२६

रत्नानान्नवकन्यासन्तथा नयन मोक्षणम्
जलाधिवासनं यानं शयनं स्थापनं विना १
नृत्तमूर्ति प्रतिष्ठोक्त मार्गेणैव समाचरेत्
ततोक्षिमोक्षणं कुर्यान्नेत्रयुग्मयुते दिने २
स्थण्डिलन्तु प्रकर्तव्यं शालिभिर्विमलैश्शुभैः
पूर्वाभिमुखं विघ्नेशं स्थापयेत्स्थण्डिलोपरि ३
हेमसूचिप्रहाराभ्यां पक्ष्मरेखां समालिखेत्
आसीनं मण्डलं लिख्य दृष्टिर्मण्डलमालिखेत् ४
ज्योतिर्मण्डलमालिख्य कुर्याच्छिल्पिविसर्जनम्
तदग्रे स्थण्डिलं कृत्वा बिम्बन्तत्रैव विन्यसेत् ५
तर्जन्यनामिका मध्यैन विचन्द्रा नस्थापितैः
सुवर्णनखरसम्युक्तं अङ्गुळिं च क्रमेण तु ६
मध्वाज्य सूक्तमुच्चार्य दर्शयेच्च क्रमात्सुधीः
धेनुं गोर्धेनुहव्ये तु ब्रह्मसूक्तेन भूसुराः ७
प्रच्छन्न पटमावर्ज्य जनसङ्घान्प्रदर्शयेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुळीयकैः ८
स्नापयेत्पञ्चगव्येन अष्टमृत्सलिलैरपि
वस्त्रैराभरणैर्माल्यैर्भूषणैर्भूषणावहैः ९
सर्वतोद्य समायुक्तं सर्वालङ्कार सम्युतम्
ग्रामप्रदक्षिणं कृत्वा सम्प्रविश्य जलाशयम् १०
तत्तीरे स्थण्डिलं कृत्वा प्रतिमान्तत्र विन्यसेत्
नववस्त्रेण संवेष्ट्य मालाकूर्चसमन्वितम् ११
जलमध्ये प्रपां कृत्वा चतुर्गात्रसमन्वितम्
वितानध्वजसंयुक्तन्दर्भमालासमन्वितम् १२
शाययित्वा गळघ्ने तु जले तु फलकोपरि
एकरात्रं द्विरात्रं वा त्रिरात्रं वा जलोषिताम् १३
भवनस्याग्रतः कुर्यान्मण्टपञ्चतुरश्रकम्
धर्मरन्ध्राष्टहस्तं वा कलास्तम्भसमन्वितम् १४
मण्टपन्तु त्रिधाभज्य मध्य भागे तु वेदिका
रत्निमात्रसमुत्सेधन्दर्पणोदरसन्निभम् १५
कुण्डानि कल्पयेत्पश्चान्मानुषेषु पदेषु च
नवाग्न्यायतनं वापि पञ्चाग्न्यायतनन्तु वा १६
दिशास्वम्बुजकुण्डानि विदिक्ष्वश्वत्थ पत्रवत्
प्राक्कुण्डं वेदिका मध्ये वृत्तं प्रधानकं कुरु १७
पञ्चाग्न्यायतनं चेत्तु योन्याकाराणि वर्जयेत्
मण्टपस्योत्तरे भागे स्थानश्वभ्रं प्रकल्पयेत् १८
उद्वास्य शिल्पिनं पश्चाद्गोमयेनोपलेपयेत्
मण्टपं भूषयित्वा तु भूसुरान्भोजयेत्ततः १९
उच्चिष्टन्तु ततोद्वास्य गोमयेनोपलेपयेत्
वास्तुहोमन्ततः कृत्वा पर्यग्निकरणं कुरु २०
पुण्याहं वाचयित्वा तु स्वस्तिसूक्तसमन्वितम्
सर्वातोद्य समायुक्तं सर्वालङ्कारसम्युतम् २१
जलादुत्तीर्य बिम्बन्तु स्नानश्वभ्रोपरिन्यसेत्
वस्त्रादीनप्यपोह्याथ गव्यैरेवाभिषेचयेत् २२
गन्धतोयेन संस्नाप्य शुद्धैरुद्धैरितिर्जपेत्
ईशानेन समभ्यर्च्य पीतवस्त्रेण वेष्टयेत् २३
कौतुकं बन्धयेद्धीमान् पूर्वोक्त विधिना सह
वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रो णैश्च शालिभिः २४
तण्डुलोर्ध्वे तिलैर्दर्भैः परिस्तीर्य विशेषतः
शयनं कल्पयेन्मध्ये चर्मजाद्यैरनुक्रमात् २५
प्रोक्षयेत्पुरुषेणैव आपोहिष्ठेति मन्त्रतः
आचार्यश्शिष्यसंयुक्तो प्रागुक्तलक्षणान्वितः २६
नववस्त्रधरोष्णीषी हेमाङ्गुळीय सम्युतः
स्नानवेद्यास्समुद्धृत्य सर्वालङ्कारसम्युतम् २७
शन्नो देवीति मन्त्रेण विघ्नेशं शयनोपरि
शाययित्वा शिरो मन्त्री प्राक्शिरश्चोर्ध्ववक्त्रकम् २८
अर्चयित्वा ततः पश्चाद्र क्तवस्त्रेण वेष्टयेत्
पद्ममुद्रा ंप्रदर्श्याथ अंशुकाख्यां प्रदर्शयेत् २९
सर्वलक्षणसंयुक्तं कुम्भन्तत्र प्रकल्पयेत्
सकूर्चं सापिधानं च सवस्त्रं वारिपूरितम् ३०
विघ्नेशस्य शिरो भागे स्थापयेद्देशिकोत्तमः
तत्रैव पञ्चरत्नानि निक्षिपेद्धृदयेन तु ३१
विन्यसेत्कुम्भमध्ये तु विघ्नेशमूलमन्त्रकम्
खान्तं सान्तसमायुक्तं यान्तं माया समन्वितम् ३२
त्रयोदशान्तसंयुक्तं षष्ठस्वरसमन्वितम्
मूलमन्त्रमिदं प्रोक्तं विघ्नेशसंविजं यते ३३
खान्तेनैव समायुक्तं ब्रह्माङ्गानि प्रकल्पयेत्
गणेशं पुरुषाकारं गजकर्णं गजाननम् ३४
महोदरं बृहत्कायं एकदन्तं त्रिलोचनम्
रौद्र नेत्रन्तु लम्बोष्ठं नागयज्ञोपवीतकम् ३५
करण्डमकुटोपेतं सर्वाभरणभूषितम्
चतुर्दोर्दण्डसम्युक्तं दक्षिणेङ्कुशदण्डयुक् ३६
पाशं च लड्डुकञ्चैव वामभागे तु धारिणम्
करस्थ लड्डुकेनैव गजहस्ताग्रसम्युतम् ३७
एतं गणेश रूपन्तु ध्यात्वा कुम्भे तु विन्यसेत्
पूजयित्वा तु गन्धाद्यैः पञ्चवक्त्रं प्रदर्शयेत् ३८
द्रो णार्धतोयसम्पूर्णान्सूत्रादिभिस्समन्वितान्
हेमपाशाङ्कुशोपेतान्गन्धोदकेन पूरितान् ३९
अभितस्तु घटानष्टौ स्थापयेदष्ट दिक्षु च
वरदं पूर्वकुम्भे तु वीरमाग्नेयकुम्भके ४०
विघ्नेशन्दक्षिणे कुम्भे नैरृत्यान्तु गजाननम्
भक्ष्यप्रियन्तु वारुण्याम् गजकर्णन्तथानिले ४१
विनायकन्तु सौम्यायां लम्बोष्ठन्त्वीशगोचरे
विघ्नेशरूपवत्सर्वं विशेषमधुनोच्यते ४२
पाशाङ्कुराधरास्सर्वे अभयवरदान्विताः
द्विनेत्राश्च द्विहस्ताश्च ध्यात्वा तत्तत्स्वबीजकैः ४३
विन्यसेत्कुम्भमध्ये तु गन्धपुष्पादिभिर्यजेत्
गुळान्नं दापयेत्तेषां ताम्बूलन्दापयेत्पृथक् ४४
परिवारघटानष्टौ उपवेदी परिन्यसेत्
सकूर्चौ सापिधानौ च सवस्त्रान्वारिपूरितान् ४५
सुप्रभूतं सुवक्त्रं च वामनं शङ्खपालकम्
महावीरं भैरवं च वीरेशं चोग्ररूपिणम् ४६
इन्द्रा दीशानपर्यन्तं कुम्भमध्ये तु विन्यसेत्
शुक्लं कृष्णं हरीतालं श्यामं रक्तन्तु शाद्वलम् ४७
काश्मीरं धूम्म्रवर्णन्तु सुप्रभूतादिवर्णकम्
खड्गखेटकहस्तांश्च भीमरूपान्सुदंष्ट्रकान् ४८
सर्वाभरणसम्युक्तानूर्ध्वकेशाळक्रान्वितान्
द्विनेत्रान्कराळवदनान्स्वनामाद्यक्षरं यथा ४९
पूजयेत्तु विशेषेण गन्ध पुष्पादिभिः क्रमात्
इन्द्रा दीन्द्वारपालादीन् उपवेदीन्द्र कन्न्यसेत् ५०
सकूर्चान्सापिधानां च सवस्त्रान्वारिपूरितान्
वीरं च सव्यभागे तु महावीरं च दक्षिणे ५१
द्विभुजौ च द्विनेत्रौ च करपृष्ठौ च धारकम्
याम्ये पि यमहस्तौ च स्वनामाद्येन विन्यसेत् ५२
पूजयित्वा हृदा मन्त्री गन्धपुष्पादिभिः क्रमात्
दिशास्वध्ययनं कुर्यात्प्रागादिषु क्रमेण तु ५३
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमार्गतः
गणेशाग्निं प्रकल्प्याथ कुण्डं प्रतिविशेषतः ५४
समिदाज्य चरूँ ल्लाजान्सक्तुसाष्टापूपकम्
प्रियङ्गुकोद्र वञ्चैव प्रथुकं पनसन्तथा ५५
शमीखादिरमायूरांवुदुम्बरं सर्वदिक्षु च
बिल्वं चार्कन्तथा प्लक्षं न्यग्रोधं विदिशासु च ५६
पलाशन्तु प्रधाने स्यात्समिधः परिकीर्तिताः
सद्यादिचास्त्रपर्यन्तमन्त्रं चैव क्रमेण तु ५७
शतमर्धन्तदर्धं वा प्रके तु जुहुयात्क्रमात्
द्र व्यान्ते व्याहृतिं हुत्वा स्पृष्ट्वा तु प्रतिमां क्रमात् ५८
मूर्तिपास्स्वस्वदिक्भागे स्पृष्ट्वा स्पृष्ट्वा तु होमयेत्
गणानान्त्वेति मन्त्रेण मूलेनैव विशेषतः ५९
प्रत्येकं जुहुयान्मन्त्री प्रत्येकन्तु शताहुतिम्
एवं जागरणं रात्रौ प्रभाते विमले ततः ६०
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुळीयकैः
दक्षिणान्दापयेत्पश्चात् गोभूमिकाञ्चनैस्सह ६१
पञ्चनिष्काधमाज्ञेया द्विगुणामध्यमा भवेत्
त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा ६२
अर्धेन मूर्तिधारांश्च पूजयेद्विधिपूर्वकम्
शयनाद्बिम्बमुद्धृत्य वस्त्रादीनि व्यपोह्य च ६३
पूजयेद्गन्धपुष्पाद्यैः कुम्भान्सर्वांश्च देशिकः
अग्निं सम्पूजयेत्तत्र कुण्डं प्रति विशेषतः ६४
जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिं च शिरसा स्विष्टमग्नेति मन्त्रतः ६५
हुत्वाग्निं च विसृज्याथ कुम्भस्नानं समाचरेत्
शयनाद्गणेशमुद्धृत्य स्नानवेद्युपरिन्यसेत् ६६
घृतशिरोर्पणं कुर्यात्प्रागुक्तविधिना शुभम्
अकारादिक्षकारान्तन्देहे च पूर्ववन्न्यसेत् ६७
पद्ममुद्रा ंप्रकल्प्याथ प्रतिवक्त्रं प्रदर्शयेत्
दिग्बन्धं चास्त्रमन्त्रेण कारयेद्दशदिक्षु च ६८
मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत्
कुम्भानुद्धृत्य शिरसा बाह्यहर्म्यप्रदक्षिणम् ६९
कृत्वा बिम्बस्य चाग्रे तु स्थण्डिलोपरि विन्यसेत्
कुम्भाद्बीजं समुद्धृत्य प्रतिमाहृदि विन्यसेत् ७०
कुम्भस्थ जलधाराभिस्स्नापयेत्तु विनायकम्
अष्टमूर्तिर्घटेभ्यस्तु बीजान्यष्टासु दिक्षु च ७१
पीठाम्बुजे क्रमेणैव इन्द्रा दीशान्तकन्न्यसेत्
तत्तत्कुम्भस्थतोयैश्च विघ्नेशमभिषेचयेत् ७२
पूजयेद्गन्धपुष्पाद्यैर्मूलमन्त्रेण देशिकः
हृदासर्वोपचराणि दापयेत्तु क्रमेण तु ७३
स्नपनं कारयेत्पश्चात्पूर्वोक्तविधिना सह
ईषदस्मिन्विशेषोस्ति शिवकुम्भं च वर्धनीम् ७४
व्यपोह्य मध्यमे कुम्भे विघ्नेशं सम्प्रपूजयेत्
पूजयित्वा विशेषेण प्रभूतहविषन्ददेत् ७५
गुळान्नं पायसान्नं च मुद्गान्नं च विशेषतः
भक्ष्याणि विविधान्यत्र गणानान्त्वेति दापयेत् ७६
भोजयित्वा ब्रह्मचारीन्तेषां भक्ष्यानि दापयेत्
विघ्नांश्च प्रार्थयेत्तत्र गणेशं च विशेषतः ७७
द्वारपालान्स्वदिग्भागे स्थापयेत्तु क्रमेण तु
पूजयेद्गन्धपुष्पाद्यैस्स्वनामाद्येन मन्त्रतः ७८
स्थापयेत्परिवाराणि अन्तर्मण्डलमध्यमे
पुरतो बलिपीठन्तु कृत्वास्मिन्सुप्रभूतकम् ७९
विन्यसेत्तेन मन्त्रेण पूजयेत्तु क्रमाद्बुधः
स्नापयेत्तु क्रमेणैव सुवक्त्रादीन्प्रदक्षिणम् ८०
नित्यार्चनविधिं वक्ष्ये सर्वसिद्धिकरं परम्
प्रागुक्तविधिना स्नात्वा सकळी करणं कुरु ८१
पूजाद्र व्याणि संहृत्य प्रोक्षयेत्पुरुषेण तु
द्वारदेशं समानीय पूजयेद्वार रक्षकान् ८२
पतङ्गस्योर्ध्वके लक्ष्मी मधस्तात्पृथिवीरुतः
पूजयित्वा यथा न्यायं प्रविश्याभ्यन्तरन्ततः ८३
स्नानशुद्धिं ततः कृत्वा मार्जनालेपनादिभिः
पात्रशुद्धिन्ततः कृत्वा यथा द्र व्याणि हेतिना ८४
पूजापर्युषितं सर्वं हृदयेन विसर्जयेत्
शैलजे लोहजे चैव मृण्मये तु पवित्रके ८५
आभासे च पटे कुर्याद्बिम्बशुद्धिं तदाहतत्
पटैश्शुद्धोदकेनाथ शुद्धिं कृत्वा विशेषतः ८६
आसनं कल्पयेत्पश्चादग्न्यादिविदिशासु च
धर्मज्ञानं च वैराग्यमैश्वर्यं च पादकम् ८७
अनन्तर्मादि गुळिकाः प्रोक्ताः पूर्वादियुगदिक्षु च
गुणत्रयेण सञ्छाद्य तस्योर्ध्वे आसनन्न्यसेत् ८८
नवाक्षरमयं पद्मं पूर्वादीनि प्रदक्षिणम्
अकारादि क्षकारान्तन्दळेष्वष्टसु विन्यसेत् ८९
ॐकारं कर्णिकायान्तु पूजयेद्गन्धपुष्पकैः
तस्योर्ध्वे सद्यमन्त्रेण बहिश्शेते गजाननम् ९०
ध्यात्वा वसन्ततो रूपं मूलेन स्नानमाचरेत्
पाद्यन्दद्यात्तु सद्येन शिरसा चमनीयकम् ९१
अर्घ्यन्तु शिखया दत्त्वा गन्धं वामेन दापयेत्
दीपन्तु कवचेनैव दापयेत्तु विशेषतः ९२
प्रति द्र व्यं हृदा मन्त्री दद्यादाचमनीयकम्
वरन्दद्यादष्टमूर्तिः प्राग्दळादिषु विन्यसेत् ९३
स्वनामाद्यक्षरेणैव गन्धपुष्पादिभिर्यजेत्
गौळं वा पायसं मौद्गं शुद्धान्नं वा निवेदयेत् ९४
गुळाक्षतं गुलोपेतं उपदंशसमन्वितम्
फलानि चैव पक्वानि दत्वा देवाय चैव हि ९५
गणानान्त्वेति मन्त्रेण विघ्नेशाय निवेदयेत्
परिवारबलिन्दद्यात्स्वस्वमन्त्रेण बुद्धिमान् ९६
आचामनन्ततो दद्यान्नैवेद्यन्तु व्यपोह्य च
ताम्बूलन्दापयेत्पश्चाद्वक्त्रेणैव तु देशिकः ९७
चतुष्कालं त्रिकालं वा नित्यं सम्पूजयेत्ततः
नित्याग्निं कारयेद्धीमान् यौवनाग्नौ विशेषतः ९८
वृत्तं वा चतुरश्रं वा कुण्डन्तत्र प्रकल्पयेत्
ततो होमं प्रकुर्वीत वह्निसंस्कारपूर्वकम् ९९
आज्यं वामेन जुहुयादन्नं सद्येन होमयेत्
दशाहुतीश्च प्रत्येकं पञ्चब्रह्मषडङ्गकैः १००
व्याहृतिचैव द्र व्यान्ते कुर्याद्देशिकसत्तमः
एककालं द्विकालं वा त्रिकालं वा यजेद्बुधः १०१
तदन्ते चोत्सवं कुर्याद्विघ्नेशप्रतिमायुतम्
रुद्रा ङ्गुलसमायाममुत्तमन्तु विधीयते १०२
रुद्रा ङ्गुलसमायामम्मध्यमं चेति कीर्तितम्
विघ्नेश्वरस्वरूपन्तु प्रतिमालक्षणोक्तवत् १०३
एवं च उत्सवार्थन्तु प्रतिष्ठां पूर्ववत्कुरु
सर्वालङ्कारसंयुक्तं प्रतिष्ठां कारयेद्बुधः १०४
परिचारकमाहूय सोष्णीषं चोत्तरीयकम्
तस्य मूर्धप्रदेशे तु विघ्नेशं विन्यसेद्बुधः १०५
सर्वतोद्य समायुक्तं पिञ्छचामरसम्युतम्
नृत्तगेय समायुक्तं धूपदीप समाकुलम् १०६
प्रदक्षिणत्रयं कुर्या प्रासादं प्रतिमायुतम्
द्वारदेशं समानीय पादप्रक्षाळनं कुरु १०७
प्रविश्य गर्भगेहन्तु स्थापयेत्पूर्वदेशके
प्रायश्चित्ते तु सम्प्राप्ते प्रायश्चित्तोक्तवत्कुरु १०८
मन्त्रभेदो भवेत्तत्र क्रिया भेदो न विद्यते
एवं परार्धमाख्यातं आत्मार्थं श्रुणु सुव्रते १०९
प्रतिमायां पटे वापि स्वयमात्मनि योजयेत्
परिवारद्वारपूजाश्च हित्वा सर्वं समाचरेत् ११०
एककालं द्विकालं वा त्रिकालं वा यजेद्बुधः
एवं यः कुरुते मर्त्यस्सर्वपापात्प्रमुच्यते १११
निर्विघ्नं सर्वकार्येषु भयं सर्वं विनश्यति ११२
इति योगजे क्रियापादे विघ्नेशप्रतिष्ठाविधिर्नाम षड्विंशतितमः पटलः