अथ वक्ष्ये विशेषेण लिङ्गलक्षणमुत्तमम्
लिङ्गन्तु द्विविधं प्रोक्तं स्थावरं जङ्गमन्त्विति १
शैलजं मृण्मयं चैव शिरोसूत्रयुतन्तु वा
सूत्रहीनं विहीनं वा द्विविधं लिङ्गलक्षणम् २
अजविष्णुहरैर्युक्तं स्थावरं लिङ्गमुच्यते
पीठार्धेन समं बद्धं जङ्गमं लिङ्गमुच्यते ३
मानुषेण कृतं लिङ्गलक्षणन्त्वधुनोच्यते
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ४
मधुमाधवशुक्लेषु सहस्यकतपस्ययोः
तपस्येतेषु मासेषु माखमासं विवर्जयेत् ५
विघ्नेशं पूजयेत्पूर्वं शिवं सम्पूजयेत्पुनः
सितवस्त्र परीधानौ गन्धमाल्यैरलङ्कृतौ ६
प्राच्यां वा चोत्तरायां वा गच्छेतां गुरुशिल्पिनौ
सर्वातोद्य समायुक्तं नृत्तगेय समाकुलम् ७
मनाभक्तजनैस्सार्धं ततोमङ्गळवाचकैः
शुभाशुभनिमित्तानि तस्मिन्काले तु लक्षयेत् ८
वृषभं पूर्णकुम्भं च शङ्खजां सन्ध्यजङ्गमम्
अन्याश्च पद्मं पुष्पं च दीपं वै भेरिका दधि ९
सितपुष्पक्षितीशं च वैश्यस्त्री चित्रपल्लवे
ब्राह्मणं शुभवाक्यं च दीपाग्निं तुरगं फलम् १०
शुभानेतानि सर्वाणि गन्तव्यन्तु प्रदर्शने
काकस्यरोदनं चैव शिवारुतं क्षुतन्तथा ११
शुभप्रदारिवामे तु सर्वसिद्धिकराणि हि
कररञ्च शशिञ्चैव डुण्डुभञ्च वराहकम् १२
श्येनं च कौशिकं चैव दक्षिणाद्वामगं शुभम्
जराङ्गं रक्तनेत्रं च जम्बूकं नकुलं खरम् १३
शुभान्येतानि सर्वाणि वामदक्षिणगानि वै
अमङ्गलीं प्रेतरूपं च पतितं क्षुधपीडितम् १४
विकीर्णकेशं मुण्डं च शक्योरमूढकान्तथा
एतानि चाशुभान्येव सर्वदोषकराणि च १५
एतानि भौमजानिस्युरन्तरिक्षानि चोच्यते
शब्दो यदि जायन्ते —१६
आन्तरिक्षानि चेतानि दिव्यानि तु वदाम्यहम्
विद्युत्स्तनित निर्घोषं सादित्यं वृष्टिपातनम् १७
गुह्येन ते च विज्ञेयास्सुशुभानि निबोधतः
उल्कापातं महावातप्रवर्तनं परिवर्षकम् १८
असृक्पात तारा पद्मेन्द्र चापके —सुनिमित्तं भवेद्गच्छेद्वुर्निमित्ते तु नव्रजेत् १९
हिमवान्हेमकूटं च निषधोनिलमेव च
रुद्रं च माल्यवन्तं च श्रीशैलं च तथैव च २०
मेरुं च ——–एते पर्वत राजानो महाशैलाः प्रकीर्तिताः २१
महेन्द्रो मलयश्चैव सिंहबन्धे तथैव च
अप्सुदेव्युदरं चैव पारियात्रन्तथैव च २२
श्री पर्वतमिति ख्यातम् वेदपर्वतमेव च
एषामेव तु सामीप्य वनेषूपवनेषु च २३
भूमिश्चतुर्विधा ज्ञेया शुभदा च शुभङ्करी
यत्र गुल्मयुतं स्निग्ध फलपुष्पसमन्वितम् २४
तोयं च बहुदृश्यन्ते वारुणीस्यात्क्षिति स्मृता
तत्र गृहीता यत्नेन वारुणी वारुणी तथा २५
ततोयं क्रीडते लिङ्गं तत्स्यात्सर्वार्थसाधकम्
यस्यास्तु सौम्ये केतौ य व्रीहिक्षेत्रन्तु दक्षिणे २६
कुक्षिरद्रि श्च पूर्वे वा –पश्चिमेपि वा
तत्र स्थाश्च विलासेना माहेन्द्री सा शिला श्मृता २७
धनधान्य प्रवृद्ध्यर्थं लिङ्गमेव मुदाहृतम्
पलाशखदिरानिम्बखादिरञ्चार्कसम्युतम् २८
मयूरभ्रमराकीर्णां वल्पतोयेदामन्विता
अनिलान्ता विजानीयाशिला तत्र विनिःसृता २९
तावुभौ च —ग्राह्य —-—वाभिचारायकलितम् ३०
फिलुश्लेष्मातकाकीर्ण खदिरस्तु हिनाकुला
पिच्छिला काकबहुळा कठिना शर्करान्विता ३१
तृणोदक विहीनार्थ इतरकूरसेविता
जम्बुका यत्र दृश्यन्ते तथैव मृगतृष्णिका ३२
तत्र स्थाया शिला साप्तु आग्नेया च प्रकीर्तिता
तया लिङ्गन्न कुर्वीत पण्डितश्शुभकर्मणि ३३
विपरीतानुकर्तव्या शत्रेण शायनान्य सा
एवं परीक्ष्य भूमिन्तु शिलां गृह्णीत देशिकः ३४
सरित्सलिल निर्धूतां पवित्रान्तर्जलोषिताम्
श्रमच्छायोपगूढां च तीर्थाश्रमनिषेविताम् ३५
आयाम परिणाहाढ्यां सर्वदोषविवर्जिताम्
अदृश्यशीलवां ग्राह्य दृश्यं चैव विवर्जयेत् ३६
यस्मिन्देशे शिला शेते प्राङ्मुखस्तं प्रतिबुधः ३७
ततः प्रदक्षिणं कृत्वा शिरसादीनि लक्षयेत्
पूर्वपश्चिममायामन्तथावै दक्षिणोत्तरम् ३८
पूर्वमग्रमिदं प्रोक्तं पश्चिमं मूलमुच्यते
दक्षिणे मूलमित्युक्तं उत्तरञ्चाग्रमेव च ३९
शिरोभागं मुखं ज्ञेयम् अधोभागं विशेषतः
दृश्यभागन्तु पृष्ठं स्यात्पार्श्वौ पार्श्वमिति स्मृतम् ४०
निरुतैकाशमायाममिनीलनलगन्तथा
ऐशाग्नेय शिरः प्रोक्तौ पृष्ठकावितरावुभौ ४१
लाञ्छयित्वाङ्कितन्तत्र तस्थलं लक्षमारभेत्
आचार्यश्शिल्पिभिस्सार्धम् शिलामुद्धारयेत्क्रमात् ४२
कुन्देन्दु हैमधवळाशङ्खनिभा नागदन्तनिभा दधिसमा
सितवस्त्राभाविप्रशिला शेषशुक्लसमा ४३
बालार्कपङ्कजाभावरोचतरुद्र बन्धूकरपुष्पसङ्काशा
कुञ्जेन्द्र कोपसदृशाक्षत्रशिला शेषरक्तसमा ४४
कनकहरिद्रा भाहरितारविभा सुकर्णिकराभावणकादीपिता वर्णाशुभा शैलवैश्य जातिसा ।
नीलयुगराजावर्त्ताम्बरनीलनीरदासिनिभा बहिर्गळाकाराभा यच्छैलं शूद्र जातीनाम् ४५
मरकतशुकनिभदूर्वाश्यामाङ्गि वैणुका भासा ४६
हरितश्वेतयुता या सा शिला सर्वजातीनाम्
अनुलोमात्क्रमाद ग्राह्या प्रतिलोमक्रमान्नहि ४७
अनुलोमप्रतिलोमानां सर्वकर्मक्रमात्कृतम्
क्रमस्थापुन्नपुंसका शैला बालावृद्धा तु मध्यमा ४८
अष्टाश्रा चतुरश्रा वा स्त्रीशिलावेति निश्चिता
वृत्तन्नपुंसकं शैलं द्वादशाश्रन्तु कोणकम् ४९
आयताश्रं च पुंल्लिङ्गं वृत्तायतन्तथैव च
घण्टा शब्दा तु पुंल्लिङ्गं स्वरहीना तु पुंसकम् ५०
तालशब्दा शिला या तु साशिला युवति स्मृता
दीर्घशब्दा तु या ह्रस्वा साऽबला इति कीर्तिता ५१
एवं स्वरूपन्नपुंसका ब्रह्मकूर्चशिला स्मृता
प्रासादतलकस्यादौ नपुंसकशिलान्नयेत् ५२
पुल्लिङ्गे कल्पिता पिण्डी राजराष्ट्रभयङ्करी
नपुंसकेन लिङ्गं वा पिण्डिका वा कृता यदि ५३
दुर्भिक्षन्तु भवेद्भूमौ यजमानो विनश्यति
रेखाबिन्दुकळङ्कानि फमरुं परिवर्जयेत् ५४
वृष्टिपावमकारो वै त्रिविधस्मृता –स्तनचूचुकसङ्काशं जम्बूफलसमप्रभम् ५५
बिन्दुरेवं समाख्यातो द्वै सं बिन्दुरिति स्मृतम्
बर्हिपिञ्छसमाकारं कृष्णाभ्रकसमप्रभम् ५६
कृष्णलोहबदाकारं कळङ्कं त्रिविधं भवेत्
त्रासं स्फटिकसङ्काशं भुक्त्यभ्यन्तरसम्युतम् ५७
त्रासं च द्विविधं ज्ञेयं विमलं त्रिविधं भवेत्
शातकुम्भनिभञ्चैव बदरीक समप्रभम् ५८
कासाभं विमलं ज्ञेयं सर्वदोषकरं भवेत्
वेण्वङ्कुरवदाकारा लूतपातसमप्रभा ५९
खर्जूरपत्रसङ्काशा ऊर्ध्वस्तम्बक सन्निभा
इक्षोरग्रसमाकारा हरिका पञ्चधा स्मृता ६०
कृष्णशैलसितेनैव साप्रशस्तेति कीर्तिता
कृष्णे कृष्णविनाशं स्यात्सिते कृष्णं सुगर्हिता ६१
हरितं कृष्णशैले तु सितर्वर्णनिदर्शिता
अन्याकृतीर्न गृह्णीत धान्यगो नाशनाय च ६२
कळङ्कं रोगदं ज्ञेयं त्रासं राष्ट्रविनाशनम्
बिन्दुश्च पुत्रनाशं स्याद्विमलन्दुःखसम्भवम् ६३
बाह्यलक्षणमुद्दिष्टं श्रुणुष्वाभ्यन्तरन्ततः
चतुरश्रशिलां सम्यक्छेदयेत्तु विचक्षणः ६४
तत्क्षणं छेदने प्रोक्तं मण्डलत्रय दृश्यकम्
सगर्भान्तां विजानीयाद्यत्ने तु परीक्षयेत् ६५
मञ्जिठवर्णे मण्डूकं कर्कटे हरितालकम्
पीतं गोधा सितं सर्प खद्योतम्मयुवर्णके ६६
कापिले मूषकं विद्यात्कृकलासमथारुणे
गुणवर्णे तु पाषाणे कपोत ग्रहतौ ळिका ६७
भस्माभे भसितं विद्यात्स्फटिकाभे तु जलम्
रत्निमण्डलके चित्रं चित्रवर्णे तु वृश्चिकम् ६८
शफरं कृष्णचित्रे तु किंशुकाभेन्द्र कोपकम्
एवं गर्भे तु विज्ञेयं बाह्यलक्षणलक्षितम् ६९
लक्षणन्नास्तिचेद्बाह्ये लेपनाल्लेपयेत्तथा
ब्राह्माणं वज्रपाणिं च शूलपाणिं च वैष्णवम् ७०
अजाक्षीरेण संयोज्य उपलं लेपयेत्ततः
लेपने यदि क्लिन्नं स्यादेकरात्रोषितन्तथा ७१
सगर्भान्तां विजानीयादहिगोधा सुवृश्चिकम्
कासीसम्पीतलोग्रं च गोक्षीरेण तु पेषयेत् ७२
लेपिता तु शिला तेन रुधिरा भा यदा भवेत्
दिवसैश्च त्रिभिश्चैव एकरात्रोषितोऽपि वा ७३
दुदरन्तत्र विज्ञेयं अवसाधनसंशयम्
पृथ्वीति शूलिनं ब्रह्म्यं महिषीक्षीरपेषितम् ७४
लेपितेन शिलातेन रुधिरा भा यदा भवेत्
कृष्णमीतो भवेत्तत्र कृकलासमथापि वा ७५
लृस्तरं करवीरं च कुष्ठं मांसी फलत्रयम्
एतानि लक्षयित्वा तु स्त्रं स्तद्येनैव घोषयेत् ७६
आत्मश्मानं लेपयेत्तेन यति स्या समिसीयते
काळकूटविषन्तत्र न तु हस्तेन संस्पृशेत् ७७
गृहीणां लक्षणं ह्येवं लक्षणं च समारभेत्
शोधयित्वा भुवं पश्चात्तत्समीप प्रवेशिकम् ७८
पञ्चगव्येन सम्प्रोक्ष्य पवमानमुदीरयन्
गन्धपुष्पैस्तथा पूज्य वस्त्रेण वेष्टयेत् ७९
तस्यैव पूर्वभागे तु होमकर्म समाचरेत्
समिदाज्येन मन्त्राणां प्रत्येकन्तु शताहुतिम् ८०
हृदयेन तत ————-ततस्स्विष्टकृतं हुत्वा परिषेकान्तमाचरेत् ८१
शिलां प्रदक्षिणीकृत्य दिक्देवानां बलिन्ददेत्
एकरात्रौ वसेत्तत्र स्वप्नमाणवकं जपेत् ८२
ॐ नमश्शम्भो त्रिणेत्राय पिङ्गळाय महात्मने
वीरमाया विरूपाय स्वप्नाधिपतये नमः ८३
आचचक्ष्वमहादेव प्रपन्नोस्मितवान्तिकम्
स्वप्ने कल्याणि —-हृदिस्थानि भयानि मे ८४
ॐ हलि हलि —–शूलपाणये स्वाहा
दुस्वप्नानि द्विजश्रेष्ठ ब्राह्मणेभ्यो निवेदयेत् ८५
दुस्वप्ने च जपेद्धीमान् पशुपतसहस्रकम्
वस्त्राङ्गुळीयकैश्चैव तोषयेद्गुरुशिल्पिनौ ८६
शिलां सम्यग्गृहीत्वा तु ङ्गिं कुर्यात्तु बुद्धिमान्
लिङ्गलक्षणम्
गर्भं विंशति भागैश्च भजेद्दशाधमं भवेत् ८७
रुद्रा शंमध्यमं ज्ञेयं रव्यंशं चोत्तमं भवेत्
श्रेष्ठकन्यसयोर्मध्ये एतद्गर्भमिति स्मृतम् ८८
विभजेदष्टधागर्भं समसूत्रं विचक्षणः
एवं कृते भवेत्तत्र नवलिङ्गानि सुव्रते ८९
गर्भमानमिति प्रोक्तं हस्तमानन्ततश्श्रुणु
एकादिनवहस्तान्तं षडङ्गुलविवर्धनात् ९०
आयामन्तु त्रयत्रिंशत्सङ्ख्येयं परिकीर्तितम्
एकहस्त प्रमाणात्तु हीनलिङ्गन्न कारयेत् ९१
पञ्चहस्तं समारभ्य हर्म्याणान्तु विशेषतः
हस्तमानेन लिङ्गन्तु कारयेद्देशिकोत्तमः ९२
एवं लिङ्गोच्छ्रयं प्रोक्तं वक्ष्ये लिङ्गस्य विस्तरम्
लिङ्गस्योत्सेध दानार्थं अष्टधा विभजेत्ततः ९३
विष्कम्भं पञ्चभागं स्यात्कारयेच्चतुरश्रकम्
अधस्ताच्चतुरश्रन्तु ब्रह्मभागन्तदुच्यते ९४
अष्टाश्रं मध्यमं ज्ञेयं विष्णुभागन्तदुच्यते
ऊर्ध्वं सुवृत्तभागन्तु रुद्रा शं!मिति कीर्तितम् ९५
नपुंसकं ब्रह्मांशं विष्ण्वंशं स्त्रीति कीर्तितम्
तत्पुमान्वृत्तभागं स्यादेवं सङ्कल्पयेद्धृदा ९६
अर्धकार्कस्य कर्णाशमष्टाश्रं परिकीर्तितम्
अथवान्य प्रकारेण वक्ष्ये वस्वश्रकस्य तु ९७
चतुरश्रन्तु सप्तांशं मध्यपट्टमथापि वा
अष्टाश्रन्तु भवेत्सिद्धं अश्रच्छेदेन वर्तुळम् ९८
वृत्तलिङ्गस्य चायामं नाहन्तत्सममुच्यते
श्रेष्ठोक्तमस्य लिङ्गस्य विस्तारं हि विधीयते १००
तत्तार पञ्चभागैकं विभजेद्वसुभागकम्
विस्तारमष्टलिङ्गानां एकैकन्तु विहीनकम् १०१
त्रिगुणीकृत्य विष्कम्भं भजेत्तारन्तु पञ्चधा
भागन्तेन समायोज्य सर्वेषान्नाममुच्यते १०२
समखण्डं वर्धमानं शैवाधिक्यं त्रिराशिकम्
लिङ्गं चतुर्विधं ज्ञेयं द्विजानीनां यथाक्रमम् १०३
वर्धमानशिवाधिक्ये सर्वजात्यर्हकं भवेत्
चतुःपञ्चषडंशन्तु पञ्चषट्सप्तभागिकम् १०४
षट्सप्तांशकन्तत्र सप्ताष्ट नवभागकम्
लिङ्गं चतुर्विधं ज्ञेयं द्विजानां च यथाक्रमम् १०५
त्रिभागं सममेवोक्तं समखण्डं प्रकीर्तितम्
लिङ्गस्योत्सेधमानन्तु चतुर्भागे युगांशकम् १०६
एवं शिवाधिकं प्रोक्तं द्विजातीनामनुक्रमात्
आयामार्धं भवेदष्टविभागन्तु शिवांशकम् १०७
पर्वतारं भवेद्विष्णुस्तस्मात्सद्विगुणो हरः
अग्रे मूले च मध्ये च प्रमाणं सर्वतस्समम् १०८
आयामन्नवधाकृत्वा वृत्तं षट्भागमुच्यते
सप्तभागमथाष्टाश्रञ्चतुरश्रम्मुखागतम् १०९
त्रैराशिकमिति ज्ञेयं धनधान्यसुखावहम्
धारालिङ्गमथो वक्ष्ये श्रूयतान्तत्प्रचक्षते ११०
पादादूर्ध्वगपर्यन्त धारालिङ्गं प्रशस्तकम्
अथो वेदाश्रकं कुर्याच्चतुर्विधन्तदुच्यते १११
छत्राकारन्तु विप्राणां नृपाणां कुक्कुटाण्डकम्
वैश्यानां चैव खण्डेन्दुश्शूद्रा णां त्रिपुरुषाकृतिः ११२
कृत्वालिङ्गशिरस्तारं विश्वभागेन सद्बुधः
सार्धेनैव द्विभागेन वर्तयेत्त्रिपुषाकृतिम् ११३
विस्तारन्तु त्रिधा कृत्वा द्विभागेन तु वर्तितम्
अर्धचन्द्र मिति प्रोक्तं सर्वकामफलप्रदम् ११४
कुक्कुटाण्डं भवेत्तत्र विस्तारार्धेन वर्तितम्
छत्रन्तु शीर्षमित्युक्तं सर्ववर्णेषु योग्यकम् ११५
मानहीने महाव्याधि रधिके शत्रुवर्धनम्
नाहहीने दरिद्रं स्याच्छिरोहीने धनक्षयम् ११६
मूलहीने विनाशं स्यात्सूत्रहीने कुलक्षयम्
तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् ११७
मुखलिङ्गमथो वक्ष्ये सर्वकामार्थसाधनम्
पूजाभागसमस्तन्तु षष्ठ्यंशन्तु भजेत्क्रमात् ११८
त्रयोदशाङ्गुलार्धन्तु मुखमेकं प्रकीर्तितम्
यस्य लिङ्गस्य विस्तारं द्विगुणं पादशैलकम् ११९
अधमन्त्विति विज्ञेयमध्यर्धं कन्यसं भवेत्
समं वै चतुरश्रं च तदर्धं च चलं भवेत् १२०
प्रासादमध्यसूत्रे तु किञ्चिद्वामेन योजयेत्
मध्यमे ह्यवटं कुर्याल्लिङ्गविस्तारमानतः १२१
अथाश्रमविस्तारं गर्भेणार्धार्धमुच्यते
ब्रह्माङ्गेन प्रवेशं हि ज्ञात्वा ब्रह्मशिलोच्छ्रयम् १२२
श्वभ्राव गाढकन्त्यज्य ब्रह्माङ्गकन्तथैव च
नन्द्यावर्तशिलां योज्य चत्वारि युगदिक्ष्वपि १२३
पूर्वपश्चिमधामान्तन्तथा वै दक्षिणोत्तरम्
पश्चात्पश्चिम पूर्वन्तु तत्पश्चाद्दक्षिणोत्तरम् १२४
लिङ्गस्य द्वभ्यतारेण देवं तस्यार्थ विस्मृतम्
तत्रोर्ध्वे पिण्डिकायाधो बन्धयेदष्टबन्धनम् १२५
पादाधारपदे मध्ये स्थापयेल्लिङ्गमुत्तमम्
पादान्नपुंसकां शैलां चूर्णैरपि सुबन्धयेत् १२६
प्रदक्षिणक्रमेणैव योजयेत्तु विचक्षणः
शैललिङ्गमिति प्रोक्तं रत्नलिङ्गमथ श्रुणु १२७
द्विविधन्तत्समुद्दिष्टं चलञ्चैवा चलन्तथा
स्थितप्रासादलिङ्गन्तु चलञ्चैवाचलन्तथा १२८
स्थितप्रासादलिङ्गन्तु चलं सर्वैश्च पूज्यते
मस्तकं पुष्टिदं ज्ञेयं पद्मरागं जनार्थकम् १२९
आयुष्यसिद्धिर्वैडूर्यं स्फटिकं पुत्रवर्धनम्
स्तम्भनं पुष्यरागं च राष्ट्रवश्यं प्रवाळकम् १३०
आकर्षं वज्रमित्युक्तं माणिक्कं सर्वसिद्धिदम्
इन्द्र नीलन्तु मोक्षार्थं रत्नानान्तु फलं भवेत् १३१
अङ्गुलादि वितस्त्यन्तं कुर्याल्लिङ्गन्तु रत्नजम्
आयाम सदृशन्नाहं शिरोवर्तन सम्युतम् १३२
स्वप्रमाणेन कर्तव्यं रत्नलिङ्गस्य पिण्डिका
पिण्डिका स्वस्वयोनिस्यात्तदभावे हिरण्यकम् १३३
राजतं ताम्म्रजं चैव अधमं चेति कीर्तितम्
चतुरश्रं वाथ वृत्तं चललिङ्गस्य पिण्डिका १३४
आयामत्रिगुणार्धं वा द्विगुणन्त्रिगुणन्तु वा
विस्तारन्तत्समं ज्ञेयं शेषं पूर्वोक्तवत्कुरु १३५
लिङ्गायाम त्रिभागेकं पीठमध्ये तु स्थापयेत्
सर्वत्र वृत्तकं लिङ्गं त्रिभागं सूत्रवर्जितम् १३६
रत्नजं लिङ्गमाख्यातं लोहजं लिङ्गमुच्यते
--ले निमग्नमेकांशमेकांशं पीठबन्धनम् १३७
त्रिसूत्रेण विनाकुर्या चतुरष्टाश्रवर्जितम्
लोहलिङ्गमिति ख्यातं मृल्लिङ्गं च ततः श्रुणु १३८
पर्वताग्रे नदीतीरे पुण्यक्षेत्रे मनोरमे
लिङ्गार्थमृत्तिका ग्राह्या प्रशस्ता सर्वकामदा १३९
श्वेतं रक्तन्तथा पीतं कृष्णां चैव मनोरमाम्
श्लक्ष्ण चूर्णं च तत्कृत्वा पञ्चगव्येन मर्दयेत् १४०
कापिलं च घृतं क्षीरं दधिना तैलमेव च
यव गोधूमजञ्चूर्णन्तथा मृद्भिस्तु तत्समम् १४१
आहृत्य सर्वचूर्णानि मृत्तिका सहितानि च
मर्दयेत्तु विशेषेण मलाक्षावकुन्दरम् १४२
श्रीवेष्टं गुगुलुं चैव सर्जगन्धरसन्तथा
सृल्लोद्भवरसं ग्राह्यं एकीकृत्य विमर्दयेत् १४३
पञ्चनिर्याससंयुक्तं मासपक्षोषितन्तथा
तमोलिङ्गं प्रकुर्वीत शेषं मध्यमकन्यसम् १४४
पार्थिवं लिङ्गमाख्यातं पिण्डिकातदलम्मयी
लिङ्गविस्तारमानेन त्रिगुणं पीठविस्तरम् १४५
परिवारस्थापनं वक्ष्ये यथा वित्तानुसारतः
अन्तर्मण्डलके कुर्यात्परिवाराष्टकानि च १
अथवान्य प्रकारेण अन्तर्हारे थवा पुनः
अन्तर्मण्डलके स्थाप्य वृषभम् २
एकद्वित्रिचतुर्दण्डं पञ्चाष्टनवदण्डकम्
दशद्वादशदण्डान्तं वृषभं पीठकस्थितम् ३
पीठाग्रे दण्डकन्नीत्वा महोक्षं स्थाप्य तद्वति
प्रासादार्धेन वा कुर्यात्प्रासादसममेव वा ४
अन्तर्मण्डलकं कुर्यात्सत्रिहस्त समन्वितम्
भित्यन्तर प्रमाणेन परिवाराः प्रकीर्तिताः ५
वृषभं पूर्वतस्स्थाप्य दुर्गामाग्नेयके न्यसेत्
सप्तमातृगणान्वीरान्दक्षिणे स्थापयेत्ततः ६
नैरृत्यां गणनाथस्य गजपृष्ठालयं कुरु
वारुणे च कुमारन्तु ज्येष्ठां च वायुदेशके ७
सौम्ये विष्णुं तथा स्थाप्य चण्डेशमीशतो न्यसेत्
अन्तर्मण्डलकं स्थाप्य तथात्रैव प्रकल्पयेत् ८
अथाष्टपरिवाराणां अन्तर्द्वारे कृतं यथा
ईशेन्द्र स्य च मध्ये तु क्षेत्रपाल वशान्नयेत् ९
अन्तर्मण्डलकेशान्यां चण्डेश्वरालयं कुरु
मर्यादभित्तिकं कुर्यात्परिवाराणि षोडश १०
इन्द्रा दिलोकपालांश्च कल्पयेत्स्वस्वदेशतः
अश्विनी सप्तमातॄंश्च वागीशकमलोद्भवौ ११
ज्येष्ठाचैवोरगेन्द्रं च क्षेत्रपालरविं क्रमात्
ऐन्द्रा दिष्वग्निदिक्त्वन्तं अन्तराळे तु स्थापयेत् १२
द्वारार्थी यत्प्रतिच्छेद समपारं विनाशनम्
आलगर्भप्रमाणेन परिवारालयं कुरु १३
मन्दिरार्धसमं वापि तद्गर्भार्धसमन्तु वा
विस्तारद्विगुणोत्सेधं ह्यालयानां विधीयते १४
तत्तारुणभागेकं गर्भन्तत्र प्रकल्पयेत्
विभजेद्दशधातारं रसांशं गर्भविस्तरम् १५
मण्टपन्तु चतुर्द्वारमृषभालयमिष्यते
स्वस्तिदुर्गा धामन्तु शालाकारं मातृणाम् १६
हस्तिपृष्ठं गणेशस्य गुहालयं कूटं भवेत्
ज्येष्ठाधामं गृहाकारं विष्णुकान्तं हरेः कुरु १७
नन्द्यावर्तं च ईशान्यां चण्डेशं भास्करन्तु वा
पश्चिमद्वारहर्म्ये तु स्थापयेत्पश्चिमे वृषम् १८
कुमारं पूर्वदेशे तु विन्यसेत्तु विशेषतः
सूत्रस्थं वा पदस्थं वा परिवारालयं भवेत् १९
सर्वेषां परिवाराणां मण्टपाकृतिरेव वा
सुगाकृति विमानी वा नन्द्या वर्ताकृतिर्भवेत् २०
आलया कृतिकं वापि क्षेत्राणामीशगोचरे
अन्तर्हारादिभित्त्यन्तं ईशानं क्षेत्र विन्यसेत् २१
प्रासादाभिमुखं कुर्यात्परिवारवासकम्
सर्वेषां परिवाराणां पूजाभागसमन्तु वा २२
प्रतिमा लक्षणोक्तेन कारयेत्परिवारकम्
बिम्बोदयस्य पक्षांशं वोमाशं पिण्डिका भवेत् २३
प्रतिमानां भवेत्पीठं अपकर्ष —-विमानेन युतं वापि विनावांस्थापयेत्सुधीः २४
पक्षताल युतं वापि क्रियाकालमथापि वा
विस्तारार्धसमुत्सेधं विस्तारसममेव वा २५
द्विमेखलयुतं वापि एक मेखलमेव वा
चतुरङ्गुलषट्चैव मेखलापद्मसम्युतम् २६
अन्यङ्गुलप्रमाणेन कर्णिकां सम्प्रकल्पयेत्
वृत्तं वा चतुरश्रं वा एवं पीठं प्रकल्पयेत् २७
प्रतिमा प्रतिष्ठा यत्कार्यन्तत्कार्यं प्रतिमा भवेत् २८
इति योगजे क्रियापादे परिवारस्थापनन्नाम त्रयोविंशतितमः पटलः