अथ निष्पन्नलिङ्गस्य स्थापनं वक्ष्यतेऽधुना
प्रशस्तपुण्यनक्षत्रे विमले सूर्यमण्डले १
प्रतिष्ठां कारयेत्सम्यगाचार्यवरबुद्धिमान्
क्रमालये तु कर्तव्यम् लिङ्गं लक्षणवत्कृतम् २
शाणेन घर्षयेद्धीमान् सर्वलक्षणसम्युतम्
बिम्बं च कारयेद्धीमान् लक्षणोद्धारणं कुरु ३
निश्चित्य दिनपूर्वे तु अङ्गुरार्पणमारभेत्
पुण्याहं कारयेत्तत्र ब्रह्मघोष समायुतम् ५
तूर्यशब्दसमायुक्तं सुमङ्गळं सुशोभनम्
नृत्तगेयसमायुक्तं सर्ववाद्यसमायुतम् ६
अष्टद्वादशमात्रं स्यादङ्गुळीयकमष्टधा
यवमात्रनिमग्नौ तु रेखा चैव प्रमातृकम् ७
षोडशांशं भजेच्चैव हाटकद्वयमस्त्यजेत्
नवतालन्तदूर्ध्वे तु मुकुळं भागमुच्यते ८
भागमेकन्त्रिधा भज्य द्विभागन्तारमुच्यते
नाळायामन्तथास्तीर्य कृत्वा तत्पार्श्वयोर्द्वयोः ९
तस्माद्या मुकुळीयान्ते तेनसूत्रेण बन्धयेत्
एतयोस्तु समं कार्यं यावत्पृष्ठान्तगोचरम् १०
प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं श्रुणु
शैवं रव्यंशकं भज्य ऊर्ध्वे गुणांशमुच्यते ११
तल्लिङ्गन्तु भवेत्तत्र अथ द्व्यंशन्तु कल्पयेत्
शेषन्नाळमिति प्रोक्तं ऊर्ध्वे तु मुकुळांशकम् १२
द्वितीयं लक्षणं प्रोक्तं तृतीयं लक्षणं श्रुणु
शिवाङ्गैववभागन्तु ऊर्ध्वभागे द्वयन्त्यजेत् १३
मुकुळं चेकभागेन नाळं पञ्चाङ्गमुच्यते
अथो भागेंशकन्नीत्वा द्विरेखा पूर्ववद्भवेत् १४
शैवन्तु दशधा भज्य द्विभागमूर्ध्वतस्त्यजेत्
मुकुळमेकभागं स्यात्षड्भागन्नागमुच्यते १५
शेषभागमथस्त्यक्त्वा मणिरेखा तु मध्यमम्
चतुर्थं लक्षणं प्रोक्तं द्विरेखापृष्ठतस्समम् १६
स्थण्डिलं कारयेत्तत्र लाजदर्भैश्च सम्युतम्
लिङ्गन्तु स्थापयेत्तत्र प्राक्शिरश्चोर्ध्ववक्त्रकम् १७
वक्त्रं वस्त्रेण संवेष्ट्य पूर्वेद्युरधिवासयेत्
ततो होमं प्रकुर्वीत वह्निकार्योक्तवत्कुरु १८
प्रभाते विमले चैव लक्षणोद्धारणं कुरु
पश्चाल्लिङ्गं समुद्धृत्य नेत्रमोक्षणमाचरेत् १९
स्विष्टमग्नेति मन्त्रेण ततो होमं समाचरेत्
नाभौ सदाशिवं प्रोक्तं सव्यसूत्रमजाधिपः २०
वैष्णवं वामसूत्रं स्याददितिस्सूत्रदेवता
त्र्यम्बकेन मन्त्रेण मध्यसूत्रं प्रकल्पयेत् २१
ब्रह्मजज्ञानमन्त्रेण ब्रह्मसूत्रं प्रकल्पयेत्
इदं विष्ण्विति मन्त्रेण विष्णुसूत्रं प्रकल्पयेत् २२
मधुवातेति मन्त्रेण मधुना सम्प्रकल्पयेत्
घृतम्मिमिक्षमन्त्रेण घृतं सम्यक्समाचरेत् २३
पश्चाल्लिङ्गं विसृज्याथ पञ्चगव्याभिषेचयेत्
अष्टमृत्सलिलेनैव पञ्चविंशद्घटान्तरे २४
गन्धादिभिस्समभ्यर्च्य रजन्या स्नानमाचरेत्
नाळिकेरोदकैस्स्नाप्य भस्मना पात्रशोभिते २५
नववस्त्रेण संवेष्ट्य गन्धपुष्पादिनार्चयेत्
जलाधिवासनं प्रोक्तं पञ्चसप्तत्रिरात्रकम् २६
जलमध्ये प्रपां कृत्वा वितानस्तम्भवेष्टितम्
दर्भमालासमायुक्तं पुष्पमाल्यैरलङ्कृतम् २७
नृत्तगेय समायुक्तं स्तोत्रमङ्गळवाचकैः
पिञ्छचामरसम्युक्तं पताकछत्रसम्युतम् २८
तालवृन्तसमायुक्तं हरशब्दसमायुतम्
जलमध्ये तु फलके शाययेल्लिङ्गपीठके २९
दर्भैरावेष्ट्य तंल्लिङ्गं पीठब्रह्मशिलैर्युतम्
नववस्त्रेण संवेष्ट्य ब्रह्मकूर्चमुमैर्युतम् ३०
नित्यदीपसमायुक्तन्नृत्तगीतसमन्वितम्
त्रिसन्ध्यायां हविर्दद्यात्ताम्बूलेन समन्वितम् ३१
प्रतिष्ठादिनपूर्वे तु जलादत्तीर्य यत्नतः
यन्त्रपीठाद्ब्रह्मशिलाकूर्माख्ये शिलया युतम् ३२
जलादुत्तीर्य देवेशं सर्वतीर्थं समावहेत्
कुम्भादेकैस्तथा स्नाप्य पीठवर्धनिकां यजेत् ३३
गन्धपुष्पादिभिः पूज्य मूलमन्त्रेण सम्युतम्
अष्टमृत्सलिलैश्चैव बिल्वपत्रैश्च वर्षयेत् ३४
गन्धोदकैश्चाभिषिच्य रजन्यामलकादिभिः
हविर्निवेदं कृत्वा ताम्बूलेन समन्वितम् ३५
वस्त्रैराभरणैर्भूष्य सर्वालङ्कारसम्युतम्
रथे वा शिबिकायां वा यानयेत्क्रमशः पुनः ३६
सर्वालङ्कारसम्युक्तमाचार्यस्तु प्रदक्षिणम्
सर्वातोद्य समायुक्तं प्रविशेदालयं पुनः ३७
यागमण्टपालङ्कारं वक्ष्यते विधिनायुतम्
आलयस्याग्रतः कुर्याद्दक्षिणे चोत्तरे थवा ३८
प्रतिष्ठामण्टपं कुर्यान्नवाष्टसप्तहस्तकैः
षोडशस्तम्भसम्युक्तं द्वादशस्तम्भमेव वा ३९
वितानध्वजसम्युक्तं वस्त्राङ्गैः स्तम्भवेष्टितम्
दर्भमालासमायुक्तं पताकध्वजसम्युतम् ४०
पूर्णकुम्भैरलङ्कृत्य नानादीपैस्समायुतम्
दूर्वाङ्कुरसमायुक्तं पुष्पपल्लवशोभितम् ४१
एवं मण्टपालङ्कार सर्वद्र व्यैर्विचक्षणः
कन्यसत्रयलिङ्गानां कन्यसं मण्टपं भवेत् ४२
मध्यमत्रयलिङ्गानां मध्यमं मण्टपं भवेत्
उत्तमत्रयलिङ्गानां मण्टपं ह्युत्तमम्भवेत् ४३
कूटं वापि प्रपां वापि सर्वत्र परिकल्पयेत्
मण्टपस्योक्तमार्गेण कुण्डं वेदीपृथक्पृथक् ४४
तस्य पश्चिमभागे तु उत्तरे वाथ कल्पयेत्
स्नानश्वभ्रं प्रकर्तव्यं लिङ्गानुरूपकं यथा ४५
दारुपीठं च सङ्कल्प्य उत्तरे शयनार्हकम्
एवं मण्टपनिर्माणं वास्तुहोमं प्रकल्पयेत् ४६
वास्तुहोम विधानं च तन्मार्गेणैव कारयेत्
पर्यग्निकरणं कुर्यात्पञ्चगव्यं च प्रोक्षयेत् ४७
पुण्याहं वाचयेत्तत्र भूसुरान्भोजयेत्ततः
वेदिकोपरि विन्यस्य अष्टद्रो णैश्च शालिभिः ४८
तदर्धतण्डुलैर्भूष्य तदर्धैश्च तिलैरपि
लाजपुष्पैश्च दर्भैश्च विकिरेत्तु विशेषतः ४९
अण्डजम्मुण्डजं चैव पञ्चवर्णं प्रकल्पयेत्
पुण्याहं वाचयित्वा तु रक्षाबन्धन्तु कल्पयेत् ५०
सुवर्णसूत्रैरावेष्ट्य त्र्यम्बकेन मन्त्रतः
लिङ्गं पीठं समभ्यर्च्य ब्रह्मकूर्म शिलायुतम् ५१
रक्षासूत्रं च सम्बध्वा मूलमन्त्रं समुच्चरन्
ईशानेन तु मन्त्रेण शयने शाययद्बुधः ५२
प्राक्छिरश्चोर्ध्ववक्त्रं च शयने शाययेद्धृदा
मुकुळीं पद्ममुद्रा न्तु सुरभी ताळमुद्रि कम् ५३
लिङ्गमुद्रा ंप्रकृत्वाथ पञ्चवक्त्रे प्रदर्शयेत्
रक्तवस्त्रेण संवेष्ट्य कूर्चपुष्पयुतेन च ५४
गन्धपुष्पादिभिः पूज्य सर्वतोद्य समन्वितम्
पीठं च नन्दिकावर्तं कूर्मशिलां च स्थापयेत् ५५
वेद्यूर्ध्वे लिङ्गमूले तु स्थापयेत्क्रमशस्ततः
वेष्टयेत्पीतवस्त्रेण गन्धपुष्पादिभिर्यजेत् ५६
शक्तिबीजमनुस्मृत्य पीठं कूर्मशिलान्तथा
ब्रह्मबीजमनुस्मृत्य ब्रह्मकूर्चशिलां यजेत् ५७
निष्कळङ्कानसुषिरान्द्रो णतोय प्रपूरितान्
त्रिसूत्रवेष्टितान्कुम्भान्नववस्त्रसुवेष्टितान् ५८
विधाय चक्रपात्राणि सूत्रेणैव विचित्रयेत्
स्वर्णपुष्पसमायुक्तं कूर्चगन्धसमायुतम् ५९
शिवकुम्भं च सम्पूज्य वर्धनीञ्चैव पूजयेत्
नववस्त्रेण सम्वेष्ट्य वस्त्रयुग्मयुतेन च ६०
देवस्यैव शिरो भागे कल्पयेदासनन्तथा
गन्धादिभिस्समभ्यर्च्य शिवकुम्भं च वर्धनीम् ६१
पञ्चरत्नसमायुक्तं ध्यानं सादाशिवेन च
सद्यमन्त्रेण चावाह्य स्वागतं हृदयेन तु ६२
स्थापयेद्वामदेवेन अघोरेण निरोधनम्
ईशानेन तु सान्निध्यं पुरुषेण तु सम्मुखम् ६३
पाद्यमाचमनं चार्घ्यं शिरोमन्त्रेण दापयेत्
गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ६४
दापयेद्धृदयेनैव ताम्बूलन्दापयेत्ततः
दर्शयेद्दशमुद्रा ंच लिङ्गमुद्रा न्तथैव च ६५
पञ्चवक्त्रं प्रदृश्याथ ईशानेन पिधाय च
अस्त्रेणैव तु मन्त्रेण दिग्बन्धं च ततः कुरु ६६
तस्यैव वामभागे तु वर्धनीं चैव विन्यसेत्
वर्धनी मध्यमे न्यस्त्वा मनोन्मन्यास्तु मन्त्रकम् ६७
अब्जमुद्रा ंप्रदृश्याथ सुरभीन्ताळमुद्रि काम्
स्वर्णवक्त्रसमायुक्तं चक्रपात्रं विधाय च ६८
इन्द्रा दीशानपर्यन्तमष्टविद्येश्वरान्न्यसेत्
सवस्त्रान्सापिधानांश्च सवस्त्रान्हेमसंयुतान् ६९
अष्टमङ्गळरूपाणि उपवेद्युपरिन्यसेत्
विद्येशानान्तु रूपाणि गन्धपुष्पादिनार्चयेत् ७०
शिववक्त्रं च कुम्भानां वर्धन्याभिमुखं चरेत्
विद्येश्वरस्य कुम्भानां अष्टविद्येशधारकान् ७१
पूर्वोक्तलक्षणैर्युक्तपूर्वशैवस्तु देशिकः
पञ्चाङ्गभूषणैर्भूष्य वस्त्रैराभरणैर्युतः ७२
गन्धपुष्पैश्च धूपैश्च होमयज्ञेन सम्युतः
आचार्यो मूर्तिपैस्सार्धं वस्त्रहेमाङ्गुळीयकैः ७३
होमारम्भस्य पूर्वे तु सृक्सृवौ चेन्धनन्तुषम्
परिधीं चैव दर्भाणि समिदाज्यचरून्तथा ७४
लाजांश्च सर्षपां चैव –द्र व्यां च कल्पयेत्
गन्धं पुष्पं च धूपं च दीपपात्राणि निक्षिपेत् ७५
विहरीक्रमसरळं चैव वर्धनीन्दर्विसम्युतम्
आहृत्य होमसम्भारं कुण्डं प्रति विशेषतः ७६
आहूयमौदवान्सर्वान्होम कर्म समारभेत्
वृत्तकुण्डं प्रधानस्य स्थापको सौम्य होमयेत् ७७
अन्यकुण्डेषु सर्वेषु मूर्तिपा होमयेत्क्रमात्
तत्तदायुधकोपेत तद्बाह्ये विन्यसेत्क्रमात् ७८
वसून्धरादीन्विन्यस्य मरुतश्चैव विन्यसेत्
सर्वेषान्तु समायुक्तमुत्तमं होमकर्मणि ७९
अस्त्रं च दिक्पालानां सम्युतं होममाचरेत्
अग्न्याधानादिकं सर्वमाज्यभागान्तरं पृथक् ८०
होमं प्रतिविशेषेण अग्निकार्योक्तमाचरेत्
ऋग्वेदाध्ययनं पूर्वे यजुर्वेदन्तु दक्षिणे ८१
पश्चिमे सामवेदन्तु अथर्वेदन्तु चोत्तरे
विदिक्षुस्याद्धनुर्वेदन्देवताभिमुखं जपेत् ८२
कोणे मन्त्रजपं कुर्यान्मूलमन्त्रं विशेषतः
समिदाज्य चरूल्लाजान्मुद्गमाषयवान्तिलान् ८३
शालिगोधूमनीवारान्सक्तु सिद्धार्थकादिभिः
क्रमेण विधिवद्धुत्वा पृथक्द्र व्याणि होमयेत् ८४
पलाशञ्चेशदिक्भागे अश्वत्थोदुम्बराणि च
प्लक्षखादिरबिल्वानि शमी चैव पृथक्पृथक् ८५
इन्द्रा दीशानपर्यन्तं क्रमशस्समिधो हुनेत्
प्रधानाग्नौ पलाशन्तु अश्वत्थो दुम्बराणि च ८६
सर्वेषां बाह्यकुण्डानां समिधस्सम्प्रकीर्तिताः
सद्येन समिधो हुत्वा मूलेनाज्यन्तु होमयेत् ८७
शालिमीशान मन्त्रेण गोधूममस्य मन्त्रकम्
शिखामन्त्रेण नीवारं कवचेनैव सक्तुकम् ८८
पाशुपतेन सिद्धार्था बीजमुख्येन वै दधिम्
दशाक्षरेण मन्त्रेण मुद्गान्तां जुहुयात्ततः ८९
अष्टाक्षिकत्रिशतकं द्र व्यं प्रतिहुतं भवेत्
उत्तमं होममाख्यातं मध्यमं द्विशताष्टकम् ९०
अष्टोत्तरशतन्नीचन्द्र व्यं प्रतिहुतं क्रमात्
द्र व्यं प्रतिस्पर्शनं कुर्याल्लिङ्गं मूलेन यत्नतः ९१
स्पृष्ट्वा स्पृष्ट्वा च मूलेन देशिको मूर्तिपैस्सह
ब्रह्मजज्ञानमन्त्रेण हुत्वा ब्रह्मशिलां स्पृशेत् ९२
मनोन्मन्यास्तु मन्त्रेण हुत्वा तां पिण्डिकां स्पृशेत्
प्रत्येकं षोडशं हुत्वा व्याहृतीं जुहुयात्ततः ९३
अष्टाधिकशतं हुत्वा क्रमशो होममाचरेत्
होमारम्भस्य काले तु क्रोधमोहविवर्जितः ९४
पूर्णाहुतिन्ततः कृत्वा दर्भान्सर्वांश्च होमयेत्
अग्निमुखं च पूर्वे तु युक्तोवहेति मन्त्रतः ९५
जयादिरभ्याधानं च राष्ट्रभृच्च हुनेत्क्रमात्
नृत्तगेय समायुक्तं रात्रिशेषं व्यपोह्य च ९६
ततः प्रभाते विमले आचार्यो मूर्तिपैस्सह
स्नानं कृत्वा विशेषेण शुक्लवस्त्रोत्तरीयकः ९७
शुक्लाम्बरधरोष्णीषी शुक्लमाल्यैरलङ्कृतः
शुक्लचन्दनदीप्ताङ्गो हाराद्याभरणैर्युतः ९८
पवित्र पाणयस्सर्वे हेमयजोपवीतकः
लिङ्गन्तु शयनात्पूज्य हविर्दत्वा विशेषतः ९९
यागदेवान्समभ्यर्च्य यामं प्रति हविर्ददेत्
ताम्बूलं मुखवासार्थं प्रददेच्छ्रद्धया बुधः १००
आचार्यश्शिल्पिना सार्थं प्रविशेद्गर्भगेहकम्
पूर्वपश्चिममार्गेण मध्ये सूत्रं प्रदापयेत् १०१
दक्षिणोत्तरमार्गेण सूत्रं सूर्योक्तमध्यमम्
पूर्वदक्षिणमार्गेण पुरस्तात्परपूर्वकम् १०२
याम्यसौम्यं तथा चैव द्वात्रिंशत्सप्तधा भवेत्
मध्यभागन्त्रिधा भज्य पक्षान्तं दक्षिणे त्यजेत् १०३
एकांशमुत्तरे त्यक्त्वा मध्यसूत्रन्तु पातयेत्
शिवसूत्रन्तथा ख्यातं तन्मध्ये स्थापयेच्छिवम् १०४
अन्यत्र स्थापनं लिङ्गं स्थाननाशं धनक्षयम्
मध्यमे स्थापितं लिङ्गं सर्वदोषहरं भवेत् १०५
शालिपिष्टोक्तसूत्रेण रक्तसूत्रेण वा पुनः
सूत्रमास्फालयेद्धीमान् स्थूलभित्त्यां क्रमेण तु १०६
भित्त्यभावे महाशासु यदि तु स्थापयेद्बुधः
शिवसूत्रं महाशासु तन्तुकोर्ध्वं प्रकल्पयेत् १०७
षण्डकायास्तु संलिप्य शिवसूत्रस्य मध्यमम्
अङ्कयेत्तु महाशासु सूत्रपातन्तु कारयेत् १०८
सकूर्चं कूर्चशैलं च प्रवेशाजपभावकम्
समं च कारयेद्गर्तं पीठविस्तारविस्तृतम् १०९
गर्तं समतलं कृत्वा निकृत्यैव पामतम्
अध्वद्भिस्तु समं कृत्वा वस्त्रेणैव तु शोषयेत् ११०
गर्भं यष्ट्वाग्रशैलन्तु शक्तिबीजेन विन्यसेत्
मध्यमं शिवसूत्रन्तु लम्बयित्वा विधिक्रमात् १११
कारयेत्प्रतिसूत्रन्तु स्थपतिर्याज्ञिकस्तथा
उपवीतं तथा कृत्वा श्वभ्रमध्ये तु विन्यसेत् ११२
प्रतिलिङ्गन्तु संस्थाप्य सुस्थितं बिन्दुपिण्डिकाम्
प्रतिलिङ्गन्तु संस्थाप्य यवमन्त्राणि सन्त्यजेत् ११३
कूर्मशैलां गवान्शोध्य प्राशयेत्पुरुषेण तु
चन्दनेन तु लिप्याथ रत्नानि विधिवन्न्यसेत् ११४
वज्रं मरकतं चैव पुष्यरागं प्रवाळकम्
मौक्तिकं चैव वैडूर्यं स्फटिकं चेन्द्र नीलकम् ११५
इन्द्रा दीशानपर्यन्तं विन्न्यसेन्मूलविद्यया
माणिक्यं मध्यमे स्थाप्य सर्वरत्नं क्रमान्न्यसेत् ११६
सुवर्णं रजतं ताम्म्रं आयसं त्रपुसीसकम्
आरकूटं च लैन्दवलाहकं च क्रमात्तथा ११७
हरितालं च त्रिफलं गन्धकं चारसाञ्जनम्
सौराष्ट्रं गैरिकं माक्षिकं पूर्वादिषु विन्यसेत् ११८
यव गोधूम नीवार शालिवैणवकानि च
प्रियङ्गुतिलमुद्गानि निष्पावं च क्रमात्तथा ११९
चन्दनं कुङ्कुमं चैव क्रमेणैव तु विन्यसेत्
-—-लोह पात्रं फलत्रयम् १२०
कर्पूरकमुशीरं च क्रमेणैव तु विन्यसेत्
वैणवं वज्रवाणी च वृषभं ध्वजमेव च १२१
लक्ष्मीं च सहदेवीं च शान्तिपुष्पं सुवर्चसम्
पूर्वा च सुमुखं चैव क्रमेणैव तु विन्यसेत् १२२
नीलोत्पलं पद्मगन्धम् काकलोक्यं च मुस्तकाम्
सर्वकन्दं च विन्यस्य भूतले तु विशेषतः १२३
पृथ्वीं तच्छातकुम्भं च सामुद्र राजतेन च
ताम्म्रेण वृषभं कृत्वा तोमरं चामरं गजम् १२४
श्रीवत्सं कलशं भेरीं दर्पणं पद्मपुष्पकम्
महामेरुं सुवर्णेन कृत्वा पूर्वादिषु न्यसेत् १२५
दक्षिणे मध्यमे सौम्ये पूर्वे चैव यथाक्रमम्
कन्दे चैव विनिक्षिप्य स्थापयेत्तु विशेषतः १२६
मुकुळीं पद्ममुद्रा ंच शोधनीं चैव वर्जयेत्
पूजयित्वा तु यत्नेन गन्धपुष्पादिभिस्तथा १२७
पायसेनाथ लिप्याथ पूज्यशालां पुनः पुनः
आसनं कल्पयेत्तत्र पञ्चासनक्रमेण तु १२८
पञ्चाङ्गभूषणान्यानि आचार्याय प्रदापयेत्
दक्षिणान्दापयेत्पश्चाच्चतुष्षष्टिसुवर्णकम् १२९
उत्तमन्त्विति विख्यातं पञ्चाशन्मध्यमं भवेत्
त्रिंशन्निष्कं कन्यसं च मध्यम्मध्यमं भवेत् १३०
अधमं मध्यमुद्दिष्टं विंशन्निष्कं हिरण्यकम्
दशनिष्कं मध्यमं च कन्यसं पञ्चनिष्ककम् १३१
मूर्तिपान्पूजयेत्तत्र दशनिष्कादि निष्ककैः
एकन्निष्काधमं प्रोक्तं मूर्तिपानां सुदक्षिणा १३२
यागोपकरणं सर्वमाचार्याय प्रदापयेत्
भूमिगोमहिषीत्यादि दासीदासाञ्च दापयेत् १३३
भक्तानां परिचाराणां यथाशक्ति प्रदापयेत्
देवयज्ञस्य तत्काले मुहूर्तन्तत्परीक्षयेत् १३४
सर्वतोद्य समायुतं नृत्तगेयसमायुतम्
ब्रह्मघोषसमायुक्तं नानाभक्तसमाकुलम् १३५
पिञ्छछत्रपताकैश्च धूपदीपसमाकुलम्
वर्धनीं सहितां वा मङ्गळाङ्कुरशोभितम् १३६
उद्धृत्य शयनाल्लिङ्गं सर्ववस्त्रं व्यपोह्य च
घृतं शिरोर्पणं कुर्याद्दूर्वाक्षत समायुतम् १३७
अङ्कुरं पुष्पसम्युक्तं आचार्यैव जातकम्
भक्तैश्च परिचारैश्च दासीदास समायुतम् १३८
पश्चाल्लिङ्गं समुद्धृत्य शिबिकां यानयेद्बुधः
रज्जु बन्धन्ततः कुर्यान्मुक्तालङ्कारसम्युतम् १३९
एवमेव प्रकारेण कृत्वा धाम प्रदक्षिणम्
पृष्ठतो यजमानस्तु पुत्र भ्रातृसमन्वितः १४०
अपरे त्वग्रतो गच्छेदव्यहस्तसमायुताः
विश्राम्य द्वारदेशे तु अर्घ्यन्दत्वा विशेषतः १४१
तत्काले द्वारदेशे तु श्रमाञ्चैव निरीक्षयेत्
आचार्यो मूर्तिपैस्सार्धं लिङ्गस्थापनमारभेत् १४२
सुमुहूर्ते तु संस्थाप्य लिङ्गं च द्वारसम्मुखम्
सुस्थितौ स्थापितं लिङ्गं धनधान्यसमृद्धिदम् १४३
सुखार्हं स्थापितं लिङ्गं वक्रस्थानं धनक्षयम्
तस्मात्सर्वप्रयत्नेन स्थाप्य लिङ्गं सुयत्नतः १४४
तदाधारशिला सर्वं आरम्भं परिकल्पयेत्
त्रिफला शिवचूर्णं च कदळी गुडसम्युतम् १४५
स्नेहद्र व्याणि सर्वाणि स्थापयेच्छतवास्तुना
पश्चाद्धोमं समारभ्य ब्रह्मशिलां च कल्पयेत् १४६
सुस्निग्धं ब्रह्मशिलां योज्य स्थलं सुदृढमाचरेत्
पश्चाद्धोमं समाराध्य –स्थापनं कुरु १४७
अष्ठबन्धन्ततो बद्ध्वा युग्मवद्दृढबन्धकम्
लाक्षसं जरसं सिक्तं कुरुविन्दं च गुग्गुलुम् १४८
गैरिकं गुळतैलं च अष्टबन्धनमुच्यते
तैलभागं बन्धनान्तं लाक्षान्तं क्रमशोन्यसेत् १४९
शुद्धिं कृत्वा यथान्यायं पवमानमुदीरयेत्
अथवान्य प्रकारेण अष्टबन्धनमुच्यते १५०
त्रिफलं शङ्खचूर्णं च कदळीगुळसम्युतम्
दधिघृतं पयञ्चैव माषयूषमिति स्मृतम् १५१
चूर्णसिक्तयुतं वापि अपक्वमिति कीर्तितम्
पुण्याहं वाचयेत्तत्र शुद्धं कृत्वा तु भूतलम् १५२
दशाक्षरेण मन्त्रेण लिङ्गमूर्ध्नि न्यसेद्बुधः
पक्वाष्टबन्धने काले चन्दनेन तु लेपयेत् १५३
पञ्चगव्येन सम्प्रोक्ष्य लिङ्गपीठं विशेषतः
अष्टत्रिंशत्कलान्यासम्मकुटादि क्रमान्न्यसेत् १५४
ईशानस्सर्वविद्यानामस्तु सदाशिवाय नमः इति
ईशानम्मूर्ध्नि विन्यस्य अङ्गुष्ठाग्रेण मुद्र या १५५
तत्पुरुषाय विद्महे तन्नो रुद्रः प्रचोदयात् इति
-——–मुखे तत्पुरुषन्यसेत् १५६
अघोरेभ्योऽथघोरेभ्यो -रुद्र रूपेभ्यः इति
मध्यमाङ्गुळियोगेन अघोरं हृदिविन्यसेत् १५७
वामदेवाय नमो ज्येष्ठाय मनोन्मनाय नमः इति
अनामिकाङ्गुळियोगेन वामदेवेन गुह्यके १५८
सद्योजातं प्रपद्यामि भवोद्भवाय नमः इति
कनिष्ठिकाङ्गुळियोगेन पादादारभ्यमस्तकम् १५९
अकारं मूर्ध्नि विन्यस्य आकारन्तु ललाटके
इ ईं नेत्र द्वये चैव उ ऊ कर्णद्वये न्यसेत् १६०
ऋ ॠ च गण्डयोश्चैव लृ लॄ नासाद्वये न्यसेत्
ए ऐ ओष्ठ द्वये चैव ओ औ च दन्त पङ्क्तयो १६१
अं कारन्तालुमध्ये च आःकारन्तालुमूलके
दक्षिणादि क्रमेणैव क्रमेण परिपठ्यते १६२
अकारादिक्षकारान्तमक्षरं विन्यसेत्सुधीः
शिरोललाटनेत्रे च कर्णयोश्च द्विगण्डयोः १६३
आस्ये चोष्ठद्वये चैव दन्तपङ्क्तिद्वयोरपि
जिह्वायां तालु रन्ध्रे च स्वरान्षोडश विन्यसेत् १६४
कवर्गन्दक्षिणे हस्ते चवर्गं वामहस्तके
टवर्गन्दक्षिणे पादे तवर्गं वामपादके १६५
पफौ च दक्षिणे पार्श्वे बभौ च वामपार्श्वके
कण्ठे देशे मकारन्तु यकारं स्कन्धके न्यसेत् १६६
त्वग्रुधिरमांसमेदोऽस्थि मज्जाशुक्लासुवै
वकारादि सकारान्तं क्रमेणैव तु विन्यसेत् १६७
हकारं हृदि विन्यस्य ळकारं वृषणद्वये
क्षकारं मेढ्रदेशे तु विन्यसेत्तु विशेषतः १६८
कुन्देन्दुस्फटिका भासं जटामकुटधारिणम्
पञ्चवक्त्रान्वितं मूर्धन्नेत्र पञ्चदशैर्युतम् १६९
सर्वाभरणसम्युक्तं दशदोर्भिस्समन्वितम्
शूलं परशुखड्गं च वज्राभयं च दक्षिणे १७०
पाशन्नागाङ्कुशं चैव घण्टां वह्णिं च वामके
सव्यं गोक्षीरसदृशं वामं रक्तनिभं भवेत् १७१
अघोरमञ्जनप्रख्यं पुरुषं कुङ्कुमप्रभम्
शुद्धस्फटिकसङ्काशं द्वात्रिंशल्लक्षणान्वितम् १७२
गोक्षीरधवळाकारं प्रणमामि सदाशिवम्
दिव्याम्बरधरन्देवं दिव्यपुष्पैरलङ्कृतम् १७३
दिव्यगन्धानुलिप्ताङ्गं शान्तरूपं स्मिताननम्
सर्वाभरणसम्युक्तं षोडशाब्दकयौवनम् १७४
पद्मोत्पलधरान्देवीं केशाळकविभूषिताम्
करण्डमकुटोपेतां रक्तवस्त्रोत्तरीयकाम् १७५
देवस्य वामभागे तु दिव्यरूपां मनोन्मनीं
एवं पठेन्न्यसेद्देवीं द्विपादं पद्मनिष्ठकम् १७६
अथवान्य प्रकारेण चतुर्दोर्भिस्तु ध्याययेत्
पूर्वमभयवरदं परयोः पुष्पकं स्मृतम् १७७
एवं ध्यात्वा तु पीठस्थान्देवीं पादादिकेशकम्
उपानं पादुकं चैव जगतीजङ्घमेव च १७८
कुमुदं कुक्षिरित्याहु बाहुभ्यां फुल्लमेव च
कण्ठं कर्णमिति प्रोक्तं धरमाधारपट्टिका १७९
लिङ्गाच्चतुर्दशे भागे अंशं च प्रतिविन्यसेत्
त्रयांशं जङ्घमित्युक्तं त्र्यंशमूरुद्वयन्तथा १८०
त्र्यंशं शरीरमित्युक्तं गळमेकांशमीरितम्
द्व्यंशं शिखर सा ञ्चाप्यंशं मकुटके न्यसेत् १८१
एवं लक्षणमित्युक्तं सर्वलिङ्गं प्रकल्पयेत्
वर्धमानं स्थितं लिङ्गमासीनन्तु शिवाधिकम् १८२
समखण्डं च शयनं स्वस्तिकं लिङ्गपिङ्गकम्
इत्येवं लक्षणैर्युक्तं लिङ्गमध्ये तु ध्यानकम् १८३
वृत्तपीठे स्थिता गौरी आसीना भद्र पीठके
शयनं पद्म पीठं स्यादन्येषु च चराचरम् १८४
नन्द्यावर्तन्तु पीठेन ब्रह्मा हेमनिभं भवेत्
चतुर्मुखं चतुर्बाहुमक्षमाला कमण्डलुम् १८५
स्तम्भद्वयन्तु सम्बन्धम् लिङ्गोर्ध्वे तु प्रकल्पयेत्
ऊर्ध्वाय दक्षिणं वाम क्रमेण परिपठ्यते १८६
कूर्मशिलेन संस्थाप्य भूमिदेवीं सलक्षधी
द्विभुजं श्वेतनिभामनन्तोपरि संस्थिताम् १८७
एवं ध्यात्वा सुमना लिङ्गस्थापनमाचरेत्
गन्धपुष्पादिभिः पूज्य शिवाङ्गेन तु मन्त्रतः १८८
दर्शयेत्पद्ममुद्रा ंच पीठे सर्वं विशेषतः
अग्निं प्रज्वाल्य तत्काले तत्काले होममाचरेत् १८९
जयादिरभ्याधानं च राष्ट्रभृद्धोममाचरेत्
पूर्णाहुतिं च शिरसा स्विष्टमग्नेति मन्त्रतः १९०
होमान्ते तु ततः पश्चात् आचार्यो मूर्तिपैस्सह
सर्वालङ्कारसंयुक्तं पिञ्छछत्र पताकया १९१
धूपदीपसमायुक्तं ——–शिवकुम्भन्ततोद्धृत्य मूलमेन्त्रेण देशिकः १९२
अन्ये कुम्भवर्धनी च मूर्तिपाधारयेत्क्रमात्
कुम्भमुद्धृत्य शिरसा कुर्याद्वामप्रदक्षिणम् १९३
लिङ्गाग्रे स्थण्डिलं कृत्वा शालितण्डुलसम्युतम्
स्थण्डिलोपरिविन्यस्य सदाशिवन्तु ध्यानयेत् १९४
संस्थाप्य वामदेवेन अघोरेण निरोधनम्
पुरुषेण तु सान्निध्यं ईशानेन तु सम्मुखम् १९५
ध्यात्वा मनोन्मनी मन्त्रं पिण्डिकायां विशेषतः
सुलग्ने सुमुहूर्ते तु मन्त्रन्यासं समाचरेत् १९६
आचार्यस्सुप्रसन्नात्मा लिङ्गस्य दक्षिणे स्थितः
प्राणप्रकृतियोगन्तु ज्ञात्वा स्थापनमाचरेत् १९७
प्राणोमन्त्रमिति प्रोक्तः प्रतिर्जलमिति स्मृतम्
कुम्भाद्बीजं समावाह्य क्रमेणावाहयेत्ततः १९८
दक्षिणेन तु हस्तेन स्थापनं बिन्दुमूर्धनि
ध्यानेनैव समायुक्तं सादाशिवम्मनुस्मरन् १९९
अङ्गमङ्गं प्रतिप्राज्ञै मरुमन्त्राम्भसम्युतम्
मूर्धादिपादपर्यन्तं अष्टत्रिंशत्कलान्न्यसेत् २००
ध्यात्वासनं शिवं रूपं कुम्भोदकेन पूजयेत्
वर्धन्यां जलमायाभ्यां वामे पीठे प्रविन्यसेत् २०१
तज्जलैः पीटकं स्नाप्य मङ्गमङ्गन्न्यसेद्बुधः
विद्येश्वरघटैश्चैव इन्द्रा द्यैर्लिङ्गमर्चयेत् २०२
पञ्चावरणमार्गेण अर्चनोक्तं सुपूजयेत्
पञ्चवक्त्रे पञ्चवर्ण हविर्दत्वा विशेषतः २०३
अन्यानि सर्वमन्त्राणि अर्चनोक्तं समाचरेत्
आचार्य शिष्यभक्तानां परिचारांस्तु पूजयेत् २०४
इति योगजे क्रियापादे शिवलिङ्गस्थापनविधिर्नाम सप्तविंशतितमः पटलः