१५

सप्ताहं च नवाहं च ———-
पञ्चाक्षरमहं वक्ष्ये श्रुणुष्वेकाग्रमानस
नकारं च मकारं च शिकारं च वकारकम् १
यकारं पञ्च सम्युक्तं प्रणवादि षडक्षरम्
पञ्च पञ्च चतुर्थस्य पञ्चमं पञ्चमं भवेत् २
षष्टमं पञ्चमं पञ्च मायाबीज समन्वितम्
सप्तमस्य चतुर्थस्य द्वितीयाक्षरसम्युतम् ३
यमबीजसमायुक्तं शिवमन्त्रमिति स्मृतम्
नकारं ऋग्वेदमित्युक्तं यजुर्वेदम्मकारकम् ४
शिकारं सामवेदं स्यादथर्वेदं वकारकम्
यकारं सर्वदेहं स्यात्पञ्चाक्षरं प्रकीर्तितम् ५
नकारादि यकारान्तं पृथिव्यां भूतमुच्यते
नकारादि यकारान्तं ब्रह्मादिसदाशिवान्तकम् ६
त्रिष्टुप्चैवानुष्टुप्च सावित्री गायत्रिका
गौतमो अत्रिकश्चैव विश्वामित्रश्च चाङ्गिराः ७
भरद्वाजश्च पञ्चैते नकारादि ऋषिस्तथा
सद्यादिमुखपञ्चान्तन्नकारादीनि चोद्भवम् ८
यकारम्मूर्ध्नि विन्यस्य वकारं च ललाटके
शिकारं कण्ठदेशे तु मकारं हृदये न्यसेत् ९
नकारन्नाभिदेशे तु न्यासं कृत्वा यथाक्रमम्
तदर्धादिसृष्टिरुक्ता पादादिसंहृतिर्भवेत् १०
अङ्गुष्ठादिकनिष्ठान्तं सृष्टिन्यासमुदाहृतम्
कनिष्ठाद्यङ्गुष्ठकान्तं संहारन्यासमुच्यते ११
मध्याद्यनामिकान्तं च स्थितिन्यासमुदाहृतम् १२
इति योगजे क्रियापादे पञ्चाक्षरविधिर्नाम पञ्चदश पटलः