१८

अग्निकार्यमहं वक्ष्ये श्रुणुष्वेकाग्रमानसा
कुण्डलक्षणमार्गेण कुण्डं कुर्याद्विचक्षणः १
अथवान्यप्रकारेण स्थण्डिलं सिकतैस्तु वा
कोट्याहुतौष्टहस्तं स्याल्लक्षहोमन्तु लक्षणम् २
दशसहस्रं पञ्चहस्तं त्रिहस्तं चतुर्हस्तकम्
द्विहस्तं सहस्रहोमे स्याद्धस्तं पञ्चशताधिकम् ३
रत्निमात्रं शते तावन्मुष्टिमात्रं शतार्धके
मुष्टिमात्रादथो मानादष्टहस्तात्परन्नहि ४
त्रिद्वेक मेखलोपेतं कुण्डं लक्षणवत्कुरु
स्थण्डिलं हस्तमात्रं स्यात्त्र्यङ्गुलसमन्वितम् ५
पद्मं च दक्षिणे स्थाप्य सोमे योनिं च कल्पयेत्
त्रिरेखा प्रागुदगग्रा परिधि प्रस्तरान्वितम् ६
पूर्वपश्चिमकुण्डेषु चोत्तराभिमुखस्थितः
अन्येषु प्राङ्मुखो भूत्वा सृक्स्रुवौ कारयेद्बुधः ७
परिस्तरमथो वेद्यां स्थण्डिलं सूत्रमध्यमे
परि -क्षणारभ्य प्राक्परिधिविनाकृतम् ८
कूर्चं स्थाप्य तदूर्ध्वे तु पूर्वाग्रा समिधो न्यसेत्
पञ्चसप्ताष्टनवभिः दर्भैः प्रागादिकूर्चकम् ९
कनिष्ठाङ्गुल प्रमाणेन परिधीनि ध्मकान्कुरु
आयामद्वादशाङ्गुळ्याः समिधो कारयेद्बुधः १०
ब्रह्मकूर्चं षडङ्गुळ्यं विष्णुकूर्चन्तथैव च
मध्ये तु रुद्र र्कून्तु त्रिमूर्तिं स्थापयेद्बुधः ११
त्रिपञ्चसप्तनवकैः कूर्चं सर्वत्रकल्पयेत्
सृक्स्रुवञ्च चतुर्दर्भैः अष्टाङ्गुलन्तु दैर्घ्यकम् १२
पलाशाश्वत्थ पत्रादीन्सृक्स्रुवञ्चैव बन्धयेत्
एकं द्वे त्रीणि दर्भाणां पवित्रं बन्धयेत्क्रमात् १३
त्रिद्व्यङ्गुलन्तदूर्ध्वन्तु मध्ये बन्धन्तदर्धकम्
अश्रं यव प्रमाणेन तत्पार्श्वे पाशकन्न्यसेत् १४
अनामिकामूलसम्युक्तं पवित्रमिदमीरितम्
अग्निं प्रज्वाल्य परितो परिषेचनमाचरेत् १५
श्रोत्रियागाराग्निजं वाग्निं सूर्यकान्तोद्भवन्तु वा
काष्ठानि मथनं वापि प्रोक्षयेत्तु शिवाम्भसा १६
सुगन्धकाष्ठं सङ्गृह्य अग्निं प्रज्वाल्य बुद्धिमान्
परिस्तरणं च पूर्वाग्रमुत्तराग्रं प्रकल्पयेत् १७
शिवाग्निं जनयेद्विद्वान् शिवमन्त्रं जपेत्ततः
द्विमुञ्चेक हृदयं चतुश्रोत्रं द्विनासिकम् १८
आस्य द्वयं च षण्णेत्रं पिङ्गळं सप्तहस्तकम्
त्रिमेखलं त्रिपादं च सप्तजिह्वासमायुतम् १९
चतुशृङ्गं वृषारूढं बालादित्यसमप्रभम्
एवं शिवाग्निं सङ्कल्प्य शिवमन्त्रेण देशिकः २०
वृद्धरूपन्त्र्यक्ष चतुर्भुजमक्षपिङ्गळगोवृषवाहनम्
रक्तवर्णसितोत्तरीयवरं शक्तिपाणि शिवाग्निस्वरूपकम् २१
विद्युत्पिञ्जनिभं चतुर्भुजमजारूढन्त्रिपादकम्
चतुशृङ्गम्मुखद्वयज्वलितजिह्वासप्तकषट्सुनेत्र २२
परममौञ्जी त्रिरावर्तित सव्यापसव्ये करे अभयम्
वरयुक्सृक्स्रवञ्चापरे —२३
ध्यायेद्गार्हपत्य संस्थमनलमेवञ्चगामौळिनम्
बालादित्यनिभं सृगन्यके खहञ्चा भय सव्यवामकृतं कूर्चं ॥ सङ्के खे वरान्वरद्विषं सुनेत्रम भुजं अथार्षकं चोपरि ।
गार्हपत्यो गृहस्थानां पितॄणां दक्षिणानलम् २५
आहवनीयस्तु देवानां तत्तद्रू पं वदाम्यहम्
बालयौवनवृद्धाग्निस्त्रिविधं तत्प्रकीर्तितम् २६
बालाग्निस्यात्प्रतिष्ठानां उत्सवं यौवनाग्निना
वृद्दाग्नौ नित्यहोमं स्यात्सव्यापसव्यमार्गकम् २७
काळीचैव कराळी च मनोरमा सुशोभिता
धूम्म्रवर्णलिङ्गं च विश्वरूपं विलोहितम् २८
देवीलोलस्य भावस्यादिति शक्तिः प्रकीर्तिता
जिह्वाहस्ताय षट्त्र् यङ्गुलं नाहदण्ड मूलाग्रपुष्कर २९
रणो ससमाग्ररूपं मध्यद्विपार्श्व बलिकर्म
धृतपूर्ण शोचालसनि दण्डमिदं स्यात् ३०
ब्राह्मणन्दक्षिणे स्थाप्य कूर्चे पुष्पं सुनिक्षिपेत्
विष्णुं वै वामतस्थाप्य प्रणीता पात्रकं क्षिपेत् ३१
भवश्च पूर्वकुण्डे तु आग्नेय्यामुग्र एव च
शर्वन्तु दक्षिणे कुण्डे महादेवन्तु नैरृते ३२
रुद्रं च वारुणे कुण्डे भीमं वै वायुगोचरे
पशुपतिं चोत्तरे कुण्डे ऐशान्यामीशमेव च ३३
त्रिणेत्रं चतुर्भुजं चैव जटामकुटधारिणम्
कुण्डमध्ये न्यसेदेतान् बाह्ये तु वसवस्तथा ३४
तद्बाह्ये मरुतश्चैव लोकपालाश्च तद्बहिः
लोकपालास्त्रसम्युक्तं मध्यमे होमकर्मणि ३५
सर्वदेवान्समभ्यर्च्य श्रेष्ठहोममिति स्मृतम्
लोकपालास्त्रहीने तु मध्यमे होमकर्मणि ३६
कुण्डादि देवतास्सर्वान्विन्यसेत्कुण्डमध्यमे
समिधस्सद्यमन्त्रेण आज्यं वामेन हूयते ३७
अघोरेण चरुं हुत्वा पुरुषेण च लाजकम्
ईशेन सर्षपञ्चैव हृदयेन तिलं हुनेत् ३८
वयं हुत्वा हृदामन्त्रं सप्तमन्त्रेण हूयते
पलाशखदिराश्वत्थ –वटवृक्षकम् ३९
न्यग्रेयम् प्लक्षवृक्षं च अपामार्गं शमी तथा
अश्वत्थं कपित्थकं चैव जम्बूपनसमेव च ४०
एवं च समिधो ख्याता प्रधानस्य पलाशकम्
स्थण्डिलोल्लेखनञ्चैवा वेक्षणम्मग्निसुस्थितम् ४१
परिस्तरणं द्र व्य पात्रं प्रोक्षणं पुण्याहमेव च
प्रणीतां विष्णुमभ्यर्च्य ब्रह्माणं चार्च्यकूर्चकम् ४२
आद्यन्त्रिदर्भमग्निस्थन्दर्वी परिधिमेव च
परिषेचनन्ततः कृत्वा प्रागादि च प्रदक्षिणम् ४३
शुद्धं चरुघृतञ्चैव सर्वद्र व्याणि स्थापयेत्
अदित्येन्वादि मन्त्रेण परिषेचनमाचरेत् ४४
युक्तो वहेति मन्त्रेणाग्निमुखं प्रकल्पयेत्
मूर्त्यादि देवतानां च स्वस्वमन्त्रैस्तु पूजनम् ४५
कर्मान्ते चित्ताहुतिं अग्निर्भूतादिराष्ट्रभृत्
सर्वकर्माणि सामान्यं पश्चात्स्वकर्मचिन्तयेत् ४६
ऋतु सङ्गादि षोडशमन्यत्कर्मसमाचरेत्
पञ्चब्रह्मषडङ्गैश्च शिवसंस्कारके हुनेत् ४७
इति योगजे क्रियापादे अग्निकार्यविधिर्नाम अष्टादशपटलः