१३

अथातः सम्प्रवक्ष्यामि फलपाकविधिक्रमम्
दूरतश्शिखरं दृष्ट्वा यो नरः प्रणमेच्छिवम् १
मुच्यते सर्वपापेभ्यो निर्मोकादिवपन्नगाः
आरू मुरु विक्रान्त प्रादक्षिण्यशिवालये २
तत्क्लेशान्तशिवामाया भवेत्पापविनाशनम्
जनैस्स्पृष्ट्वा तथा याया द्रुद्र लोके स जीवति ३
उत्सवे बलिकाले तु यो यः कुर्वन्प्रदक्षिणम्
पदे पदे श्वमेधस्य फलं प्राप्नोति मानवः ४
यथाकृत्वा नमस्कारं तथालोके तु पूजयेत्
जलं पुष्पं स्थलं पुष्पं देवमुद्दिश्य निक्षिपेत् ५
नानापुष्पैरलङ्कृत्य नानाभोगं समश्नुते
आरामन्देवदेवस्य यो नरः कृतवान्भुवि ६
एवं स धनवान्श्रीमानिहलोके सुपूजितः
तं योगं श्रोत्रिये वेदपारगे –७
गोशृङ्गेनाथकन्देवं क्षीरेण स्नाप्य
कपिला पञ्चगव्येन कुशवारियुतेन च ८
स्नापयेद्देवदेवेशं कोटिदानफलं समम्
नवधास्नापनं कुर्वन्यो नरो भक्तिसम्युतः १०
नानाभोगानि भुजित्वा शिवलोके महीयते
नवमार्गेऽपि यत्कर्म भोगोऽपि नवधा भवेत् ११
नवधा हविषं कृत्वा फलन्तद्गुरुलाघवम्
धूपघण्टान्तु यो दद्यादभ्रे नी भूतिशिष्यते १२
वस्त्राण्याभरणादीनि देवदेवस्य दापयेत्
नानावस्त्रैश्च सम्पूर्ण नानाचाभरणैस्तथा १३
अजितस्त्विह लोके तु तच्छक्तिभिर्विशेषतः
भूमीं गोकर्णमात्रान्तु उमापाये चलात्मकम् १४
ग्रामाणामधिपस्सोपि विशेषात्पूजितस्त्विह
देवदेवस्य मभितः प्रश्नव्यामे कुरूत्भवेत् १५
दीपन्तु देवदेवस्य सकृत्काले प्रदापयेत्
तस्मादतिशयं स्वर्गन्तत्फलं महदाप्नुयात् १६
तत्समन्नक्षते येन सप्तजन्मानयिष्यति
इति काशैललोहैश्च साधनं कुरुते नरः १७
काञ्चनेन विमानेन शिवलोके महीयते
संसिद्धेन विमानेन स्थापितं विधिमार्गतः १८
शिवलोकमवाप्नोति पूज्यमानस्सचामरैः
शिवलिङ्गे कृते पश्चात्फलं सामीप्यमाप्नुयात् १९
यद्रू पं स्थापितं बिम्बं तद्रू पोऽथ भविष्यति
शिवयज्ञे समाप्ते तु प्रयुक्तायमथार्चने २०
एकविंशद्गुरूणां च तथास्यैव च वंशिनाम्
दशपूर्वं समिच्छन्ति समासनदशापरात् २१
मातृपक्षे प्रसूतीनां तल्लोके स्थानमिष्यते
शुश्रूषकाणान्तरा पुत्रभ्रातृकळत्रकैः २२
शिवलोके तु वासस्यात्सर्वदेवपति प्रति
ततो हुत्वा तु विपुलान्प्रळये समुपस्थिते २३
ध्यानयोगं समासाद्य तत्रैव च विमुच्यते
प्राकारमण्टपान्कुर्वन्तथा स्वर्गमवाप्नुयात् २४
वापीकूपतटाकानि देवायोद्दिश्य यत्नतः
कुर्वन्बहुविधानस्य सोन्ते शिवमवाप्नुयात् २५
तत्रापि भूतये चैव तस्य स्वर्गन्नसंशयः
आसनासनि सत्भावं ज्ञात्वा सम्पूजयच्छिवम् २६
सालोकञ्चैव सामीप्यं सारूप्यं चैव एव हि
सायुज्यं हि चतुर्थं स्यादुत्तमम्मध्यमाधमम् २७
मध्ये स्तम्भचतुष्केन धर्मज्ञानादि दैवतम्
बाह्ये द्वादशस्तम्भानां द्वादशादित्य दैवतम् २८
बाह्यानां विंशतीनां च स्तम्भानां वसवोश्विनौ
विद्येश्वरं च विश्वौ च विश्वस्तम्भस्य देवताः २९
दर्भमालाभिरावेष्ट्य पुष्पमालयैरलङ्कृतम्
तरङ्गपटमावेष्ट्य स्तम्भानां चपि वेष्टितम् ३०
वितानैरूर्ध्वमाछाद्य नेत्रपट्टैरलङ्कृतम्
नाळिकेरफलैः पुष्पै मुक्तादामैरलङ्कृतम् ३१
अश्वत्थ रक्तपर्णैश्च अपूपैरुपशोभितम्
गन्धपुष्पसमायुक्तं धूपदीपैरलङ्कृतम् ३२
गोमयालेपनं कृत्वा प्रोक्षयेद्भूतलं प्रति
अङ्कुराण्यर्चयेत्पूर्वं पूर्वनृत्तं यथाक्रमम् ३३
एवन्तु मण्टपं प्रोक्तं नृत्तकालं श्रुणुष्वहि
नित्यस्नाने समानृत्तं अर्चनान्तन्तथैव च ३४
क्षीरस्नाने घृतस्नाने मधुस्नाने जलेऽपि वा
अन्यपुण्यदिने वापि यत्तन्नृत्तं समाचरेत् ३५
नृत्तस्य प्रथमात्पूर्वे नारीणान्दीक्षणं कुरु
गान्धर्वप्रथमारम्भे दीक्षितप्रथमावहि ३६
नर्तको मर्दकश्चैव गायको वंशकस्तथा
मौकेवा रुद्र नारीणां शिवदीक्षां करोति हि ३७
सर्वलक्षणसम्युक्तं सर्वाभरणभूषितम्
एभिस्तु लक्षणैर्युक्तं शुद्धन्नृत्तं समाचरेत् ३८
हीनाङ्गोनधिकाङ्गश्च बालवृद्धौ तथैव च
सरोगी विकटाङ्गश्च क्षयकुष्ठादि वर्जितः ३९
अपेयपानी पाषण्डी वामाचारान्निवर्जयेत्
इत्येवं लक्षणैयुक्ता पुंसामपि विवर्जयेत् ४०
अङ्गाल्याय समायुक्तं हस्ताल्प्याय समन्वितम्
अभिध्याय समायुक्तं ताळवित्ताळसम्युतम् ४१
सर्वालङ्कारसंयुक्तं शुद्धनृत्तं सगेयकम्
एतल्लक्षणसम्युक्तं गान्धर्वं समुदाहृतम् ४२
न दीक्षितेन यो नृत्तं दोषमेवं प्रकीर्तितम्
तद्दोषशमनार्थाय स्नपनं पञ्चविंशतिः ४३
लिङ्गे वा कौतुके वापि गन्धपुष्पादिनार्चयेत्
शुद्धनृत्तदिनात्पूर्वं निशायामधिवासयेत् ४४
मण्टपस्योत्तरे देशे स्थण्डिलं शालिभिः कुरु
शयनं कल्पयेत्तत्र अजातीनि प्रकल्पयेत् ४५
तन्मध्ये रुद्र नारीणां मामेष्ट्याहत वस्त्रतः
शाययेत्कौतुकं बध्वा स्वर्णसूत्रन्तु सूत्रयेत् ४६
नर्तको मर्दकश्चैव गायको वंशकस्तथा
मौनको वाद्यकश्चैव निशायामधिवासयेत् ४७
स्थण्डिलन्तत्र कुर्वीत चतुद्रो र्णै!श्च शालिभिः
तदर्धतण्डुलैश्चैव तदर्धैश्च तिलैरपि ४८
नवभिः कलशान्स्थाप्य नवशक्तिसमन्वितान्
सकूर्चान्सापिधानांश्च सवस्त्रैः पल्लवैर्युतम् ४९
गन्धपुष्पादिनाभ्यर्च्य धूपदीपसमन्वितम्
प्रातःकाले समुद्धृत्य शौचाचमनपूर्वकम् ५०
दन्तशुद्धिसमायुक्तं स्नानं कुर्याद्विशेषतः
नवभिः कलशैः स्नाप्य दीक्षामन्त्रमनुस्मरन् ५१
गन्धपुष्पादिनाभ्यर्च्य वस्त्रमाभरणन्ददेत्
हृदयेन तु मन्त्रेण पुष्पं शिरसि विन्यसेत् ५२
हस्ते पुष्पं विनिक्षिप्य पुष्पं च पतिते यथा
तन्नामं वाचयेन्नित्यं रुद्र नारी यथाक्रमम् ५३
पश्चात्प्रदक्षिणं कुर्यादालयन्तु प्रवेशयेत्
विघ्नेशं च नमस्कृत्वा फलपुष्पहविर्ददेत् ५४
गङ्गां सरस्वतीं चैव श्रीदेवीं च समर्चयेत्
गन्धपुष्पहविर्दत्वा ताम्बूलं च प्रदापयेत् ५५
मध्याह्ने पायसानान्तु रुद्र नार्यस्सुशोभनम्
ततः प्रकरणन्नारीणां प्रविशेन्मण्टपं प्रति ५६
ईशानादि समारभ्य वास्तुदेवान्सुपूजयेत्
सायङ्काले बलिन्दद्यान्मण्टपस्यापि देवता ५७
मण्टपस्य तु तन्मध्ये स्थण्डिलं शालिभिः कुरु
तन्मध्ये मुखं स्थाप्य गन्धपुष्पादिभिर्यजेत् ५८
आच्छाद्याहतवस्त्रेण हविष्यन्तु प्रदापयेत्
नन्दिकेश्वरमभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ५९
प्रथममात्मशुद्धिश्च द्वितीयं कारुशोधनम्
तृतीयं वंशताळाख्यं ॐकारं गणमुदाहृतम् ६०
चतुर्थं गानशुद्धिश्च पञ्चमम्मुरवाद्यकम्
षष्ठकं वाद्यकैर्युक्तं सप्तमं पुष्पमोक्षकम् ६१
अष्टमं मणिबन्धं च नवमं रम्भां च भावनम्
दशमन्नृत्तसम्पूर्णमित्येते नृत्तलक्षणम् ६२
देवस्य दक्षिणे भागे देशिकस्सुखमास्थितः
देवस्य उत्तरे देशे नृत्तस्य सुतिमास्थितौ ६३
देवस्य पश्चिमे भागे परिचारकसुस्थितः
नर्तको मर्दकश्चैव दक्षिणेन तु संस्थितौ ६४
गायको वंशकश्चैव उत्तरेण तु संस्थितौ
उभयोः पार्श्वयोश्चैव रुद्र कार्यस्तु संस्थिताः ६५
मृदङ्गादिमहाशब्दं पूर्वायान्दिशिसंस्थितम्
अन्ये भक्तजनाश्चैव तद्बाह्येन तु संस्थितः ६६
नीराजनं पूर्ववत्कृत्वा स्तोत्रमङ्गळवाचकैः
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुळीयकैः ६७
नर्तकं मर्दकं पूज्य शुद्धहेमन्तु निष्ककम्
गायकं वंशकं पूज्य वस्त्रहेमाङ्गुळीयकैः ६८
तन्मर्दको रवैश्चैव युग्मवस्त्रं प्रदापयेत्
एतेषामन्यजातीनां ताम्बूलं च निवेदयेत् ६९
गेयाद्वाद्यसमुत्पत्तिर्वाद्यात्ताळसमुद्भवम्
ताळान्नृत्तं समुत्पन्नं इत्येवमुद्भवं स्मृतम् ७०
रङ्गे तु वर्तते नृत्तं हस्ताकृतेश्च निर्णयम्
चक्षुर्भ्यां भावयेद्भावं पादन्ताळसमाश्रयम् ७१
शिरोहस्तकटीषु जठरं पार्श्वसम्युतम्
अङ्गप्रत्यङ्गसम्युक्तं षडैते नृत्तलक्षणम् ७२
लयताळसमायोगे चारुनृत्तं प्रकल्पयेत्
गेये हीने ह्यनावृष्टिर्वाद्यहीने धनक्षयम् ७३
नृत्तहीने तु दारिद्र य्न्ताळहीने भयङ्करम्
बिन्दुनादस्वरैः पूर्णे वेष्टिते नाभिमूलकम् ७४
हृदयं वापि तन्मुक्तिर्गळैर्दन्तैश्च जिह्वया
शुक्लश्रोणितयोर्मध्ये बिन्दुरूपं परात्परम् ७५
सरिगमपदनिसा सप्तस्वरमिति प्रोक्तं सकळे तु विधिक्रमम्
षड्जषड्भागगान्धारं मध्यमं पञ्चदैवतम् ७६
निषादन्निष्कळं चैव गान्धारं सकलस्य तु
निष्कळस्य –माधारस्सकळं भवेत् ७७
सकळं शक्तिरूपस्यान्निष्कळं जीवरूपकम्
स्वरस्य प्राणमाधारं प्राणवायुसमं भवेत् ७८
पद्मनाळन्ततो वायु पूतिकारेण सम्युतम्
यथाकाशस्तथा वायुस्तत्प्रमाणं स्वरं भवेत् ७९
स्वकारणं प्राणमित्याहुरकारञ्चानलन्तथा
द्वयोरक्षरयोर्योगं स्वरस्य उपलभ्यते ८०
अकारादिविसर्गान्तं बीजान्तं षोडशाक्षरम्
व्यञ्जना सादिकादिञ्च विस्तारं श्रुतिरेव च ८१
करणं कम्पितञ्चैव खकारोलळितन्तथा
इत्येकता हिता लोको चतुर्थं मराळमुच्यते ८२
सप्तस्वरत्रयोग्राम एकविंशतिकूजया
अक्षराणान्निभं कृत्वा वर्णगानि निगाचका ८३
स्वामिनं श्रुतिकारं च सप्तस्वरविभूषितम्
सौग्रामे वर्तमानं च शुद्धषाडिव सम्युतम् ८४
एतेषां लक्षणैर्युक्तं वंशकानां विशेषतः
अष्टमेवगुरुं पूर्वं मध्यमं लघुषोडशम् ८५
परोपि द्वात्रिंशद्बिन्दुकार्यक्षिप्ततिकाच्चयः
ध्रुवं का अपि सर्पाण्यानिष्यं बद्धापि सज्जनम् ८६
इति ख्याति पताकाश्च पतिता चाष्टमेव च
तक्करागस्य पञ्चम्या मिळा माळदकौशिकम् ८७
गान्धारं च मथा कुम्भमित्येते रागषड्विधम्
उत्सवानां परिचारी मदचारिं गजारिका ८८
महाचारिक इत्येते चतुर्धा नामतः स्मृताः
ध्रुवाक्षिपलकञ्चैव वर्धमानत्रयन्तथा ८९
मण्डलं कुण्डितञ्चैव विके पेक्षितमेव च
आवेष्टितो वेष्टितं च उर्वेष्टितन्तु मेव च ९०
--स्तपादन्दण्डपादं पुष्पमञ्जलिमेव च
भ्रमरी रसवारी च करणं चाङ्गहारिका ९१
सप्रकारी रसञ्चैकटकं कुण्डलमेव च
सात्विक दृष्टिसम्युक्तं शुद्धनृत्तं विधीयते ९२
भूतप्रेतपिशाचैश्च असुरो गणराक्षसः
नृत्ताक्षिप्ति बहुश्शब्दश्श्रोत्रं गच्छेज्जयावहम् ९३
गानश्रोत्रगतञ्चैव सहगच्छति बार्हता
लोकशान्तिकरं ह्येवं राजराष्ट्रविवर्धनम् ९४
स्थानवृद्धिं च मेवोक्तं धनधान्य विवर्धनम्
अथवक्रमधनं वप्र भङ्गपिङ्गळ जटामकुटम् ९५
पीतं गङ्गबगङ्गां बुजानार्थ विधनमार्द्र चर्मधारम्
त्रिदशदेवासुरगणवन्दितचरणं प्रणदयाङ्कुरणं सर्व ९६
लोकशरणार्ति विनाशनं वैद्यनाथशरणनृत्तक्षिप्तं सितवृषगतिम् ।
सितभस्मधरं सितगङ्गाजलधौत जटम् ९७

सित शशि भाग कृतोत्तरणं सित खड्गं चाङ्गीकृतचन्द्र धराय नमस्ते ।
मण्टपञ्चप्रवेशिकैः ९८
देवस्याग्रे विशेषेण मण्टपञ्चतुरश्रकम्
तस्मिन्गात्रलवे सुबालां वै बहुविन्यसेत्
पाणिना क्षाळनं कृत्वा पुष्पाञ्जलि समुद्र या ९९
नीरोगास्ससहानृत्तै नृत्ताक्षिप्ति समन्वितम्
वर्तभ्रमरपक्षविप्रं प्रभाणैस्सम्महोखरसम् १००
मन्दं जलिरेषरङ्गैसिद्धिं व्रतं च या मेक चतुर्विधम्
म्मुखं स्यात्कुञ्चितौ मणिबन्धौ च हस्ताद्यात्परि वर्जितौ ।
अर्धं चोर्ध्वनि वाद्यैश्च वर्तनं कमलं भवेत् ।
मधुमत भ्रमरी गीतखैपरभूत गळोयमसद्यावनेत्र युग्मनसा ।
व्रतगन्धवनं पते प्रविशति वनमिव सुकरणी प्रोवेशिकैः ।
लीलाविलासिनी चितया करुणं लोला वलोलन वन्ये बिम्बं कमला कुरु द्र पवने शुकोक्ते रपिनं प्रवेशति मनागते ध्रुवैः ॥
मन्दारपुष्प परिपूर्ण विचित्रगन्धैः
मुक्ताळिवृन्द मधुरध्वनि गीतियुक्तैः ।
नानाभरणकरणाञ्चित दृष्टि पातैः
पुष्पाञ्जलिं हरतु कमलासनस्थः १०५
पुष्पाञ्जलिः ॥
जय गङ्गाधर जय शशि शेखर जय खट्वाङ्गधर ॥
जय नरशिरः कपालमालाधर जयत्रिपुरान्तक
जयत्रिभुवनवनवन्दित चरण जयसित परवृष
गमन जय जय व्याधिविनाशन देव वैद्यनाथ
चरण नैक्रमाणां गङ्गाधर शुद्धकमलाकर
कमल चयनिलये कमलासन सहिते कमलवन्दित सितासित नयने शतवाद्य निरतै
गुणागुणनिलये सुखन्दित निमिते वन्दितया
करणे देवी सरस्वती वरगुण वरणो जयगणपति
सहिते विभतवननिव वर्गानतळैरनारागणमज्वालिते
रहामनेनळिः तत्र करले शशिनं भवोल्लळिते प्रावेशिकैः ।
पवनशिथिलिगिलितते भ्रमरगणे
मिथुनगीतखे कोत्र खकोकिल मुखकळिते
प्रविशति परमिव सुरकिरणी नृत्ताक्षिप्त
मनमुदित मधुरविकल भ्रममुदित किन्नभीतखे
विरहामर मन्दरगमनागते प्रविशति गजपति
गिरिशेखरे श्रलैः पुन्नागचन्दन सरोरुह वल्लिजालैः मर्त्ताळिता योगवकुळोत्पल कर्णिकारैः ।
नानाविचित्रकरणान्वित दृष्टि पातैः पुष्पाञ्जलिं हरतु मे कमलासनस्थः ॥ पुष्पाञ्जलिः ११५
सरथ विकृतगदूरधीर पटन शिरोलोकपालधरम्
बद्धकन्दर्पविनाशकरं प्रणमत भैरवरूपम् ११६
नैष्क्रामणं पञ्चशुद्धिं देवन्दिव्यकपालं त्रिशूल
धरं जकङ्काळमाभरणं शशाङ्कशेखरमुपाध्याय
रूपधरं वासुकि फणामणि भैरवरूपं रुद्र मेकाक्षरम् गुरुं देवं त्रैलोक्य वन्दित नमोस्तु ते ११८
प्रावीश्च शकै गुरुं जमळाञ्जन भस्मकरं विषधर
दर्पविनाशकरम् तदवधि नाशकरम्मरण विनाशन धरणि तरम् । प्रणमत केशव पुनीतहरम्
नृत्ताक्षिप्ति माला सुरेषु मधुदर्पहरगोवर्धनं क्षिप्त
जनोद्धरणं दृष्टवासरस्य सितभस्मकरम् त्रैलोक्य
नाथ महं शिरसा धूपैः तत्पुष्पपङ्कज सरोरुह
पङ्कजातैः मत्त भ्रमद्भ्रमर कर्णिक कृत्तिकारैः ॥
सादृष्टियोग परिमण्डल दृष्टिपातैः पुष्पाञ्जलिं
हरतु मे कमलासनस्थः ॥ पुष्पाञ्जलिः ॥
मत्स्यकूर्मवराहनारसिंह भ्रुकुटितममकुटिकम्
समहासुरदेव विनाश देव दानव त्रिपुरहरमाक्षिप्त
जल भवनहुताशन दिव्यं शाङ्करकुक्षिकरम् । अजरं
परमानन्दपरमं विष्णुजयं पवनम् नैष्कामिकरं
तर्करागं अर्धशशाङ्क धराय नमो दिव्यगजेन्द्र
पटाय नमो नागकृताभरणाय नमो १२५
देव्युमासहिताय नमो प्रवेशिकैः भस्मवरनिमित
वियतकुनिकर वियतकुनिकर भ्रमणमथन
गीतरवेण तन्मन्दमावेशति वरमिव सुरकरहिवनमुदित मथरविकुळित पवनशिथिलित तरुणतरुवाते अळिपुळितेक निवनर चरणगते गगनं
गगनं प्रविशति परकिरणी पवते ध्रुवैः
प्रोत्फुल्लकर्णिकुसुमादिविशेषगन्धैः भृङ्गारवैर्वकुळिते कृतवन्दनाद्यैः हस्तापि तत्र परिपूर्ण
सुदृष्टिपातैः पुष्पाञ्जलिं हरतु मे कमलासनस्थः ॥ पुष्पाञ्जलिः
भुजगेन्द्रा खकर लळित । ध्वकृत
मधनं परवृषगमनं यदिप्रिय दहनम्मृगपति १३०
कृतवसन शशिखण्डमण्डित जटा मकुटार्धं वासुदेव ।
कृतपति चरणं पूजामिथुन वरवदन देविगुरुसततम् १३१
नैष्क्रामणं कौशिकशुद्धिं दिवसकरसम्पुरुषो शिशु चिरचिरत पितनज गम्भीरतर सहित विदिबेरम् १३२
पशुपति पानचरणो हतहरं प्रवेशिकैः
मलय सुगन्धारमाणवने भ्रमरदळभिधवर्णेनाहधे १३३
ये मदशन शाहतिखान्नरमाणो प्रवित्री करणी -रयै
नृत्ताक्षिप्तिः कमलसुरमण्डमकुटच्छत चरण कमलयुगे १३४
षीमुनि सिद्धवर सुरसेविता चरणं भुवनत्रयमहिते
सिद्धान्तमन्देवता द्योते वलये हरचरणसंस्तुते १३५
योगिनमित योगित निमित नमो हॄ वै चित्र्यादिके
कृत सरोरुह पारिजातै दिव्याळिबृन्दपरिपङ्कज १३६
रेत सूक्तं हस्तावियोग परिवर्तनदृष्टिपातैः
पुष्पाञ्जलिं हरतु मे कमलासनस्थः । पुष्पाञ्जलिः १३७
मत्स्यकूर्मवराहश्च नारसिंह भ्रुकुटीतटमकुटक ।
समहासुर देवविनाशन्दानदा त्रिपुरहतमाक्षिप्त १३८
जल भवनहुताशि दिव्यशाक कुक्षिरं परमानिन्दितपरमं ।
विजयं पवनं नैष्क्रामि करं तर्करागं अर्धनारि १३९
शशाङ्क धराय नमो दिव्य गजेन्द्र पाय नमो नागकृताभरणाय नमो देव्युमासहिताय नमो प्रवेशिकैः १४०
शिखर परि शिखरकृत निलयं गीतमयापि श्रुते प्रणमत
केशवरदुरित हरदानव गजत्रिपुरं हरं नृत्ताक्षिप्तिः १४१
मय सम्मृगपति सुरसि वमळे विकसित तरुवर
प्रहसतचरणं पङ्कज वकुळप्रियमरहारमदान्ध १४२
गते प्रविशति जगपतिवर्जिवनेद्ध्रुवैः
सावरिजाकोकोत्पल कीर्ति नीलैर्विशेषमधुमाळि १४३
बृन्दशोभैः आलीलमण्डलसरोरुहदृष्टिपातैः
पुष्पाञ्जलिं हरतु मे कमलासनस्थः पुष्पाञ्जलिः १४४
एकरूपविरूपमनेकाकार पञ्चस्थानमणिके शूद्र
वर्तिका वन्दित चरण मजमत्स्य बहु मगकरादि दानवा१४५
र्चितं वादशम्भो यागमयं प्रणमतेस्मिन्शिवरूपम्
ऋषिकुलसकलकरण्डं चिन्ताबेरवरदं नैष्क्रामणम् १४६
उत्थापनैः आवेशिन्तु आक्षिप्य परीवर्तकेना नन्दितस्य श्रुवायोगं रङ्गद्वारि च सञ्चारि च पुष्पमोक्ष १४७
महाचारी शशैकमणात्
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् १४८
प्रातः काले दिनान्ते च गेयनृत्तविहीनके
मध्याह्ने अर्चना काले द्विगुणन्नृत्तमाचरेत् १४९
द्विसन्धिन्नृत्तहीने तु सायङ्कालार्चनान्तकम्
नृत्तगेयं समारभ्य नृत्तगेयं समाचरेत् १५०
एकाहन्नृत्तहीने तु स्नपनं पञ्चविंशति
शान्तिहोमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा १५१
प्रभूतहविषन्दत्वा ताम्बूलं च प्रदापयेत्
द्वियहं त्र्यहं वापि चतुर्थं पञ्चकन्तथा १५२