अथ वक्ष्ये विशेषेण शिवोत्सव विधिक्रमम्
सर्वदोषनिवृत्यर्थं सर्वलोकसुखावहम् १
सर्वदेवप्रियार्थं स्यात्सर्वप्राणि सुखावहम्
राज्ञो विजयवृद्ध्यर्थं सर्वरक्षार्थ साधनम् २
उत्सवन्नवधा प्रोक्तं पुष्कळं विजयान्वितम्
त्सव इत्युच्यते सृष्टिरुद्विद्याच्छब्दभाषितम् ३
उत्सवं सृष्टिकारित्वात् उत्सवः कथितः क्रमात्
प्रतिष्ठोत्सवविधिश्चैव मासोत्सवविधिः परम् ४
अमावास्यां समारभ्य मासोत्सवन्तथैव च
वसन्तोत्सव विधिश्चैव पुष्ये पुष्योत्सवन्तथा ५
चैन्नमासे त्रयोदश्यां मासर्क्षं रविचन्द्र योः
वैशाखे तु विशाखान्तं वसन्तोत्सवमेव च ६
यजमानदिने चैव राजजन्मदिनेऽपि वा
सर्वमासेषु कर्तव्यं महोत्सवविधिक्रमम् ७
प्रातःकालेह्यवभृतं सार्वकाले समारभेत्
निश्चित्य मासनक्षत्रे अतिथिम्मुरसन्तथा ८
षोडशस्सर्वरक्षार्थं पैतृकं द्वादशन्तथा
सौख्यं च नवकं प्रोक्तं सप्ताहं श्रीकरं भवेत् ९
पार्थिवं पञ्चविधनं त्रियहं सात्विकन्तथा
एकाहं शिवमेवोक्तं उत्सवं कारयेद्बुधः १०
सम्पूज्य देवदेवेशं अनुज्ञाप्योत्सवं कुरु
सप्तविंशति नक्षत्रे ध्वजारोहणपूर्वकम् ११
भेरीमादौ समारभ्य अष्टाविंशद्दिनं भवेत्
अङ्कुरार्पणपूर्वं हि पश्चाद्ध्वजं समर्चयेत् १२
तद्दिनात्पूर्वरात्रौ तु वृषयागं समाचरेत्
प्रतिष्ठादिक्रमेणैव कार्पाससितमेव च १३
द्वादशं दशहस्तं वा नवहस्तमथापि वा
ध्वजपटं पञ्चभागं स्याच्छिखरं हस्तमेव च १४
हस्तार्थं पुच्छमेवोक्तं द्वित्रिहस्तं च पृष्ठकम्
तत्पटं पञ्चधा भज्य मध्यभागे वृषं लिखेत् १५
तदूर्ध्वे अस्त्रदेवं स्यात्तदूर्ध्वे छत्रचामरम्
पार्श्वे तु दीप —-मङ्कुरमेव च १६
धूपपात्रन्तथा प्रोक्तं पूर्णकुम्भैरलङ्कृतम्
श्वेतं रक्तं तथा पुष्पं सर्वालङ्कारमेव च १७
वृषभं श्वेतवर्णाभं सर्वसिद्ध्यै प्रकारयेत्
कामार्थं रक्तवर्णेन आभिचारे कृष्णवर्णकम् १८
स्थितं वा शयनं चैव वृषभन्तु लिखेद्बुधः
शृङ्गौ च रक्तवर्णेन वालं पीतेन शोभितम् १९
नेत्रन्तु कृष्णवर्णं च रक्तनीलेन मिश्रितम्
सर्वाभरणसम्युक्तं सर्वपुष्पैरलङ्कृतम् २०
शिवाग्रे मण्टपं कुर्यात् गोमया लेपनन्तथा
दर्भमालां समावेष्ट्य मुकासृग्दामलम्बितम् २१
तन्मध्ये स्थण्डिलं कृत्वा न्निद्रा कुम्भन्तु स्थापयेत्
अभितोष्टौ घटांश्चैव स्थापयेत्पूर्ववत्क्रमात् २२
तन्मध्ये वृषमावाह्य स्वर्णपुष्पसमन्वितम्
परितोष्टौ घटान्न्यस्त्वा स्वस्वबीजेन विन्यसेत् २३
उक्षश्च गोपतिश्चैव शङ्कुकर्णस्तथैव च
तीक्ष्णशृङ्गस्तथा नन्दी वृषाणी च पशुस्तथा २४
महोदराक्षमश्चैव स्वस्वनाम्ना प्रपूजयेत्
वृषगायत्रिमन्त्रेण वृषकुम्भेन्यसेत्क्रमात् २५
तदग्रे स्थण्डिलं कुर्यात् सितैश्च सिकतैस्तथा
चतुरश्रं समं कुर्यात् हस्तमात्रेण देशिकः २६
प्राक्सूत्रन्तु त्रिसूत्रं स्यादुदक्सूत्रन्तथैव च
ब्रह्मजज्ञानमन्त्रेण मध्यरेखां समालिखेत् २७
नाकेसुपर्णमन्त्रेण दक्षिणे तु लिखेद्बुधः
आप्यायस्वेति मन्त्रेण उत्तरेण समालिखेत् २८
यो रुद्रे तु मन्त्रेण उदक्सूत्रन्तथैव च
इदं विष्ण्विति मन्त्रेण पूर्वरेखा समन्वितम् २९
इन्द्रं विश्वेति मन्त्रेण पश्चिमे वै समालिखेत्
शिवाम्भसा तु सम्प्रोक्ष्य कूर्चं प्रादेशमात्रकम् ३०
वागीश्वरं च वागीशीं आवाह्य पूजयेत्क्रमात्
तन्मध्ये वह्निकं स्थाप्य होमं कुर्याद्विचक्षणः ३१
पूर्ववद्वह्निसंस्कारं पूजयेद्वृषभन्तथा
ब्रह्मणं पूर्वतोऽभ्यर्च्य उत्तरे विष्णुमेव च ३२
दक्षिणे रुद्र मभ्यर्च्य अनन्तं पश्चिमे यजेत्
परिस्तरेत्तु दर्भैश्च पूर्वादीनि परिस्तरेत् ३३
प्रोक्षणी मूर्ध्वतस्स्थाप्याथ प्रणीतपात्रकम्
आज्यस्थालीं ततः कुर्याच्चरुस्थालीन्तु स्थापयेत् ३४
प्रणीतां प्रोक्षणीं चैव आज्यस्थालीन्त्वधोमुखम्
स्रुक्स्रुवम्मुत्तरे स्थाप्य अधोमुखन्तु धारयेत् ३५
प्रादेशमात्रसमिधो परिधित्रयमेव च
समिदाचार्यपूर्वे तु विष्टरेण समन्वितम् ३६
इन्धनन्तत्र कुर्वीत अग्निं प्रज्वालयेत्क्रमात्
आहुति त्रितयं कुर्याद्व्याहृतिं जुहुयात्क्रमात् ३७
पञ्चब्रह्मषडङ्गेन जुहुयाच्चैकमासुधीः
वृषगायत्रिमन्त्रेण सर्षपं कवचेन तु ३८
आढकं मुद्गमाषं च शालीनां जुहुयात्क्रमात्
शिखामन्त्रेण जुहुयात्प्रत्येकन्तु शताहुतीः ३९
जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिं च शिरसा अग्निबीजमनुस्मरन् ४०
होमान्ते वृषकन्तस्याद्वृषकुम्भन्तु मूर्तिनाम्
तदन्ते भेरि देवं स्यात्स्थण्डिलोपरि विन्यसेत् ४१
ब्रह्माविष्णुश्च रुद्र श्च अधिदेवाः प्रकीर्तिताः
गन्धं पुष्पं च धूपं च दीपञ्चैव निवेद्यकम् ४२
अर्चयित्वा भेरिदेवानाचार्यो ताडयेत्क्रमात्
ब्रह्मजज्ञानमन्त्रेण प्रथमन्ताडयेत्तथा ४३
इदं विष्ण्विति मन्त्रेण द्वितीयन्ताडयेत्क्रमात्
त्र्यम्बकेन मन्त्रेण तृतीयन्ताडयेत्क्रमात् ४४
आहूय वाद्यकं पश्चात् शुद्धपारशिवन्तथा
अङ्गपूर्णसमायुक्तं शक्त्या सहितमेव च ४५
शक्तिहीनं विना कुर्या वर्जयेत्तु विचक्षणः
नन्दिकेश्वरमावाह्य वाद्यकान्हृदि सम्पुटम् ४६
यजनं धूपदीपं स्यात्पुष्पं हस्ते विधापयेत्
तत्पुष्पं विन्यसेद्भेरीन्नमस्कृत्वा तु वाद्यकम् ४७
सप्तताळविधानेन प्रोक्तमाचार्य शिष्यकम्
अस्त्रदेवं समभ्यर्च्य मध्यपत्रे तु रुद्र कम् ४८
ब्रह्माणन्दक्षिणे पत्रे वामपत्रे जनार्दनम्
गौरीं मध्यममूले तु सरस्वतीन्दक्षिणे तथा ४९
लक्ष्मीं च वामपार्श्वे च तन्मूले तु प्रपूजयेत्
गणेशं पालिका मध्ये स्कन्दन्दण्डाग्र एव च ५०
अनन्तादिशिखण्ड्यन्तं पालिकोपरि विन्यसेत्
क्षेत्रपालं तथेशान्यां दण्डमध्ये तु शास्त्रकम् ५१
चन्द्र सूर्यान्तनक्षत्रं दण्डे चैव तु पूजयेत्
चण्डेशन्दक्षिणे मूले सर्वदेवेषु सङ्ग्रहेत् ५२
सर्वदेवतमावाह्य अस्त्रेणैव समाचरेत्
धूपदीपसमायुक्तं सर्वदेवनिवेद्यकम् ५३
अस्त्रदेवमन्नलिङ्गं च बलिपात्रन्तथैव च
प्रतिमा चन्द्र धारं च वृषध्वज सहैव च ५४
ग्रामप्रदक्षिणं कुर्यात्सन्धिदेवान्समर्चयेत्
दिनदेवतमावाह्य पीठाग्रेवा ध्वजाग्रके ५५
प्रथमं विघ्नरात्रं स्यात्पैशाचन्तु द्वितीयकम्
तृतीयं ब्रह्मरात्रं स्याद्गन्धर्वन्तु चतुर्थकम् ५६
पञ्चमं भूतरात्रं स्यात्षष्टमं गुहरात्रकम्
सप्तमं ऋषिरात्रं स्यादष्टमन्नागरात्रकम् ५७
नवमं चेन्द्र रात्रं स्याद्दशमं विष्णुरात्रकम्
एकादशं रुद्र रात्रं द्वादशं शिवरात्रकम् ५८
गणरात्रन्त्रयोदश्यां चतुर्दश्यान्तु राक्षसम्
पञ्चदशं शास्तृरात्रं शक्तिरात्रन्तु षोडशम् ५९
विघ्नादिशिवपर्यन्तं पैतृकोत्सवमेव च
विघ्नादि चेन्द्र पर्यन्तं सौख्यमुत्सवमेव च ६०
विघ्नादि ऋषिरात्रान्तं तृतीयं राजसं भवेत्
विघ्नादि भूतपर्यन्तं पार्थिवोत्सवमेव च ६१
विघ्नादि ब्रह्मपर्यन्तं पार्थिवोत्सवमेव च
विघ्नादि ब्रह्मपर्यन्तं सात्विकोत्सवमेव च ६२
प्रथमं गणरात्रन्तु अपूपन्तिलचूर्णकम्
शुद्धान्नं तु निवेद्यं स्यात् विघ्नरात्रबलिं क्षिपेत् ६३
शुद्धान्नं कृसरान्नं च माषयुक्तन्दधिप्लुतम्
द्वितीयेऽहनि दातव्यम् पैशाचं मन्त्रमुच्चरन् ६४
शुद्धान्नं बृहती सर्पि दधिक्षीरन्तु मिश्रकम्
तृतीये हनि दातव्यम् ब्रह्ममन्त्रमनुस्मरन् ६५
कृसरान्नं लड्डुकं सर्पि कदळी गुळसम्युतम्
चतुर्थेऽहनि दातव्यम् गान्धर्वं मन्त्रमुच्चरन् ६६
मुद्गान्नं गुळसंयुक्तं मधुक्षीरघृतन्तथा
पञ्चमेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् ६७
पायसान्नं घृतं चैव कदळीगुळसम्युतम्
षष्टमेऽहनि दातव्यम् स्कन्दमन्त्रमुदीरयन् ६८
शुद्धान्नं घृतसंयुक्तं बृहतीफलमेव च
सप्तमेऽहनि दातव्यं ऋषीणां मन्त्रमुच्चरन् ६९
शुद्धान्नं मुद्गसंयुक्तं गुळघृतसमायुतम्
अष्टमेऽहनि दातव्यं नागमन्त्रमनुस्मरन् ७०
शुद्धान्नं घृतक्षीरं च पनसाम्म्रफलन्तथा
नवमेऽहनि दातव्यं इन्द्र मन्त्रमनुस्मरन् ७१
शुद्धान्नं दधिसंयुक्तं गुळखण्डसमन्वितम्
कदळी पनसञ्चाम्र नाळिकेरसमन्वितम् ७२
दशमेऽहनि दातव्यं विष्णुमन्त्रमनुस्मरन्
माषान्नं घृतसम्युक्तं क्षीरेण गुळखण्डकम् ७३
एकादश बलिं कुर्याद्रुद्र मन्त्रमनुस्मरन्
शुद्धान्नं दधिसंयुक्तं बृहती मूलसम्युतम् ७४
द्वादशेऽहनि दातव्यं शिवमन्त्रमनुस्मरन्
कृसरान्नं गुळं सर्पिर्मधुक्षीरं फलन्तथा ७५
त्रयोदशेऽह्नि दातव्यं गणानां मन्त्रमुच्चरन्
माषान्नं मांससंयुक्तं गुळक्षीरं घृतन्तथा ७६
चतुर्दशेऽह्नि दातव्यम् राक्षसं मन्त्रमुच्चरन्
पायसं घृतसम्युक्तं गुळखण्डसमन्वितम् ७७
पञ्चदशेऽह्नि दातव्यं शस्त्रमन्त्रमनुस्मरन्
शुद्धान्नं लश-सर्पिः कदळीकारवल्लिका ७८
वल्लीमूलन्तथा गन्धम् गुळक्षीरघृतन्तथा
षोडशेऽहनि दातव्यं शक्तिमन्त्रमनुस्मरन् ७९
दिनदेवतमावाह्य नित्यमेव बलिं क्रमात्
ब्रह्मादीशानपर्यन्तम् लोकपालबलिं क्षिपेत् ८०
शुद्धान्नं घृतसंयुक्तं घृतक्षीरविमिश्रकम्
तत्तत्स्वनाममन्त्रेण लोकपालबलिं क्षिपेत् ८१
पश्चिमद्वारहर्म्ये तु वास्तुभूतबलिं क्रमात्
ब्रह्मादि नृत्तपर्यन्तं वरुणादि प्रदक्षिणम् ८२
एतद्बलिक्रमं कुर्यान्नित्यमेव बलिं क्षिपेत्
तद्वारे बलिनिक्षिप्य वृषभं तत्र पश्चिमम् ८३
ज्येष्ठादि विघ्नपर्यन्तं स्वस्वनामबलिं क्षिपेत्
दिनदेवतमावाह्य पीठाग्रे वा बलिं क्षिपेत् ८४
तद्वारे तु महालक्ष्मी गोस्थाने तु सरस्वती
कूपे चैव महामोटी तन्मन्त्रेण बलिं क्षिपेत् ८५
ईशाने सुन्दरी चैव देवी कोष्ठे बलिं क्षिपेत्
लिङ्गे चैवाथवा पीठे अन्नलिङ्गं विसर्जयेत् ८६
जले तीरे च तं कुर्यात्सर्जयेदन्नलिङ्गकम्
आवाहनं बलिं कुर्यादुद्वाहनबलिं क्षिपेत् ८७
द्वात्रिंशेन बलिं कुर्यात्षोडशन्दिनमेव च
चतुर्विंशद्बलिं कुर्याद्द्वादशन्दिनमेव च ८८
अष्टादशबलिं कुर्यात्सौख्यस्येवं विधीयते
मनुना कौशिकं चैव एकाहन्तु बलिक्रमम् ८९
बलिसङ्ख्या इति प्रोक्तं उत्सवस्य विधिं श्रुणु
उत्सवं कारयेद्धीमान् पुष्यनक्षत्रमेव च ९०
प्रतिष्ठाद्युत्सवहीने च यथेष्टम्मासि वा नयेत्
राजजन्मन्नि नक्षत्रे सुखप्रीतिकराय च ९१
यद्वारे तु महापीठ प्रासादश्चोर्ध्व एव च
व्यापी लिङ्गवती चैव यजेदुत्सवमेव च ९२
प्रतिष्ठाशिखरे हीने उत्सवं वर्जयेद्बुधः
अङ्गोपाङ्गन्तु प्रत्यङ्गपरिवारसमन्वितम् ९३
प्रासादद्वारपीठानां अङ्गमेवमिहोच्यते
हीने तूत्सवहीने च वर्जयेत्तु विचक्षणः ९४
प्रारध्वमुत्सवे हीने यथेष्टमासिवानयेत्
आगतं सहसो कृत्वा पश्चादुत्सवमाचरेत् ९५
पूर्वोत्सव विहीने च यथेष्टमासिवानयेत्
जात न –काले नष्टे पुनरुत्सवमाचरेत् ९६
प्रायश्चितविधिं कुर्याच्छान्तिहोमं समाचरेत्
मासनक्षत्रतीर्थान्तमाव्रतम्मुत्सवं परम् ९७
ग्रामनक्षत्रतीर्थान्तं प्रतिष्ठानक्षत्रमेव च
राजजन्मनि नक्षत्रे यजमान वराद्बुधः ९८
चन्द्र नक्षत्रमित्युक्तं सौरसावनतीर्थकम्
सर्वमासेषु कर्तव्यं
तत्काले तीर्थमारभ्य क्रमं सम्भवति ध्रुवम् ९९
गुरुशुक्रास्तमने तन्मासमुत्तमं कुरु
प्रतिष्ठां वर्जयेत्तत्र उत्सवं कारयेद्बुधः १००
चन्द्र नक्षत्रमित्युक्तं सौरसावनतीर्थकम्
सर्वमासेषु कर्तव्यं उत्सवं कारयेत्क्रमात् १०१
नित्यन्नैमित्तिकं काम्यं उत्सवं त्रिविधं भवेत्
नित्यन्नित्योत्सवं कुर्यान्नैमित्तिकं विशेषतः १०२
यथेष्टं काम्यमित्युक्तमुत्सवं त्रिविधं भवेत्
नित्योत्सवन्ततः कुर्यान्नैमित्तिकमथोत्सवम् १०३
इष्टमासेषु काम्यार्थमुत्सवं कारयेद्बुधः
नित्योत्सवं विना यत्र महोत्सवं विसर्जयेत् १०४
ध्वजं संवाहयित्वा तु वर्जयेत्तु विचक्षणः
यजमानेच्छया कुर्याद्यथेष्टमासि वानयेत् १०५
ध्वजे ध्वजन्नकर्तव्यं कर्तव्यं वृषभध्वजम्
उत्सवत्थोत्सवं कुर्याद्विष्टशैवोत्सवो द्विज १०६
विष्णुकल्याणमेवोक्तं शिवाङ्गन्तु समाचरेत्
शिवाङ्गन्तत्र कुर्वीत विष्णुयागं विनाचरेत् १०७
देवानामपि कल्याणे नृकल्याणन्नकारयेत्
ग्रामे च नगरे चैव पत्तने राजधानिके १०८
सर्वदेवोत्सवं कुर्यादेकस्मिन्नेव वास्तुनि
हरि पृष्ठं सुशान्तं स्याद्ध्वरपृष्ठन्तु शोभितम् १०९
सर्वदेवोत्सवं कुर्यादेकवास्तु बलिक्रमम्
उत्सवं कारयेद्धीमान् सर्वमासे तु पुष्यकम् ११०
माघान्तं माघमासे तु फल्गुन्यामुत्तरान्तकम्
शुक्लपक्षे तृतीये तु रोहिण्यन्तं विशेषतः १११
पूर्णे तु मासनक्षत्रे समुद्र स्नानमुत्तमम्
पूर्वाषाढान्तपक्षे तु अश्विन्याश्विजमासके ११२
कार्तिके कृत्तिकान्तं वा आद्रा र्न्तंमार्गशीर्षकम्
सर्वमासेषु कर्तव्यमाद्रा र्न्त!मुत्सवं परम् ११३
विफलं चान्द्र मासे तु सौरमासं प्रशस्तकम्
सर्वोत्सवमेनापि सौरसङ्ख्येनमेव च ११४
आरम्भं त्रिविधन्तेषां केतुरोहणपूर्वकम्
भेरी ताडनपूर्वं च अङ्कुरार्पणपूर्वकम् ११५
अङ्कुरं वृषयागन्तु वृषभन्तु प्रतिष्ठितम्
उत्सवाङ्कुरादीनि तु मे तु माधं –द्र के व तु ११६
समुद्र स्नानमन्त्रीर्थाङ्कुरन्त्रितीयते यत्
सर्वेषामुत्तमं कुर्यादङ्कुरं त्रिविधं भवेत् ११७
नयनमोक्षणं चैव जलाधिवासनन्तथा
आचार्यश्शिल्पिहस्तेन नयनोन्मीलनन्तथा ११८
शालितण्डुलमध्ये च वृषभं स्थाप्यमेव च
अष्टदिक्षु विशेषेण उक्षादिकलशान्न्यसेत् ११९
पुण्याहं वाचयेत्तत्र होमं कुर्याद्विशेषतः
हेमसूचिप्रहारन्तु सुमुहूर्ते तु कारयेत् १२०
मधुसर्पिषी तथा कुर्यान्नयनोन्मीलने तथा
धूपदीपन्तथाकृत्वा धान्यदर्शनकन्नयेत् १२१
दर्पणे अभिषेकन्तु मुद्गान्नन्तु निवेदयेत्
शिल्पिनं च विसृज्याथ गोमयालेपनं कुरु १२२
मण्डलं समलङ्कृत्य मध्ये स्थण्डिलमेव च
नळिनं च लिखेन्न्यस्य तन्मध्ये वृषकुम्भकम् १२३
अभितः कलशानष्टौ उक्षादीनि क्रमान्न्यसेत्
हेमं —इर्वां च स्थण्डिलन्तत्र कारयेत् १२४
होमान्ते नयनोन्मीलम्मधुसर्पिभिर्लोचनं स्पृशेत्
दर्शनं सर्वद्र व्याणां अभिषेकं च दर्पणे १२५
दर्पणे जलाधिवासं च प्रतिष्ठां कारयेद्बुधः
शिवाग्रे मण्टपं कुर्याद्गोमयालेपनन्तथा १२६
मण्टपे स्थण्डिलं कुर्यादष्टद्रो णैश्च शालिभिः
तन्मध्ये स्थण्डिलं कृत्वा स्थापयेद्वृषभध्वजम् १२७
कौतुकं बन्धयेद्धीमान् स्वर्णेन रजतेन वा
अथवा कार्पाससूत्रेण बन्धयेद्वृषशृङ्गके १२८
पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात्
त्रियम्बकेन मन्त्रेण रक्षासूत्रन्तु बन्धयेत् १२९
शयनं स्थण्डिले कुर्यात्तदग्रे वृषकुम्भके
अभितः कलशानष्टौ उक्षादीनि क्रमान्न्यसेत् १३०
तदग्रे वह्निकं स्थाप्य होमं च पूर्ववत्कुरु
तदग्रे भेरि देवं स्यात् स्थण्डिलं तत्र कारयेत् १३१
पश्चिमे अस्त्रदेवस्य शालिभिस्स्थण्डिलं क्रमात्
लाजपुष्पैरलङ्कृत्य दर्भमालासमन्वितम् १३२
अग्निकार्योक्तमार्गेण होमं कृत्वा विचक्षणः
प्रोक्षणी प्रणीतकं पात्रमाज्यस्थालीन्तु विन्यसेत् १३३
उत्तरे आसनं कल्प्य अधोमुखन्तु साधयेत्
प्रोक्षणी पात्रमादाय तोयं कुशाक्षतैर्युतम् १३४
प्रादेशकूर्चसहितम् त्रिभिरुत्प्लवनन्तथा
आज्यस्थालीं प्रणीतां च ऊर्ध्वमुखं पात्रमेव च १३५
प्रोक्षयेत्तु कुशाग्रेण प्रोक्षण्याश्च जलन्तथा
प्रणीतायां जलं पूर्य कुशपुष्पाक्षतैर्युतम् १३६
जनार्दनं समावाह्य उत्तरे स्थाप्यमेव च
दक्षिणे चैव ब्रह्माणं कूर्चपुष्पाक्षतैर्युतम् १३७
प्रादेशकूर्चसहितम् त्रिस्पर्शनं जलस्य च
अग्नि संस्कारमेवन्तु आज्यसंस्कारमेव च १३८
आज्यस्थाल्यां घृतं पूर्य प्रादेशिकपवित्रकम्
त्रिवारोत्प्लवनं कृत्वा विसृज्याग्नौ निधाय च १३९
दर्भाग्नेः प्रदक्षिणं कृत्वा आज्यसंस्कारमेव च
समिदाज्य चरूल्लाजान्माषशालि यवां तथा १४०
तिलसर्षपमुद्गानि गुळखण्डेकादश स्मृतम्
परिस्तराणां परिधि विष्टरत्रयमेव च १४१
तदूर्ध्वे समिधो कृत्वा परिषेचनमाचरेत्
समिधस्सद्यमन्त्रेण आज्यं वामेन हूयते १४२
अघोरेण चरुं हुत्वा लाजन्तत्पुरुषेण च
तिलमीशानमन्त्रेण सर्षपं कवचेन तु १४३
मुद्गमाषयवांश्चैव शिवमन्त्रेण हूयते
वृषमूलं च गायत्रीं शतमष्टोत्तरं शतम् १४४
द्र व्यान्ते व्याहृतिं हुत्वा स्विष्टमग्नेति मन्त्रतः
जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत् १४५
पूर्णाहुतिं च शिरसा अग्निबीजमनुस्मरन्
ताम्बूलं दापयेत्पश्चा मूर्तिं वृषभकुम्भके १४६
मन्त्रन्यासन्ततः कुर्याद्वृषमूलेन मन्त्रतः
भेरीघोषन्ततः कुर्यादावाहनमथोच्यते १४७
आहूयवाद्यकान्पश्चा शुद्धां च पारशैवकान्
दीक्षितैश्चैव सर्वैश्च आचार्यो ताडयेत्क्रमात् १४८
नववस्त्रोत्तरीयं च यज्ञोपवीतमेव च
सर्वाभरणसम्युक्तं सर्वपुष्पैरलङ्कृतम् १४९
पुष्पाञ्जलि समायुक्तं भेरीघोषसमन्वितम्
ताडयेन्नवताळन्तु आचार्यश्शिष्य एव च १५०
अस्त्रदेवन्तु सम्पूज्य देवतावाहनं चरेत्
शिवादि चण्डपर्यन्तमावाहनविधिं कुरु १५१
हविर्निवेदयेद्धीमान्सर्वदेवन्निवेदयेत्
बलिपात्रसमायुक्तमन्नलिङ्गास्त्रमेव च १५२
ध्वजं चण्डेश्वरं चैव ग्रामप्रदक्षिणन्तथा
अन्येषकं समादाय ध्वजपटं बन्धयेत्क्रमात् १५३
सन्धिदेवतमावाह्य दिनदेवसमन्वितम्
अन्तर्बलिक्रमं पूर्वं यागान्ते वा बलिं क्षिपेत् १५४
सर्वमभ्यर्चयेद्धीमान्पश्चाद्वास्तु बलिं क्षिपेत्
मन्त्रपीठं समादाय रत्नजं लोहजन्तथा १५५
अथवा दारुपीठं स्यात्तालमात्रप्रमाणतः
अथवा कदली पत्रे वास्तुदेवबलिं क्षिपेत् १५६
ग्रामप्रदक्षिणं कृत्वा महापीठबलिं क्षिपेत्
ध्वजपटं स्थालिका चैव दण्डमूले सुसंस्थितम् १५७
दण्डलक्षणमेवोक्तं दारुजं वाथ कारयेत्
असनं खदिरं चैव बिल्वं चम्पकमेव च १५८
देवदारुकसम्युक्तं व्याघ्रवृक्षसमन्वितम्
मधूकार्जुनकं चैव कृष्णवृक्षसमन्वितम् १५९
मुनिवृक्षसमायुक्तं क्रमुकं वेणुदण्डकम्
वक्रं भिन्नं च सुषिरं क्रमिकोटरवर्जितम् १६०
-——————–-———————-१६१
तद्ग्रीवस्य समं वापि गोपुरस्य समन्तु वा
त्रिस्त्रिंशद्धस्तमेवोक्तं पञ्चविंशतिहस्तकम् १६२
अथवा हस्तमेवोक्तं दण्डायामं विधीयते
क्षीरवृक्षन्तु सङ्ग्राह्य यष्टिं कृत्वा विचक्षणः १६३
चतुर्हस्तप्रमाणेन त्रितायन्तु समं कृतम्
अग्न्यङ्गुळायनं प्रोक्तं –चर्शाकारमेव च १६४
द्वयसुषिरसमायुक्तं अर्धचन्द्र मथापि वा
उपदण्ड प्रमाणेन वेणुदण्डं विधीयते १६५
नवतालोत्तमं कुर्यात्सप्ततालन्तु मध्यमम्
षट्तालं पञ्चतालं वा कन्यसं पददण्डकम् १६६
यष्टिबन्धसमायुक्तं दर्भमालासमन्वितम्
अयसावलयं चापि बन्धयेदुपदण्डके १६७
कार्पाससूत्ररज्जुं वा लयद्विगुणमेव च
कनिष्ठाङ्गुळपरीणाहन्दष्टमूलमथाश्रितम् १६८
भूमिं सम्प्रोक्षणं कृत्वा खानयेत्पृथिवीन्ततः
त्रिहस्तन्तु प्रमाणेन द्विहस्तं खानयेत्क्रमात् १६९
दण्डस्य स्थापनं कुर्याच्छालितण्डुलकूर्मकम्
रत्नजं रजतं चैव कूर्मासनन्तु लोहजम् १७०
पञ्चलोहसमायुक्तं दण्डमूले तु योजयेत्
पुण्याहं वाचयेत्तत्र सुमुहूर्ते विचक्षणः १७१
वेदिलक्षणमेवोक्तं शिलां वाचेष्टिकामयम्
अथवा मूर्तिसङ्ग्राह्य त्रिमण्डलसमन्वितम् १७२
हस्तमानन्तु विस्तारं उत्सेधं हस्तमानकम्
रत्निमात्रसमुत्सेधं मुष्टिमात्रमथापि वा १७३
विस्तारसममुत्सेधं हस्तमानमधोत्तमम्
चतुर्विंशाङ्गुळं हस्तं मात्राङ्गुलेन कारयेत् १७४
वेदिका लक्षणं प्रोक्तन्दण्डमूले विचक्षणः
शिल्पिनं विसृजेद्धीमान् गोमयालेपनन्तथा १७५
कौतुकं बन्धयेत्तत्र दण्डमध्ये सुबन्धकम्
विनायकं पूजयेत्तत्र पुण्याहं वाचयेत्ततः १७६
अयसा वलयं रज्जुं द्विगुणं मूलमाश्रितम्
दर्भमाला समायुक्तं पुष्पमालाभिशोभितम् १७७
ध्वजपटं बन्धयेद्धीमान् किङ्किणीपुष्पशोभितम्
वृषकुम्भन्तु मूर्तिस्स्याद्धूपदीपसमन्वितम् १७८
सुमुहूर्ते चयः कुर्याद्ध्वजारोहणमेव च
स्तोकस्तोकेन संयुक्तं वन्धयेत्तु दृढव्रतः १७९
विपरीतावरोहेण प्रायश्चित्तं विधीयते
शान्तिहोमं ततः कृत्वा पुनस्सन्धानमाचरेत् १८०
सर्वदेवतमावाह्य दण्डमूले तु योजयेत्
लोकपालान्समभ्यर्च्य दिक्तालं बन्धयेत्क्रमात् १८१
नृत्तगीतसमायुक्तं सर्वघोषसमन्वितम्
मुद्गान्नन्तु निवेद्यं स्यात् पयसान्नं निवेदयेत् १८२
नवपिण्डन्ततः कुर्यात् दिग्विदिक्षु क्रमेण तु
गर्भोत्पत्तिसमायुक्तं प्रथमं गव्यदापयेत् १८३
अमङ्गळ्य कन्यका चैव अपस्मारदृढन्तथा
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुळीयकैः १८४
शिवाग्रे मण्टपं कृत्वा गोमयेनानुलेपयेत्
उमा
सहितदेवस्य कौतुकं बन्धयेत्क्रमात् १८५
स्वर्णं वा रजतं वापि अथ कार्पासमेव वा
त्रियकेन मन्त्रेण रक्षाबन्धनकम् स्मृतम् १८६
स्थलिकान्तण्डुले चैव तन्मध्ये तन्तुरक्षकम्
परिचारकहस्तेन प्राकारे तु प्रदक्षिणम् १८७
नववस्त्रसमायुक्तं सर्वदेवसमन्वितम्
सर्वस्याग्रे स्थितं कुर्यात्पुण्याहं वाचयेत्क्रमात् १८८
गन्धपुष्पादिभिः पूज्यमघोरेण तु देशिकः
त्र्यम्बकेन मन्त्रेण रक्षासूत्रं प्रबन्धयेत् १८९
उमासहितमेवोक्तं चन्द्र शेखरमेव च
एकरूपं द्विबेरं वा त्रिबेरं वा विशेषतः १९०
षोडशप्रतिमायां च कौतुकं बन्धयेत्क्रमात्
यागशालान्ततः कुर्यात्कूटं वा मण्टपन्तथा १९१
ऐन्दे च पावके चाथ यमे वा राक्षसेऽपि वा
वायुसोमे तथेशान्यां यागमण्टपमेव च १९२
मण्टपं समलं कृत्वा तन्मध्ये वेदिकां कुरु
रत्निमात्रसमुत्सेधन्दर्पणोदरसन्निभम् १९३
हस्तद्वयसुविस्तारं उपवेदिसमायुतम्
नवाग्निमुत्तमञ्चैव पञ्चाग्निम्मध्यमं भवेत् १९४
एकाग्निमधमं प्रोक्तं वृत्तं वा चतुरश्रकम्
एकाग्निं वाथ कर्तव्यं पूर्वे वा पश्चिमेऽपि वा १९५
यद्वाराभिमुखं लिङ्गं तद्वारकुम्भपूजनम्
तदग्रे चाग्निकुण्डं वा गोमयेनोपलिप्य च १९६
षोडशस्तम्भसम्युक्तं द्वादशस्तम्भमेव च
चतुस्तम्भसमायुक्तं चतुर्द्वारसमन्वितम् १९७
युगतोरणसंयुक्तं दर्भमाला समन्वितम्
गात्रवेष्टनसम्युक्तं वितानध्वजसम्युतम् १९८
वेद्यान्तु स्थण्डिलं कुर्यात् अष्टद्रो णैश्च शालिभिः
तदर्धं तण्डुलं प्रोक्तं तदर्धकतिलैर्युतम् १९९
तन्मध्ये नळिनं लिख्य अष्टपत्रं सकर्णिकम्
मध्ये सदाशिवं कुम्भं वर्धनीं च तथोत्तरे २००
अष्टविद्येश्वराञ्चैव पूर्वादिक्रमतो न्यसेत्
शिवकुम्भं तथोद्धृत्य शिवमन्त्रमनुस्मरन् २०१
शिवशक्तिवर्धनीं पूज्य पराशक्तिसमन्वितम्
अष्टविद्येश्वरानेतान्स्वस्वनामसुमन्त्रकैः २०२
द्वारकुम्भं समारभ्य पूर्वादीशान्तमर्चयेत्
प्राक्भूतकुम्भं तथेकाग्निकुम्भम् दाक्षिण्यवेदन्नैरृत्यकाग्निम् २०३
वारुण्यषट्कं तथाश्विन्य वायौ सोमयुग्मम्
स्यात्त्रिः कुम्भमीशे —–तत्तत्स्वनाममन्त्रेण तत्तत्कुम्भान्समर्चयेत् २०४
सर्वदेवतमावाह्य गन्धपुष्पादिभिर्यजेत्
धूपदीपसमायुक्तं होमं कुर्याद्विचक्षणः २०५
पुण्याहं वाचयित्वा कौतुकं बन्धयेत्क्रमात्
कौतुकम्मग्निकुण्डं च प्रत्येकन्तु विशेषतः २०६
कुण्डसंस्कारमेवोक्तं निर्मलज्वालकन्तथा
अग्निकार्यविधिः प्रोक्तं प्रतिकुण्डन्तु होमयेत् २०७
आचार्यश्शिष्यकैर्युक्तो होमं कुर्याद्विचक्षणः
पलाशोदुम्बरञ्चैव अपामार्गं च प्लक्षकम् २०८
बिल्वं च खादिरञ्चैव न्यग्रोधं वह्निमेव च
वैकङ्कतं च काश्मीरं समिधस्समुदाहृतम् २०९
परिस्तरेण दर्भाणां परिधित्रयमेव च
पूर्वे ऊर्ध्वं समिधो द्वयं विष्टरमेव च २१०
ब्रह्माणं दक्षिणेऽभ्यर्च्य उत्तरे तु जनार्दनम्
परिषेचनन्ततः कुर्यात्प्रोक्षणी पात्रकेन च २११
प्रणीता पात्रमादाय वैष्णवं पूजयेत्क्रमात्
आज्यसंस्कारकञ्चाथ हविस्संस्कारकन्तथा २१२
होमान्ते च बलिं चैव मेखलोपरि विन्यसेत्
तत्तत्स्वनाम मन्त्रेण लोकपालबलिं क्षिपेत्
बहिर्बलिविधिं कुर्यादन्तर्बलिमथाचरेत् २१३
कुण्डपार्श्वे पावकं च अन्तर्बहिबलिं क्षिपेत्
प्रथममष्टनागं च द्वितीयं द्वादशं रविम् २१४
नागादि बलिकं क्षिप्य पूर्णाहुतिमथाचरेत् २१५
अग्निमन्त्रमनुस्मृत्य अन्ते स्वाहेतियोजयेत्
अग्निमूर्तिं समावाह्य कुम्भमध्ये सुयोजयेत् २१६
हविर्निवेदयेत्तत्र सर्वदेवनिवेद्यकम्
होमान्ते भेरिघोषं स्यान्नवताळविधिर्भवेत् २१७
आहूयवाद्यकं पश्चादाचार्यं शिष्यमेव च
यागान्ते भेरिघोषं स्याद्वास्तुभूतबलिं क्षिपेत् २१८
प्रथममन्तर्बलिं कुर्यादि द्वतीयं दिनदेवता
ध्वजादिबलिपीठान्तं बलिभोज्यक्रमं श्रुणु २१९
उमास्कन्देश्वरं देवं ग्रामप्रदक्षिणन्तथा
रथे वा शिबिकायां वा स्थापयेद्देवमेव च २२०
शङ्खघोषसमायुक्तं ब्रह्मघोषसमन्वितम्
सर्ववाद्यसमायुक्तं श्रोत्रमङ्गळवाचकैः २२१
छत्रं च चामरं चैव व्यजनं ध्वजमेव च
धूपदीपसमायुक्तं यन्त्रदीपमनन्तरम् २२२
सर्वभक्तजनानान्तु नृपती ब्रह्ममेव च
आचार्यो दक्षिणे पार्श्वे नृपतिर्वामपार्श्वके २२३
मध्यमे रुद्र कन्यानां गान्धर्वन्तु शिवाग्रके
ग्रामप्रदक्षिणं कुर्यादास्थानमण्टपन्तथा २२४
पाद्यमाचमनीयं चार्घ्यं धूपदीपसमन्वितम्
आरात्रिमर्चयेद्धीमान् भस्मनान्दापयेद्बुधः २२५
दर्पणं चामरं चैव व्यजनं छत्रमेव च
भस्मसन्दापनं कुर्यान्नृपभक्तजनान्वितम् २२६
नाळिकेरसमायुक्तं पनसं कदळीफलम्
निवेदयेत्तदामन्त्री ताम्बूलेन समन्वितम् २२७
तद्दिनन्तु समारभ्य यज्ञं सप्तदिनं भवेत्
तद्दिनात्सप्तदिवसे तैलाभ्यङ्गनकर्मणि २२८
आस्थानमण्टपे कुर्याद्गोमया लेपिते शुभे
स्थण्डिलं तत्र कुर्वीताष्टद्रो णैश्च शालिभिः २२९
तन्मध्ये तैलकं स्थाप्य दूर्वाक्षतसमन्वितम्
पुण्याहं वाचयित्वा तु तैलं शिरोर्पणन्तथा २३०
दूर्वाक्षतसमायुक्तं मूर्ध्नि निक्षेपयेद्बुधः
अस्त्रभेर्यादि संयुक्तं तैलाभ्यञ्जनकन्तथा २३१
स्नपनं कारयित्वा तु पञ्चाचत्पञ्चविंशति
शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् २३२
मुक्ताभरणसम्युक्तं श्वेतचन्दनलेपितम्
बहुनैवेद्यसम्युक्तं उपदंशसमन्वितम् २३३
ताम्बूलं च निवेद्याथ धूपदीपसमन्वितम्
आरात्रिकन्ततो दत्वा भस्मनान्दापयेद्बुधः २३४
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
सायं काले विशेषेण बलिहोमं विनाचरेत् २३५
पश्चाद्धोमबलिं कुर्यादस्त्रदेवसमन्वितम्
अन्नलिङ्गं बलिपात्रं चन्द्र शेखरमेव च २३६
रात्रौ तु वा बलिं कुर्यात्सर्वेषां बलिमाचरेत्
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति २३७
अष्टमे नवमे चैव गन्धोत्सवविधिक्रमम्
तद्दिनत्रितये चापि द्वितीये चाङ्कुरार्पणम् २३८
तद्दिनात्पूर्वरात्रौ तु कौतुकन्तु नटेश्वरे
भुजङ्गलळितं चैव भुजङ्गत्रासमेव च २३९
एतन्नृत्तमिदं प्रोक्तं स्नपनन्तत्र कारयेत्
शिवाग्रे मण्टपं कुर्यादास्थानमण्टपे तथा २४०
गोमयालेपिते शुद्धे स्थण्डिलं तत्र कारयेत्
अष्टद्रो णैश्च शालीनान्तदर्धतण्डुलेन च २४१
तदर्धतिलसम्युक्तन्देवाग्रे स्थण्डिलन्तथा
दर्भैः पुष्पैः परिस्तीर्य लाजपुष्पैश्च शोभितम् २४२
तन्मध्ये च त्रिपाद्यान्तु स्थलिकान्तण्डुलन्तथा
स्वर्णसूत्रं विशेषेण कार्पाससूत्रमेव च २४३
तन्मध्ये तन्तुसंयुक्तं भस्मचन्दनमेव च
लम्बकूर्चसमायुक्तं उपवीतसमन्वितम् २४४
परिचारकमूर्ध्ना च प्राकारस्य प्रदक्षिणम्
शङ्खदुन्दुभिनिर्घोषैः स्तोत्रमङ्गळवाचकैः २४५
देवसन्निधिमानाय्य पुण्याहं वाचयेत्क्रमात्
तदावा अग्निकार्यन्तु स्थण्डिलं सिकतैस्तथा २४६
सूत्रं पूर्वोत्तरेणैव ब्रह्मजज्ञानमन्त्रतः
नाकेसुपर्णमन्त्रेण दक्षिणे सूत्रमेव च २४७
आप्यायस्वेति मन्त्रेण उत्तरे लेखयेत्क्रमात्
यो रुद्रे ति मन्त्रेण पूर्वरेखां समालिखेत् २४८
तन्मध्ये स्थापितं कृत्वा प्रदक्षिणमथाचरेत्
वागीश्वरं च वागीशीं तन्मन्त्रेणार्चयेत्क्रमात् २४९
उत्तरे आसनं कल्प्य प्रणीतां प्रोक्षणीं तथा
आज्यस्थालीं चरुस्थालीं सृक्सृवे साधयेत्क्रमात् २५०
समित्त्रयसमायुक्तं परिधित्रयमेव च
प्रोक्षणीपात्रमादाय जलेन पूरितं क्रमात् २५१
कुशपुष्पाक्षतैर्युक्तां प्रोक्षणीं साधयेत्क्रमात्
प्रणीता पात्रमादाय तोयपुष्पाक्षतैर्युतम् २५२
उत्तरे चैव संस्थाप्य जनार्दनं समर्चयेत्
आज्यस्थाल्यां घृतं पूर्य त्रिस्पर्शनं सकूर्चकम् २५३
कूर्चग्रन्थिं विसृज्याथ अग्निमध्ये स्थितं क्रमात्
आज्यसंस्कारदर्भाणां अग्निं दक्षिणके तथा २५४
व्याहृतिं जुहुयात्तत्र ब्रह्मजज्ञानमन्त्रकैः
परिस्तरणं च दर्भाणां परिधि त्रयमेव च २५५
पूर्वादि विष्टरं कल्प्य समिदाहुतिमाचरेत्
समिधस्सद्यमन्त्रेण आज्यं वामे न हूयते २५६
अघोरेण चरुं हुत्वा लाजन्तत्पुरुषेण तु
तिलमीशान मन्त्रेण सर्षपं कवचेन तु २५७
मुद्गमाषं च शालीनां नाममन्त्रेण हूयते
पयसा गुळखण्डं च शिवमन्त्रेण हूयते २५८
प्रति प्रति तथा कुर्यात्पुनः पुण्याहमाचरेत्
त्र्यम्बकेन मन्त्रेण कौतुकन्तु नटेश्वरे २५९
शक्त्यास्तु वामहस्ते च कौतुकं बन्धयेत्सुधीः
कौतुकमस्त्रदेवानां मृगं वाद्यन्तु कौतुकम् २६०
धूदीपसमायुक्तमारात्त्रिकेन पूजयेत्
सुमुहूर्ते विशेषेण बन्धयेत्कौतुकं हृदा २६१
ब्राह्मणान्भोजयेत्तत्र चतुर्वेदसमन्वितान्
नृत्तगीतं च वाद्यं च पुराणं कथितं क्रमात् २६२
अपूपन्निवेदयेद्धीमान् बहुनैवेद्य सम्युतम्
निवेदयेत्ततो मन्त्री ताम्बूलेन समन्वितम् २६३
धूपदीपसमायुक्तं आरात्रिकेन पूजयेत्
छत्रं च चामरं चैव दर्पणन्दर्शयेत्क्रमात् २६४
भस्मशेषन्तु नृपति भक्तानान्दापयेत्क्रमात्
नववस्त्रैलङ्कृत्य कौतुकं पूर्ववत्क्रमात् २६५
सर्वाभरणसंयुक्तं मुक्ताभरणभूषितम्
श्वेतपुष्पैरलङ्कृत्य श्वेतचन्दनलेपितम् २६६
नीलोत्पलसमं पुष्पं न भूतन्न भविष्यति
स्थण्डिलप्रभसंयुक्तं बिम्बप्रभसमन्वितम् २६७
हर्म प्रदक्षिणं कुर्यादास्थानमण्टपस्थितम्
धूपदीपसमायुक्तन्नीराञ्जनं विशेषतः २६८
भस्मन्तु दापयित्वाथ छत्र चामरदर्शनम्
नृपभक्तजनानां च शेषभस्म च दापयेत् २६९
प्रातःकाले समारभ्य गन्धोत्सवविधिक्रमम्
आचार्यस्नानमेवन्तु प्रतिस्नानं समाचरेत् २६५
चित्रवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम्
देवाग्रे स्थण्डिलं कुर्यादष्टद्रो णैश्च शालिभिः २६६
तन्मध्ये नळिनं लिख्य त्रिपादीन्तत्र विन्यसेत्
स्थालिकां तण्डुलैः पूर्य कृष्णगन्धसमन्वितम् २६७
कस्तूरीञ्चैव कर्पूरं कृष्णगन्धविमिश्रितम्
शङ्खदुन्दुभिनिर्घोषैस्तोत्रमङ्गळवाचकैः २६८
ग्रामप्रदक्षिणं कृत्वा प्रविश्यास्थानमण्टपम्
देवस्य सन्निधिं प्राप्य होमं कृत्वा विशेषतः २६९
पूर्ववद्वह्नि कं स्थाप्य अग्निकार्योक्तमाचरेत्
पुण्याहं वाचयेद्धीमान् होमं कृत्वा विचक्षणः २७०
सर्वगन्धसमायुक्तं कृष्णगन्धप्रदानकम्
होमान्ते कृष्णगन्धेन लेपयेत्तु नटेश्वरम् २७१
शक्तिं शिवसमं प्राप्य सुमुहूर्ते विचक्षणः
ब्राह्मणान्भोजयेत्तत्र स्वस्तिसूक्तसमन्वितान् २७२
अस्त्रदेवे च भेर्यां च सर्वदेवेषु दापयेत्
मूलबेरेषु गन्धं च परिवारसमन्वितम् २७३
यागेश्वराणां देवानां कृष्णगन्धं च दापयेत्
चतुर्वेदजपान्सर्वान्भूसुरान्भोजयेत्क्रमात् २७४
शुद्धनृत्तं विशेषेण गीतवाद्यसमन्वितम्
गेयं च दर्शनं प्राप्य कन्यादर्शनकन्तथा २७५
भेरीन्तु ताडयेत्तत्र आचार्य हस्तकेन च
गन्धद्वारेति मन्त्रेण ताडयेत्तु विशेषतः २७६
आहूय वाद्यकान्पश्चात् गन्धपुष्पन्तु दापयेत्
पुष्पाञ्जलिन्नमस्कृत्वा वाद्यकान्वदयेत्क्रमात् २७७
सप्तताळविधिं प्रोक्तमाचार्यश्शिष्यकैस्सह
नन्दिमन्त्रं समुच्चार्य मृदवाद्यन्तु ताडयेत् २७८
आचार्यस्ताडयेत्पूर्वं वाद्यकास्ताडयेत्क्रमात्
झर्झरी मुरवञ्चैव पटहं मद्दळन्तथा २७९
सर्ववाद्य समायुक्तमहाघोषसमन्वितम्
एवं सप्तविधं कुर्यान्महानाट्य समन्वितम् २८०
देवदेवन्नमस्कृत्वा पाद्याचमनमेव च
धूपदीपसमायुक्तन्नीराजनं विशेषतः २८१
भस्मं च दापयित्वाथ दर्पणन्दापयेत्क्रमात्
छत्रं च चामरं चैव व्यजनन्तु क्रमात्सुधीः २८२
शेषगन्धसमायुक्तं भूपतिश्च विशेषतः
सर्वभक्तजनानां च सर्वेषां गन्धमेव च २८३
महाहविर्निवेद्यं स्यात्ताम्बूलेन समन्वितम्
धूपदीपसमायुक्तमारात्रिकं च दापयेत् २८४
सर्वपुष्पैरलङ्कृत्य सर्वघोषसमन्वितम्
शङ्खनादसमायुक्तन्दुन्दुभिमद्दळान्वितम् २८५
पुष्पप्रभासमायुक्तं चित्रप्रभासमन्वितम्
रथे वा शिबिकायां वा चित्रदीपसमन्वितम् २८६
सप्तग्रहन्ततः कुर्यात्प्रविश्यास्थानमण्टपम्
पाद्यमाचमनम् चार्घ्यं धूपदीपसमन्वितम् २८७
नीराजनन्ततः कुर्याद्भस्मन्तु दापयेत्क्रमात्
नाळिकेरसमायुक्तं कदलीपनसन्तथा २८८
ताम्बूलन्दापयित्वा च दर्पणन्दर्शयेत्क्रमात्
छत्रं च चामरञ्चैव गीतवाद्यसमन्वितम् २८९
स्नपनं कारयित्वा च पश्चाच्च पञ्चविंशतिम्
स्नपनं च यथोक्तेन पूर्ववत्परिकल्पयेत् २९०
तालचूर्णं शक्रच्चूर्णं उदकं ग्राह्यबुद्धिमान्
अभिषेकन्तत्र कुर्वीत स्नपनं च यथाक्रमम् २९१
पुण्याहं वाचयेत्तत्र वेदध्वनि समायुतम्
शुक्लवस्त्रपरीधानं श्वेतमाल्यविभूषितम् २९२
श्वेतचन्दनसंयुक्तं कर्पूरेण विमिश्रितम्
श्वेतयज्ञोपवीतं च श्वेतवस्त्रोत्तरीयकम् २९३
हविर्निवेदयेद्धीमान्ताम्बूलेन समन्वितम्
शिबिकायान्ततः कृत्वा प्राकारे तु प्रदक्षिणम् २९४
शिवाग्रे मण्टपं कुर्याद्विशेषस्नानमण्टपम्
धूपदीपसमायुक्तमारात्रिकेन सम्युतम् २९५
पैशाचनृत्तसम्युक्तं महानाटकसम्युतम्
प्रातःकालं समारभ्य चित्रवस्त्रेण वेष्टितम् २९६
सर्वाभरणसंयुक्तं सर्वमाल्यविभूषितम्
सर्वमङ्गळवाद्यैश्च शङ्खकाहळमेव च २९७
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
आस्थानमण्टपे स्थाप्य धूपदीपसमन्वितम् २९८
आरात्रिकसमायुक्तं भस्मदत्त्वा विशेषतः
दर्पणं चामरं छत्रं व्यजनन्दर्शयेत्क्रमात् २९९
शेषभस्मततो दद्याद्भूपतेश्च विशेषतः
सर्वभक्तजनानां च भस्मदद्याद्यथाक्रमम् ३००
नाळिकेरसमायुक्तं पनसकदळीयुतम्
स्नानं कृत्वा यथान्यायं महाहविर्निवेदयेत् ३०१
मृगयात्रां समारभ्य पूर्वरात्राधिवासनम्
त्रिपुरघ्नं पृथक्कुर्यात्कल्याणसुन्दरन्तथा ३०२
वाजियन्त्रन्तदन्ते तु गच्छयन्त्रं गजस्तथा
दारुकैर्हन्यदच्छाया केचित्काले शिवोत्सवे ३०३
केचित्खड्गधराश्चैव केचित्परशुधरा तथा
परिघं यस्तथा सर्वे बहुधा धनशस्तथा ३०४
युद्धारम्भे तथासर्वे शीघ्रं गच्छेत्समाकुलम्
मृगपक्षिवराहश्च मयूरः कुक्कुटस्तथा ३०५
सर्वालङ्कारसम्युक्त वनयात्रासमन्वितम्
हेलालीलासकथितं गच्छेद्भक्तजनैर्युतम् ३०६
गौरी चण्डीशविद्येश महाकाळवृषास्तथा
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति ३०७
प्रदोषकालसमये तीर्थाधिवासनन्तथा
शिवाग्रे मण्टपं कुर्यादष्टद्रो णैश्च शालिभिः ३०८
तन्मध्ये नळिनं कृत्वा त्रिपादीन्तत्र विन्यसेत्
स्थलिकान्तण्डुलैः पूर्य तन्मध्ये कौतुकं हृदा ३०९
उमास्कन्देश्वरं चैव अस्त्रदेवसमन्वितम्
भेरीदेवं समभ्यर्च्य चण्डेश प्रतिमान्तथा ३१०
कौतुकं बन्धयेद्धीमान् उमास्कन्देश्वरन्तथा
पुण्याहं पूर्ववत्कृत्वा कौतुकं बन्धयेद्धृदा ३११
त्र्यम्बकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत्
अस्त्रस्य कौतुकं कुर्याद्भेरी कौतुकबन्धनम् ३१२
नदीतटाक समुद्रे ण अस्त्रतीर्थसमन्वितम्
सर्वदेवतमाह्वानं सप्ततीर्थसमन्वितम् ३१३
स्थण्डिले तत्र कुर्वीत स्नपनन्नवकुम्भकम्
पुण्याहं वाचयेत्तत्र गन्धपुष्पसमन्वितम् ३१४
सप्तताळविधिं कुर्यादाचार्यश्शिष्यकैर्युतः
स्नानं कृत्वास्त्रदेवेन सर्वभक्तजनैस्सह ३१५
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
तीर्थाधिवासनं कृत्वा महातीर्थन्ततः श्रुणु ३१६
प्रातःकालं समारभ्य अवभृथस्नानमुत्तमम्
प्रातःसन्ध्यावसाने तु यागादेवाचलिं क्रमात् ३१७
ग्रामप्रदक्षिणं कृत्वा उमास्कन्देश्वरन्तथा
आस्थानमण्टपे स्थाप्य धूपदीपसमन्वितम् ३१८
चूर्णोत्सवन्ततः कुर्यान्मण्टपाग्रे विशेषतः
गोमयालेपिते शुद्धे श्वेतचूर्णैरलङ्कृते ३१९
तन्मध्ये स्थण्डिले कुर्याल्लूखलं मुसलेन तु
लूखलं ब्रह्मदेवत्यं मुसलं विष्णुदेवतम् ३२०
वस्त्रदूर्वासमायुक्तं दर्भैः पुष्पैः परिस्तरेत्
रजनीद्रो णसंयुक्तं उलूखले चूर्णमेव च ३२१
रुद्र कन्यासमायुक्तं स्नानं कृत्वा विशेषतः
त्रिपुण्ड्रभस्मसम्युक्तं श्वेतवस्त्रैरलङ्कृतम् ३२२
धूपदीपसमायुक्तं पुष्पं हस्ते प्रदाप्य च
लूखलन्तु नमस्कृत्य रजनीचूर्णमेव च ३२३
शङ्खघोषसमायुक्तं सर्ववाद्यसमन्वितम्
रजन्यास्थलिकां पूर्य देवसन्निधिसम्युतम् ३२४
तैलदूर्वाक्षतान्पुष्पैः कूर्चमत्रेव विन्यसेत्
मङ्गळाङ्कुरमावृत्य सुमुहूर्ते विचक्षणः ३२५
पुण्याहं वाचयेत्तत्र घृतशिरोर्पणन्तथा
मूलदेवपरीवारतैलाभ्यङ्गनकर्मणि ३२६
उमास्कन्देश्वरं चैव अस्त्र भेर्योस्तु तैलकम्
दूर्वाङ्कुराक्षतैर्मूर्ध्नि अर्चयित्वा विशेषतः ३२७
धूपदीपसमायुक्तं आरात्रिकसमन्वितम्
भस्मदत्त्वा विशेषेण ताम्बूलेन समन्वितम् ३२८
दर्पणञ्चामरं चाथ व्यजनं चैव दापयेत्
ब्राह्मणान्भोजयेत्तत्र चतुर्वेदसमन्वितान् ३२९
प्रतिमामस्त्रदेवानां रजनी चूर्णकमस्त्रकम्
तैलारम्भेषु सहसा चूर्णं कृत्वा विचक्षणः ३३०
तैलवस्त्रं चूर्णपात्रमस्त्रदेवसमन्वितम्
शङ्खघोषसमायुक्तं वास्तुदेवबलिक्रमम् ३३१
प्राकारे तु प्रदक्षिणम् शीघ्रं गच्छेत्समाकुलम्
भूपतिनासमायुक्तं महाजनसमन्वितम् ३३२
गानकैर्वाद्यनृत्तैश्च गणिकाभिस्समन्वितम्
सप्तताळविधिः प्रोक्तमाचार्यश्शिष्यकेन च ३३३
अस्त्रेण सहभक्तानां सहस्नानं विधीयते
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति ३३४
मूलदेवस्य स्नपनं प्रतिमास्नपनन्तथा
यागेशं पूजयित्वा च पूर्णाहुतिमथाचरेत् ३३५
शिवकुम्भं ततोद्धृत्य आचार्यः परिचारकैः
धामप्रदक्षिणं कृत्वा शिवाग्रे मण्टपे तथा ३३६
पुण्याहं वाचयेत्तत्र अभिषेकं च कारयेत्
वागीश्वरादि देवानां पीठबाह्ये प्रदक्षिणम् ३३७
स्नपनन्तत्र कुर्वीत वस्त्रेण भोजनं कृतम्
उमास्कन्देश्वरस्यापि स्नपनन्तत्र कारयेत् ३३८
अष्टोत्तरशतं श्रेष्ठं पञ्चाशत्पञ्चविंशति
देवाग्रे स्थण्डिलं कृत्वा अष्टद्रो णैश्च शालिभिः ३३९
पुण्याहं वाचयित्वाथ स्नपनस्थापनं चरेत्
शुद्धवस्त्रपरीधानं श्वेतमालाविभूषितम् ३४०
बहुनैवेद्यसम्युक्तं ताम्बूलेन समन्वितम्
धूपदीपं समारोप्य नीराजनं विशेषतः ३४१
मौनव्रतधरास्सर्वे ग्रामप्रदक्षिणन्तथा
लाजपुष्पं गृहीत्वा तु ब्राह्मणास्वस्तिवाचकैः ३४२
आलयन्तु प्रविश्याथ आचार्यं पूजयेत्ततः
यागोपकरणसम्भारवस्त्रहेमाङ्गुळीयकैः ३४३
ब्राह्मणान्भोजयेत्तत्र भक्तैश्च परिचारकैः
ध्वजदेवं समभ्यर्च्य मुद्गान्नन्तु निवेदयेत् ३४४
अवरोहणन्ततः कुर्याच्छङ्खकाहळमद्दळैः
भेरी घोषसमायुक्तं सर्वालङ्कारमेव च ३४५
प्राकारे च प्रदक्षिण्यं चण्डयागं समाचरेत्
चण्डेशस्थापनं युक्तं वस्त्राभरणसम्युतम् ३४६
चण्डाग्रे होमसंयुक्तं अग्निकार्यमथाचरेत्
होमान्ते तु निवेद्यं स्यात्ताम्बूलेन समन्वितम् ३४७
धूपदीपसमायुक्तमर्चयित्वा विशेषतः
अन्नलिङ्गसमायुक्तं बलिपात्रसमन्वितम् ३४८
अस्त्रदेवं समादाय मौनं बलिमथाचरेत्
मौनव्रतधरास्सर्वे सन्धिदेवान्विसर्जयेत् ३४९
दीपहीनन्ततः कुर्यात्प्रहरे चैव घोषयेत्
ग्रामप्रदक्षिणं कुर्यान्महापीठे बलिं क्षिपेत् ३५०
पादप्रक्षाळनं कृत्वा प्रविशेदालयन्तथा
गौरीयागमहं वक्ष्ये पूर्वरात्राधिवासयेत् ३५१
साये चोत्सवमारभ्य उमास्कन्देश्वरन्तथा
ग्रामप्रदक्षिणं कृत्वा भक्तोत्सवन्ततश्चरेत् ३५२
सर्वलोकहितं पुण्यं सर्वराष्ट्रविवर्धनम्
सर्वदारिद्र य्शमनं राज्ञोविजयवर्धनम् ३५३
भोगमोक्षप्रदञ्चैव उत्सवं कथितं क्रमात् ३५४
इति योगजे क्रियापादे शिवोत्सवविधिर्नाम नवमः पटलः