख्यो ध्वजो वृक्षेन्द्र गोधकः २१
निधनं शेषमाख्यातं वर्जयेत्तु विचक्षणः
वारेषु सितसोमगुखश्च शुभावहाः २२
अशुभा तथान्यानि वर्जनीया प्रयत्नतः
अशेषतश्शै शेन उक्तिश्शक्तिस्तथैव च २३
वित्तानीच नृपतीह्या समृद्धिश्च शुभावहम्
शेषाश्च शुभमाख्याता एतेषां शुभकं वरम् २४
नृपश्च यजमानश्च देशिकश्च तथैव च
ग्रामक्षा श नकुलं सङ्ग्रहेत्तु विचक्षणः २५
नृपरित्र विनावाथ दिव्यक्षान्तमथापि वा
जन्मसम्पत्विपत्क्षेम प्रत्यरस्साधको वधः २६
मैत्रं परममैत्रं च जन्मादीनि पुनः पुनः
विपत्प्रत्यरनैधन्यन्तथा चन्द्रा ष्टमं भवेत् २७
वैनाशिकं तथा चैव वर्जनीयं प्रयत्नतः
अर्धोत्तरन्तु सङ्ग्राह्यमशुभं वर्जितम्मतम् २८
एवं संवीक्ष्य बिम्बादीन्कल्पयेत्कल्पवित्तमः
मूललिङ्गानुरूपेण प्रोच्यते सकलन्त्विह २९
मानुषलिङ्गमानेन कृत्वा बेरन्तु मानवम्
दैविकस्य तु मानेन कृत्वा चैवाष्टकं भवेत् ३०
अव्यक्तनादरूपं हि सर्वेषां शक्तिमारभेत्
धात्री सरस्वती देवी महालक्ष्मी तथैव च ३१
महामोटी च दुर्गा च सप्तमातृगणास्तथा
सर्वशक्तिसमुद्भूत बिन्दुरूपेण चोच्यते ३२
एवं लक्षणमाख्यातं शक्तिरूपं विधीयते
चतुर्भुजां त्रिणेत्रां च करण्डमकुटान्विताम् ३३
पद्मनीलोत्पलं हस्तमभयं वरदान्विताम्
सुस्थितं पादसंयुक्तं चरणाम्बुजमेव च ३४
एवन्देवी समाख्यातं षट् भुजं च ततः श्रुणु
अभयं वरदं पूर्वं परहस्तसमन्वितम् ३५
द्विपद्मं टङ्कशूलं च कारयेत्तु विशेषतः
पर्याय वाचकाह्येते कामकोष्ठमिति स्मृतम् ३६
गौरी रूपमिदं प्रोक्तं स्थापनीय विधिं श्रुणु
अष्टदिक्ष्वन्तराळेषु हर्म्याग्रे तु विशेषतः ३७
कामकोष्ठालयं प्रोक्तं स्थापयेत्तु विशेषतः
वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी ३८
अष्टाष्टस्तम्भसम्युक्तं कलास्तम्भयुतन्तु वा
द्वादश स्तम्भसम्युक्तम्मण्टपन्तु त्रिधा भवेत् ३९
मध्ये नन्दपदं वेदीं कल्पयेत्कल्पवित्तमः
रत्नन्यासन्तथापूर्वे द्वितीयन्नेत्रमोचनम् ४०
तृतीयं बेरशुद्धिः स्यात् चतुर्थं ग्रामप्रदक्षिणम्
पञ्चमन्तु जले वासं षष्ठं पण्टप वेशनम् ४१
सप्तमं शयने स्थाप्यं होमकर्म तथाष्टमम्
नवमञ्चार्घ्यविन्यासन्दशमं स्थापनं परम् ४२
प्रासादस्य पुरोवापि प्रतिष्ठामण्टपं कुरु
ऐशे वा पावके वाथ ऐन्द्रे वा सौम्य एव च ४३
यमे वा राक्षसे वायौ वरुणे वापि कारयेत्
प्रतिष्ठामण्टपं कुर्यात्कारयेत्तु विशेषतः ४४
पञ्चविंशतिहस्तैर्वा दशपञ्च करेण वा
द्वादशन्दशहस्तैर्वा चाष्टौ हस्तैरथापि वा ४५
द्वादशाङ्गुलमुत्सेधन्तालन्तत्रैव कारयेत्
द्वितालं वेदिकोत्सेधन्दर्पणोदरसन्निभम् ४६
द्विहस्तं वेदिविस्तारं त्रिहस्तन्तु चतुष्करम्
उपवेदि समायुक्तं कुण्डानि परितः क्रमात् ४७
योनिकुण्डं चतुर्दिक्षु विदिक्षु पद्मकुण्डकम्
इन्द्र ईशानयोर्मध्ये वृत्तकुण्डं प्रधानकम् ४८
नवाग्निं कल्पयेद्धीमानेकपञ्चाग्निकारयेत्
शास्त्रप्रोक्तप्रमाणेन पश्चाच्छिल्पिं विसर्जयेत् ४९
गोमयेनोपलिप्याथ मण्टपं कुण्डवेदिका
मण्टपस्योत्तरे भागे स्नानमण्टपवेदिका ५०
ब्राह्मणान्भोजयेत्तत्र पुनर्गोमय वारिणा
जलेनाद्री र्कृतेनैव लेपयेत्सर्वमेव च ५१
पुनः पुण्याहमारच्य वास्तु होमं समाचरेत्
राक्षसे वास्तु देवानां होमं कृत्वा विशेषतः ५२
स्थापनस्य दिनात्पूर्वे अङ्कुराण्यर्पयेद्बुधः
सप्तपञ्चत्रिरात्रं वा एकरात्रमथापि वा ५३
सद्योङ्कुरन्तथा चैव सद्योऽधिवासनं कुरु
निर्दिष्टदिवसात्पूर्वे पञ्चाहे वा त्र्यहेऽपि वा ५४
एकाहे वा तथा चैव रत्नन्यासं समाचरेत्
मण्टपे मध्यदेशे तु शिवाग्रे वा विशेषतः ५५
गोमयालेपनं कृत्वा स्थण्डिलं विधिना कुरु
पीठं मध्ये तु विन्यस्य प्रोक्षयेत्कुशवारिभिः ५६
पूजयेत्तत्र मध्ये तु ततो नन्तासनन्तथा
रत्नानि विन्यसेत्तत्र मध्यादीशान्तकं क्रमात् ५७
माणिक्कम्मध्यमे कुर्यादिन्द्र नीलन्तथैव च
वैडूर्यं वह्निदिक्भागे तथावैर गोचरे ५८
नीलं वै याम्यदिक्भागे गोमेदन्निरृतौ तथा
स्फटिकं वारुणे भागे पुष्यरागञ्च वायवे ५९
वज्रं तत्सौम्यदिक्भागे प्रवाळं शाङ्करे दिशि
नवबीजेन विन्यासो स्थिस्थैवकस्योपरि ६०
स्थापयेत्प्रतिमान्तस्यां सुस्निग्धं सुदृढं तथा
शिल्पिना तीक्षणे नैव नेत्रोन्मीलनमेव च ६१
अर्चयुक्तदिनात्पूर्वं परचक्रक्रमाद्विदुः
त्रीणिपञ्चयुक्तायाम् दग्धं करणनेत्रकम् ६२
तस्म–फणयेत्तत्र नेत्रयुग्मदिने कृते
स्थण्डिलं शालिभिः कुर्यात् घटानादौ तु विन्यसेत् ६३
तन्मध्ये बेरमादाय स्थापयेद्धृदयेन तु
शिल्पिना दक्षिणे हस्ते बिम्बमस्त्रेण शोधयेत् ६४
हेमसूचिप्रहारेण लेपयेद्दृष्टिमण्डले
कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलमध्यमे ६५
वर्तयेत्तत्क्रमेणैव रजतं सप्तमक्रमात्
भ्रूरेखां पक्ष्मरेखां च तद्बहिः क्रमशः कुरु ६६
शिल्पिनन्तु विसृज्याथ पुण्याहं कारयेद्बुधः
बेरशुद्धिं ततः कुर्यात्पञ्चगव्यस्य सेचनात् ६७
मधुघृतं पयश्चैव प्रतिप्रस्थन्तु पात्रके
सौवर्णपङ्कजञ्चैव पूर्वाण्यासूत्र पात्रके ६८
स्थण्डिलं पूर्ववत्पूर्वे बेरन्तस्योपरिन्यसेत्
घृतं मिमिक्षेति घृतं आप्यायस्वेति क्षीरकम् ६९
पूजयेद्गन्धपुष्पाद्यैः प्रणवेन तु बुद्धिमान्
नखत्रयन्तु स्वर्णेन दक्षहस्तकराग्रहे ७०
नेयजेन्नेत्रमन्त्रेण नयनोन्मीलनं कुरु
जाग्रस्वप्नसुषुप्तिश्च तुर्यतुर्यादिपञ्चकम् ७१
तस्माज्जाग्रेति पञ्चैते वर्ततेतिव्यजाग्रतम्
तत्काले चाक्षिमोक्षं च कारयेद्देशिकोत्तमः ७२
पञ्चगव्याभिषेकन्तु श्रीपत्रं कुशवाससा
घर्षयेद्बिल्वपत्रेण चन्दनेनानुलेपयेत् ७३
दर्शयेद्धेनुमुद्रा ंच नेत्रमन्त्रमनुस्मरन्
सूर्यचन्द्रा ग्निमन्त्रैस्तु प्रतिमण्डलमर्चयेत् ७४
स्वर्णपुष्पक्रमेणैव घृतन्तत्रैव विन्यसेत्
वर्मपङ्कजमात्रेण पुष्पावतीति मन्त्रतः ७५
गोर्धेनुहव्यमन्त्रेण सवत्सां गां प्रदर्शयेत्
ब्रह्मजज्ञानमन्त्रेण कन्यकां सम्प्रदर्शयेत् ७६
प्रच्छन्नपटमाच्छाद्य द्र व्याद्यादीनिभिस्सुरैः
इक्षुखण्डसमायुक्तन्दधिक्षीरसमन्वितम् ७७
धान्यं च व्रीहिसंयुक्तम्मुद्गमाषकुळुत्थकम्
सर्वालङ्कारसंयुक्तं ग्रामं व्रतं चरेत्पुनः ७८
जलतीरे तु संस्थाप्य जलेनैवाभिषेचयेत्
प्राक्छिरश्चोर्ध्ववक्त्रं स्याल्लोकपालघटान्वितम् ७९
वामादिशक्तयश्चाष्टौ विद्येशाविन्यसेद्बुधः
अहोरात्रं त्रियामं वा द्वियामं वाधिवासयेत् ८०
रान्त्यन्तके रजन्यां वा बिम्बं च रथसंस्थितम्
शिबिकां वा समारोप्य देशिकः पुत्रसम्युतः ८१
स्नानमण्टपमावेश्य वेदिकायामथोपरि
वस्त्रकूर्चसवस्त्रं च स्नानं पूर्वोक्तवद्बुधः ८२
पञ्चमृत्पञ्चगव्यैश्च बिल्वपत्रैश्च घर्षयेत्
सुगन्धामलकादीनि लेपयेत्तु पुनः पुनः ८३
कुम्भानामभिषेकान्ते मण्टपाराधनं चरेत्
पूर्वोक्तेन विधानेन मण्टपं पूजयेत्क्रमात् ८४
दर्भमाला समायुक्तं मुक्तादाम प्रलम्बितम्
चतुर्द्वारसमायुक्तञ्चतुस्तोरणसम्युतम् ८५
अष्टमङ्गळमादाय वेदिकोपरि विन्यसेत्
स्थण्डिलं पूर्ववत्कुर्यादष्टद्रो णैश्च शालिभिः ८६
तदर्धतण्डुलैर्भूष्य तदर्धं च तिलैरपि
दारुजं रोमजं चैव पक्षिजं चर्मजन्तथा ८७
उपर्यास्तरणञ्चैव पञ्चधा शयनं भवेत्
दारुजं फलकं चैव दुकूलं केवलन्तथा ८८
अलाभे चैव कार्पास वस्त्रेणाच्छाद्यमेव च
दार्व्यां फलकायां वा कल्पयेच्छयनन्तथा ८९
पूजयेच्छयने मध्ये वामादीनामनुक्रमात्
देवीं च देवमारोप्य शाययेच्छयनोपरि ९०
प्राक्शिरश्चोर्ध्ववक्त्रं च प्रणवेन तु मन्त्रतः
सद्योधिवासनन्तत्र प्रतिमा यानकन्तथा ९१
लम्बकूर्चं सवस्त्रं च पूजाद्र व्यैश्च सम्युतम्
पूजयेद्गन्धपुष्पाद्यैराचार्यं पुत्रकैस्सह ९२
पुण्याहं पूर्ववत्कुर्यात् वस्त्रेणलक्षणं कुरु
गन्धादिनार्चयेत्सर्वं तत्र देवीं स्वनामतः ९३
पञ्चभिर्ब्रह्ममन्त्रैस्तु विन्ह्यसेत्प्रतिमोपरि
सुरभिन्दर्शयेद्विद्वानुत्तराभिमुखस्थितः ९४
प्राणायामत्रयं कृत्वा प्रापकी चतुरो भवेत्
अन्तर्ध्यानेन वेदीश मुद्भिस्तं प्रतिमारभेत् ९५
पुष्पैरञ्जलिमापूर्य तत्तन्मूलमतः परम्
प्रणवादि नमोन्तं च योजयेत्तदनुक्रमात् ९६
आवाह्य मूलमन्त्रेण प्रधाने तु घटेन्यसेत्
स्थापनञ्चैव सान्निध्यं सन्निरोधन्तथैव च ९७
नमस्कारं मुद्र या ध्यात्वा दर्शयेत्तु विशेषतः
पाद्यादीन्दापयेत्तत्र मूलम्मूले तु विन्यसेत् ९८
अङ्गैरङ्गानि विन्यस्य पूजयेत्तु यथाविधि
वामादि शक्तयश्चाष्टौ विन्यसेत्तु विचक्षणः ९९
ततो मन्त्रन्न्यसेच्चैव गन्धाद्यैरर्चयेत्क्रमात्
वज्रमुद्रा न्तथा बद्ध्वा नमस्कारं विशेषतः १००
ततो होमं प्रकुर्वीत तस्य तत्क्रममुच्यते
कुण्डानि रोधयेत्तत्र संस्कारन्तदनन्तरे १०१
अधि प्रत्यधिदेवैश्च पूर्वादीनि प्रदक्षिणम्
प्रधाने तु तथा देवीं वामादीनष्टकुण्डके १०२
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत्
समिदाज्यान्नलाजैश्च सर्षपांश्च यवान्तिलान् १०३
अश्वत्थोदुम्बरप्लक्षं वटं पूर्वादिषु क्रमात्
अपामार्गमर्कजं च खादिरं पावकादिषु १०४
पलाशञ्चादि कुण्डेषु प्रधानेषु तथैव हि
तमुत्पर्याय सर्वेषु अलाभे तु पलाशकम् १०५
समिदाहुतिं च मूलेन आज्यं वक्त्रेण हूयते
चरुं वै घोरमन्त्रेण लाजं वामेन हूयते १०६
सर्षपं सद्यमन्त्रेण हृदयेन यवाहुतिम्
शिरसा च तिलं हुत्वा प्रत्येकन्तु शताष्टकम् १०७
एवं क्रमेण सर्वत्र कुण्डे होमं समाचरेत्
द्र व्यान्ते व्याहृतिं हुत्वा स्पर्शयेद्बेरवर्धनीम् १०८
तथैव होतृभिस्सार्धं तत्तद्भागेषु संस्पृशेत्
सर्वद्र व्याहुतिं चैव तत्तत्कुण्डेषु मूर्तिपाः १०९
तत्तन्मन्त्रेण जुहुयात्कुण्डे चैव विचक्षणः
मधुक्षीरशतं हुत्वा शर्करादीन्शतं हुनेत् ११०
चतुर्दिक्षु च शालायाः कुर्यादध्ययनं बुधः
ऋग्यजुस्सामवेदां च अथर्वाध्ययनं कुरु १११
उमासूक्तं जपेच्चैव श्रीसूक्तं चैव वेदिकैः
नैवेद्यं च विशेषेण ताम्बूलन्तु निवेदयेत् ११२
अधिवासनमेवोक्तं रात्रिशेषं व्यपोह्य च
सद्योधिवासनं चैव दिवाकाले विशेषतः ११३
प्रभाते विमले तत्र देशिकः पुत्रकैस्सह
स्नानं कृत्वा विशेषेण नित्यकर्मसमाचरेत् ११४
शुक्लवस्त्रोत्तरीयश्च पञ्चाङ्गभूषणैर्युतः
सुमुहूर्ते सुलग्ने च देवीमभ्यर्च्य यत्नतः ११५
अग्निप्रज्वलनं कृत्वा परिषेचनमाचरेत्
सर्वद्र व्याहुतिं हुत्वा ———-११६
मूर्तिपास्साधयेत्पश्चात् परिधीं परिस्तरान्
विष्टरांश्चैव सर्वेषां गृहीभ्यश्चरतः क्रमात् ११७
निक्षिपेदग्निमध्ये तु तथोत्थाय तु देशिकः
नववस्त्रैरलङ्कृत्य उष्णीषैश्चोत्तरीयकैः ११८
सपवित्रकरास्सर्वे शुक्लमाल्यैरलङ्कृताः
बिम्बमुत्थापयेद्विद्वान् हृदयेन विचक्षणः ११९
सवस्त्रकूर्चान्सर्वां च वर्जयेत्तु विशेषतः
स्तोत्राध्ययनपूर्वैश्च गानगेयादिवाद्यकैः १२०
स्नानमण्टपमध्ये तु पीठे बिम्बन्निवेदयेत्
पूजयेद्गन्धपुष्पाद्यै शुद्धिं कृत्वा तु देशिकः १२१
पञ्चमृत्पञ्चगव्यैश्च ध्यात्वादेवीं त्र्यम्बकम्
गौरीमिमाय मन्त्रेण मायामन्त्राणि पूजयेत् १२२
गन्धोदकेन संस्नाप्य हरिद्रा लेपनैस्सह
देवीं पीठे दृढं स्थाप्य अभिषेकं समाचरेत् १२३
शिल्पिं विसर्जयेत्तत्र पञ्चगव्याभिषेचनम्
पुनः पुण्याहमारच्य वर्धनीमभिषेचयेत् १२४
शुद्धोदकैश्च बेरं च अभिषेकं च कारयेत्
ब्रह्ममात्मन्यसेच्चैव पुनराचमनञ्चरेत् १२५
अर्घ्यन्दत्वा विशेषेण पुष्पमूर्धनि दापयेत्
निद्रा कुम्भन्ततोद्धृत्य देशिको मूर्तिपैस्सह १२६
बिम्बाग्रे स्थण्डिलं कृत्वा स्थापयेत्पूर्ववत्क्रमात्
गन्धपुष्पादिभिः पूज्य सुमुहूर्तन्निरीक्षयेत् १२७
पञ्चब्रह्माङ्गमन्त्रैस्तु विद्यमूर्तिन्न्यसेत्पुनः
अर्चयित्वा तु वर्धन्यामुद्धृत्य मृदहस्तकम् १२८
ध्यायेद्बिन्दुमात्रान्तं हृदि मध्ये समाहितः
प्राणवृत्ति निरोधेन कुम्भकं कारयेद्बुधः १२९
घटे घटे स्थितं मन्त्रं जयं प्राणस्तु निर्मितम्
तस्मात्तु मूलमुच्चार्य हृत्सरोजात उच्यते १३०
उत्तरे वर्धनी तोयं तन्मन्त्रेण तु देशिकः
कौतुकं बन्धयेद्देव्या वाम हस्ते तु यत्नतः १३१
गौरीमिमाय मन्त्रेण होमकर्मादिकं चरेत्
मूलमन्त्रेण सम्पूज्य होमं पूर्ववदाचरेत् १३२
मुकुळीं पद्ममुद्रा ंच बीजमुद्रा ंप्रदर्शयेत्
दिशास्वध्ययनं चैव पूर्वोक्तविधिना कुरु १३३
गौरी कलास्त्वहं वक्ष्ये गौरीबीजसमुद्भवाम्
तारा ईशकला ज्ञेया विद्यावक्त्रकलास्मृता १३४
मृत्युश्श्रद्धा जरा मेधा स्वधा स्वस्तिश्च वर्मिणी
पालिनी ज्वालिनी चैव स्मृतिः कामा मतिः प्रजा १३५
शान्तिर्भूतिः क्रियाक्षान्तिर्घोरा वामकलान्न्यसेत्
शान्तिर्दान्तिर्दया स्वस्ति द्युतिस्सन्ध्या तु सद्यजा १३६
षड्विंशति कलाह्येता गौरी देहे तु विन्यसेत्
ताराञ्च विन्यसेन्मूर्ध्नि विद्यां वक्त्रे प्रविन्यसेत् १३७
हृदये च गळे बाह्वोर्जठरे नाभिदेशके
अघोरस्य कलाह्येता योनिगुह्यप्रदेशके १३८
ऊर्वोर्जानुद्वये चैव पृष्ठे द्वये पार्श्वके
वामदेव कलाह्येता देवी देहे तु विन्यसेत् १३९
पादयोरुभयोश्चैव हस्तयोरुभयोरपि
सद्योजात कलाह्येता देवीदेहे तु विन्यसेत् १४०
उद्धृत्य शिरसा मन्त्री वस्त्रकूर्चं हृदिस्थितम्
प्रतिमा हृदयेन्यस्य ततः कुम्भाभिषेचनम् १४१
सहस्राक्षरीमहामन्त्रमुच्चरन्नभिषेचयेत्
संवत्सराक्षरं वापि दक्षिणेन ———-१४२
वामादीनां च कुम्भानां विन्यसेदासनोपरि
तत्तत्कुम्भस्थतोयैश्च पीठे स्यादभिषेचनम् १४३
दळमूले न्यसेच्चैव अङ्गेष्वङ्गानि च क्रमात्
-——प्रणवं मूर्ध्नि विन्यसेत् १४४
गौरी गायत्रि मन्त्रेण मातृकां विन्यसेत्क्रमात्
गन्धादिभिश्च सम्पूज्य विशेषार्घ्यन्ततः पुमान् १४५
पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम्
वस्त्राभरणमालां च धूपदीपन्ददेत्पुनः १४६
हविर्दत्वाथ देवीनां वामादीनां च दापयेत्
एवमादीनि सर्वाणि हृदयेन प्रदापयेत् १४७
एवं वै शैलजे बिम्बे लोहजे वापि कारयेत्
शैलजप्रतिमां हित्वा लोहजं च चलाचलम् १४८
लोहजे वा समासेन ततो ग्राम प्रदक्षिणम्
तत्रादौ कौतुकञ्चैव उत्सवं पुनराचरेत् १४९
अचलन्तु तथा चैव तोयाधिवासनं विना
शयने शयनोक्तेन शेषं सर्वं समाचरेत् १५०
रत्नादीन्निन्यसेच्चैव मूलमूले विचक्षणः
शैलजानां च मूलेन विन्यसेन्नवरत्नकम् १५१
चित्राभासा तु वैचित्रे तथोक्तान्नतु विन्यसेत्
तोयाधिवासनन्तत्र तथा च शयनं विना १५२
एवमेव विधिं ज्ञात्वा प्रतिष्ठां कारयेद्बुधः
सौधजं भित्ति चित्रेण पादाग्रे हस्तमात्रकम् १५३
पीठं वापि प्रपां वापि बेरं वापि प्रकल्पयेत्
कर्मार्चारूपमेवोक्तं तत्रैवं सर्वमाचरेत् १५४
कामकोष्ठप्रतिष्ठा च सकळस्थापनं श्रुणु
इति योगजे क्रियापादे शक्तिप्रतिष्ठाविधिर्नाम अष्टाविंशतितमः पटलः