अथ वक्ष्ये विशेषेण मण्डलानां स्वरूपकम्
मण्टपस्य चतुर्भागमेकभागन्तु वेदिका १
तालमात्रसमुत्सेधन्दर्पणोदरसम्युतम्
पञ्चतालप्रमाणेन मध्ये मण्डलमालिखेत् २
अष्टाष्टपदमालिख्य बाह्यकोष्ठचतुष्टयम्
पद्मपीठं समालिख्य श्वेतं रक्तं च कृष्णकम् ३
पीतं श्यामं च सर्वेषां पद्ममालिख्य बुद्धिमान्
पद्मपीठस्य बाह्ये तु श्वेतवीथीं च कारयेत् ४
इदं रक्तं च वीथिं च रक्तश्यामं च कृष्णकम्
पीतञ्चैव तथान्यायञ्चतुर्द्वाराणि कल्पयेत् ५
द्वारार्धं मारकं कुर्यात्कण्ठोपकण्ठमुच्यते
कपोलं कपोलकं कुर्याद्ब्रह्मस्थानाद्बहिष्वथ ६
त्र्या दळेन वृद्धिस्स्यात्त्र्यङ्गुलादर्धचन्द्र कम्
त्र्यङ्गुलं पद्ममेवं स्यात्त्र्यङ्गुलं चैव स्वस्तिकम् ७
त्रयाङ्गुलं च श्रीवत्सं पादमानं चतुरंश्रकम्
श्वेतं रक्तं तथा पीतं कृष्णं श्यामन्तथान्यसेत् ८
पदं प्रति विपरीतं सर्वतो भद्र मिष्यते
शालिपिष्टेन श्वेतं च सिन्दूरं रक्तधातुकम् ९
हारिद्रं पीतचूर्णं स्यात्कृष्णं श्यामं च पञ्चकम्
दग्धली –कृष्ण हिंस्यात्पादं प्रति कृतं प्रति १०
सर्वेषु मण्डलं लिख्य क्रमात्तद्विपरीतकम्
एवं तु सर्वतो भद्रं लतालिङ्गोद्भवं श्रुणु ११
अष्टाष्टपदकं कृत्वा मध्ये पद्मं चतुष्पदम्
दळाष्टौ पञ्चवर्णेन लेखयेत्तु विशेषतः १२
पद्मं चतुरश्रविस्तारं कौशिकांशेन भाजयेत्
व्योमांशे कर्णिकां कुर्यात्पक्षांशेनैव केसरम् १३
शेषञ्च दळमारन्तु कर्णिकाधर्ममानतः
पद्मबाह्यांशकार्धे तु श्वेतवर्णेन वीथिकम् १४
वीथी समं चतुर्द्वारं शोभाद्वारसमाश्रितम्
तत्समाने कपोलन्तु शोभातुल्योपशोभितम् १५
ईशानादिषु चतुर्दिक्षु रक्तपिङ्गळश्वेतकम्
कृष्णचूर्णमिति प्रोक्तं कपोलात्तु विशेषतः १६
इन्द्रा दिसोमपर्यन्तं चतुर्दिग्लिङ्गकल्पितम्
इन्द्रा दिसोमपर्यन्तमष्टाविंशत्पदं भवेत् १७
लिङ्गार्थं कल्पयेद्धीमान्यथा सङ्ख्या पदं भवेत्
पीतवर्णं तथा कृष्णं श्वेतपीतं प्रकल्पयेत् १८
मध्ये रक्तसमायुक्तं पञ्चवर्णं प्रकल्पयेत्
कोणे कोणे चतुर्थन्तु विपरीतन्तु पूर्णयेत् १९
लतालिङ्गोद्भवं ह्येवं आचार्यमनसा कुरु
आचार्यमनोभवं वक्ष्ये श्रुणुष्वेकाग्रमानस २०
भूमिं समतलं कृत्वा दर्पणोदरसन्निभम्
प्रागग्रन्दशसूत्रन्तु उदगग्रन्तथैव च २१
मध्ये नवपदं पद्मं दळाष्टकेसरैर्युतम्
चतुर्दिक्षु नव भागं स्यात्प्रासादं कारयेद्बुधः २२
षड्वर्गकोशसम्युक्तं नासिकाद्यैरलङ्कृतम्
अष्टभागं समं कृत्वा प्रासादं पूर्ववत्प्रति २३
बन्धं पादबन्धं वा अष्टाने परिलिङ्गकृत्
लिङ्गपीठसमायुक्तं पादवर्ग –र्थ भागकम् २४
कोणे स्वस्तिकमित्युक्तं नवभागं विशेषतः
पञ्चचूर्णं पञ्चमुखं पुरुषादिविशेषतः २५
तन्मुखाभन्तु प्रासादं क्रमेणैव तु विन्यसेत्
वामादिशक्तयश्चाष्टौ परितः परिविन्यसेत् २६
पञ्चावरणमार्गेण पूजयेदर्चनां क्रमात्
षष्ट्याधिकं च त्रिशतैः परितो मण्डलं लिखेत् २७
एकैकं विपरीतं च पञ्चवर्णेन कल्पयेत्
कदळीफलमाम्रं फलं पनसं खण्डशर्करा २८
मण्डलं प्रतिविन्यस्य गन्धपुष्पादिनार्चयेत्
निष्कं वापि तदर्धं वा तदर्धार्धमथापि वा २९
कुर्यादुत्पलपुष्पन्तु मण्डलं प्रति विन्यसेत्
शतनिष्कादि एकान्तं यथालाभे तु पर्वतम् ३०
मण्डलात्पूर्वदिक्भागे स्वर्णपर्वतमिष्यते
वाचके रजताद्रि स्तु दक्षिणे ताम्म्रपर्वतम् ३१
राक्षसे रक्तकन्न्यस्य शालाद्रिं पश्चिमे न्यसेत्
-———-वायौ लवणपर्वतम् ३२
सोमे च सर्षपाद्रि न्तु शाङ्करे च तिलाद्रि कम्
एवमुक्तानि सर्वाणि प्रत्येकं भारमेव वा ३३
यथालाभं प्रकर्तव्यं पर्वतं च पृथक्पृथक्
पञ्चब्रह्मषडङ्गैश्च जयादिं होमयेद्बुधः ३४
गन्धपुष्पादिभिः पूज्य स्वनामेनैव मन्त्रवित्
मण्डले चोत्तरे भागे स्थण्डिलं शालिभिः कुरु ३५
तन्मध्ये रक्तवस्त्रन्तु शयनं कल्पयेद्बुधः
नेत्रबन्धन्ततः कुर्यान्नववस्त्रेण वेष्टयेत् ३६
कौतुकं बन्धयेत्तत्र स्त्रीणां द्विनयनं कुरु
रात्रिहोमं तु कर्तव्यम् सर्वदेव हविर्ददेत् ३७
--द्विगुणन्देवस्य सर्वोपचारकं कुरु
प्रभाते विमले तत्र नेत्रबन्धं विसर्जयेत् ३८
स्वर्णपुष्पं समारोप्य तन्नामन्तु प्रदापयेत्
स्नपनं कारयेद्देवे पञ्चाशत्पञ्चविंशतिः ३९
अष्टोत्तरशतं वापि देवदेवे हविर्ददेत्
स्वर्णमङ्गळसूत्रन्तु नववस्त्रन्तु दापयेत् ४०
प्रभूतहविषन्दत्त्वा देवदेवं प्रसादयेत्
सर्वदेवान्समभ्यर्च्य मण्डलं प्रतिदर्शयेत् ४१
यागोपकरणं सर्वमाचार्याय प्रदापयेत्
घृतक्षीराभिषेकैश्च नाळिकेरन्तु दापयेत् ४२
उमया स्कन्दसहितं प्रभूतं हविषन्ददेत्
ताम्बूलन्दापयेत्तत्र भक्तानां परिचारकैः ४३
यथा शक्त्यर्चनन्तत्र भक्तानां परिचारकैः
भूसुरान्भोजयेत्तत्र —रिकं ददेत् ४४
आचार्य ————शिवमन्त्रोपदेशं च आचार्यं पूजयेत्ततः ४५
आचार्यस्त्वग्रतो गच्छेत्स्वगृहं प्रविशेत्ततः ४६
इति योगजे क्रियापादे मण्डलविधिर्नाम द्वादशः पटलः