अथ वक्ष्ये विशेषेण दीक्षाया लक्षणं श्रुणु
दीयते तु शिवज्ञानं क्षीयते च मलत्रयम् १
दीक्षाशब्दमिति प्रोक्तं भुत्तिमुक्ति प्रदायकम्
सप्तधाशैवमुद्दिष्टम् तेषान्नामानि च श्रुणु २
अनादिशैवं प्रथमं आदिशैवं द्वितीयकम्
मन्दाशैवं तृतीयन्तु चतुर्थं चेति शैवकम् ३
पञ्चमन्तारशैवन्तु षष्ठं प्रवरशैवकम्
सप्तमं वास्तु शैवन्तु शैवभेदाः प्रकीर्तिताः ४
शैवास्सप्तविधाः प्रोक्तास्तेषां भेदमनुश्रुणु
आदिशैव प्रमाणानि शिवेन दीक्षितास्स्मृताः ५
प्रथमन्तु द्विजानां च पञ्चवक्त्रेषु दीक्षितः
गौतमः काश्यपश्चैव भारद्वाजो त्रिरेव च ६
पराशरश्च पञ्चैते पञ्च वक्त्रेषु दीक्षिताः
प्रोक्तानामृषीणां च मताश्चैव शिवद्विजाः ७
पुनर्दीक्षां न कुर्यात्तु आदिशैव इति स्मृतः
अदीक्षितश्चतुर्वेदी शिवपूजान्नकारयेत् ८
भृत्यर्थं परमेशानं दीक्षाविरहिता जनाः
आदिशैवेन कर्तव्यम् विप्रादीनान्तु दीक्षया ९
अदीक्षितश्चतुर्वेदी आत्मार्थं पूजयेत्सदा
-——पुनर्दीक्षा न विद्यते १०
उपनयनी ककाले तु शिवपूजामथाचरेत्
स्नपनं पाङ्गशुद्ध्यर्थं कारयेत्तु शिवद्विजः ११
महाशैवस्तु विप्राणां शिवदीक्षासमन्विताः
अदीक्षितश्चतुर्वेदी परार्थपूजान्नकारयेत् १२
दीक्षितस्य तु विप्राणां षाण्मासं पूजयेद्यदि
षाण्मासात्पतनं याति स वै देवलकस्मृतः १३
त्रीणि वर्षाणि भृत्यर्थं स्थितिलिङ्गं च दीक्षया
पूजयेद्यदि विप्रस्तु सवै देवलको भवेत् १४
एतेषां लक्षणैर्युक्तं अलकानां च सर्वतः
स्थिरलिङ्गस्य पूजां च न कुर्वीत कदाचन १५
क्षत्रियं चैव वैश्यंश्च अनुशैवा इति स्मृताः
शूद्रो ह्यवान्तरश्चैव क्रमशश्चानुवर्णकम् १६
स्ववर्णाम्बष्टपाराशवा कुलालो मर्धपट्टका
इत्यादि प्रवरशैवानामन्त्यशैवमतश्श्रुणु १७
अन्येषां चैव जातीनां अनुशैवा इति स्मृताः
आदिशैवैस्तु कर्तव्यम् प्रतिष्ठाद्यर्चनान्तकम् १८
अन्यथा कारयेद्यस्तु निष्फलन्तदवाप्नुयात्
वेदवेदाङ्गतत्वज्ञा आदिशैवा इति स्मृताः १९
शैवभेदं समाख्यातं दीक्षाविधिमतश्श्रुणु
रोहिणीश्रवणं चैव श्रविष्ठा त्रीणि चोत्तरा २०
पुष्ययुक्शतभिषञ्चैव दीक्षा नक्षत्रमुच्यते
स्थिरराशौ प्रकर्तव्या उभयोश्च शुभोदये २१
दीक्षाकर्म समारभ्यन्तत्र सोमोदयं विना
अष्टमस्थान्गृहान्सर्वान्परिहार्य विशेषतः २२
रिक्ताष्टमीं च नवमीममावास्यां च वर्जयेत्
अङ्कुराण्यर्पयेत्पूर्वं पूर्वोक्तेन विधानतः २३
शिष्यानुपोषितान्स्नातान्कृतशौचां जितेन्द्रि यान्
पादप्रक्षाळनं कृत्वा आचामं विधिना चरेत् २४
शिवाग्रे मण्डलं तत्र पूर्वोक्तलक्षणैर्युतम्
मण्टपं मण्डयेद्धीमान् प्रतिष्ठामण्टपं यथा २५
मण्टपस्य तु मध्ये तु एकद्वित्र्यन्तकं कुरु
वेदीं कुर्याद्यथान्यायं शिवलिङ्गमण्टपन्तु वा २६
आचार्यमनोभङ्गं सर्वतो भद्र मेव वा
स्वस्तिकञ्चार्धचन्द्रं च मण्डलं तत्र वर्तयेत् २७
मध्यमे स्थण्डिलं कृत्वा अष्टद्रो णैश्च शालिभिः
तदर्धं वा तदर्धं वा अष्टपत्रं सकर्णिकम् २८
तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि
लाजपुष्पैश्च विकिरैर्भूषयेत विशेषत २९
सवस्त्रं हेमसम्युक्तं सरत्नं सपिधानकम्
नवकुम्भं वर्धनीं च गन्धतोयेन पूरितम् ३०
पल्लवैस्सूत्रकैश्छाद्य अर्घ्यं पुष्पं विनिक्षिपेत्
शिवकुम्भं च विद्येशं मनोन्मनी न्यसेद्बुधः ३१
कुण्डं वा स्थण्डिलं वापि एक पञ्च नवन्तथा
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ३२
उत्तरे स्थण्डिलं कुर्यात्कम्बलेन तु वेष्टयेत्
शिष्यदेहन्तु सम्प्रोक्ष्य कौतुकं पूर्वमन्त्रतः ३३
बन्धयेदादिशैवेन मधिवासनमाचरेत्
नृत्तगीतसमायुक्तं विनोदं कारयेद्बुधः ३४
नमश्शम्भो त्रिणेत्राय पिङ्गळाय महात्मने
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ३५
एवं मन्त्रं जपित्वा तु सदाशिवमनुस्मरेत्
ततः प्रभाते विमले सूर्योदये तु कारयेत् ३६
पादप्रक्षाळनं कृत्वा आचम्य विधिना बुधः
नेत्रबन्धं प्रकर्तव्यम् हृदयेन तु मन्त्रतः ३७
दुकूलपट्टदेवाङ्गैः कार्पासिकमथापि वा
उत्तमं द्वादशं हस्तं दशहस्तन्तु मध्यमम् ३८
अधमन्नवहस्तन्तु चतुस्तालप्रमाणतः
नववस्त्रेण संवेष्ट्यम् जीर्णस्फुटितवर्जनम् ३९
सद्योहस्तन्तु वस्त्रेण नेत्रबन्धन्तु कारयेत्
व्योमव्यापिञ्जपेत्तत्र तत्पुरुषेण सम्युतम् ४०
नेत्रबन्धं प्रकर्तव्यम् स्वर्णपुष्पसमायुतम्
उत्तमन्दशनिष्कन्तु मध्यमं चाष्टनिष्ककम् ४१
अधमं पञ्चनिष्कन्तु लक्षणं पद्मपुष्पवत्
दरिद्रा णान्तु सर्वेषां यथालाभन्तु कारयेत् ४२
उत्तराभिमुखो भूत्वा एकचित्तेन बुद्धिमान्
ईशानेन तु मन्त्रेण पुष्पं हस्ते निधापयेत् ४३
प्रदक्षिणत्रयं कृत्वा वामदेवेन मन्त्रतः
ध्यात्वा परममीशानं शिवमन्त्रेण बुद्धिमान् ४४
मण्डले विकिरेत्पुष्पं स्वस्तिमङ्गळवाचकैः
यस्मिन्मन्त्रे वसेत्पुष्पन्नामतो त्र तदात्मकम् ४५
तन्मन्त्रं सिध्यते तस्मात्कुरुते चाप्यनुग्रहम्
ईशानस्य दळे व्याधिमाग्नेय्यां शोकजन्तु वा ४६
नैरृत्यां श्रीकरं प्रोक्तं अमानुष्यन्तु वायवे
चतुर्दिक्षु च विप्रेन्द्र तच्छ्रीकरमिति स्मृतम् ४७
कर्णिके पतिते पुष्पे सुखं चैव भवेत्तथा
ईशानस्य दळे चैव नेत्रनाममिहोच्यते ४८
उदकेन समायुक्तं भस्मं शिरसि निक्षिपेत्
गन्धादिभिरभाभ्यर्च्य हुहियेन तु मन्त्रतः ४९
शिवकुम्भाद्यतोयेन प्रोक्षयेच्छिष्य मूर्धनि
ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषन्न्यसेत् ५०
अघोरं हृदि विन्यस्य गुह्ये वामं प्रकल्पयेत्
सद्योजातन्न्यसेत्पादे विन्यसेच्छिष्य देहके ५१
हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत्
शिखायान्तु शिखान्यस्य कवचं स्तनमध्यतः ५२
अस्त्रं हस्त प्रदेशे च नेत्रं नेत्रे तु विन्यसेत्
देवस्य दक्षिणे पार्श्वे पलाशपत्रसम्युतम् ५३
कूर्चनैवेद्यसम्युक्तं आसनन्तत्प्रतिन्नतम्
आसनस्थन्तु शिष्यं वै पूर्वाभिमुखमेव च ५४
अग्निबीजेन सम्युक्तन्त्रिकोणमण्डले स्थितम्
पादाङ्गुष्ठात्समारभ्य दहेद्यावच्छिरोन्तकम् ५५
अग्रतस्स्थापयेत्तत्र एकचित्तेन वै बुधः
चन्द्र मण्डलसङ्काशम्मकारं चात्मसम्भवम् ५६
विद्यातत्वमुकारन्तु शिवतत्वं शकारके
ओमित्य कमलं योगपीठमथोमुखम् ५७
चिन्तयेदमृतन्तस्मिन् सुषुम्नाभिन्नमस्तकम्
तेनप्लावितमात्मानं आपूर्यन्तं विचिन्तयेत् ५८
इमां ये भ्यासने नित्यं समाधिम्मृत्यु नाशनम्
न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः ५९
षडध्वं विन्यसेत्पश्चाच्छिष्य देहे विशेषतः
मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनाध्वकम् ६०
वर्णाध्वा च कलाध्वा च विंशत्येव शिवं पदम्
सत्वं रजस्तमश्चैव आत्मानं चान्तरात्मकम् ६१
परमात्मानमित्येते आत्मत्रयन्तु ध्याययेत्
अग्निं सूर्यं शशाङ्कं च मण्डलत्रयकन्यसेत् ६२
ब्रह्मा विष्णुश्च रुद्र श्च ईश्वरश्च सदाशिवः
शक्तीनामष्टकन्न्यस्य बिन्दुनादशिवान्यसेत् ६३
पञ्च ब्रह्म शिवाङ्गैश्च प्रासादन्तु सदाशिवम्
शिष्यदेहे न्यसेत्तत्र प्रणवादि नमोन्तकम् ६४
तत्तन्मन्त्रमनुस्मृत्य योजयेच्छिष्यदेहके
मन्त्राध्वानं न्यसेन्मूर्ध्नि पदाध्वानं मुखे तथा ६५
तत्वाध्वानं हृदिन्यस्य नाभौ तु भुवनाध्वकम्
वर्णाध्वानं मेढ्रदेशे पादयोस्तु कलाध्वकम् ६६
कलाध्वानं पुनर्योज्य पादाधारशिरोन्तकम्
सद्यकलाभिरष्टाभिर्वामदेवन्त्रयोदश ६७
अघोरस्य कलाश्चाष्टौ चतुर्भिर्वक्त्रमेव च
ईशानस्य कलाः पञ्च अष्टत्रिंशत्कला न्यसेत् ६८
विद्येश्वराणामष्टेकं दशलोकाधिदेवताः
एवं पदार्थं विन्यस्य कृत्वाध्वानं पुनर्न्यसेत् ६९
पृथिव्यापस्तथा तेजो वायुराकाशमेव च
श्रोत्रत्वक्चक्षु जिह्वा च घ्राणं चैव तु पञ्चकम् ७०
वाक्पादपाणिपायूपस्थञ्चेति पञ्चमम्
मनोबुद्धिरहङ्कारः प्रकृतिः पुरुषस्तथा ७१
रागो माया च विद्या च कलानियतिरेव च
विग्रहे बेरसकळं शुद्धमाया तथैव च ७२
शुद्धविद्या शुद्धकला सदाशिव शिवः परम्
षड्त्रिंशत्तत्त्वमेवन्तु क्रमेणैव तु विन्यसेत् ७३
भुवनाध्वन्ततो न्यस्य कलाध्वादि शिवान्तकम्
भुवनाध्वन्यसेत्पश्चान्मेढ्रमूर्ध्व क्रमेण तु ७४
अधस्ताद्धृदयादीनि कल्पयेत्कल्पवित्तमः
कलानि श्वा द्धकारान्तं नकारानेकविंशतिः ७५
रौरवं कुम्भिपाकं च महारौरवमेव च
क्षुरं च अतितालं च जलं च सितलेन च ७६
उष्णसन्तापनं चैव लोहतप्तन्तथैव च
कृकशल्मनि कूपं च निलयन्त्रेषु यन्त्रकम् ७७
धनुरग्निरयं वज्रं त्रिशूलनियमेन च
पाणिन्तत्र पांसुं वैतरणी तथैव च ७८
तलं च वितलं चैव वितलं यत्तलातलम्
सुतलन्नरतलं चैव रसातलन्ततोपरि ७९
भूलोकं च भुवर्लोकं स्वर्लोकं च तथैव च
महालोकं च विज्ञेयं जनलोकन्तथैव च ८०
तपोलोकं सत्यलोकं गान्धर्वं यक्षलोककम्
विद्याधराणां लोकं च सिद्धचारणलोककान् ८१
अप्सरीणां च लोकं च किन्नराणां च लोककम्
इन्द्र लोकञ्चाग्निलोकं यमलोकं च राक्षसम् ८२
वारुणं वायुलोकं च सोमलोकन्तथैव च
ईशानन्देवलोकं च ब्रह्मलोकन्तथैव च ८३
ब्रह्मलोकोपरिष्टात्तु विष्णुलोकमतः परम्
अनन्तेशस्य लोकं च सूक्ष्मलोकमतः परम् ८४
शिवोत्तमस्य लोकन्तु एकनेत्रस्य लोककम्
एकरुद्र स्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिनः ८५
महेश्वरस्य लोकं च सदाशिवस्य लोककम्
लोकालोकशिवालोकं क्रमशः परिकीर्तितः ८६
शिवलोको परिष्टात्तु अन्यं लोकन्न विद्यते
नाभिमूलात्समारभ्य यावद्धृदयदेशकम् ८७
वर्णाध्वानन्त्यसेदेतत् शिरः पादान्तमेव च
अकारं मूर्ध्नि विन्यस्य आकारन्तु ललाटके ८८
इकारन्दक्षिणे नेत्रे ईकारं वामनेत्रके
उकारन्दक्षिणे नासे ऊकारं वामनासके ८९
ऋकारं दक्षिणे श्रोत्रे ॠकारं वामकर्णके
लृकारं दक्षिणे गण्डे लॄकारं वामगण्डके ९०
एऐ तालुद्वये चैव ओ औ दन्तद्वयेपि च
अं अः कण्ठयोर्न्यस्य कलाष्षोडश एव च ९१
कवर्गन्दक्षिणे हस्ते चवर्गं वामहस्तके
टवर्गन्दक्षिणे पादे तवर्गं वामपादके ९२
पफौ च दक्षिणे पार्श्वे बभौ च वामपार्श्वके
मकारं हृदये न्यस्य यकारं त्वचि विन्यसेत् ९३
रकारं रक्तमेवन्तु लकारं मांसमेव च
क्षकारं वृषणे प्रोक्तं अक्षराणि क्रमान्न्यसेत् ९४
नवत्रिंशत्कलान्तत्र कादिपादान्तकन्न्यसेत्
तारासुतारामणिना तायन्त्रि च सुतारिणी ९५
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च
शान्त्यतीतं परं व्योम क्रमाद्वान्य तद्ववित् ९६
तमोमोहाक्षुधानिद्रा वृत्या माया भया जरा
रजो रक्षा रतिः पाल्या श्यामा तृष्णा विधिः क्रिया ९७
धृतिः कार्या च रात्री च द्रा मणी द्रो गणी तथा
विभूतिधृतिलक्षामे मथ कान्ति श्वथस्थितिः ९८
नवत्रिंशत्कलाह्येताश्शिष्यदेहे तु विन्यसेत्
हृदये चाग्निकन्न्यस्य मुखे वायुं च विन्यसेत् ९९
आकाशम्मूर्ध्नि देशे तु आपः कोटि प्रदेशके
पृथिवीं पादयोर्न्यस्य पञ्चभूततलान्यसेत् १००
मन्त्राध्वां सद्यमन्त्रेण वामदेव पदाध्वकम्
तत्वाध्वानमघोरेण भुवनं पुरुषेण तु १०१
ईशानेन तु मन्त्रेण वर्णाध्वं होमयेत्ततः
एवमेव क्रमेणैव शिष्यदेहे तु विन्यसेत् १०२
ईशानं मूर्ध्नि विन्यस्य मुखे विष्णुश्च देवता
प्रासादं वास्तुदेवानां ग्रामं पैशाचके कुरु १०३
विघ्नेशी क्षेत्रपाली च दुर्गालयश्च सर्वतः
गुरु वास्तु योगस्थानं च द्विधा देवालयं स्मृतम् १०४
अन्येषां चैव पूर्वन्तु —-योगकम्
ईशे शङ्करभवनं पर्जन्यांशे जयन्ते वा १०५
सोमेकदितिपादे शिवस्थानं पश्चिममुखम्
योगं स्थानमन्येषां चैव पूर्वमुखम् १०६
विष्णुमुखं सर्वग्रहं अष्टदिङ्मध्यमे स्थितम्
भूपरीक्षा विधानान्ते भूमानामिति कथ्यते १०७
ओजे युग्म पादे वगेथ वा विवरयोगवै शुद्धिः
गुणोत्तर संवर्ग्यो भवेदिष्ट प्रमाणतः १०८
कर्णभुजा च सकर्णपलं कृतिवर्गो भवेत्
-—के गी भुजावर्ग समासतः १०९
शतस्य दशमूलं स्यात् देवमूलक्षमं भवेत्
सर्वाभगस्तु भुजकोट्या सतर्धद्विभुजाफलम् ११०
त्रिवर्गं धनमाख्यातं द्वादशाश्र षडश्रकम्
परिधिवृत्तविष्कम्भं पादं फलमूलहतं घनम् १११
मनुष्यो बाणसंसर्ग यावद्भागमुदीरितम्
कण्वपेन तु सादृश्यं षट्भागन्तु षडश्रकम् ११२
भुजापिण्डितलीभूत चतुर्थं स्थाप्य तत्र तु
बहुत्यक्त्वा क्रमेणैव फलं वर्गसुवर्गजम् ११३
पादरेखा तलेनैव क्रमेणैव समानयेत्
इच्छया फलमाहृत्य प्रमाणाप्तफलन्नयेत् ११४
तद्वशात्सर्वमानीय प्रत्युत्पन्नेन वाथवा
-श्रेपि सङ्केवलानि याने याने दशानि च ११५
एवं सङ्क्षेपतः प्रोक्तं भूमानमिति कथ्यते
भूमान इति विज्ञेयामायादील्लक्षयेत्क्रमात् ११६
धनं न्ये योनि नक्षत्रे स्वायुश्चांशको तिथिवारेष्ट
नाच संशोध्य शुभे वास्तुं समारभेत् ११७
विस्तारेणन्यसेद्दैर्घ्यं तन्मासीवसस्तथा
विस्तारायामसम्युक्ता राशीर्वा थीनि रक्षयेत् ११८
वसुभिस्तुति ते भानु हत शेषं धनमिति
सगन्धे वह्निभिस्सूत्रे भक्तशेषाव्यवस्तथा ११९
रामस्तेष्ट ह्रते योनिरष्टभिर्वर्धते पुनः
नागरे नागरं लिङ्गं वेसरे वेसरन्तथा १२०
द्रा विडे द्रा आ!विडञ्चैव त्रिविधं प्रासादमीरितम्
सात्विकं राजसं चैव तामसं च त्रिधा भवेत् १२१
सात्विकन्नागरं प्रोक्तं राजसं द्रा विदम्भवेत्
तामसं वेसरं प्रोक्तं पुंस्त्री नपुंसकन्तथा १२२
नागरं पुंविमानेन लिङ्गस्य स्थितप्रासादकं कुरु
शिवाधिकानां लिङ्गानां प्रासादमस्यनं कुरु १२३
त्रैराशिकस्य लिङ्गस्य शयनप्रासादमुच्यते
पादबन्धं स्थितं प्रोक्तं प्रतिबन्धं चासनं भवेत् १२४
पद्मबन्धन्तु शयनं ज्ञेयं तत्रापि भेदयुक्
ब्राह्मणक्षत्रियो वैश्याश्शूद्राः प्रासादमुच्यते १२५
नागरं द्विजमित्युक्तं द्रा विडं क्षत्रियस्य तु
वेसरं वैश्यशूद्रा णां जातिभेदमितीरितम् १२६
नागरं द्रा विडाख्यं च वेसरन्त्वधि देवताः
ईशः पितामहश्चैव विष्णुस्तत्राधिदेवताः १२७
एवं प्रासादमेवोक्तं सञ्चितादीनि भेदयुक्
सञ्चिता सञ्चितञ्चैव पथ उपसञ्चितमिति त्रिधा १२८
सञ्चितं स्थापने प्रोक्तं सञ्चितन्नृत्तरूपकम्
उपसञ्चितक्रीडाभं –पादमिति स्मृतम् १२९
प्रतिबन्धन्त्रिधाप्रोक्तं जाग्रस्वप्नन्तु योगयुक्
पद्मबन्धं त्रिभेदं स्याज्जयने पार्श्व भावयेत् १३०
स्वप्नावस्था यजुच्छाया त्रिविधं प्रासादलक्षणम्
अधिष्ठाना त्रिधाबन्धात्माबन्धं पुष्णबन्धं पुष्कळं पद्मकेसरम् १३१
त्रिविधं पद्मबन्धं स्यात्तत्तत्कर्म वशात्ततः
चतुर्दशमधिष्ठानं यथाकर्मेण वक्ष्यते १३२
पुंस्त्री नपुंसकञ्चैव त्रित्रिमे गदेन भाक्
लिङ्गमानवशात्प्रोक्तं देहं प्रोक्तं क्रमागतम् १३३
मानाङ्गुलेन कर्तव्यं स्याद्बाह्ये मानमुच्यते
त्रिहस्तं पञ्चहस्तं वा –नवहस्तकम् १३४
एकभूमिविमानादि त्रिभूम्यन्तं विधीयते
एकादशादि पञ्चाशद्धस्तसङ्ख्या इति स्मृतम् १३५
द्वादशादिविमानान्तमानमेवं विधीयते
विस्तारद्विगुणोत्सेधम् क्षुद्रा णान्तु विधीयते १३६
सपादं सार्धमूलेन द्विगुणं महतिरुच्यते
क्षुद्रा णामपि सर्वेषां द्विगुणादधि हस्तयुक् १३७
यावत्प्रासादमुसेधमष्टभागं विधीयते
एकभागमधिष्ठानाद्विभागं पादमुच्यते १३८
प्रसारमेकभागं स्याद्गळमेकेन उच्यते
शिखरन्तु द्विभागं स्यात्स्थूपिमेकेन कारयेत् १३९
कण्ठं त्रिभागमेवं स्यादेकभागन्तु कम्पकम्
त्रिभागं पट्टिका प्रोक्ता एकभागेन कुम्भकम् १४०
पादबन्धमधिष्ठानं छेदरीदा यथोचितम्
प्रतिबन्धमष्टाद –सप्तभागं च वप्रकम् १४१
षट्भागं कुमुदं प्रोक्तं एकभागन्तु युक्युतम्
एकभागं त्र्यश्रं स्यात्प्रतिमुखं द्विभागकम् १४२
वाजनमेकभागं स्या –बन्धन्तदुच्यते
प्रतिस्तम्भ प्रतिरूर्ध्वे द्वारं कुर्याद्विशेषतः १४५
एकोनविंशतिर्भागं पद्मं चैव षडश्रकम्
कम्पमेकांशमित्युक्तं ऊर्ध्वपद्मं षडंशकम् १४६
तदूर्ध्वे त्र्यंशकं चैव वृत्तं च कम्पमेककम्
द्वयांशं पट्टमित्युक्तं एकांशं कम्पमुच्यते १४७
पद्मबन्धमिति प्रोक्तं सर्वकार्येषु पूजितम्
यावत्प्रासादविस्तारं पञ्चविंशतिरेव वा १४८
चतुर्विंशतिकेवापि षड्विंशतिकमेव वा
एकभागमिदं प्रोक्तं मूलपादस्य विस्तरम् १४९
विस्तारमष्टधा भज्य अभ्रतारं सप्तांशकम्
अग्रपादद्वयं प्रोक्तं उपानोत्सेधमुच्यते १५०
-–दर्धमित्युक्तं उपानमिति कीर्तितम्
--पानस्यादधिष्ठान तद्वंशं जगति निर्गमम् १५१
तावत्कुमुदनिष्क्रान्त कुण्डसमं भवेत्
कम्पमुत्सेधसमं महापट्टी त्र्यंशकम् १५२
अग्रपादस्य विस्तारं तद्दण्डमिति कथ्यते
द्विदण्डे वेदिकास्याद्वेद्युत्सेध नवांशकृत् १५३
भागं गळमित्युक्तं द्विभागं पट्टिका भवेत्
क्षुद्र कम्पद्वयंशकमूर्ध्वकम्पः क्रमोगतः १५४
तावद्वा पादकुम्भे तु वृत्ताकारमिहोच्यते
तस्योत्सेधं रसांशे तु —स्रन्तु भवेत् १५५
वेदभ्याहन्तु कुम्भस्यादेकेन कर्तमुच्यते
आस्यमेकेन कर्तव्यं पद्ममेकेन कारयेत् १५६
अपांशेन तु नीव्रं स्यादर्धार्धे भनेकद्वयम्
अर्धांशेनैव कर्तव्यम् आस्यविस्तारमुच्यते १५७
समेकेन कर्तव्यं द्व्यंशं कुम्भविस्तारम्
--ध्रकर्णौ पादविस्तृतम् १५८
मध्येन वृद्धिपादं स्याच्चतुर्गुणन्तु विस्तृतम्
दण्डोत्सेधं गुणांशेन भागेनोत्सेधमुच्यते १५९
मण्डिकामेकभागन्तु फलांशेनैव कारयेत्
वीरकाण्डस्य विस्तारं पोतविस्तारमेव वा १६०
वेदिका भागमेवं वा उत्सेधं पादहीनकम्
पञ्चांशेनोत्तमं विद्याच्चतुरा मध्यमं भवेत् १६१
त्रितयं बाधमं प्रोक्तं पोतिकायाममुच्यते
अंशेन पोतिकोत्सेधमुत्तरान्तं प्रकीर्तितम् १६२
उत्तरे चैव एकांशं चतुर्भागैकवर्जितम्
अंशेन हासमालोच्य चतुर्भागैकवाजिनम् १६३
द्व्यंशेन कम्पोच्चं अर्धांशेन तु सम्पकम्
निर्गमन्तु द्वयांशं स्यादुपानं सममेव तु १६४
शेषप्रस्तारमानन्तु पञ्चभागैर्विभाजयेत्
अलिङ्गाथांशमेवन्तु अंशेनान्तरितं भवेत् १६५
प्रतिमुखं द्वयांशं स्यात्प्रवाजनमेककम्
वेदीञ्चैव विशेषेण त्र्यंशेन वेशनम्भवेत् १६६
द्व्यंशेन वेदिकोत्सेधं षट्भागं कारवैन्हतः
कर्णं चैव त्रयंशं स्यादेकेनाधार पट्टिका १६७
वेदिकां भारमर्धांशमर्धांशं कम्पमुच्यते
वेदिविस्तारपञ्चांशं चतुरं ग्रीवविस्तरम् १६८
उत्तरं चोर्ध्वकांशेन कुम्भाङ्गैर्वाजनं भवेत्
अर्धांशं हस्तमाला च अर्धेन हंसपट्टिका १६९
प्रासादं चाष्टधा कृत्वा वेदिविस्तारसप्तकम्
वेदिका तु त्रिभागं स्यात् द्विभागं बिलविस्तृतम् १७०
वेदिविस्तारमेवन्तु शिखरान्तरविस्तृतम्
महानसा त्रिभागैकं शिखरार्धेन चोच्छ्रयम् १७१
उत्सेधन्तु त्रिधा कृत्वा एकभागन्तु निर्गमम्
शिखरे पञ्चभागे तु त्रिभागं फलका स्मृतम् १७२
पालिके पञ्चभागे तु युगांशं पद्मविस्तरम्
पद्मभारत्रिभागेकं कुम्भविस्तारमुच्यते १७३
कुम्भतारत्रिभागेकं पद्माधोवलग्नकम्
वलद्र स्य त्रिभागेकं कुम्भस्योपरिकन्धरम् १७४
कन्धरत्रिगुणं पालि तन्त्रि भागेककुन्तळम्
द्वाविंशति विभागेन स्थूपिकोत्सेधमुच्यते १७५
पद्मोच्चन्ती पद्मोच्चन्तीर्थ स्कन्धं स्यादर्धमंशकम्
अर्धार्धाधरपद्मन्तु स्कन्दं स्यादर्धमंशकम् १७६
अर्धर्धाधारपद्मन्तु ऋष्यसन्तु धनोच्चयम्
अर्धचोर्ध्वक पद्मन्तु रसांशं ग्रीवमुच्चकम् १७७
कम्पन्नीव्रं च सार्धांशं लग्नकण्ठं च शङ्करम्
कुमुद्रि यं पञ्चभागार्थं एवं स्थूपिरुदाहृतम् १७८
एवमेव प्रकारेण प्रासादं कारयेत्ततः
प्रासादार्थ प्रमाणेन अर्धमण्टपमिष्यते १७९
समं वापि त्रिपादं वा अर्धं वा विस्तृतं भवेत्
त्रासादस्य समन्दीर्घन्त्रिपादं वा विधीयते १८०
दिशा मूर्तिं प्रवक्ष्यामि श्रुणुष्वेकाग्रमानसा
इन्द्रं पूर्वे तु संस्थाप्यं दक्षिणामूर्ति दक्षिणे १८१
पश्चिमे नारसिंहन्तु उत्तरे तु पितामहम्
सर्वलक्षण सम्युक्तं दिशामूर्तिं प्रकल्पयेत् १८२
प्रासाद पृष्ठपार्श्वे तु कर्तव्यं तोरणत्रयम्
वृतेरुत्तरसीमान्तं तोरणस्योच्छ्रयं भवेत् १८३
प्रासादलक्षणं प्रोक्तं मण्टपानामथोच्यते
चतुष्पाद समायुक्तं शृङ्गाहमिति कीर्तितम् १८४
द्विहस्तं च द्विहस्तार्धं त्र्यहस्तं सार्धसम्युतम्
चतुर्हस्तं च सार्धं च पादायामन्तु षट्भवेत् १८५
मण्टपं कारयेदेवं सर्वलक्षणलक्षितम्
पञ्चप्राकारसंयुक्तं लक्षणेन समन्वितम् १८६
प्रासादस्य तु विस्तार तद्दण्डमिति चोच्यते
दण्डार्धेन तु कर्तव्यं अन्तर्मण्डलमुच्यते १८७
अन्तर्हारे दण्डमित्युक्तं द्विदण्डं मध्यहारयोः
चतुर्दण्डप्रमाणेन मर्यादाभित्तिरेव च १८८
सप्ताष्टदण्डमानेन महामर्यादभित्तिकम्
अध्यर्धं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् १८९
रेखायाममिति प्रोक्तं प्राकाराणां विशेषतः
सर्वलक्षणसम्युक्तं प्राकाराणां प्रकीर्तितम् १९०
प्रासादगर्भमानेन परिवारालयम्
पूर्वे तु वृषभस्थानमाग्नेय्यां सिंहवाहिनी १९१
याम्ये मातृगणानां च नैरृत्यान्तु विनायकम्
सुब्रह्मण्यं च वारुण्यां वायौ ज्येष्ठालयं भवेत् १९२
सौम्ये तु केशवस्थानमीशे चण्डेश्वरालयम्
एवमेव प्रकारेण सर्वसामान्यमीरितम् १९३
चतुर्दिक्षु गोपुरं कुर्यात्सर्वालङ्कारसम्युतम्
शिल्पशास्त्रोक्तमार्गेण प्रासादं गोपुरं चरेत् १९४
पूर्वाग्निमध्यमे चैव धनधान्यगृहं भवेत्
अग्निगोपुरयोर्मध्ये कुर्यादायुधमण्टपम् १९५
वायोर्वरुणयोर्मध्ये शयनस्थानमुच्यते
दक्षिणे वापि कर्तव्यं ईशाने वापि कारयेत् १९६
वायव्यसोमयोर्मध्ये धर्मश्रवणमण्टपम्
सोमईशानयोर्मध्ये कूपस्थानमिति स्मृतम् १९७
इन्द्र ईशानयोर्मध्ये वाद्यस्थानन्तु कारयेत्
पावके चोत्तरे चैव पचनालयमुच्यते १९८
चतुर्दिक्षु च कर्तव्यं बलिपीठं विशेषतः
गर्भन्तु दशधा कृत्वा षट्भागं पीठविस्तरम् १९९
द्वारविस्तारमानं च द्विगुणन्त्रिगुणन्तु वा
विस्तारेण समुत्सेधं षोडशांशेन भाजयेत् २००
उपानमेकभागन्तु चत्वारो जगती भवेत्
कुमुदं त्रिभागं कुर्याद्वृत्तमष्टाश्रमेव वा २०१
भागेन पट्टिकां कुर्या कण्ठञ्चैव तु चांशकम्
तदूर्ध्वे पट्टिकांशेन द्विभागेनोर्ध्व पट्टिका २०२
तदूर्ध्वे पट्टिकांशेन वृत्तं वा चतुरन्तु वा
उत्सेधस्य चतुर्भागमेकांशं पद्ममुच्यते २०३
पद्मं चैव त्रिधा भज्य अधः पद्मं द्वयांशकम्
ऊर्ध्वपद्मन्तु भागेन कर्तव्यं लक्षणान्वितम् २०४
आयव्ययं च नक्षत्रं योनिवाराङ्गकानि च
प्रासादस्य तु विस्तारं ऋषिभिर्द्विगुणैस्ततः २०५
आदित्येन हरेच्छेषं आयाममिति च स्मृतम्
तेषु नन्दगुणेनैव धर्मांशे हारयेद्वयम् २०६
विस्तारवसुगुण्यन्तु त्रिगुणैस्तु हरेत्ततः
शेषन्नक्षत्रमेवं स्याद्गुणेन गुणितं कृतम् २०७
वसुभिर्हारयेत्तत्र योनिरित्यभिधीयते
विस्तारनन्दगुणितं ऋषिभिर्हारयेत्ततः २०८
सूर्यवारादि वारं स्यात्पुनर्वेदगुणैर्युतम्
नवभिर्हारयेत्तत्र त्वंशकन्तु विधीयते २०९
आयाधिक्यं व्ययं क्षीणं सर्वसम्पत्सुखं भवेत्
आयहीनं व्ययाधिक्यं रोगमृत्युकरं भवेत् २१०
यजमानानुकूलेन नक्षत्रं कारयेद्बुधः
ध्वजं च वृषभं सिंहं हरित चैव शुभं भवेत् २११
सितज्ञेन्दु गुरुर्मुख्यं गुरुवारस्तु शोभनम्
न स्वरं क्लीब षण्डं च निधनं चैव वर्जयेत् २१२
गणानसुरमानुष्यं वर्जयेत्तु प्रदां भवेत् २१३
इति योगजे क्रियापादे प्रासादलक्षणन्नाम द्वाविंशत्पटलः