२०

शान्तिहोममहं वक्ष्ये श्रुणुष्वेकाग्रमानसा
सदाशिवादिदेवानां परिवारान्तथैव च १
प्राकाराभ्यन्तरे देव स्वनामाद्यैश्च होमयेत्
द्विगुणं पूजयेत्तत्र अर्चनोक्तक्रमेण तु २
शान्तिहोममिति प्रोक्तं सर्वदेवांश्च होमयेत्
शन्तिहोममिति प्रोक्तं मूर्तिहोममथ श्रुणु ३
प्रासादस्य चतुर्दिक्षु अन्तर्मण्टपके बुधः
चतुरश्रं स्थण्डिलं कृत्वा ईशाने वृत्तस्थण्डिलम् ४
अग्निकार्यक्रमेणैव अग्निमुखं च कल्पयेत्
ईशे सादाशिवं मन्त्रं पूर्वे त्वीशानमन्त्रकम् ५
दक्षिणे रुद्र मन्त्रन्तु पश्चिमे विष्णुमन्त्रकम्
उत्तरे ब्रह्ममन्त्रन्तु यथा शक्त्या तु पूजयेत् ६
हविर्निवेदयेत्पश्चात् स्नपनं कारयेच्छिवे
द्विगुणं पूजयेत्तत्र महाहविर्निवेदयेत् ७
मूर्तिहोममिति प्रोक्तं दिशाहोममथ श्रुणु
इन्द्रा दीशानपर्यन्तं अष्टदिक्शिवदेवताः ८
स्थण्डिलं सिकतैः कृत्वा चतुरश्रं समन्ततः
शेषाण्यन्यानि सर्वाणि अग्निकार्योक्तमाचरेत् ९
दिग्देवान्पूजयेत्तत्र दिशा होमन्तु पूजयेत्
दिशाहोममिति प्रोक्तं वास्तुहोमन्ततः श्रुणु १०
मण्टपस्य तु मध्ये तु स्थण्डिलं शालिभिः कुरु
वास्तु कुम्भं समारोप्य वास्तुदेवान्समर्चयेत् ११
चतुरश्रं समं कृत्वा हस्तमात्रप्रमाणतः
अष्टाष्टकपदं वापि नवान्तपदमेव वा १२
पिष्टसूत्रेण संल्लिख्य ईशादिदेवमर्चयेत्
ब्रह्मादिदेवानभ्यर्च्य चरकी प्रभृतिरर्चयेत् १३
चत्वारिंशच्च पञ्चैते वास्तुदेवान्समर्चयेत्
वास्तुदेवान्समभ्यर्च्य बलिं मन्त्रेण दापयेत् १४
वास्तुदेवन्ततः कृत्वा देवानामाहुतिन्तु वा
प्रोक्षयेत्तान्यशेषाणि वास्तु कुम्भस्य तोयकैः १५
वास्तुहोममिति प्रोक्तं सर्वकालेषु पूर्वतः
इत्येवं होममाख्यातं स्वस्वमन्त्रैस्तु हूयते १६
इति योगजे क्रियापादे शान्त्यादि होमविधिर्नाम विंशत्पटलः