१०

आरब्धस्य क्रियाकाले दोषमुत्पद्यते तथा
उत्सवस्य विशेषेण प्रायश्चित्तं विधीयते १
छिन्नं भिन्नं च पतितं चोरग्रस्तादि सम्भवे
ध्वजस्य ध्वजदण्डस्य पटस्य च विशेषतः २
कृत्वा तत्पूर्ववत्सर्वं पुनरुत्थापनं कुरु
हृदयेन शतं हुत्वा स्नपनं पञ्चगव्यकैः ३
यागकालविहीनेन मूलमन्त्रशतं जपेत्
होमद्र व्यविहीने तु हृदयेन शताहुतिः ४
प्रतिमा पतने चैव —न्वति त्रिभिः
कृत्वा तु स्नपनन्तत्र मूलमन्त्रेण हूयते ५
प्रमादाछिन्नभिन्नानां स्कन्धानां पूर्ववत्क्रमात्
तिथिवारमुहूर्तानां कालपेक्षान्नकारयेत् ६
अधिवासनानि सर्वाणि सद्य एव तथाचरेत्
प्रतिदिक्कर्म सर्वेषां पूर्ववत्कारयेद्बुधः ७
कलहे रुधिरस्रावे अग्निदग्धे तथैव च
यागगृहे मण्टपे च तस्कराश्च रजस्वला ८
सूतका मृतिकास्पर्शदर्शने तु विशेषतः
पूर्वभाण्डान्विसृज्याथ नवभाण्डानि कल्पयेत् ९
शान्तिहोमन्ततः कृत्वा पञ्चगव्येन प्रोक्षयेत्
उत्सवादीनि कर्माणि एकाहं सुविहीनके १०
पूर्ववत्तु ध्वजारोहं पुनरुत्सवमाचरेत्
रुद्र कन्याश्च दास्यश्च भक्ताश्च वाद्यगेयकाः ११
पतिते व्याधि पीडे च मूत्रादिरुधिरस्रवैः
क्रियाकाले सम्भवश्चेत्पञ्चगव्येन प्रोक्षयेत् १२
पुण्याहं वाचयेत्तत्र अस्य नारी क्रियाभवेत्
वाद्यताळक्रियाकाले तत्काले छिन्नभिन्नकम् १३
पुनर्वाद्यं समारोप्य पवमानमुदीरयन् १४
इति योगजे क्रियापादे उत्सवप्रायश्चित्तविधिर्नाम दशमः पटलः