१६

अथ वक्ष्ये विशेषेण विभवनिश्चयं श्रुणु
साम्प्रतं हारकञ्चैव द्विविधं कर्ममुच्यते १
शिवभुक्तिस्साम्प्रतं च परिचाराणान्तु हारकम्
अशक्तस्साम्प्रतं कर्तुं शक्तिमान्हारकं कुरु २
अर्चनं साम्प्रतं प्रोक्तं शक्तिन्यासकरं भवेत्
आदिशैवान्तपोयुक्तान् पूर्वोक्तलक्षणैर्युतान् ३
शतमष्टोत्तरं चैव आदिशैवान्प्रगृह्य च
त्रीणि पञ्चशतं वापि सप्ताष्टनवमं स्मृतम् ४
त्रीण्यादीनि शतान्तं च यथाविभव विस्तरम्
गुरुर्हृत्वादिशैवानां सगोत्रं च -रो भवेत् ५
तत्सङ्ख्याश्चक्रलालं च तं सङ्ख्यपुष्परक्षका
तत्सङ्ख्या पुष्पदासी च तत्सङ्ख्या वस्त्रधारिणः ६
तत्सङ्ख्याकाष्ठ -गोपालानान्तथैव च
तत्कर्मोपजीवीनां यथाविभवतान्नयेत् ७
यावद्बलं विभवता तावद्विप्राय दापयेत्
तच्छक्तिं हविषार्धं च शक्तिरर्चन भागकम् ८
दीपानां भोगवेत्तु गन्धार्थं भोगमेव तु
पुष्पार्थं भागमेवन्तु स्नानार्थं भावमेव च ९
उत्सवार्थं च भागं च —भागमेव च
प्रायश्चित्तार्थ भागं च कृत्तिका दीपभागकम् १०
आग्रायणार्थ भागं च न्यूनातिरिक्तभागकम्
देवयज्ञस्य भागं च वेदाध्ययनभागकम् ११
भोगभोजनभागं च विशेषयजनभागकम्
कर्मणां भोगभागं च दासीदासार्हभागकम् १२
मन्त्ररक्षणभागं च शिला लेखान्तु कारयेत्
देवत्वं परिचारं च देवकानिष्ठ सर्व च १३
अक्षीणं जीवितं यत्तु यथाविभवनिश्चयम्
देवस्य शेषं यन्मर्त्यमन्यकर्म न कारयेत् १४
देवालयगृहं गम्या परालयं च दृश्यते
सपुष्पभोजनं कृत्वा कुर्याद्रा जोपचारकम् १५
यथाविभवविस्तारं त्रिधाकृत्वा तु भागकम्
एकभागं च धर्मार्थं द्विभागन्देव शेषकम् १६
एवं क्रमेण यः कुर्याच्छिवलोकं स गच्छति
इति योगजे क्रियापादे विभव निश्चयन्नाम षोडश पटलः