१९

अथ वक्ष्ये विशेषेण कुण्डलक्षणमुत्तमम्
यथा मण्टपमध्यन्तु नवभागं प्रकल्पयेत् १
मध्यं भागे कृता वेदी उत्सेधं हस्तमात्रकम्
उपवेदी प्रकर्तव्यं विस्तारचतुरङ्गुलम् २
उत्सेधन्तावदेव स्यात्षडङ्गुलमथापि वा
पूर्वे तु चतुरश्रं स्यादाग्नेय्यां योनिकुण्डकम् ३
दक्षिणे चार्धचन्द्रं च नैरृत्यां च त्रिकोणकम्
पश्चिमे वृत्तकुण्डन्तु वायव्यान्तु षडश्रकम् ४
सौम्ये तु पद्मकुण्डं च अष्टाश्रमीशगोचरे
इन्द्र ईशानयोर्मध्ये वृत्तं प्रधानकं कुरु ५
सर्वेषामपि कुण्डानां नाहं समचतुरश्रकम्
अष्टहस्तादिमुष्ट्यन्तकुण्डमानं प्रकीर्तितम् ६
सर्वेषामपि कुण्डानां घनं मुष्टिप्रमाणकम्
त्रिमेखलसमायुक्तं एकमेखलमेव वा ७
अथो मेखलमारभ्य द्वे त्रीणि चतुरङ्गुलम्
विस्तारसममुत्सेधं षडङ्गुलमेकमेखलम् ८
योनौ योनिर्न कर्तव्या पद्मे नाभिन्न कारयेत्
तालमात्रं खनीकृत्य मध्ये पद्मं प्रकल्पयेत् ९
रसाङ्गुलन्तु वाकल्प्य वेदाङ्गुलमथापि वा
एकाङ्गुलन्तु वातुङ्गं द्वयाङ्गुलमथापि वा १०
एवं पद्मक्रमं कृत्वा कुण्डन्तस्य तु मध्यमे
मेखलोर्ध्वे तु योनिं च चतुरङ्गुलमानतः ११
श्वभ्रमङ्गुलविस्तारमेकाङ्गुलन्तदुन्नतम्
चतुरं पञ्चधा कृत्वा एकांशं पुरतो न्यसेत् १२
कोणार्धांशं गृहीत्वा तु बहिश्चैव तु वर्जयेत्
तत्कोणं मृण्मयेदन्यं योन्याकारन्त्रिसूत्रयुक् १३
विस्तारन्नवधा कृत्वा अंशन्यस्त्वोर्द्ध्वतः क्रमात्
सूत्रकं पातयित्वा तु भ्रामयेदर्धचन्द्र वत् १४
क्षेत्रव्यासन्तु बुद्ध्यशं पार्श्वेर्व्यस्त्वा तु कारयेत्
त्रिसूत्रं प्रसारयेद्विद्वान् त्रिकोणं कुण्डमीरितम् १५
चतुरश्रन्नवैः कृत्वा अंशं बाह्ये न्यसेदिति
भ्रामयेद्वृत्तकुण्डन्तु सर्वकर्मसु योग्यकम् १६
पूर्ववद्वृत्तकं कृत्वा पद्माकारन्तु कारयेत्
कर्णाकाष्ठदळोपेतं पद्मोत्सेधं करीयसी १७
चतुरश्रस्य विस्तारं षट्चतुर्भागमाचरेत्
एकभागन्तु निस्त्वा सूत्रयुक्तन्तु बुधः १८
प्रवृत्तकुण्डमाख्यातं पङ्क्यंशं वाथ भ्रामयेत्
कुण्डलक्षणमाख्यातं चतुरश्रस्य नाहवै १९
कोणस्यार्धं गृहीत्वा तु कोणे नैव तु कारयेत्
एवं स्वतन्त्रकुण्डं स्या सर्वकार्येषु पूजितम् २०
मुष्टिरत्निश्च बाहुश्च मुष्टिहस्तावसानके
सप्ताश्रं च नवाश्रं च पद्माश्रं षोडश २१
युक्त्या तु योजयेद्धीमान् सर्वकुण्डं प्रकल्पयेत्
कुण्डानामपि सर्वेषां अभ्यन्तरमानमीरितम् २२
मेखलायाः प्रमाणं यत्तत्प्रमाणमिति स्मृतम् २३
इति योगजे क्रियापादे कुण्डलक्षणविधिर्नाम एकोनविंशत्पटलः