१७

अथ वक्ष्ये विशेषेण नैवेद्यविधिमुत्तमम्
हेमशाली महाशाली रत्नशाली तथैव च १
सितशाली कृष्णशाली तत्तद्भेदमनेकधा
व्रीह्यश्च सर्वभेदानां यवगोधूमकानि च २
एते च सर्वयोग्यास्स्युर्हविश्शेषं विधीयते
शक्तिश्च त्रिशतं व्रीहि द्विगुणं व्यूहमिष्यते ३
द्विगुणं कुटुम्बं प्रोक्तं कुटुम्बद्वयवारिषु
वारि द्वयं प्रस्थमुक्तं तद्वयं कुरु चाढकम् ४
तद्वयं हविरुच्यन्ते तद्वयं शिवमीरितम्
शिवं च द्रो णमित्युक्तं तद्वयं खरिरुच्यते ५
खारिमयं भारकं च यथाकाममिलि स्मृतम्
शतभारमुत्तमं प्रोक्तं पञ्चाशन्मध्यमं भवेत् ६
विंशच्च भारन्त्वधमं दशभारं धमाधमम्
क्षुद्रं तु पञ्च भारं स्यान्नीचं भारद्वयन्तथा ७
अन्य सम्भारकं प्रोक्तं कर्तृशक्ति वशान्नयेत्
आढकन्तु हविः कुर्यात्तदर्धं चरुरुच्यते ८
तदर्ध बलिरित्युक्तं यथाक्रममिति स्मृतम्
गौर्यादि शक्तीनां चैव परिवारन्तथैव च ९
षोडश प्रतिमानां च द्विप्रस्थं वा निवेदयेत्
हविश्चैव चतुर्भागं द्विभागन्तु निवेदयेत् १०
एकभागन्तु शेषं स्यात् शेषं बल्यादि दानकम्
हविरष्टविधं प्रोक्तं मुद्गान्नं पायसान्नकम् ११
कृसरान्नं गुळान्नं च शम्बान्नं च यवान्नकम्
माषान्नं चैव शुद्धान्नं हविरष्टविधं भवेत् १२
तुषं च वर्जयेन्मुद्गे नाळिकेरफलैर्युतम्
तण्डुलस्यार्ध मुद्गं च कल्पं लवणसम्युतम् १३
एवमुद्गान्नमित्युक्तं कृसरान्नं तथैव च
कदळी गुळसम्युक्तं जीरकं च मुशीरकम् १४
नाळिकेरघृतैर्युक्तं बालं साद्र वसम्युतम्
तण्डुलैश्शकलैर्युक्तं नाळिकेरपनसान्वितम् १५
गुळान्नमिति विख्यातम् सर्वकाले तु दापयेत्
सर्वेषां च विधातव्यमुपदंशगुळैर्युतम् १६
दधिघृतसमायुक्तं पञ्चवर्णहविर्ददेत्
तस्थूलप्रस्थमेकन्तु फलैकशपदंशकम् १७
तत्समङ्गुळसंयुक्तं मरीची लोणसम्युतम्
जीरकन्नाळिकेरं च युक्तं सर्वोपदंशकम् १८
घृतस्य पेषणं कृत्वा शुद्धोपदंशमुच्यते
चूतं च मातुलुङ्गं च तिन्त्रिणी फलसंयुतम् १९
अन्योपदंशमेतेषां मरीचलवणैर्युतम्
जीरकं सर्षपं चैव पेषणं च सुगन्धिकम् २०
अतिपद्वमपक्वं च वर्जयेत्तु विशेषतः
सर्षपं पाचयेद्धीमान् त्रिविधं चोपदंशकम् २१
शुष्कमार्द्र मपक्वं च आम्लपक्वं त्रिधा भवेत्
पनसं कदली चूतं बृहतीकूश्माण्डमेव च २२
श्वेतहारी फलं चैव वल्ली पनसमेव च
क्षुद्र मिति ह कोपि निष्पावद्वयमेव च २३
शिग्रुमार्जमकालिं च तिमिसी मातुलुङ्गकम्
नाळिकेरक गायं च रक्तागस्सफलं भवेत् २४
वनदे शारि वल्ली च कन्दकाली च मूलता
माषम्माषमतीञ्चैव उपदंशफलान्विदुः २५
इदमन्यत्र चित्राढ्यम् भक्तियुक्तं भवेद्विदुः
वल्ली मूलमिभामूलं भिन्नमूलन्तु कर्णिका २६
अन्यमूलन्तु एतेषां मूलवर्गन्ददेद्बुधः
अन्येषां मूलद्र व्याणां भक्तियुक्त वशात्तु ये २७
शक्ति जातिस्तु सर्वेषां वर्जनीया विशेषतः
रक्तध्रुवासं भक्तानां एककालं निवेदयेत् २८
मरीच सर्षपं चूर्णं जीरकन्नाळिकेरकम्
सर्वेषामुपदंशानां सर्वमेतत्प्रकल्पयेत् २९
घृतं च मेळयित्वा तु सर्वद्र व्यसमायुतम्
षड्रसं घृतसम्युक्तं नैवेद्यन्दापयेद्बुधः ३०
कृषिकर्मफलं कर्म पूर्वन्देवनिवेदयेत्
तळिका स्थापयेदन्नं मङ्करं तुषयोरपि ३१
अतिपक्वमपक्वं च वर्जयेत्तु विशेषतः
महाहविर्निवेद्यन्तु वस्त्रोर्ध्वे पत्रकन्न्यसेत् ३२
कदली पलाशपत्रं वा कन्यक्षीरद्रुमन्तु वा
अथेषां शुद्धपत्राणां महाहविर्निवेदयेत् ३३
हविरूर्ध्वोपदंशैश्च गुळं च कदलीफलम्
घृतन्निक्षिप्य यत्नेन दधिवा दुग्धमेव वा ३४
निवेदयेद्धृदा मन्त्री देवस्यत्वेति मन्त्रतः
पाटलिं च सुगन्धी च उशीरमेलसंश्रितम् ३५
पानीयन्दापयेत्पश्चाद्दग्धचूर्णैसमायुतम्
चन्दनं चैव कर्पूरं कस्तूरी मुखसम्युतम् ३६
मन्त्रगेय समायुक्तं व्यजनं मन्दवायुना
हिमाचलसमायुक्त रामवत्सुषिरे स्पृशेत् ३७
एवं कृते तु मर्त्याश्च ऐश्वर्यं सर्वमाप्नुयुः
शनिवारे सौम्यवारे गन्धतैलं क्षिपेद्बुधः ३८
इति योगजे क्रियापादे नैवेद्य विधिर्नाम सप्तदशः पटलः